भाषा

ENहिગુ
ग्रंथ पाठ

तर्कसंग्रह · श्लोक 22-41

22

त्वगिन्द्रियमात्रग्राह्यो गुणो सपर्शः । स च त्रिविधः शितोष्णानुष्णाशीतभेदात् । पृथिव्यप्तेजोवायुवृत्तिः । तत्र शीतो जले । उष्णस् तेजसि । अनुष्णाशीतः पृथिवीवाय्वोः ॥

23

रूपादिचतुष्टयं पृथिव्यां पाकजम् अनित्यं च । अन्यत्रापाकजं नित्यम् अन्त्यं च । नित्यगतं नित्यम् । अनित्यगतम् अनित्यम् ॥

24

एकत्वादिव्यवहारहेतुः संख्या । नवद्रव्यवृत्तिर् एकत्वादिपरार्धपर्यन्ता । एकत्वं नित्यम् अनित्यं च । नित्यगतं नित्यम् अनित्यगतम् अनित्यम् । द्वित्वादिकं तु सर्वत्रानित्यम् एव ॥

25

मानव्यवहारकारणं परिमाणं । नवद्रव्यवृत्ति । तच् चतुर्विधम् । अणु महद् दीर्घं ह्रस्वं चेति ॥

26

पृथग्व्यवहारकारणं पृथग्त्वं । सर्वद्रव्यवृत्ति ॥

27

संयुक्तव्यवहारहेतुः संयोगः । सर्वद्रव्यवृत्तिः ॥

28

संयोगनाशको गुणो विभागः । सर्वद्रव्यवृत्तिः ॥

29

परापरव्यवहारासाधारणकारणे परत्वापरत्वे । पृथिव्यादिचतुष्टयमनोवृत्तीति । ते द्विविधे दिक्कृते कालकृते च । दूरस्थे दिक्कृतं परत्वम् । समीपस्थे दिक्कृतम् अपरत्वम् । ज्येष्ठे कालकृथं परत्वम् । कनिष्ठे कालकृतम् अपरत्वम् ॥

30

आद्यपतनासमवायिकारणं गुरुत्वं । पृथिवीजलवृत्ति ॥

31

आद्यस्यन्दनासमवायिकारणं द्रवत्वं पृथिव्यप्तेजोवृत्ति । तद् द्विविधं सांसिद्धिकं नैमित्तिकं च । सांसिद्धिकं जले नैमित्तिकं पृथिवीतेजसोः । पृथिव्यां घृतादावग्निसंयोगजन्यं दरवत्वम् । तेजसि सुवर्णादौ ॥

32

चूर्णादिपिण्डीभावहेतुर् गुणः स्नेहः । जलमात्रवृत्तिः ॥

33

श्रोत्रग्राह्यो गुणः शब्दः । आकाशमात्रवृत्तिः । स द्विविधो द्वन्यात्मको वर्णात्मकश् चेति । द्वन्यात्मको भेर्यादौ । वर्णात्मकः संस्कृतभाषादिरूपः ॥

34

सर्वव्यवहारहेतुर् बुद्धिर् ज्ञानम् । सा द्विविधा स्मृतिरनुभवश् च । संस्कारमात्रजन्यं ज्ञानं स्मृतिः । तद्भिन्नं ज्ञानम् अनुभवः ॥

35

स द्विविधो यथार्थो ऽयथार्थश् च । तद्वति तत्प्रकारको ऽनुभवो यथार्थः । यथा रजत इदं रजतम् इति ज्ञानम् । स एव प्रमेत्य् उच्यते । तदभाववति तत्प्रकारको ऽनुभवो ऽयथार्थः । यथा शुक्ताव् इदं रजतम् इति ज्ञानम् ॥

36

यथार्थानुभवश् चतुर्विधः प्रत्यक्षानुमित्युपमितिशब्दभेदात् । तत्करणम् अपि चतुर्विधं प्रत्यक्षानुमानोपमानशब्दभेदात् ॥

37

असाधारणम् कारणं करणम् ।

38

कार्यनियतपूर्ववृत्ति कारणम् ।

39

कार्यं प्रागभावप्रतियोगि ।

40

कारणं त्रिविधं समवाय्यसमवायिनिमित्तभेदात् । यत् समवेतं कार्यम् उत्पद्यते तत् समवायिकारणम् । यथा तन्तवः पटस्य पटश् च खगतरूपादेः । कार्येण कारणेन वा सहैकस्मिन्न् अर्थे समवेतत्वे सति यत् कारणं तद् असमवायिकारणम् । यथा तन्तुसंयोगः पटस्य तन्तुरूपं पटरूपस्य । तदुभयभिन्नं कारणं निमित्तकारणम् । यथा तुरीवेमादिकं पटस्य ।

41

तद् एतत्त्रिविधकारणमध्ये यद् असाधारणं कारणं तद् एव करणम् ॥

मूल पाठ: Tarkasaṃgraha · Data entry Takuya Ono · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc