तर्कसंग्रह (टीका सहित) · भाग 481500
च यौगिकरूढाविशेषः, अतस्तदुपादानं तेनैकत्र शाब्दबोधे
द्विविधशक्तिज्ञानजन्यत्वलाभः। सहकारे परस्परत्वं च
स्वाश्रयनिरूपितसहाकराश्रयनिरूपितत्वं
सहकारविशिष्टत्वपर्यवसितम्। वैशिष्ट्यं
स्वनिरूपकवृत्तित्वस्वाश्रयनिरूपितत्वोभयसम्बन्धेन। [248] परस्परासहायेनेत्यग्रिमग्रन्थस्य निरुक्तसहकाराभावेनेत्यर्थः।
तृतीयार्थस्पय वैशिष्ट्यस्य शक्त्यादावन्वयः। तथा च
रूढिशक्तिज्ञानजन्ययोगशक्तिज्ञानाजन्यार्थविषयकबोधजनकत्वे सति
रूढिशक्तिज्ञानाजन्ययोग्यशक्तिज्ञानजन्यार्थविषयकबोधजनकत्वं
यौगिकरूढस्य लक्षणम् पर्यवसितम्। केवलयौगिककेवलरूढयोः
वारणाय दलद्वयम्। [249] योगरूढिमिति। योगसहितां
रूढिमित्यर्थः। तेन - योगः च रूढिश्चेति
इतरेतरयोगद्वन्द्वाश्रयणे योगरूढी इति द्विवचनान्तत्वप्रसङ्गः।
योगरूढ्योस्समाहार इति समाहारद्वन्द्वाश्रयणे योगरूढीति
नपुसंकत्वप्रसङ्ग इति शङ्कायाः नावकाशः। शाकपार्थिवादिवत्
मध्यमपदलोपिसमासाश्रयणेनाविरोधात्।
एतदभिप्रायेणैवाग्रे
कुमुदे कुमुदप्रयोगसत्त्वात् इष्टापत्तिरित्यत आह - [249] पङ्कजादीति।
अन्वितशक्तिखण्डनम्
[250] पदार्थद्वयस्यैव परस्परान्वय
इत्येतल्लाभाय इतरेत्युक्तम्। नत्वितरत्वमपि
शक्यतावच्छेदकघटकमित्यभिप्रायेणाह - [251] अन्वित इति।
नन्वन्वयांशे ऽपि शक्तिरास्ताम्, किं तत इत्याह - [251] अन्वित इत्यादि। उक्तरीत्या कार्यांशोपेक्षाबीजसम्भवात्
इतरपदस्य कार्यपरत्वे गौणत्वापत्तेश्चास्वरसं हृदि निधाय [251] आहुरित्युक्तम्। तत्तत्कारणाव्यवहितोत्तरत्वं
स्वसामानाधिकरण्यावच्छिन्न-स्वाव्यवहितोत्तरक्षणोत्पत्तिकत्वसम्बन्धेन
तत्कारणवैशिष्ट्यम्। तेन व्यधिकरणशाब्दबोधव्युदासः।
आकाङ्क्षादिनिरूपणम्
[255] योग्यतादीत्यादिना
अविलम्बोच्चरितपदपरिग्रहः। ननु यत्पदाभावप्रयुक्तत्वं
तज्जन्यत्वम्, तच्च शाब्दबोधजनकत्वे ऽभावरूपे न सम्भवति। तस्य
नित्यत्वादित्यत आह -- [255] प्रयुक्तत्वं चेति। ननु
निरुक्तशाब्दबोधाजनकत्वज्ञानं विनापि शाब्दबोधोदयात् कथं
तद्घटितस्याकाङ्क्षारूपत्वमित्यत आह - [255] अजनकत्वान्तमिति। [255] परिचायकम् - बोधकम्। वाक्यर्थस्यापूर्वतया शाब्दबोधात्
प्राग्दुर्ग्रहत्वेन क्वचिद्योग्यतासंशयादपि शाब्दबोधः जायत
इत्यभिप्रायेणोक्तम् - [255] संशयनिश्चयसाधारणेति। [255] स्वरूपसत्येव -- अज्ञातैव। [255] दिगिति। अयं भावः --
योग्यताज्ञानत्वेन हेतुत्वे ऽप्रामाण्यनिश्चयाभाव एव
हेतुतावच्छेदके निवेश्यः। नवीनमते
संशयसाधारणाप्रामाण्यग्रहत्वावच्छिन्नप्रतियोगिताकाभावः तथेति।
[255] दीपिकायां अविलम्बेनेत्यादि। एतेन मौनिश्लोकादौ
शाब्दबोधानुपपत्तिर्निरस्ता। अन्यथा तत्र पदोच्चारणाभावेन
शाब्दबोधानुपपत्तेः। ननु गौरश्वः पुरुष
इत्यादिभूलोक्तपसङ्गतम्। तथा हि - तत्र कीदृशबोध आपाद्यते।
अश्वादावेकत्वादिबोधो वा उत गवाश्वादौ अभेदान्वयबोधो वा।
नाद्यः; इष्टापत्तेः। न द्वितीयः;
अयोग्योदाहरणत्वादित्याद्याशङ्क्यानाकाङ्क्षोदाहरणान्तरमाह [255] घट इत्यादि।
वेदापौरुषेयत्वम्
प्रतीतिद्वयस्यान्यविषयकत्वकल्पनामपेक्ष्य एकस्याः
प्रतीतेस्तत्कल्पनं युक्तम्। तथा च प्रत्यभिज्ञा
साजात्यावगाहित्वतदभावान्यतरवती प्रमेयत्वादित्यनुमानं
प्रत्यभिज्ञायास्साजात्यावगाहित्वे उत्पत्तिविनाशप्रत्ययोः
ककाराद्यभिव्यञ्जककण्ठताल्वादिव्यापारविषयकत्वरूपं लाघवं
स्यादिति तर्कानुनृहीतं प्रमाणमित्याशयेनाह - [259] उत्पत्तीति। अत्र च यदि प्रत्यभिज्ञा साजात्यावगाहिनी स्यात् तर्हि
वर्णानामनित्यतया ध्वंसप्रतियोगित्वं प्रागभावप्रतियोगित्वं च
स्यात् इति गौरवतर्कसहकृतनोक्तानुमानेन
प्रत्यभिज्ञायास्साजात्यावगाहित्वाभावसिद्धं
उत्पत्तिविनाशप्रत्ययोरन्यविषयकत्वकल्पनं निराबाधमेवेति
उक्तयुक्तिरेवेत्यभिप्रेत्य [251] हृदयम् इत्युक्तम्। एतदस्वरसेनैव
युक्त्यन्तरमाह - [259] वर्णानामिति।
ननु वर्णनित्यत्वे
कथं वेदस्यानित्यत्वमित्याशङ्क्य तदुपपादयति - [259] प्रकाशिकायाम् अग्नीति। [259] उचितमिति।
उत्पत्तिविनाशप्रत्ययानुगुण्यादितिभावः।
स्मृत्याचारयोः
प्रामाण्यम्
ननु आचारो नाम
अनुष्ठानम्। तच्च व्यापारात्मकमिति तस्य प्रमाणत्वे
प्रागुक्तप्रमाणविभागव्याघात इत्यत आह - [260] आचाराणामितीति। [261]
एतेन आचारपदस्य
निरुक्तवाक्यपरत्वेन। [260] अनुमीयत इति। अत्रेत्थमनुमानप्रकारः -
इयं स्मृतिः किञ्चिच्छाखामूलिका स्मृतित्वादित्यनुमानात्
व्यासादिस्मृतिमूलभूतशाखासिद्धौ तादृशीशाखा
इदानीमुच्छिन्नपाठा इदानीमनुपलभ्यमानत्वात् यन्नैवम्
तन्नैवम् यथा पठ्यमानशाखेति। [261] नदीदीनादि इत्यादिना
राजजरासरो रस इत्यादीनां परिग्रहः। [261] अर्थविशेषेति। नद्यादिशब्दात्
दीनादिरूपार्थबोधप्रसङ्गादित्यर्थः। तथा च येन रूपेण
पदान्तरसमभिव्याहारो गृहीतः तद्रूपावच्छिन्नशक्तिज्ञानं
शाब्दबोधहेतुर्वाच्यम्। अन्यथा प्रमेयत्वादिना शक्तिग्रहे ऽपि
शाब्दबोधापत्तेः। एवं चानुमीयमानश्रुतेः ऽअष्टकां
कुर्वीतेऽत्याकारकत्वमेवेति विशिष्ट निर्णयाभावात्
बोधकत्वासम्भवः। एवमष्टकापदस्थाने ऽपि पर्यायपदान्तरप्रक्षेपो
बोध्य इति भावः। इदं चार्थविशेषबोधापत्तेरिति
पाठमभिसन्धाय। अर्थविशेषबोधानापत्तेरिति पाठे तु
तन्नैयत्यानुपपत्तेरित्यर्थः।
अर्थापत्त्यादीनां
प्रमाणान्तरत्वनिरासः
[264] अनुमानानुसरणमिति।
अयमर्थविशेषतात्पर्यवान् विलक्षणचेष्टावत्त्वादित्यनुमानप्रकारो
बोध्यः। [264] विशिष्येत्यादि। प्रथमवक्तुरपि
सामान्यरूपेण ज्ञातत्वात् उर्क्तं विशिष्येति। प्रथमेति
क्रियाविशेषणम्। प्राथम्यं च वचने
स्वप्रतिपाद्यार्थप्रतिपादकवचनध्वंसासमानकालीनत्वं
ध्वंसविशिष्टान्यत्व पर्यवसितम्। वेशिष्ट्यं
स्वसमानाकालीनत्वस्वप्रतियोगिवचनप्रतिपाद्यार्थप्रतिपादकत्वोभयसम्बन्धेन॥
इति
दीपिकाप्रसरणाख्यायां प्रकाशव्याख्यायां शब्दपरिच्छेदः॥
। । ।
प्रामाण्यवादः
तत्र
विप्रतिपत्तिप्रदर्शनम्
[268] प्रमाणप्रसङ्गादिति।
1प्रमाणनिरूपितस्वजन्यवृत्तिनिष्ठत्वात्मकप्रसङ्गसङ्गतेरित्यर्थः।
प्रमाणशब्दः
इह करणे ल्युडन्तः
- यद्वा
2तन्निरूपितस्मृतनिष्ठोपेक्षाविषयताविरोधिरूपात्मकसङ्गतेरित्यर्थः।
तच्च रूपं प्रकृते परतोग्राह्यत्वम्। स्मृतिश्च
3स्वजन्यवृत्तिनिष्ठत्वसम्बन्धेन जायते। अथ वा प्रमाणं प्रमा,
4तन्निरूपितस्ववृत्तिनिष्ठत्वात्मकप्रसङ्गसङ्गतेरित्यर्थः।
ज्ञानजन्यजिज्ञासाधीनत्वं पञ्चम्यर्थः। व्यवस्थापनान्वयि। तथा च
प्रमाणनिरूपितप्रसङ्गसङ्गतिविषयकज्ञानजन्यजिज्ञासधीनप्रमात्वधर्मिकपरतोग्राह्यत्वप्रकारकाप्रामाण्यज्ञानानास्कन्दितनिश्चयानुकूलव्यापारानुकूलभविष्यत्कालीनकृतिमान्
सन ज्ञानोद्देश्यकप्रवृत्तिप्रयोज्यजानानामिति
ग्रन्थाभिन्नशब्दानुकूलवर्तमानकालीनकृतिमानिति बोधः।
स्वतोग्राह्यमित्यत्र [268] ज्ञानग्राहकेति। [268] परत इत्यत्र परशब्दः
अनुमानादिपर इत्याशयेनाह - [268] अनुमानादीति। आदिना
आप्तोक्तशब्दपरिग्रहः।
1.
प्रमाणनिरूपितेत्यादि। प्रमाणनिरूपितेत्यस्य संगतावन्वयः। स्वं
प्रमाणं तज्जन्या प्रमा तद्वृत्ति प्रमात्वं तनिनष्ठत्वं परतोग्राह्यत्वे ऽ
तथा च यन्निरूपणानन्तरं यन्निरूप्यते तयोरेव संगतिरूपः संबन्धः।
प्रमाणनिरूपणानन्तरं प्रमात्वस्य परतोग्राह्यत्वं निरूप्यत इति
प्रमाणनिरूपिता संगतिः परतोग्राह्यत्वे वक्तव्या। सा च
स्वजन्यवृत्तिनिष्ठत्वात्मकप्रसङ्गरूपेति भावः।
2. तन्निरूपितेत्यादि।
तन्निरूपिता प्रमाणनिरूपिता, स्मृतं प्रमात्वं तन्निष्ठं
उपेक्षविषयताविरोधिरूपं परतोग्राह्यत्वं तदात्मिका संगतिः।
3. स्वजन्येत्यादि। स्वं
प्रमाणम्, तज्जन्या प्रमा तद्वृत्ति प्रमात्वं तन्निष्ठत्वं परतोग्राह्यत्वे।
4. तन्निरूपितेत्यादि।
तन्निरूपिता प्रमानिरूपिता, संगतिरित्यन्वयः। स्वं प्रमातद्वृत्ति
प्रमात्वं तन्निष्ठत्वं परतोग्राह्यत्वे।
5. स्वशब्द इति।
स्वशब्दो ऽत्र स्वीयवाची सन् ज्ञानग्राहकसामग्रीपर इति भावः।
शङ्कते - [268] कथमिति। [268] तस्याः - विप्रतिपत्तेः। [268] अत्र
- विप्रतिपत्तिनिष्ठविचारप्रयोजकत्वविषये [268] अक्षतमिति वदन्तीत्यन्वयः। [268] हि - यतः। उपपादयति---
[268] विरुद्धेत्यादि। [268] कबलितेति।
विषयीभूतेत्यर्थः।
बोधविशेषणम्। [268] विचार इति। प्रवर्तक इति शेषः। [268] एवं च - उक्तरीत्या विचारप्रवृत्तौ च। [268] विचारोपयोगित्वमिति। विप्रतिपत्तेरित्यादिः। अत्र
ज्ञानप्रामाण्यमिति पक्षनिर्देशः। घटकत्वं सप्तम्यर्थः ज्ञानपदान्वितम्।
[239] तादृशेति। अप्रामाण्याग्राहकज्ञानग्राहकयावत्सामग्रीजन्येत्यर्थः।
[269] अत्रौक्तमतत्रये। घटकत्वं सप्तम्यर्थः गुरुमतान्वयि। [269] तदिति। गुर्वित्यर्थः। [269]
एवं च उक्तरीत्या व्यवस्थापने च। ननु
तत्प्रकारकबुद्धौ तद्ज्ञानस्य कारणत्वात् उक्तव्यवसायात् प्राक्
प्रामाण्यानुपस्थितेः कथं दर्शितव्यवसाये प्रामाण्यभानसम्भव इत्यत
आह --- [239] विशिष्टेति। [239] विशेषणेति।
तद्रूपेत्यादिः। यावदिति सामग्रीविशेषणम्। अत एवाग्रे
ज्ञानग्राहकयावदित्युक्तम्। प्रमितिकरणत्वरूपप्रामाण्यस्य परैः
स्वतोग्राह्यत्वानुपगमेन तत्र विचारासम्भवादाह [268] वस्तुतस्त्विति।
यत्तु - ज्ञानपदेन
प्रमितिकरणत्वव्यावृत्तिः न सम्भवति। परामर्शादेः
प्रमितिकरणत्वात् अत आह - वस्तुतस्त्विति इति व्याख्यानम् -
तदसत्। ज्ञानस्यैव प्रामाण्यमित्यवधारणविवक्षा
प्रमितिकरणत्वस्येन्दियसाधारणस्य व्यावृत्तिसम्भवात्। सर्वं
वाक्यमिति न्यायेन शब्देनैव तादृशार्थलाभात्। ननु विशिष्ट
यावज्ज्ञानव्यक्तीनां दुर्गहत्वात् तन्निवेशो न सम्भवतीत्यत
आह - [268] तद्धर्मेति। यावत्पदस्य
समभिव्याहृतपदार्थतावच्छेदकव्यापकत्वपरत्वादिति भावः। [274] फलतः-- तात्पर्यतः। [268]
समान्यतः
सामान्यरूपेण।
तद्धर्मप्रकारकत्वरूपज्ञानविशेषणाविशेषितेन ज्ञानत्वेनेति यावत्।
ज्ञानान्वयिनि वैशिष्ट्ये तसिल्। अन्यथा घटत्वादिघटितप्रामाण्यस्य
घटत्वादिप्रकारकज्ञानग्राहकग्राह्यत्वाभावेन विधौ बाधापत्तेः। इदं
ज्ञानं प्रमेति
ज्ञानेन
स्वात्मकानुव्यवसायनिष्ठप्रामाण्यग्रहात् प्रामाण्याग्रहादिति
दीपिकावाक्यमसङ्गतम् अत आह - [274] व्यवसायनिष्ठेत्यादिः।
सामग्र्या एव प्रामाण्यग्राहकतया अनुव्यवसायनिष्ठप्रामाण्यग्राहिकाया
इति स्त्रीलिङ्गनिर्देश एव कार्य इत्यत आह - [274] सामान्य इति। तथा च लिङ्गविशेषाविवक्षायां
नपुंसकस्यैव निर्देष्टव्यतया नोक्तदोष इति भावः।
तस्याप्रामाण्यमिति षष्ठीतत्पुरुषभ्रमवारणाय [274] सप्तमीति। [274] यादृशप्रामाण्यमि त्यादि। अत्रायं निष्कर्षः
--- तद्धर्मघटितप्रामाण्यं किञ्चिद्विशिष्टमिति। वैशिष्ट्यं
तादात्म्यस्ववृत्तिभेदप्रतियोगितावच्छेदकत्वोभयसम्बन्धेन।
अवच्छेदकता
1स्वसमानाधिकरणभेदप्रतियोगितावच्छेदकतासम्बन्धेन।
स्वाधिकरणता
स्वविशिष्टतद्धर्मप्रकारकज्ञानग्राहकसामग्रीजन्यतानत्वसम्बन्धेन।
स्ववैशिष्ट्यं स्वनिष्ठावच्छेदकताकप्रतियोगिताकभेदवत्त्वसम्बन्धेन।
1. अत्र सर्वत्र स्वशब्दः
तद्धर्मघटितप्रामाण्यपरः। स्वविशिष्टेत्यस्य ज्ञानग्राहकसामग्र्यामन्वयः।
स्वाश्रयनिष्ठविशेष्यतानिरूपिताप्रामाण्यनिष्ठप्रकारताशालिज्ञानजनकत्वसंबन्धावच्छिन्नस्वनिष्ठावच्छेदकताकप्रतियोगिताकभेदवत्त्वसंबन्धेन
स्वविशिष्टा या तद्धर्मप्रकारकज्ञानग्राहकसामग्री
तज्जन्यज्ञाननिष्ठभेदप्रतियोगितानिरूपिता या
स्वनिरूपितविषयितासंबन्धावच्छिन्नावच्छेदकता
तत्संबन्धावच्छिन्ना या स्ववृत्तिभेदप्रतियोगितावच्छेदकता तेन
संबन्धेन तादात्म्यसंबन्धेन च किञ्चिद्विशिष्टं
तद्धर्मघटितप्रामाण्यमिति फलितम्। एतत्समन्वयप्रकारः
इत्थम्---स्वं घटत्ववति घटत्वप्रकारकत्वरूपं प्रमात्वं तदाश्रयः।
अयं घट इति प्रमा; तद्विशेष्यकाप्रामाण्यप्रकारकज्ञानजनकत्वं अथं
घट इति ज्ञानग्राहकसामग्र्यां नास्तीति सा सामग्री
स्वाश्रयेत्यादितादृशजनकत्वसंबन्धावच्छिन्नस्व (प्रमात्व)
निष्ठावच्छेदकताकप्रतियोगिताकभेदवती भवति।
अतस्तादृशभेदवच्वसंबन्धेन स्वविशिष्टा या उक्तसामग्री तज्जन्यो यत्
ज्ञानं घटज्ञानविषयकं ज्ञानं तन्निष्ठो यो भेदः
स्वनिरूपितविषयितासंबन्धेन घटत्वघटितप्रमात्ववद्भेदो न
भवति, तेन संबन्धेन तादृशप्रमात्ववत्त्वात्; अपि त्वन्यभेदः
तत्प्रतियोगितावच्छेदकत्वं घटत्वघटितप्रमात्वे नास्तीति
तादृशावच्छेदकतासंबन्धेन प्रमात्ववद्भेदः तादृशप्रमात्वनिष्ठः
तत्प्रतियोगितावच्छेदकत्वं घटत्वघटितप्रमात्वे, तत्तादात्म्यं च
तत्रेति संबन्धद्वयोपपत्तिरिति। पश्चात्तनेष्वनुगमेष्वप्येवमूह्यम्।
अवच्छेदकता
सवाश्रयनिष्ठविशेष्यतानिरूपिताप्रामाण्यनिष्ठप्रकारताशालिज्ञानजनकत्वसंबन्धेन।
भेदप्रतियोगितावच्छेदकता स्वनिरूपितविषयितासम्बन्धेन। यद्वा
विषयिताविशिष्टत्वम्। वैशिष्ट्यं
स्वनिरूपकत्वस्ववृत्तिभेदप्रतियोगितावच्छेदकत्वोभयसम्बन्धेन।
अवच्छेदकत्वं
स्वसमानाधिकरणभेदप्रतियोगितावच्छेदकतासम्बन्धेन।
स्वाधिकरणता स्वाश्रयविशेष्यकेत्यादि प्राग्वत्। अत्र च सामग्र्यां
यावत्त्वपक्षे किञ्चिद्विशिष्टत्वं स्थूलानुगमः। वैशिष्ट्यं
तादात्म्यस्वविशिष्टज्ञानविषयत्वोभयसम्बन्धेन। स्ववैशिष्ट्यं
स्वसमानाधिकरणभेदप्रतियोगितावच्छेदकत्वसम्बन्धावच्छिन्नस्वनि ष्ठावच्छेदकताकप्रतियोगिताकभेदवत्त्वसम्बन्धेन।
स्वाधिकरणता
स्वविशिष्टज्ञानग्राहकतावच्छेदकव्यासज्यवृत्तित्वसम्बन्धेन।
स्ववैशिष्ट्यं
स्वाश्रयविशेष्यकाप्रामाण्यप्रकारकज्ञानजनकतावच्छेदकत्वसम्बन्धावच्छिन्नस्वनिष्ठावच्छेदकताकप्रतियोगिताकभेदवत्त्वसंबन्धेन।
भेदप्रतियोगितावच्छेदकता स्वोत्पादकतावच्छेदकतासम्बन्धेन।
तेनानन्तानां
देशान्तरीयकालान्तरीयतत्तत्कारणानामसर्वज्ञादुर्ज्ञेयत्वेन
स्वतस्त्वशरीरे तत्तन्निवेशदौर्घट्ये ऽपि न क्षतिः। एवं च गुर्वान्दिमते
व्यवसायादिकारणकूटत्वं इदं ज्ञानं मिथो विजातीयमिति
निरुक्तकिञ्चिद्विशिष्टत्वं न सुसाधमिति। शङ्कते -- [274] नन्विति। अप्रसिद्धिमुपपादयति -- [274] न हीति। [264] एकम् - एकजातीयम्। [274]
न जन्यत इत्यन्वयः। अत्र च
यावन्तस्तादृशाः धर्माः तदवच्छिन्नोत्पाद्यज्ञानविषयत्वे सति
तदवच्छिन्नोत्पाद्यज्ञानविषयत्वमिति रीत्या स्वतस्त्वं साध्यमिति
नोक्ताप्रसिद्धिरिति। शङ्कते -- [274] न चेति।
ननु
प्रथमोपात्तस्याग्राहकान्तस्यैव प्रथमं प्रयोजनं वक्तव्यमिति तदुपेक्ष्य
चरमोपात्तस्य यावत्त्वविशेषणस्य प्रथमं
प्रयोजनकथनमनुचितमित्याशङ्कां परिजिहीर्षुराह - [273] यावत्त्वेत्यादि। अयं भावः -- अग्राहकान्तस्य
प्रयोजनं हि
अप्रामाण्यग्राहकसामग्रीवारणम्, तच्च सामग्र्यां यावत्त्वाप्रवेशे न
निर्वहति। प्रामाण्यग्राहकसामगीमादाय प्रामाण्ये स्वतस्त्वस्य
सूपपादत्वात्। तत्र तद्विशेषणसत्त्वे तु अप्रामाण्यग्राहकसामग्र्या अपि
तादृशयावदन्तर्गतत्वेन प्रामाण्यस्य तदग्राह्यतया बाधः स्यादिति
यावत्त्वविशिष्टणसत्त्वस्याग्राहकान्तसार्थक्योपपादकत्वंमिति। [273] प्रथमतः - अग्राहकान्तप्रयोजनकथनात् प्राक्।
सामाग्रीगतयावत्त्वविशेषणेन वारणीयं सिद्धसाधनमुपपादयति -
[273] नैयायिकेति। यद्यपिं विधिकोटौ यावत्त्वविशेषणस्य
सिद्धसाधनवारणफलसम्भवे ऽपि निषेधकोटौ न तत्सम्भवः। तथापि
बाधवारणमेव फलं निषेधकोटौ सम्भवतीत्याह - [274] नैयायिकेति। [274] वाक्येन चेत्यनेन
अनुमानादीत्यादिपदार्थ उक्तः। [273]
इदं ज्ञानमप्रमेति ज्ञानेन
प्रामाण्याग्रहादित्यत्र तादृशज्ञानप्रयुक्तप्रामाण्यग्रहाभावादित्यर्थः
यथाश्रुतो लभ्यते। स च प्रकृतानुपयुक्तः, बाधस्यैव प्रकृते
वक्तव्यत्वात्, अतः प्रामाण्याग्रहादित्यस्य
प्रामाण्याविषयीकरणादित्यर्थमाह - [274] प्रामाण्येत्यादि। [274] तादृशेति। इदं ज्ञानमप्रमेत्याकारकेत्यर्थः। [274] तया उक्तज्ञानासामग्र्या। [274]
विशिष्टेति। अवच्छिन्नेत्यर्थः। यद्यपि
इदं ज्ञानमप्रमेति ज्ञाने प्रामाण्यं प्रतियोगितया विषयः तथापि
ज्ञानग्राहकसामग्रीजन्यग्रहीयप्रतियोगितासम्बन्धावच्छिन्नविषयत्वं
स्वतोग्राह्यत्वम्, अथवा
स्वाश्रयनिष्ठविशेष्यतानिरूपितस्वनिष्ठप्रकारताकत्वसम्बन्धेन
व्यापकत्वं विवक्षितमिति नासङ्गतिः। [280] स्वत एव गृह्यत इति।
इदमत्र चिन्त्यम्-अत्र एवकारः गृह्यत इत्यनन्तरं योजनया ऽगृह्यत
एवेऽत्यर्थः। तथा चायं क्रियासङ्गत एवकारः नीलं सरोजं
भवत्येवेतिवत्। अतो न विरोध इति तस्य
अप्यर्थकताकथनमनुपपन्नमिति। इदमत्र बोध्यम् - सामग्र्यां
यावत्त्वप्रवेशे ज्ञानविशिष्टत्वं सूक्ष्मानुगमः। वैशिष्ट्यं
विषयत्वस्ववृत्तिभेदप्रतियोगितावच्छेदकत्वोभयसम्बन्धेन।
अवच्छेदकता स्वसमानाधिकरणभेदप्रतियोगितावच्छेदकतासम्बन्धेन।
स्वाधिकरणत्वादिकं पूर्ववत्। [274] विशिष्य -
तत्तत्कारणकूटत्वेन। एवमग्रे ऽपि। ताद्रूप्येणेत्यत्र ज्ञाने
यावत्त्वप्रवेशे भेदविशिष्टत्वमिति सूक्ष्मानुगमः। वैशिष्ट्यं
स्वप्रतियोगितावच्छेदकत्वस्वाश्रयत्वोभयसम्बन्धेन। अवच्छेदकत्वं
स्वसमानाधिकरणभेदप्रतियोगितावच्छेदकत्वसम्बन्धावच्छिन्नम्।
स्वाधिकरणता स्वविशिष्टज्ञानग्राहकसामग्रीजन्यग्रहत्वसयम्बन्धेन।
स्ववैशिष्ट्यं
स्वाश्रयविशेष्यकाप्रामाण्यप्रकारकज्ञानजनकत्वसम्बन्धावच्छिन्नस्वनिष्ठावच्छेदकताकप्रतियोगिताकभेदवत्त्वसम्बन्धेन।
भेदप्रतियोगितावच्छेदकता स्वनिरूपितविषयितासम्बन्धेन। [274] सङ्क्षेप इत्यनेन प्रामाण्यवादगादाधर्यामुक्तं
सर्वमभिसंहितम्।
ननु
तद्वद्विशेष्यकत्वावच्छिन्नतत्प्रकारकत्वं हि तत्प्रमात्वम्। तत्कथं
पुरोवर्तिनीत्यादिदीपिकावाक्यसङ्गतिरित्यत आह - [280] पुरोवर्तिनीति। ननु पुरोवर्तिनि
प्रकारसम्बन्धभानव्यवस्थापनमात्रेण कथं
विशिष्टप्रामाण्यभानसिद्धिरनुव्यवसायादावित्यत आह - [280] नैयायिका अपीति। ननु विशिष्टबुद्धौ विशेषणज्ञानस्य
हेतुत्वात् कथमनुव्यवसाये प्रागनुपस्थितविशेष्यत्वादिभानमित्यत
आह - [281] अनुपस्थितयोरपीति। अयं भावः -
विशेषणज्ञानस्य हेतुत्वं विशेषणभेदेन भिन्नभिन्नमिति
फलानुरोधेन प्रकृते न तादृशकारणत्वकल्पनमिति।
ननु
व्यवसायज्ञाततालिङ्गकानुमितिभ्यां प्रामाण्यग्रहणस्य
गुरुभट्टाभ्यामुपपगमात् [242]
अनुव्यवसायेनेत्युक्तिः दीपिकायां
कथमित्याशङ्क्य तस्य मिश्रमताभिप्रायकतामाह - (इदं चेति।)
तन्निरसनप्रकारो बोध्य इति। न च तथासति घटं जानामीतयादौ
घटादेः ज्ञानादिक्रियाकर्मतानुपपत्तिः क्रियाजन्यफलशालिताया एव
कर्मतारूपत्वादिति, तत्र द्वितीयानुपपत्तिरिति वाच्यम्।
तादृशफलशालित्वस्य मुख्यकर्मतारूपतया ग्रामं गच्छतीत्यादावेव
ग्रामादौ तदुपगमात्। घटं जानातीत्यादिषु तदनभ्युपगमात्
विषयतालक्षणगौणकर्मताया एव तत्र स्वीकरणात्। अन्यथा
ऽघटमिच्छतिऽ घटं द्वेष्टीऽत्यादौ
इष्टत्वादिरूपपदार्थान्तरकल्पनापातात् इति।
[283] सङ्क्षेप इति। अयं भावः -
अगृहीताप्रामाण्यकत्वमप्रामाण्यज्ञानानास्कन्दितत्वम्,
तच्चाप्रामाण्यप्रकारतानिरूपितविशेष्यत्वसामानाधिकरण्योभयसम्बन्धावच्छिन्नज्ञानत्वावच्छिन्नप्रतियोगिताकाभावः।
एवं भ्रमत्वज्ञानाभावप्रमात्वग्रहाभावावपि निवेश्यौ।
एवमप्रामाण्यज्ञाने अप्रामाण्यज्ञानं यत्रोत्पन्नम् तत्र प्रवृत्त्युपपत्तये
अप्रामाण्यज्ञानधर्मिकाप्रामाण्यज्ञानत्वेन पृथक्कारणत्वं
कल्पनीयम्। अधिकं प्रामाण्यवादादौ द्रष्टव्यमिति। [283] प्रामाण्यव्यवस्थापकहेतोः सफलप्रवृत्तिजनकत्वरूपेत्यादिः।
प्रामाण्ये परतो ग्राह्यत्वस्य मीमांसकैरप्युपगमात्
सिद्धसाधनमाशङ्क्य एवकारपूरणेन व्याचष्टे - [282] प्रामाण्यस्यानुमानादित एवेति। [282] एतेन - अनुव्यवसायादौ
प्रामाण्यभानासम्भवस्थापनेन। [282]
व्यभिचार इति। व्यतिरेकेत्यादिः।
[287] एवं ज्ञप्तावित्यादि
उक्तप्रकाराभिन्नज्ञप्तिधर्मिकपरतस्त्वव्यवस्थापकध्वंसविशिष्टः
उत्पत्तिधर्मिकपरतस्त्वप्रकारकज्ञानानुकूलशब्दः तत्कर्तेत्यन्वयबोधः।
[287] मात्रेति। मात्रपदमत्रकार्त्स्न्यपरम्। [287] व्युदास इति ज्ञानत्वादीनामतथात्वादिति भावः। ननु
प्रमासाधारणकारणत्वं
प्रमानिष्ठकार्यत्वातिरिक्तधर्मावच्छिन्नकार्यतानिरूपितकारणत्वम्।
एवं च कालादिवारणे ऽपि आत्मादिवारणमशक्यमत आह - [287] प्रमात्वाधिकेत्यादि।
प्रमात्वविशिष्टकार्यतानिरूपितकारणत्वमिति निष्कर्षः। वैशिष्ट्यं
1स्वाधिकरणवृत्तित्वस्वविशिष्टधर्मावच्छिन्नत्वोभयसंबन्धेन।
1. स्वाधिकरणेत्यादि।
स्वाधिकरणवृत्तित्व -
स्वाधिकरणवृत्तित्वस्वाभावाधिकरणवृत्तित्वोभयसंबन्धावच्छिन्नस्वन् इष्ठावच्छेदकताकप्रतियोगिताकभेदवद्धर्मावच्छिन्नत्वोभयसम्बन्धेन
प्रमात्वविशिष्टा या कार्यता तन्निरूपितकारणत्वं
प्रमासाधारणकारणत्वमित्यर्थः। स्वं प्रमात्वं तदधिकरणं प्रमा
तन्निष्ठत्वं कार्यतायाम्, एवं स्वं प्रमात्वं तदधिकरणं
प्रमातद्वृत्तित्वं ज्ञानत्वे स्वं प्रमात्वं तदभावाधिकरणभ्रमवृत्तित्वं च
ज्ञानत्वे इति ज्ञानत्वं
स्वाधिकरणवृत्तित्वस्वाभावाधिकरणवृत्तित्वोभयसम्बन्धेन
प्रमात्ववत्, प्रमात्वं तु न तथा तस्य
प्रमात्वाभावाधिकरणवृत्तित्वाभावात्, अतः
तादृशोभयसम्बन्धावच्छिन्नप्रमात्वनिष्ठावच्छेदकताकप्रतियोगिताकभेदवत्
प्रमात्वं तदवच्छिन्नत्वं च प्रमानिष्ठकार्यतायामिति उभयसम्बन्धेन
प्रमात्वविशिष्टा कार्यता भवतीति समन्वयो ज्ञेयः।
वैशिष्ट्यं
स्वनिष्ठावच्छेदकताकप्रतियोगिताकभेदवत्त्वसम्बन्धेन। अवच्छेदकता
स्वाधिकरणवृत्तित्वस्वाभावाधिकरणवृत्तित्वोभयसम्बन्धेन।
कार्यतायां प्रमानिष्ठनिवेशफलमाह - [287] भ्रमेति। [287] इत्यादावित्यादिना वंशोरगभ्रमादिसङ्ग्रहः। [287] पित्तादीत्यादिना मण्डूकवसञ्जनादिग्रहणम्।
[289] विसंवादोति। तदभाववति
तत्प्रकारकेत्यर्थः। बोध्येति। एतेन धर्मिणो ऽप्रसिद्ध्या
निषोधो ऽनुपपन्न इति शङ्का निरस्ता।
[289] कॢप्तनियतेति। एतेन
कल्पनासाम्यशङ्कानिरासः। ननु इष्टभेदाग्रहमात्रस्य
कारणत्वोपपत्तौ इष्टे स्वतन्त्रोपस्थितत्वविशेषणं व्यर्थमित्यत
आह -- [289] एतावतेति। ननु
इष्टभेदाग्रहस्यैवेत्येवकारासङ्गतिः।
स्मृतेरप्यपेक्षितत्वेनेतरव्यवच्छेदस्य तेनाशक्यत्वादित्यत आह ---
[289] एवकारेणेति। [289] लाघवादिति। अन्यथा तद्वति
तत्प्रकारकत्वस्याधिकस्य निवेशे कार्यतावच्छेदकगौरवादिति भावः।
[289] सामान्यः-- सामान्यरूपेण। अभेदः प्रत्ययार्थः वृत्तित्वान्वयी।
अयथार्थानुभवनिरूपणम्
[292] प्रदेशविशेषेत्यादि। प्रदेशविशेषः
निद्रानाडीविशेषः। तत्रावस्थितं यन्मनः तेन आत्मनः संयोग
इत्यर्थः। [292] तदसमवायिकारणकेत्यादि। अयं भावः ---
स्वप्नशब्दस्य ज्ञानविशेष एव लक्षणा तदसप्तवायिकारणकेत्यनेन
शक्यसम्बन्धस्सूचित इति। [292]
भाक्तः लाक्षणिकः। [292] तत्भाष्यविरुऽमिति। अननुभूतार्थविषयकस्य स्वाप्नज्ञानस्य
दर्शनात्। स्मृतेश्चातथात्वादिति भावः। ननु पटत्ववानिति
ज्ञानवारणमपि नानात्वनिवेशप्रयोजनं संभवतीति
घटत्वविरुद्धपटत्वानिति ज्ञानपर्यन्तानुघावनं विफलमित्याशङ्क्याह
- [292] कोट्योरिति। ननु घटत्वविरुद्धपटत्ववानिति ज्ञाने ऽपि
घटत्वपटत्वरूपनानाधर्मप्रकारकत्वसत्त्वात् कथं तद्वारणमिति,
तत्राह - [293] एकधर्मिकेति। अयं भावः -
1प्रकारताविशिष्टज्ञानत्वं संशयत्वम्। वैशिष्ट्यं
स्वनिरूपकत्वस्वावच्छिन्नविषयतानिरूपितविरोधविषयतानिरूपितविषयत्वावच्छिन्नत्वस्वनिरूपितविशेष्यतासमानाधिकरणविशेष्यतानिरूपितत्वोभयसम्बन्धेन
स्वविशिष्टप्रकारतानिरूपकत्वोभयसंबन्धने। एवमपि पर्वतो
वह्निमान् द्रव्यं
वह्निविरुद्धजनवत्।
इति ज्ञाने अतिव्याप्तिर्दुर्वारैवेति शङ्कते -- [293] न
चेति। [293] एकधर्मावच्छिन्नेत्यादि। अयमाशयः --
स्वनिरूपितविशेष्यतासमानाधिकरणत्वस्थले
स्वनिरूपिताविशेष्यतावच्छेदकावच्छिन्नविशेष्यतानिरूपितत्वं
निवेश्य 2अन्यत् पूर्ववत् बोध्यमिति। [293] दिगिति।
1.
प्रकारताविशिष्टेत्यादि। पर्वतो वह्निमान् न वेति संशये वह्निः
तदभावश्च प्रकारः। वह्नितदभावयोर्विरोधः संसर्गतया भासते।
वह्निनिष्ठप्रकारतानिरूपिता पर्वतनिष्ठा विशेष्यता अन्या,
वह्न्यभावनिष्ठप्रकारतनिरूपिता पवतनिष्ठा विशेष्यता अन्या, इति
स्थितिः। एतां मनसिकृत्य अनुगमस्य समन्वयो ज्ञेयः। तथा हि - स्वं
वह्निनिष्ठप्रकारता तन्निरूपकत्वं उक्तसंशयात्मकज्ञाने, एवं स्वं
वह्निनिष्ठप्रकारता तदवच्छिन्ना या वह्निनिष्ठा विषयता
(विरोधनिष्ठविषयतानिरूपितविषयता) तन्निरूपिताया
विरोधनिष्ठा विषयता तन्निरूपितविषयता वह्न्यभावनिष्ठविषयता
तदवच्छिन्नत्वं वह्न्यभावनिष्ठप्रकारतायां स्वं वह्निनिष्ठप्रकारता
तन्निरूपिता या पर्वतनिष्ठा विशेष्यता तत्समानाधिकरणा या
विशेष्यता पर्वतनिष्ठां वह्न्यभावप्रकारता निरूपिता विशेष्यता
तन्निरूपितत्वं च वह्न्यभावनिष्ठप्रकारतायामिति उभयसंबन्धेन
वह्निनिष्ठप्रकारताविशिष्ठा या प्रकारता वह्नयभावनिष्ठा
तन्निरूपकत्वं च पर्वतो वह्निमान्न वेति संशये ऽस्तीति। अत्र
वह्निनिष्ठा विरोधनिष्ठसंसर्गताख्यविषयतानिरूपिता विषयता
पर्वतनिष्ठविशेष्यतानिरूपितया वह्निनिष्ठप्रकारता अवच्छिद्यते,
वह्न्यभावनिष्ठा या पर्वतनिष्ठविशेष्यतानिरुपितप्रकारता स
विरोधनिष्डठविषयतानिरुपितवह्न्यभावनिष्ठविषयतया अवच्छिद्यते,
अन्तराभासमानपदार्थनिष्ठविषयतयोरवच्छेद्यावच्छेदकभाव इति
इति सिद्धन्तादित्यपि ध्येयम्।
2. अन्यत् पूर्ववदिति।
तथा च प्रकारताविशिष्टज्ञानत्वं संशयत्वम्। वैशिष्ट्यं च
स्वनिरूपकत्व-स्वावच्छिन्न्विषयतानिरूपितविरोधविषयतानिरूपितविषयतावच्छिन्नत्व,
स्वनिरूपितविशेष्यतावच्छेदकावच्छिन्नविशेष्यतानिरूपितत्वोभयसंबन्धेन
स्वविशिष्टप्रकारतानिरूपकत्वोभयसंबन्धेनेति भावः।
अयं भावः- यद्यपि
प्रत्येकं धर्मंयोरेकत्वमस्ति तथापि
1स्वावच्छिन्नविशेष्यतानिरूपिततन्निष्ठप्रकारताकत्वस्वावच्छिन्नविशेष्यतानिरूपिततदभावनिष्ठप्रकारताकत्वोभयसम्बन्धेन
धर्मविशिष्टज्ञानत्वं, प्रकारताविशिष्टप्रकारताशालिज्ञानत्वं वा
संशयत्वम्। द्वितीये वैशिष्ट्यं
2स्वनिरूपितविशेष्यतावच्छेदकावच्छिन्नविशेष्यतानिरूपितत्वस्वावच्छेदकावच्छिन्नविषयतानिरूपितविरोधविषयतानिरूपितत्वस्वानवच्छेदकावच्छिन्नत्वत्रितयसम्बन्धेन।
अतो न दोष इति। [293] तन्त्रान्तरे - अद्वैतशास्त्रे। [293] तत्प्रकारकत्वेत्यादि इत्यादिनां
तदभाववन्निष्ठविशेष्यतानियपिततन्निष्ठप्रकारताकत्वपरिग्रहः। [293] सङ्क्षेप इति। अयमाशयः -- यद्यपि इदं रजतम् भूतलं
घटवत नवेत्याद्यांशिकसंशये ऽव्याप्तिरस्ति, तथापि तदंशे
संशयान्यत्वनिवेशात् न दोषः। तदंशे संशयत्वं चैकस्मिन्
धर्मिणि तत्तदभावोभयप्रकारतकत्वमिति। [293] शाखादावित्यादि।
इदमुपलक्षणम् - पुरुषत्वनिश्चयस्याहार्यत्वोपपत्तये
पुरुषत्वनिश्चयो जायतामितीच्छाया वाच्यत्वात्। अन्यथा
बाधकालीलनेच्छाजन्यज्ञानत्वलक्षणस्याहार्यत्वस्य तत्रासम्भवात्।
ज्ञानेच्छयोः युगपदुत्पादमते तादृशभ्रमदशायामेव
इच्छादिसम्भवादिति ध्येयम्। [293] उपयोगित्वम्
प्रयोजकत्वम्। [298] वेदनीयमित्यादि इत्यादिना
प्रतिकूलतया वेदनीयं दुःखमित्यस्य सङ्ग्रहः। [298] सुखादीत्यादिना दुःखपरिग्रहः। [298] अव्याप्तेरिति।
इदमुपलक्षणम्। असाधूनां परद्रव्योपभोगादिजन्यनरकादिदुखे
द्वेषादर्शनात् अव्याप्तेरित्यपि
1. स्वावच्छिन्नेत्यादि।
स्वं पर्वतत्वं
तदवच्छिन्नविशेष्यतानिरुपितवह्निनिष्ठप्रकारतानिरुपकत्वं ऽपर्वतो
वह्निमान्नवेऽति संशये, एवं स्वं पवतत्वं
तदवच्छिन्नविशेष्यतानिरूपितवह्न्यभावनिष्ठप्रकारतानिरूपकत्वं च
तादृशयसंशये इति समबन्वयः।
2. स्वनिरूपितेत्यादि।
स्वं वह्निनिष्ठप्रकारता
तन्निरूपितपर्वतनिष्ठविशेष्यतावच्छेदकंपर्वतत्वं
तदवच्छिन्नविशेष्यतानिरूपितत्वं वह्न्यभावनिष्ठप्रकारतायां, एवं
स्वं वह्निनिष्ठप्रकारता तदवच्छेदकं वह्नित्वं
तदवच्छिन्नविषयतानिरूपिता या विरोधनिष्ठविषयता
तन्निरूपितत्वं वह्न्यभावनिष्ठप्रकारतायां, एवं स्व
वह्निनिष्ठप्रकारता स्वानवच्छेदकंवह्न्यभावत्वं तदवच्छिन्नत्वं च
वह्न्भावनिष्ठप्रकारतायाम् तच्चदालिज्ञानत्वं संशये ऽस्तीति
समन्वयः।
द्रष्टव्यम्। [298] सुख्यहमित्यादीत्यादिना दुःख्यहमित्यस्य सङ्ग्रहः।
एवमग्रे ऽपि।
स्मृतिनिरूपणम्
अनुभवजन्येत्यस्य
प्रयोजनमाह - दीपिकायाम् [299]
आत्मादाविति। ननु
जन्यत्वनिवेशमात्रेणात्मकादिवारणे ऽनुभवेत्यंशो विफल
इत्याशङ्कायां उक्तम् - आदाविति।
आदिपदेनात्ममनोयोगपरिग्रहः। अनुभवत्वं नाम
स्मृतिभिन्नज्ञानत्वम्। तथा च कारणतावच्छेदकशरीरे
स्मृतिभिन्नत्वप्रवेशे गौरवात् ज्ञानत्वमात्रेण लाघवात्
कारणत्वमुचितमित्याशङ्कायामाह - प्रकाशिकायाम्। [300] अनुभवत्वस्यापीति। [300]
जातित्वेनेति। तत्र प्रमाणं तु
अनुभवामीत्यनुव्यवसाय एव, जानामीत्यनुव्यवसायो ज्ञानत्व
इवेति ध्येयम्। [300] अन्यथासिद्धिनिरूपकत्वादिति।
तत्तद्धर्मभेदप्रतियोगित्वादित्यर्थः। अन्यथा
अत्यन्ताहेतुभूतस्मरणानां कारणत्वस्वीकारे गौरवादिति भावः।
[300] स्वजन्येति। स्वं संस्कारः। एवमग्रे ऽपि। पुनरनुभवान्तरेण
स्मृतिर्जायत इति शङ्कावारणाय [300] सकृदित्यादि। [300] चरमेति। चरमत्वमत्र
स्वजनकसंस्कारजन्यस्वसमानविषयकस्मृतिप्रागभावासमानकालीनत्वं
स्वप्रागभावसमानकालीनत्व-स्वजनकसंस्कारजन्यत्व-स्वसमानविषयकत्वत्रितयसम्बन्धेन
स्मृतिवशिष्टान्यत्वपर्यवसितम्। [300] अनायत्या
तत्तव्द्यक्तित्वेनेति। इदमत्र चिन्त्यम्स्वरूपसम्बन्धेन
तद्विषयकसंस्कारनाशं प्रति तद्विषयकचरमस्मृतित्वेन
समवायसम्बन्धेन हेतुत्वोपगमे बाधकाभावः। अन्यथा
तत्समानकालीनवायुसंयोगादिकमादाय
विनिगमनाविरहापातादिति। [300] संस्कारस्य
फलनाश्यतयेति। एतेन पूर्वजातानुभवेनैव
संस्काररूपव्यापारद्वारा स्मरणोत्तरं स्मरणोपपत्तिरिति शङ्का
निरस्ता। संस्कारात्मकस्य व्यापारस्य तदानीं नष्ठत्वेन तद्द्वारा
प्रागनुभवस्य स्मरणोत्तरस्मरणदशायामभावात्। अनुभवस्य च
संस्कारलक्षणव्यापारद्वरैव स्मृतिहेतुतायाः सर्वसम्मतत्वादिति।
[300] अन्यूनविषयकस्यैवेति। अयं भावः -
स्वसमानेत्यादिभेदवत्त्वसम्बन्धावच्छिन्नाधेयत्वसामानाधिकरण्योभयसम्बन्धेन
स्वसमानाधिकरणभेदप्रतियोगितावच्छेदकत्वसम्बन्धावच्छिन्नस्वनि ष्ठभेदप्रतियोगितावच्छेदकत्वासामानाधिकरण्योभसम्बन्धेन
वा स्मृतेः कारणत्वमुपगन्तव्यम्। स्वाधिकरणता
स्वनिरूपितविषयतासम्बन्धेन। भेदप्रतियोगितावच्छेदकतापि
तेनैव सम्बन्धेन। [300] झटिति स्मृतीत्यादि। इदं
जातिविशेषप्रमाणसूचनाय झटिति स्मृतिजनकतावच्छेदक इत्यर्थः।
प्रमाणं चानुमानं जनकतापक्षकं बोध्यम्। [300] संस्कारातिशयः - संस्कारगतो जातिविशेषः।
नन्वनुभवजन्येत्यादिसंस्कारलक्षणस्य
स्मरणजन्यसंस्कारे ऽव्याप्तिरित्यत्राह - [300] एतन्मत इति। नव्यमत
इत्यर्थः।
विशेषगुणलक्षणम्
[303] पृथिवीत्वेत्यादि।
स्वाधिकरणवृत्तित्वस्वभिन्नद्रव्यविभाजकोपाध्यधिकरणवृत्तित्वोभयसम्बन्धेन
द्रव्यविभाजकोपाधिविशिष्टावृत्तिजातिमद्गुणत्त्वमिति फलितम्। अत्र
तादृशोपाधिद्वयाधिकरणाप्रसिद्ध्या प्रत्येकमित्युक्त्म्। [303] तादृशत्वात्-द्रव्यविभाजकोपाधिविशिष्टावृत्तित्वात्। [303] अवान्तरेति। व्याप्येत्यर्थः। एवमग्रे ऽपि। [303] तादृशोपाधिद्वयेत्यादि। द्रव्यविभाजकोपाधिविशिष्टान्यत्वं
शून्यान्तेन विवक्षणीयम्। वैशिष्ट्यं
स्वविशिष्टवृत्तिगुणत्वन्यूनवृत्तिजातिमत्त्वसम्बन्धेन। स्ववैशिष्ट्यं
स्वाधिकरणवृत्तिन्त्वस्वभिन्नद्रव्यविभाजकोपाध्यधिकरणवृत्तित्वोभयसम्बन्धेन।
[303] संख्यात्वादेस्सत्त्वादिति। सङ्ख्यात्वादेः तादृशद्वित्वादिवृत्तेः
विद्यमानत्वादित्यर्थः। [303] नीलत्वादिकमित्यादि। यद्यपि इदानीं
रूपत्वादिकमादायापि लक्षणगमनसम्भवः। तथापि
वक्ष्यमाणपरिष्कारानुसरणेन रूपत्वादिकमुपेक्षितम्। अत्र
न्यूनवृत्तित्वविशेषणं
गुणत्वादिकमादायासम्भववारणाय। [303] यद्रूपवावच्छिन्नेत्यादि।
अयमर्थः ---
द्रव्यविभाजकोपाधिविशिष्टान्यस्थितस्थापकवृत्तिजातिमद्गुणत्वं
विशेषगुणलक्षणम्। वैशिष्ट्यं च
स्वाधिकरणवृत्तितावच्छेदकत्वस्वभिन्नद्रव्यविभाजकोपाध्यधिकरणवृत्तितावच्छेदकत्वोभयसंबन्धेन।
तेन न भेदकूटनिवेशनिबन्धनगौरवम्।
तादृशोपाधिद्वयत्वावच्छेदेन
सामानाधिकरण्यान्वयस्वारस्यव्यावर्तककिञ्चित्वनिवेशकृताननुगमश्च।
तादृशयत्किञ्चिदेकभेदनिवेशने एकत्वत्वादिभेदमादाय
द्वित्वादावतिप्रसङ्गः। एवं द्रव्यत्वादिरूपोपाधौ सङ्ख्यारूपस्य
द्वित्वस्यासम्भवात् अपेक्षाधीनविषयत्वरूपस्य तस्य वाच्यत्वेन
महागौरवस्य यत्त्वतत्त्वप्रवेशेन लक्षणस्य विशिष्टैकार्थन्ताविरहात्
रूपं विशेषगुणैत्यादौ वाक्यभेदप्रसङ्गस्य च नावकाश इति।
[303] समवायसंबन्धघटितस्यैवेति। न्यथा
कालिकादिसम्बन्धघटितसामानाधिकरण्यमादायासम्भवापत्तेः। [304]
न देयमिति।
स्थितस्थापकत्वस्य यद्रूपपदेन धर्तुमशक्यत्वादिति भावः।
नन्वनुष्णाशीतः पृथिवीवाय्वोरित्युक्तत्वात् अनुष्णाशीतत्वस्य
यद्रूपपदेन धर्तुं शक्यतया अनुष्णाशीतस्पर्शे ऽव्याप्तिरित्यत्राह ---
[304] पार्थिवेति। तथा च तत्रापि वैजात्यविशेषमादाय
लक्षणगमनमिति भावः। [304] तत्र -- सङ्ख्यादिषु। एवमग्रे ऽपि। [304] तादृशेति। उक्तोभायसम्बन्धेन
द्रव्यविभाजकोपाधिविशिष्टान्येत्यर्थः।
यत्तु केनचिदुक्तम् -
तादृशजातिमत्त्वे सति गुणत्वमेव लक्षणमास्ताम्, किं
निषेधद्वयोपादानेनेति -- तन्न - तथासति रूपत्वादिजातिमादाय
रूपादिविशेषगुणेष्वतिप्रसङ्गात्। निषेधद्वयोपादाने तु
तादृशनीलत्वादिजातिसत्त्वेनातिव्याप्त्यप्रसक्तेः तस्यावश्यकत्वदिति।
कर्मनिरूपणम्
[309] मूलोक्तमित्पयादि।
पत्राद्याकुञ्चनक्रियायामव्याप्तिरिति भावः। [309] इत्याहेति।
इत्याशयेनाहेत्यर्थः।
सामान्यनिरूपणम्
ननु सामान्यानां
लक्षणे एकत्वनिवेशनं विफलमित्यत आह - [309] एकपदमिति। ननु
सामान्यलक्षणे
एकत्वावच्छिन्नप्रतियोगिताकभेदरूपानेकत्वशरीरप्रविष्टमेकत्वं किं
सङ्ख्यारूपम् अत एकमात्रवृत्तिधर्मः। नाद्यः, गुणादौ गुणाद्यनुपगमेन
गुणत्वादौ लक्षणगमेनऽपि द्रव्यत्वादावव्याप्तेः। नोत्तरः;
तादृशधर्मस्पय केवलान्वयितया
तदवच्छिन्नप्रतियोगिताकभेदाप्रसिद्धेः। मैवम् --- यतो ऽत्र
प्रमेयविशिष्टत्वं भेदविशिष्टत्वं वा अनेकसमवेतत्वम्। प्रथमे
वैशिष्ट्यं स्वसमवेतत्वस्वभिन्नसमवेतत्वोभयसम्बन्धेन। द्वितीये
स्वप्रतियोगिसमवेतत्वस्वानुयोगिसमवेतत्वोभयसम्बन्धेन। अतो न
दोष इति।
विशेषनिरूपणम्
[309] परस्परमिति। परस्परत्वं च
स्वाश्रयनिरूपितभेदाश्रयनिरूपितत्वम्
स्वनिरूपकाश्रयवृत्तित्वस्वाश्रयनिरूपितत्वोभयसंबन्धेन
भेदविशिष्टत्वपर्यवसितम्। [309]
भेदसाधका इति। एतेन व्यावर्तका
इत्यत्र व्यावृत्तिशब्दार्थः भेदः साधकः प्रत्ययार्थ इति
स्फुटीकृतम्। [309] न च सुग्रहमित्यन्वयः। अत्र च प्रागुक्तरीत्या
धर्मिग्राहकप्रमाणसिद्धमिथोभेदानां विशेषाणां ऽअयं विशेषः
तद्विशेषात् भिद्यते तादात्म्येन एतद्विशेषाऽदित्यनुमानेनापि
धर्मिमानोपजीविना मिथोभेदसिद्धिरिति स्वतो व्यावर्तकता
तेषामित्याह - [309] स एवेति। [309] अत्यन्तं संकीर्णानामिति।
अत्यन्तदुर्ग्रहभेदानामित्यर्थः। स्वसजातीयानां विशेषान्तराणां
परस्परमित्यत्रापि पूर्ववदेव बोध्यम्। [309] तत्रापि - विशेषे ऽति
नानवस्थेति। अत्र वक्तव्यम् प्राग्रेव प्रपञ्चितम्।
समवायनिरूपणम्
[310] नीलो घट इति विशष्टप्रतीतिरित्यादि।
अयमत्रानुमानपरिष्कारः ---
घटादिविशेष्यतानिरूपितनीलरूपादिप्रकारता
किञ्चिन्निष्ठसंसर्गतानिरूपिका प्रकारतात्वात्
संयोगनिष्ठसंसर्गतानिरूपकदण्डादिविशेष्यतानिरूपितदण्डादिप्रकारतावदिति
रीत्या बोध्यः। अत्र संयोगादेः बाधनिश्चयसहायबलात्
संयोगाद्यतिरिक्तकिञ्चिन्निष्ठसंसर्गतानिरूपकत्वसिद्धिरिति स एव
संबन्धः समवायशब्दित इति ध्येयम्। ननु समवायसद्भावे
नीलो घट इत्यादिप्रत्यक्षमेव प्रमाणं भविष्यतीति
अनुमानपर्यनतानुधावनवैफल्यमित्यत आह - [311] वैशेषिकेत्यादि। वैशेषिकैः समवायप्रतयक्षतानुगमादिति
भावः। संग्रहे [310] तावयुतसिद्धाविति। अथात्र
किमिदमयुतसिद्धत्वम्, न तावत् युतसिद्धभिन्नत्वम्। युतसिद्धस्यैव
दुर्निरूपत्वात्। नापि
संयुक्तत्वम् घटकपालादौ तदसम्भवात्। न च ययोर्द्वयोर्मन्ध्ये
एकमपराश्रितमेवावतिष्ठते तत्त्वमयुतसिद्धत्वमिति वाच्यम्।
यत्त्वतत्त्वाननुगमेनायुतसिद्धपदार्थतावच्छेदकस्याननुगतत्वादि ति -
अत्र केचित् - द्वित्वविशिष्टद्वित्वमेवायुतसिद्धम्। वैशिष्ट्यं
तादात्म्यस्वाश्रयव्यक्तिविशिष्टत्वोभयसम्बन्धेन। वैशिष्ट्यं च
स्वविशिष्टवृत्तित्वसम्बन्धेन। स्ववैशिष्ट्यं च
स्वनिष्ठावच्छेदकताकप्रतियोगिताकभेदवत्त्वसम्बन्धेन। अवच्छेदकता
च स्वनिष्ठप्रतियोगिताकात्यन्ताभाववत्त्वसम्बन्धेन। प्रतियोगिता
चाधेयतासम्बन्धावच्छिन्ना घटकपालादिगतद्वित्वस्य स्वपदेनोपादाने
तदाश्रयीभूतकपालादिव्यक्तीनामाधेयतासम्बन्धावच्छिन्नस्वनिष्ठप्रतियोगिताकात्यन्ताभाववत्त्वसम्बन्धावच्छिन्नस्वनिष्ठावच्छेदकताकप्रतियोगिताकभेदवत्त्वसम्बन्धेन।
कपालदिविशिष्टघटादौ वृत्तित्वस्य तादात्म्यस्य चोक्तद्वित्वे सत्त्वात्
लक्षणसमन्वयः।
भूतलादेस्तु
घटादिशून्यतादशायां
आधेयतासम्बन्धावच्छिन्नप्रतियोगिताकात्यन्ताभावसत्त्वात्
निरुक्तसम्बन्धेन भूतलादिविशिष्टत्वस्य घटादावसत्त्वात्
भूतलघटादीनां द्वित्वं न तादृशमिति न भूतलघटाद्योरतिप्रसङ्गः।
यद्यपि संयोगसंबन्धावच्छिन्नानधेयतासम्बन्धेन कपालादिकं घटादौ
नास्ति, तथापि आधेयतासामान्यावच्छिन्नस्वनिष्ठप्रतियोगिताका
यन्ताभाववत्त्वप्रवेशात् न दोषः। न चैवमपि कपालादिनाशक्षणे
कपालादेर्घटादौ उक्तसम्बन्धेनाभावादव्याप्तिरिति वाच्यम्।
स्वविशिष्टात्यन्ताभाववत्त्वस्य निवेश्यत्वात्। स्ववैशिष्ट्यं
च
स्वावच्छिन्नाधिकरणकालावच्छिन्नत्वाधेयतासामान्यावच्छिन्नस्वाश्रयप्रति योगिताकत्वोभयसम्बन्धेन।
यद्यपि एवमपि अभावाभावत्वयोरयुतसिद्धिप्रसङ्गः, तथापि
स्वाश्रयातिरिक्तसम्बन्धावच्छिन्नाधेयतानिवेशात् न दोष इति
वदन्ति।
तन्न-कालिकादिसम्बन्धमादायातिप्रसङ्गव्युदासाय
समवायसम्बन्धेन तस्य प्रवृत्तिनिमित्तताया वाच्यत्वेन प्राचीनमते
अवयवावयविनावयुतसिद्धावित्यादिवाक्यस्य निराकाङ्क्षतापत्तेः।
स्वविशिष्टद्वित्वसम्बन्धेन द्वित्वस्य तथात्वे ऽपि द्वित्वस्य
सङ्ख्यारूपत्वे गुणगुण्याद्योरव्याप्तेः।
अपेक्षाधीविशेषविषयत्वरूपत्वे च अपेक्षाबुद्धेः
विषयविशेषनियन्त्रिततया अननुगमापत्तेः।
स्वावच्छिन्नविशेष्यतानिरूपितैकत्वप्रकारताकत्वस्वभिन्नधर्मावच्छिन्नविशेष्यतानिरूपितैकत्वप्रकारताकत्वोभयसम्बन्धेन
धर्मविशिष्टबुद्धित्वेनानुगमे च
स्वाश्रयधर्मावच्छिन्नविशेष्यतानिरूपितैकत्वप्रकारताकत्वस्वप्रतियोगिधर्मावच्छिन्नविशेष्यतानिरूपितैकत्वप्रकारताकत्वोभयसम्बन्धेन
भेदविशिष्टबुद्धित्वादिना अनुगममादाय विनिगमनाविरहापत्त्या
अयुतसिद्धपदार्थतावच्छेदकनानात्वापत्तेः। तन्निष्कर्षस्तु
अस्माभिरन्यत्र प्रपञ्चितः।
अभावनिरूपणम्
ननु ध्वंसादिप्रतियोगितायाः
सम्बन्धावच्छिन्नत्वे मानाभावात् संसर्गांभावत्वनिवेशादेव
ध्वंसादिवारणे नित्यत्वविशेषणवैथर्थ्यमित्यत्राह - [313] ध्वंसेत्यादि। सिद्धानृते ध्वंसादिप्रतियोगितायाः
संबन्धावच्छिन्नत्वानङ्गीकर्तृनव्यमते ग्रन्थान्तरोक्तं मनसि
निधायाह -- [314] सङ्क्षेप इति। [314] ध्वंसप्रागभावयोरित्यादि।
ध्वंसप्रागभावयोरेकप्रतियोगिकयोरपि एकरूपत्वमेव। तद्वदिह
नेत्यर्थः। दीपिकायाम् [313] प्रतियोगितावच्छेदकारोप्येत्यादि।
प्रतियोगितावच्छेदकश्च आरोप्यसंसर्गश्च तयोर्भेदात् इत्यर्थः।
आरोप्यं च प्रतियोग्यारोपविषयत्वम्। अभावबुद्धौ
प्रतियोग्यारोपहेतुतायाः नवीनैरनभ्युपगमादाह -
प्रकाशिकायाम् [314] आरोप्येतीति। नन्वन्योन्याभावभेदे
प्रतियोगितावच्छेदकसंसर्गभेदो न नियामकः, अन्योन्याभावस्य
तादात्म्यसम्बन्धावच्छिन्नप्रतियोगिताकत्वनियमात्। अत्र [314] यथायोगमिति [314] अवच्छेदकभेदादतिरिक्त इत्यन्वयः [322] प्रसङ्गादिति। स्ववृत्त्यभावत्ववत्त्वमत्र प्रसङ्गः। [322] तच्छब्दोल्लिखितेति। तच्छब्दजन्यबोधसमानार्थकेत्यर्थः। [322] स्वातन्त्र्येण प्रतियोगिनि अभासमानतया।
षोडशपदार्थानां
सप्तपदार्थेष्वन्तर्भावः
प्रमाणप्रमेयेत्यादिसूत्रे प्रथमतः कथितस्य
कॢप्ते यत्र कुत्रचिदन्तर्भावमनुमुक्त्वा द्वितीयत उक्तस्य प्रमेयस्य
द्वादशविधस्य यथायथं कॢप्तान्तर्भावकथनमनुपपन्नमित्यत्राह- [331] प्रत्यक्षेति। चक्षुरादीन्द्रियरूपस्येत्पयादिः।
[331] अनुमानादीनामिति आदिनोपमानशब्दयोः
सङ्ग्रहः। [331] द्रव्य इति अन्तर्भाव इत्यनेन सम्बन्धः।
[331] एवमग्रे ऽपीति। प्रवृत्तिदोषादिरूपे प्रमेये ऽपीत्यर्थः। ननु
प्रयत्नविशेषः प्रवृत्तिरिति तस्याः
धर्माधर्मरूपत्वकथनमनुपपन्नमित्यत आह - [331] तदिति। धर्माधर्मेत्यर्थः। स्वोक्तार्थे पूर्वग्रन्थसम्मतिमाह -
[331] एतच्चेति। धर्माधर्मावित्यस्य तज्जनिकेत्यर्थकथनं चेत्यर्थः।
[331] आकारे भाष्ये।
ननु प्रेत्यभावो
मरणमिति दीपिकावाक्यमसङ्गतम्। प्रोपसृष्टैण् धातुमात्रेण
मरणबोधतनात् प्रेत्यभावशब्दघटकस्य ल्यपः भावशब्दस्य
चार्थाकथनात् प्रेत्यभाव इति समुदायस्य
मरणरूपार्थाबोधकत्वाच्चेत्यत्राह - [331] मरणानन्तरेति।
अनन्तरत्वं उत्तरकालिकत्वम्। उक्तार्थस्य
प्रेत्यभावशब्दव्युत्पत्त्यनुगुण्यं दर्शयति - [331] तथाचेति। प्रेत्यभावशब्दस्योक्तार्थपरत्वे चेत्यर्थः।
मरणजननशब्दार्थौ क्रमेण दर्शयति - [331] चरमेत्यादिना। चरमेति
संयोगविशेषणम्। एवमग्रे ऽपि। [331] आद्येति
संयोगविशेषणम्। चरमत्वं
स्वसमानाधिकरणतादृशसंयोगप्रागभावासमानकालीनत्वम्। यद्यपि
अत्रानुयोगिनि स्वत्वप्रवेशे
स्वसमानाधिकरणतादृशप्रागभावसमानकालीनभिन्नं यत्तत्त्वं
चरमत्वमिति चरमसंयोगव्यक्तीनामानन्त्यादननुगमः। प्रतियोगिनि
स्वत्वप्रवेशे च
स्वासमानाधिकरणतादृशसंयोगप्रागभावसमानकालीनं यत्
तादृशैकव्यक्तिभेदप्रेवेशे इदानीन्तनस्यापि
तादृशसंयोगस्योक्तचरमत्वं स्यादिति तस्य ध्वंसमादायेदानीमपि
मरणापत्तिः। तादृशप्रागभावसमानकालीनं यद्यत्
तत्तद्व्यक्तिभेदकूटनिवेशे च चरमत्वस्य यत्त्वतत्त्वघटितत्वेन
विशिष्टैकार्थरूपताभङ्गः। विशिष्य
तत्तद्व्यक्तीनामसर्वज्ञदुर्विज्ञेयताप्रसङ्गः।
कूटत्वस्यैकविशिष्टापरत्वरूपत्वेन स्वत्वप्रवेशे प्रमेयविशिष्टत्वं
चरमत्वमिति स्थूलो ऽनुगमः। वैशिष्ट्यं च
तादात्म्यस्वसमानाधिकरणतादृशसंयोगप्रागभावसमानकालीनत्वसम्बन्धावच्छिन्नस्वनिष्ठावच्छेदकताकप्रतियोगिताकभेदवत्त्वोभयसम्बन्धेन
भेदविशिष्टत्वमिति सूक्ष्मो ऽनुगमः। वैशिष्ट्यं
स्वाश्रयत्वस्वप्रतियोगितावच्छेदकत्वोभयसम्बन्धेन। अवच्छेदकत्वं
स्वसमानाधिकरणतादृशसंयोगप्रागभावसमानकालीलनत्वसम्बन्धेन।
प्रतियोगिनि स्वत्वप्रवेशे च तादृशसंयोगप्रागभावविशिष्टान्यत्वं
चरमत्वम्। वैशिष्ट्यं
स्वसमानकालिकत्वस्वसामानाधिकरण्योभयसम्बन्धेन,
एकक्षणावच्छिन्नसामानाधिकरण्यसम्बन्धेन वा। तच्च
स्वनिष्ठस्वरूपसम्बन्धावच्छिन्नाधेयताविशिष्टसमवायावच्छिन्नाधेयतारूपम्।
वैशिष्ट्यं च
स्वनिरूपकनिरूपितत्वस्वावच्छेदकक्षणावच्छिन्नत्वोभयसम्बन्धेन।
आद्यत्वं च स्वसमानाधिकरणतादृशसंयोध्वंसासमानाकालिकत्वम्।
अत्रापि, प्रमेयविशिष्टत्वं भेदविशिष्टत्वं वा
तादृशसंयोगध्वंसविशिष्टान्यत्वं वा प्रागभावस्थले ध्वंसं निवेश्य
निर्वाच्यम्। अन्यत् पूर्वंवत्। दीपिकायाम् [331] स
च मोक्षश्च। यद्यपि चरमं यद्दुःखं तद्ध्वंसो मोक्ष इत्यन्यत्र
प्रतिपादितम्, तथापि दुःखविशेषणेन कालीनान्तेन चरमपदार्थ
एव विवृत इति न विरोधः। अनुगमस्तु पूर्ववदेव बोध्यः।
प्रागुक्तसामानाधिकरण्यसम्बन्धेन
दुःखप्रागभावविशिष्टान्यत्वादिरूपः। अत्र च
स्वसमानाधिकरणदुःखप्रागभावासमानकालीनः यः कश्चन पदार्थः
तद्ध्वंसो मोक्ष इति तत्र ध्वंसप्रतियोगितया
दुःखांशोपादानवैयर्थ्यमित्याशङ्कायां तदुपादानस्य
प्रयोजनमाह - प्रकाशिकायाम् [331] मुक्तात्मेति। अत्र च
प्रागभावांशमनुपादाय स्वसमानाधिकरणदुःखासमानकालीनत्वम्
एकक्षणावच्छिन्नसामानाधिकरण्यसम्बन्धेन
दुःखविशिष्टान्यत्वादिरूपमेव चरमत्वं सुवचम्। न च तस्य
दुःखविशेषणत्वे ऽप्रसिद्धिः। इदानीं तस्य
ध्वंसविशेषणत्वोपगमात्। न च तथा सति सुषुप्तिदशायां
अस्मदादीनामपि मुक्तत्वप्रसङ्गः। तदानीमस्मदाद्यात्मनि
दुःखविरहात्, तदातनस्य दुःखध्वंसस्य
निरुक्तविशेषणक्रान्तत्वादिति शङ्क्यम्। सुषुप्तिकालीनस्य
तादृशदुःखध्वंसस्य
सुषुप्त्युत्तरकालिकदुःखसमानकालीनत्वेनादोषत्वादित्याशङ्कते -
[331] न चेति। [331] अग्रिमेति। [331] सुषुप्तीत्यादिः।
उत्तरेत्यर्थः। [331] यथासन्निवेशे-प्रागभावघटितनिरुक्तप्रकारे। अत्र च
प्रागभावानुपगमे उक्तरीत्या तादृशदुःखासमानकालीनत्वघटित
एवादरणीयः। एवं पक्षताग्रन्थोक्तरीत्या
दुःखप्रागभावसमानकालीनत्वस्थले दुःखवृत्तिध्वंसप्रतियोगित्वं
निवेश्यमित्यभिसन्धायाभिहितम् - [331] दिगिति। ननु
प्रमाणेत्यादिसूत्रे प्रमेयानन्तरं संशयकथनात् दीपिकायाम्
तत्स्वरूपमप्रदर्श्य प्रयोजनादिस्वरूपकथनमयुक्तमित्यत आह - [331] संशयस्येति। उभयसाधनवतीत्यस्य प्रयोजनमाह -- [335] इदं चेति। उभयेत्याद्युक्तविशेषणं चेत्यर्थः। ननु कथालक्षणे
नानावक्तृत्वोक्तिरयुक्तापूर्वपक्षवाक्यस्य उत्तरवाक्यस्य वैकस्य
नानावक्तृकत्वविरहादित्यत आह - [335] एकेनेति। छलं उदाहरति
- [336] यथेति। [336] इतीति। उक्तशब्दस्येतयर्थः। [336] अर्थान्तरम् -
नूतनारूपार्थान्तिरिक्तमर्थम्। [336] न सन्तीत्यन्वयः। इति
दूषयतीत्यन्वयः। [336] स्वासाधकतासाधारण्येनेति।
साधारण्यमाधेयत्वम्। वैशिष्ट्ये तृतीया। तस्य
परासाधकतासाधकतयेत्यत्र समासघटकषष्ट्यर्थनिरूपकत्वे ऽन्वयः। अत्र
स्वम् दूषणवक्ता। परः अनुमानवक्ता। [336] स्वव्याघातकत्वादिति।
असत्त्वान्वयिनि प्रयोज्यत्वे पञ्चमी। [336] तथा च उक्तरीत्या उत्तरस्य
स्वव्याघातकत्वसिद्धौ च। [336] तदिति। उक्तलक्षणजातीत्यर्थः [336] प्रत्येकमिति। तृतीयाबहुवचनान्तमव्ययम्।
साधर्म्यवैधर्म्यादिशब्दैरित्यर्थः। [337] योगः - सम्बन्धः।
जातिनिरूपणम्
क्रमेण जातीनां
लक्षणोदाहरणान्याह - [337] साधर्म्येण इत्यादिना। तत्र
साधर्म्येणेत्यादि उत्तरमित्यन्तं साधर्म्यसमालक्षणम्। साधर्म्यम्
सादृश्यम्। स्थापना-स्थापकानुमानम्। साधर्म्यसमाया उदाहरणमाह -
यथेति। सक्रियः क्रियावान्। अत्र क्रियाहेतुगुणवत्त्वरूपहेतुशरीरे।
त्रलर्थो घटकत्वं गुणान्वितम्। जनकेति संयोगादिविशेषणम्।
सक्रियो यदि
तदेत्यन्वयः। न
चास्तीत्यन्वयः। अत्र सक्रियसाधर्म्ययप्रयुक्तसक्रियत्वमात्रे,
निष्क्रियसाधर्म्यप्रयुक्तनिष्क्रियत्वमात्रे वा। विनिगमकं नियामकम्।
वैधर्म्यसमालक्षणमाह
- [338] वैधर्म्येणेति। वैधर्म्यं व्यावृत्तधर्मः। तदिति।
स्थापनाहेत्वित्यर्थः। वैधर्म्यसमाया उदाहरणमाह - यथेति। तत्रैव -
आत्मा सक्रिय इत्यादि प्रागुक्तानुमान एव। निष्क्रिय एवेति।
आत्मेत्यनुषज्यते। नास्तीत्यन्वयः। तदिति। लोष्टेत्यर्थः। एवमग्रे ऽपि।
उत्कर्षसमां लक्षयति -
[338] परोक्तेति। तदिति। परोक्तसाधनेत्यर्थः। एतदुदाहरणमाह -
यथेति। स्याद्यदीत्यन्वयः। एवमग्रे ऽपि। तेनैव - कृतकत्वेनैव।
एवमग्रे ऽपि। [338] सावयव इति।
समवायिकारणताविशिष्टत्वं सावयवत्वम्। वैशिष्ट्यं
स्वनिरूपकद्रव्यत्वसम्बन्धेनेति निष्कर्षः। तादृशं च सावयवत्वं
कार्यत्वरूपम् कृतकत्वं प्रत्यव्यापकमेव
कार्यभूतरूपादिव्यावृत्तत्वादिति ध्येयम्। इतीति।
ऽकश्चिदेवमाहेऽति पूर्वेण सम्बन्धः।
अपकर्षसमां लक्षयति -
[339] परोक्तेति। धर्मान्तरस्य -
प्रकृतानुमानसाध्यतयाभिमतधर्मातिरिक्तधर्मस्य। अस्या उदाहरणमाह
- यथेति। तस्मिन्नेव - शब्दो नित्य इत्याद्युपदर्शितरूप एव। ऽइति
कश्चिदेवमाहेऽत्यनुषज्यते।
एवमग्रे ऽपि।
वर्ण्यसमां लक्षयति -
[340] वर्ण्यस्येति। एवमग्रे ऽपि। एतदुदाहरति - यथेति। पूर्वोक्तेति।
आत्मा सक्रियः क्रियाहेतुगुणवत्त्वात् लोष्टवत् इत्येवंरूपेत्यर्थः।
तदिति। क्रियेत्यर्थः।
अवर्ण्यसमां लक्षयति -
[350] साध्येति। तामुदाहरति--- यथेति। ततैव - आत्मा सक्रिय
इत्यादिरूप एव। साधनम् - साध्यापत्तिप्रतिपादकमुत्तरम्।
एवमग्रे ऽपि। गतेति रूपेति च गुणविशेषणम्। तथा च
उक्तगुणवत्त्वस्यात्मन्यसिद्धत्वे च। तुल्यतया
आत्मन्यसिद्धहेतुकसाधनत्वसाम्यात् किमिति न साध्यत इति
पश्चात्तनेनास्य सम्बन्धः। तादृशेन - असिद्धेन। तदिति। क्रियेत्यर्थः।
विकल्पसमां लक्षयति -
[342] दृष्टान्तेति। उदाहरति --- यथेति। अयं तु - उत्तरविकल्पस्तु।
साध्यसमां
लक्षयति- [341] दृष्टान्तस्येति। नन्वस्याः
पक्षतुल्यताकथनात्मिकायाः पक्षसमेति नामोचितम्, न तु
साध्यसमेत्याशङ्कापरिहाराय साध्यते अत्रेत्यधिकरणव्युत्पत्त्या
साध्यशब्द एवात्र पक्षबोधक इत्याह - साध्येति। अत्र साध्यसमा शब्दे
त्रलर्थो घटकत्वं साध्यशब्दान्वितम्। उदाहरति - यथेति। ऽउच्यते
यदीऽति सम्बन्धः। तथा च यथा आत्मा तथा लोष्ट इत्यस्याप्यागमेन।
साध्यते यदिति सम्बन्धः। तत् - क्रियावत्त्वम्।
प्राप्तिसमाया
लक्षणमाह - [342] प्राप्त्येति। हेतौ तृतीया। प्रत्यवस्थानम्
-- प्रत्युत्तरकथनम्। एवमग्रे ऽपि। तथा च प्राप्तिं हेतूकृत्य
प्रत्युत्तरोक्तिरिति यावत्। अत्र प्राप्तिशब्दस्यार्थमाह - प्रापितश्चेति।
उदाहरति - यथेति। तादृशेति। क्रियाहेत्वित्यर्थः। नेति साध्यत
इत्यनुषज्यते। उभयोरविशेषात् - उभयोः
क्रियावत्त्वक्रियाहेतुगुणवत्त्वयोरविशेषात्
सामानाधिकरण्यसाम्यात्।
अप्राप्तिसमां लक्षयति
--- [343] अप्राप्त्येति। पूर्ववदेव हेतौ तृतीया। अप्राप्तिं हेतूकृत्य
प्रत्युत्तरकथनमप्राप्तिसमेति यावत्। उदाहरति - यथेति।
पूर्वोक्तेति। लोष्टगतनोदनादिरूपेत्यादिना प्रागुपदर्शितेत्यर्थः।
अप्राप्तस्येति। अप्राप्तिरिह साध्यवैयधिकरण्यम्। तथा च -
तादृशहेतोस्साध्यसाधकत्वोक्तौ च।
अयमेव -
क्रियाहेतुगुणवत्त्वरूप एव।
प्रसङ्गसमां लक्षयति
- [343] साधनेति। उदाहरति -- यथेति । तत्र - क्रियाहेतुगुणवत्त्वे।
ननु साधनापेक्षा किमर्थमित्यत्राह -- न हीति। नास्ति हीत्यन्वयः।
तत्रापि - क्रियाहेतुगुणवत्त्वे ऽपि।
प्रतिदृष्टान्तसमां
लक्षयति-- [344] दृष्टान्तान्तरेणेति।
परोक्तदृष्टान्तातिरिक्तदृष्टान्तजन्येत्यर्थः। साधनम् -
सिद्ध्यापत्तिप्रतिपादकमुत्तरम्। उदाहरणमाह यथेति।
अनुत्पत्तिसमां
लक्षयति--- [344] अनुत्पत्येति। अत्रापि हेतौ तृतीया।
अनुत्पत्तिं हेतूकृत्य प्रत्युत्तरकथनमित्यर्थः। उदाहरति - यथेति।
प्रमाणं यदीन्त्यन्वयः। तदिति। जन्यैकत्वरूपप्रमाणेत्यर्थः। इतीति।
इति कश्चिदाहेति प्राक्तनेन सम्बन्धः।
संशयसमाया
लक्षणमाह --- [345] साधारणेति।
साध्यतदभावसामानाधिकरण्येत्यर्थः। उदाहरति -- यथेति। उभयेति।
नित्यानित्योभयेत्यर्थः। एकपरिशेषे एकस्य
नित्यत्वमात्रस्यानित्यत्वमात्रस्य वा परिशेषे निश्चये।
अत्र - प्रकरणसमायाम्।
अहेतुसमाया
लक्षणमाह --- [346] कालत्रये ऽपीति।
भूतभविष्यद्वर्तमानकालत्रये ऽपीत्यर्थंः। उदाहरति - यथेति। तदानीं
--- साध्यभूतानित्यत्वप्राक्काले। तस्य - अनित्यत्वस्य। न साधकम्
कार्यत्वादिरूपसाधनमिति सम्बन्धः। पश्चादिति।
साध्यादनित्यत्वादिति आदिरनुषज्यते। पूर्वेति।
कार्यत्वादियपसाधनेत्यादिः। साधनाभावादिति। साधनेत्यस्य
कार्यत्वादिरूपेत्यादिः। तस्य - कार्यत्वादिरूपसाधनस्य। उभयम् -
कार्यत्वादिरूपसाधनानित्यत्वादिरूपसाध्योभयम्।
अर्थापत्तिसमाया
लक्षणमाह - [346] अर्थापत्तिपुरस्कारेणेति।
अन्यथानुपपत्तिरूपार्थापत्तिं हेतूकृत्येत्यर्थः। पूर्वोक्तेति। शब्दो
नित्य इत्यादिरूपेत्यर्थः। यदि साध्यमिति सम्बन्धः। नित्यत्वमपीति।
अर्थापत्त्येत्यनुषज्यते। सिद्ध्येदिति शेषः। एकतरेति
एकतरस्यानित्यत्वस्पनय नित्यत्वस्य वा निश्चय इत्यर्थः।
अविशेषसमां लक्षयति
- [347] सर्वेति। अविशेषः साम्यम्। उदाहरति -- तत्रैवेति। अनित्यत्वं
यदीत्यन्वयः। एवमग्रे ऽति। तदिति। शब्देत्यर्थः। तत् - अनित्यत्वम्।
उपपत्तिसमां लक्षयति - [348] उभयपक्षेति।
मूल पाठ: Tarkasaṃgraha with autoentary (Dīpikā), Nīlakaṇṭha's Dīpikāprakāśikā and Bālapriyā · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0