तर्कसंग्रह (टीका सहित) · भाग 81100
तद्वारणरूपं प्रयोजनं न सम्भवति। असम्भवग्रस्तस्य एकशफवत्त्वादेः
लक्ष्यतावच्छेदकगोत्वशून्याश्ववृत्तितया
लक्ष्यतावच्छेदकव्याप्यत्वस्याभावात् अतिव्याप्त्यप्रसक्तेरिति चेत् -
अत्राहुः। अत्रासम्भवग्रस्तपदं गगनरूपस्यासम्भवग्रस्तस्य तात्पर्येण
बोधकम्। गोः गगनं लक्षणमुक्तं चेत् तदसम्भवि। गगनस्य
अवृत्तिपदार्थतया कुत्रापि गवि असत्त्वात्। तथा चासम्भवग्रस्ते गगने
अवृत्तिपदार्थत्वादेव
लक्ष्यतावच्छेदकगोत्वशून्यमहिषाद्यवृत्तित्वमप्यस्तीति
लक्ष्यतावच्छेदकव्याप्यत्वमात्रोक्तौ तत्रातिव्याप्तिः स्यादिति
तद्वारणाय लक्ष्यतावच्छेदकव्यापकत्वे सतीत्युक्तमिति। अतिव्याप्तस्य
वारणाय विशेष्यमिति। लक्ष्यतावच्छेदकव्याप्यत्वरूपविशेष्यदलाभावे
लक्ष्यतावच्छेदकव्यापकत्वं लक्षणलक्षणं स्यात्। तथा सति
अतिव्याप्तिदुष्टस्य
शृङ्गित्वस्य गोत्वव्यापकत्वमस्तीति तत्रातिव्याप्तिः स्यात्।
तद्वारणाय लक्ष्यतावच्छेदकव्याप्यत्वोपादानम्। शृङ्गित्वस्य
गोत्वशून्यमहिषादिव्रृत्तितया लक्ष्यतावच्छेदकव्याप्यत्वं नास्तीति
नातिव्याप्तिरिति भावः।
अत्रेदं बोध्यम् --
लक्ष्यतावच्छेदकव्यापकत्वं नाम
लक्ष्यतावच्छेदकनिष्ठाधेयतानिरूपिताधिकरणतावन्निष्ठात्यन्ताभावाप्रत् इयोगित्वम्।
तत्राधेयतायां लक्ष्यतावच्छेदकतावच्छेदकसम्बन्धावच्छिन्नत्वं
निवेश्यम्। अन्यथा गोत्वस्य कालिकसम्बन्धेन अधिकरणे महिषादौ
वर्तमानस्य सास्नादिमत्त्वाभावस्य प्रतियोग्येव सास्नादिमत्त्वमिति
लक्षणे सास्नादिमत्त्वादौ असम्भवापत्तेः। एवं प्रतियोगितायां
लक्षणतावच्छेदकसम्बन्धावच्छिन्नत्वं निवेशनीयम्। अन्यथा समवायेन
गोत्ववति गवि यः संयोगसम्बन्धावच्छिन्नसास्नादिमत्त्वाभावः
तत्प्रतियोगित्वस्यैव सास्नादिमत्त्वे सत्त्वेन असंभवापत्तेः। एवं
लक्ष्यतावच्छेदकव्याप्यत्वं न लक्ष्यतावच्छेदकाभाववदवृत्तित्वम्,
पदार्थस्य अभिधेयत्वं लक्षणमित्यादौ
लक्ष्यतावच्छेदकपदार्थत्वाभाववतो ऽप्रसिद्ध्या अभिधेयत्वादिरूपे
लक्षणे अव्याप्त्यापत्तेः। किं तु स्वव्यापकतत्कत्वम्। स्वं - लक्षणम्,
तत् - लक्ष्यतावच्छेदकम्। लक्ष्यतावच्छेदकस्य पदार्थत्वस्य
लक्षणीभूताभिधेयत्वव्यापकत्वमस्तीति न पूर्वोक्तदोषः।
अनयोर्व्यापकत्वव्याप्यत्वयोर्द्विधा निवेशे गौरवात् सकृन्निवेश्य
स्वव्यापकलक्ष्यतावच्छेदकव्यापकत्वं लक्ष्यतावच्छेदकसमनियतत्वमिति
परिष्कारो युक्तः। स्वव्यापकत्वं च
स्वनिष्ठाधेयतानिरूपिताधिकरणतावन्निष्ठात्यन्ताभावाप्रतियोगित्वम्।
तत्राधेयतायां लक्षणतावच्छेदकसम्बन्धावच्छिन्नत्वं निवेशनीयम्।
अन्यथा सास्नादिमत्त्वस्य कालिकसम्बन्धेनाधिकरणे महिषादौ वर्तते
यो ऽत्यन्ताभावः गोत्वाभावः तत्प्रतियोगित्वस्यैव गोत्वे सत्त्वेन
असम्भवापत्तेः। एवं प्रतियोगितायां
लक्ष्यतावच्छेदकतावच्छेदकसम्बन्धावच्छिन्नत्वं निवेशनीयम्। अन्यथा
समवायेन सास्नादिमति गवि यः संयोगसम्बन्धावच्छिन्नगोत्वाभावः
तत्प्रतियोगित्वस्यैव गोत्वे सत्त्वेन पूर्वोक्तदोषापत्तेः।
1तथा च
लक्षणतावच्छेदकसम्बन्धावच्छिन्नस्व (लक्षण)
निष्ठाधेयतानिरूपिताधिकरणतावन्निष्ठात्यन्ताभावनिरूपितलक्ष्यतावच्छेदकतावच्छेदकसम्बन्धावच्छिन्नप्रतियोगित्वा-
भाववल्लक्ष्यतावच्छेदकनिष्ठलक्ष्यतावच्छेदकतावच्छेदकसम्बन्धावच्छिन्नाधेयतानिरूपिताधिकरणतावन्निष्ठात्यन्ता-
भावनिरूपितलक्षणतावच्छेदकसम्बन्धावच्छिन्नप्रतियोगित्वाभावः
लक्ष्यतावच्छेदकसमनियतत्वमिति फलति। एवं च
स्वव्यापकतत्कत्वरूपलक्ष्यतावच्छेदकव्याप्यत्वं
गगनरूपे ऽसंभवग्रस्ते ऽपि न भवति गगनाधिकरणस्यैवाप्रसिद्धेः। तथा
च
अव्याप्त्यासम्भवग्रस्तयोर्वारणायेत्यत्र असम्भवग्रस्तपदं
तच्छून्यावृत्तित्वरूपव्याप्यत्वनिवेशमभिप्रेत्येत्यवधेयम्।
1. तथा चेत्यादि।
गोलक्षणे सास्नादिमत्त्वे एवं समन्वयः - लक्षणतावच्छेदकसम्बन्धः
समवायः तदवच्छिन्ना या सास्नादिमत्त्वनिष्ठाधेयता
तन्निरूपिताधिकरणतावती गौः तन्निष्ठो यो ऽभावः न समवायेन
गोत्वाभावः अपि तु समवायेन
घटत्वाभावः
तन्निरूपितसमवायसम्बन्धावच्छिन्नप्रतियोगित्वं घटे,
तादृशप्रतियोगित्वाभाववत् गोत्वरूपं लक्ष्यतावच्छेदकं तन्निष्ठा या
समवायसम्बन्धावच्छिन्ना आधेयता तिन्नरूपिताधिकरणतावती गौः
तन्निष्ठात्यन्ताभावः न समवायेन सास्नाद्यभावः अपि तु घटत्वाभावः
तन्निरूपितसमवायावच्छिन्नप्रतियोगित्वं घटत्वे
तादृशप्रतियोगित्वाभावः सास्नादिमत्वे ऽस्तीति।
अधिकमन्यतो ऽवसेयमिति। सर्वमिदं मनसिकृत्यैव
प्रकाशिकायाम् ऽधर्मपदं लक्षणताघटकसम्बन्धेन
व्यापकत्वादितात्पर्यग्राहकम्ऽ इत्युक्तम्।
दूषणत्रयरहितधर्म
एवासाधारणधर्म इत्युच्यत इति कथनात् अन्यतमदोषवान् धर्मः
असाधारणो न भवतीति लभ्यते। तेन
अतिव्याप्त्यादिदोषाणामसाधारण्याभावप्रयोजकत्वं लभ्यते।
तदेवोपपादयति-अत्रेदं बोध्यमित्यादिना।
एतद्दोषाः-अव्याप्त्यतिव्याप्त्यसम्भवाः। असाधारणत्वस्य
विघटकाः-असाधारणत्वाभावप्रयोजकाः। अतिव्याप्तौ सत्यामिति शेषः।
इतरयोश्च सत्योरिति शेषः। तथा च अतिव्याप्तिरूपदोषे सति
लक्ष्यतावच्छेदकव्याप्यत्वं न भवति, अव्याप्तिरूपदोषे
असम्भवरूपदोषेवासति लक्ष्यतावच्छेदकव्यापकत्वं न भवति इति
रीत्यादोषाणामसाधारण्यविघटकत्वमिति भावः।
दोषास्तावत् लक्षणं दूषयन्ति। कथमिति चेत् - आह - एतेषां
दूषकताबीजं त्विति। अयमत्राशयः लक्षणं तावत् लिङ्गविधया लक्ष्ये
इतरभेदविधेयकानुमितिं जनयति। यथा गोः इतरभिन्ना
सास्नादिमत्त्वादिति। लिङ्गस्य व्याप्तिः पक्षधर्मता चेति
रूपद्वयमपेक्षितम्। कस्मिंश्चित् लक्षणे अतिव्याप्तिरूपो दोषो ऽस्ति
चेत् तेन लक्षणेन इतरभेदः नानुमातुं शक्यतेद्व
व्यभिचारदोषेण व्याप्तेर्भङ्गात्। तथा हि - गौः इतरभिन्नं
शृङ्गित्वात् इत्यनुमानं प्रयोक्तव्यम्। शृङ्गित्वमतिव्याप्तं
गोभिन्नवृत्ति इति ज्ञानदशायां शृङ्गित्वं
1गवेतरभेदरूपसाध्याभाववद्वृत्ति इति व्यभिचारज्ञानमावश्यकमिति
तेन गवेतरभेदाभाववदवृत्ति शृङ्गित्वं इति व्याप्तिज्ञानं
प्रतिबध्यते, तेनानुमितिप्रतिबन्धः तथा च
2व्याप्तिविरोधिव्यभिचारसम्पादकतया अतिव्याप्तिर्लक्षणं
1. गवेतरेत्यादि।
गवेतरभेदरूपं यत् साध्यं तदभाववद्वृत्तीत्यर्थः।
गवेतरभेदाभावश्च गवेतरत्वरूपः। तथा च
गवेतरभेदाभावववद्वृत्ति इत्यस्य गवेतरत्ववद्वृत्ति
गोभिन्नवृत्तीत्येवार्थः। तथा चातिव्याप्तत्वज्ञानं
व्यभिचारज्ञानरूपमिति
भावः।
2.
व्याप्तिविरोधिव्यभिचारेति। व्याप्तिज्ञानप्रतिबन्धकज्ञानविषयो यो
व्याभिचारः तत्प्रयोजकतयेत्यर्थः
दूषयति।
व्यभिचाराख्यदोषयुक्तं करोतीति यावत्। एवं लक्षणे
क्वचिल्लक्ष्यावृत्तित्वरूपाव्याप्तिसत्त्वे गौः इतरभिन्नं
कपिलत्वादित्यनुमाने हेतोः पक्षैकदेशावृत्तित्वरूपभागासिद्धिः
दोषः,
सर्वलक्ष्यावृत्तित्वरूपासंभवसत्त्वेकृत्स्नपक्षावृत्तित्वरूपस्वरूपास् इद्धिर्देषः।
ताभ्यां च हेतोः पक्षधर्मता भज्यते। तथा च
पक्षधर्मताज्ञानप्रतिबन्धकज्ञानविषयभागासिद्धिस्वरूपासिद्धिसम्पादकतया
अव्याप्त्यसम्भवयोर्लक्षणूदषकत्वमिति।
दीपिकायाम्
व्यावर्तकस्यैव लक्षणत्वे इत्यदि। यत् लक्ष्ये
इतरभेदमनुमापयति तत् व्यावर्तकम्, तदेव लक्षणमिति
केचित्। यत् न व्यावर्तकम् अपि तु शब्दप्रयोगरूपव्यवहारस्य
निमित्तं तदपि लक्षणमित्यन्ते। तत्र व्यावर्तकमेव लक्षणमिति मते
लक्ष्यतावच्छेदकसमनियतत्वरूपस्य पूर्वोक्तस्य लक्षणलक्षणस्य
व्यावर्तकं लक्ष्यं भवति। व्यावर्तकभिन्ना व्यावृत्तिः अभिधेयत्वादिकं
चालक्ष्यं भवति। तत्रापि लक्ष्यतावच्छेदकसमनियतत्वसत्त्वात्
लक्षणलक्षणस्यातिव्याप्तिर्देषः। तद्वारणाय लक्षणलक्षणे
व्यावृत्तिभिन्नत्वं अभिधेयत्वादिभिन्नत्वं च विशेषणं देयम्। कथं
व्यावृत्तौ अभिधेयत्वादौ च लक्ष्यतावच्छेदकसमनियतत्वमस्तीति
चेत् - श्रू यताम् - व्यावृत्तिर्नाम इतरभेदः, प्रकृते
गवेतरभेदः। सः लक्ष्यतावच्छेदकगोत्वव्यापकः गोत्ववतीषु
सर्वासु गोषु गवेतरापेक्षया भेदस्य सत्त्वात्। एवं
लक्ष्यतावच्छेदकव्याप्यश्च; गोत्वशून्येषु महिषादिषु गवेतरेषु
गवेतरभेदस्यावृत्तेः। एवं अभिधेयत्वादिकं
लक्ष्यतावच्छेदकपदार्थत्वव्यापकम्, पदार्थत्ववत्सु सर्वेषु पदार्थेषु
अभिधेयत्वादेः सत्त्वात्। एवं पदार्थत्वव्याप्यं च। यद्यपि
तच्छून्यावृत्तित्वरूपं पदार्थत्वव्याप्यत्वं न सम्भवति,
पदार्थत्वशून्यस्याप्रसिद्धेः। तथापि स्वव्यापकतत्कत्वरूपं व्याप्यत्वं
सम्भवति। स्वम् - अभिधेयत्वम्, तद्व्यापकं - पदार्थत्वं
तत्कत्वस्याभिधेयत्वे सद्भावात्। एवं च यदि व्यावर्तकमेव
लक्षणलक्षणलक्ष्यं स्यात् तदा अलक्ष्येषु व्यावृत्तावभिधेयत्वादिषु
च
लक्ष्यतावच्छेदकसमनियतत्वसत्त्वादतिव्याप्तिरिति तद्वारणाय
तत्तद्भिन्नत्वं लक्षणे निवेशनीयमिति दीपिकाग्रन्थस्य भावः।
व्यावर्तकस्येत्यस्य सामान्यतः इतरभेदज्ञानजनकस्येत्यर्थो यदि
स्यात् तदा ज्ञानपदेन प्रत्यक्षस्य वा शाब्दबोधस्य वा विवक्षायां
तज्जनकत्वं विषयादिविधया व्यावृत्तेरप्यस्तीति तस्याः अलक्ष्यत्वं न
स्यादिति पर्यालोच्य प्रकाशिकायाम्
इतरभेदानमितिजनकस्येत्यर्थ उक्तः। सिद्धसाधनदोषेण व्यावृत्तेः
इतरभेदानुमितिजनकत्वं नास्तीति पश्चादुपपादयिष्यति।
ननु
व्यावर्तकस्येत्यस्य इतरभेदानुमितिजनकस्येत्यर्थो न सङ्च्छेते,
लिङ्गज्ञानमेवानुमितिजनकम्, न तु लिङ्गम् इति मते
लक्षणरूपस्य हेतोः अनमितिजनकत्वाभावात्। न च व्यावर्तकस्येत्यस्य
इतरभेदविधेयकानुमितिजनकज्ञानविषयस्येत्यर्थः, तथा च
नोक्तदोष इति वाच्यम्। अनुमितिजनके 1समूहालम्बनपरामर्शे
घटादीनामपि विषयतया तेषामपि व्यावर्तङ्कत्वापत्तेः। न
चेतरभेदविधेयकानुमितिजनकतावच्छेदकविषयताश्रयस्येत्यर्थः,
गवेतरभेदव्याप्यसास्नादिमान् घटश्चेति समूहालम्बनपरामर्शे
घटादेः विषयत्वे ऽपि घटादिनिष्ठविषयताया न
2जनकतावच्छेदकत्वमिति वाच्यम्।
इतरभेदनिष्ठविषयतानिरूपितव्याप्तिनिष्ठविषयतानिरूपितसास्नादिहेतुन् इष्ठविषयतानिरूपितगवादिपक्षनिष्ठविषय-
ताशालिज्ञानत्वेन
परामर्शस्य जनकतया इतरभेदनिष्ठविषयताया अपि
जनकतावच्छेदकतया तदाश्रयस्येतरभेदस्यापि व्यावर्तकत्वापत्तेः।
एवं पक्षादीनामपि व्यावर्तकत्वापत्तेश्च। अतो निष्कृष्य व्याचष्टे -
इतरभेदविधेयकेति। विषयताविशेषपदेन हेतुनिष्ठविषयतैव
गृह्यते, तदाश्रयत्वं च साध्यपक्षादेर्नास्तीति न तेषां
व्यावर्तकत्वापत्तिरिति हृदयम्।
इतरभेदविधेयकानुमितिजनकतावच्छेदिका
1. गौः
गवेतरभेदव्याप्यवान् घटश्चेत्याकारकपरामर्शे इत्यर्थः।
2. न
जनकतावच्छेदकत्वमिति। गौरितरभिन्नेत्याकारकारनुमिति प्रति
गवेतरभेदनिष्ठप्रकारतानिरूपितव्याप्तिनिष्ठ-
प्रकारतानिरूपितसास्नादिनिष्ठप्रकारतानिरूपितगोनिष्ठविशेष्यताशालिज्ञानत्वेनैव
कारणतया घटनिष्ठविषयताया कारणतावच्छेदकाघटकतया न
कारणतावच्छेदकत्वमिति भावः।
या
परामर्शीयपक्षनिष्ठविषयतानिरूपितत्वावच्छिन्ना
व्याप्तिनिष्ठविषयतानिरूपिता विषयता तदाश्रयः व्यावर्तकपदेन
विवक्षित इति तु
तत्त्वम्। व्यावर्तकस्यैव गवादिलक्षणत्वे ऽपि प्रकृतलक्षणलक्षणे
नानुपपत्तिरित्यतो व्याचष्टे - उक्तलक्षणलक्षणलक्ष्यत्व इति। उक्तं यत्
लक्षणस्य लक्षणं लक्ष्यतावच्छेदकसमनियतत्वरूपं तन्निरूपितलक्ष्यत्वं
इत्यर्थः। अतियाप्तिमुपपादयति - गवादीतरभेद इति।
ननु लक्षणं हि
व्यावर्तकम् व्यावहारिकम् चेति द्विविधम्। तत्र व्यावर्तकलक्षणमेव
लक्ष्यमिति पक्षे अलक्ष्ये व्यावहारिके ऽतिव्याप्तिः, तद्वारणाय
व्यावहारिकभिन्नत्वं निवेश्यमित्येवोच्यताम्। व्यावहारिकपदेनैव
व्यावृत्तेरभिधेयत्वादेश्च सङ्ग्रहात् तयोः पृथक् पृथक्
अभिधानस्य व्यर्थत्वात् इत्याशङ्कते - यद्यपीति। वक्ष्यमाणतयेति।
ऽव्यावृत्तेरपि व्यवहारसाधनतयाऽ इति ग्रन्थेनेति शेषः।
संग्रहसंभवादिति। एकशब्दबोध्यत्वसंभवादित्यर्थः। पृथगभिधानम्
- भिन्नभिन्नशब्दैर्निर्देशः। समाधत्ते - तथापीति। अयमत्राशयः -
लक्ष्येतरभेदरूपायाः व्यावृत्तेः
लक्ष्योद्देश्यकेतरभेदविधेयकानुमितिजनकत्वं साध्यसंशयः पक्षता
इति प्राचीनमते न संभवति। तथा हि - इतरभेदः
इतरभेदानुमितिजनक इत्युक्ते साध्यहेत्वोरैक्यं भवति, ऽगौः
इतरभिन्ना इतरभेदात्ऽ इत्येवानुमानस्य प्रयोक्तव्यत्वात्।
तत्र च ऽगौः इतरभिन्नऽ इत्याकारकानुमितिं प्रति ऽगौः
इतरभेदव्याप्येतरभेदवतीऽ इत्याकारकपरामर्शः कारणम्। स
च परामर्शः गवि इतरभेदमवगाहमानः
पक्षविशेष्यकसाध्यनिश्चयरूपो भवति। तत्काले च गौः
इतरभेदवती वा न वेति साध्यसंशयरूपां पक्षता न
भवितुमर्हति, साध्यसंशयं प्रति साध्यनिश्चयस्य
प्रतिबन्धकत्वात्।
पक्षताया अभावे चानुमितिर्न भवितुमर्हति। इत्थं च
इतरभेदरूपव्यावृत्तेः
इतरभेदविधेयकानुमितिजनकत्वरूपव्यावर्तकत्वाभावात्
अलक्ष्यतया तत्र पूर्वोक्तरीत्या लक्ष्यतावच्छेदकसमनियतत्वरूपस्य
लक्षणलक्षणस्य सत्त्वादतिव्याप्तिः इति।
सिषाधयिषाविरहविशिष्टसिद्ध्यभावः पक्षता इति नवीनमते तु
साध्यनिश्चयरूपसिद्धिसत्त्वे ऽपि ऽपक्षे साध्यमनुमिनुयाम्ऽ
इत्याकारकसिषाधयिषासत्त्वे तद्विरहरूपविशेषणाभावात्
विशिष्टाभावरूपपक्षतासत्त्वात् अनुमितिर्भवत्येव। इत्थं च ऽगवि
इतरभेदं अनुमिनुयाम्ऽ इतीच्छाबलात् ऽगौः
इतरभेदव्याप्येतरभेदवतीऽ इति
परामर्शात्मकसाध्यनिश्चयसत्त्वे ऽपि ऽगौरितरभिन्नऽ
इत्यनुमितेरुदयेन इतरभेदानुमितिजनकत्वरूपव्यावर्तकत्वं
इतरभेदरूपव्यावृत्तेरस्तीति तस्याः लक्ष्यतया लक्ष्ये
लक्षणसत्त्वस्येष्टतया नातिव्याप्तिः इत्यमुं
व्यावृत्तावाभिधेयत्वापेक्षया विद्यमानं विशेषं सूचयितुं
ऽव्यावहारिके ऽतिव्याप्तिःऽ इत्यनुक्त्वा व्यावृत्तौ अभिधेयत्वादौ
चातिव्याप्तिःऽ इत्युक्तं दीपिकायामिति।
ननु किमिदमित्यादि।
अयमत्र प्रघट्टकार्थः - व्यावर्तङ्कस्यैव लक्षणस्य
लक्ष्यतावच्छेदकसमनियतत्वं लक्षणमिति पूर्वमुक्तत्वात्
व्यावर्तकत्वं लक्षणलक्षणस्य लक्ष्यतावच्छेदकमिति लभ्यते। तत्र किं
नाम व्यावर्तकत्वम्? न तावत् भेदत्वेन सामान्यरूपेण
भेदविधेयकानुमितिजनकत्वम्। व्यावृत्त्यभिधेयत्वादेरपि
भेदातुमितिजनकत्वेन व्यावर्तकत्वेन लक्ष्यत्वापत्त्या
तत्रातिव्याप्तिकथनासङ्गतेः। गौः गोघटोभयभिन्ना
गवेतरभेदात्, पदार्थः घटपटोभयभिन्नः अभिधेयत्वात् इत्येवं
भेदत्वाक्रान्तयत्किञ्चिदुभयभेदविधेयकानुमितिजनकत्वस्य
व्यावृत्त्यभिधेयत्वादावपि सत्त्वात्। किं च सर्वेषामपि 1व्यतिरेकिणां
अत्यन्ताभावप्रतियोगिनां धर्माणां
यत्किचिद्भेदानुमापकत्वात् अव्याप्तिग्रस्तानां
कपिलत्वादिधर्माणामपि कपिलगौः श्वेतगोभिन्ना कपिलत्वात्
इत्येव भेदविधेयकानुमितिजनकत्वेन व्यावर्तकतया लक्ष्यत्वेन
2तत्रातिव्याप्त्यप्रसक्त्या तद्वारकस्य
1. व्यतिरेकिणामिति।
अयं पटभिन्नः घटत्वादित्यादिरीत्या घटत्वादीनां
भेदानुमापकत्वात् इति भावः। केवलान्वयिनां धर्माणां तु
यदपेक्षया भेदः साधयितुमिष्यते तत्रापि सत्त्वेन भेदानुमापकत्वं
नास्तीति वक्तुं शक्येतापीत्याशयेन व्यतिरेकिणामित्युक्तम्। तथा च
कपिलत्वादयो ऽपि व्यतिरेकिण इति भेदानुमापकाः
भवितुमर्हन्तीति भावः।
2.
अतिव्याप्त्यप्रसक्त्येति। अलक्ष्ये लक्षणसत्त्वं ह्यतिव्याप्तिः, न तु लक्ष्ये
इति भावः।
समनैयत्यघटकव्यापकत्वविशेषणस्य, अतिव्याप्तस्य
शृङ्गित्वादेः ऽगौः घटभिन्ना शृङ्गित्वात्ऽ इत्येवं
यत्किञ्चिद्भेदानुमितिजनकत्वेन लक्ष्यतया तत्रातिव्याप्त्यप्रसक्त्या
तद्वारकस्य व्याप्यत्वविशेषणस्य च व्यर्थत्वप्रसङ्गात्।
न च
तत्तल्लक्षणलक्ष्यतावच्छेदका ये ये धर्माः
तत्तद्धर्मावच्छिन्नेतरभेदत्वेन विशिष्य भेदानुपादाय
तद्विधेयकलक्ष्योद्देश्यकानुमितिजनकत्वमेव व्यावर्तकत्वमिह
विवक्षितम्। उभयभेदस्य गोत्वावच्छिन्नेतरभेदत्वाभावेन
तद्विधेयकानुमितिजनकत्वमादाय व्यावृत्त्यभिधेयत्वादेः 1न
व्यावर्तकत्वापत्तिः। कपिलत्वादेश्च
गोत्वावच्छिन्नोद्देश्यकगोत्वावच्छिन्नेतरभेदविधेयकानुमितिजनकत्वं
2न भवति, ऽगौः गवेतरभिन्ना कपिलत्वात्ऽ इत्यनुमाने
भागासिद्धेः, ऽगौः गवेतरभिन्ना शृङ्गित्वात्ऽ इत्यनुमाने
व्यभिचाराच्चेति वाव्यम्। तथा सति
गोत्वावच्छिन्नेतरभेदानुमितिजनकस्य सास्नादिमत्त्वस्य
गोत्वसमनियतत्वं लक्षणमिति विशिष्य तत्तल्लक्षणलक्षणस्य वक्तव्यतया
सास्नादिमत्त्वलक्षणस्य गोत्वसमनियतत्वस्य गवेतरभेदरूपव्यावृत्तौ
सत्त्वेन तत्रातिव्याप्तेः सम्भवे ऽपि
अभिधेयत्वादावतिव्याप्तेरसम्भवात्। अभिधेयत्वे
गोत्वशून्यमहिषादिवृत्तितया
गोत्वशून्यावृत्तित्वरूपगोत्वव्याप्यत्वाभावेन गोत्वसमनियतत्वस्य
अभावात्। तथा चाभिधेयत्वादावतिव्याप्तिकथनमसङ्गतमिति
पूर्वपक्षः।
1. न
व्यावर्तकत्वापत्तिरिति। विशिष्य निवेशे ऽगौः गवेतरभिन्ना
गवेतरभेदात्ऽऽ ऽपदार्थः पदार्थेतरभिन्नः अभिधेयत्वात्ऽ
इत्येवानुमानप्रयोगो वाच्यः। तत्राद्ये साध्यहेत्वोरैक्यात्
तादृशानुमितिर्न भवति। द्वितीये पदार्थेतरस्याप्रसिद्ध्या
तादृशानुमितिर्न सम्भवति। अतो व्यावृत्त्यभिधेयत्वादेर्न
व्यावर्तकत्वापत्तिंः। तथा चालक्ष्यतया तत्रातिव्याप्तिकथनं युज्यत
इति विशिष्य भेदानुमापकत्वं व्यावर्तकत्वमिति वक्तुराशयः।
2. न भवतीति। तथा
चालक्ष्यतया तत्रातिव्याप्तिवारणाय
समनैयत्यघटकव्यापकत्वादिदलसार्थक्यमिति भावः।
सिद्धान्तस्तु---लक्षणेन
लक्ष्ये इतरभेदः यथा अनुमीयते 1तथा
लक्ष्यतावच्छेदकमप्यनुमीयते। यथा ऽघटः पृथिवी गन्धवत्त्वात्ऽ
इति घटे गन्धवत्त्वेन लक्षणेन पृथिवीत्वरूपं
लक्ष्यतावच्छेदकमनुमीयत इति। प्रकृते सास्नादिमत्त्वं लक्ष्यम्।
गोत्वसमनियतत्वं लक्षणम्, गोत्वावच्छिन्नेतरभेदानुमापकत्वरूपं
व्यावर्तकत्वं लक्ष्यतावच्छेदकम्, तेनैव रूपेण सास्नादिमत्त्वस्य
लक्षणलक्षणलक्ष्यत्वात्। एवं च सास्नादिमत्त्वं पक्षीकृत्य तत्र
गोत्वसमनियतत्वेन
गोत्वावच्छिन्नेतरभेदानुमापकत्वं साधनीयम्
ऽसास्नादिमत्त्वं गवेतरभेदानुमापकं, गोत्वसमनियतत्वात्ऽ इति
तत्र चानुमाने ऽयत्र गोत्वसमनियतत्वं तत्र
गवेतरभेदानुमापकत्वम्ऽ इति विशिष्य व्याप्तिर्वक्तुं न शक्यते,
साध्यहेत्वोः पक्षमात्रवृत्तित्वेन पक्षातिरिक्तस्य दृष्टान्तस्य
दौर्भिक्ष्यात्। अतः यत्र यद्धर्मसमनियतत्वं यत्र
तद्धर्मावच्छिन्नेतरभेदानुमितिजनकत्वमिति सामान्यरूपेण
व्याप्तिर्वक्तव्या। पृथिवीत्वसमनियतं
पृथिवीत्वावच्छिन्नेतरभेदानुमापकं गन्धवत्त्वं दृष्टान्तः।
सामान्यमुखव्याप्तौ च प्रकृतहेतोः प्रकृतहेतुतुल्यस्य हेतोर्वा
सत्त्वे प्रकृतसाध्यस्य प्रकृतसाध्यतुल्यस्य वा साध्स्यासत्त्वे व्यभिचारो
दोषः। तथा च गेवतरभेदरूपव्यावृत्तै
गवेतरभेदानुमितिजनकत्वं नास्ति, साध्यहेत्वोरैक्येन
पूर्वोक्तरीत्या सिद्धसाधनात्। तथा च
गोत्वावच्छिन्नेतरभेदानुमापकत्वरूपं साध्यं तत्र नास्ति।
गोत्वसमनियतत्वरूपहेतुरस्तीन्ति तत्र व्यभिचारः स्यात्।
अभिधेयत्वादौ प्रकृतहेतुतुल्यः पदार्थत्वसमनियतत्वरूपो
हेतुरस्ति, प्रकृतसाध्यतुल्यं
1. तथा
लक्ष्यतावच्छेदकमप्यनुमीयत इति। प्रकाशिकायां सास्नादिमत्त्वं
पक्षीकृत्य गोत्वावच्छिन्नेतरभेदानुमापकत्वे साध्ये इति कथं
संगच्छते? लक्षणेन हीतरभेदः साध्यते न त्वितरभेदानुमापकत्वम्
इत्याशङ्कां मनसि निधायैवमुक्तम्। अथ वा एवं तात्पर्यं
वर्णनीयम् लक्षणेन लक्ष्ये लक्ष्यतावच्छेदकावच्छिन्नेतरभेदः किल
साधनीयः। प्रकृते गोत्वसमनियतत्वरूपस्य लक्षणलक्षणस्य
लक्ष्यतावच्छेदकं गोत्वावच्छिन्नतेरभेदानुमापकत्वम्।
तदवच्छिन्नेतरभेदः गोत्वसमनियतत्वेन हेतुना लक्ष्ये
सास्नादिमत्वे साधनीयः। तदवच्छिन्नेतरभेदश्च
गवेतरभेदानुमापकभिन्नभेदः गवेतरभेदानुमापकत्वे
पर्यवस्यनीत्याशयेन प्रकाशिकायां
गोत्वावच्छिन्नेतरभेदानुमापकत्वे साध्ये इत्युक्तगिति।
पदार्थत्वावच्छिन्नेतरभेदानुमापकत्वरूपं साध्यं नास्ति
पदार्थेतरस्याप्रसिद्धेरिति व्यभिचारः स्यात्। तद्वारणाय
यद्धर्मसमनियतत्व रूपहेतौ व्यावृत्तिभिन्नत्वे सति
अभिधेयत्वादिभिन्नत्वे सति इति विशेषणं दातव्यम्। तेन यत्र
व्यावृत्तिभिन्नत्वे सति अभिधेयत्वादिभिन्नत्वे सति यद्धर्मंसमनियतत्वं
तत्र तद्धर्मावच्छिन्नेतरभेदानुमितिजनकत्वमिति सामान्यमुखी
व्याप्तिः पर्यवस्यति तत्र च न को ऽपि दोष इत्यभिप्रायो
दीपिकाग्रन्थस्येति।
अथ क्रमशः
पङ्क्तीनामर्थ उच्यते। सामान्यतो भेदानुमापकत्वमिति।
प्रतियोगिविशेषनिर्देशमन्तरा भेदत्वेन भेदं निवेश्य
केवलभेदविधेयकानुमितिजनकत्वं व्यावर्तकत्वमिति वक्तुं न
शक्यत इत्यर्थः। व्यावृत्त्यभिधेयत्वादेरपीति। ऽगौः
गोघटोभयभिन्न गवेतरभेदात्ऽ, ऽपदार्थः घटपटोभयभिन्नः
अभिधेयत्वात्ऽ इत्यनुमाने अत्र विवक्षिते।
अतिव्याप्तिकथनासङ्गतेरिति। लक्ष्ये लक्षणसत्त्वस्येष्टत्वादिति भावः।
व्यतिरेकिधर्माणामिति। केवलान्वयिधर्माणामभिधेयत्वादीनां
इतरभेदानुमापकत्वं न सम्भवति, अभिधेयत्वशून्यस्य
इतरस्याभावात् ऽघटः इतरभिन्नः अभिधेयत्वात्ऽ इत्यपि
प्रयोक्तुं न शक्यते, पदार्थेतरस्यैवाप्रसिद्धेरिति भावः।
असाधारण्यघटकेति। लक्ष्यतावच्छेदकसमनियतत्वरूपासाधारण्यघटकं
यत् व्यापकत्वं व्याप्यत्वं च तयोर्वैयर्थ्यप्रसङ्गात् इत्यर्थः।
नापि विशिष्येति। विशिष्येत्यस्य भेदे ऽन्वयः। अत्र
लक्ष्यतावच्छेदकगोत्वाद्यवच्छिन्ने इत्यध्याहृत्य
गोत्वाद्यवच्छिन्नोद्देश्यकगोत्वाद्यवच्छिन्नेतरभेदविधेयकानुमितिजनकत्वमिति
व्याख्यातव्यम्। अन्यथा ऽकपिलगौः गवेतरभिन्ना कपिलत्वात्ऽ
इत्यनुमानसम्भवेन पूर्वोक्तदोषसत्त्वेनास्य पक्षान्तरत्वानुपपत्तेः।
तादृशलक्षणे निवेशनीयमिति। तादृशलक्षणरूपे हेतौ
निवेशनीयमित्यर्थः।
ननु लक्षणस्य
व्यवहारो ऽपीत्यादि। यथा लक्षणस्य इतरभेदानुमितिः प्रयोजनं
तथा शब्दप्रयोगरूपो व्यवहारो ऽपि प्रयोजनम्। कथमिति चेत्-
इत्थम्। पुरोवर्ति गोव्यक्तौ ऽइयं गौःऽ
इत्याकारकगोत्वावच्छिन्नावचकशब्दप्रयोगं प्रति ऽइयं गौःऽ
इत्याकारकं गोत्वप्रकारकं गोविशेष्यकं ज्ञानं कारणम्।
तद्धर्मावच्छिन्नबोधकशब्दप्रयोगरूपव्यवहारं प्रति
तद्धर्मप्रकारकव्यवहर्तव्यविशेष्यकज्ञानस्य कारणत्वात्। ऽइयं गौःऽ
इत्याकारकं ज्ञानं च गोत्वपरिचायकलक्षणज्ञानं विना न
सम्भवतीति लक्षणस्य स्वविषयकज्ञानजन्यव्यवहर्तव्यविषयकज्ञानद्वारा
व्यवहारः प्रयोजनम्। तथा च लक्षणं व्यावहारिकमपि भवतीति
व्यावहारिकलक्षणस्यापि लक्ष्यतावच्छेदकसमनियतत्वं लक्षणमिति
व्यावहारिकमपि लक्ष्यमिति व्यावृत्त्यभिधेयत्वादेरपि लक्ष्यत्वात् तत्र
लक्षणसत्त्वस्येष्टतया अतिव्याप्त्यभावात् तद्भिन्नत्वरूपं विशेषणं न
देयमिति भावः। तेन रूपेण व्यवहर्तव्यज्ञानमिति।
तद्धर्मप्रकारकव्यवहर्तव्यविशेष्यकज्ञानमित्यर्थः।
गोत्वादिप्रकारकगवादिविशेष्यकज्ञानमिति
यावत्।
व्यावहारिकलक्षणस्यापि -
व्यवहारप्रयोजनकव्यावृत्त्यभिधेयत्वादिरूपलक्षणस्यापि। लक्ष्यत्वात्
-- लक्षणलक्षणलक्ष्यत्वात्। तद्भिन्नत्वम् --
व्यावृत्त्यभिधेयत्वादिभिन्नत्वम्। दृष्टान्तलाभायेति। यथा
अभिधेयत्वादिकं व्यवहारजनकं तथा व्यावृत्तिरपि व्यवहारजनिका
इति ज्ञापनाय इति भावः॥
दीपिका
गुणवत्त्वस्य
द्रव्यलक्षणत्वस्थापनम्
ननु गुणवत्त्वं न
द्रव्यलक्षणम्, आद्यक्षणावच्छिन्नद्रव्ये उत्पन्नविनष्टद्रव्ये चाव्याप्तेरिति
चेत् - न। गुणसमानाधिकरणसत्ताभिन्नजातिमत्त्वस्य विवक्षितत्वात्।
नन्वेवमपि ऽएकं रूपं
रसात् पृथक्ऽ इति व्यवहारात् रूपादावतिव्याप्तिरिति चेत् -
न। एकार्थसमवायादेव तादृशव्यवहारोपपत्तौ गुणे
गुणानङ्गीकारात्।
प्रकाशिका
ननु
आद्यक्षणावच्छिन्ने द्रव्ये गुणवत्त्वस्यासत्त्वे ऽपि कालान्तरावच्छिन्ने तत्र
तत्सत्त्वमक्षतम्। एवं च गुणाश्रयत्वलक्षणं साध्वित्यत आह -
उत्पन्नविनष्टेति। यादृशद्रव्यारम्भकसंयोगजनकक्रियोत्पत्तेः
तृतीयक्षणे ऽवयवान्तरे तादृशसंयोगनाशिका क्रिया जाता तादृशद्रव्य
इत्यर्थः। नवीनाः पुनः असमवायिकारणस्य कार्यसहभावेन
कारणतामवलम्ब्योत्पन्नविनष्टं नाङ्गीकुर्वन्ति।
गुणादावतिव्याप्तिवारणाय गुणसमानाधिकरणेति जातिविशेषणम्।
सत्तामादायातिव्याप्तिवारणाय सत्ताभिन्नेति।
द्रव्यगुणान्यतरत्वमादायातिव्यापितवारणाय जातीति। समवायेन
तादृशधर्मवत्त्वतात्पर्यग्राहकम्। अतः कालिकादिसम्बन्धेन
तद्वत्त्वमादाय नातिव्याप्तिरिति भावः।
एवमपीति। उक्तविवक्षया
अव्याप्तिवारणे ऽपि एकार्थसमवायादेवेति। एकस्मिन्नर्थे समवायेन
सत्त्वादेवेत्यर्थः। गुणानङ्गीकारदिति। तथा च कॢप्तेन
समवायघटितसामानाधिरकण्येनैव गुणवत्ताव्यवहारोपपत्तौ
तत्राकॢप्तगुणवत्त्वकल्पनं न सम्भवति गौरवादिति भावः।
बालप्रिया
द्रव्यत्वजातिमत्त्वं
गुणवत्त्वं वा द्रव्यलक्षणमिति पूर्वमुक्तम्। तत्र गुणवत्त्वं लक्षणम् न
भवितुमर्हति, उत्पत्तिक्षणावच्छिन्ने घटे ऽउत्पन्नं द्रव्यं क्षणमगुणं
अक्रियं च तिष्ठतिऽ इति न्यायेन गुणवत्त्वाभावेन अव्याप्तिदोषात्।
एवं यः घटः प्रथमक्षणे उत्पन्नः द्वितीयक्षणे च विनष्टः, तत्र प्रथमक्षणे
ऽउत्पन्नं द्रव्यं क्षणमगुणम्ऽ इति न्यायेन गुणो नास्ति, द्वितीयक्षणे
च गुणिनः घटस्यविनाशात् न गुणः इति
उत्पन्नविनष्टघटे ऽव्याप्तेश्च इत्याशङ्कितं दीपिकायाम् - ननु
गुणवत्त्वं न द्रव्यलक्षणमित्यादिना। तत्र द्वितीयस्थलानुधावने
बीजमाह - नन्वाद्यक्षणावच्छिन्ने द्रव्य इति। कालान्तरावच्छिन्न इति।
द्वितीयादिक्षणवच्छिन्न इत्यर्थः। तत्र तत्सत्त्वम् - द्रव्यगुणसत्त्वम्।
गुणश्रयत्वमिति। गुणाधारत्वमित्यर्थः। समवायेन गुणः
लक्षणमित्युक्ते यद्यप्यव्याप्तिरस्ति, तथापि गुणाश्रयत्वमित्युक्ते
नाव्याप्तिरिति भावः। यादृशद्रव्यारम्भकेत्यादि। क्रिया, क्रियातो
विभागः, विभागात् पूर्वदेशसंयोगनाशः, ततः उत्त्रदेशसंयोगः,
ततः द्रव्योत्पत्तिरिति क्रमः। अत्र विभागः संयोगश्च अवयवानां
पूर्वोत्तरदेशानां च। घटोत्पादकः यः चतुर्थक्षणोत्पन्नः
उत्तरदेशसंयोगः तज्जनिका क्रिया प्रथमक्षणोत्पन्न तस्याः तृतीयक्षणः
पूर्वदेशसंयोगनाशक्षणः तदानीं आरम्भकसंयोगनाशजनकक्रिया
जायते चेत् उत्पत्त्यनन्तरक्षणे द्रव्यस्य नाशो भवति। तथा चायं क्रमः
- प्रथमक्षणे घटोत्पादकक्रिया, द्वितीयक्षणे विभागः, तृतीयक्षणे
पूर्वदेशासंयोगनाशः उत्तरदेशसंयोगनाशकक्रिया च, चतुर्थक्षणे
उत्तरदेशसंयोगः विभागश्च, पञ्चमक्षणे घटोत्पत्तिः
पूर्वदेशसेयाङ्गनाश्च, षष्ठक्षणे घटनाशः उत्तरदेशसंयोगश्चेति
भावः।
नवीनाः पुनरिति।
तथा च एतन्मते चतुर्थक्षणे एव घटो ऽपि उत्तरदेशसंयोगात्मकेन
असमवायिकारणेन सह उत्पद्यते। घटनाशश्च तत्तृतीयक्षण एवेति
घटोत्पत्तिद्वितीयक्षणे घटनाशाभावात् उत्पन्नविनष्टघटो ऽप्रामाणिक
इति भावः।
दीपिकायाम् -
गुणसमानाधिकरणेति। गुणसमानाधिकरणा गुणाधिकरणवृत्तिः या
सत्तान्या जातिः तद्वत्त्वं द्रव्यस्य लक्षणम्। भवति हि द्रव्यत्वरूपा जातिः
गुणाधिकरणपृथिव्यादिवृत्तिः सत्तातो ऽन्या चेति तद्वत्त्वमादाय द्रव्ये
लक्षणसमन्वयः।
आद्यक्षणावच्छिन्नघटे उत्पन्नविनष्टघटे च गुणाभावे ऽपि
तत्समानाधिकरणद्रव्यत्वजातिसत्त्वात् नाव्याप्तिः। जातौ
गुणसमानाधिकरणेति विशेषणानुपादाने
सत्ताभिन्नगुणत्वजातिमत्त्वस्य गुणे सत्त्वात् तत्रातिव्याप्तिः।
गुणसमानाधिकरणेति
विशेषणे उपात्ते तु गुणे गुणानङ्गीकारात् गुणाधिकरणं न
गुणः, किं तु द्रव्यमेव तद्वृत्तित्वं गुणत्वे नास्तीति जातिपदेन
गुणत्वग्रहणासम्भवात् नातिव्याप्तिः। गुणाधिकरणद्रव्यवृत्तिः या
सत्ताजातिः तद्वत्त्वस्य गुणे ऽपि सत्त्वादतिव्याप्तिः। तद्वारणाय जातौ
सत्ताभिन्नेति विशेषणम्। जातिपदस्थाने धर्मपदं
निक्षिप्य
गुणसमानाधिकरणसत्ताभिन्नधर्मवत्त्वं द्रव्यलक्षणमित्युक्ते
द्रव्यगुणान्यतरत्वरूपो धर्मो ऽपि गुणाधिकरणद्रव्यवृत्तिः
सत्ताभिन्नश्चेति तद्वत्त्वस्य गुणे ऽपि सत्त्वादतिव्याप्तिः। तद्वारणाय
जातीत्युक्तम्। अन्यतरत्वं तु न जातिः। ननु जातिपदे उपात्ते ऽपि
कालिकसम्बन्धेन तादृशद्रव्यत्वरूपजातिमत्त्वस्य गुणे ऽपि
सत्त्वादतिव्याप्तिः। समवायसम्बन्धेन तादृशजातिमत्त्वविवक्षायां तु
जातिपदं व्यर्थम्। समवायसम्बन्धेन
गुणसमानाधिकरणसत्ताभिन्नधर्मवत्त्वं लक्षणमित्युक्त्यैव
सामञ्जस्यात्। द्रव्यगुणान्यतरत्वरूपधर्मस्य स्वरूपमेव सम्बन्ध इति
समवायेन तद्वत्त्वस्य गुणे विरहादिति चेत् - न। समवायसम्बन्धेन
तादृशधर्मवत्त्वमत्रविवक्षितमिति द्योतनायैव जातिपदोपादानादिति।
तदाह प्रकाशिकायाम् - गुणादावतिव्याप्तिवारणायेत्यादिना।
दीपिकायाम् -
नन्वेवमपीति।"एकं रूपम्ऽ इति व्यवहारात् रूपे
एकत्वसङ्ख्यारूपो गुणो ऽस्तीत्यवगम्यते; ऽरूपं रसात् पृथकऽ
इति व्यवहारात् रूपे पृथक्त्वगुणो ऽस्तीत्यवगम्यते। तथा च
गुणाधिकरणं रूपं तद्वृत्तिर्या सत्ताभिन्ना जातिः गुणत्वं तद्वत्त्वस्य
गुणे सत्त्वात् तत्र द्रव्यलक्षणस्यातिव्याप्तिरिति शङ्कितुराशयः।
समाधत्ते - एकार्थसमवायादिति। एकस्मिन्नर्थे समवायादित्यर्थः।
एकत्वरूपयोः पृथक्त्वरूपयोश्च एकस्मिन्नर्थे घटादौ समवायात् ऽएकं
रूपम्ऽ, ऽरूपं रसात् पृथक्ऽ इति व्यवहार उपपद्यते। ऽएकं रूपम्ऽ
इत्यस्य स्वाश्रयसमवायसम्बन्धेन रूपम् एकत्ववत् इत्यर्थः, न तु
समवायसम्बन्धेन एकत्ववत् इति। एवं च उक्तपरम्परासम्बन्धेन रूपे
एकत्वपृथक्त्वविषयकतयैव तादृशव्यवहारस्योपपत्तेः गुणे
समवायसम्बन्धेन गुणो नाङ्गीक्रियते।
गुणसमानाधिकरणेत्यादिलक्षणे च गुणाधिकरणत्वं
समवायसम्बन्धेन विवक्षितम्। अतो रूपादैं नातिव्याप्तिरिति भावः।
प्रकाशिकायाम् -
समवायघटितसामानाधिकरण्येनेति। स्वाश्रयसमवायेनेति यावत्।
स्वनिष्ठसमवायसम्बन्धावच्छिन्नाधेयतानिरूपिताधिकरणतानिरूपितसमवायसम्बन्धावच्छिन्नाधेयत्वं
समवायसम्बन्धघटितसामानाधिकरण्यम्। तस्य शोधने
स्वाश्रयसमवाय इत्येव पर्यवस्यति। अकॢप्तगुणवत्त्वकल्पनमिति।
अकॢप्तस्य समवायसम्बन्धेन गुणवत्त्वस्य कल्पनमित्यर्थः।
तर्कसंङ्ग्रहः
गुणविभागः
अन्त्स्_4 रूपरसगन्धस्पर्शसंख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्वगुरुत्वद्रवत्वस्नेहशब्दबुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मसंस्काराश् चतुर्विंशति गुणाः ॥
रूप-रस-गन्ध-स्पर्श-सङ्ख्या-परिमाण-पृथक्त्व-संयोग-विभाग-परत्व-अपरत्व-गुरुत्व-द्रवत्व-स्नेह-शब्द-बुद्धि
-सुख - दुःख - इच्छा-द्वेष - प्रयत्न-धर्म-अधर्म-संस्काराः
चतुर्विंशतिर्गुणाः।
दीपिका
गुणान् विभजते -
रूपेति। द्रव्यकर्मभिन्नत्वे सति सामान्यवान् गुणः।
गुणत्वजातिमान्वा।
ननु
लघुत्व-कठिनत्व-मृदुत्वादीनां विद्यमानत्वात् कथं
चतुविंशतिर्गुंणाः इति चेत् - न। लधुत्वस्य गुरुत्वाभावरूपत्वात्
मृदुत्वकठिनत्वयोः अवयवसंयोगविशेषरूपत्वात्।
प्रकाशिका
सामान्यवानिति।
समवायेन सामान्यवत्त्वं बोध्यम्। तेन कालिकादिसम्बन्धेन तद्वति
ध्वंसे नातिव्याप्तिः। गुण इति लक्ष्यनिर्देशः। लाघवादाह -
गुणत्वजातिमान्वेति। यद्यपि लक्षणलक्ष्यतावच्छेदकयोरभेदः तथापि
लक्षणेनेतरभेदे साध्ये हेतौ साध्यसामानाधिकरण्यनिश्चे ऽपि
हेतुधर्मितावच्छेदककसाध्यनिश्चयस्य अनियतत्वाभिप्रयेणेदं
लक्षणमिति सङ्क्षेपः। एकमग्रे ऽपि बोध्यम्। गुणत्वजातिसिद्धिस्तु
गुणपदशक्यतावच्छेदकतयेति गुणदीधितौ भट्टाचार्याः। न चैवं
विभुपदशक्यतावच्छेदकतया विभुत्वजातिः
सिध्येदिति वाच्यम्।
भूतत्वसङ्करस्य बाधकस्य सत्त्वेन तस्य जातित्वासम्भवात्
जातित्वाभिमतसङ्करस्यैव जातित्वबाधकत्वात्। तथा चोक्तम्
द्रव्यकिरणावल्याम् उदयनाचार्यैः-
"व्यक्तेरभेदस्तुल्यत्वं
सङ्कारो ऽथानवस्थितिः।
रूपहानिरसम्बन्धो
जातिबाधकसङ्ग्रहः॥"
इति। व्यक्तेरभेदः
स्वाश्रयव्यक्तेरैक्यं आकाशत्वादेर्जातित्वे बाधकम्। व्यक्तेस्तुल्यत्वं
अन्यूनानतिरिक्तव्यक्तिकत्वं
घटत्वकलशत्वाद्योर्भिन्नजातित्वे। सङ्करः
परस्परात्यन्ताभावसमानाधिकरणयोर्धर्मयोरेकत्र समावेशः
भूतत्वमूर्तत्वादेर्जातित्वे। अनवस्थितिः- अनावस्था जातेः
जातिमत्त्वे। रूपहानिः स्वताव्यावर्तकत्वात्मकरूपहानि विशेषस्य
जातिमत्त्वे। असम्बन्ध असमवेतत्वम् अभावादेर्जातिमत्त्वे इति
संक्षेपः।
लघुत्वादीनां
प्रामाणिकत्वे ऽपि कॢप्तेष्वन्तर्भावो न्याय्य इति
समाधत्ते---लघुत्वस्येति।
बालप्रिया
तद्वति ध्वंस
इति। सामान्यविशेषसमवायानां
प्रागभावान्योन्याभावात्यन्ताभावानां चाजन्यत्वात् जन्यमात्रस्यैव
कालोपाधितया तेषु
कालिकसम्बन्धेन सामान्यवत्त्वासम्भवात् अतिव्याप्तिर्न शक्यते
वक्तुमित्यालोच्य ध्वंसे ऽतिव्याप्तिरुक्ता। यद्यपि
लक्षणलक्ष्यतावच्छेदकयोरभेद इति। गुणस्य गुणत्वजातिमत्त्वं यदि
लक्षणं तदा गुणत्वं लक्षणम्, लक्ष्यतावच्छेदकमपि तदेवेति
लक्षणलक्ष्यतावच्छदकयोरभदः स्यात्। अस्तु को दोष इति चेत् -
उच्यते। लक्षणं हि व्यावर्तकम्।
लक्ष्यविशेष्यकलक्ष्येतरभेदविधेयकानुमितिजनकम्। तथा च
गुणत्वस्य गुणलक्षणत्वे ऽगुणः इतरभिन्नः गुणत्वात्ऽ
इत्यनुमानप्रयोगः कर्तव्यः। तत्र
गुणत्वव्यापकेतरभेदसमानाधिकरणगुणत्ववान् गुण इति
परामर्शो वाच्यः। तत्र गुणत्वे इतरभेदसामानाधिकरण्ये
भासमाने 1तुल्यवित्तिवेद्यतया कदाचित् इतरभेदे
गुणत्वसामानाधिकरण्यमति भासितुमर्हति। तथा च
गुणत्वरूपपक्षतावच्छेदकसामानाधिकरण्यस्य इतरभेदरूपसाध्ये
भानात् अनुमितिविषयस्य साध्ये पक्षतावच्छेदकसामानाधिकरण्यस्य
परामर्शेनैव विषयीकृततया सिद्धसाधनं दोषः प्रसजतीति
शङ्कितुराशयः। समाधत्ते - तथापीति। हेतौ
साध्यसामानाधिकरण्ये भासमाने नियमेन साध्ये
हेतुसामानाधिकरण्यभानं न सम्भवति। अतो न सिद्धसाध्नप्रसक्तिरिति
गुणत्वजातिमत्त्वं गुणलक्षणं भवितुमर्हतीति भावः।
गुणपदशक्यतावच्छेदकतयेति। ऽगुणनिष्ठा गुणपदशक्यता
किञ्चिद्धर्मावच्छिन्ना शक्यतात्वात् घटनिष्ठघटपदशक्यतावत्ऽ
इत्यनुमानेन गुणत्वजातिः सिध्यतीति भावः।
भूतत्वसङ्करस्येति। भूतत्वेन साकमेकत्र समावेशस्येत्यर्थः। ननु
भूतत्वस्यापि जातित्वाभावात् कथ तत्सङ्करः विभुत्वस्य जातित्वे
बाधक इत्याशङ्क्य न जातिसङ्करःजातित्वबाधकः, किं तु
जातित्वाभिमतधर्मसङ्कर एव तथा। भूतत्वस्य जातित्वाभावे ऽपि
जातित्वाभिमानविषयत्वमस्तीति तत्सङ्करो जातित्वबाधक इति
समाधत्ते - जातित्वाभिमतसङ्करस्यैवेति। व्यक्तेरभेदतुल्यत्वं
सङ्करश्च जातिमत्त्वे बाधकानि। अनवस्था रूपहानिः असम्बन्धश्च
जातित्वे बाधकाः। जातिबाधकसङ्ग्रह इत्यस्य
जातित्वजातिमत्त्वान्यतरविषयकज्ञानप्रतिबन्धकज्ञानविषयविषयकसङ्क्षिप्तशब्दः
इत्यर्थः।
व्यक्तेरभेदः इत्यस्य
स्वाश्रयैकव्यक्तिकत्वमित्यर्थः।
स्वप्रतियोगिवृत्तित्वस्वानुयोगिवृत्तित्वोभयसम्बन्धेन
भेदविशिष्टान्यत्वमिति यावत्। यस्याश्रयभूता व्यक्तयः अनेकाः स
उक्तोभयसम्बन्धेन भेदविशिष्टो भवति यथा घटत्नवं
नीलघटभेदविशिष्टम्। स्वं नीलघटभेदः, स्वप्रतियोगी नीलघटः,
तद्वृत्तित्वं घटत्वे, एव स्वं नीलघटभेदः,
1.
तुल्यवित्तिवेद्यतयेति। एकज्ञानविषयतयेत्यर्थः।
तदनुयोगी रक्तघटः
तद्वृत्तित्वं च घटत्वे इति घटत्वम् उक्तोभयसम्बन्धेन
नीलघटभेदविशिष्टम्। आकाशत्वं तु न तथा। भेदपदेन
आकाशभेदोपादाने स्वप्रतियोगी आकाशः, तद्वृत्तित्वं
यद्यप्याकाशे ऽस्ति, तथाति आकाशभेदानुयोगिघटादिवृत्तित्वं नास्ति।
घटभेदोपादाने स्वानुयोग्याकाशवृत्तित्वं यद्यप्यकाशत्वे ऽस्ति,
तथापि स्पप्रतियोगिघटवृत्तित्वं नास्तीति। तथा च
आकाशत्वमुक्तोभयसम्बन्धेन भेदविशिष्टान्यदिति तत्
स्वाश्रयैकव्यक्तिकम्, अतस्तत् न जातिः। जातित्वं हि नित्यत्वे
सत्यनेकसमवेतत्वम्। अनेकसमवेतत्वं च उक्तोभयसम्बन्धेन
भेदविशिष्टत्वम्। अत्र च आकाशत्वं जातिः (उक्तोभयसम्बन्धेन
भेदविशिष्टम्) इति बुद्धिं प्रति आकाशत्वं स्वाश्रयैकव्यक्तिकम्
(उक्तोभयसम्बन्धेन भेदविशिष्टान्यत्) इति ज्ञानस्य तद्वत्ताबुद्धिं
प्रति तदभाववत्ताज्ञानं प्रतिबन्धकमिति रीत्या प्रतिबन्धकत्वात्
जातित्वविषयकज्ञानप्रतिबन्धकज्ञानविषयत्बस्य व्यक्तेरभेदे सत्त्वात्
जातिबाधकत्वमित्यवधेयम्।
व्यक्तेस्तुल्यत्वम्
अन्यूनानतिरिक्तव्यक्तिकत्वमिति। अन्यूनानतिरिक्ताश्रयकत्वमित्यर्थः।
घटत्वकलशत्वयोरीदृशतुल्यत्वसत्त्वात् तयोर्न भिन्नजातित्वम्।
वस्तुतस्तु
स्वभिन्नजात्याश्रयव्यक्तिनिष्ठसङ्ख्यान्यूनानतिरिक्तसङ्ख्याकव्यक्तिकत्वं
स्वसमानाधिकरणान्योन्याभावप्रतियोगितानवच्छेकदकस्वभिन्नजातिसमानाधिकरणन्योन्याभावप्रतियोगितानवच्छेद-
कत्वरूपम्
तुल्यत्वमित्यर्थः। इदं कम्बुग्रीवादिमत्त्वस्य जातित्वे बाधकम्।
स्वम् - कम्बुग्रीवादिमत्त्वं,
तत्समानाधिकरणान्योन्याभावप्रतियोगितावच्छेदिका स्वभिन्नजातिः
घटत्वजातिः
तत्समानाधिकरणान्योन्याभावप्रतियोगितानवच्छेदकत्वं
कम्बुग्रीवादिमत्त्वे अस्ति। यत्रैतादृशं तुल्यत्वमस्ति 1तत्र जातित्वं
नास्ति। एवं चैतादृशतुल्यत्वज्ञानस्य
जातित्वाभावव्याप्यवत्ताज्ञानविधया जातित्वज्ञानप्रतिबन्धकत्वम्।
1. तत्र जातित्व
नास्तीति। यथा पृथिव्यादिमनो ऽन्तान्यतमत्वे। स्वं
पृथिव्यादिमनोन्तान्यतमत्वं, तद्भिन्ना जातिः द्रव्यत्वं
तत्समनियतत्वं पृथिव्यादिमनोन्तान्यतमत्वे ऽस्तीति तन्न जातिः।
तथा च स्वभिन्नजातिसमनियतत्वं तुल्यत्वम्।
स्वभिन्नजातिसमवनियतत्वं च
स्वसमानाधिकरणान्योन्याभावप्रतियोगितानवच्छेदकस्वभिन्नजातिसमाना-
धिकरणान्योन्याभावप्रतियोगितानवच्छेदकत्वमिति भावः।
सङ्करो नाम
परस्परं विहाय वर्तमानयोर्धर्मयोरेकत्र वृत्तिः।
परस्परात्यन्ताभावसमानाधिकरणयोर्धर्मयोरेकत्र
वृत्तिरिति यावत् अयं
भूतत्वमूर्तत्वयोर्जातित्वे बाधकः, भूतत्वं विहाय मूर्तत्वं
मनसि, मूर्तत्वं विहाय भूतत्वं आकाशे, उभयोः
पृथिव्यादिचतुष्टये समावेश इति द्वयोः सङ्करात् न
जातित्वम्। 1स्वाधिकरणवृत्तित्व-स्वाभाववद्वृत्तित्व -
स्वाधिकरणवृत्त्यत्यन्ताभावप्रतियोगित्व-एतत्त्रितयसम्बन्धेन
किञ्चिद्धर्मविशिष्टत्वं सङ्कर इति फलितम्। एतादृशसाङ्कर्यस्य
कथं जातित्वबाधकत्वमिति चेत् - उच्यते। लिङ्गविधयैव तस्य
जातित्वबाधकत्वम्। तथा हि - भूतत्वं न जातिः उक्तत्रितयसम्बन्धेन
मूर्तत्ववत्त्वात् यत् उक्तत्रितयसम्बन्धेन मूर्तत्ववत् तन्न जातिः यथा
2गगनमनस्संयोग इत्यनुमानात् भूतत्वस्य जातित्वाभावसिद्धौ
बाधज्ञानविधया जातित्वज्ञानप्रतिबन्धिका या निरुक्तानुमितिः
तज्जनकव्याप्त्यादिज्ञाने निरुक्तसाङ्कर्यस्य विषयत्वात्
साक्षात्प्रतिबन्धकज्ञानविषयस्येव
1. स्वाधिकरणेत्यादि।
स्वं भूतत्वं स्वाधिकरणं पृथिव्यादिचतुष्टयं तद्वृत्तित्वं
मूर्तत्वे ऽस्ति। एवं स्वं भूतत्वं स्वाभावः भूतत्वाभावः तद्वत् मनः
तद्वृत्तित्वं मूर्तत्वे ऽस्ति। एवं स्वं भूतत्वं तदधिकरणमाकाशं
तद्वृत्तिर्यो ऽत्यन्ताभावः मूर्तत्वाभावः तत्प्रतियोगित्वं मूर्तत्वे ऽस्ति।
एवं चोक्तत्रितयसम्बन्धेन भूतत्वविशिष्टत्वं यत् मूर्तत्वस्य तदेव
संकर इत्यर्थः।
2. गगनमनस्संयोग
इति। गगनमनस्संयोगस्य मूर्तत्वाधिकरणमनोवृत्तित्वात्
मूर्तत्वाभावाधिकरणगगनवृत्तित्वात्
मूर्तत्वाधिकरणपृथिव्यादिचतुष्टयवृत्तिः यः
गगनमनस्संयोगाभावः तत्प्रतियोगित्वाच्च उक्तत्रितयसम्बन्धेन
मूर्तत्ववैशिष्ट्यमिति हेतुरस्ति जातित्वाभावरूपसाध्यं चास्तीति
गगनमनस्संयोगस्य दृष्टान्तत्वम्।
प्रतिबन्धकज्ञानजनकज्ञानविषयस्यापि जातिबाधकपदार्थत्वेन
1तस्य साङ्कर्ये ऽक्षतत्वात्। अथ वा
2जातित्वाभावानुमितिजनकजातित्वाभावव्याप्यनिरुक्तत्रितयसम्बन्धेन
मूर्तत्वपरामर्शस्य तदभावव्याप्यवत्तानिश्चयत्वेन
जातित्वप्रकारकज्ञानप्रतिबन्धकत्वात् निरुक्तसाङ्कर्यस्य तद्विषयत्वेन
साक्षाज्जातित्वज्ञानप्रतिबन्धकज्ञानविषयत्वमक्षतमित्याहुः।
अनवस्था -
अप्रामाणिकात्तरोत्तरकल्पनायाः विश्रान्त्यभावः। इयं जातेः
जातिमत्त्वे बाधिका। 3तर्कविधया बाधकत्वमस्याः।
रूपहानिः -
4स्वतोव्यावर्तकत्वरूपलक्षणस्य भङ्गः। इयं विशेषस्य जातिमत्त्वे
बाधिका। विशेषो हि स्वतोव्यावर्तकत्वेन लक्षितः। विशेषो यदि
जामिमान् स्यात् तर्हि जातेरेव
विशेषस्येतरव्यावृत्तिहेतुत्वसम्भवात् स्वतोव्यावर्तकत्वरूपं
लक्षणं भग्नं स्यात्। अतो विशेषो न जातिमान्। एवं च
रूपहानिरपि तर्कविधयैव
जातिमत्त्वबाधिका।
असम्बन्धः -
प्रतियोगित्वानुयोगित्वान्यतरसम्बन्धेन समवायशून्यत्वम्। अयं च
समवायाभावयोर्जातिमत्त्वे बाधकः। यत्र यत्र जातिमत्त्वं वर्तते तत्र
प्रतियोगित्वानुयोगित्वान्यतरसम्बन्धेन 5समवायो ऽस्ति। समवाये
अभावे
1. तस्येति।
प्रतिबन्धकज्ञानजनकज्ञानविषयत्वस्येत्यर्थः।
2.
जातित्वाभावानुमितीति। भूतत्वं न जातिरित्याकारिका या
जातित्वाभावानुमितिः तज्जनकः य परामर्शः भूतत्वं
जातित्वाभावव्याप्यमूर्तत्ववत् इत्याकारकः तस्येत्यर्थः। तथा
चोक्तत्रितयसम्बन्धेन मूर्तत्ववत्त्वरूपस्य संकरस्य
जातित्वानुमितिप्रतिबन्धकपरामर्शविषयतया
जातित्वविषयकज्ञानप्रतिबन्धकज्ञानविषयत्वरूपं जातिबाधकत्वमिति
भावः।
3. तर्कविधयेति। यदि
जातिर्जातिमती स्यात् तर्हि उत्तरोत्तरजातिकल्पनायाः विश्रान्तिर्न
स्यादिति तर्को ऽत्र विवक्षितः।
4. स्वतोव्यावर्तकत्वं
च
स्वभिन्नलिङ्गकस्वविशेष्यकस्वसजातीयेतरभेदानुमित्यविषयत्वम्।
5. समवायो ऽस्तीति।
यथा घटे जातिमत्वमस्ति, तत्र प्रतियोगित्वसम्बन्धेन
घटसमवायो ऽस्ति कपाले यो घटसमवायः तत्प्रतियोगित्वात्
घटस्य, एवम् अनुयोगितासम्बन्धेन घटत्वसमवायो ऽस्ति घटे यो
घटत्वसमवायः तदनुयोगित्वात् घटस्येति।
च 1तदभावात् त
जातिमत्त्वं तयोः। उक्तान्यतरसम्बन्धेन समवायाभावः
जातिमत्त्वाभावव्याप्यः। अतः असम्बन्धज्ञानं
तदभावव्याप्यवत्ताज्ञानविधया जातिमत्त्वज्ञानप्रतिबन्धकम
तर्कसङ्ग्रहः
कर्मविभागः
अन्त्स्_5 उत्क्षेपणावक्षेपणाकुञ्चनप्रसारणगमनानि पञ्च कर्माणि ॥
उत्क्षेपण - अपक्षेपण
- आकुञ्चन - प्रसारण - गमनानि पञ्चकर्माणि।
दीपिका
कर्म विभजते -
उत्क्षेपणेति। संयोगभिन्नत्वे सति संयोगसमवायिकारणं कर्म
कर्मत्वजातिमद्वा। ननु भ्रमणादेरप्यतिरिक्तस्य कर्मणः सत्त्वात्
पञ्चेत्यनुपपन्नमिति चेत् - न। भ्रमणादीनामपिगमने ऽन्तर्भावात् न
पञ्चत्वविरोधः।
प्रकाशिका
संयोगासमवायिकारणे संयोगे ऽतिव्याप्तिवारणाय
संयोगभिन्नत्वे सतीति। संयोगसमवायिकारण
द्रव्ये ऽतिव्याप्तिवारणाय असमवायीति।
भ्रमणादीनाम्
इत्यादिना रेचनस्यन्दनोर्ध्वज्वलनतिर्यग्गमनानां संग्रहः।
गमने ऽन्तर्भावादिति। न चोत्क्षेपणादीनामपि
गमने ऽनतर्भावो ऽस्त्विति शङ्क्यम्। स्वतन्त्रेच्छस्य
नियोगपर्यनुयोगानर्हस्य मुनेसंमतत्वादिति भावः।
1. तदभावादिति।
समवायो ऽभावो वान्यत्र समवायसम्बन्धेन नास्ति, अतः
प्रतियोगितासम्बन्धेन समवायवत्त्वं समवायाभावयेर्न भवति। एवं
समवाये ऽभावे वा अन्यत् किमपि समवायसम्बन्धेन नास्ति, अतः
अनुयोगितासम्बन्धेन समवायवत्त्वं तयोर्न भवतीति भावः।
बालप्रिया
संयोगभिन्नत्वे
सति संयोगासमवायिकारणं कर्मेति कर्मणो लक्षणमुक्तम्।
संयोगभिन्नत्वे सतीत्यनुक्तौ संयोगस्य
संयोगो ऽप्यसमवायिकारणम्; कायपुस्तकसंयोगं प्रति
हस्तपुसतकसंयोगस्यासमवायिकारणत्वात्; अतः
संयोगे ऽतिव्याप्तिः।
तद्वारणाय संयोगभिन्नत्वे सतीत्युक्तम्।
संयोगकारणमित्येतावन्मात्रोक्तौ संयोगसमवायिकारणे
द्रव्ये ऽतिव्याप्तिः, तद्वारणाय कारणे असमवायीति विशेषणम्।
तदाहसंयोगासमवायिकारण इति।
स्वतन्त्रेच्छस्येति।
स्वतन्त्रेच्छो मुनिः नियोगपर्यनुयोगानर्ह इति सर्वसंमत
इत्यर्थः। नियोगः - आज्ञा। पर्यनुयोगः - प्रश्नः।
तर्कसंङ्ग्रहः
सामान्यविभागः
अन्त्स्_6 परम् अपरं चेति द्विविधं सामान्यम् ॥
सामान्यं द्विविधम् - परम् अपरम् चेति।
दीपिका
सामान्यं विभजते
- परमिति। परम् - अधिकदेशवृत्ति। अपरम् - न्यूनदेशवृत्ति।
सामान्यादिचतुष्टये जातिर्नास्ति।
प्रकाशिका
परमित्यादि।
सामान्यलक्षणं अग्रे मूलकृतैव वक्ष्यत इति न न्यूनतेति ध्येयम्।
सत्ताया द्रव्यत्वाद्यपेक्षया अधिकदेशवृत्तित्वेन परत्वमेव।
घटत्वादीनां न्यूनदेशवृत्तित्वेन अपरत्वमेव। द्रव्यत्वादीनां
सत्तातो ऽपरत्वम् घटत्वादितः परत्वमिति विवेकः।
तर्कसङ्ग्रहः
विशेषविभागः
अन्त्स्_7 नित्यद्रव्यवृत्तयो विशेषास् त्व् अनन्ता एव ॥
दीपिका
विशेषं विभजते -
नित्येति। पृथिव्यादिचतुष्टयपरमाणवः आकाशादिपञ्चकं च
नित्यद्रव्याणि।
तर्कसङ्ग्रहः
समवायलक्षणम्
अन्त्स्_8 समवायस् त्व् एक एव ॥
दीपिका
समवायस्य भेदो नास्तीत्याह -
समवायस्तु इति।
प्रकाशिका
समवायस्य भेदो
नास्तीति। न च समवायस्याभेदे स्पर्शसमवायवति वायौ
रूपवत्ताप्रतीतिः स्यादिति शङ्क्यम्। रूपसमवायसत्त्वे ऽपि रूपाभावेन
तथा प्रतीतेरभावादिति दिक्।
बालपिया
रूपवत्ताप्रतीतिः स्यादिति।
स्पर्शसमवायसत्त्वेन तदभिन्नस्य रूपसमवायस्यापि सत्त्वात्
रूपसमवायस्यैव रूपवत्ताप्रतीतिनियामकत्वादिति भावः।
रूपसमवायो न रूपवत्ताप्रतीतिनियामकः, अपि तु समवायसम्बन्धेन
रूपम्।
वायौ तु न रूपमस्ति,
अतो न रूपवत्ताप्रतीतिप्रसङ्ग इत्याशयेन समाधत्ते -
रूपसमवायसत्त्वे ऽपीति। ननु वायौ रूपसमवायसत्त्वे रूपं नास्तीति
वक्तुं न शक्यते सम्बन्धसत्तायाः सम्बन्धिसत्ताव्याप्यत्वादित्याशङ्क्याह
- दिगिति। अयमाशयः - वाय्वनुयोगिकत्वविशिष्टः
रूपप्रतियोगिकत्वविशिष्टश्च समवायः वायौ
रूपवत्ताप्रतीतिनियामकः। वाय्वनुयोगिकत्वविशिष्टसमवाये
रूपप्रतियोगिकत्वाभावात् वायू रूपवानिति प्रतीतिः नापादयितुं
शक्य इति। अधिकं मुक्तावलीमञ्जूषादौ द्रष्टव्यम्।
तर्कसङ्ग्रहः
अभावविभागः
अन्त्स्_9 अभावश् चतुर्विधः । प्रागभावः प्रध्वंसाभावो ऽत्यन्ताभावो ऽन्योन्याभावश् चेति ॥
अभावः चतुर्विधः - प्रागभावः, प्रध्वंसाभावः, अत्यन्ताभावः, अन्योन्याभावश्चेति।
दीपिका
अभावं विभजते -
अभाव इति।
तर्कसङ्ग्रहः
पृथिवीनिरूपणम्
अन्त्स्_10[1] गन्धवती पृथिवी । सा द्विविधा नित्यानित्या च । नित्या परमाणुरूपा । अनित्या कार्यरूपा । पुनस् त्रिविधा शरीरेन्द्रियविषयभेदात् । शरीरम् अस्मदादीनाम् । इन्द्रियं गन्धग्राहकं घ्राणं नासाग्रवर्ति । विषयो मृत्पाषाणादिः ॥
तत्र गन्धवती पृथिवी।
दीपिका
तत्रोद्देशक्रमानुसारात् प्रथमं पृथिव्याः लक्षणमाह - तत्रेति।
नाम्ना पदार्थसङ्कीर्तनमुद्देशः। उद्देशक्रमे च सर्वत्र इच्छैव
नियामिका।
ननु
सुरभ्यसुरभ्यवयवारब्धे द्रव्ये परस्परविरोधेन
गन्धानुत्पादादव्याप्तिः। न च तत्र गन्धप्रतीत्यनुपपत्तिरिति वाच्यम्।
अवयवगन्धस्यैव तत्र प्रतीतिसम्भवेन चित्रगन्धानङ्गीकारात्। किं
चोत्पन्नविनष्टघटादावव्याप्तिरिति चेत् - न।
गन्धसमानाधिकरणद्रव्यत्वापरजातिमत्त्वस्य विवक्षितत्वात्।
ननु जलादावपि
गन्धप्रतीतेरतिव्याप्तिरिति चेत् - न। अन्वयव्यतिरेकाभ्यां
पृथिवीगन्धस्यैव तत्र भानाङ्गीकारत्। ननु तथापि कालस्य
मूल पाठ: Tarkasaṃgraha with autoentary (Dīpikā), Nīlakaṇṭha's Dīpikāprakāśikā and Bālapriyā · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0