तर्कसंग्रह · श्लोक 62-81
वाक्यं द्विविधम् । वैदिकं लौकिकं च । वैदिकम् ईश्वरोक्तत्वात् सर्वम् एव प्रमाणम् । लौकिकं त्व् आप्तोक्तं प्रमाणम् । अन्यद् अप्रमाणम् ॥
वाक्यार्थज्ञानं शब्दज्ञानम् । तत्करणं शब्दः ॥
अयथार्थानुभवस् त्रिविधः संशयविपर्ययतर्कभेदात् । एकस्मिन् धर्मिनि विरुद्धनानाधर्मवैशिष्ट्यावगाहि ज्ञानं संशयः । यथा स्थाणुर् वा पुर्षो वेति । मिथ्याज्ञानं विपर्ययः । यथा शुक्ताव् इदं रजतम् इति । व्याप्यारोपेण व्यापकारोपस् तर्कः यथा यदि वह्निर् न स्यात् तर्हि धूमोऽपि न स्याद् इति ॥
स्मृतिर् अपि द्विविधा । यथार्थायथार्था च प्रमाजन्या यथार्था । अप्रमाजन्यायथार्था ॥
सर्वेशाम् अनुकूलतया वेदनीयं सुखम् ॥
सर्वेशां प्रतिकूलतया वेदनीयं दुःखम् ॥
इच्छा कामः ॥
क्रोधो द्वेषः ॥
कृतिः प्रयत्नः ॥
विहितकर्मजन्यो धर्मः ॥
निषिद्धकर्मजन्यस् त्व् अधर्मः ॥
बुद्ध्यादयोऽष्टाव् आत्ममात्रविशेषगुणाः ॥
बुद्धीच्छाप्रयत्ना द्विविधाः । नित्या अनित्याश् च । नित्या ईश्वरस्य । अनित्या जीवस्य ॥
संस्कारस् त्रिविधः । वेगो भावना स्थितिस्थापकश् चेति । वेगः पृथिव्यादिचतुष्टयमनोवृत्तिः । अनुभवजन्या स्मृतिहेतुर् भावनात्ममात्रवृत्तिः । अन्यथा कृतस्य पुनस् तदवस्थापादकः स्थितिस्थापकः कटादिपृथिवीवृत्तिः ॥
चलनात्मकं कर्म । ऊर्ध्वदेशसंयोगहेतुर् उत्क्षेपणम् । अधोदेशसंयोगहेतुर् अपक्षेपणम् । शरीरसंनिकृष्टसंयोगहेतुर् आकुञ्चनम् । विप्रकृष्टसंयोगहेतुः प्रसारणम् । अन्यत् सर्वं गमनम् । पृथिव्यादिचतुष्टयमनोमात्रवृत्ति ॥
नित्यम् एकम् अनेकानुगतं सामान्यम् । द्रव्यगुणकर्मवृत्ति । तद् द्विविधं परापरभेदात् । परं सत्ता । अपरं द्रव्यत्वादिः ॥
नित्यद्रव्यवृत्तयो व्यावर्तका विशेषाः ॥
नित्यसंबन्धः समवायः । अयुतसिद्धवृत्तिः । ययोर् द्वयोर् मध्य एकम् अविनश्यदपराश्रितम् एवावतिष्टते ताव् अयुतसिद्दौ । यथावयवावयविनौ गुणगुणिनौ क्रियाक्रियावन्तौ जातिव्यक्ती विशेषनित्यद्रव्ये चेति ॥
अनादिः सान्तः प्रागभावः । उत्पत्तेः पूर्वं कार्यस्य । सादिर् अनन्तः प्रध्वंसः । उत्पत्त्यनन्तरं कार्यस्य । त्रैकालिकसंसर्गावच्छिन्नप्रतियोगिताकोऽत्यन्ताभावः । यथा भूतले घटो नास्तीति । तादात्म्यसंबन्धावच्छिन्नप्रतियोगिताकोऽन्योन्याभावः यथा घटः पटो न भवतीति ॥
सर्वेषां पदार्थानां यथायथम् उक्तेष्व् अन्तर्भावात् सप्तैव पदार्था इति सिद्धम् ॥
मूल पाठ: Tarkasaṃgraha · Data entry Takuya Ono · GRETIL (Göttingen) · CC BY-NC-SA 4.0