तर्कसंग्रह (टीका सहित) · भाग 6180
बोध इति
तृतीयातत्पुरुषतया व्याख्यातमित्याह - षष्ठीतत्पुरुषेति। अन्यतः
सिद्धत्वेनेति। भाष्यादिग्रन्थान्तरपठनादपि सिद्धत्वेनेत्यर्थः॥
तर्कसंङ्ग्रहः
पदार्थविभागः
अन्त्स्_2 द्रव्यगुणकर्मसामान्यविशेषसमवायाभावाः सप्त पदार्थाः ॥
दीपिका
पदार्थान्
विभजते - द्रव्ये ति। पदस्यार्थः पदार्थ इति व्युत्पत्त्या
अभिधेयत्वं पदार्थसामान्यलक्षणम्। ननु विभागादेव सप्तत्वे सिद्धे
सप्तपदग्रहणं व्यर्थमिति चेत् - न।
अधिकसङ्ख्याव्यवच्छेदार्थकत्वात्। ननु अतिरिक्तः पदार्थः प्रमितो
वा न वा। नाद्यः; प्रमितस्य निषेधायोगात्। न द्वितीयः;
प्रतियोगिप्रमितिं विना निषेधानुपपत्तेरिति चेत् - न। पदार्थत्वं
द्रव्यादिसप्तान्यतमत्वव्याप्यमिति। व्यवच्छेदार्थकत्वात्। ननु
सप्तान्यतमत्वं सप्तभिन्नभिन्नत्वम्। सप्तभिन्नस्याप्रसिद्ध्या कथं
सप्तान्यतमत्वव्याप्तिनिश्चय इति चेत् - न। द्रव्यादिसप्तान्यतमत्वं
नाम द्रव्यादिभेदसप्तकाभाववत्त्वम्। अतो दोषविरहात्।
एवमग्रे ऽपि द्रष्टव्यम्॥
प्रकाशिका
मूलै सप्तपदार्था इति। द्रव्यत्वादिरूपाये
पदार्थविभाजकाः सप्तोपाधयः तदन्यतमवन्तः पदार्था इत्यर्थः।
तत्र सप्तत्वमपेक्षाबुद्धिविशेषविषयत्वम्। एवमग्रिमग्रन्थस्यापि अत्रैव
पर्यवसानमवधेयम्।
ननु
सामान्यधर्मज्ञानस्य विशेषविज्ञासां प्रति हेतुत्वात्
सामान्यलक्षणकथनानन्तरमेव विभागो युक्तः। तथा च मूले
कथमादौ विभाग इति न्यूनतां परिहरति-- पदस्ये ति। पदस्यार्थः अभिधेयः इति व्युत्पत्त्या
पदसम्बन्ध्यभिधाविषयत्वस्य लाभे ऽपि
पदसम्बन्धित्वांशस्याव्यावर्तकत्वादाह--- अभिधेयत्वम् इति।
लक्षणं लभ्यत इति शेषः। तथा च न न्यूनतेति भावः। विभागादेवे ति। पदार्थत्वावान्तरधर्मपुरस्कारेण
धर्मिप्रतिपादनादेवेत्यर्थः। अधिकसङ्ख्याव्यवच्छेदार्थकत्वाद् इति।
तादृशसङ्ख्यानिषेधसिद्धिफलकत्वादित्यर्थः। उद्देश्यविधेयभावस्थले
उद्देश्यतावच्छेदके
विधेयव्याप्यत्वभानमौत्सर्गिकमित्याशयेनाह-- पदार्थत्वम् इति। इति व्यवच्छेदार्थकत्वाद् इति। इति एतद्रूपो यो
व्यवच्छेदोनिर्णयस्तदर्थकत्वादित्यर्थः। सप्तभिन्नभिन्नत्वम् इति।
द्रव्यादयो ये सप्तपदार्थाः तद्भेदकूटविशिष्टभिन्नत्वं
वक्तव्यमित्यर्थः। द्रव्यादिभेदसप्तकाभाववत्त्वम् इति। द्रव्यादिभेदानां प्रत्येकं प्रसिद्धानां सप्तानां
कुत्राप्यसत्त्वेन तादृशभेदसप्तकत्वावच्छिन्नाभावस्य सर्वत्र सत्त्वात् न
दोष इति भावः। वस्तुतस्तु"पदार्थत्वं
द्रव्यादिसप्तान्यतमत्वव्याप्यम्"
इत्यस्य पदार्थत्वं
द्रव्यत्वादिसप्तोपाध्यन्यतमवत्त्वव्याप्यमित्यर्थः। तेन बहुषु
पुस्तकेषु सप्तान्यतमत्वाप्रसिद्धिशङ्कातत्समाधानपरस्य"ननु
सप्तान्यतमत्वम्"इत्यादिग्रन्थस्यासत्त्वे ऽपि न क्षतिरिति
ध्येयम्। एवमग्रे ऽपा ति। एवं रीत्या द्रव्याणीत्यादावपीत्यर्थः॥
बालप्रिया
ननु सप्तपदार्था
इति यथाश्रुतमूलात् पदार्थाः सप्तत्वसङ्ख्यावन्त इति लभ्यते।
तन्न युक्तम्। द्रव्यगुणादीनां प्रत्येकमनेकत्वात् आहत्य
सप्ताधिकसङ्ख्याया एव पदार्थेषु सत्त्वात् पदार्थेषु
सप्ताधिकसङ्ख्याव्यवच्छेदस्य सप्तपदेन कर्तुमशक्यत्वादित्याशयेन
प्रकारान्तरेण मूलं व्याचष्टे---
द्रव्यत्वादिरूपा इत्यादिना। तथा च 1भावप्रधाननिर्देशात्
द्रव्यादिपदानि द्रव्यत्वादिपराणि। अन्तिमस्य अभावपदस्य
1.
भावप्रधाननिर्देशादिति। भावः प्रकृत्यर्थप्रकारीभूतो धर्मः प्रधानः
तात्पर्यविषयो यस्य शब्दस्य सः भावप्रधाननिर्देशः। तथा च
द्रव्यादिपदानां स्वार्थप्रकारीभूतद्रव्यत्वादिधर्मतात्पर्यकत्वात्
भावप्रधाननिर्देशत्वम्।
द्रव्यत्वाद्यन्यतमवति
लक्षणा। द्रव्यत्वादिषु सप्तत्वान्वयः। द्रव्यत्वादिरूपाः ये
पदार्थत्वव्याप्याः धर्माः सप्त तदन्यतमवन्तः पदार्था इति सप्त
पदार्था इति वाक्यात् बोधः। द्रव्यादिपदार्थानां 1अनेकत्वे ऽपि
द्रव्यत्वादयः पदार्थविभाजकधर्माः सप्तैवेति नानुपपत्तिरिति
भावः।
ननु सप्तत्वं
सङ्ख्यारूपो गुणः तदाश्रयत्वं द्रव्यत्वगुणत्वादिषु नास्ति,
सङ्ख्यायाः गुणस्य द्रव्यमात्रवृत्तित्वात् इत्याशङ्क्य प्रकृते
सप्तत्वं न सङ्ख्याविशेषरूपम्, किं तु
अपेक्षाबुद्धिविशेषविषयत्वमिति व्याचष्टे - अत्र सप्तत्वम् इति।
ऽइदमेकम्ऽ, ऽइदमेकम्ऽ इति या बुद्धिः सा अपेक्षाबुद्धिः
तद्विषयत्वमित्यर्थः। अग्रिमग्रन्थस्यापी ति।
रूपादयः ऽचतुर्विंशतिर्गुणाःऽ, उत्क्षेपणादीनि ऽपञ्च कर्माणिऽ
इत्यादिवक्ष्यमाणग्रनथस्यापीत्यर्थः। अत्रैव पर्यवसानमवधेयम् इति। चतुर्विंशतित्वादेः अपेक्षाबुद्धिविशेषविषयत्व एव
तात्पर्यं
निश्चेयमित्यर्थः।
द्रव्यगुणकर्मेत्यादिवाक्यं पदार्थविभागवाक्यम्। विभागो
नाम
2सामान्यधर्मप्रकारकज्ञानविशेष्यभूतपदार्थविशेष्यकपदार्थत्वव्याप्यपरस्परासमानाधिकरणधर्मप्रकारकज्ञानजनक-
शब्दः।
एतादृशशब्दात्मकविभागश्च पदार्थः कतिविध इति शिष्यस्य
विशेषधर्मप्रकारकजिज्ञासायां सत्यामेव कर्तुं शक्यः। अन्यथा
अजिज्ञासितार्थकथनरूपार्थान्तरदोषापत्तेः। विशैशजिज्ञासां प्रति
सामान्यधर्मप्रकारकज्ञानं कारणम्। विभागात् पूर्वं मूले
पदार्थसामान्यलक्षणस्याकथनात् सामान्यधर्मप्रकारकज्ञानं शिष्यस्य न
जातमिति न
पदार्थत्वव्याप्यधर्मप्रकारकज्ञानेच्छारूपविशेषजिज्ञासायाः अनुत्पत्तेः
विभागकरणमनुचितम् इति शङ्कापरिहारार्थः ऽपदस्यार्थःऽ
इत्यादि दीपिका ग्रन्थ इत्याह - ननु
सामान्यधर्मज्ञानस्ये ति। हेतुत्वाद् इति। 3सामान्यज्ञानस्य विशेषजिज्ञासायां स्वातन्त्र्येण,
इष्टसाधनताज्ञानधर्मितावच्छेदकज्ञज्ञनसम्पादकतया वा
हेतुत्वमिति
1. अनेकत्वे ऽपीति।
सप्ताधिकसंख्याकत्वे ऽपीत्यर्थः।
2. सामान्यधर्मः
पदार्थत्वं तत्प्रकारकज्ञानविशेष्यः पदार्थः तद्विशेष्यकं यत्
पदार्थत्वव्याप्याः परस्परासमानाधिकरणाः ये धर्माः
द्रव्यत्वगुणत्वादयः तत्प्रकारकं ज्ञानं ऽपदार्थाः
द्रव्यत्वगुणत्वादिमन्तःऽ इत्याकारकं तज्जनकशब्द इत्यर्थः।
3. सामान्यज्ञानस्य -
सामान्यधर्मप्रकारकज्ञानस्य,
विशेषजिज्ञासायाम्---विशेषधर्मप्रकारकज्ञानेच्छां प्रति।
सव्यभिचारग्रन्थे
गदाधरभट्टाचार्याः प्राहुः।
सामान्यधर्मज्ञानसत्त्वे विशेषजिज्ञासा तदभावे तदभावे इति
स्वतन्त्रान्वयव्यतिरेकशालितया हेतुत्वं सामान्यज्ञानस्य। अथवा
1स्वप्रकारकत्वसम्बन्धेन विशेषधर्मविशिष्टज्ञानविषयकेच्छां प्रति
विशेषधर्मविशिष्टज्ञानमिष्टसाधनमित्याकारकं
विशेषधर्मविशिष्टज्ञानधर्मिकेष्टसाधनताप्रकारकज्ञानं कारणम्।
तादृशेष्टसाधनताज्ञानं प्रति
धर्मितावच्छेदकीभूतविशेषधर्मप्रकारकं ज्ञानं कारणम्। विशिष्टे
वैशिष्ट्यावगाहिबुद्धिं प्रति विशेष्यतावच्छेदकप्रकारकज्ञानस्य
हेतुतायाः 2 राजपुरुषवादे
व्यवस्थापितत्वात्।
विंशेषधर्मप्रकारकज्ञाने च सामान्यधर्मज्ञानं कारणमिति परम्परया
सामान्यधर्मज्ञानस्य विशेषधर्मजिज्ञासायां हेतुत्वमिति गदाधरा शयः। तथा च सामान्यधर्मज्ञानं विना विशेषजिज्ञासा
नोत्पत्तुमर्हतीति भावः। सामान्यलक्षणकथनानन्तरम् इति। पदार्थानां सामान्यलक्षणे कथिते
तादृशलक्षणात्मकसामान्यधर्मज्ञानात् पदार्थः कतिविध इति
विशेषधर्मजिज्ञासा भवितुमर्हतीति भावः। न्यूनताम् इति।
अवश्यवक्तव्यार्थाकथनं लभ्यते। कथम् अभिधेयत्वं लभ्यत इति
मूलोक्तं सङ्गच्छत इत्याशङ्क्याह - पदस्यार्थे ऽभिधेय इति। यद्यपि शब्दतः पदसम्बन्ध्यभिधाविषयत्वं लभ्यते,
तथापि समग्रं न लक्षणम्, अभिधाविषयत्वस्यैव
पदार्थसामान्यलक्षणत्वसम्भवेन पदसम्बन्धित्वांश्स्य व्यर्थत्वात्।
1. स्वं विशेषधर्मः
द्रव्यत्वगुणत्वादिः तत्प्रकारकत्वसम्बन्धेन द्रव्यत्वादिविशिष्टं यत्
ज्ञानं तद्विषयकेच्छा ऽद्रव्यत्वादिप्रकारकज्ञानं मम भवतुऽ
इत्याकारिका तां प्रति ऽद्रव्यत्वादिप्रकारकज्ञानं मदिष्टसाधनम्ऽ
इत्याकारक ज्ञानं कारणम्। तादृशज्ञानं प्रति धर्मितावच्छेदकानां
द्रव्यत्वादीनां ज्ञानं कारणम्। द्रव्यत्वादिज्ञाने
पदार्थत्वरूपसामान्यधर्मज्ञानं कारणमित्यर्थः।
2. व्युत्पत्तिवादे
प्रथमाकारके राजपुरुषवाक्यार्थविचारावसरे ऽराजस्वत्वाभाववान्
पुरुषः सुन्दरःऽ इत्याकारके राजस्वत्वाभावविशिष्टे पुरुषे
सुन्दरत्ववैशिष्ट्यावगाहिज्ञाने ऽराजस्वत्वाभाववान् पुरुषःऽ
इत्याकारकं विशेष्यतावच्छेदकीभूतराजस्वत्वाभावप्रकारकं ज्ञानं
कारणमिति निरूपितम्। तदत्र अनुसंहितम्।
अतः
पदार्थशब्दलभ्यार्थैकदेशभूतं अभिधेयत्वमेव लक्षणत्वेन
विवक्षितमित्याशयः। अव्यावर्तकत्वाद् इति।
अव्याप्त्यतिव्याप्त्यादिवारणरूपप्रयोजनशून्यत्वादित्यर्थः।
अत्रेदं चिन्त्यम् -
दीपिकोक्तः विभागवाक्यघटकपदार्थपदेन सामान्यलक्षणलाभप्रकारः
न शोभते।
सामान्यलक्षणकथनानन्तरं ततः शिष्यस्य सामान्यधर्मज्ञानेन
पदार्थः कतिविध इति विशेषजिज्ञासायां विभागवाक्यस्य प्रवृत्तेः
विभागवाक्याघटकपदेन सामान्यधर्मसूचनस्यैवोचितत्वात्
विभागवाक्यघटकेन पदेन
विभागवाक्यप्रयोजकविशेषजिज्ञासाजनकसामान्यधर्मज्ञानोत्पादने ऽन्योन्यश्रयादिदोषेणौचित्यविरहात्।
तस्मात् मङ्गलश्लोकस्थतर्कपदेन ज्ञेयत्वरूपं सामान्यलक्षणं
सूचितम्। ततो विशैषजिज्ञासायां
द्रव्यगुणेत्यादिविभागवाक्यमवतीर्णमिति कथनमेव युक्तम्। तथैव
निर्व्यूढं च निरुक्त्यादिग्रन्थ
इति।
पदार्थत्वावान्तरधर्मपुरस्कारेण
धर्मिप्रतिपादनादेवे ति।
पदार्थत्वव्याप्यद्रव्यत्वादिधर्मंविशिष्टद्रव्यादिधर्मिप्रतिपादकद्रव्यादिशब्दादित्यर्थः।
ननु द्रव्यगुणेत्यादिशब्दमात्रात् द्रव्यत्वादिविशिष्टद्रव्यादीनां
बोधे ऽपि तेषु सप्तत्वसङ्ख्यायाः कथं बोध इति चेत् - अत्राहुः।
विभागादेवेति मूलस्य
द्रव्यगुणेत्यादिद्वन्द्वसमभिव्याहृतबहुवचनादेवेत्यर्थः। तथा
च द्वन्द्वसमभिव्याहृबहुवचनस्य
द्वन्द्वप्रतिपाद्यतावदर्थपर्याप्तसङ्ख्यावाचकत्वनियमः
अवश्यमङ्गीकरणीयः। अन्यथा रामलक्ष्मणभरतशत्रुघ्ना इत्यत्र
बहुवचनेन त्रित्वादिबोधापत्त्या अनुभवविरोधापत्तेः। एवं च
प्रकृते
द्वन्द्वप्रतिपाद्यद्रव्याद्यभावान्तसमुदायपर्याप्तसङ्ख्यावाचकतायाः
तादृशद्वन्द्वसमभिव्याहृतबहुवचनस्यावश्यं स्वीकरणीयतया
तादृशसङ्ख्या सप्तत्वसङ्ख्यंवेति बहुवचनेन तत्सिद्धिरिति। नीलकण्ठप्रकाशिकाया अपि कथञ्चिदत्रैव तात्पर्यं बोध्यम्।
मूले
अधिकसङ्ख्याव्यवच्छेदार्थकत्वाद् इति। अधिकसङ्ख्यायाः सप्तत्वाधिकाष्टत्वसङ्ख्यायाः व्यवच्छेदः
निषेधनिर्णयः अर्थः प्रयोजनं यस्य तत्त्वादित्यर्थः। तदाह - तादृशसङ्ख्ये ति। एवं च सप्तपदेन
अष्टमपदार्थनास्तित्वं बोध्यत इति फलितम्। अष्टमपदार्थस्य
भ्रान्तिसिद्धत्वे तस्य निषेधसम्भवेन निषेधायोगादिति
खण्डनं न युज्यत
इत्याशयेन ज्ञात इत्यनुक्त्वा प्रमित इति मूले उक्तम्। प्रमित
इत्यस्य प्रमाविषय इत्यर्थः। प्रमाविषयस्य सत्तानियमेन
निषेधायोगात् इति वक्तु शक्यत इति भावः। तत्रैव प्रतियोगिप्रमिति विने ति। यद्यप्यभावबुद्धौ प्रतियोगिज्ञानमेव
कारणम् न तु प्रतियोगिप्रमा, गगनाद्यभावबुद्धौ
प्रतियोगिगगनादिप्रकारकप्रमायाः कारणत्वासम्भवात्,
गगनादेरवृत्तितया तत्प्रकारिकायाः ऽइदं गगनवत्ऽ
इत्याकारकप्रमायाः असम्भवात्। तथापि प्रकृते
प्रतियोगिप्रमापदेन न प्रतियोगिप्रकारकप्रमा विवक्षिता अपि तु
प्रतियोगितावच्छेदकप्रकारकप्रतियोगिविशेष्यकप्रमैव 1विवक्षिता।
ऽइदं गगनम्ऽ इत्याकारिका
गगनत्वप्रकारकगगनविशेष्यकप्रमाप्रसिद्धैवेति तद्बलात्
गगनाभावबुद्धिः सम्भवति। प्रकृते सप्तपदार्थातिरिक्तपदार्थंस्य प्रमा
नास्तीति तन्निषेधो नोपपद्यत इति दीपिका शयः।
द्रव्यगुणेत्यादिवाक्येन पदार्थानुद्दिश्य
द्रव्यादिसप्तान्यतमत्वं विधीयते। उद्देश्यविधेयभावस्थले च
उद्देश्यतावच्छेदके विधेयव्याप्यत्वं भासत इति सामान्यनियमः।
यथा धनवान् सुखीत्यत्र धनवन्वमुद्दिश्य सुखस्य विधाने
उद्देश्यतावच्छेदके धने सुखव्याप्यत्वं भासते यत्र यत्र धनं तत्र
सुखमिति, तथा प्रकृते ऽपि उद्देश्यतावच्छेदके पदार्थन्त्वे
द्रव्यादिसप्तान्यतमत्वव्याप्यत्वं भासते यत्र यत्र पदार्थत्वं तत्र तत्र
द्रव्यादिसप्तान्यतमत्वमिति। तथा च सिद्ध्यसिद्धिभ्यां व्याघातो
नेत्यर्थः। तदेतदाह - उद्देश्यविधेयभावस्थल इति। औत्सर्गिकमि
ति। सामान्यन्यायसिद्धमित्यर्थः।
ऽअधिकसङ्ख्याव्यवच्छेदार्थकत्वात्ऽ इति पूर्वतनमूलग्रन्थे
व्यवच्छेदशब्दस्य यथा निषेधोर्ऽथः तथा ऽसप्तान्यतमत्वव्याप्यमिति
व्यवच्छेदार्थकत्वात्ऽ इति
1. तथा च ऽअभावबुद्धौ
प्रतियोगिज्ञानं कारणम्ऽ इति प्रवादस्यापि प्रतियोगिता
वच्छेदकप्रकारकप्रतियोगिविशेष्यकज्ञानं कारणमित्येवार्थः। न तु
प्रतियोगिप्रकारकज्ञानमिति भावः।
प्रकृत्तमूलस्थव्यवच्छेदपदस्यापि निषेधोर्ऽथ इति न
भ्रमितव्यमिति बोधयितुं व्याचष्टे - एतद्रूप इति। तदर्थकत्वाद् इति। सप्तग्रहणस्येति शेषः।
ननु सप्तान्यतमत्वं
नाम सप्तभिन्नभिन्नत्वम्। सप्तपदार्थभिन्नस्याप्रसिद्ध्या
तद्भिन्नत्वरूपमन्यतमत्वमप्रसिद्धमिति तन्निरूपितव्याप्यत्वं पदार्थे न
निश्चेतुं शक्यत इति तादृशनिश्चयफलकत्वं
सप्तग्रहणस्य न युज्यत
इत्याशङ्कितं ऽननु सप्तान्यतमत्वम्ऽ इत्यादिना दीपिकायाम् । तत्राप्रसिद्धिशङ्कान न युज्यते, ये
द्रव्यादयः सप्तपदार्थाः प्रत्येकं तद्भिन्नभिन्नत्वस्य प्रत्येकं सत्त्वात्।
द्रव्यभिन्नगुणादिभिन्नत्वस्य द्रव्ये, गुणभिन्नद्रव्यादिभिन्नत्वस्य गुणे
सतत्वमिति रीत्या सप्तस्वपि पदार्थेषु तद्भिन्नभिन्नत्वस्य
सत्त्वादित्याशङ्क्य व्याचष्टे - द्रव्यादयो ये सप्ते ति।
एवं च द्रव्यादयो ये सप्त पदार्थाः तद्भेदकूटविशिष्टं -
तद्भेदसप्तकविशिष्टं यत् तद्भिन्नत्वं सप्तान्यतमत्वम्। तत्र भेदसप्तकविशिष्टमप्रसिद्धम्, द्रव्ये
गुणादिप्रतियोगिकभेदषट्कस्य सत्त्वे ऽपि द्रव्यभेदस्यासत्त्वेन
तद्घटितसप्तभेदसमुदायस्यासम्भवात्, एवं गुणादावपि। तथा च
भेदसप्तकविशिष्टात्मकस्य सप्तभिन्नस्याप्रसिद्धतया तद्भिन्नत्वरूपं
सप्तभिन्नभिन्नत्वमप्रसिद्धमिति शङ्कितुराशय इति भावः। द्रव्ये
गुणभेदः गुणे द्रव्यभेद इत्येवं प्रत्येकं प्रसिद्धा ये भेदाः सप्त
तत्समुदायत्वावच्छिन्नाभावो ऽत्र सप्तान्यतमत्वम्। पदार्थत्वं यत्र
यत्रास्ति तत्र
तादृशसमुदायत्वावच्छिन्नाभावो ऽस्ति अतः व्याप्तिनिश्चयः सुकर
इत्याशयमाह - द्रव्यादिभेदानाम् इति।
बहुषु ग्रन्थेषु
सप्तान्यतमेत्वमप्रसिद्धमिति शङ्कातत्समाधानपरो ग्रन्थो न
दृश्यते। अतः पदार्थत्वं द्रव्यादिसप्तान्यतमत्वव्याप्यमिति दीपिकायाः
यादृशार्थवर्णने ऽप्रसिद्धिशङ्का नोदियात् तादृशमर्थं कथयति -
वस्तुतस्त्व् इति।
यत्र यत्र पदार्थत्वं
तत्र तत्र द्रव्यत्वादयः ये सप्त उपाधयः धर्मास्तदन्यतमवत्त्वमिति
व्याप्तिः प्रकृते विवक्षिता। पदार्थत्वं द्रव्ये ऽस्ति, तत्र
द्रव्यत्वादिसप्तान्यतमभूतद्रव्यत्ववत्त्वमस्तीति। द्रव्यादौ व्याप्तिः
सुग्रहा। अन्यतमत्वं च तद्भिन्नभिन्नत्वमेव। द्रव्यत्वादयः ये सप्त
धर्माः तद्भिन्नाः घटत्वादयः तद्भिन्नत्वं द्रव्यत्वादिष्वस्तीति
नाप्रसिद्धिशङ्कावकाश इति भावः। एवं रीत्येति। द्रव्यत्वं
पृथिव्याद्यन्यतमत्वव्याप्यमिति निर्णयार्थं नवग्रहणमिति
रीत्येत्यर्थः॥
तर्कसङ्ग्रहः
द्रव्यविभागः
अन्त्स्_3 तत्र द्रव्याणि पृथिव्यप्तेजोवाय्वाकाशकालदिगात्ममनांसि नवैव ॥
दीपिका
द्रव्यं विभजते -
तत्रे ति। तत्र - द्रव्यादिमध्ये। द्रव्याणि नवैवेत्यन्वयः।
कानि तानि इत्यत आह - पृथिवी ति॥
प्रकाशिका
द्रव्यम् इति। जात्येकवचनम्।
बालप्रिया
ननु ऽद्रव्यं
विभजते तत्रेतिऽ इति दीपिका ग्रन्थो ऽनुपपन्नः। तथा हि - द्रव्यपदोत्तरैकवचनस्य
एकत्वमर्थः। तस्य प्रकृत्यर्थे द्रव्ये ऽन्वयः। तस्य द्वितीयार्थे विशेष्यत्वे
आधेयतासम्बन्धेनान्वयः। विशेष्यतायाः निरूपकतासम्बन्धेन
धात्वर्थैकदेशज्ञाने अन्वयः। विपूर्वकभजधातोः
द्रव्यत्वव्याप्यपरस्परविरुद्धनानाधर्मप्रकारकप्रमात्मकज्ञानजनकशब्दोर्ऽथः।,
तस्यानुकूलतासम्बन्धेन आख्यातार्थकृतौ, तस्याः आश्रयतासम्बन्धेन
अन्नम्भट्टे अन्वय इति
एकत्वविशिष्टद्रव्यविशेष्यकद्रव्यत्वव्याप्यपरस्परासमानाधिकरण-
नानाधर्मप्रकारकप्रमात्मकज्ञानजनकशब्दानुकूलकृत्याश्रयो ऽन्नम्भट्ट
इति ऽद्रव्यं विभजतऽ इति वाक्यात् बोधः। तत्र एकद्रव्यविशेष्यकं
द्रव्यत्वव्याप्यपृथिवीत्वादिनानाधर्मविशेषणकं प्रमात्मकं ज्ञानं न
सम्भवति। पृथिव्यादि रूपैकद्रव्यविशे ऽतिरिक्तत्वे
अनन्तावयवतत्प्रागभावादिकल्पनागौरवम् अत
आवश्यकतेजो ऽभावरूपत्वं सिध्यतीत्यपि बोध्यम्॥
बालप्रिया
ऽतमः दशमद्रव्यम्,
कॢप्तद्रव्यानन्तर्भूतत्वे सति द्रव्यत्वात्ऽ इति परिशेषानुमानेन
तमसः दशमद्रव्यत्वं सिषाधयिषितम्। तत्र हेतौ
द्रव्यत्वरूपविशेष्यासिद्धिपरिहाराय ऽतमः द्रव्यम्, रूपवत्त्वात्
क्रियावत्त्वाच्चऽ
इत्यनुमानेन
तमसो द्रव्यत्वं साधनीयम्। तत्रापि हेत्वसिद्धिशङ्का न कार्या;
ऽनीलं तमः,ऽ ऽचलति तमःऽ इत्याकारिकया अबाधितया प्रत्यक्षरूपया
प्रतीत्या तमसः रूपवत्त्वस्य क्रियावत्त्वस्य च सिद्धेः। तदाह दीपिकायां ऽनीलं तमऽ इत्यादिना। प्रतीतिबलाद् इति
1पञ्चम्यन्तस्य रूपाधारत्वे क्रियाधारत्वे चान्वयः।
बाधितप्रतीतेर्विषयासाधकत्वात् अबाधितेत्युक्तम्।
ज्ञानसामान्यवाचकप्रतीतिशब्दः प्रकृते प्रत्यक्षात्मकज्ञानपरः,
प्रथमोपस्थितपरित्यागे मानाभावात्। प्रत्यक्षासम्भवस्थल
एवानुमानपरत्वात् ज्ञानसामान्यवाचकपदस्येत्याशयेनाह - प्रकाशिकायां
प्रात्यक्षिकप्रतीतिबलाद् इति।
ननु ऽतमो द्रव्यम्, नीलरूपाधारत्वात्
क्रियाधारत्वाच्चऽ इत्यनुमानं व्यभिचारि, द्रव्यत्वाभाववति
2जन्यगुणादावपि कालिकसम्बन्धन रूपाधारत्वस्य क्रियाधारत्वस्य च
सत्त्वादित्याशङ्क्याह - समवायेन नीलरूपवत्तेयेत्यर्थ इति। तथा च
समवायसम्बन्धावच्छिन्ननीलरूपनिष्ठाधेयतानिरूपिताधारत्वं
तादृशक्रियानिष्ठाधेयतानिरूपिताधिकरणत्वं च प्रकृते हेतुतया
विवक्षितम्। जन्यगुणादौ कालिकसम्बन्धावच्छिन्न
1. प्रतीतिबलादिति
पञ्चम्यन्तस्य ऽतमसो द्रव्यत्वं सिद्धम्ऽ इत्यनेनान्वय इति
भ्रमवारणाय रूपाधारत्वे क्रियाधारत्वे चान्वय इत्युक्तम्।
2. नित्यपदार्थेषु
कालिकसम्बन्धेन किमपि नास्ति, नित्येषु कालिकायोगादिति
सिद्धान्तात्। तथा च नित्यगुणादेः कालिकसम्बन्धेन रूपाधारत्वं न
सम्भवतीत्यमिप्रेत्य जन्यगुणादावित्युक्तम्।
1रूपक्रियानिष्ठाधेयतानिरूपिताधारत्वमेवास्तीति न
व्यभिचार इति भावः। कालिकसम्बन्धेन तस्ये ति। कालिकसम्बन्धावच्छिन्नरूपक्रियाधारत्वस्येत्यर्थः। अतिप्रसक्तत्वे ऽपि - द्रव्यातिरिक्तवृत्तित्वे ऽपि। न क्षतिः - नव्यभिचारः। एवमग्रे ऽपि बोध्यम् इति।ऽतमसो नाकाशादिपञ्चके ऽन्तर्भावः
रूपवत्त्वात्ऽ इत्यत्रापि रूपवत्त्वादित्यस्य समवायेन
रूपवत्त्वादित्यर्थो बोध्य इति भावः।
एतावता ऽतमो
दशमद्रव्यम्, कॢप्तद्रव्यानन्तर्भूतत्वे सति द्रव्यत्वात्ऽ इति
परिशेषानुमाने हेतुघटकं द्रव्यत्वं साधितम्। अथ हेतुघटकं
कॢप्तद्रव्यानन्तर्भूतत्वं साध्यते दीपिकायाम् तत्र तमस इत्यादिना। ननु रूपवत्त्वहेतुनैव तमसः वायावनन्तर्भावे
सिद्धे पुनः तत्साधकतया स्पर्शाभावस्योपन्यासो व्यर्थ
इत्याशङ्क्याह - सम्बन्धभेदाभिप्रायेणे ति।रूपवत्त्वं समवायसम्बन्धेन हेतुः।
स्पर्शाभावस्तु स्वरूपसम्बन्धेन हेतुः। समवायसम्बन्धेन हेतुमुक्त्वा
स्वरूपसम्बन्धेन हेतुमाहेत्यर्थः। यदि तमो वायावन्तर्भवेत्
रूपवत् न स्यात् स्पर्शशून्यं च न स्यात्। यतः तमः रूपवत्
स्पर्शशून्यं च अतो वायौ नान्तर्भवतीति भावः।
ननु ऽतमः
वायुभिन्नम्, स्पर्शाभावात्ऽ इत्यनुमानं फलितम्। तत्र
वायुभेदरूपसाध्याभाववति वायौ
स्पर्शनिष्ठसंयोगसम्बन्धावच्छिन्नप्रतियोगिताकाभावरूपस्य
स्पर्शाभावस्य सत्त्वात् व्यभिचारः। न च
स्पर्शनिष्ठसमवायसम्बन्धावच्छिन्नप्रतियोगिताकाभावो हेतुत्वेन
विवक्षितः। स च न वायावस्ति, तत्र समवायेन स्पर्शस्य सत्त्वात्
तदभावासम्भवादिति वाच्यम्।
समवायसम्बन्धावच्छिन्नस्पर्शनिष्ठप्रतियोगिताकाभावस्य
कालिकसम्बन्धेन वायौ सत्त्वात् व्यभिचारतादवस्थ्यात्। न च
समवायावच्छिन्नस्पर्शाभावस्य स्वरूपसम्बन्धेन हेतुतायाः
विवक्षितत्वात् न व्यभिचार इति वाच्यम्। एवमपि
उत्पत्तिकालावच्छिन्नवायौ ऽउत्पन्नं द्रव्यं क्षणमगुणमक्रियं च तिष्ठतिऽ
इति न्यायेन स्पर्शस्याभावः
1. रूपनिष्ठा
क्रियानिष्ठा च या आधेयता तन्निरूपिताधारत्वमित्यर्थः।
स्वरूपसम्बन्धेनास्तीति
व्यभिचारस्य दुर्वारत्वादित्याशङ्क्याह इदं च ध्वंसप्रागभावाधिकरण इति। तथा च स्पर्शप्रागभाववति
उत्पत्तिक्षणावच्छिन्नवायौ स्पर्शात्यन्ताभावो नास्तीति हेतोः
प्राचीनमते न व्यभिचार इति भावः। अन्यथे ति।
ध्वंसप्रागभावाधिकरणे ऽत्यन्ताभावो ऽङ्गीक्रियत इति नवीनमत
इत्यर्थः। नव्यमते ऽपि व्यभिचारं वारयितुमाह - वस्तुतस्तु इति। तथा च वायौ स्पर्शात्यन्ताभावः
उत्पत्तिकालावच्छिन्नदैशिकविशेषणतासम्बन्धेनैव
वर्तते, न तु
निरवच्छिन्नदैशिकविशेषणतासम्बन्धेनेति न व्यभिचार इति भावः।
दैशिकविशेषणतापदेन स्वरूपसम्बन्धः कालिकविशेषणतापदेन
कालिकसम्बन्धश्च नव्यन्यायग्रन्थेषु व्यवह्रियते।
विषमव्याप्तहेतुम् इति। साध्यमात्रनिरूपितव्याप्तिमान् हेतुः
विषमव्याप्त इति,
हेतुनिरूपितव्याप्तिमत्साध्यनिरूपितव्याप्तिमान् हेतुः समव्याप्त
इति चोच्यते। ऽतमः वायुभिन्नम्, रूपवत्त्वात्ऽ
इत्यनुमानप्रयोगे यत्र यत्र रूपवत्त्वं तत्र वायुभेद इति
वायुभेदनिरूपिता व्याप्तिः हेतौ रूपवत्त्वे ऽस्ति। यत्र यत्र वायुभेदः
तत्र तत्र रूपवत्त्वमिति रूपवत्त्वनिरूपिता व्याप्तिस्तु वायुभेदे न
सम्भवति, वायुभेदवत्याकाशादौ रूपवत्त्वाभावेन व्यभिचारात्।
अतो रूपवत्त्वं विषमव्याप्तो हेतुः। एवं स्पर्शाभावो ऽपि। यत्र यत्र
स्पर्शाभावः तत्र तत्र वायुभेद इति व्याप्तिसत्त्वे ऽपि यत्र यत्र
वायुभेदः तत्र तत्र स्पर्शाभाव इति व्याप्त्यभावात् वायुभेदवति
घटादौ स्पर्शस्यैव सत्त्वात्। ऽतमः वायुभिन्नम्,
सदागतिमत्त्वाभावात्ऽ इत्यत्र सदागतिमत्त्वाभावस्तु समव्याप्तो
हेतुः। यत्र यत्र वायुभेदः तत्र तत्र सदागतिमत्त्वाभाव इति
सदागतिमत्त्वाभावनिरूपितव्याप्तेः वायुभेदे, यत्र यत्र
सदागगिमत्त्वाभावः तत्र तत्र वायुभेद इति
वायुभेदनिरूपितव्याप्तेः सदागतिमत्त्वाभावे च सत्त्वादिति। विजातीयक्रिये ति। वायुमात्रवृत्तिर्विलक्षणक्रियेत्यर्थः।
दीपिकायां नापि तेजसी ति। ऽतमः तेजसि नान्तर्भवति
(तेजोभिन्नम्), भास्वररूपाभावात् उष्णस्पर्शाभावाच्चऽ
इत्यनुमानम्। तत्र भास्वररूपाभावः विषमव्याप्तः, उष्णस्पर्शाभावः
समव्याप्तः। एवं ऽतमः जलभिन्नम् शीतस्पर्शाभावात् नीलरूपवत्त्वाच्चऽ
इत्यनुमाने शीतस्पर्शाभावः समव्याप्तः, नीलरूपवत्त्वं
विषमव्याप्तम्। ऽतम्ः पृथिवीभिन्नम्, गन्धाभावात्
स्पर्शरहितत्वाच्चऽ इत्यत्र गन्धाभावः समव्याप्तः, स्पर्शरहितत्वं
विषमव्याप्तमिति ऊह्यम्।
तमसः द्रव्यत्वमेव
नास्ति, कुतो दशमद्रव्यत्वम्। तमस्त्वभावाख्ये
सप्तमपदार्थेंऽन्तर्भूतमिति मत्वा तमसस्तेजो ऽभावरूपत्वात् इत्युक्तं दीपिकायाम्
। तत्र तेजो ऽभावपदेन
तेजःप्रतियोगिकाभावविवक्षायां सूर्यादितेजस्वत्यपि देशे
तेजो ऽन्तरप्रतिंयोगिकाभावसत्त्वेन तम इति प्रतीतिप्रसङ्गः।
तेजस्त्वावच्छिन्नप्रतियोगिताकाभावविवक्षायां तमस्वत्यपि देशे
तेजःपरमाण्वादिसत्त्वेन तेजस्सामान्याभावस्यासत्त्वेन तम इति
प्रतीत्यनुपपत्तिः। प्रकाशकं यत्तेजः
तत्त्वावच्छिन्नप्रतियोगिताकाभावविवक्षणेन तेजःपरमाण्वादीनां
प्रकाशकत्वाभावात् पूर्वोक्तदोषवारणे ऽपि
प्रकाशकतेजस्त्र्यणुकखद्योतादिमति प्रदेशे तमःप्रतीत्यनुपपत्तिः। अतः
प्रौढं प्राकशकं च यत्तेजः तत्त्वावच्छिन्नप्रतियोगिताकाभावो
विवक्षणीयः। प्रौढत्वं च प्रकृष्टमहत्ववत्त्वम्।
त्र्यणुकादेतादृशप्रौढत्वाभावात् तत्सत्त्वे ऽपि
तमःप्रतीतेर्नानुपपत्तिः। तदेतत्सर्वं मनसिकृत्याह - प्रौढप्रकाशके ति। प्रकाशकपदप्रयोजनमाह - अत इति।
प्रौढप्रकाशकतेजस्त्वावच्छिन्नप्रतियोगिताकाभावस्तम
इत्युक्तौ प्रकाशकपदं वयर्थम्। तेजःपरमाणूनां
प्रकृष्टमहत्त्वरूपप्रौढत्वाभावादेव वारणसम्भवात्। अतः
हिरण्यादितेजोवारणाय प्रकाशकपदमिति वक्तव्यम्। एवमपि
चक्षुरादितेजस्वति
प्रदेशे तमःप्रतीत्यनुपपत्तिः। तद्वारणाय उद्भूतरूपवत्त्वमपि तेजसि
विशेषणं देयम्। तथा च
प्रकृष्टमहत्त्ववत्प्रकाशकोद्भूतरूपवत्तेजस्त्वावच्छिन्नप्रतियोगि ताकाभावस्तमः।
अथ वा पौढत्वं महाप्रभावत्त्वम्। तेनैव परमाणूनां हिरण्यादेश्च
वारणसम्भवात् प्रकाशकपदमनुपादेयम्।
महाप्रभावत्त्वावच्छिन्नप्रतियोगिताकाभावस्तम इति फलितम्।
तदेतदभिसन्धायाह - दिगि
ति।
ननु तमसो
रूपवत्त्वेन द्रव्यत्वस्य पूर्वं प्रसाधितत्वात्
कथमभावरूपत्वमित्याशङ्क्य दीपिकायां ऽतमः न
रूपिद्रव्यम्ऽ इत्याद्युक्तम्। अत्र तमसो रूपवत्त्वाभावः द्रव्यत्वाभावश्च
सिषाधयिषितः। तमो यदि रूपवत् द्रव्यं वा भवेत्, तदा
आलोकसहकृतेनैव चक्षुषा गृह्येत, यतः आलोकासाहकृतेन चक्षुषा
गृह्यते अतः तमो न रूपवत् न वा द्रव्यमिति। यत्र यत्र
आलोकासहकृतचक्षुर्ग्राह्यत्वं तत्र तत्र रूपवद्भिन्नत्वं द्रव्यभिन्नत्वं च
यथा आलोकाभावे इति व्याप्तिसद्भावात्। हेतौ
आलोकासहकृतेति विशेषणानुपादाने साध्याभाववति रूपवद्द्रव्ये
घटादौचक्षुर्ग्राह्यत्वरूपहेतुसत्त्वात् व्यभिचारः स्यादिति
तदुपादानम्। घटादिरालोकसहकृतचक्षुर्ग्राह्यः न
तदसहकृतचक्षुर्ग्राह्य इति न व्यभिचारः। तदाह - घटादाव् इति।
ननु चक्षुर्ग्राह्यत्वं नाम
चक्षुर्जन्यप्रत्यक्षविषयत्वम्।
आलोकासहकृतचक्षुर्जन्यतमोविषयकप्रत्यक्षे यत्र
ज्ञानलक्षणप्रत्यासत्त्या
घटो ऽपि भातः, तत्प्रत्यक्षविषये घटादौ व्यभिचार इति
शङ्कायामाह - चक्षुर्ग्राह्यत्वं
चक्षुर्जन्यज्ञानीयलौकिकविषयत्वम् इति। तमसश्चाक्षुष इति। तमोविषयके चक्षुर्जन्यप्रत्यक्ष
इत्यर्थः। उपनयमर्यादये
ति। ज्ञानलक्षणप्रत्यासत्त्येत्यर्थः।
केषुचित् कोशेषु"तेन तमसश्चाक्षुषे तमोवान् घट इति
घटादिनामुपनयमर्यादया भाने ऽपि न क्षतिः"इति
पाठो दृश्यते। तत्र ऽतमोवान् घट इतिऽ इति भागः अप्रामाणिकः,
उपनीतं विशेषणतयैव भासते न तु विशेष्यतयेति
सिद्धान्तविरोधात्। अतस्तद्भागरहितः पाठः एव क्वचित् दृश्यमानः
साधुः। अथ वा ऽघटवत्तमः इतिऽ इति शोधयित्वा पठनीयम्।
ननु
तेजस्सामान्याभावस्य पक्षतया तदन्तर्गतस्य आलोकाभावस्य
दृष्टान्तत्वकथनं न युक्तम्, पक्षातिरिक्तस्यैव दृष्टान्तत्वात् इत्यत
आह - विशेषाभावम् इति।
सामान्यधर्मावच्छिन्नप्रतियोगिताकाभावः पक्षः, तदतिरिक्तः
विशेषधर्मावच्छिन्नाभावो दृष्टान्तः। अतो नानुपपत्तिरिति भावः।
ननु
आलोकासहकृतचक्षुर्ग्राह्यत्वरूपहेतुरस्तु रूपवद्द्रव्यभेदरूपसाध्यं
मास्तु इत्यप्रयोजकशङ्कायामुक्तं दीपिकायाम् - रूपिद्रव्यचाक्षुषप्रमायामित्या दि। यदि रूपिद्रव्यभेदो न स्यात् तर्हि
आलोकासहकृतचक्षुर्ग्राह्यं न स्यात्। अर्थात् यदि रूपिद्रव्यं स्यात्
तर्हि आलोकसहकृतचक्षुर्ग्राह्यं स्यादिति तर्कः
अप्रयोजकशङ्कानिवारकः वक्तव्यः। स च तर्कः
रूपवत्त्वप्रकारकद्रव्यविशेष्यकचक्षुर्जन्यप्रमात्मकप्रत्यक्षे आलोकः
कारणमिति कार्यकारणभावे सति स्यादित्याशयेन कार्यकारणभावः
प्रदर्शितः। तत्र प्रमापदस्य प्रयोजनमाह - आलोकं विने ति। तथा
च प्रमापदानुपादाने आलोकाभावे ऽपि
रूपवत्त्वप्रकारकतमोविशेष्यकभ्रमात्मकप्रत्यक्षोत्पत्त्या
व्यतिरेकव्यभिचारः स्यात्। तद्वारणाय प्रमापदमिति भावः। अन्यथे ति। रू पिद्रव्यचाक्षुषप्रमायामालोकस्य
कारणत्वाभावे इत्यर्थः।
ननु
रूपिद्रव्यविषयकचाक्षुषप्रमायामालोकस्य कारणत्वं न सम्भवति,
आलोकं विनापि रूपवतस्तेजोद्रव्यस्य
चाक्षुषप्रमायाः उत्पत्त्या
व्यतिरेकव्यभिञ्चारात्। न च तेजोभिन्नं यत् रूपिद्रव्यं
तद्विषयकचाक्षुषप्रमायामेवालोकस्य कारणत्वम्, अतो न
व्यतिरेकव्यभिचार इति वाच्यम्। तेजोभिन्नत्ववत्
तमोभिन्नत्वमित्यपि विशेषणं दत्त्वा तमोभिन्नं तेजोभिन्नं च यत्
द्रव्यं
तद्विषयकचाक्षुषप्रमायामेव आलोकः कारणमिति स्वीकारेण आलोकं
विनापि तमसश्चाक्षुषत्वसम्भवात्। तथा च
आलोकासहकृतचक्षुर्ग्रांह्यत्वे ऽपि क्षत्यभावात् तमसो ऽतिरिक्तद्रव्यत्वं
निष्प्रत्यूहमेवेत्यत आह-दिगिति। सर्वांनूभूयमानोष्णस्पर्शाश्रयतया
तेजोद्रव्यस्यावश्यं स्वीकार्यतया तत्प्रत्यक्षनिर्वाहाय
कार्यतावच्छेदककोटौ तेजोभिन्नत्वनिवेशे ऽपि
तमसो ऽभावरूपत्वे ऽपि क्षत्यभावात् तद्भिन्नत्वनिवेशो ऽनुचितः।
तथा च
तमसो द्रव्यत्वे
आलोकासहकृतचक्षुर्ग्राह्यत्वानुपपत्त्या तमो न रूपिद्रव्यमिति
सुष्ठूक्तमिति भावः॥
दीपिका
द्रव्यलक्षणम्
द्रव्यत्वजातिमत्त्वं गुणवत्त्वं वा द्रव्यसामान्यलक्षणम्।
प्रकाशिका
मुक्तिसाधनीभूतपदार्थतत्त्वज्ञानं लक्षणज्ञानं विना नोपपद्यत
इत्यत आह - द्रव्यत्वे ति। संयोगजनकतावच्छेदकतया
द्रव्यत्वजातिसिद्धिरिति भावः।
ननु
लक्षणलक्ष्यतावच्छेदकयोरभेद इत्यत आह - गुणवत्त्वम् इति। द्रव्यसामान्यलक्षणमि
ति। एवं च सामान्यधर्माकथनेन न
न्यूनतेति भावः।
बालप्रिया
मूले
द्रव्यत्वजातिमत्त्वं द्रव्यस्य लक्षणमुक्तम्। तत्र द्रव्यत्वजातौ किं
मानमित्याशङ्क्याह - संयोगजनकतावच्छेदकतये ति। अनेन द्रव्यत्वजातौ अनुमानं प्रमाणमुक्तं भवति। तथा हि
- द्रव्ययोरेव संयोग इति संयोगं प्रति द्रव्यं समवायिकारणम्।
समवायसम्बन्धेन संयोगं प्रति तादात्म्यसम्बन्धेन द्रव्यं कारणम्।
समवायसम्बन्धावच्छिन्नसंयोगनिष्ठकार्यतानिरुपिततादात्म्यसम्बन्धावच्छिन्नकारणता
द्रव्ये वर्तते। तां कारणतां पक्षीकृत्य तत्र किञ्चिद्धर्मावच्छिन्नत्वं
कारणतात्वेन हेतुना साधनीयम्।
समवायसम्बन्धावच्छिन्नसंयोगनिष्ठकार्यतानिरूपितादात्म्यसम्बन्धावच्छिन्नद्रव्यनिष्ठकारणता
किञ्चिद्धर्मावच्छिन्ना कारणतात्वात्, या या कारणता सा सा कारणता
किञ्चिद्धर्मावच्छिन्ना यथा घटनिष्ठकार्यतानिरूपितदण्डनिष्ठकारणता
दण्डत्वावच्छिन्ना तद्वत् इत्यनुमानेन द्रव्यनिष्ठोक्तकारणतायां
द्रव्यत्वरूपकिञ्चिद्धर्मांवच्छिन्नत्वसिद्धौ सिध्यतो धर्मस्य जातित्वे
लाघवमिति लाघवज्ञानसहकारेण द्रव्यत्वाख्यजातिसिद्धिरिति भावः।
द्रव्यस्य गुणवत्त्वं
लक्षणान्तरमुक्तं मूले। तत्कथते बीजमाह - लक्षणलक्ष्यतावच्छेदकयोरभे द इति। द्रव्यस्य द्रव्यत्वं लक्षणमित्मुक्ते लक्ष्यं द्रव्यम्
लक्ष्यतावच्छेदकं द्रव्यत्वम्, लक्षणमपि द्रव्यत्वमेवेति
लक्षणलक्ष्यतावच्छेदकयोरभेदः स्यात्। नन्वस्तु नाम तयोरभेदः,
तावता को दोष इति चेत् - श्रूयताम्। लक्षणस्य हि लक्ष्ये
इतरभेदानुमितिः प्रयोजनम्। लक्षणं
लक्ष्योद्देश्यकेतरभेदविधेयकानुमितिजनकमिति यावत्। यथा गोः
सास्नावत्त्वं लक्षणं चेत् ऽगौः स्वेतरभिन्ना, सास्नावत्त्वात्ऽ
इत्यनुमानेन गोः इतरभिन्नत्वं सिध्यति। तथा प्रकृते ऽपि
द्रव्यस्य यदि द्रव्यत्वं लक्षणं तदा ऽद्रव्यम् इतरभिन्नम्, द्रव्यत्वात्ऽ
इत्यनुमानं प्रयोक्तव्यम्। तत्र ऽद्रव्यम् इतरभिन्नम्ऽ
इत्यनुमितिः।
तां प्रति इतरभेदव्याप्यद्रव्यत्ववत् द्रव्यमिति परामर्शंः कारणम्।
व्याप्तिश्च हेतुव्यापकसाध्यसामानाधिकरण्यरूपा। तथा च
द्रव्यत्वव्यापकेतरभेदसमानाधिकरणद्रव्यत्ववत् द्रव्यमिति
परामर्शस्य आकारः सम्पन्नः। तत्र द्रव्यत्वे
इतरभेदसामानाधिकरण्ये भासमाने तुल्यवित्तिवेद्यतया
इतरभेदे द्रव्यत्वसामानाधिकरण्यमपि भासते। तुल्यवित्तिवेद्यता
नाम एकज्ञानविषयत्वम्। अनुमित्तौ च पक्षवृत्तित्वात्मकं
पक्षतावच्छेदकसामानाधिकरण्यं साध्ये भासते। एवं च
अनुमितिविषयस्य इतरभेदेद्रव्यवृत्तित्वस्य परामर्शेन
विषयीकृततया परामर्शसिद्धस्यैव विषयस्य अनुमित्या साधनात्
सिद्धसाधनाख्यो दोषः प्रसजति। अनुमितेः पूर्वं पक्षे
साध्यनिश्चयसत्त्वे सिद्धसाधनदोषः भवति। अतो द्रव्यस्य यदि
द्रव्यत्वजातिमत्त्वं लक्षणं तदा सिद्धसाधनाख्यदोषः प्रसजतीति
पर्यालोच्य लक्षणान्तरानुधावनं कृतमिति भावः।
सामान्यधर्मज्ञानं
विना विशेषधर्मविज्ञासाया अनुदयात् विभागकरणमनुचितमिति
शङ्कापरिहाराया मूले द्रव्यसामान्यलक्षणमुक्तमित्याह - एवञ्चे ति। न्यूनते ति। लक्षणाकथनरूपा न्यूनतेत्यर्थः।
दीपिका
अव्याप्त्यादिलक्षणम्।
1लक्षणस्य त्रीणि
दूषणानि। लक्ष्यैकदेशावृत्तित्वमव्याप्तिः। यथा गोः कपिलत्वम्।
अलक्ष्ये लक्षणस्य वर्तनमतिव्याप्तिः। यथा गोः शृङ्गित्वम्।
लक्ष्यमात्रावृत्तित्वमसम्भवः। यथा गोरेकशफवत्त्वम्।
प्रकाशिका
दूषणत्रयरहितधर्मस्यैव लक्षणत्वस्य वक्ष्यमाणतया तज्ज्ञानं
विशेषणीभूतदूषणत्रयरहितत्वज्ञानं विना न सम्भवति।
दूषणत्रयरहितत्वज्ञानं तु विशिष्य दूषणत्रयज्ञानाधीनम्।
अभावबुद्धिं प्रति प्रतियोगितावच्छेदकविशिष्टप्रतियोगिज्ञानस्य
तन्त्रत्वादित्याशयेन दूषणत्रयं दर्शयति - लक्ष्यैकदेशावृत्तित्वम् इति। लक्षणतावच्छेदकत्वाभिमतसम्बन्धेन
किञ्चिल्लक्ष्यावृत्तित्वमित्यर्थः। लक्ष्यमात्रे ति। मात्रपदं
कृत्स्नार्थकं
सम्बन्धविशेषावच्छिन्नलक्ष्यवृत्तित्वसामान्याभावस्फोरकम्। एकशफवत्त्वम् इति। न चात्र
अलक्ष्यवृत्तित्वरूपातिव्याप्तेरपि सत्त्वात् सङ्कर इति वाच्यम्।
दुष्टसङ्करे ऽपि दोषासङ्कर इति न्यायात्।
बालप्रिया
द्रव्यसामान्यलक्षणमिति दीपिका ग्रन्थश्रवणानन्तरं लक्षणशब्दार्थः कः? किं नाम लक्षणस्य लक्षणम्
इति शिष्यस्य जिज्ञासा जायते। तच्छान्तये लक्षणस्य लक्षणं वक्तव्यम्।
ततः प्राक् अव्याप्त्यादीनां लक्षणकथनमसङ्गतमित्यत आह - दूषणत्रये त्यादिना। दूषणत्रयरहितधर्मत्वं लक्षणस्य लक्षणम्।
दूषणत्रयरहितत्वं च दूषणत्रयाभाववत्त्वम्। तथा च
दूषणत्रयाभावविशिष्टधर्मत्वं लक्षणलक्षणमिति पर्यवसितम्। तत्र
विशिष्टबुद्धौ विशेषणज्ञानस्य कारणत्वात्
दूषणत्रयाभावरूपविशेषणज्ञानं कारणम्। तादृशविशेषणज्ञानं च
दूषणत्रयज्ञानं विना न सम्भवति, अभावबुद्धौ प्रतियोगिज्ञानस्य
कारणत्वात्। अतः दूषणत्रयं
1. लक्षणस्य त्रीणि
दूषणानीति नृसिंहप्रकाशिकानुमतः पाठः।
लक्षणतो दर्शंनीयम्
इत्याशयेन दीपिकायां अव्याप्त्यादिदूषणत्रयस्य लक्षणमुक्तमिति
भावः।
विशिष्य दूषणत्रयज्ञानाधीनम् इति। अत्रायमाशयः - दूषणत्रयरहितत्वं
नाम न दूषणत्रयत्वावच्छिन्नप्रतियोगिताकाभावः। तथा सति
अव्याप्त्याद्येकतमदूषणवति कपिलत्वादिधर्मे एकसत्त्वे ऽपि त्रयं
नास्तीति न्यायेन दूषणत्रयाभावसत्त्वेन तद्वतः कपिलत्वादेः धर्मस्य
लक्षणत्वापत्तेः। किं तु अव्याप्त्यतिव्याप्त्यसम्भवरूपदूषणानि
अव्याप्तित्वादिना विशिष्योपादाय तदवच्छिन्नप्रतियोगिताकाभावत्रयं
दूषणत्रयरहितत्वमिति वक्तव्यम्। तथा च
अव्याप्तित्वावच्छिन्नप्रतियोगिताकाभाव -
अतिव्याप्तित्वावच्छिन्नप्रतियोगिताकाभाव -
असम्भवत्वावच्छिन्नप्रतियोगिताकाभाव - एतत्त्रयविशिष्टो धर्मो
लक्षणमिति फलितम्।
तत्र अभावबुद्धौ प्रतियोगितावच्छेदकविशिष्टप्रतियोगिज्ञानस्य
कारणत्वात् अव्याप्तित्वादिविशिष्टाव्याप्त्यादिज्ञानं कारणमिति
तादृशज्ञानोत्पादनाय आदौ अव्याप्त्यादीनां स्वरूपमाह दीपिकायाम् इति।
लक्ष्यैकदेशावृत्तित्वमव्याप्तिर् इति। किञ्चिल्लक्ष्यनिरूपिताधेयत्वाभावः
लक्ष्यतावच्छेदकाधिकरणकिञ्चिन्निरूपितवृत्तित्वाभावः
अव्याप्तिस्वरूपमित्यर्थः। गोः कपिलत्वं लक्षणम् इत्युक्ते लक्ष्या
गौः लक्ष्यतावच्छेदकं
गोत्वम्, तदधिकरणं श्वेतगौः तन्निरूपितवृत्तित्वाभावः
कपिलत्वे ऽस्तीति अव्याप्ते धर्मे लक्षणसमन्वयः। ननु गोत्वाधिकरणे
श्वेतगवि कपिलत्वस्य कालिकसम्बन्धेन वर्तमानतया
लक्ष्यतावच्छेदकाधिकरणनिरूपितवृत्तित्वाभावो नास्तीति अव्याप्तधर्मे
अव्याप्तलक्षणासम्भव इत्याशङ्क्याह - लक्षणतावच्छेदकत्वाभिमतसम्बन्धेने ति। वृत्तित्वान्वयि अवच्छिन्नत्वं
तृतीयार्थः। तथा च लक्ष्यतावच्छेदकाधिकरणनिरूपित
1लक्षणतावच्छेदकसम्बन्घावच्छिन्नवृत्तित्वाभावः अव्याप्तस्य लक्षणम्,
अव्याप्तेः स्वरूपम्। कपिलत्वं कपिलगवि समवायेन अस्तीति
समवायसम्बन्धः लक्षणतावच्छेदकसम्बन्धः।
1. लक्षणं येन
सम्बन्धेन लक्ष्ये वर्तते स सम्बन्धः लक्षणतावच्छेदकसम्बन्धः।
गोत्वाधिकरणश्वेतगोनिरूपितकालिकसम्बन्धावच्छिन्नवृत्तित्वस्य
कपिलत्वे सत्त्वे ऽपि तन्निरूपितसमवायसम्बन्धावच्छिन्नवृत्तित्वाभावात्
कपिलत्वे लक्षणसमन्वयः। लक्ष्यतावच्छेदकाधिकरणत्वं च
लक्ष्यतावच्छेदकनिष्ठाधेयतानिरूपिताधिङ्करणत्वम्, तत्राधेयतायां
1लक्ष्यतावच्छेदकतावच्छेदकसम्बन्धावच्छिन्नत्वं निवेशनीयम्। अन्यथा
सल्लक्षणे सास्नावत्त्वादौ कालिकसम्बन्धेन
लक्ष्यतावच्छेदकगोत्वाधिकरणं यत् महिषादि तद्वृत्तित्वाभावसत्त्वेन
अव्याप्तलक्षणस्यातिव्याप्तेः। एवं लक्ष्यतावच्छेदकसमानाधिकरणत्वे
सतीत्यपि अव्याप्तलक्षणे विशेषणं देयम्। अन्यथा असम्भवग्रस्ते
एकशफवत्त्वादौ अव्याप्तलक्षणस्यातिव्याप्तेः।,
गोत्वाधिकरणनिरूपितवृत्तित्वाभावस्य तत्रापि सत्त्वात्। तस्मिन्
विशेषणे दत्ते तु एकशफवत्त्वादौ नातिव्याप्तिः, तस्य
गोत्वाधिकरणवृत्तित्वाभावात्।
लक्ष्यतावच्छेदकसमानाधिकरणत्वं च
लक्ष्यतावच्छेदकनिष्ठाधेयतानिरूपिताधिकरणतावन्निरूपितवृत्तित्वम्।
तत्र लक्ष्यतावच्छेदकनिष्ठाधेयतायां
लक्ष्यतावच्छेदकतावच्छेदकसम्बन्धावच्छिन्नत्वं निवेशनीयम्। अन्यथा
लक्ष्यतावच्छेदकस्य गोत्वस्य कालिकसम्बन्धेन अधिकरणे अश्वे
एकशफवत्त्वस्य सत्त्वेन असम्भवग्रस्तधर्मे अव्याप्तलक्षणस्यातिव्याप्तेः।
तन्निवेशे तु तादृशसमवायसम्बन्धेन गोत्वाधिकरणर्ं गौरेव,
तन्निरूपितवृत्तित्वं एकशफवत्त्वे नास्तीति नातिव्याप्तिरिति। एवं
वृत्तित्वे लक्षणतावच्छेदकसम्बन्धावच्छिन्नत्वं निवेशनीयम्। अन्यथा
एकशफवत्त्वस्य कालिकसम्बन्धेन गोवृत्तितया पूर्वोक्तदोषापत्तेः। एवं
च
लक्ष्यतावच्छेदकतावच्छेदकसम्बन्घावच्छिन्नलक्ष्यतावच्छेदकनिष्ठाधेयतानिरूपिताधिकरणतावन्निरूपितलक्षणतावच्छे-
दकसम्बन्धावच्छिन्नवृत्तित्वे सति
लक्ष्यतावच्छेदकतावच्छेदकसम्बन्धावच्छिन्नलक्ष्यतावच्छेदकनिष्ठाधेयतानिरूपिता-
धिकरणतावन्नियपितलक्षणतावच्छेदकसम्बन्धावच्छिन्नवृत्तित्वाभावः
अव्याप्तस्य लक्षणमिति फलितम्। अधिकं
पट्टाभिरामटिप्पण्या दौ द्रष्टव्यम्।
1.
लक्ष्यतावच्छेदकधर्मः येन सम्बन्धेन लक्ष्ये वर्तते स सम्बन्धः
लक्ष्यतावच्छेदकतावच्छेदकसम्बन्धः।
दीपिकायाम् - अलक्ष्ये लक्षणस्य
वर्तनमतिव्याप्तिर् इति।
अलक्ष्यमित्यस्य लक्ष्यनिष्ठप्रतियोगिताकभेदवदित्यर्थः। सप्तम्याः
निरूपिततत्वमर्थः। तस्य वर्तनशब्दार्थे आधेयत्वे ऽन्वयः।
लक्ष्यनिष्ठप्रतियोगिताकभेदवन्निरूपितवृत्तित्वमतिव्याप्तिरित्युक्तं
भवतिं। यथा गोः शृङ्गित्वं लक्षणमुक्तं चेत् इदं
लक्षणमतिव्याप्तिदुष्टं भवति, लक्ष्या गौः
तन्निष्ठप्रतियोगितानिरूपकभेदवति महिषादौ शृङ्गित्वस्य
वर्तनात्। अत्र लक्ष्यनिष्ठप्रतियोगितायां लक्ष्यतावच्छेदकावच्छिन्नत्वं
निवेशनीयम्। अन्यथा गोनिष्ठप्रतियोगिताकभेद इत्यनेन
श्वेतगोभेदस्यापि ग्रहीतुं शक्यतया तद्वति कपिलगवि कपिलत्वस्य
वर्तमानतया अव्याप्तधर्मे अतिव्याप्तलक्षणस्यातिव्याप्तेः। तन्निवेशे तु
लक्ष्या गौः, लक्ष्यतावच्छेदकं गोत्वं,
तदवच्छिन्नगोनिष्ठप्रतियोगिताकभेदः ऽगौर्नऽ इति प्रतीतिसिद्धः
गोसामान्यभेदः तद्वान् कपिलगौर्न भवति, किं तु महिषादिकमेव
तद्वृत्तित्वं कपिलत्वे नास्तीति नातिव्याप्तिः।
एवं वृत्तितायां
लक्ष्णतावच्छेदकसम्बन्धावच्छिन्नत्वं निवेशनीयम्। अन्यथा गोभिन्ने
महिषादावपि कालिकसम्बन्धेन कपिलत्वस्य वर्तमानतया
पूर्वोक्तदोषापत्तेः। तन्निवेशे तु लक्षणं येन सम्बन्धेन लक्ष्ये
वर्तते से एव सम्बन्धः लक्षणतावच्छेदकसम्बन्ध इति प्रकृते
समवायस्यैव तादृशतया
महिशादिनिरूपितसमवायसम्बन्धावच्छिन्नवृत्तित्वस्य
कपिलत्वे ऽभावात् न तत्रातिव्याप्तिः। एवमपि असम्भवग्रस्ते
एकशफवत्त्वादौ लक्ष्यगोभिन्नाश्ववृत्तित्वसत्त्वात्
अतिव्याप्तलक्ष्णस्यातिव्याप्तिरिति तद्वारणाय
लक्ष्यतावच्छेदकसमानाधिकरणत्वे सतीति विशेषणमत्रापि देयम्।
एकशफवत्त्वस्य लक्ष्यतावच्छेदकगोत्वाधिकरणवृत्तित्वाभावान्न दोषः।
तथा च
लक्ष्यतावच्छेदकतावच्छेदकसम्बन्धावच्छिन्नलक्ष्यतावच्छेदकसम्बन्धावच्छिन्नलक्ष्यतावच्छेदकनिष्ठाधेयतानिरूपिता-
धिकरणतावन्निरूपितलक्षणतावच्छेदकसम्बन्धावच्छिन्नवृत्तित्वे सति
लक्ष्यतावच्छेदकावच्छिन्नलक्ष्यनिष्ठप्रतियोगितानिरूपकभेदवन्निरूपितलक्षणतावच्छेदकसम्बन्धावच्छिन्नवृत्तित्वम्
अतिव्याप्तस्य
लक्षणमिति फलितम्।
लक्ष्यमात्रावृत्तित्वमसम्भव इति। सर्वत्र लक्ष्ये अवर्तनमसम्भवः।
क्वचिल्लक्ष्ये अवर्तनमव्याप्तधर्मे ऽप्यस्तीति सर्वत्रेत्युक्तम्। गोः
एकशफवत्त्वम् लक्षणमुक्तं चेत् तत्सर्वासु गोव्यक्तिषु नास्तीति
असम्भवदोषदूषितं भवति।
लक्ष्यनिरूपितवृत्तित्वत्वावच्छिन्नप्रतियोगिताकाभावो ऽत्र विवक्षितः, न
तु लक्ष्यवृत्तित्वप्रतियोगिको ऽभावः। कपिलत्वाद्यव्याप्यधर्मे ऽपि
यत्किञ्चिल्लक्ष्यश्वेतगोवृत्तित्वाभावस्य लक्ष्यवृत्तित्वप्रतियोगिकस्य
सत्त्वेनातिव्याप्त्यापत्तेः। तद्विवक्षणे तु गोवृत्तित्वं नास्तीति
प्रतीतिसिद्धस्य गोवृत्तित्वसामान्याभावस्यैव
लक्ष्यनिरूपितवृत्तित्वत्वावच्छिन्नप्रतियोगिताकतया तस्य कपिलत्वे
कपिलगोवृत्तौ विरहात् नातिव्याप्तिरिति सूचनाय कृत्स्नार्थकं
मात्रपदम्। एवं लक्ष्यनिरूपितवृत्तित्वे
लक्ष्णतावच्छेदकसम्बन्घावच्छिन्नत्वमपि निवेशनीयम्। अन्यथा
एकशफवत्त्वादेरपि कालिकसम्बन्धेन गोवृत्तित्वेन
तद्वृत्तित्वाभावविरहात् असम्भवलक्षणे असम्भवदोषः स्यादिति। तथा
च
लक्ष्यनिरूपितलक्ष्णतावच्छेदकसम्बन्धावच्छिन्नवृत्तित्वत्वावच्छिन्नप्रतियोगिताकाभावः
असम्भव इति फलितम्। सर्वमिदमभिसन्धायाह प्रकाशिकायाम् मात्रपदं
कृत्स्नार्थकम् इति। सम्बन्धविशेष ति। लक्षणतावच्छेदकसम्बन्धेत्यर्थः। लक्ष्यवृत्तित्वसामान्याभावे ति।
लक्ष्यवृत्तित्वत्वावच्छिन्नप्रतियोगिताकाभावेत्यर्थः।
ननु असम्भवग्रस्ते
एकशफवत्त्वे अलक्ष्याश्वृत्तित्वसत्त्वेन अतिव्याप्त्याख्यदोषस्यापि सत्त्वात्
एकत्र अनेकदोषसाङ्कर्यं प्रसजतीति शङ्कते - न चात्रेत्यादि ना। शङ्केयं
यथाश्रुतातिव्याप्तिलक्षणाभिप्रायेण।
लक्ष्यतावच्छेदकसमानाधिकरणत्वे सतीति विशेषणविशिष्टस्य
पूर्वोक्तपरिष्कृतातिव्याप्तिस्वरूपस्य एकशफवत्त्वे विरहात्।
दोषभेदात्। दुष्टस्यापि भेदेन भवितव्यमिति शङ्कितुर्भावः।
समाधत्ते - दुष्टसङ्करे ऽपी
ति। दुष्टस्यैकत्वे ऽपि दोषस्य एकत्वं
नेत्यर्थः। एकस्मिन् अनेकदोषाणां समावेशसम्भवेन दोषभेदात्
तदाश्रयदुष्टभेदापत्तिर्नेति समाधातुराशयः।
ऽउपधेयसङ्करे ऽप्युपाधेरसङ्करःऽ इति
मणिकारवचनस्याप्ययमेवार्थः।
दीपिका
लक्षणलक्षणविचारः
एतद्दूषणत्रयरहितधर्मो लक्षणम्। यथा गोः सास्नादिमत्त्वम्।
स एवासाधारणधर्म इत्युच्यते।
लक्ष्यतावच्छेदकसमनियतत्वमसाधारणत्वम्। व्यावर्तकस्यैव लक्षणत्वे
व्यावृत्तावभिधेयत्वादौ चातिव्याप्तिः अतः तद्वारणाय तद्भिन्नत्वं
धर्मविशेषणं देयम्। व्यवहारस्यापि लक्षणप्रयोजनत्वे तु तत् न
देयम्। व्यावृत्तेरपि व्यवहारसाधनत्वात्।
प्रकाशिका
एतद्दूषणत्रयरहित इति। उक्तदूषणाभावत्रयविशिष्ट
इत्यर्थः। नन्वसाधारणधर्मो लक्षणमिति हि सिद्धान्तः। तस्मात्
कारणात् कथं दूषणत्रयरहितो धर्मो लक्षणमित्यत आह - स एवे ति। इत्युच्यत इति। अभियुक्तैरिति शेषः। ननु
साधारण्यस्य लक्ष्यालक्ष्यवृत्तित्वरूपतया
तदभावरूपासाधारण्यस्याव्याप्त्यादिदोषग्रस्तधर्मे ऽपि सत्त्वात् कथं
दोषत्रयरहित एवासाधारणधर्म इत्याशङ्कां परिजिहीर्षुः
असाधारणत्वमन्यादृशं निर्वक्ति - लक्ष्यतावच्छेदकसमनियतत्वम् इति। लक्ष्यतावच्छेदकव्यापकत्वे सति
लक्ष्यतावच्छेदकव्याप्यत्वमित्यर्थः। अव्याप्त्यसम्भवग्रस्तयोर्वारणाय
सत्यन्तम्। अतिव्याप्तस्य वारणाय विशेष्यम्। धर्मपदं
लक्षणताघटकसम्बन्धेन व्यापकत्वादितात्पर्यग्राहकमिति भावः।
अत्रेदं बोध्यम् -
एतद्दोषा असाधारणत्वस्य विघटकाः। अतिव्याप्तौ
व्याप्यत्वस्येतरयोश्च व्यापकत्वस्य भङ्गात्। एतेषां दूषकताबीजं
लक्षणेन लक्षणेन इतरभेदसाधने ऽतिव्याप्तौ व्यभिचारः,
इतरयोश्च भागासिद्धिस्वरूपासिद्धी इति। ननु
लक्ष्यतावच्छेदकसमनियतत्वस्य लक्षणलक्षणत्वे लक्षणस्य व्यावृत्तिरेव
प्रयोजनमिति मते व्यावर्तकस्यैव लक्षणलक्षणलक्ष्यतया
व्यावृत्त्यादावतिव्यप्तिरित्याशङ्कां तन्मतानुसारेण निराकरोति -
व्यावर्तकस्यैवे ति। इतरभेदानुमितिजनकस्यैवेत्यर्थंः।
इतरभेदविधेयकानुमितिजनक
तावच्छेदकविषयताविशेषाश्रयस्यैवेतियावत्। एतेन
व्यावहारिकव्यवच्छेदः। लक्षणत्वे गवादिलक्षणत्वे उक्तलक्षणलक्षणलक्ष्यत्व इति यावत्। लक्ष्यत्व इति पाठे ऽप्ययमेवार्थो बोध्यः। व्यावृत्ताव् इति।
गवादीतरभेदे गोत्वादिरूपलक्ष्यतावच्छेदकसमनियतत्वस्य
अभिधेयत्वप्रमेयत्वादौ पदार्थत्वसमनियतत्वस्य च
सत्त्वेनातिव्याप्तिवारणाय व्यावृत्तिभिन्नत्वमभिधेयत्वादिभिन्नत्वं च
लक्षणलक्षणे निवेशनीयमित्यर्थः। यद्यपि व्यावृत्तेरपि
व्यावहारिकत्वस्य वक्ष्यमाणतया तेनैव रूपेण व्यावहारिकत्वेन
सर्वेषां सङ्ग्रहसम्भवात् पृथगभिधानमनुचितम्, तथापि
हेतुसाध्ययोरैक्ये हेतुमत्तानिश्चयकाले साध्यसंशयरूपपक्षताया
असत्त्वेन
तानुमितिरिति
प्राचीनमते इतरभेदस्य व्यावर्तकत्वाभावेन तत्रातिव्याप्तिः।
सिषाधयिषाविरहविशिष्टसिद्ध्यभावः पक्षता इति सिद्धान्तिमते
तु व्यावृत्तेरपि व्यावर्तकत्वेन लक्ष्यतया तत्र
लक्षणसङ्गमनस्येष्टत्वेन नातिव्याप्तिरित्यावेदयितुं
पृथक्कथनमिति ध्येयम्।
ननु किमिदं नाम
लक्षणलक्षणलक्ष्यतावच्छेदकं व्यावर्तकत्वम्। न तावत् सामान्यतो
भेदानुमापकत्वम्। व्यावृत्त्यभिधेयत्वादेरपि
यत्किञ्चिदुभयत्वावच्छिन्नप्रतियोगिताकभेदानुमापकतया
तत्रातिव्याप्तिकथनासङ्गतेः। सर्वेषामपि व्यतिरेकधर्माणां
यत्किञ्चिद्व्यावर्तकतया
असाधारण्यादिघटकव्यापकत्वादिवैर्थ्यापाताच्च। नापि विशिष्य
तत्तद्धर्मावच्छिन्नेतरभेदानुमापकत्वम्। तथा सति
गोत्वावच्छिन्नेतरभेदानुमापकस्य सास्नादिमत्त्वस्य
गोत्वसमनियतत्वं लक्षणम् इत्येवं रीत्या विशिष्य तत्तल्लक्षणस्य
वक्तव्यतया गोत्वादिरूपलक्ष्यतावच्छेदकतत्तद्धर्मसमनैयत्यस्य
गोत्वावच्छिन्नेतरभेदादिरूपव्यावृत्तौ सत्त्वेनातिव्याप्तेः
सम्भवे ऽप्यभिधयत्वादावतिव्याप्त्यलग्नकतापत्तेः दुवरित्वात्
गोत्वादिसमनैयत्यस्य तत्रासत्त्वादिति चेत् -
मैवम् - यतः
सास्नादिमत्त्वं पक्षीकृत्य गोत्वावच्छिन्नेतरभेदानुमापकत्वे साध्ये
विशेषव्याप्तौ अन्वयदृष्टान्तालाभेन यद्यद्धर्मसमनियतं
तत्तन्दवच्छिन्नव्यावर्तकमिति रीत्या सामान्यमुखेन
व्याप्तेरभ्युपगन्तव्यतया तत्र
सिद्धसाधनाप्रसिद्धिभ्यामव्यावर्तङ्कयोर्व्यावृत्त्यभिधेयत्वयोः
तत्तद्धर्मसमनैयत्यरूपप्रकृतहेतोस्तत्तुल्यस्य वा हेतोः सत्त्वेन
प्रकृतसाध्यस्य तत्तुल्यस्य वा साध्यस्यासत्त्वेन व्यभिचारः स्यात्।
अतस्तद्दोषवारणाय
तत्तद्धर्मावच्छिन्नेतरभेदरूपव्यावृत्तिभिन्नत्वमभिधेयत्वादिभिन्नत्वं
च तादृशलक्षणे निवेशनीयमित्यभिप्रायको ऽयं ग्रन्थ इति न
पूर्वोक्तदोषावसरः। अधिकविचारस्तु अन्यत्रानुसन्धेयः।
ननु लक्षणस्य
व्यवहारो ऽपि प्रयोजनम्। तेन रूपेण व्यवहर्तव्यज्ञानं विना
तद्रूपावच्छिन्नबोधकशब्दरूपव्यवहारासम्भवात्। एवं च
व्यावहारिकलक्षणस्यापि लक्ष्यत्वात् तद्भिन्नत्वं विशेषणं न
देयमित्याह - व्यवहारस्यापीति। ननु व्यावृत्तावतिव्याप्तिवारणाय
तद्भिन्नत्वमावश्यकम्। व्यावृत्तेर्व्यावहारिकत्वाभावादिति भ्रमं
वारयति - व्यावृत्तेरपीति। अपिना अभिधेयत्वादिपरिग्रहो
दृष्टान्तलाभाय।
बालप्रिया
नन्वेतद्दूषणत्रयरहितधर्मो लक्षणम् इत्यस्य
अव्याप्त्यतिव्याप्त्यसम्भवरूपदोषत्रयाभावविशिष्टो धर्मो
लक्षणमित्यर्थः। तथा च 1एकदोषवत्यपि कपिलत्वादौ दोषत्रयं
नास्तीति 2लक्षणत्वापत्तिरित्याशङ्क्य व्याचक्ष्टे -
उक्तदूषणाभावत्रयविशिष्ट इति। प्रतियोगिनि त्रित्वं न विवक्षितम्,
किं तु अभावे इति भावः। एकदोषवति
इतरदोषाभावद्वयसत्त्वे ऽपि दोषाभावत्रयं नास्तीति न
3पूर्वोक्तापत्तिरिति ध्येयम्।
1. एकदोषवत्यपीति।
अव्याप्तिरूपकैदोषविशिष्टे ऽपीत्यर्थः।
2. लक्षणत्वापत्तिरिति।
गोलक्षणत्वप्रसङ्गः इत्यर्थः।
3. पूर्वोक्तापत्तिरिति।
कपिंलत्वादेर्गोलक्षणत्वापत्तिरित्यर्थः।
ननु न साधारणः
असाधारण इति कर्मधारयसमासात् असाधारण इत्यस्य
साधारणभिन्न इत्यर्थः। साधारण इत्यस्य च लक्ष्यवृत्तित्वे सति
अलक्ष्यवृत्तिरित्यर्थः। लक्ष्यवृत्तित्वविशिष्टालक्ष्यवृत्तित्ववानिति
यावत्। असाधारण इत्यस्य च
लक्ष्यवृत्तित्वविशिष्टालक्ष्यवृत्तित्वाभाववानित्यर्थः। अव्याप्तिग्रस्ते
कपिलत्वादौ अलक्ष्यवृत्तित्वरूपविशेष्याभावात् विशिष्टाभावो ऽस्ति।
असम्भवग्रस्तः एकशफवत्त्वादिः लक्ष्यवृत्तित्वरूपविशेषणाभावात्
विशिष्टाभाववान्। ततथा च उभयोः असाधारणतया लक्षणत्वापत्तिः,
दोषवतो ऽपि असाधारणतया दोषत्रयरहित एवासाधारण
इत्यसङ्गतिश्च इत्याशङ्क्य असाधारणशब्दार्थः
प्रकारान्तरेणोच्यते दीपिकायामित्याह - ननु साधारण्यस्येति।
अन्यादृशमिति। लक्ष्यवृत्तित्वविशिष्टालक्ष्यवृत्तित्वाभावात्
अन्यविधमित्यर्थः। लक्ष्यतावच्छेदकव्यापकत्वे सतीति। लक्ष्यतावच्छदकं
यत्र यत्र वर्तते तत्र सर्वत्र वर्तमानत्वं लक्ष्यतावच्छेदकव्यापकत्वम्।
लक्ष्यतावच्छेदकं यत्र नास्ति तत्रावर्तमानत्वं
लक्ष्यतावच्छेदकव्याप्यत्वम्। लक्ष्या गौः, लक्ष्यतावच्छेदकं गोत्वम्,
तत्र यत्र यत्र गोव्यक्तौ वर्तते तत्र सर्वत्र सास्नादिमत्त्वमस्ति, गोत्वं
यत्र नास्ति महिषादौ तत्र सास्नादिमत्त्वं नास्तीति
लक्ष्यतावच्छेदकव्यापकत्वे सति
लक्ष्यतावच्छेदकव्याप्यत्वात् सास्नादिमत्त्वं असाधारणधर्मों
भवति, अतस्तत् गोः लक्षणमिति भावः। तथा च
लक्ष्यतावच्छेदकव्यापकत्वे सति लक्ष्यतावच्छेदकव्याप्यत्वं लक्षणस्य
लक्षणमित्युक्तं भवति। सत्यन्तस्य प्रयोजनमाह -
अव्याप्त्यसम्भवग्रस्तयोर्वारणायेति। अव्याप्तिग्रस्ते कपिलत्वे
लक्षणभिन्ने लक्ष्यतावच्छेदकगोत्वशून्यमहिषाद्यवृत्तित्वरूपं
लक्ष्यतावच्छेदकव्याप्यत्वमस्तीति तत्र लक्षणलक्षणस्यातिव्याप्तिः,
तद्वारणाय लक्ष्यतावच्छेदकव्यापकत्वे सतीत्युक्तम्। गोत्ववति
श्वेतगविकपिलत्वाभावात् लक्ष्यतावच्छेदकव्यापकत्वं तत्र नास्तीति
नातिव्याप्तिः। ननु उक्तरीत्या
अव्याप्तिग्रस्ते ऽतिव्याप्तिवारणरूपप्रयोजनसम्भवे ऽपि असम्भवग्रस्ते
मूल पाठ: Tarkasaṃgraha with autoentary (Dīpikā), Nīlakaṇṭha's Dīpikāprakāśikā and Bālapriyā · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0