भाषा

ENहिગુ
ग्रंथ पाठ

तर्कसंग्रह (टीका सहित) · भाग 101120

सर्वाधारतया सर्वेषां लक्षणानां काले ऽतिव्याप्तिरिति चेत् - न।
सर्वाधारताप्रयोजकसम्बन्धभिन्नसम्बन्धेन लक्षणस्य विवक्षितत्वात्।
प्रकाशिका
पृथिवीलक्षणस्य
प्राथम्ये बीजमाह - तत्रेति। पृथिव्यादिषु मध्य इत्यर्थः।
गन्धसमवायिकारणतावच्छेदकतया पृथिवीत्वजातिसिद्धिरिति
बोध्यम्। नाम्नेति। तृतीयार्थः अभेदः। सङ्कीर्तनपदार्थे
प्रतिपादकशब्दे ऽन्वेति। तथा च वस्तुप्रतिपादकनाममात्रमुद्देश
इति लक्षणं पर्यवस्यति। अत्र घट इति पदे ऽतिव्याप्तिवारणाय
वस्तुपदं लक्षणीयवस्तुपरम्। लक्षणीयस्य पृथिव्यादेः सामान्यतः
प्रतिपादकप्रमेयपदे ऽतिव्यापितवारणाय नामपदं
लक्ष्यतावच्छेदकावच्छिन्नपरम्। लक्षणवाक्ये नामसत्त्वात्
अतिव्याप्तिवारणाय मात्रपदमिति ध्येयम्।
आरब्धे - जन्ये।
परस्परविरोधेनेति। सुरभिगन्धं प्रति असुरभिगन्धस्य
असुरभिगन्धं प्रति सुरभिगन्धस्य प्रतिबन्धकत्वेनेत्यर्थः।
प्रतीत्यनुपपत्तिरिति। अतश्चित्रगन्ध एवाप्रतिबध्यः स्वीकार्य इति
भावः। अवयवगन्धस्यैवेति। स्वाश्रयसमवेतत्वसम्बन्धेनेत्यादिः।
तुष्यतु दुर्जन इति न्यायेनाङ्गीकृत्याह - किं चेति।
जलत्वादिकमादाय अतिव्याप्तिवारणाय गन्धसमानाधिकरणेति।
सत्तावारणाय द्रव्यत्वापरेति द्रव्यत्वन्यूनवृत्तीत्यर्थकम्। तेद
द्रव्यत्वव्युदासः।
गन्धप्रतीतेरिति।
सुरभि जलमित्यादिप्रतीतेरित्यर्थः। पृथिवीगन्धस्यैवेति।
स्वाश्रयसंयुक्तत्वसम्बन्धेनेत्यादिः।
तत्र - जलादौ।
यथाश्रुतग्राही शङ्कते - नन्विति। अनुगतरूपेण
लक्षणताघटकसम्बन्धान् निवेश्य कालादावतिव्याप्तिं वारयति -
सर्वाधारेति। वस्सुतस्तु समवायादीनां समवायत्वादिनैव
संसर्गतया तेनैव रूपेण तत्तत्सम्बन्धस्य तत्तल्लक्षणघटकत्वं
बोध्यम्।
बालप्रिया
गन्धसमवायिकारणतावच्छेदकतयेति।
ऽसमवायसम्बन्धावच्छिन्नगन्धत्वावच्छिन्नगन्धानिष्ठकार्यतानिरूपिततादात्म्यसम्बन्धावच्छिन्नपृथिवीनिष्ठकारणता
किंयिद्धर्मावच्छिन्ना कारणतात्वात् कपालनिष्ठघटकारणतावत्ऽ
इत्यनुमानप्रयोगो ऽत्र विवक्षितः। नाम्ना पदार्थसङ्कीर्तनमुद्देश
इति मूलम्। पदार्थस्य सङ्कीर्तनं पदार्थसङ्कीर्तनम्।
सङ्कीर्तनशब्दस्य प्रतिपादकशब्द इत्यर्थः।
पदार्थविषयकज्ञानकशब्दः पदार्थसङ्कीर्तनमिति यावत्।
पदार्थशब्दो वस्तुपरः। नाम्नेति तृतीयार्थस्य अभेदस्य

शब्दे ऽन्वयात् नामाभिन्नः वस्तुविषयकज्ञानजनकशब्दः उद्देशः इति
फलति। पृथिव्यप्तेजोवाय्वाकाशकालदिगात्ममनांसीत्यत्र
पृथिव्यादिशब्दानां पृथिव्यादिवस्तुप्रतिपादकत्वात् नामत्वाच्च
उद्देशलक्षणसमन्वयः। घट इति पदस्यापि वस्तुप्रतिपादकत्वात्
नामत्वाच्च तत्रोद्देशलक्षणस्यातिव्याप्तिः।
तद्वारणाय वस्तुपदं
लक्षणीयवस्तुपरं वक्तव्यम्। घटादिपदं च न तादशमिति
नातिव्याप्तिः। प्रमेयमिति पदस्यापि
लक्षणीयपृथिव्यादिप्रतिपादकत्वात् तत्रातिव्याप्तिः। तद्वारणाय
वस्तुपदं लक्ष्यतावच्छेदकावच्छिन्नवस्तुपरं वाच्यम्। प्रमेयपदस्य
प्रमेयत्वावच्छिन्नपृथिव्यादिबोधकत्वे ऽपि
लक्ष्यतावच्छेदकपृथिवीत्वाद्यवच्छिन्नपृथिव्यादिबोधकत्वाभावान्नातिव्याप्तिः।
ऽतत्र गन्धवती पृथिवीऽ इत्यादिलक्षणवाक्यघटकपृथिवीपदस्यापि
पृथिवीत्वावच्छिन्नबोधकत्वात् नामत्वाच्च तस्योद्देशत्वापत्तिः।
तद्वारणाय नाममात्रमित्यपि वक्तव्यम्। मात्रपदेन
लक्षणादिवाचकपदासमभिव्याहृतत्वमुच्यते। तथा च
लक्ष्यतावच्छेदकप्रकारकलक्ष्यविशेष्यकज्ञानजनक -
लक्षणादिवाचकपदासमभिव्याहृतनामाभिन्नः शब्दः उद्देशः इति
निष्कर्षः। तदाह - तृतीयार्थो ऽभेद इत्यादिना। सङ्कीर्तने
इत्यस्य विवरणं प्रतिपादकशब्दे इति। सामान्यत इति।
प्रमेयत्वरूपसामान्यधर्मेणेत्यर्थः। तृतीयायाः प्रतिपत्त्यन्वयि
1प्रकारत्वमर्थः।
गन्धवत्त्वस्य
पृथिवीलक्षणत्वे
सुरभिगन्धयुक्तावयवासुरभिगन्धयुक्तावयवाभ्यामुत्पन्ने द्रव्ये
कस्यापि गन्धस्यानुत्पादादव्याप्तिः। न च
अवयवगतगन्धरूपस्यासमवायिकारणस्य सत्त्वात् कुतो गन्धो
नोत्पद्यत इति शङ्कनीयम्। सुरभिगन्धस्य असुरभिगन्धं प्रति
असुरभिगन्धस्य सुरभिगन्धं प्रति प्रतिबन्धकत्वेन कस्यापि गन्धस्य
तत्रोत्पत्त्यसम्भवात्। न च यदि तत्र गन्धो नोत्पद्यते, तर्हि कथं तत्र
गन्धः प्रतीयेत, अतस्तत्र परस्परं प्रतिबन्धात्
1. प्रकारत्वमर्य
इति। तथा च
प्रमेयत्वरूपसामान्यवर्मप्रकारकपृथिव्यादिविशेष्यकज्ञानजनके
प्रमेयपदे इत्यर्थः।
सुरभिगन्धः
असुरभिगन्धो वा नोत्पद्यताम्, चित्रगन्ध उत्पद्यताम्, तेन
गन्धप्रतीतिरुपद्यते, गन्धवत्तासत्त्वादव्याप्तिश्च नेति वाच्यम्।
अवयवगतगन्धस्यैव स्वाश्रयसमवेतत्वसम्बन्धेन अवयविनि
प्रतीतिसम्भवे चित्रगन्धस्यानङ्गीकारात्। तथा च

तत्राव्याप्तितादवस्थ्यम्। किं च यो घटः प्रथमक्षणे उत्पन्नः अथ
द्वितीयक्षणे विनष्टः तस्मिन् घटे अव्याप्तिः, प्रथमक्षणे ऽउत्पन्नं द्रव्यं
क्षणमगुणम्ऽ इति न्यायेन गन्धविरहात्। द्वितीयक्षणे धर्मिण एव
नाशात् इत्याशयेन शङ्कते - दीपिकायाम् ननु
सुरभ्यसुरभीति।
गन्धसमानाधिकरणेति। गन्धाधिकरणवृत्तिः द्रव्यत्वव्याप्या च
या जातिः तद्वत्त्वं पृथिव्याः लक्षणम्। गन्धाधिकरणं पुष्पादितद्वृत्तिः
द्रव्यत्वव्याप्या जातिः पृथिवीत्वजातिः तद्वत्त्वं
सुरभ्यसुरभ्यवयवारब्धे द्रव्ये उत्पन्नविनष्टघटे चास्तीति
नाव्याप्तिः। द्रव्यत्वव्याप्यजातिमत्त्वमात्रोक्तौ द्रव्यत्वव्याप्या या
जलत्वजातिः तद्वत्त्वस्य जले सत्त्वात् तत्रातिव्याप्तिः। अतो
गन्धसमानाधिकरणेति। जलत्वस्य गन्धाधिकरणवृत्तित्वाभावात् न
दोषः। गन्धसमानाधिकरणजातिमत्त्वमात्रोक्तौ
गन्धाधिकरणपृथिवीवृत्तिः या सत्ताजातिः तद्वत्त्वस्य जलादौ सत्त्वात्
अतिव्याप्तिः। तद्वारणाय द्रव्यत्वव्याप्येति जातिविशेषणम्। ननु
द्रव्यत्वव्याप्येति विशेषणे दत्ते ऽपि
द्रव्यत्वजातिमादायजलादिष्वतिव्याप्तिः दुर्वारा। द्रव्यत्वस्य
गन्धाधिकरणपृथिवीवृत्तित्वात् द्रव्यत्वशून्यवृत्तित्वाच्चेति चेत् -
न। प्रकृते द्रव्यत्वव्याप्यत्वं न द्रव्यत्वशूनयावृत्तित्वम् किं तु
द्रव्यत्वन्यूनवृत्तित्वरूपम्। द्रव्यत्वं च न द्रव्यत्वन्यूनवृत्ति
इत्याशयात्। द्रव्यत्वन्यूनवृत्तित्वं च
1द्रव्यत्वसमानाधिकरणभेदप्रतियोगितावच्छेदकत्वम्। तदाह -
प्रकाशिकायाम् जलत्वादिकमादायेत्यादि।
1.
द्रव्यत्वसमानाधिकरणेति। द्रव्यत्वाधिकरणं जलं तद्वृत्तिर्यो भेद
पृथिवीभेदः तत्प्रतियोगितावच्छेदकत्वात् पृथिवीत्वस्य
द्रव्यत्वन्यूनवृत्तित्वम्। द्रव्यत्वं तु न
द्रव्यत्वाधिकरणवृत्तिभेदप्रतियोगितावच्छेदकं द्रव्यभेदस्य
द्रव्यत्वाधिकरणावृत्तित्वादिति द्रव्यत्वं न द्रव्यत्वन्यूनवृत्तीति भावः।
दीपिकायाम् ननु
जलादावपि गन्धप्रतीतेरिति। तथा च गन्धवत्त्वरूपस्य पृथिवीलक्षणस्य
जलादौ अतिव्याप्तिरिति भावः। अन्वयव्यतिरेकाभ्यामिति। जलादौ
गन्धवत्पृथिवीसंयोगसत्त्वे गन्धप्रतीतिः तदभावे तदभाव
इत्यन्वयव्यतिरेकाभ्यामित्यर्थः।
प्रकाशिकायाम्
स्वाश्रयसंयुक्तत्वसम्बन्धेनेति। स्वं पृथिवीगन्धः, स्वाश्रयः पृथिवी,
तत्संयुक्तत्वं जलादौ।
यथाश्रुतग्राही -
सम्बन्धविशेषानवच्छिन्नं गन्धवत्त्वमेव लक्षणमित्यभिमानवान्।
अनुगतरूपेणसर्वाधारताप्रयोजकसम्बन्धभिन्नसम्बन्घत्वेनेत्यर्थः।

कालिकादिसम्बन्धः सर्वाधारताप्रयोजकः तद्भिन्नसम्बन्धत्वं
समवायादौ। लक्षणताघटकसम्बन्धात् लक्षणतावच्छेदकसम्बन्धान्
समवायादीन्। समवायादीनां समवायत्वादिनैव संसर्गतयेति।
स्पष्टं चेदम् व्यधिकरणगादाधर्याम्।
तर्कसङ्ग्रहः
पृथिवीविभागः
अन्त्स्_10[2] सा द्विविधा नित्यानित्या च । नित्या परमाणुरूपा । अनित्या कार्यरूपा । पुनस् त्रिविधा शरीरेन्द्रियविषयभेदात् । शरीरम् अस्मदादीनाम् । इन्द्रियं गन्धग्राहकं घ्राणं नासाग्रवर्ति । विषयो मृत्पाषाणादिः ॥
सा द्विविधा -
नित्या अनित्या चेति। नित्या परमाणुरूपा। अनित्या कार्यरूपा।
पुनस्त्रिविधा - शरीर-इन्द्रिय-विषयभेदात्। शरीरं
अस्मदादीनाम्। इन्द्रियं गन्धग्राहकं घ्राणम्। तच्च नासाग्रवर्ति।
विषयो मृत्पाषाणादिः।
दीपिका
पृथिवीं विभजते -
सा द्विविधेति। नित्यत्वं ध्वंसाप्रतियोगित्वम्। अनित्यत्वम्
ध्वंसप्रतियोगित्वम्। प्रकारान्तरेण विभजते - पुनरिति। आत्मनो
भोगायतनं शरीरम्। यदवच्छिन्नात्मनि भोगो जायते
तद्भोगायतनम्। सुखदुःखान्यतरसाक्षात्कारो भोगः।
शब्देतरोद्भूतविशेषगुणानाश्रयत्वे सति
ज्ञानकारणमनस्संयोगाश्रयत्वं इन्द्रियत्वम्। शरीरेन्द्रियभिन्नो
विषयः। एवं च गन्धवच्छरीरं पार्थिवशरीरम्, गन्धवदिन्द्रियं
पार्थिवेन्द्रियम्, गन्धवान् विषयः पार्थिवविषय इति तत्तल्लक्षणं
बोध्यम्। पार्थिवशरीरं दर्शयति-शरीरमिति। पार्थिवेन्द्रियं
दर्शयति - इन्द्रियमिति। गन्धग्राहकमिति प्रयोजनकथनम्।
घ्राणमिति संज्ञा। नासोग्रेत्याश्रयोक्तिः। एवमुत्तरत्र ज्ञेयम्।
पार्थिवविषयं दर्शयति - मृत्पाषाणादि इति।
प्रकाशिका
नित्यपृथिवीत्वादिरूपलक्षणगतं नित्यत्वादि दर्शयति -
नित्यत्वमिति। प्रकारान्तरेणेति। पृथिवीमित्यनुषज्यते। अत्र
नित्यपृथिव्याः शरीरेन्द्रियभिन्नत्वरूपविषयलक्षणाक्रान्तत्वेन
विषयान्तर्गतत्वमिति पृथिव्यास्त्रिविधत्वम्। अत एव मूले
पुनस्त्रिविधेत्युक्तिः सङ्गच्छते इति ध्येयम्।
केचित्तु -
अनित्यपृथिव्या एव त्रैविध्यं वर्णयन्ति। उद्देशक्रमानुसारेण प्रथमं
शरीरलक्षणमाह - आत्मन इति। आयतनं अवच्छेदकम्। तथा च
मिलितं यादृशं लक्षणं सम्पन्नं तादृशमाह - यदवच्छिन्नेति।
सुखदुःखान्यतरसाक्षात्कारावच्छेदकम् इति यावत्। अत्र
अन्त्यावयवित्वे सतीति विशेषणं देयम्। तेन पादादीनां
अवच्छेदकत्वे ऽपि तत्र न अतिव्याप्तिः। यथा शरीरत्वं न जातिः,
पृथिवीत्वादिना सङ्करात् तथा इन्द्रियत्वं न

जातिरित्याशयेनाह - शब्देतरोद्भूतेति।
आत्मादावतिव्याप्तिवारणाय सत्यन्तम्। श्रोत्रे ऽव्याप्तिवारणाय
शब्देतरेति। चक्षुरादौ विशेषगुणस्यानुद्भूतरूपादेः
सत्त्वेनाव्यप्तिवारणाय उद्भूतेति। उद्भूतत्वं न जातिः
शुक्लत्वादिना सांकर्यात्। न च शुक्लत्वादिव्याप्यं
नानैवोद्भूतत्वमिति वाच्यम्। चाक्षुषादौ उद्भूतरूपत्वादिना
कारणत्वानुपपत्तेः। किं तु शुक्लत्वादिव्याप्यं अनुद्भूतत्वं नाना
तदभावकूटवत्त्वमुद्भूतत्वम्। तच्च संयोगादावपि। तथा च
शब्देतरोद्भूतगुणं संयोगमादाय असम्भववारणाय विशेषेति।
कालादावतिव्याप्तिवारणाय विशेष्यदलम्; तत्रैव
अतिव्याप्तिवारणाय ज्ञानकारणेति। प्राचीनमते
विषयावयवेन्द्रियावयवसंयोगस्य प्रत्यक्षकारणतया तदाश्रयस्य
इन्द्रियावयवस्य, नवीनमते कालादौ रूपाभावप्रत्यक्षे
सन्निकर्षघटकतया कारणीभूतचक्षुस्संयोगाश्रयस्य कालादेश्च
वारणाय मनः पदम्। न च आत्मान्यत्वे सति इत्यनेनैव आत्मनि
अतिव्याप्तिवारणसम्भवे किं
गुरुतरशब्देतरोद्भूतेत्यादिविशेषणेनेति वाच्यम्। तथा सति
चर्ममनस्संयोगस्य ज्ञानमात्रं प्रति हेतुत्वमते
तत्रातिव्याप्तेरित्यलं विस्तरेण। एवं चेति। तत्तदर्थंस्य
शरीरादिसामान्यलक्षणत्वे चेत्यर्थः। ननु गन्धवत्त्वप्रवेशेनैव
तल्लक्षणस्य सामञ्जस्ये गन्धग्राहकत्वनिवेशनमनुचितम्। एवं च
इन्द्रियं गन्धग्राहकम् इति मूलमनुचितं इत्याशङ्कां
परिजिहीर्षुः तन्मूलं तत्प्रयोजनकथनपरतया
व्याचष्टे-गन्धग्राहकमिति। उत्तरत्र इन्द्रियं रसग्राहकम् इत्यादौ।
बालप्रिया
ननु ऽपुनः
त्रिविधा शरीरेन्द्रियविषयभेदात्ऽ इति गन्थेन किं
पृथिवीसामान्यस्य त्रेधा विभाग उच्यते किं वा अनित्यपृथिव्याः। नाद्यः,
पृथिवीसामान्यस्य यद्ययं विभागः स्यात् तर्हि नित्यपृथिव्या अपि
शरीरेन्द्रियविषयेषु क्वचिदन्तर्भावो वाच्यमः। स च न सम्बभवति।
तथा हि - न तावत् नित्यपृथिव्याः शरीरे ऽन्तर्भावः सम्भवति, नापि
इन्द्रिये।
तयोरुभयोरप्यनित्यत्वात्। नापि विषये, मृत्पाषाणादिरूपस्य
विषयस्य नित्यत्वाभावात्। न द्वितीयः, पुनस्त्रिविधेति पुनःशब्देन
पूर्वं विभक्तस्यैव विभागान्तरं क्रियत इति सूचनात्
इत्याशङ्क्य आह-अत्र नित्यपृथिव्या इत्यादिना। एवं च
पृथिवीसामान्यस्यैव पुनस्त्रेधा विभागः। नित्यपृथिव्याः
शरीरेन्द्रियभिन्नत्वात् विषये अन्तर्भांव इति नानुपपत्तिरिति
भावः।
ननु कथञ्चिदत्र

निर्वाहे ऽपि तेजः प्रकरणे पुनस्त्रिविधमिति न सङ्गच्छते।
नित्यतेजसः परमाणुरूपस्य भौमदिव्योदर्याकरजेषु चतुर्षु
विषयेष्वन्तर्भावासम्भवात्। जन्यत्वघटितभौमत्वादेः
नित्ययेजस्यसंभवात्। अतः अनित्यपृथिव्या एवायं विभागः।
पुनःशब्दश्च वाक्यालङ्कार इति नानुपपत्तिरित्याशयानानां
मतमाह - केचित्तु इति। केचिदित्यस्वरसोद्भावनम्। तद्बीजं
तु पुनःशब्दास्वारस्यात् नानित्यपृथिव्या अयं विभागः। न च स
वाक्यालङ्कार इति
वाच्यम्। वाक्यादौ
प्रयुक्तस्य पुनःशब्दस्य वाक्यालङ्कारतायाः कुत्राप्यदृष्टचरत्वात्।
यत्किञ्चित्पदोत्तरं प्रयुज्यमानस्यैव पुनःशब्दस्य
वाक्यालङ्कारतायास्तत्र तत्र दृष्टत्वात्। किं च पुनश्शब्दस्य
प्रकारान्तरपरत्वमेव अन्नम्भट्टस्यापि संमतम्। ऽप्रकारान्तरेण
विभजते - पुनस्त्रिविधेतिऽ इत्यवतरणिकादानात्। न च
पृथिवीसामान्यस्यात्र विभाग इति कथञ्चित् उपपादने ऽपि
तेजःप्रकरणे ऽनुपपत्तिरिति वाच्यम्। तत्र भौमादिशब्दानां
भूमिसम्बन्धि इत्याद्येवार्थः, न तु भूमिजन्यमिति। तथा च
परमाणुरूपतेजसो ऽपि भूमिसम्बन्धित्वादेरक्षततया
विषयान्तर्भावो युज्यत इति।
आत्मनो भोगायतनं
शरीरमिति शरीरलक्षणम्। आत्मपदोत्तरषष्ठ्याः समवेतत्वमर्थः।
तस्य भोगे ऽन्वयः। भोगो नाम सुखदुःखान्यतरसाक्षात्कारः।
आयतनमवच्छेदकम्। तथा च
आत्मसमवेतसुखदुःखान्यतरसाक्षत्कारावच्छेदकं शरीरमित्युक्तं
भवति। इदं लक्षणं हस्तपादादौ शरीरावयवे ऽतिव्याप्तम्।
हस्तपादाद्यवच्छेदेनापि आत्मनि
सुखदुःखान्यतरसाक्षात्कारस्योत्पादात्। अतः अन्त्यावयवित्वे सतीति
विशेषणं देयम्। अन्त्यावयवित्वं नाम द्रव्यानारम्भकत्वे सति
अवयवित्वम्। हस्तादेः शरीरारम्भकतया सत्यन्ताभावात्
नातिव्याप्तिः। तदाह - सुखदुःखान्यतरसाक्षात्कारावच्छेदकमिति
यावदित्यादिना पृथिवीत्वादिना सङ्करादिति। शरीरत्वं विहाय
पृथिवीत्वं घटादौ, पृथिवीत्वं विहाय शरीरत्वं जलीयादिशरीरे।
उभयोः पार्थिवशरीरे समावेशात् सङ्कर इति भावः। तथा
इन्द्रियत्वं न जातिरिति। पृथिवीत्वं विहाय इन्द्रियत्वं
रसनादौ । इन्द्रियत्वं विहाय पृथिवीत्वं घटादौ, उभयोः
समावेशः घ्राणेन्द्रियो इत्येवं पृथिवीत्वादिना सङ्करात्
इन्द्रियत्वं न जातिरिति भावः। आत्मादावतिव्याप्तिवारणाय
सत्यन्तमिति।
ज्ञानकारणमनस्संयोगाश्रयत्वमिन्द्रियत्वमित्येतावन्मात्रोक्तौ
ज्ञानकारणीभूतो यः मनस्संयोगः आत्ममनस्संयोगः तदाश्रयत्वं

आत्मन्यप्यस्तीति तत्रातिव्याप्तिः स्यात्। तद्वारणाय सत्यन्तम्।
तन्निवेशे च शब्देतरो यः उद्भूतविशेषगुणः ज्ञानसुखादिः
तदाश्रयत्वस्यैवात्मनि सत्त्वात् नातिव्याप्तिः इत्यर्थः।
उद्भूतविशषगुणे शब्देतर इति विशेषणादाने शब्दरूपः यः
उद्भूतविशेषगुणः तदाश्रयत्वमेव श्रोत्रेन्द्रिये ऽस्ति न
तदनाश्रयत्वमित्यव्याप्तिः। स्यात्। तद्वारणाय शब्देतरेति
विशेषणम्। विशेषगुणे उद्भूतेति विशेषणादाने चक्षुरादौ
शब्देतरः यः विशेषगुणः अनुद्भूतरूपादिः
तदाश्रयत्वमेवास्तीत्यव्याप्तिः स्यात्। तद्वारणाय उद्भूतेति
विशेषणम्। विशेषपदमनुपादाय
शब्देतरोद्भूतगुणानाश्रयत्वमित्येतावन्मात्रोक्तौ शब्देतरः यः
संयोगाख्यः सामान्यगुणः तदाश्रयत्वस्यैव सत्त्वात्
चक्षुरादीन्द्रियेष्वसभ्भवः स्यात्; तद्वारणाय विशेषपदम्।
ननु
विशेषपदानुपादाने ऽपि संयोगो नोपादातु शक्यते।
तस्योद्भूतत्वाभावात् उद्भूतपदेनैव तद्वारणात्
इत्याशङ्क्याह - उद्भूतत्वं न जातिरित्यादिना। उद्भूतत्वं
विहाय शुक्लत्वं अनुद्भूतशुक्ले, शुक्लत्वं विहाय उद्भूतत्वं
उद्भूतनीले, उभयोः उद्भूतत्वशुक्लत्वयोः उद्भूतशुक्ले समावेश
इति सांकर्यात् उद्भूतत्वं न जातिः।
न च शुक्लत्वव्याप्यम्
उद्भूतत्वमन्यत् नीलत्वव्याप्यमुद्भूतत्वमान्यत् इत्येवं
शुक्लत्वादिव्याप्यं उद्भूतत्वं नानैव। तथा च शुक्लत्वं विहाय
उद्भूतत्वं नास्तीति न संकर इति वाच्यम्। उद्भूतत्वस्य
नानात्वे चाक्षुषादिप्रत्यक्षं प्रति
उद्भूतरूपं
कारणमित्येवमनुगतकार्यकारणभावस्य भङ्गप्रसङ्गात्। अतः
शुक्लादिभेदेन तद्वृत्ति अनुद्भूतत्वं नाना।
अनुद्भूतत्वाभावकूटवत्त्वमेव चोद्भूतत्वम्। तदेव च लक्षणे
निवेशितम्। तच्च सयोगे ऽप्यस्ति। संयोगो हि नानुद्भूत इति
अनुद्भूतत्वाभावकूटवत्त्वस्य तत्र सत्त्वात्। तथा च
1निरुक्तोद्भूतत्वाश्रयसंयोगाश्रयत्वमेवेन्द्रियेष्वस्तीत्यसंभववारणाय
विशेषपदमिति भावः।
कालादावतिव्याप्तिवारणाय विशेष्यदलमिति।
ज्ञानकारणमनस्संयोगाश्रयत्वमिति विशेष्यदलस्यानुपादाने काले
कस्यापि विशेषगुणस्याभावात्
शब्देतरोद्भूतविशेषगुणानाश्रयत्वमस्तीति अतिव्याप्तिः स्यात्।
विशेष्यदले उपात्ते तु ज्ञानकारणीभूतो यः मनस्संयोगः
आत्ममनस्संयोगः मनैन्द्रियसंयोगो वा तदाश्रयत्वं काले
नास्तीति नातिव्याप्तिः इति भावः। मनस्संयोगे ज्ञानकारणेति

विशेषणस्य प्रयोजनमह - तत्रैवेति। कालस्य विभुतया विभुत्वस्य
सर्वमूर्तद्रव्यसंयोगित्वरूपतया मनस्संयोगाश्रयत्वमस्तीति काले
अतिव्याप्तिवारणाय ज्ञानकारणेत्युक्तम्। कालानुयोगिकस्य
मनस्संयोगस्य ज्ञानकारणत्वाभावात् नातिव्याप्तिरिति भावः।
मनःपदस्य मतभेदेन
प्रयोजनमाह - प्राचीनमत इति। मनःपदमनुपादाय
ज्ञानकारणसंयोगाश्रयत्वमित्येतावन्मात्रोक्तौ प्राचीनमते विषयस्य
इन्द्रियावयवस्य च यः संयोगः तस्यापि ज्ञानकारणतया
तदाश्रयत्वस्य इन्द्रियावयवे सत्त्वात् तत्र अतिव्याप्तिः। नवीनमते
विषयेन्द्रियसंयोगस्यैव ज्ञानकारणत्वमिति यद्यपि
इन्द्रियावयवे ऽतिव्याप्तिः न सम्भवति। तथापि काले रूपं नास्तीति
कालविशेषणकरूपाभावविशेष्यकप्रत्यक्षे
चक्षुस्संयुक्तकालनिरूपितविशेष्यतायाः संनिकर्षविधया
कारणत्वात्
तद्घटकचक्षुस्संयोगस्यापि कारणत्वात् ज्ञानकारणीभूतो यः
चक्षुस्संयोगः तदाश्रयत्वं काले ऽस्तीत्यतिव्याप्तिः स्यात्। तद्वारणाय
मनःपदम्। तथा सति विषयेन्द्रियावयवसंयोगस्य वा
कालचक्षुस्संयोगस्य वा मनस्संयोगत्वं नास्तीति न तावादाय
पूर्वोक्तातिव्याप्तिरिति भावः। पूर्वं सत्यन्तानुपादाने आत्मनि
अतिव्याप्तिरित्युक्तम्। सा च
1.
निरुक्तोद्भूतत्वेति। अनुद्भूतत्वाभावकूटवत्त्वरूपं यत्
उद्भूतत्वं तदाश्रयेत्यर्थः।
अतिव्याप्तिः
आत्मान्यत्वे सतीति वशेषणदाने ऽपि वारयितुं शक्येति किमर्थं
शब्देतरेत्यादिगुरुतरविशेषणमिति शङ्कते - न चेति। समाधत्ते -
तथा सतीति। आत्मान्यत्वे सति
ज्ञानकारणमनस्संयोगाश्रयत्वमित्युक्तौ चर्मणः आत्मान्यत्वात्
ज्ञानकारणीभूतः यः चर्ममनस्संयोगः तदाश्रयत्वाच्च
चर्मण्यतिव्याप्तिः स्यात्। तद्वारणाय शब्देतरेत्यादिगुरुतरं
विशेषणं देयमित्यर्थः।
तर्कसङ्ग्रहः
जलनिरूपणम
अन्त्स्_11 शितस्पर्शवत्य आपः । ता द्विविधाः नित्या अनित्याश् च । न्त्याः परमाणुरूपाः । अनित्याः कार्यरूपाः. । पुनस् त्रिविधाः. शरीरेन्द्रियविषयभेदात् । शरीरं वरुणलोके । इन्द्रियं रसग्राहकं रसनं जिह्वाग्रवर्ति । विषयः सरित्समुद्रादिः ॥
शीतस्पर्शवत्य
आपः। ताश्च द्विविधाः। नित्या अनित्याश्चेति। नित्याः परमाणुरूपाः।
अनित्याः कार्यरूपाः। पुनस्त्रिविधाः - शरीरैन्द्रिय - विषयभेदात्।
शरीरं वरुणलोके। इन्द्रियं रसग्राहकं रसनम्। तच्च
जिह्वाग्रवर्ति। विषयः सरित्समुद्रादिः।
दीपिका

अपां लक्षणमाह -
शीतेति। उत्पन्नविनष्टजले ऽव्याप्तिवारणाय
शीतस्पर्शसमानाधिकरणद्रव्यत्वापरजातिमत्त्वं विवक्षितम्। ऽशीतं
शिलातलम्ऽ इत्यादौ जलसम्बन्धादेव शीतस्पर्शभानमिति
नातिव्याप्तिः। अन्यत्सर्वं पूर्वरीत्या व्याख्येयम्।
प्रकाशिका
शीतस्पर्शसमानाधिकरणेति। तत्र विशेषणप्रयोजनं
पूर्वोक्तरीत्या ऊह्यम्। जलत्वजातिसिद्धिस्तु
स्नेहजनकतावच्छेदकतयेति ध्येयम्। अन्यत्सर्वे पूर्वरीत्येति।
नित्यत्वादिकं शरीरादिलक्षणं च गन्धवत्त्वस्थाने शीतस्पर्शवत्त्वं
निवेश्य पृथिवीनिरूपणोक्तरीत्येर्थः। एवमग्रे ऽप्यूह्यम्।
बालप्रिया
पूर्वोक्तरीत्या
ऊह्यमिति। द्रव्यत्वव्याप्यजातिमत्त्वमात्रोक्तौ
द्रव्यत्वव्याप्यपृथिवीत्वजातिमत्यां पृथिव्यामतिव्याप्तिः। तद्वारणाय
शीतस्पर्शसमानाधिकरणेति जातिविशेषणम्।
शीतस्पर्शवज्जलवृत्तिसत्ताजतिमादाय पृथिव्यादावतिव्याप्तिवारणाय
द्रव्यत्वव्याप्येति। द्रव्यत्वव्याप्यत्वं च द्रव्यत्वन्यूनवृत्तित्वम् न तु
तच्छून्यावृत्तित्वम्। अतो द्रव्यत्वजातिमादाय नोक्तदोष इति
भावः। स्नेहजनकतावच्छेदकतयेति।
ऽसमवायसम्बन्धावच्छिन्नस्नेहत्वावच्छिन्नस्नेहनिष्ठकार्यतानिरूपिततादात्म्यसम्बन्धावच्छिन्नजलनिष्ठकारणता
किञ्चिद्धर्मावच्छिन्ना कारणतात्वात्ऽ इत्यनुमानेन
जलत्वजातिसिद्धिरित्यर्थः।
तर्कसङ्ग्रहः
तेजोनिरूपणम्
अन्त्स्_12 उष्णस्पर्शवत् तेजः । तद् द्विविधं नित्यम् अनित्यं च । निय्यं परमाणुरूपम् । अनित्यं कार्यरूपम् । पुनस् त्रिविधं शरीरेन्द्रियविषयभेदात् । शरीरम् आदित्यलोके । इन्द्रियं रूपग्राहकं चक्षुः कृष्णताराग्रवर्ति । विषयश् चतुर्विधः । भौमदिव्यौदर्याकरजभेदात् । भौमं वह्न्यादिकम् । अबिन्धनं दिव्यं विद्युदादि । भुक्तस्य परिणामहेतुर् औदर्यम्. आकरजं सुवर्णादि ॥
उष्णस्पर्शवत्
तेजः। तत् द्विविधम् - नित्यम् अनित्यम् चेति। नित्यं
परमाणुरूपम्। अनित्यं कार्यरूपम्। पुनस्त्रिविधम् - शरीरैन्द्रिय
- विषयभेदात्। शरीरमादित्यलोके। इन्द्रियं रूपग्राहकं चक्षुः।
तच्च कृष्णताराग्रवर्ति।
विषयश्चतुर्विधः -
भौम-दिव्य-उदर्य-आकरज-भेदात्। भौमं वह्न्यादि। दिव्यमबिन्धनं
विद्युदादि। भुक्तस्य परिणामहेतुरुदर्यम्। आकरजं सुवर्णादि।
दीपिका
तेजसो लक्षणमाह - उष्णस्पर्शवदिति।
ऽउष्णं जलम्ऽ इत्यादिप्रतीतेः तेजस्संयोगानुविधायित्वात्
नातिव्याप्तिः। विषयं विभजते - भौमेति।
सुवर्णतैजसत्ववादः
ननु सुवर्णं

पार्थिवं पीतत्वात् गुरुत्वात् हरिद्रावत् इति चेत् - न।
अत्यन्तानलसंयोगे सति घृतादौ द्रवत्वनाशदर्शनेन,
जलमध्यस्थघृतादौ तन्नाशादर्शनेन च असति प्रतिबन्धके
पार्थिवद्रवत्वना शाग्निसंयोगयोः कार्यकारणभावावधारणात्
सुवर्णस्य अत्यन्तानलसंयोगे सति अनुच्छिद्यमानद्रवत्वाधिकरणत्वेन
पार्थिवत्वानुपपत्तेः पीतद्रव्यद्रवत्वनाशप्रतिबन्धकतया
द्रवद्रव्यान्तरसिद्धौ नैमित्तिकद्रवत्वाधिकरणतया जलत्वानुपपत्तेः
रूपवत्तया वाय्वादिषु अनन्तर्भावात् तैजसत्वसिद्धिः।
तस्योष्णस्पर्शभास्वररूपयोः उपष्टम्भकपार्थिवरूपस्पर्शाभ्यां
प्रतिबन्धादनुपलब्धिः। तस्मात् सुवर्णं तैजसमिति सिद्धम्।
प्रकाशिका
मूले
अबिन्धनमिति। अद्भिः इन्धनं दीपनं यस्य तदित्यर्थः। भुक्तस्येति।
भुक्तस्यौदनादेः परिणामः परिपाकः, तत्र हेतुरित्यर्थः।
आकरजमिति। आकरः खनिः तत्र जातमित्यर्थः।
सुवर्णस्य तैजसत्वं
व्यवस्थापयितुं शङ्कते - दीपिकायाम् नन्विति। पार्थिवत्वसाधकं
पीतत्वहेतुमुक्त्वा तैजसत्वाभावसाधकं हेतुमाह - गुरुत्वादिति।
एतेन सुवर्णरूपतेजसि विजातीयपीतरूपं स्वीक्रियते। ऽपीतं
सुवर्णंऽ इत्यबाधितप्रत्यक्षप्रतीतिबलात्। एवं च तैजसत्वस्य
निर्बाधतया पृथिवीत्वं न सिध्यतीति कस्यचित् भ्रान्तिर्निरस्ता।
गुरुत्वस्याप्रत्यक्षत्वेन तथा वक्तुमशक्यत्वादिति दिक्। सुवर्णस्य
पीतिमगुरुत्वाश्रयतो ऽतिरिक्तत्वं व्यवस्थापयितुं अनुमाने
अप्रयोजकशङ्कावारणाय कार्यकारणभावमनुकूलतर्कं व्यवस्थापयति
- अत्यन्तानलेति। सुवर्णस्येत्यादिः। अनुमानप्रयोगस्तु
इत्थमवसेयः - सुवर्णं अपार्थिवम् असति प्रतिबन्धके
अत्यन्तानलसंयोगे सति अनुच्छिद्यमानद्रवत्वाधिकरणत्वात् यन्नैवं
तन्नैवम्। यथा पृथिवी। जलमध्यस्थघृतादौ व्यभिचारवारणाय असति
प्रतिबन्धक इति। अग्निसंयोगासमानाधिकरणद्रवत्ववतिघृतादौ
व्यभिचारवारणाय अत्यन्तानलसंयोगे सति इति।
द्रवद्रव्यान्तरसिद्धाविति। ऽअत्यन्तानलसंयोगी पीतिमाश्रयः
द्रवत्वनाशप्रतिबन्धकद्रवद्रव्यान्तरसंयुक्तः अत्यन्तानलसंयोगे ऽपि
अनुच्छिद्यमानद्रवत्वाधिकरणत्वे सति गुरुत्वात
जलमध्यस्थघृतादिवत्ऽ इत्यनुमानेन तत्सिद्धिर्द्रष्टव्या।
जलादिकमादायानुमानपर्यवसानं वारयति - नैमित्तिकेति। ननु
उष्णस्पर्शभास्वररूपयोः उपलब्ध्यभावेन सुवर्णस्य तैजसत्वं
अनुपपन्नं इत्यत आह - तस्येति। प्रतिबन्धादिति।
दोषविधयेत्यादिः।
बालप्रिया
सुवर्णं पार्थिवं

पीतत्वात् गुरुत्वात् हरिद्रावत् इति मूले पीतत्वगुरुत्वाभ्यां
द्वाभ्यां हेतुभ्यां सुवर्णस्य पार्थिवत्वं
पूर्वपक्षिणा
साधितम्। तत्र पीतत्वरूपेण ऐकेन हेतुनैव
पृथिवीत्वसाधनसम्भवात् गुरुत्वरूपद्वितीयहेतूपन्यासो व्यर्थ
इत्याशङ्क्याह - पार्थिवत्वसाधकमिति। तथा च पीतत्वं
पार्थिवत्वसाधकम्। गुरुत्वं तु तेजोभिन्नत्वसाधकम्। न च
द्वितीयानुमानं व्यर्थमिति वाच्यम्। परमतनिराकरणपूर्वकं
स्वसिद्धान्तस्य कथनीयतया पराभिमततैजसत्वनिराकरणाय
द्वितीयानुमानस्य आवश्यकत्वादिति भावः।
ननु सुवर्णस्य
पार्थिवत्वसाधननैव अर्थात् तैजसत्वाभावनिर्णये
अनुमानान्तरप्रणयनवैयर्थ्यम्। एकेनैव पीतत्वहेतुना
पार्थिवत्वतैजसभिन्नत्वयोः साधनसम्भवादिति चेत् - अत्राहुः।
ऽसुवर्णं पार्थिवम्ऽ इत्याद्यनुमाने सुवर्णत्वं न पक्षतावच्छेदकम्।
तथा सति रजतस्य पक्षतावच्छेदकानाक्रान्ततया तत्र
पार्थिवत्वासिद्धिप्रसङ्गात्। तदर्थमनुमानान्तरप्रणयने गौरवाच्च।
नापि रजतसाधारणं हिरण्यत्वं पक्षतावच्छेदकम्। तथा सति
पक्षतावच्छेदकाश्रयरजते पीतत्वरूपहेत्वभावेन
भागासिद्धिप्रसङ्गात्। तस्मात् गुरुत्वहेत्वनुसरणम्। गुरुत्वं तु
रजते ऽप्यस्तीति न भागासिद्धिरिति।
वस्तुतस्तु अत्र
पूर्वपक्षिणः सुवर्णस्य पार्थिवत्वसाधने न निर्भरः। सुवर्णे
पार्थिवत्वाभावस्य केनाप्यनुक्ततया तदभावरूपपृथिवीत्वमेवास्तु
इति पूर्वपक्षस्याप्रसरात्। ऽआकरजं सुवर्णादिऽ इति ग्रन्थकृता
पूर्वसुवर्णस्य तेजस्त्वकथनात् तदुपरि सुवर्णं तेजो न भवतीति
पूर्वपक्षस्यैव युक्तत्वात्। अत एव ऽतस्मात् सुवर्णं तैजसम्ऽ इति
सिद्धान्ते उपसंहारो ऽपि सङ्गच्छते। एवं च सुवर्णस्य
तेजोभिन्नत्वमप्यत्र पूर्वपक्षिणा सिषाधयिषितम्। सुवर्णस्य
तेजोभिन्नत्वं तु पीतत्वेन हेतुना न साधयितुं शक्यते ऽसुवर्णं
पीतम्ऽ इत्याकारकाबाधितप्रत्यक्षबलात् सुवर्णस्य तेजस्त्वे ऽपि
तत्र पीतत्वस्योपपत्तेः। अतो गुरुत्वादिति द्वितीयहेतूपन्यासः।
ऽसुवर्णं गुरुऽ इति प्रत्यक्षाभावेन सुवर्णस्य तेजस्त्वे ऽपि
गुरुत्वमुपपद्यत इति वक्तुमशक्यम्। अतो गुरुत्वं
तेजोभिन्नत्वसाधने समर्थमिति भावो ऽत्र प्रतीयते। स्पष्टीकृतश्च
अयं भावः ऽएतनेऽ इत्यादिग्रन्थेनेति।
दीपिकायाम् -
अत्यन्तानलसंयोगे सतीत्यादि। अयमर्थः - घृतादिपृथिव्यां यत्
द्रवत्वं तस्यात्यन्ताग्निसंयोगे सति नाशो भवति। तेन
पार्थिवगतद्रवत्वनाशं प्रति अत्यन्ताग्निसंयोगः कारणमिति

कार्यकारणभावो लभ्यते। परं तु तुलमध्यस्थघृतद्रवत्वस्य
अत्यन्ताग्निसंयोगे सत्यपि नाशो न
भवतीत्यन्वयव्यभिचारशङ्गावारणाय उक्तकार्यकारणभावे ऽअसति
प्रतिबन्धकेऽ इति विशेषणं देयम्। तेन
प्रतिबन्धकासमवधानकालीनः अत्यन्ताग्निसंयोगः पार्थिवद्रवत्वनाशस्य
हेतुः इति कार्यकारणभावः फलति। जलमध्यस्थघृते तु जलस्य
प्रतिबन्धकत्वात् न द्रवत्वनाशः। तथा च
प्रतिबन्धकासमवहिताग्निसंयोगरूपकारणाभावात् तत्र
द्रवत्वनाशरूपकार्याभाव इति न पूर्वोक्तान्वयव्यभिचारः। सुवर्णे
तु अत्यन्ताग्निसंयोगे सत्यपि तत्र विद्यमानपार्थिवभागस्य यत्
द्रवत्वं तन्नाशो न भवति। अतः तद्द्रवत्वनाशप्रतिबन्धकं किञ्चित्
द्रव्यं सुवर्णे ऽस्तीति वक्तव्यम्। तदेव तेजः। तथा च सुवर्णे
पृथिव्यसाधारणानुभूयमानपीतरूपगुरुत्वयोराश्रयभूतः
पार्थिवभागः तद्गतद्रवत्वप्रतिबन्धकतेजोभाग इति
भागद्वयमङ्गीकार्यम्। तथा अनङ्गीकारे सुवर्णस्य कृत्स्नस्यापि
पार्थिवत्वे तद्गतद्रवत्वं नश्येत्। एवं च अत्यन्ताग्निसंयोगे
पीतिमाश्रयभागः दुवत्वनाशप्रतिबन्धकद्रवद्रव्यान्तरसंयुक्तः
अत्यन्तानलसंयोगे सत्यपि अविनाशिद्रवत्ववत्त्वात्
जलमध्यस्थघृतवत् इत्यनुमानेन प्रतिबन्धकद्रवद्रव्यान्तरसिद्धौ
ऽतत् द्रव्यम् न पार्थिवम् असति प्रतिबन्धके ऽत्यन्ताग्निसंयोगे सति
अनुच्छिद्यमानद्रवत्ववत्त्वात् यन्नैवं तन्नैवं यथा पृथिवीऽ
इत्यनुमानेन तादृशद्रव्यान्तरस्य पृथिवीभिन्नत्वे सिद्धे तस्य
ऽतादृशद्रव्यान्तरं न जलम् तैमितिकद्रवत्ववत्त्वात्ऽ इत्यनुमानेन
जलत्वाभावे सिद्धे ऽतादृशद्रव्यान्तरं न वाय्वादिकम् रूपवत्त्वात्ऽ
इत्यनुमानेन वाय्वादित्वाभावे च सति तादृशद्रव्यं तैजसं
पृथिव्याद्यष्टकान्यत्वे सति द्रव्यत्वात् इति परिशेषानुमानेन तस्य
तैजसत्वं सिध्यतीति। न च तादृशद्रव्यस्य रूपवत्त्वमसिद्धमिति कथं
तेन हेतुना वाय्वादिभेदः साध्य इति वाच्यम्। तस्य रूपशून्यत्वे
वाय्वादिवत् द्रवत्वनाशप्रतिबन्धकत्वानुपपत्त्या रूपवत्त्वस्वीकारस्य
आवश्यकत्वात् इत्याशयात्। वस्तुतो नैमित्तिकद्रवत्ववत्त्वेनैव
हेतुना वाय्वादिभेदो ऽपि शक्यः साधयितुम्। तथा च तेजस्त्वेन
निर्णीतं प्रतिबन्धकं द्रव्यमेव सुवर्णं हिरण्यमित्यादिभिः
विशेषशब्दैः सामान्यशब्दैश्च व्यवह्रियत इति सिध्यति।
अत्रेदं तत्त्वम् -
प्रतिबन्धकाभावविशिष्टः अत्यन्ताग्निसंयोगः पार्थिवद्रवत्वनाशं
इति हेतुरिति
कार्यकारणभावः
आवश्यकः। तत्र सुवर्णस्थपार्थिवभागगतद्रवत्वनाशरूपकार्याभावः
प्रतिबन्धकाभावविशिष्टात्यन्ताग्निसंयोगरूपकारणाभावप्रयुक्त इति
निर्विवादम्। तत्र तादृशविशिष्टाभावरूपः कारणाभावः न

विशेष्याभावात्, अत्यन्ताग्निसंयोगरूपस्य विशेष्यस्य तत्र सत्त्वात्।
किं तु प्रतिबन्धकाभावरूपस्य विशेषणस्याभावादेव वक्तव्य इति
प्रतिबन्धकं किञ्चित् द्रवद्रव्यान्तरं तत्रास्तीति वक्तव्यम्। तस्यापि
पृथिवीत्वे तद्द्रवत्वनाशप्रतिबन्धकं द्रव्यान्तरं तस्यापि
तथेत्यनवस्था स्यात्। अतः प्रतिबन्धकान्तरं विना
अविनश्यद्द्रवत्वादेव तन्न पृथिवी इति। अयं दीपिकाग्रन्थः
पार्थिवभागस्यापि द्रवत्वं तेजोभागस्यापि द्रवत्वमित्यङ्गीकृत्य
प्रवृत्त इति प्रतीयते ऽपीतद्रव्यद्रवत्वनाशऽ ऽद्रवद्रव्यान्तरऽ इति
पदयोः स्वारस्यात्। मुक्तावल्यां तु ऽजलमध्यस्थमषीक्षोदवत्
तस्याद्रुतत्वातऽ इति ग्रन्थेन पार्थिवभागस्य द्रवत्वाभाव एव
प्रतिपादितः। तन्मते सुवर्णस्य तैजसत्वसाधकानुमानमन्यदेवेति।
प्रकाशिकायाम् -
सुवर्णस्य पीतिमगुरुत्वाश्रयतो ऽतिरिक्तत्वमिति। सुवर्णशब्दवाच्यस्य
भागविशेषस्य पृथिवीभागादतिरिक्तत्वमित्यर्थः।
अनुमाने ऽप्रयोजकशङ्कावारणायेति। सुवर्णशब्दवाच्यस्य
भागविशेषस्य पृथिव्यतिरिक्तत्वसाधके ऽसुवर्णम् अपार्थिवम्
अत्यन्ताग्निसंयोग सति अनुच्छिद्यमानद्रवत्वाधिकरणत्वात्ऽ
इत्यनुमाने अत्यन्ताग्निसंयोगे सति
अनुच्छिद्यमानद्रवत्वाधिकरणत्वरूपहेतुरस्तु अपार्थिवत्वरूपसाध्यं
मास्तु इत्यप्रयोजकशङ्कायां तद्वारणाय यदि सुवर्णस्य
पार्थिवत्वं स्यात् तर्हि अत्यन्ताग्निसंयोगे सति
उच्छिद्यमानद्रवत्वाधिकरणमेव स्यात्; पार्थिवद्रवत्वनाशं प्रति
अत्यन्ताग्निसंयोगस्य कारणत्वात्
इत्येवंरूपमनुकूलतर्कमाहेत्यर्थः। असति प्रतिबन्धके इत्यस्य
प्रतिबन्धकाभावविशिष्टमित्यर्थः। तस्य द्रवत्वे ऽन्वयः। वैशिष्ट्यं च
संयोगसमवायघटित एककालावच्छिन्नैकाधिकरणवृत्तित्वरूपसामानाधि करण्यसम्बन्धेन।
अत्यन्तानलसंयोगे सति इत्यस्यापि
समवायघटितोक्तसामानाधिकरण्यसम्बन्धेन
अत्यन्ताग्निसंयोगविशिष्टमित्यर्थः। अन्वयश्च तस्य द्रवत्वे एव।
जलमध्यस्थघृतादौ व्यभिचारवारणायेति।
अपार्थिवत्वरूपसाध्याभाववति तत्र
अनुच्छिद्यमानद्रवत्वरूपहेतुसत्त्वादिति भावः।
अग्निसंयोगासमानाधिकरणद्रवत्ववति घृतादाविति।
शिक्यस्थघृतादौ इत्यर्थः।
अत्यन्तानलसंयोगीत्यादि। पीतिमाश्रयत्वमात्रस्य
पक्षतावच्छेदकत्वे तदवच्छेदेन च अनुमितेरुद्देश्यत्वे
अग्निसंयोगरहितस्यापि पीतिमाश्रयस्य पक्षतावच्छेदकाक्रान्ततया
तत्राग्निसंयोगघटितस्य हेतोरभावात् भागासिद्धिः स्यात् इति
तद्वारणाय अत्यन्तानलसंयोगीति पक्षविशेषणम्।
अत्यन्तानलसंयोगिनः तैजसभागस्य साध्यशून्यत्वात् बाधः स्यात्

इति तद्वारणाय पीतिमाश्रय इति। द्रवद्रव्यान्तरस्य अप्रतिबन्धकत्वे
तत्कल्पने ऽपि प्रकृते नोपयोग इति सूचनाय
द्रवत्वनाशप्रतिबन्धकेति साध्यविशेषणम्। जलमध्यस्थघृतादौ
पार्थिवद्रवत्वनाशं प्रति द्रवद्रव्यस्यैव प्रतिबन्धकत्वदर्शनात्
प्रकृते ऽपि प्रतिबन्धकं द्रव्यं द्रवमेव स्यादित्यभिप्रेत्य द्रवेति
विशेषणम्। अनुमानपर्यवसानमिति।
अजिज्ञासितार्थंसिद्धिरूपमर्थान्तरं वारयितुमित्यर्थः।
ननु यदि सुवर्णं
तैजसं भवेत् तर्हि तेजोगुणयोः उष्णस्पर्शभास्वरशुक्लरूपयोः
सुवर्णे उपलब्धिः स्यात्। यतः न तयोः सुवर्णे उपलब्धिः अतः सुवर्णं
न तैजसमिति शङ्कानिरासार्थः तस्येति ग्रन्थ इत्याह---ननु
उष्णस्पर्शेति। वस्तुतः सुवर्णे विद्यमानयोरपि उष्णस्पर्शशुक्लरूपयोः
प्रत्यक्षं प्रति पार्थिवगतस्पर्शरूपे प्रतिबन्धके इति
दीपिकायामुक्तम्। तच्च प्रतिबन्धकत्वं दोषविधया न तु तद्वत्ताबुद्धिं
प्रति तदभाववत्ताज्ञानविधयेत्यभिप्रेत्याह ---
दोषविधयेत्यादिरिति।
तर्कसङ्ग्रहः
वायुनिरूपणम्
अन्त्स्_13 रूपरहितस्पर्शवान् वायुः । स द्विविधो नित्यो ऽनित्यश् च । नित्यः परमाणुरूपः । अनित्यः कार्यरूपः । पुनस् त्रिविधः शरीरेन्द्रियविषयभेदात् । शरीरं वायुलोके । इन्द्रियं स्पर्शग्राहकं त्वक्सर्वशरीरवर्ति । विषयो वृक्षादिकम्पनहेतुः ॥ शरीरान्तःसंचारी वायुः प्राणः । स चैको ऽप्य् उपाधिभेदात् प्राणापानादिसंज्ञा लभते ॥
रूपरहितस्पर्शवान् वायुः। सः द्विविधः। नित्यः अनित्यश्च
इति। नित्यः परमाणुरूपः। अनित्यः कार्यरूपः। पुनस्त्रिविधः ---
शरीर - इन्द्रिय - विषयभेदात्। शरीरम् वायुलोके। इन्द्रियं
स्पर्शग्राहकं त्वक्। सर्वशरीरवृत्तिः। विषयो वृक्षादिकम्पनहेतुः
वायुः। शरीरान्तस्सञ्चारी वायुः प्राणः। स चैको ऽपि उपाधिभेदात्
प्राणापानादिसंज्ञां लभते।
दीपिका
वायुं लक्षयति -
रूपरहितेति। आकाशादौ अतिव्याप्तिवारणाय स्पर्शवानिति।
पृथिव्यादौ अतिव्याप्तिवारणाय रूपरहितेति। प्राणस्य कुत्रान्तर्भाव
इत्यत आह - शरीरेति। स चेति। एक एव प्राणः स्थानभेदात्
प्राणापानादिशब्दैः व्यवह्रियत इत्यर्थः।
स्पर्शानुमेयो वायुः।
तथा हि - यो ऽयं वायैं वाति सति अनुष्णाशीतस्पर्शं उपलभ्यते स
क्वचिदाश्रितः गुणत्वात् रूपवत्। न चास्य आश्रयः पृथिवी,
उद्भूतस्पर्शंवत्पार्थिवस्य उद्भूतरूपवत्त्वनियमात्। न जलतेजसी,
अनुष्णाशीतस्पर्शवत्त्वात्। न विभुचतुष्टयम्,
सर्वत्रोपलब्धिप्रसङ्गात्। न मनः, परमाणुस्पर्शस्य अतीन्द्रियत्वात्।
तस्मात् य. प्रतीयमानस्पर्शाश्रयः स वायुः (एव)।
ननु वायुः प्रत्यक्षः
प्रत्यक्षस्पर्शाश्रयत्वात् घटवत् इति चेत् - न।

उद्भूतरूपवत्त्वस्योपाधित्वात्। ऽयत्र द्रव्यत्वे सति
बहिरिन्द्रियजन्यप्रत्यक्षत्वम्, तत्र उद्भूतरूपवत्त्वम्ऽ इति
साध्यव्यापकत्वम्। पक्षे साधनाव्यापकत्वम्। न चैवं
तप्तवारिस्थतेजसो ऽपि अप्रत्यक्षत्वापत्तिः इष्टत्वात्। तस्मात्
रूपरहितत्वात् वायुः अप्रत्यक्षः।
प्रकाशिका
शरीरेति इति।
तथा च प्राणस्य विषये अन्तर्भाव इति भावः। स्थानभेदादिति। ऽहृदि
प्राणऽ इत्यादिकोशोक्तस्थानभेदादित्यर्थः। मुखनासिकाभ्यां
निष्क्रमणप्रवेशनात् प्राणः। मलादीनामधोनयनात् अपानः। आहारेषु
पाकार्थं वह्नेः समुन्नयनात् समानः। ऊर्ध्वनयनात् उदानः।
नाडीमुखेषु वितननात् व्यानः।
स्वमतं दर्शंयति - स्पर्शानुमेय इति।
अस्य - उपलभ्यमानस्पर्शस्य आश्रयः पृथिवी न च इत्यन्वयः।
चतुष्टयमिति। इदं आकाशादिप्रत्येकभेदसाधनाभिप्रायेण।
सर्वत्रोपलब्धिप्रसङ्गादिति। स्पर्शस्येत्यादिः। आकाशादीनां
विभुत्वादिति भावः।
प्रत्यक्षः - बहिरिन्द्रियजन्यप्रत्यक्षविषयः।
अनुद्भूतस्पर्शाश्रये त्वगिन्द्रिये व्यभिचारवारणाय प्रत्यक्षेति।
उपाधित्वादिति। तथा च हेतौ उपाधिव्यभिचारेण
साध्यव्यभिचारोन्नयनसम्भवात् न प्रत्यक्षत्वसिद्धिरिति भावः। ननु
तादृशप्रत्यक्षत्वस्य गुणादावपि सत्त्वेन तत्रोद्भूतरूपाभावेन
साध्याव्यापकत्वात् कथं तस्योपाधिकत्वमित्यत आह - यत्रेति। तथा
च पक्षधर्मावच्छिन्नसाध्यव्यापको ऽयं उपाधिरिति भावः।
एवं-प्रत्यक्षस्पर्शाश्रयस्यापि उद्भेतरूपाभावेन प्रत्यक्षत्वानङ्गीकारे ऽ
अप्रत्यक्षत्वापत्तिरिति। उद्भूतरूपाभावादिति भावः।
बालप्रिया
न विभुचतुष्टयम्
इत्यस्य विभुचतुष्टयत्वावच्छिन्नप्रतियोगिताकभेदवानिति नार्थः;
विभावपि प्रत्येकं तच्चतुष्टयभेदसम्भवेनाभिमतासिद्धेः। अपि तु
उपलभ्यमानस्पर्शाश्रयः आकाशाद्यात्मान्तान्यतमभिन्न इति अर्थो
विवक्षित इत्याशयेनाह -
इदमाकाशादिप्रत्येकभेदसाधनाभिप्रायेणेति।
तथा च हेताविति। ऽप्रत्यक्षस्पर्शाश्रयत्वं
प्रत्यक्षत्वव्यभिचारि प्रत्यक्षत्वव्यापकोद्भूतरूपव्यभिचारित्वात्;
यत् यद्व्यापकव्यभिचारि तत् तद्व्यभिचारिऽ इति प्रयोगो ऽत्र
विवक्षितः। ननु ऽवायुः बहिरिन्द्रियजन्यप्रत्यक्षविषयः
प्रत्यक्षस्पर्शाश्रयत्वात्ऽ इत्यनुमाने उद्भूतरूपस्य उपाधित्वं न
सम्भवति। उपाधेः उद्भूतरूपस्य साध्यव्यापकत्वाभावात्
बहिरिन्द्रियजन्यप्रत्यक्षविषयत्ववति गुणादौ उद्भूतरूपाभावात्

इत्याशङ्कते - ननु तादृशप्रत्यक्षत्वस्येत्यादिना।
बहिरिन्द्रियजन्यप्रत्यक्षविषयत्वस्येत्यर्थः। तथा चेति। पक्षः वायुः
तद्गतधर्मः द्रव्यत्वम् तदवच्छिन्नं सामानाधिकरण्यसम्बन्धेन
तद्विशिष्टं साध्यं बहिरिन्द्रियजन्यप्रत्यक्षविषयत्वं तद्व्यापक
इत्यर्थः। एवं च द्रव्यत्वविशिष्टबहिरिन्द्रियजन्यप्रत्यक्षविषयत्वं
गुणादौ नास्ति तत्र द्रव्यत्वरूपविशेषणाभावात्। अपि तु द्रव्ये
घटादावेवास्ति। तत्र च उद्भूतरूपमस्तीति उद्भूतरूपस्य
पक्षधर्मावच्छिन्नसाध्यव्यापकत्वादुपाधित्वमुपपद्यत इति। उपाधिर्हि
केवलसाध्यव्यापकः, पक्षधर्मावच्छिन्नसाध्यव्यापकः,
साधनावच्छिन्नसाध्यव्यापक इति त्रिविधः। तत्र
मध्यमो ऽयमुपाधिरिति भावः। एवमिति व्याख्येयं पदम्। तस्य
व्याख्यानं प्रत्यक्षस्पर्शाश्रयस्याप्युद्भूतरूपाभावेन
प्रत्यक्षत्वानङ्गीकार इति। उद्भूतरूपस्य साध्यव्यापकस्य
वायावभावेन व्यापकाभावात् व्याप्याभाव इति रीत्या
प्रत्यक्षत्वाभावस्य सिद्धेरिति भावः।
दीपिका
सृष्टिसंहारप्रक्रिया
इदानीं
कार्यरूपपृथिव्यादिचतुष्टयस्य उत्पत्तिविनाशक्रमः कथ्यते। ईश्वरस्य
चिकीर्षावशात् परमाणुषु क्रिया
जायते। ततः
परमाणुद्वयसंयोगे सति द्व्यणुकमुत्पद्यते। त्रिभिरेव द्व्यणुकैः
त्र्यणुकं उत्पद्यते। एवं चतुरणुकादिक्रमेण महती पृथिवी, महत्य
आपः, महत्तेजः, महावायुः उत्पद्यते। एवमुत्पन्नस्य कार्यद्रव्यस्य
संजिहीर्षावशात् क्रियया परमाणुद्वयविभागे द्व्यणुकनाश
इत्येवं पृथिव्यादिनाशः। असमवायिकारणनाशात् द्व्यणुकनाशः।
समवायिकारणनाशात् त्र्यणुकानाश इति संप्रदायः।
सर्वत्रासमवायिकारणनाशात् द्रव्यनाश इति नवीनाः।
किं पुनः
परमाणुसद्भावे प्रमाणम्? उच्यते - जालसूर्यमरीचिस्थं सर्वतः
सूक्ष्मतमं यत् द्रव्यं उपलभ्यते तत्सावयवम् चाक्षुषद्रव्यत्वात्
घटवत्। त्र्यणुकावयवो ऽपि सावयवः महदारम्भकत्वात् कपालवत्।
यः द्व्यणुकावयवः स एव परमाणुः। स च नित्यः, तस्यापि कार्यत्वे
अनवस्थाप्रसङ्गात्। सृष्टिप्रलयसद्भावे ऽधाता यथापूर्वं
अकल्पयत्ऽ इत्यादि श्रुतिरेव प्रमाणम्।
ऽसर्वकार्यद्रव्यध्वंसो ऽवान्तरप्रलयः, सर्वभावकार्यध्वंसो
महाप्रलयःऽ इति विवेकः।
प्रकाशिका
ननु परमाणुपुञ्जस्यैव घटादिरूपत्वेन
अतिरिक्तावयविनः असत्त्वात् पृथिव्यादिचतुष्टयस्य

नित्यत्वानित्यत्वाभ्यां विभागकथनमनुपपन्नं इत्याशङ्कां
वारयति -- इदानीमिति। पृथिव्यादिचतुष्टयनिरूपणानन्तरम्
इत्यर्थः। व्द्यणुकनाश इत्यस्य परमाणुद्वयसंयोगनाशादित्यादिः।
सर्वत्रेति। जन्यद्रव्यसामान्य इत्यर्थः। सर्वत्र एकरीतिरेवोचिता
इति भावः।
चाक्षुषद्रव्यत्वादिति।
चाक्षुषत्वे सति द्रव्यत्वादित्यर्थः। रूपादौ आत्मनि च
व्यभिचारवारणाय विशेष्यविशेषणे। न च इदं अप्रयोजकमिति
शङ्क्यम्। चाक्षुषं प्रति कारणस्य महत्त्वस्य त्रुटावपेक्षिततया
सावयवत्वं विना अवयवसङ्ख्याजन्यस्य तस्य स्वीकर्तुमशक्यत्वादिन्ति
सङ्क्षेपः। यत्किचिञ्ज्जन्यद्रव्यध्वंसस्य इदानीमपि सत्त्वात् सर्वेति।
नित्यद्रव्याणां ध्वंसासम्भवात् कार्येति। परमाणुनिष्ठरूपादीनां
तदानीमपि सत्त्वात् द्रव्येति। ध्वंसानां ध्वंसांसंभवेन
महाप्रलये ऽपि सत्त्वात् भावेतीति दिक्।
बालप्रिया
परमाणुपुञ्जस्यैवेति। परमाणुसमूहस्यैवेत्यर्थः।
अतिरिक्तावयविन इति। परमाणुभिन्नस्य अवयविन इत्यर्थः।
विभागकथनमनुपपन्नमिति। अनित्यस्य पृथिव्यादिचतुष्टयस्याभावात्
इति भावः। मूले चिकीर्षावशादिति। सिसृक्षावशादित्यर्थः।
त्रिभिरेव व्द्यणुकैरिति। द्वाभ्यां द्व्यणुकाभ्यां त्र्यणुकोत्पत्तिः न
भवति। त्र्यणुकमिति
1त्रित्वसङ्ख्याकाण्ववयवकत्वप्रवृत्तिनिमित्तकत्र्यणुकशब्दानुपपत्तेरिति
मत्वा एवमुक्तम्। कार्यद्रव्यस्य संजिहीर्षावशादिति।
कार्यन्द्रव्यविषयकेश्वरकर्तृकसंहारेच्छावशादित्यर्थः।
असमवायिकारणनाशादिति। द्व्यणुकस्य असमवायिकारणं यः
परमाणुद्वयसंयोगः
तस्य नाशात् द्व्यणुकस्य नाश इत्यर्थः। समवायिकारणनाशात्
त्र्यणुकनाश इति त्र्यणुकस्य यत् समवायिकारणं द्व्यणुकं तस्य
नाशात् त्र्यणुकनाश इत्यर्थः। द्व्यणुकस्य तु
समवायिकारणनाशात् नाशो न वक्तुं शक्यते। समवायिकारणस्य
परमाणोः नाशासम्भवादिति भावः। जालसूर्येत्यादि। प्रथमानुमानं
द्व्यणुकसाधकम्, द्वितीयानुमानं परमाणुसाधकमिति विवेकः।
चाक्षुषद्रव्यत्वादित्यस्य
चाक्षुषं च तत् द्रव्यत्वं चेति समासे घटादौ चाक्षुषं यत् द्रव्यत्वं
तस्यैव आत्मनि सत्त्वेन सावयवत्वाभाववति तत्र हेतोः व्यभिचारः
स्यात्। अतः चाक्षुषं च तत् द्रव्यं च चाक्षुषद्रव्यं तस्य भावः इति
1. त्रित्वसंख्याकेति।
त्रीणि अणूनि यस्य तत् त्र्यणुकमिति विग्रहः। तथा च
त्रित्वंसंख्याविशिष्टाण्ववयवकत्वं त्र्यणुकशब्दस्य प्रवृत्तिनिमित्तम्।
तत्र त्रिभिर्द्व्यणुकैः त्र्यणुकोत्पत्तावेव संगच्छत इति भावः।

चाक्षुषद्रव्यं तस्य
भावः इति समासो ऽत्र विवक्षितः। तेन चाक्षुषत्वविशिष्टद्रव्यत्वं
हेतुरिति फलति। वैशिष्ट्यं च सामानाधिकरण्यसम्बन्धेन। आत्मनि
चाक्षुषत्वरूपविशेषणाभावात् विशिष्टद्रव्यत्वरूपो हेतुः नास्तीति
न व्यभिचार
इत्याशयेनाह -
चाक्षुषत्वे सति द्रव्यत्वादित्यर्थ इति। चाक्षुषत्वमात्रोक्तौ
सावयवत्वरूपसाध्याभाववति रूपादौ चाक्षुषत्वसत्त्वात् व्यभिचार
इति तद्वारणाय द्रव्यत्वोपादानम्। द्रव्यत्वमात्रोक्तौ आत्मनि
व्यभिचार इति तद्वारणाय द्रव्यत्वोपादानम्। द्रव्यत्वमात्रोक्तौ
आत्मनि व्यभिचार इति तद्वारणाय
चक्षुरिन्द्रियजन्यप्रत्यक्षविषयत्वरूपचाक्षुषत्वोपादानम्।
विशेष्यविशेषणे इति। विशेष्यं द्रव्यत्वम्। विशेषणं
चाक्षुषत्वम्।
न
चेदमप्रयोजकमिति। चाक्षुषद्रव्यत्वरूपहेतुरस्तु,
सावयवत्वरूपसाध्यं मास्तु इत्याशङ्कायां
तद्वारकतर्काभावादित्यर्थः। अप्रयोजकम् इत्यस्य
व्यभिचारशङ्कानिवर्तकतर्कंशून्यमित्यर्थः। त्र्यणुकरूपे पक्षे
सावयवत्वं नास्ति चेत् चाक्षुषद्रव्यत्वरूपहेतुरपि न स्यात्।
चाक्षुषप्रत्यक्षं प्रति महत्त्वस्य कारणतया त्र्यणुके महत्त्वं यदि स्यात्
तदैव चाक्षुषत्वं तस्य भवेत्। त्र्यणुके महत्त्वं तु
अवयवगतबहुत्वसङ्ख्याजन्यमिति त्र्यणुकं सावयवमिति
अङ्गीकार्यम्। तथा च सावयवत्वस्य महत्त्वद्वारा
त्र्यणुकचाक्षुषत्वप्रयोजकत्वात् सावयवत्वचाक्षुषत्वयोः
प्रयोज्यप्रयोजकभावरूपानुकूलतर्कसद्भावात्
नेदमनुमानं अप्रयोजकम् इत्याशयः।
ननु
त्र्यणुकगतमहत्त्वस्य नित्यत्वस्वीकारेण अवयवसङ्ख्याजन्यत्वस्य
अनावश्यकत्वात् सावयवत्वं विनापि चाक्षुषत्वोपपत्तेः
अप्रयोजकमेव द्व्यणुकसाधकत्वेनोपन्यस्तमनुमानम्
इत्याशङ्क्याह - सङ्क्षेप इति।
अणुव्यवहारस्याणुपरिमाणनिबन्धनतया
तदाश्रयद्व्यणुकाख्याणुवस्तुनः अवश्याङ्गीकरणीयत्वादिति भावः।
सर्वभावकार्यध्वंसः
महाप्रलय इति। महाप्रलयानन्तरं पुनः सृष्ट्यनभ्युपगमेनेदम्।
तदभ्युपगमे तु पुनः सृष्ट्युपयोगिधर्माधर्मयोरावश्यकत्वात्
सर्वंभावकार्यध्वंसरूपो महाप्रलय एव न स्यात् इत्यवधेयम्।
ऽधाता यथापूर्वमकल्पयत्ऽ इति श्रुतिस्तु
अवान्तरप्रलयानन्तरसृष्टिविषयेति तेषामाशयः। महाप्रलये ऽपि

सत्त्वादिति। तथा च सर्वकार्यान्तर्गतध्वंसस्य ध्वंसाभावात्
सर्वकार्यध्वंसरूपलक्षणासम्भवः स्यात् इति तद्वारणाय
भावपदमिति भावः।
तर्कसङ्ग्रहः
आकाशनिरूपणम्
अन्त्स्_14 शब्दगुणम् आकाशम् । तच् चैकं विभु नित्यं च ॥
शब्दगुणकमाकाशम्। तच्च एकम्, विभु, नित्यम् च।
दीपिका
आकाशं लक्षयति -
शब्दगुणकमिति। ननु आकाशमपि पृथिव्यादिवन्नाना किं? नेत्याह -
तच्चैकमिति। भेदे प्रमाणाभावात् इत्यर्थः। एकत्वादेव सर्वत्र
शब्दोपलब्धेः विभुत्वं अङ्गीकर्तव्यमित्याह- विभ्विति।
सर्वमूर्तद्रव्यसंयोगित्वम् विभुत्वम्। मूर्तत्वम्
परिच्छिन्नपरिमाणवत्त्वं, क्रियावत्त्वम् वा। विभुत्वादेव आत्मवत्
नित्यं इत्याह - नित्यं चेति।
प्रकाशिका
शब्दगुणकमित्यत्र
शब्दवदिति वक्तव्ये तथाकथनं ऽआकाशे शब्द एव विशेषगुणऽ इति
द्योतनाय। घटाकाशो मठाकाश इत्यादिव्यवहारस्योपाधिकृतत्वेन
असाधकत्वात् आकाशस्य अनेकत्वे प्रमाणं नेत्याह - भेद इति।
एकत्वादिति।
आकाशस्येत्यादिः।
नन्वेकत्वे ऽपि अविभुत्वंमस्तु इत्यत आह - सर्वत्रेति।
सर्वदिगवच्छेदेनेत्यर्थः। परिच्छिन्नपरिमाणवत्त्वमिति। यदि
परिच्छिन्नस्य अपकर्षाश्रयत्वात्मकतया परमणोरणुतरत्वेन
द्व्यणुकपरिमाणापेक्षया परमाणुपरिमाणस्य अपकृष्टत्वाभावात्
परमाणुषु अव्याप्तमिदं लक्षणमित्युच्यते तदाप्याहक्रियावत्त्वमिति।
वस्तुतस्तु लाघवमेवोत्तरकल्पानुसरणे बीजम् इति ध्येयम्।
बालप्रिया
ननु घटाकाशः
मठाकाश इत्यादिव्यवहारात् आकाशे ऽपि भेदो ऽस्तीत्यवगम्यते।
तथा च भेदे प्रमाणाभावादिति दीपिकोक्तिः न सङ्गच्छते।
उक्तव्यवहारस्यैव आकाशस्यानेकत्वे प्रमाणत्वात् इत्याशङ्क्य
घटमठादिरूपो य आकाशस्य अवच्छेदकः पदार्थः तद्गतं
भेदमाश्रित्य घटाकाशो मठाकाश इत्यादिव्यवहारः, न तु
आकाशगतं भेदम्। अतः स न भेदे प्रमाणमिति समाधानं अभिप्रयन्
आह - घटाकाश इति। उपाधिकृतत्वेनेति।
घटमठज्ञदिरूपावच्छेदकगतभेदानिमित्तकत्वेनेत्यर्थः।
असाधकत्वादिति। आकाशभेदासाधकत्वादित्यर्थः।
अणुतरत्वेनेति।

उत्कर्षाश्रयाणुपरिमाणवत्त्वेनेत्यर्थः।
ननु परिच्छिन्नत्वं
नापकर्षाश्रयत्वम्। अपि तु परममहत्परिमाणभिन्नत्वम्,
आकाशादिचतुष्टयान्यतमासमवेतत्वं वा। तथा च
परममहत्परिमाणान्यपरिमाणवत्त्वं
आकाशादिचतुष्टयान्यतमासमवेतपरिमाणवत्त्वं वा मूर्तत्वम्, तच्च
परमाणुष्वपि वर्तत इति न तत्राव्याप्तिः। अतो
द्वितीयलक्षणानुसरणे नाव्याप्तिर्हेतुरित्याशङ्क्याह - वस्तुतसतु
इति।
तर्कसङ्ग्रहः
कालनिरूपणम्
अन्त्स्_15 अतीतादिव्यवहारहेतुः कालः । स चैको विभुर् नित्यश् च ॥
अतीतादिव्यवहारहेतुः कालः। स च एकः विभुः नित्यश्च।
दीपिका
कालं लक्षयति -
अतीतेति। सर्वाधारः कालः सर्वङ्कार्यनिमित्तकारणम्।
प्रकाशिका
अतीतादिव्यवहारहेतुः काल इति मूले आदिना
अनागतादिपरिग्रहः। अतीतत्वं च वर्तमानध्वंसप्रतियोगित्वम्।
वर्नमानत्वम् इह
शब्दप्रयोगाधिकरणकालवृत्तिवम्। भविष्यत्वं च
वर्तमानप्रागभावप्रतियोगित्वं। अत्र सर्वत्र कालस्य घटकतया
शब्दप्रयोगरूपातीतादिव्यवहारे हेतुत्वं तस्य इति ध्येयम्। न च
तादृशव्यवहारः सूर्यपरिस्पन्दोपाधिमादाय सम्भवतीति वाच्यम्।
अनुगतस्य व्यवहारस्य अनुगतविषयं विना असम्भवेन
अतिरिक्तकालस्वीकारादिति दिक्। सर्वाधार इति।
कालिकसम्बन्धेनेत्यादिः। अत्र विभिन्नकालिकयोः
आधाराधेयभावविरहात् क्रियादेः सर्वाधारत्वशङ्कैव
नावतरतीति भावः।
बालप्रिया
ननु घटः अतीतः
वर्तमानः भविष्यन् इत्यादिशब्दप्रयोगः कालस्य यः उपाधिः
अवच्छेदकः सूर्यपरिस्पन्दः तद्धेतुकः। तथा च अतीत इत्यस्य
शब्दप्रयोगाधिकरणसूर्यपरिस्पन्दवृत्तिध्वंसप्रतियोगीत्यर्थः।
वर्तमान इत्यस्य शब्दप्रयोगाधिकरणसूर्यपरिस्पन्दवृत्तिरित्यर्थः।
भविष्यन्नित्यस्य
शब्दप्रयोगाधिकरणसूर्यपरिस्पन्दवृत्तिप्रागभावप्रतियोगीत्यर्थः।
तथा च न कालः सिध्यति इत्याशङ्कते - न च तादृशव्यवहार
इति। समाधत्ते - अनुगतस्येति। एकरूपः अतीतः इत्यादिः व्यवहारः
एकरूपं विषयं विना न सम्भवति इति एकः कालः स्वीकरणीयः।

मूल पाठ: Tarkasaṃgraha with autoentary (Dīpikā), Nīlakaṇṭha's Dīpikāprakāśikā and Bālapriyā · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc