तर्कसंग्रह (टीका सहित) · भाग 4160
विपर्यस्य अन्यथाख्यातिरिति संज्ञा तु पश्चात्कालिकीं।
तात्पर्यदीकायाम्1---
ऽसंप्रति संदिहानो
विपर्ययस्वरूपं पृच्छति
कः पुनरयं विपर्यय
इति। परीक्षकाणां विप्रतिपत्तेः
संशयः। केचित्
स्वाकारबाह्यत्वविषयं ज्ञानं
विपर्यय
इत्याचक्षते। अन्ये ऽसद्विषयं ज्ञानं .......
अन्यथाख्यातिं तु
वृद्धाः।ऽ
इति कथनात्
अन्यथाख्यातिपक्षः नैयायिकानामिति ज्ञायते।
अयमत्र निष्कर्षः ---
आदौ शुक्त्या इन्द्रियसंनिकर्षानन्तरम् अयं शुक्लभास्वर
इत्याकारकं ज्ञानं, ततः उद्बुद्धसंस्कारात् रजतस्मरणम्,
पुरोवर्ति-रजतयोर्भेदाग्रह इन्येतावत्पर्यन्तम्
अख्यात्यन्यथाख्यातिवादिनोः
समानम्। ततः ऽइदं
रजतम्ऽ इत्याकारकं रजतत्वाभाववद्विशेष्यकरजतत्वप्रकारकं
विशिष्टज्ञानमुत्पद्यते, तत एव प्रवृत्तिरिति नैयायिकाः
तादृशविशिष्टज्ञानकारणत्वेनाभिमताभ्यां भेदाग्रहसहिताभ्यां
पुरोवर्तिवस्तुप्रत्यक्षरजतस्मरणाभ्यामेव प्रवृत्त्यादिनिर्वाहे
मध्ये विशिष्टज्ञानमनावश्यकमिति प्राभाकराः इति।
विशिष्टज्ञानस्यावश्यकता
सत्यस्थले प्रवृतिं
प्रति विशिष्टज्ञानस्य हेतुत्वात् असत्यस्थले ऽपि विशिष्टज्ञानमेव
प्रवर्तकं वाच्यम्। तथा च
ऽविसंवादिप्रवृत्तिः
विशिष्टज्ञानजन्या प्रवृत्तित्वात् सत्यप्रवृत्तिवत्ऽ
इत्यनुमानमन्यथाख्यातौ प्रमाणम्। तथा
ऽरजतेच्छाजन्यशुक्तिविषयकप्रवृत्तिजनकरजतत्वप्रकारकं ज्ञानं
शुक्तिविशेष्यकं शुक्तिप्रवृत्तिप्रयोजकज्ञानत्वात् शुक्तौ
शुक्त्यर्थप्रवृत्तिप्रयोजकज्ञानवत्ऽ इत्यादीन्यनुमानान्यपि
अन्यथाख्यातिसाधकतया मणावुपन्यस्तानि।
एवमनुव्यवसायात्मकप्रत्यक्षमप्यन्यथाख्यातौ मानम्। तथा हि - शुक्तौ
इदं रजतमिति भ्रमानन्तरम् इदं रजततया जानामि
इत्यनुव्यवसायो जायते।
इदंविशेष्यकरजतत्वप्रकारकज्ञानवाहनम् इति हि तदर्थः। तत्र
व्यवसायस्य इदंविशेष्यकरजतत्वप्रकारकत्वाभावे उक्तानुव्यवसायः
कथं घटेत? ज्ञानद्वयपक्षे ऽइदं जानामिऽ ऽरजतं जानामिऽ
इत्याकारको ह्यनुव्यवसायः स्यात्, न तु इदं रजतं जानामि
इति।
अन्यथाख्यातिशब्दार्थविचारः
अन्यत्रैव सता
आकारेण पुरोवर्तिनो विशिष्टताज्ञानमन्यथाख्यातिः। अन्यत्रैव सत्त्वं
तु प्रवृत्तिवाधसहकृतात् नास्तीति बाधकप्रत्ययान्निश्चीयते। अतो
भ्रान्तिज्ञानबाधितस्य सत्यरजतस्यात्रासत्त्वमापादयितुं न शक्यते,
प्रंवृत्तिबाधविरहात्। न वा मन्त्रादिप्रतिबद्धस्याग्नेः
स्फोटजननादिप्रवत्तिबाधात् मिथ्यात्वनिश्चयप्रसङ्गः। तत्र नास्तीति
बाधकप्रत्ययस्याभावात्।
ख्यात्यन्तरवादिभिरप्यन्ततो गत्वा
अन्यथाख्यातिरवश्याश्रयणीया। तथा हि---असत्ख्यातिमते किमसत्
असदिति प्रतीयते सदिति वा? असदिति चेत् भ्रमत्वासंभवः। असतः
असत्त्वेन भानस्य प्रमात्वात् बाधप्रवृत्ती च न घटेताम्। सदिति
प्रतीयते चेत्, असतः सत्त्वेन भानात् अन्यथाख्यातिरेव स्यात्।
आत्मख्यातिपक्षे आत्मशब्दितं ज्ञानं किं ज्ञानमिति प्रतीयते? उतार्थं
इति? आद्येन भ्रमत्वबाधप्रवृत्तीनामसंभवः। द्वितीये ज्ञानस्यार्थात्मना
भानादन्यथाख्यातिरेव स्वीकृता स्यात्।
प्राभाकरमते ऽपि
ग्रहणस्मरणात्मकज्ञानद्वयाङ्गीकारात् तत् ज्ञानद्वयं किं
ज्ञानद्वयमिति प्रतीयते किं वा एकत्वेन? आद्ये बाधप्रवृत्त्योरसंभवः।
द्वितीये द्वयस्यैकत्वेन भानात् अन्यथाख्यातिः।
ज्ञानमस्ति विषयो
नास्तीति पक्षे विषयः किमविद्यमानत्वेन प्रतीयते उत विद्यमानत्वेन?
आद्ये प्रवृत्त्याद्यसंभवः। न जातु कश्चित् अविद्यमानत्वेन प्रतीते वस्तुनि
प्रवर्तते। द्वितीये अविद्यमानस्य विद्यमानत्वेन भानादन्यथाख्यातिः
इति।
( 14 ) अभावविचारः
तर्कसंग्रहे
दीपिकायां च अभावस्य चतुर्धा विभागः अतिरिक्तपदार्थत्वं च
प्रादर्शिषाताम्। इदं किञ्चिद्विचार्यते।
ऽप्रागुत्पत्तेरभावोपपत्तेश्चेऽ (न्या.सू.2-2-12) इति सूत्रे
भाष्यम् ---
ऽअभावद्वैतं खलु
भवति प्राक् चोत्पत्तेरविद्यमानता
उत्पन्नस्य चात्मनो
हानादविद्यमानताऽ
इति।
वार्तिकेप्येवमेव प्रतिपाद्यते। तेन प्रागभावः प्रध्वंसश्चेति द्विविध
एवाभावो भाष्यवार्त्तिककारयोः संमत इति प्रतीयते। तत्रैव
तात्पर्यटीकाकारः ---
ऽअभावद्वैतमिति
प्रकृतापेक्षम्। प्रकृतं प्रध्वंसमात्र-
वादिनं प्रति
प्रागभावप्रतिपादनम्। परमार्थतस्तु
प्रथममभावे
द्वैतम्--तादात्म्याभावः संसर्गा-
भावश्चेति।
संसर्गाभावो ऽपि प्राक्प्रध्वंसात्यन्ताभावेन
त्रिविध इति चतस्रो
विधा अभावस्यऽ
इत्यभावचतुष्टयमपि न्यायदर्शनसंमतमिति प्रत्यपादयत्।
भाववदभावो ऽपि प्रमाणवेद्यः। यत् प्रमाणं भावं ज्ञापयति तदेव
प्रमाणं प्रतियोग्यनुपलब्धिसहकृतमभावं ज्ञापयति इत्याशयवात
भाष्यकारेण ---
ऽकथं पुनरुत्तरस्य
प्रमाणेनोपलब्धिः।
सत्युपलभ्यमाने
तद्वदनुपलब्धेः प्रदीपवत्।
तदेवं सतः प्रकाशकं
प्रमाणमसदपि प्रकाशयति।ऽ
इति
प्रथमसूत्रे ऽभाषि। तत्राभावस्यापि प्रमाणसिद्धत्वे तस्य भाववत्
उपदेशः कुतो न कृतः इत्याशङ्कायामाह वार्तिककारः ---
ऽसत् खलु
प्रमाणस्यालम्बनं स्वतन्त्रं भवति।
असत्तु परतन्त्रं
प्रतिषेधमुखेन प्रतिपद्यते।ऽ
इति निषेध्यं
निषेधाधिकरणम् इत्युभयज्ञानाधीनत्वात् अभावस्य, भावे ज्ञाते
अभावो ऽपि ज्ञातप्राय इत्याशयेन सूत्रकृता अभावो न निर्दिष्ट
इति तदाशयः।
वैशेषिकसूत्रेष्वपि
अभावचतुष्टयाभ्युपगमः सूचितो वर्तते।
ऽक्रियागुणव्यपदेशाभावात् प्रागसत्ऽ (वै.सू.9-1-1)
इति सूत्रं
घटादिरूपकार्यस्य उत्पत्तेः प्रागविद्यमानतां प्रतिपादयत्
प्रागभावमनुमन्यते। उत्पत्तेः प्रागविद्यमानता हि प्रागभावो नाम।
तथा ऽसदसत्ऽ (वै.सू.9-1-2) इति सूत्रं सतो घटादेः
मुद्गरपाताद्यनन्तरमभावं प्रतिपादयत् ध्वंसाख्यमभावं सूचयति।
ततः ऽसच्चासत्ऽ (वै.सू.9-1-3) इति सूत्रं सता घटादेः पटाद्यात्मना
अभावं बोधयत्ध्त्त्
तादात्म्याभावरूपमन्योन्याभावं व्यञ्जयति। ततः
ऽयच्चान्यदसदतस्तदसत्ऽ (वै.सू.9-1-5) इति सूत्रम्। तत्र
असच्छब्दद्वयं भाववप्रधानो निर्देंशः। यत् अतः असतः अन्यत् असत्
तत् असत् इत्यन्वयः। पूर्वोक्ताभावत्रयात् अन्यो यो ऽभावः
सो ऽत्यन्ताभावे इति। एवं स्थिते अभावस्य पृथगनुपदेशः
भावपारतन्त्र्यात् न त्वभावादिति सिध्यति।
न्यायमञ्जरीकारास्तु
ऽन प्रागभावादन्ये तु
भिद्यन्ते परमार्थतः।
स हि
वस्त्वन्तरोपाधिरन्योन्याभाव उच्यते॥
स
एवावधिशून्यत्वादत्यन्ताभावतां गतः।
उत्पन्नस्य विनाशो वा
तदनुत्पाद एव वा।
अभावस्तत्त्वतो ऽन्ये तु
भेदास्त्वौपाधिका मताः॥ऽ1
इति ग्रन्थेन
प्रागभावप्रध्वंसभेदेनाभावो द्विविधः। अन्योन्यात्यन्ताभावौ
प्रागभाव एवान्तर्भवतः। प्रागभाव एव वस्त्वन्तरप्रतियोगिकश्चेत्
अन्योन्याभाव इत्युच्यते। स एवावधिशून्यश्चेत् अत्यन्ताभाव इति
कथ्यते इति न्यरूपयन्।
प्राभाकाराः
अतिरिक्तमभावं नाङ्गीकुर्वन्ति। अभावः बुद्धिविशेषस्वरूपः,
अधिकरणस्वरूपः कालविशेषस्वरूपः इति पक्षत्रयं प्रदर्शयन्ति।
एतत्पक्षत्रयमपि मणौ विस्तरेण दूषितम्, तदनुसारेण मुक्तावल्यां
च। दीपिकायां त्वधिकरणात्मकत्वपक्षः अनूद्य दूषित इति विशेषः।
अत्र विचार्यते।
अभावाधिकरणको ऽभावः अधिकरणीभूताभावस्वरूप इति नैयायिका
अपि स्वीकुर्वन्ति। तत्र
ऽघटाभावे न पटःऽ
इत्याधाराधेयभावः प्रतीयते। स चाधाराधेययोरभेदे ऽपि
आधारतावच्छेदकयोर्घटाभावत्वपटाभावत्वयोर्भेदान्निरुह्यते। तथा
ऽभूतले घटाभावऽ इति प्रतीतिरपि भूतलत्वघटाभावत्वयोर्भेदात्
निरूढा भविष्यति। अतः अधिकरणात्मकत्वमेवाभावस्यास्तु।
शब्दाभावस्य
गृहस्वरूपस्य गृहत्वेन रूपेण श्रोत्रेन्द्रियवेद्यत्वाभावे ऽपि
शब्दाभावत्वेन रूपेण तद्वेद्यत्वं
भविष्यति। यथा
नैयायिकमते ऽपि रूपाभावाधिकरणकरसाभावस्य
रूपाभावात्मकत्वे ऽपि रूपाभावत्वेनैव चाक्षुषविषयता न
रसाभावत्वेनेत्यङ्गीक्रियते, तद्वत्। तथा च शब्दाद्यभावानां
प्रत्यक्षत्वानुपपत्तिरपि नास्ति।
तथा ज्ञानविशेषत्वेन
कालविशेषत्वेन चाप्रत्यक्षत्वे ऽपि तत्तदभावत्वेन
ज्ञानविशेषकालविशेषयोः प्रत्यक्षता संभवत्येव।
अतो ऽभावस्यानतिरिक्तत्वे ऽपि न को ऽपि दोष इति।
अत्र समाधीयते।
प्रायशो लोके भिन्नयोरेवाधाराधेयभावः प्रसिद्धः। स
चाभावातिरिक्तत्ववादिनैयायिकमते सूपपादः।
अभावाधिकरणकाभावस्थले
गत्यन्तरविरहादाधाराधेयभावप्रतीतेर्गौणतया निर्वाहे ऽपि
गत्यन्तरसत्त्वे तथा निर्वाहस्यानुचितत्वात्।
अतो ऽधिकरणात्मकत्वपक्षो न युक्तः।
ज्ञानविशेषरूपत्वपक्षे
कालविशेषरूपत्वपक्षे च शब्दाद्यभावानां प्रत्यक्षत्वानुपपत्तिदोषो
दुरुद्धरः। तत्र यदुक्तं ज्ञानत्वेन कालत्वेन च रूपेण
तयोर्बहिरिन्द्रियग्राह्यत्वाभावे ऽपि शब्दाद्यभावत्वेन तत्त्वमक्षतमिति,
तत्रोच्यते। रूपान्तरेणापि तयोः तादृशप्रत्यक्षविषयत्वं न संभवति।
तथा हि गेहे शब्दो नास्तीति प्रतीतौ शब्दाभावत्वेन रूपेण किं
स्वात्मकज्ञानं विषयः? पुरुषान्तरीयज्ञानं वा? नाद्यः, प्रत्यक्षे विषयस्य
कारणकत्वात् पूर्वक्षणे स्वात्मकज्ञानस्याभावात् पूर्वक्षणे ऽसतः
कारणत्वासंभवात्। न द्वितीयः, एकस्मिन् अभावज्ञाने भूयसीनां
पुरुषान्तरीयज्ञानव्यक्तीनां विषयत्वकल्पने गौरवात्। एवं
कालविशेषस्यापि न तादृशप्रत्यक्षविषयत्वं संभवति,
तादृशज्ञानोत्पत्तिक्षणात्मककालस्य पूर्वपृत्तित्वाभावात्।
पूर्वक्षणात्मककालस्य च तत्काले ऽभावात्। न च
ज्ञानोत्पत्तिक्षणतत्पूर्वक्षणोभयावस्थायिस्थूलकालस्य ऽगेहे शब्दो
नास्तिऽ इत्यादिप्रत्यक्षविषयत्वमस्तु, तथा च नोक्तदोष इति
वाच्यम्। तथापि तादृशक्षणद्वयावस्थायिनानापदार्थरूपस्थूलकालस्य
एकैकतादृशज्ञानविषयत्वकल्पने गौरवादिति निरूपयामासुः
मुक्तावलीमञ्जूषाकाराः।
[ 14 ] आख्यातार्थविचारः शब्दबोधप्रक्रिया च
दीपिकायां
प्रकाशिकायां च विध्यर्थनिरूपणप्रसङ्गेन आख्यातस्य कृत्यर्थकत्वं
प्रसाध्य देवदत्तः तण्डुलं पचतीति वाक्यस्य
तण्डुलकर्मकपाकानुकूलकृतिमान् देवदत्त इत्यर्थ इति
निरूपितम्। एतत्तत्वं किञ्चिद्विचार्यते।
शाब्दबोधो नाम
शब्दजन्यं ज्ञानम्। शब्दो नाम
परस्परान्वितार्थंप्रतिपादकपदसमूहात्मकं वाक्यम्। पदसमूहो
वाक्यं इत्येतावन्मात्रोक्तौ ऽगौरश्वः पुरुषो हस्तीऽ इत्यादेः
अनन्वितार्थकपदसमूहस्यापि वाक्यत्वं स्यात्। अतः
परस्परान्वितार्थकेत्युक्तम्। गौर्गच्छति, अश्वोधावति इत्यनयोः
प्रत्येकं वाक्यत्वे ऽपि तयोर्द्वयोर्मिलित्वा एकवाक्यत्वं न भवति,
द्वयोर्वाक्यार्थयोः परस्परमनन्वयात्। तस्मात् साक्षाद्वा परंपरया
वा स्वार्थविशेषणीभूतार्थप्रतिपादकयावत्पदविशिष्टं
विशेष्यभूतार्थप्रतिपादकं पदमेकवाक्यमिति पर्यंवस्यति। इदमेव
ऽअथैकत्वा देकं वाक्यं साकाङ्क्ष चेद्विभागे स्यात्ऽ इति
पूर्वमीमांसासूत्रे [3-1-46] उक्तम्। एकस्मिन्नर्थे अन्येषां
विशेषणतयान्वयः इति सूचनायैव ऽसाकाङ्क्षं चेद्विभागे स्यात्ऽ
इत्युक्तम्।
तत्र पदेषु बहुषु
प्रयुज्यमानेषु कस्य पदार्थस्य किं विशेषणम्? किं
किमवान्तरविशेष्यम्? किं मुख्यविशेष्यमिति विचारणीयं भवति।
तत्र वैयाकरणाः मीमांसकाः नैयायिकाश्च भिन्नभिन्नं
पन्थानमाश्रयन्ते।
वैयाकरणमतम्
तथा हि
वैयाकरणास्तावदेवं मन्यन्ते --- कारकाणां क्रियायामन्वयः
इत्यनुभवात् क्रियापदे प्रायः सुबन्तानामन्वय इति प्रतीयते।
नीलोत्पलमानयतीत्यत्र समासार्थस्य नीलत्वविशिष्टोत्पलस्य
द्वितीयार्थे कर्मणि तस्य धात्वर्थे आनयने ऽन्वय इति
नीलत्वविशिष्टोत्पलकर्मकमानयनमिति बोधो भवति।
नीलमुत्पलमानयेति व्यासस्थले ऽपि नीलकर्मकमानयनम्
उत्पलकर्मकानयनमिति पृथक् पृथक् बोधस्याननुभवात् द्विः
कर्मत्वभानं विहाय समानाधिकरणयोर्नीलोत्पलपदयोः
नीलत्वविशिष्टोत्पलरूपैकार्थपरत्वमङ्गीकृत्य तस्य धात्वर्थे
आनयने द्वितीयार्थकर्मत्वद्वारा अन्वयस्वीकारात्
नीलत्वविशिष्टोत्पलकर्मकमानयनमित्येव बोधः। एवं च
सविशेषणानां विशेषणरहितानां वा कर्त्रतिरिक्तानां सर्वेषां
कारकाणां धात्वर्थक्रियान्वयस्य नैयायिकादिभिरपि स्वीकृतत्वात्
प्रथमान्तार्थस्य कर्तृकारकस्यापि तथैवान्वय उचितः, समानन्यायात्।
तथा च देवदत्तः नीलोत्पलमानयतीत्यत्र दितीयार्थः कर्म, तत्र
प्रकृत्यर्थस्य नीलत्वविशिष्टोत्पलस्याभेदसंबन्धेनान्वयः। कर्मंणः
धात्वर्थे ऽन्वयः। तिङः कर्ता अर्थः। तत्राभेदसंबन्धेन
प्रथमान्तपदार्थस्य देवदत्तस्यान्वयः। कर्तुंरपि धात्वर्थे
आनयनऽन्वयः। तथा च
नीलत्वविशिष्टोत्पलाभिन्नकर्मकं देवदत्ताभिन्नकर्तृकं
चानयनमिति धात्वर्थमुख्यविशेष्यको बोधः। अत्र प्रमाणं तु
ऽभावप्रधानमाख्यातम्ऽ इति निरुक्तवचनं ऽक्रियाप्रधानमाख्यातम्ऽ
इति महाभाष्यवचनं चेत्याहुः।
मीमांसकमतम्
मीमांसकास्तु --
तिङर्थभावनामुख्यविशेष्यकं बोधं वर्णयन्ति। तथा हि
तण्डुलमित्यादीनि द्वितीयान्तानि पदानि क्रियापदं विना
निराकाङ्क्षं बोधं न जनयन्तीत्यनुभवसिद्धम्। तेन तिङन्तपदं
विशेष्यसमर्पकमिति लभ्यते। तत्रापि ऽप्रकृतिप्रत्ययौ प्रत्ययार्थं सह
ब्रूतस्तयोस्तु प्रत्ययः प्राधान्येनऽ इति व्युत्पत्तिबलात्
प्रत्ययार्थस्यैव प्राधान्यं वक्तव्यमिति तिङर्थः भावनापरपर्याया
कृतिरेव शाब्दबोधे मुख्यविशेष्यभूता। ऽएवं च चैत्रस्तण्डुलं
पचतिऽ इति वाक्ये
द्वितीयायाः
कर्मत्वमर्थः। तत्र तण्डुलस्य आधेयतासम्बन्धेनान्वयः। कर्मत्वस्य
निरूपकतासंबन्धेन (स्वनिरूपकधात्वर्थानुकूलत्वपर्यवसितेन)
तिङर्थककृतावन्वयः। धात्वर्थस्य पाकस्य
स्वकरणकौदनोद्देश्यकत्वसम्बन्धेन कृतावन्वयः।
चैत्रपदोत्तरप्रथमायाः प्रातिपदिकार्थः चैत्रो ऽथः। चैत्रपदं
तात्पर्यग्राहकम्। प्रथमार्थस्य चैत्रस्य आधेयतासंबन्धेन
भावनायामन्वयः। आख्यातार्थकालसंख्ययो ऽपि भावनायामेवान्वयः।
संख्यायाः सामानाधिकरण्यसम्बन्धेनान्वयः, कालस्य
आधेयतासंबन्धेनान्वय इति विशेष। एवं च चैत्रनिष्ठा
तण्डुलकर्मकपाककरणकौदनोद्देश्यिका वर्तमाना एका भावनेति
बोधः। ऽभावप्रधानमाख्यातम्ऽ इति निरुक्ते आख्यातशब्दः तिङ्परः।
भावयतीति व्युत्पत्त्या णिजन्तात् भूधातोरच्प्रत्ययान्तत्वेन निष्पन्नः
भावशब्दः भावनावाची। तिङ्श्च संख्या कालः भावना इति
त्रयोर्ऽथाः। तेषु भावना प्रधानभूता इति
भावनामुख्यविशेष्यकबोधमेव निरुक्तकारो मन्यत इति
निरूपयन्ति।
नैयायिकमतम्
ऽपण्डितश्चैत्रःऽ
इति वाक्यम् पण्डिताभिन्नश्चैत्र इति बोधो ऽनुभूयते। तत्र
तिङन्तपदाभावात् धात्वर्थस्य वा तिङर्थभावनाया वा
मुख्यविशेष्यतया भानं न संभवति। तथा च क्वचित्
प्रथमान्तार्थमुख्यविशेष्यकबोधस्य स्वीकरणीयतया
निङ्न्तसमभिव्याहारस्थलेपि तथैव बोधवर्णनं युक्तम्। न च
तत्रापि योग्यक्रियाध्याहारेणैव शाब्दबोध इति वाच्यम्।
अनध्याहारेणैव निर्वाहे अध्याहारस्यायुक्तत्वात्। अपि च
वैयाकरणभूषणे -- ऽप्रायशो वाक्यस्य सुप्तिङन्तसमुदायत्वात्ऽ
इति वदन्तः कौण्डभट्टाः तिङन्तशून्यमपि वाक्यमभ्युपगच्छन्ति।
तथा आख्यातार्थव्यापाराश्रयत्वरूपस्य कर्तृत्वस्य निराकरणावसरे
ऽआख्यातशून्ये देवदत्तः पक्तेत्यादौ देवदत्तस्याकर्तृत्वापत्तेःऽ इति
भूषणसारे ऽपि तिङन्तरहितवाक्यप्रामाण्याङ्गीकारः प्रतीयते। एवं
च तिङन्तासमभिव्याहारस्थले प्रथमान्तार्थविशेष्यकबोधस्य
स्वीकार्यत्वात् चैत्रः पचतीत्यादावपि तथैव बोधवर्णनं युक्तम्।
तथा च ऽचैत्रः तण्डुलं पचतिऽ इति वाक्ये
तण्डुलपदोत्तरद्वितीयायाः कर्मत्वमर्थः। कर्मत्वे प्रकृत्यर्थस्य
तण्डुलस्याधेयतासंबन्धेनान्वयः। कर्मत्वस्य निरूपकतासम्बन्धेन
धात्वर्थे पाके ऽन्वयः। आख्यातार्थः कृतिः। तत्रानुकूलतासंबन्धेन
धात्वर्थपाकस्यान्वयः। कृतेश्च आश्रयतासंबन्धेन
प्रथमान्तार्थेचैत्रे ऽन्वयः। आख्यातार्थस्य वर्तमानकालस्य
कृतावेवान्वयः। आख्यातैकवचनस्य तु नैकत्वसंख्या अर्थः।
सुबेकवचनेनैव एकत्वलाभात्। तथा च
तण्डुलनिष्ठकर्मतानिरूपकपाकानुकूलवर्तमानकृतिमान्
एकत्वाश्रयश्चैत्र इत्यन्वयबोधः।
किं च
ऽसर्वनाम्नामुत्सर्गतः प्रधानपरामर्शित्वम्ऽ इति न्यायात्
पूर्ववाक्यार्थे यः प्रधानः तस्यैव तच्छब्देन परामर्शो वक्तव्यः।
धात्वर्थमुख्यविशेष्यकस्य आख्यातार्थकृतिमुख्यविशेष्यकस्य वा
बोधस्याङ्गीकारे ऽपुरुषः प्रयाति, तस्य पादयोरभिवादयऽ
इत्यत्रानुपपत्तिः। पुरुषः प्रयाति इति वाक्ये प्रधानस्य गमनस्य
कृतेर्वा तच्छब्देन परामर्शे
पादयोरभिवादयेत्यनेनान्वयस्यासंगतेः। नैयायिकमते तु
पुरुषस्यैव प्रधानतया तस्य तच्छब्देन परामर्शें
पादयोरभिवादयेत्यनेनान्वयः साधुः संगतः।
किं च प्रत्यक्षानुभवे
यस्य येन संबन्धः प्रतीतस्यस्य तेन संबन्धं तथैव ज्ञापयितुं वाक्यं
प्रयुज्यते। प्रत्यक्षेण च कारकाणां क्रियान्वय एवावगम्यते, न तु
कृत्यपरपर्यायभावनान्वयः। अतो मीमांसकमतं नोचितम्। नापि
वैयाकरणमतम्। प्रत्यक्षे धर्मस्य प्रकारतायाः धर्मिणो
क्शिष्यतायाश्चानुभवसिद्धतया धर्मभूतधात्वर्थापेक्षया धर्मिणः
प्रथमान्तार्थंस्यैव विशेष्यत्वौचित्यात्। तत्रापि
प्रकृतिप्रत्ययार्थयोर्मध्ये प्रत्ययार्थस्य प्रधानत्वात् तिङ्वाच्यायाः
कृतेः धात्वर्थं प्रति विशेष्यत्वात् तादृशकृत्याश्रयस्य
देवदत्तादेर्विशेष्यत्वमुचितम्। सकलकर्मादिकारकप्रेरकस्य
क्रियाकर्तुः
सर्वापेक्षया प्राधान्यं
हि आनुभविकम्।
अपि च पाणिनिः
ऽप्रातिपदिकार्थऽ इत्यादिना सूत्रेण प्रथमायाः प्रातिपदिकार्थ
एवार्थ इति वदन् कारकार्थकत्वं
नानुमन्यते। तेन च
प्रथमान्तार्थस्य क्रियायामन्वयः तस्या नानुमत इति स्पष्टम्।
कारकार्थकत्वे हि
क्रियान्वयमूलकः
क्रियाप्रधानकत्वनिर्बन्धः। तस्मात् प्रथमान्तार्थविशेष्यकबोध
एवासति बाधके उचितः। सति तु बाधके भावाख्यातस्थले चैत्रेण
सुप्यते इत्यादौ, पश्य मृगो धावतीत्यादौ च
धात्वर्थादिमुख्यविशेष्यको ऽपि बोधः स्वीक्रियते इति
नैयायिकसिद्धान्तसारः।
विषयानुक्रमणिका
विषयः पुटसंख्या
प्रत्यक्षपरिच्छेदः
श्रीः
श्रीगुरुचरणारविन्दाभ्यां नमः
तर्कसङ्ग्रहः
दीपिका-प्रकाशिका-बालप्रियासमन्वितः
तर्कसङ्ग्रहः
मङ्गलवादः
अन्त्स्_1अब् निधाय हृदि विश्वेशं विधाय गुरुवन्दनम् ।
अन्त्स्_1च्द् बालानां सुखबोधाय क्रियते तर्कसंग्रहः ॥
दीपिका
विश्वेश्वरं
साम्बमूर्तिं प्रणिपत्य गिरां गुरुम्।
टीकां शिशुहितां कुर्वे तर्कसङ्ग्रहदीपिकाम्॥
चिकीर्षितस्य ग्रन्थस्य
निर्विघ्नपरिसमाप्त्यर्थं शिष्टाचारानुमितश्रुतिबोधितकर्तव्यताकम्
इष्टदेवतानमस्कारात्मकं मङ्गलं शिष्यशिक्षायै ग्रन्थतो
निबध्नन् चिकीर्षितं प्रतिजानीते - निधाये ति।
ननु मङ्गलस्य समाप्तिसाधनत्वं नास्ति।
मङ्गले कृते ऽपि किरणावल्यादौ समाप्त्यदर्शनात्,
मङ्गलाभावे ऽपि कादम्बर्यादौ समाप्तिदर्शनाच्च
अन्वयव्यतिरेकाभ्यां व्यभिचारात् इति चेत् - न।
किरणावल्यादौ
विघ्नबाहुल्यात्
समाप्त्यभावः। कादम्बर्यादौ ग्रन्थाद्बहिरेव मङ्गलं कृतम्, अतो
न व्यभिचारः।
ननु मङ्गलस्य
कर्तव्यत्वे किं प्रमाणमिति चेत् - न। शिष्टाचारानुमितश्रुतेरेव
प्रमाणत्वात्। तथा हि - मङ्गलं वेदबोधितकर्तव्यताकम्,
अलौकिकाविगीतशिष्टाचारविषयत्वात्, दर्शादिवत्। भोजनादौ
व्यभिचारवारणाय अलौकिकेति। रात्रिश्राद्धादौ व्यभिचारवारणाय
अविगीतेति। शिष्टपदं स्पष्टार्थम्।"न कुर्यात् निष्फलं कर्म"इति
जलताडवनादेरपि निषिद्धत्वात्। तर्क्यन्ते - प्रतिपाद्यन्ते इति
तर्काः - द्रव्यादिपदार्थाः, तेषां सङ्ग्रहः - सङ्क्षपेण स्वरूपकथनं
क्रियते इत्यर्थः। कस्मै प्रयोजनाय इति, अत आह -- सुखबोधाये ति। सुखेन - अनायासेन यो बोधः
पदार्थतत्त्वज्ञानं तस्मा इत्यर्थः। ननु बहुषु तर्कग्रन्थेषु सत्सु
किमर्थमपूर्वो ऽयं ग्रन्थः क्रियत इति, अत आह बालानाम् इति। तेषामतिविस्तृतत्वात् बालानां बोधो न जायत
इत्यर्थः। ग्रहणधारणपटुर्बालः न तु स्तनन्धयः। किं कृत्वा क्रियत
इति, अत आह -- निधाये ति। वेश्वेशम् -
जगन्नियन्तारम्। हृदि निधाय
- नितरां स्थापयित्वा। सदा
तद्ध्यानपरो भूत्वा इत्यर्थः। गुरूणाम् - विद्या - गूरूणाम्,
वन्दनम् - नमस्कारम्, विधाय
- कृत्वा इत्यर्थः॥
प्रकाशिका
वन्दे गुरुं शिवं साम्बं
दक्षिणामूर्तिमव्ययम्।
यद्वन्दनेन मन्दो ऽपि
विन्देद्गुरुसमानताम्॥
प्रारिप्तिसतग्रन्थस्य
निर्विघ्न्परिसमाप्तये समाचरितं मङ्गलम् ईश्वरनत्यात्मकं
शिष्यशिक्षायै निबध्नन् चिकीर्षितं प्रतिजानीते -- विश्वेश्वरम् इति। गिरां गुरुम् -
निखिलविद्यानामुपदेष्टारम्। इदमपि विश्वेश्वरे विशेषणम्।
ऽगिरं गुरुम्ऽ इति पाठे तु सरस्वतीं विद्यागुरुं च प्रणिपत्य
इत्यर्थो बोध्यः। स्वग्रन्थस्य इतरग्रनथैरगतार्थतां दर्शयति -
शिशुहिताम् इति। तर्कसङ्ग्रहदीपिकाम् -
तर्कसङ्ग्रहार्थप्रकाशिकाम्।
आचरितस्य मङ्गलस्य
तन्निबन्धनस्य च फलं दर्शयति --- चिकीर्षितस्य इत्यादिना।
ननु समाप्तिं प्रति
मङ्गलस्य कारणता स्यात् चेत् तदा तदाचारणं युज्यते। सैव न
सम्भवतीत्यशङ्कते--नन्विति। व्यभिचाराद् इति।
अन्वयव्यतिरेकव्यभिचारज्ञानरूपप्रतिबन्धकसत्त्वात्
नियतान्वयव्यतिरेकसहचारनिश्चयरूपकारणासम्भवेन न
कारणत्वनिश्चय इत्यभिसन्धिः। समाप्त्यभाव इति।
अतो न व्यभिचार इत्यनेनान्वयः। विघ्नान्यूनसङ्ख्याकस्य
बलवत्तरस्य वा मङ्गलस्य विघ्ननिरसनद्वारा
समाप्तिसाधनत्वेन
तादृशमङ्गलाभावात् नान्वयव्यभिचार इति भावः। बहिरेवे ति। जन्मान्तर एवेत्यर्थः। अतः कुत्रचित्
ग्रन्थकर्तुर्नास्तिकत्वे ऽपि न क्षतिः। अत इति।
तादृशमङ्गलस्य विघ्नध्वंसद्वारा सत्वात् न व्यतिरेकव्यभिचार
इत्यर्थः। एवं च कारणत्वं सिद्ध्यतीति भावः। परे तु ऽअतः- उक्तहेतुद्वयात् न
व्यभिचारः- नान्वयव्यतिरेकव्यभिचारः
ऽ इति व्याचख्युः। मणिकृतस्तु ऽमङ्गलस्य विघ्नध्वंस एव फलम्।
समाप्तिस्तु स्वसामग्रीवशादेवऽ इत्याहुः। एतत्तत्त्वमस्मदीय चिन्तामणिव्याख्यायाम् अनुसन्धेयम्।
मङ्गलस्य श्रुतिबोधितकर्तव्यताकत्वं
व्यवस्थापयितुं शङ्कते --- नन्वितति। अनुमितश्रुतेरेवे ति।
अत्रायमाशयः- श्रुतेः
वेदबोधितकर्तव्यताकत्वरूपवक्ष्यमाणविधेयकोटिप्रविष्टत्वे ऽपि
तदन्तर्भावेण विधेयत्वमभ्युपगम्यते। तच्छ्रुतेः अनुमितेः
पूर्वमसिद्धत्वात् एतेन ऽवह्न्यादिसाध्यकानुमितिविषयतामादाय
वह्नित्वादिकमनुमितम्ऽ इति व्यवहाराभावेन
श्रुतावनुमितत्वव्यवहारः कथमिति शङ्का निरस्ता। श्रुतौ
विधेयत्वाभ्युपगमेन तादृशव्यवहारे बाधकाभावात्।
एवकारो ऽप्यर्थकः। तेन ऽमङ्गलं कर्तव्यम् समाप्तिफलकत्वात्ऽ
इत्यनुमानरूपप्रमाणान्तरसत्त्वे ऽपि न क्षतिः। अन्ये तु
--ऽस्वबोधितकर्तव्यताकत्वसम्बन्धेन श्रुतेरेव साध्यता।
अग्रिमग्रन्थस्यात्रैव तात्पर्यम्। एवं च श्रुतेरनुमितत्वोपपत्तिःऽ
इत्याहुः।
अलौकिके विधिमन्तरा रागादिप्राप्तभिन्नेत्यर्थः।
अविगीते ति धर्मशास्ताविरुद्धेत्यर्थः। शिष्टे ति वेदोक्ततत्त्वज्ञानेन वेदविहितकर्मकारीत्यर्थः।
वेदोक्ताहिंसादिकर्तरि बौद्धे ऽतिव्याप्तिवारणाय तृतीयान्तम्। आचारविषयत्वाद् इति। आचारः- कृतिः। तस्याः
वृत्त्यनियामकविषयतासम्बन्धेन हेतुता विवादग्रस्ता इति
तद्विषयत्वस्य हेतुत्वानुधावनम्। यथाक्र मं हेतुविशेषणप्रयोजनमाह ---
भोजनादौ इत्यादिना।
अलौकिकाविगीताचारविषयत्वस्यैव हेतुतास्तु। अशिष्टाचारविषये
तादृशहेतोरसत्त्वेन व्यभिचारासम्भवात् इत्याशङ्कामिष्टापत्त्या
परिहरति --- शिष्टपदम् इति। जलताडनादौ अशिष्टाचारविषये
तादृशहेतोरसत्त्वं स्फटयति--- न
कुर्यादिति । स्वर्गादिफले
व्यभिचारवारणाय आचारविषयत्वे ति।
विधेयतया आचारविषयत्वार्थकमिति सङ्क्षेपः।
तर्कपदस्यारोपार्थकत्वभ्रमं वारयितुं द्रव्यादिसाधारणतर्कत्वं
निर्वक्ति--- तर्क्यन्त इति।
उपादानरूपसङ्ग्रहस्यासम्भवादाह---
सङ्क्षेपेणे ति। स्वरूपकथनम् --स्वरूपज्ञानानुकूलशब्दः। एतावता
द्रव्यादिपदार्था विषयाः, पदार्थतत्त्वावधारणं प्रयोजनम्,
सम्बन्धश्चप्रतिपाद्यप्रतिपादकभावः,
पदार्थतत्त्वावधारणकामो ऽधिकारीत्यनुबन्धचतुष्टयं
प्रेक्षावत्प्रवृत्त्यङ्गं सूचितम्। षष्ठीतत्पुरुषभ्रमवारणायाह-- सुखेने ति। सुखबोधरूपप्रयोजनस्यान्यतः सिद्धत्वेन एतद्ग्रन्थकरणे
प्रयोजनाकाङ्क्षा न शाम्यतीत्याशयेनावतारयति-- नन्व् इति। तेषाम्- -भाष्यादिग्रन्थानम्॥
बालप्रिया
निस्समाभ्यधिकसद्गुणाकरं भक्तरक्षणरतं दयानिधिम्।
नित्यसूरिभिरनारतं
स्तुतं वन्दिषीय वृषशैलनायकम् ॥ 1 ॥
श्रीशेलवंशनवमौक्तिकतुल्यभासं
वेदान्तलक्ष्मणमुनीन्द्रपदाब्जभृङ्गम्।
सत्तर्कतन्त्रनिगमान्तनितान्ततान्तं
श्रीमन्नृसिंहगुरुवर्यमहं नमामि ॥ .2 ॥ .
नृत्यत्कलं सकलदिक्षु विभातकीर्तिं
शास्त्रेषु निष्ठितधियं
बहुशिष्ययुक्तम्।
आचारपूतमनवद्यगुणाभिरामं
श्रीदेवनाथगुरुमन्वहमानतो ऽस्मि ॥ .3 ॥ .
न्यायादिशास्त्रविदमात्मगुणोज्ज्वलं तं
सम्भावनादिपरिपन्थिनमात्मवन्तम्।
मत्तातपादमनघं
क्षमया समेतं
श्रीकृष्णतातगुरुवर्यमहं प्रपद्ये ॥ .4 ॥ .
प्रौढगम्भीरसंक्षिप्तवचोविन्यासभासुरा।
नीलकण्ठेन रचिता
दीपिकायाः प्रकाशिका ॥ .5 ॥ .
गदाधरादिग्रन्थेषु येषां
परिचयो दृढः।
प्रकाशिकाशयं गूढं
तं सम्यग्ज्ञातुमीशते ॥ .6 ॥ .
बालानामुपकाराय यथाशक्ति
यथामति।
विशदां सरलां
बालप्रियां व्याख्यां करोम्यहम् ॥ .7 ॥ .
मूलार्थज्ञानमात्रं हि
ममोद्देश्यं मतस्ततः।
अनपेक्षितविस्तारविचारावत्र नादृतौ ॥ .8 ॥ .
अथ तत्राभवान्
तर्ककर्कशविचारचातुरीधुरीणः नीलकण्ठभट्टाचार्यः
तर्कसङ्ग्रहदीपिकां प्रकाशिकाभिधया स्वकीयव्याख्यया
प्रकाशयितुमिच्छन् चिकीर्षितायाः व्याख्यायाः
निर्विघ्नपरिसमाप्तिमुद्दिश्यशिष्टाचारपरम्पराप्राप्तं
मङ्गलमातनोति--- वन्दे
गुरुम् इति। ननु
तर्कसङ्ग्रहदीपिकामित्यस्य
पदार्थविषयकज्ञानजनकसङ्क्षिप्तशब्दात्मकग्रन्थप्रकाशिकामित्यर्थः।
यथाश्रुतलभ्यः। तत्र शब्दात्मकदीपिकाग्रन्थस्य
शब्दात्मकतर्कसङ्ग्रहप्रकाशकत्वं नोपपद्यते, दीपिकाग्रन्थेन
तर्कसङ्ग्रहग्रन्थार्थस्यैव प्रकाशनात् इत्यतो व्याचष्टे--- तर्कसंङ्ग्रहाथप्रकाशिकाम् इति। यथा अपवरके आरोपितो दीपः
अपवरकान्तर्निहितानि वस्तूनि प्रकाशयति, तथा दीपिकाख्यो
ग्रन्थो ऽपि तर्कसङ्ग्रहान्तर्निगूढानर्थान् प्रकाशयतीति भावः। तथा
च तर्कसङ्ग्रहदीपिकामित्यत्र तर्कसङ्ग्रहशब्दः
तर्कसंङ्ग्रहग्रन्थप्रतिपाद्यार्थपर इति तात्पर्यम्।
चिकीर्षितस्येत्यादिदीपिकाग्रन्थात् मङ्गलस्य
निर्विघ्नपरिसमाप्तिः प्रयोजनम्, तन्निबन्धनस्य शिष्यशिक्षा
प्रयोजनमिति लभ्यते। तत्र मङ्गल-ग्रन्थसमाप्त्योः कार्यकारणभावो
न सम्भवति, अन्वयव्यभिचारात् व्यतिरेकव्यभिचाराच्चेति शङ्कितं
"ननु मङ्गलस्य"इत्यादिना दीपिकायाम्। तत्र
व्यभिचारस्य कथ कार्यकारणभावाभावप्रयोजकत्वमित्याशङ्कायामाह
प्रकाशिकायाम् अन्वयव्यतिरेकेत्यादिनाम् । अयं भावः- कारणतानिश्चयं प्रति
नियतान्वयसहचारनिश्चयः नियतव्यतिरेकसहचारनिश्चयश्च
कारणम्। नियतान्वयसहचारो नाम 1कारणव्यापककार्यकत्वम्।
नियतव्यतिरेकसहचारो नाम 2कारणाभावव्यापककार्याभावकत्वम्।
अन्वयव्यभिचारो नाम कारणसत्त्वे ऽपि कार्याभावः,
कारणाव्यापककार्यकत्वमिति यावत्। व्यतिरेकव्यभिचारो नाम
कारणाभावे ऽपि कार्यसत्त्वम्, कारणाभावाव्यापककार्याभावकत्वमिति
यावत्। तत्र नियतान्वयसहचारज्ञानं प्रति अन्वयव्यभिचारज्ञानं
प्रतिबन्धकम्। नियतव्यतिरेकसहचारज्ञानं प्रति
व्यतिरेकव्यभिचारज्ञानं प्रतिबन्धकम्। प्रकृते मङ्गलरूपकारणे
सत्यपि किरणावल्यादौ समाप्तिरूपकार्यादर्शनात् मङ्गलं
सवाव्यापकसमाप्तिकमिति
ओं
॥ श्रीः ॥
प्रणमामि
दक्षिणाम्र्तिव्यासशङ्कररूपिणम्।
ज्योतिर्मयं गुरुं
चन्द्रशेखरेन्द्रसरस्वतोम्॥
1.
कारणव्यापककार्यकत्वमिति। यत्र यत्र चक्रादिसहकृतदण्डरूपं कारणं
तत्र घटरूपं कार्यमिति व्याप्त्या
दण्डव्यापकघटात्मककार्यकत्वस्य दण्डे सत्त्वात् दण्डः
नियतान्वयसहचारवानिति भावः।
2.
कारणाभावव्यापककार्याभावकत्वमिति। यत्र यत्र
चक्रादिसहकृतदण्डाभावः तत्र घटाभाव इति तण्डाभावव्यापको
घटाभावः। तथा च स्वाभावव्यापककार्याभावकत्वात् दण्डः
नियतव्यतिरेकसहचारवानिति भावः।
निश्चयरूपप्रतिबन्धकसत्त्वात् मङ्गलं
स्वव्यापकसमाप्तिकमित्याकारकनियतान्वयसहचारनिश्चयो न भवति।
एवं मङ्गलरूपकारणाभावे ऽपि कादम्बर्यादौ
समाप्तिरूपकार्यदर्शनात् मङ्गलाभावव्यापकत्वं समाप्त्यभावे
नास्ति, मङ्गलाभाववति 1समाप्तेः सत्त्वात्। तथा च मङ्गलं
स्वाभावाव्यापकसमाप्त्यभावकमिति निश्चयरूपप्रतिबन्धकसत्त्वात्
मङ्गलं स्वाभावाव्यापकसमाप्त्यभावकमिति
निश्चयरूपप्रतिबन्धकसत्त्वात् मङ्गलं
स्वाभावव्यापकसमाप्त्यभावकमित्याकारकनियतव्यतिरेकसहचारनिश्चयो
न भवति। तथा च नियतान्वयव्यतिरेकसहचारनिश्चयरूपस्य
कारणस्याभावात् मङ्गलं समाप्तिकारणमित्याकारकः मङ्गले
समाप्तिनिरूपितकारणत्वावगाही निश्चयो न भवतीति।
ननु किरणावल्यादौ
मङ्गले सत्यपि समाप्त्यभावात् अन्वयव्यभिचार इति शङ्कायाः
समाधानार्थं हि ऽकिरणावल्यादौ विघ्नबाहुल्यात् समाप्त्यभावःऽ
इति ग्रन्थः प्रावर्तत। तेन तु ग्रन्थेनान्वयव्यभिचार एव दृढीकृतः,
कारणे मङ्गले सत्यपि समाप्त्यभावस्य प्रतिपादनात् इत्याशङ्क्य
यथा तस्मात् ग्रन्थात् अन्वयव्यभिचारस्य परिहारो लभ्येत तथा
तात्पर्थं कथयति--
विघ्नान्यूनसङ्ख्याकस्ये ति।
मङ्गलं हि न साक्षात् समाप्तिकारणम्, किं तु विघ्नध्वंसद्वारा।
विघ्नध्वंसश्च विघ्नान्यूनसङ्ख्याकात् बलवत्तराद्वा मङ्गलात्
भवति। तथा च विघ्नान्यूनसङ्ख्याकं बलवत्तरं वा मङ्गलं
समाप्तिकारणम्। किरणावल्यादौ च विघ्नानां बहुत्वात् तादृशं
मङ्लं नास्तीति समाप्तिरूपं कार्यं नाभूत्। अतः कारणे सति
कार्याभावात्मकः अन्वयव्यभिचारो नास्तीति भावः।
निघ्नसमसङ्ख्याकस्येत्युक्तौ विघ्नाधिकसङ्ख्याकस्य मङ्गलस्य
कारणत्वमिष्टं नोपपद्येतेत्यत उक्तं-
विघ्नान्युनसङ्ख्याकस्ये ति।
विघ्नापेक्षयान्यूनसङ्ख्याकमपि मङ्गलं बलवत्तरं चेत् तस्य
1. समाप्तेः
सत्वादिति। तथा च मङ्गलाभाववति समाप्त्यभावाभावरूपसमाप्तेः
सत्त्वात् तत्प्रतियोगित्वमेव समाप्त्यभावस्येति
मङ्गलाभाववन्निष्ठात्यन्ताभावाप्रतियोगित्वरूपं
मङ्गलाभावव्यापकत्वं समाप्त्यभावस्य नास्तीति भावः।
विघ्ननाशकत्वमिष्यते।
विघ्नान्येनसङ्ख्याकस्येत्युक्तौ तत्सङ्ग्रहो न स्यादित्यालोच्योक्तम्
- बलवत्तरस्य वे ति। ननु कादम्बर्यादौ नास्तिककृते
ग्रन्थे मङ्गलाभावे ऽपि समाप्तिदर्शनात् व्यतिरेकव्यभिचार इति
शङ्कायाः परिहारार्थं हि ऽकादम्बर्यादौ ग्रन्थाद्बहिरेव मङ्गलं
कृतमतो न व्यभिचारःऽ इति दीपिकाग्रन्थः प्रवृत्तः। तेन च बहिरेव ग्रन्थारम्भे मङ्गलनिबन्धनमकृत्वा, मङ्गलं कृतम्,
मङ्गलनिबन्धनमवे न कृतम्, मङ्गलं तु कृतेमेवेत्यर्थो
लभ्यते। स तु न युक्तः; नास्तिकेन कादम्बर्यादिग्रन्थप्रणेत्रा
ईश्वरनमस्कारादिरूपमङ्गलकरणासम्भवादित्याशङ्क्य
व्याचष्टे- बहिरेवे ति। जन्मान्तरं एवेत्यर्थ इति। तथा च तादृशग्रन्थकर्तुः एतज्ज्नमनि नास्तिकत्वे ऽपि
जन्मान्तरे आस्तिकत्वात् तदानीं कृतात् मङ्गलात् अस्मिन् जन्मनि
समाप्तिः। अतः कारणाभावे ऽपि कार्यरूपः व्यतिरेकव्यभिचारो
दुर्वच इत्याशयः। ननु जन्मान्तरीयमङ्गलस्य तदानीमेव
नष्टत्वात् एतज्जन्मीयसमाप्त्यव्यवहितपूर्वमसतस्तस्य 1कथं
कारणत्वं, कथं वा व्यतिरेकव्यभिचारपरिहार इत्याशङ्क्य
स्वजन्यविघ्नध्वंसवत्त्वसम्बन्धेन मङ्गलस्य कारणत्वात्
मङ्गलाभावे1पि तज्जन्यविघ्नध्वंसरूपद्वारसत्त्वात्
कारणत्वमुपपद्यते, यथा यागस्य नाशे ऽपि तज्जन्यापूर्वरूपद्वारस्य
स्वर्गाव्यवहितपूर्वं सत्त्वात् यागस्य स्वर्गकारणत्वं तद्वदित्याशयेन
समाधत्ते--- तादृशमङ्गलस्य
विघ्नध्वंसद्वारे ति। एवं च कारणत्वं सिध्यतीति । पूर्वोक्तरीत्या
अन्वयव्यतिरेकव्यभिचारयोः परिहृतत्वात्
अन्वयव्यतिरेकव्यभिचारनिश्चयरूपप्रतिबन्धकाभावात्
नियतान्वयव्यतिरेकसहचारनिश्चयरूपकारणसत्त्वात् मङ्गलस्य
समाप्तिकारणत्वनिश्चयो भवतीत्यर्थः। अथवा एवं च -
जन्मान्तरीयमङ्गलस्य विघ्नध्वंसद्वारा सत्त्वात्
जन्मान्तरीयमङ्गलस्य
2समाप्तयव्यवहितपूर्ववूत्तित्वरूपं कारणत्वं सिध्यतीति भावः।
1. कथं कारणत्वमिति।
कार्याव्यवहितप्राक्क्षणवृत्तित्वस्यैव कारणत्वपदार्थत्वादिति भावः।
2.
समाप्त्यव्यवहितेत्यादि। तथा च साक्षात्सम्बन्धेन समवायेन समाप्तेः
पूर्वं मङ्गलस्याभावे ऽपि स्वजन्यविघ्नध्वंसवत्त्वसम्बन्धेन सत्त्वात्
समाप्त्यव्यवहितपूर्वक्षणवृत्तित्वमस्तीति भावः।
उक्तहेतुद्वयादि
ति - ऽकिरणावल्यादौ
विघ्नबाहुल्यात् समाप्त्यभावः, कादम्बर्यादौ ग्रन्थात् बहिरेव
मङ्गलं कृतम्ऽ इति पूर्वग्रन्थोक्तहेतुद्वयादित्यर्थः। स्वसामग्रीवशाद् इति। स्वस्याः- समाप्तेः सामग्री -
बुद्धिप्रतिभादिकारणकलापाः तद्वशात्-तदधीनतयेत्यर्थः। सत्यपि
मङ्गले बुद्धिप्रतिभादिकारणकलापाभावे ग्रन्थसमाप्तेरसम्भवात्
बुद्धिप्रतिभादिकमेव समाप्तिं प्रति कारणम्। मङ्गलं तु
समाप्तिप्रतिबन्धकविघ्नोत्सारणे कारणम् इति मणिकाराशयः।
मङ्गलं कर्तव्यमिति
ज्ञानमन्तरा मङ्गलं न को ऽपि कुर्यात्। 1तद्विषयककृतिं प्रति
तद्विशेष्यककृतिसाध्यताज्ञानस्य कारणत्वात्। कर्तव्यत्वं च
कृतिसाध्यत्वम्। मङ्गलं कर्तव्यमिति ज्ञानं च शिष्टानां ग्रन्थारम्भे
मङ्गलानुष्ठानरूपेण आचारेण अनुमिता या ऽसमाप्तिकामो
मङ्गलमाचरेतऽ इति श्रुतिः तया भवति इत्याशयेन पूर्वं
ऽशिष्टाचारानुमितश्रुतिबोधितकर्तव्यताकमिष्टदेवतानमस्कारात्मकं
मङ्गलम्ऽ इति दीपिकायामु क्तम्। तेन
मङ्गलस्य कर्तव्यत्वे शिष्टाचारानुमिता श्रुतिः प्रमाणमिति लभ्यते।
तदवे श्रुतिप्रमाणककर्तंव्यताकत्वं मङ्गलस्य शङ्कासमाधानरूपेण
स्थापयति ऽननु मङ्गलस्य कर्तव्यत्वे किं प्रमाणम्ऽ इत्यादिना
दीपिकाग्रन्थेन। तदेतदाह
प्रकाशिकायां---मङ्गलस्य श्रुतिबोधितकर्तव्यताकत्वं
व्यवस्थापयितुम् इति।
ननु मङ्गलस्य
कर्तव्यत्वे ऽसमाप्तिकामो मङ्गलमाचरेतऽ इति श्रुतिर्न
प्रमाणम्। तादृशश्रुतेः पठ्यमानवेदे कुत्राप्यदर्शनात्
इत्याशङ्कायां शिष्टाचारानुमितेति श्रुतेर्विशेषणमुपात्तं दीपिकायाम्। यद्यपि श्रुतिः न प्रत्यक्षा तथापि आचारेण
लिङ्गेन तादृशी श्रुतिरनुमीयते। तथा च आचारानुमिता श्रुतिः
मङ्गलकर्तव्यत्वे प्रमाणमिति
1. तद्विषयककृति
प्रतीति। यथा यागविषयकप्रयत्नं प्रति ऽयागः मत्कृतिसाध्यःऽ
इत्याकारकं यागविशेष्यकं कृतिसाध्यत्वप्रकारकं ज्ञानं
कारणमिति भावः।
तदाशयः।
अनुमानप्रकारश्च ऽमङ्गलं वेदबोधितकर्तव्यताकम्ऽ
इत्यादिग्रन्थेन प्रदर्शितः। तस्मिन् अनुमाने
वेदबोधितकर्तव्यताकत्वं हि साध्यम्, न तु वेदः। यत्
अनुमानसाध्यं - अनुमितिविधेयं तदेवानुमिन्तमित्युच्यते। तथा
च
वेदबोधितकर्तव्यताकत्वं शिष्टाचारानुमितं न तु वेद इति
कथं श्रुतेः शिष्टाचारानुमितत्वमुपपद्यते?
अनुमितिविधेयतावच्छेदकस्यापि अनुमितिविषयत्वमात्रेण
अनुमितिविधेयत्वमङ्गीकृत्यानुमितमिति व्यवहारोपपादने
वह्नित्वमनुमितमित्यपि व्यवहारापत्तेरित्याशङ्कायाम्
आशयमाविष्करोति--
अत्रायमाशय इति।
वेदवोधिते त्यादि। वेदबोधितकर्तव्यताकत्वरूपं
यत् वक्ष्यमाणं विधेयं साध्यं तत्कोटिप्रविष्टत्वे ऽपि
तदवच्छेदकत्वे ऽपीत्यर्थः। अपिना
विधेयतावच्छेदकस्य
विधेयत्वासम्भवरूपो विरोधो द्योत्यते। तदन्तर्भावेण --विधेयतावच्छेदकान्तर्भावेण। तच्छ्रुतेः ---
ऽसामाप्तिकामो मङ्गलमाचरेतऽ इति श्रुतेः। अनुमितेः पूर्वमसिद्धत्वादिति।
तथा च अनुमितेः
पूर्वमसिद्धत्वमेव अनुमितिविधेयतायां प्रयोजकम्। मङ्गलस्य
कर्तव्यता अनुमितेः पूर्वमसिद्धेते तत्र यथा अनुमितिविधेयता
अस्ति, तथा अनुमितेः पूर्वमसिद्धत्वात विधेयतावच्छेदकभूतायां
श्रुतावपि
विधेयताख्यविषयता अङ्गीक्रियते। ततश्च
श्रुतेरनुमितिविधेयत्वात् अनुमितत्वमुपपद्यत इति
श्रुतिश्शिष्टाचारानुमिता इति व्यवहारे न किमपि बाधकमिति
भावः।
ननु
अनुमितिविधेयतावच्छेदकस्याप्यनुमितिविधेयत्वाङ्गीकारे
ऽपर्वतो वह्निमान्ऽ इति अनुमितिविधेयतावच्छेदकस्य
वह्नित्वस्यापि तादृशानुमितिविधेयत्वं स्यात्। तथा च
वह्निर्धूमानुमिन्त इति
व्यवहारवत् वह्नित्वं
धूमानुमितमिति व्यवहारो ऽपि प्रामाणिकः स्यात् इत्याशङ्कां
समाधत्ते- एतेने ति। अनुमिन्तेः पूर्वमसिद्धस्यैव
विधेयतावच्छेदकस्य अनुमितिविधेयत्वाङ्गीकारेणेत्यर्थः। तथा च
वह्नित्वस्यानमितेः पूर्वं सिद्धतया नानुमितिविधेयत्वप्रसङ्ग
इति भावः। अनुमितिविषयताम् इति।
विधेयतावच्छेदकतारूपां विषयतामित्यर्थः। विशेष्यतया
विशेषणतया वा अनुमितिविषयत्वमेव अनुमितत्वव्यवहारे
प्रयोजकमिति स्वीकारेणेत्यर्थः।
श्रुतौ विधेयत्वाभ्युपगमेने ति। अनुमितेः पूर्वमसिद्धत्वादिति शेषः। तादृशव्यवहार इति। श्रुतिः अनुमिता इति व्यवहार
इत्यर्थः। बाधकाभावाद् इति।
अनुमितमिति
व्यवहारे अनुमितेः पूर्वं सिद्धत्वं बाधकम्, तदभावात् इत्यर्थः।
ननु ऽश्रुतेरेव प्रमाणत्वात्ऽ इत्यत्र एवकारस्य
अन्ययोगव्यवच्छेदार्थकतया श्रुत्यतिरिक्तस्य प्रमाणत्वं व्यवच्छिद्यत
इति प्रतीयते। तन्न सङ्गच्छते, मङ्गलकर्तव्यतायां ऽमङ्गलं
कर्तव्यम् समाप्तिफलकत्वात्ऽ इत्यनुमानस्यापि
प्रमाणत्वादित्याशङ्कायामाह--
एवकारो ऽप्यर्थक इति।
अपेरर्थो यस्य सः अप्यर्थकः, अप्यर्थसुच्चयार्थक इत्यर्थः। तथा च
श्रुतेरेवेत्यस्य श्रुतेरपीत्यर्थः। अपिना अनुमानस्य प्रमाणत्वं
समुच्चीयते। अतो नासङ्गतिरिति भावः।
श्रुतेरनुमितत्वं
अनुमितिविधेयतावच्छेदके ऽपि पूर्वमसिद्धे विधेयत्वाङ्गीकारेण
उपपादितं प्रकाशिकाकारैः। एतं क्लेशं श्रुतेरनुमितत्वम्
उपपादयतां मतमाह- अन्ये त्वि
ति। ऽमङ्गलं
वेदबोधितकर्तव्यताकम्ऽ इति प्रतिज्ञायाः मङ्गलं
स्वबोधितकर्तव्यताकत्वसम्बन्धेन वेदविशिष्टम् इत्यर्थः। तथा च
तादृशानुमितौ वेद एव विधेय इति
वेदस्यानुमितत्वमनायासेनोपपद्यत इति भावः।
ईदृशपरम्परायाः साध्यतावच्छेदकसम्बन्धत्वे मानाभावः,
यथाश्रुतमूलार्थत्यागश्चास्वरसः आहु रित्यनेन सूचितः।
दीपिकायाम् अलौकिकाविगीतशिष्टाचारविषयत्वाद् इति। शिष्टानामाचारः शिष्टाचारः
शिष्टाचारस्य विषयः शिष्टाचारविषयः, अविगीतश्चासौ
शिष्टाचारविषयश्च अविगीतशिष्टाचारविषयः, अलौकिकश्चासौ
अविगीतशिष्टाचारविषयश्च अलौकिकाविगीन्तशिष्टाचारविषयः तस्य
भावस्तत्त्वम्। अलौकिकत्वे सति अविगीतत्वे सति शिष्टाचारविषयत्वं
हेतुरिति फलितम्। लौकिकत्वं विध्यतिरिक्तप्रमाणगम्यत्वम्,
तद्भिन्नत्वमलैङ्किकत्वम्। हेतौ
अलौकिकत्वानुपादाने
रागप्राप्ते भोजनादौ वेदबोधितकर्तव्यताकत्वरूपसाध्याभाववति
अविगीतशिष्टाचारविषयत्वरूपहेतुसत्त्वात् व्यभिचारः स्यात्।
तद्वारणाय अलैङ्किकत्वमुपात्तम्। अविगीतत्वं धर्मशास्त्रानिषिद्धत्वम्।
तदनुपादाने वेदबोधितकर्तव्यताकत्वरूपसाध्याभाववति
रात्रिश्राद्धादौ 1अलैङ्किकशिष्टाचारविषयत्वरूपहेतुसत्त्वात्
व्यभिचारः स्यात्। तद्वारणाय अविगीतत्वमुपात्तम्। रात्रिश्राद्धादेः
ऽरात्रौ श्राद्धं न कुर्वीतऽ इति धर्मशास्त्रनिषिद्धत्वात् न तत्र
व्यभिचारः।
प्रकाशिकायां विधिमन्तरे ति। लिङ्लोट्तव्यप्रत्ययघटितं
वेदवाक्यं विधिः। वेदोक्ततत्त्वज्ञानेने ति।
तृतीयायाः जन्यत्वमर्थः कर्मकारीत्यत्र कृधात्वर्थकृत्यन्वयि।
वेदोक्तं यत्तत्त्वं तद्विषयकज्ञानजन्या या
वेदविहितकर्मविषयककृतिः तदाश्रयः शिष्ट इत्यर्थः। वेदोत्थतत्त्वज्ञानेने ति क्वचित्पाठः। वेदजन्यं यत्तत्त्वज्ञानं
तेनेत्यर्थः। स एव पाठश्रोयान्। वेदविहितकर्मकर्ता शिष्टः
इत्येतावन्मात्रोक्तौ वेदविहिताहिंसादिकर्मकर्तुः बौद्धस्यापि
शिष्टत्वापत्तिः। तद्वारणाय वेदोत्थतत्त्वज्ञानेने ति। बौद्धस्य यत् अहिंसादितत्त्वज्ञानं न तत् वेदजन्यमिति
नातिव्याप्तिः। यद्वा वेदोक्तत्त्वज्ञानेने ति
पाठः 2साधीयान्। इदं वेदोक्तमिति ज्ञानपूर्वकं यः वेदविहितं
कर्म करोति स शिष्टः। बौद्धस्तु वेदविहितमहिंसादिकं कर्म
कुर्वन्नपि इदं वेदोक्तमिति बुद्ध्या न करोति, तेन
वेदप्रामाण्यानभ्युपगमादिति न तस्य शिष्टत्वापत्तिः।
ननु शिष्टाचारस्यैव
हेतुत्वमस्तु, किमाचारविषयत्वपर्यन्तस्य हेतुत्वानुधावनेन। न च
आचारः कृतिः, तस्या
1. अलौकिकेति।
रात्रिश्राद्धस्य ऽश्राद्धं कुर्वीतऽ इति विधिनैवावगमात्
विध्यतिरिक्तप्रमाणानवगम्यत्वरूपमलौकिकत्वमस्तीति भावः।
2. साधीयानिति। तथा
च वेदोक्तत्वप्रकारकज्ञानजन्ययागादिकर्मानुकूलकृतिमत्त्वं
शिष्टत्वमिति लभ्यते।
आत्मनिष्ठत्वेन
मङ्गलरूप पक्षनिष्ठत्वाभावात् कथं हेतुत्वमिति वाच्यम्।
कृतेर्विंषयतासम्बन्धेन हेतुत्वसम्भवात्, समवायेन आत्मनिष्ठायाः
कृतेः विषयतासम्बन्धेन मङ्गलनिष्ठतया
हेतुत्वसम्भवादित्याशङ्क्याह आचारः
कृतिरि त्यादिना। वृत्तिः आधेयता तन्नियामकः
सम्बन्धः वृत्तिनियामकः सम्बन्धः संयोगसमवायादिः। विषयता तु न
वृत्तिनियामकसम्बन्धः। विषयतासम्बन्धेन कृतिः मङ्गलवृत्तिरिति
प्रतीत्यभावात्। वृत्तिनियामकसम्बन्ध एव च हेतुतावच्देदकसम्बन्धः
न तु वृत्त्यनियामको विषयतादिः। तथा च कृतेः
विषयतासम्बन्धावच्छिन्नहेतुत्वासम्भवात् आचारविषयत्वस्य
हेतुत्वानुधावनम्। विषयत्वं तु स्वरूपसम्बन्धेन हेतुः,
स्वरूपसम्बन्धस्तु वृत्तिनियामक इति तेन सम्बन्धेन
आचारविषयत्वस्य हेतुत्वं सम्भवतीत्याशयः।
आचारविषयत्वपदस्य
प्रयोजनं मूले ऽनुक्तमिति स्वयं तत्प्रयोजनं कथयति--- स्वर्गादिफल इति। तथा च हेतौ
आचारविषयत्वपदानुपादाने अलौकिकत्वे सति अविगीतत्वं हेतुः
स्यात्। स्वर्गादिरूपे फले ऽपि तत्सत्त्वात्
वेदबोधितकर्तव्यताकत्वरूपसाध्याभावात् व्यभिचारः स्यादिति
तद्वारणाय आचारविषयत्वात्
इत्युपात्तम्। स्वर्गादेस्तु
कृतिविषयत्वं नास्तीति न व्यभिचार इति भावः। ननु कृतेः
उद्देश्यं विधेयम् उपादानमिति विषयत्रयमस्ति। यागः विधेयः स्वर्ग
उद्देश्यः प्रयाजाद्यङ्गजातमुपादानम्। स्वर्गे
कृतिनिरूपितोद्देश्यताख्यविषयतायाः सत्त्वात्
कृतिविषयत्वोपादाने ऽपि व्यभिचार इत्याशङ्क्याह--- विधेयतया आचारविषयत्वार्थकमि
ति। तृतीयाया अभेदोर्ऽथः।
आचारनिरूपितविधेयत्वाभिन्नविषयत्वं हेतुः। स्वर्गादैं
कृतिनिरूपितविधेयताख्यविषयत्वाभावात् न व्यभिचार इति
भावः।
ननु व्याप्यारोपेण
व्यापकारोपस्तर्कः। तथा च तर्कसङ्ग्रह इत्यस्य
व्याप्यारोपजन्यव्यापकारोपात्मकतर्कप्रतिपादकग्रन्थ इत्यर्थो
भवति। स न युज्यते, तर्कसङ्ग्रहग्रन्थेन
आरोपमात्रस्याप्रतिपादनात्, इतरपदार्थानामपि
प्रतिपादनादित्याशङ्क्य तर्कशब्देन यथा ग्रन्थप्रतिपाद्यसकलपदार्थः।
प्रतिपाद्येत तथा तर्कशब्दो व्युत्पाद्यते दीपिकायामित्याह-- तर्कपदस्ये त्यादिना। आरोपार्थकत्वभ्रममिं ति। व्याप्यारोपेण व्यापकारोपार्थकत्वभ्रममित्यर्थः।
सङ्ग्रहशब्दस्योपादानमित्यप्यर्थो ऽस्ति। सो ऽत्र न सम्भवति;
1गुणादिपदार्थानां, द्रव्येष्वपि आकाशादिनामुपादानस्यासम्भवात्।
उपादानं हि हस्तकरणकव्यापारविशेषः। तस्मात्
सङ्ग्रहपदस्यसङ्क्षेपेण स्वरूपकथनमित्यर्थो मूले वर्णित
इत्याह उपादानरूपे ति। ननु स्वरूपकथनमित्यत्र
कथनशब्दस्योच्चारणमर्थः। उच्चारणं नाम
ताल्वोष्ठपुटसंयोगानुकूलव्यापारः। तस्य शब्दमात्रविषयकस्य
द्रव्यादिपदार्थस्वरूपविषयकत्वासम्भवात् स्वरूपकथनमिति शब्दः कथ
साधुरित्याशङ्क्याह- स्वरूपकथनं
स्वरूपज्ञज्ञनानुकूलः शब्द इति। तथा च प्रकृते कथनशब्दस्य नोच्चारणमर्थः, किन्तु
ज्ञानानुकूलः शब्दोर्ऽथः। ज्ञाने स्वरूपविषयकत्वान्वयात्
पदार्थंस्वरूपविषयकज्ञानानुकूलशब्दः स्वरूपकथनशब्दार्थ इति
नानुपपत्तिरिति भावः।
प्रेक्षावतां
बुद्धिपूर्वकारिणां या ग्रन्थाध्ययने प्रवृत्तिः तत्र
अनुबन्धचतुष्टयमङ्गम्। विषयप्रयोजनसम्बन्धाधिकारिणः
चत्वारो ऽनुबन्धाः। अनुबध्नन्ति पुरुषं ग्रन्थाध्ययने
प्रेरयन्तीत्यनुबन्धाः ग्रन्थप्रतिपाद्यो विषयः, ग्रन्थाध्ययनस्य
प्रयोजनम्, ग्रन्थस्य विषयस्य च सम्बन्धः, गन्थाध्ययने ऽधिकारी
इत्येतेषां चतुर्णां ज्ञानं विना न को ऽपि ग्रन्थाध्ययने प्रवर्तेत।
तथा चावश्यवक्तव्यस्यानुबन्धचतुष्टयस्याकथनात् मूलस्य
न्यूनतामाशङ्क्य तच्चतुष्टयं कण्ठरवेणानुक्तमपि लेन
सूचितमेवेत्याह - एतावते
ति। तर्कसंङ्ग्रहपदस्य
व्याख्यानेनेत्यर्थः। सुखबोधाय इत्यत्र सुखस्य बोध इति
षष्ठीतत्पुरंषाङ्गीकारे सुखविषयकबोधः अस्य ग्रन्थस्य
प्रयोजनमिति लभ्येत। तथा सति निखिलपदार्थबोधकत्वं
तर्कसंङ्ग्रहपदव्याख्यानेन सूचितं विरुध्येत। अतः सुखेन
1.
गुणादिपदार्थानामित्यस्य उपादानस्यासम्भवादित्यनेनान्वयः।
मूल पाठ: Tarkasaṃgraha with autoentary (Dīpikā), Nīlakaṇṭha's Dīpikāprakāśikā and Bālapriyā · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0