तर्कसंग्रह (टीका सहित) · भाग 501515
वादिप्रतिवादिसम्मतपक्षद्वयेत्यर्थः। साधर्म्येणेत्यभेदे तृतीया।
तादृशसाधर्म्याभिन्नसाधनोपपत्तिः उपपत्तिप्रतिपादकमुत्तरमित्यर्थः।
उदाहरति -- यथेति। एवमग्रे ऽपि अवतारिका बोध्या।
दर्शितेति
साधनविशेषणम्। अनुविधायित्वं - जन्यत्वं नास्तीति सम्बन्धः।
[349] साधनं - सिद्ध्यापत्तिप्रतिपादकमुत्तरम्।
एवमग्रे ऽपि। नोपलभ्यते यदीत्यन्वयः। एवं नाभ्युपेयते
यदीत्यन्वयः। अनुपलब्धेरपीति। षष्ट्यर्थः प्रतियोगित्वम्
निरूपकतया अभावान्वितम्। अपिरत्रावरणसमुच्चायकः दृष्टान्तत्वेन।
तदिति। अनुपलब्धीयत्यर्थः।
तस्य - अनित्यत्वस्य।
सदातनत्वात् - नित्यत्वात्। [350]
तथात्वम् - सदातनत्वम्। उभयाथापि
शब्दवृत्तेरनित्यत्वे नित्यत्वे वा।
उच्यते यदीत्यन्वयः।
तदिति अनित्यत्वपदेत्यर्थः।
तत्रैव - शब्दो ऽनित्यः
प्रयत्नानुविधायित्वात् घटवदित्यनुमान एव। उभयथा--उभाभ्यामपि
प्रकाराभ्याम्। स्वरूपोत्पत्त्यावारकनिवृत्तिरूपाभ्याम्। अनुविधानं -
जन्यता। तथा च - प्रयत्नानुविधायित्वस्योभयथा सम्भवे च। तस्य -
प्रयत्नानुविधायित्वस्य। कार्यान्तरेति।
स्वरूपोत्पत्तिरूपकार्यव्यतिरिक्तकार्येत्यर्थः नियतत्वं - व्याप्यत्वम्
क्वचित् - केषुचित् पुसतकेषु। तस्यापि तादृशापाठस्यापि। उक्त
एवार्थ इत्यग्रिमेणान्वयः। अत्र - उक्तसमाविषये।
निग्रहस्थाननिरूपणम्
दीपिकायामम्
[343] वादिनो ऽपजयहेतुर्निग्रहस्थानमिति। तथा च
निग्रहस्थानमित्यत्र निग्रहशब्दो वाद्यपजयपरः। स्थानशब्दो हेतुपर
इति भावः। इदं च वाद्यपजतहेतुत्वरूपं निग्रहस्थानलक्षणं च।
छलादावित्यादिना प्रकरणसमारूपजातिसङ्ग्रहः।
अर्थान्तरादीत्यादिना हेत्वाभाससङ्ग्रहः। ननु तर्हि
प्रमाणेत्यादिसूत्रे
निग्रहस्थानतः पृथक्तया छलादेरुपादानमनर्थकमित्यत्राह -
छलत्वादिनापीति। आदिना प्रकरणसमात्वसङ्ग्रहः।
अपिर्निग्रहस्थानत्वसमुच्चायकः। दृष्टान्तविधया
ज्ञानस्येतयरयोपादानमित्यस्य च
छलादेरित्यादिः।
उपयोगित्वात् --- वाद्यपजयहेतुत्वात्। पृथगिति।
निग्रहस्थानत्वातिरिक्तरूपेणेत्यर्थः। छलत्वादिनेत्यनुषज्यते।
उपादानं -- प्रतिपादनम्। प्रमाणेत्यादिसूत्रेण कृतमिति शेषः।
गोबलीवर्दन्नयायानुसारादिति भावः। हेत्वाभासवदिति
षष्ठीसमर्थाद्वतिः, हेत्वाभासस्येवेत्यर्थः।
प्रतिज्ञाहानिलक्षणम्
[354] तस्यापि-निग्रहस्थानस्यापि।
आवान्तरभेदान्-व्याप्यविशेषान्। अत्र प्रतिज्ञातार्थविरूद्धाभ्युपगमस्य
प्रतिज्ञाहानिशब्दमुख्यार्थता न सम्भवति। प्रतिज्ञायत इति प्रतिज्ञा
प्रतिज्ञातोर्ऽथः तस्य हानिरित्यवयवव्युत्पत्त्या
प्रतिज्ञातार्थपरित्यागस्यैव तादृशत्वात्
तादृशाभ्युपगमस्यातथात्वादित्यतः तथैवाह -
प्रतिज्ञातार्थपरित्यागो वेति।
प्रतिज्ञान्तरलक्षणम्
[355] पूर्वेति। प्रागनुक्तविशेषणदानत
इत्यादिः। दानमिह कथनम्।
अविज्ञातार्थलक्षणम्
[357] तच्च। अविज्ञातार्थकरूपनिग्रहस्थानं च।
क्लिष्टान्वयम्। दूरान्वयम्। अप्रसिद्धार्थकम् - 1"भूस्तनं हिमभेषजवत्ऽइत्यादिरूम्। इत्यादीत्यादिना
मृदूच्चरितसङ्ग्रहः।
अप्राप्तकाललक्षणम्
[357] व्युत्क्रमेण -
शास्त्रसङ्केतसिद्धक्रमातिरिक्तक्रमेण।
अधिकलक्षणम्
हेत्वादीत्यादिना
दृष्टान्तहेतुतावच्छेदकसम्बन्धव्याप्तिद्वयादिसङ्ग्रहः।
अपसिद्धान्तलक्षणम्
दानमिह कथनम्।
मण्यादेरित्यतः परं दाहादिकं प्रतीति शेषः--
शक्तेरतिरिक्तपदार्थत्वखण्डनम्
[362] सा च -- मण्यादिनिष्ठा
दाहादिप्रतिबन्धकता च। कुत इत्यत्राह - प्रतिबन्धकताया इति।
अनुकूलेति। अनुकूलत्वमिह जनकतावच्छेदकत्वम्। विघटकत्वेति।
विघटकत्वं च नाशजनकत्वम्। तदिति।
कार्यानुकूलशक्तिविघटकत्वरूपप्रतिबन्धकतेत्यर्थः। अर्थापत्त्येति।
अर्थापत्तिप्रमाणात्मिकयेति शेषः। सिद्ध्यन्वितं जन्यत्वं तृतीयार्थः।
सिद्धिरत्रार्थापत्तिप्रमितिरूपा। सा च वह्निः
दाहानुकूलशक्तिमानित्याकारिका बोध्या।
1. भूस्तनमित्यस्य
पर्वत इत्यर्थः। हिमभेषजवदित्यस्य अग्निमानित्यर्थः।
ऽअग्निनर्हिमस्य भेषजम्ऽ इति श्रुतिः। पवतः भूमिस्वनमिति
वदन्ति।
प्रमाणरूपा चार्थापत्तिः
वह्नेर्दाहानुकूलशक्तिमत्त्वमन्तरा मण्यादिप्रतिबध्यदाहजनकत्वं
नोपपद्यते इत्येवमादिरूपा। प्रतिबध्यत्वं च नाश्यशक्तिप्रयुक्तत्वम्।
केचित्तु - यथाश्रुतग्रन्थमनुसृत्य वह्नेर्दांहानुकूलशक्तिमत्त्वमन्तरा
मणेर्दाहानुकूलशक्तिविघटकत्वरूपप्रतिबन्धकत्वमनुपपन्नमित्यादिरूपमर्थापत्तिप्रमाणमूचुः।
तत्तुच्छम् --- उपपाद्योपपादकयोः सामानाधिकरण्यविरहात्। इति
शङ्कते इत्यन्वयः। अतिरिक्तत्वादिति। कॢप्तेभ्यः द्रव्यादिभ्य
इत्यादिः। एवमग्रे ऽपि। एवम् - उक्तयुक्त्या। तस्याः - शक्तेः। अत एव -
गुणादिवृत्तित्वादेव। उत्पत्तीत्यादि। उत्पत्तिश्चार्थापत्त्या सिध्यति।
अर्थापत्तिश्च शक्तेर्मण्यपसरणावच्छिन्नोत्पत्तिमन्तरा
तादृशक्षणोत्तरक्षणावच्छिन्नदाहानुकूलत्वमनुपपन्नमित्येवमात्मिका।
एवं नाशो ऽप्यर्थापत्त्या सिध्यति। सा च - शक्तिः
मण्या।पसरणावच्छिन्ननाशवत्त्वमन्तरा
तादृशक्षणोत्तरक्षणावच्छिन्नदाहाननुकूलत्वमनुपपन्नमित्येवंरूपा।
तेन उत्पत्त्यादिहेतोः नासिद्धिशङ्काप्रसक्तिः। एवं च उक्तरीत्या
शक्तेर्द्रव्याद्यनन्तर्भावसिद्धौ च। अतिरिक्तेति। अत्रेदं
परिशेषानुमानमवसेयम् - शक्तिः द्रव्यादि भेदकूटवती
द्रव्याद्यनन्तर्भावादित्येवंरूपम्। द्रव्यादिभेदकूटवत्त्वं
हीहातिरिक्तत्वम्।
एतादृशानुमानहेतुभूतद्रव्याद्यनन्तर्भावशरीरप्रविष्टयोर्विंशेषणव् इशेष्ययोरसिद्धिशंङ्कां
च यत
इत्यादिना
निराकृता। तच्च - कारणीभूताभावप्रतियोगित्वं च। मण्याद्यभावस्य
कारणातापक्षे मणिसत्त्वसमये दाहानुत्पत्तिमुपपादयति -- मणीति।
तदिति। मणीत्यर्थः। कारणान्तरेति।
वह्न्यादिरूपकारणव्यतिरिक्तकारणेत्यर्थः। एतद्विशेषणं
रूपेति। इत्थं च --- प्रतिबन्धकत्वस्योक्तरीत्या
कार्यानुकूलशक्तिविघटकत्वादन्यादृशत्वे च। व्यवहारान्यथानुपपत्त्या
- व्यवहारस्यान्यथा शक्तिरूपातिरिक्तपदार्थानुपगमे अनुपपत्त्या
सविषयकत्वासम्भवेन। ननूत्तेजकमण्युभयसत्त्वे ऽपि वह्नौ
दाहानुकूलशक्तिविरहात् कथं त्वन्मते ऽपि दाहोपपत्तिरित्यत्राह ---
मदिति। प्राभाकरपरमिदम्। एवमग्रे ऽपि तवेत्यपि। शक्त्यन्तरेति।
मण्याद्यपसरणदशाभाविशक्तिव्यतिरिक्तशक्तीत्यर्थः। विशिष्टेति
मणिविशेषणम्। एवमग्रे ऽपि।
अननुगतत्वात्-अनुगतरूपेणाभावप्रतियोगितया
कारणतावच्छेदककोटौ निवेशयितुमशक्यत्वात्। एतादृशेति।
तत्तदुत्तेजकाभावविशिष्टमण्याद्यभावावच्छिन्नेत्यर्थः। तवापीति।
अपितरत्र नैयायिकसमुच्चायकः दृष्टान्ततया। आवश्यकत्वादिति।
अन्यथा तत्तदुत्तेजकमण्युभयदशायां दाहानुकूलशक्त्यनुत्पादापत्तेः,
मणिमात्रसत्त्वे शक्त्युत्पादापत्तेश्चेति भावः। ननु
तर्ह्युक्तकारणताकल्पनाया मतद्वये ऽपि समत्त्वात् मन्मतमेव उपेयमिति
मीमांसकशङ्कां परिजिहीर्षुराह --- अनन्तेति। तत्तदित्यादि।
तत्पदद्वयमत्र शक्तिपरम्।
आधेयशक्तिनिरासः
[338] एवमपि-उक्तयुक्त्या अनुकूलशक्तिनिरासे ऽपि। स्पर्श इति।
स्पर्शो ऽत्र सर्वत्र संयोगरूपः ग्रन्थ एव स्पष्टः। रूपेति
कार्यविशेषणम्। अर्हतेति। भवतीति शेषः। न भवतीत्यन्वयः। कुत
इत्यत्राह--शक्तिमदिति। तदिति। भोजनादियपकार्येतयर्थः।
एवमग्रे ऽपि एवं च-कांस्यादौ भोजनादिरूपकार्यार्हत्वतदभावसिद्धौ
च। कांस्यादाविति। कांस्यादिनिष्ठप्रत्यासत्त्येत्यर्थः। प्रत्यासन्निश्च
प्रतिबध्यतावच्छेदिका आधारता प्रतिबन्धकतावच्छेदिका तु समवाय
इति ध्येयम्। उपपत्ताविति।
कांस्यादिगतभोजनादिरूपकार्यार्हत्वतदभायोरित्यादिः। तदिति।
कांस्यादावित्यादिः। आधेयशक्तीत्यर्थः। ननु स्पर्शो नाम
संयोगातिरिक्तो गुण इति कथं तस्य
संयोगरूपतेत्यत्राह--प्रकृते चेति।
कांस्यादिगतभोजनादिकार्यास्पृश्यस्पर्शयोः
प्रतिबध्यप्रतिबन्धकभावकथनप्रकरणे चेत्यर्थः। तदिति।
संयोगरूपास्पृश्यस्पर्शेत्यर्थः। ननु भस्मादिसंयोगसम्भवे
इष्टापत्तिरित्यत्राह---अन्तरेति। विनेत्यर्थः।
भोजनाद्यर्हतापत्तिरिति। कांस्यादेरित्यादिः। इति एवं रूपेण।
पुनः-प्रागुक्तातिरिक्तप्रकारेण। प्रथमेन-भस्मादिनेत्यत्र
प्रविष्टेनेत्यर्थंः। द्वितीयेन चेति। आदिशब्देनेत्यनुषज्यते।
कांस्यादावित्यत्र प्रविष्टेनेत्यर्थः। कॢप्तेति।
द्रव्याद्यभावान्तसपतपदार्थांन्तर्गततया संप्रतिपन्नेत्यर्थः।
ध्वंसविशेषेणैवेति। ध्वंसे विशेषत्वं च
भस्मादिसंयोगकालीनास्पृश्यस्पर्शप्रतियोगिकयावदभावसहितत्वे
सति भस्मादिसंयोगप्रतियोगिकत्वम्। तत्रापीति।
कांस्यादावित्युनषज्यते। भस्मादिविशेषणताभ्रमवारणाय ध्वंसेति।
अत्र- दर्शितशुद्धिपदार्थशरीरे। सम्बन्धविशेषेति।
अभावीयविशेषणताविशेषेत्यर्थः। नियन्त्रितं-घटितम्। अन्यथा
अस्पृश्यस्पर्शवति कांस्यादौ स्वप्रतियोगिमत्तासम्बन्धेन
तादृशस्पर्शप्रतियोगिकयावदभाववत्त्वसम्भवात् तादृशयावदभाववति
कांस्यादौ भस्माद्यसंयुक्ते भस्मादिसंयोगध्वंसस्य कालिकादिनां
सत्त्वात् तादृशयावदभावविशिष्टभस्मादिसंयोगध्वंसस्य
यत्रेत्याद्युक्तकांस्यादिसाधारण्यात् अतिप्रसङ्गतादवस्थ्यापातात्।
सामानाधिकरण्यमिति। एतच्च सम्बन्धविधयैवं निवेश्यम्।
तदीयसम्बन्धाप्रवेशेन लाघवात्। तथा च
स्वनिष्ठदैशिकविशेषणतासम्बन्धावच्छिन्नाधेयतानिरूपकनिरूपिताधेयतारूपतादृशसामानाधिकरण्यसम्बन्धेन
तादृशयावदभावविशिष्टभस्मादिसंयोगध्वंसः शुद्धरिति निष्कर्षः।
ननु अस्पृश्यस्पर्शप्रतियोगिकाभावमात्रनिवेशेनैवोपपत्तौ किं
यावत्त्वप्रवेशेन। न च तादृशयत्किञ्चिदभावमादाय
यत्रेत्याद्युक्तस्थले ऽतिप्रसङ्गतादवस्थ्यं शङ्कनीयम्।
अस्पृश्यवस्तुत्वेन तादृशवस्तून्यनुगमय्य
तादृशवस्तुस्पर्शत्वावच्छिन्नप्रतियोगिताकाभावनिवेशेनादोषादित्यत्राह---अस्पृश्येति।
यत्किञ्चिदित्यभावविशेषणम्। यावदितीति। तत्र यत्रेत्यादिना
प्रागुक्तकांस्यादौ। तदिति। शुद्धीत्यर्थः। ननु यत्रेत्याद्युक्तकांस्यादौ
उक्तातिप्रसङ्गतादवस्थ्यम्। संयोगरूपस्य
तादृशस्पर्शस्याव्याप्यवृत्तित्वेन तदभावसयापि तदधिकरणे सत्त्वादत
आह--तत्रेति। यत्रेत्याद्युक्तकांस्यादावित्यर्थः। निरवच्छिन्नेति। तथा च
निरुक्तसामानाधिकरण्यघटकप्रथमाधेयतायां
निरवच्छिन्नदैशिकविशेषणतासम्बन्धावच्छिन्नत्वं
निवेशनीयमिति भावः। उक्तेति। शुद्ध्यापत्तिरूपेत्यर्थः।
अभावक्टसामानाधिकरण्यविशिष्टेति।
सामानाधिकरण्यसंबन्धेनाभावकूटविशिष्टेत्यर्थः ध्वंसविशेषणम्।
भस्मादीत्यादि। तत्र ---
भस्मादिसंयोगादिकरणे। यद्यपि
भस्मादिसंयोगकालावच्छिन्नभस्मादिसंयोगाधिकरणनिरूपिताधेयत्वरूपं
यथाश्रुतं यत्र
भस्मादिसंयोगास्पृश्यस्पर्शावित्याद्युक्तस्थलीयतादृशयावदभावसाधारणं
भस्मादिसंयोगनाशकाले तत्र तादृशयावदभावसम्भवे ऽपि
तादृशाभावानामधिकरणान्तरवृत्तिभसमादि
संयोगावच्छेदकतदधिकरणवृत्तिपूर्वकालीनभस्मादिसंयोगनाशक्षणावच्छेदेन
पूर्वकालीनभस्मादिसंयोगाश्रये तदधिकरणे
सत्त्वादित्युक्तातिप्रसङ्गतादस्थ्यशङ्का। तथापि
भस्मादिसंयोगविशिष्टत्वं कालीनान्तार्थ इति न दोषः। वैशिष्ट्यं
स्वनिष्ठसमवायसस्बन्धावच्छिन्नाधेयताविशिष्टनिरवच्छिन्नविशेषणतासंबन्धावच्छिन्नाधेयतासंबन्धेन।
वैशिष्ट्यं
स्वनिरूपकनिरूपितत्वस्वावच्छेदकक्षणावच्छिन्नत्वोभयसम्बन्धेन।
अस्पृश्यादिविशेषणताभ्रमनिवृत्तये अभावविशेषणमिति। तथा च -
उक्तार्थककालीनान्तविशेषणदाने च। तत्र - यत्रेत्याद्युक्तकांस्यादौ।
यावदित्यभावविशेषणम्। तदिति। अस्पृश्यस्पर्शेत्यर्थः। दोष इति।
शुद्धतापत्तिरूप इत्यादिः।
स्वत्वस्यातिरिक्तपदार्थत्वखण्डनम्
प्रतीयत इति।
चैत्रनिरूपितस्वत्ववदिदमिति बोधस्य तत्र जननादिति भावः।
अपेर्दृष्टान्ततया उक्तयुक्त्या
कॢप्तपदार्थान्तर्गतकांस्यादिगतशुद्धिरूपाधेयशक्तिलक्षणोक्तार्थसमुच्चायकता
न युजयते। अनुक्तार्थान्तरसमुच्चायकतासम्भवे
तदयोगादित्यभिसन्धायाह -- अपिनेति।
प्रतियोगित्वादित्यादिनानुयोगित्वाधिकरणत्वादिपरिग्रहः।
तादृशेत्यादि। तादृशशब्दः यथेष्टविनियोगनिरूपितपरः। योग्य
त्वान्तेन तदवच्छेदकमित्यत्र तच्छब्दार्थकथनम्। अवच्छेदकशब्दः
प्रयोजकपरैत्यभिसन्धिः। दीपिकायाम् [369] प्रतिग्रहादीत्यादिना
पित्रादिपरम्परासङ्ग्रहः।
विधिवादः
प्रकाशिकायाम्
[370] सर्वेषामित्यादि। अत्रायमखण्डः शाब्दबोधः -
सर्वपदार्थंविशेष्यक - उक्तपदार्थनिरूपित -
यथायोग्यान्तर्भावप्रकारकप्रतिपत्त्यनुकूलव्यापारप्रतियोगिकध्वंसविशिष्टः,
यः
मूलविशेष्यकविध्यनिरूपकत्वात्मकन्यूनताप्रतियोगिकाभावप्रकारकेच्छाविशिष्टविधिविशेष्यकलक्षणादिप्रकारकज्ञानजनकशब्दः,
तदनुकूलभविष्यकालीनकृतिमान्,
शिष्यसमवेतशुश्रूषेच्छाविशिष्टविधिनिरूपणनिष्ठवर्तमानकालीनत्वावच्छिन्नप्रकारतानिरूपितकर्मत्वनिष्ठप्रकारताकज्ञानजनकायेत्यादिग्रन्थाभिन्नशब्दानुकूलवर्तमानकालीनकृतिमानित्येवंरूपः।
प्रथमवैशिष्ट्यं
1स्वाश्रयकालावच्छिन्नवृत्तिकत्वस्वप्रतियोगिसमानकर्तृकत्वोभयसम्बन्धेन।
द्वितीयवैशिष्ट्यं
2स्वप्रयोज्येच्छाविषयत्वस्वविषयसमानकर्तृकत्वोभयसम्बन्धेन। एवं
तृतीयमपि। तन्निरूपणमित्त्र तच्छब्दो विधिपरः। 3अत्र स्वपदं
सर्वमपि नैयायिकपरम्। प्रयत्नेति। प्रवृत्तीत्यर्थः। विशिष्टेति।
सामानाधिकरण्यसम्बन्धेनेत्यदिः साधनताविशेषणमिदम्।
एवमग्रे ऽपि। तादृशेति। प्रयत्नजनकचिकीर्षाजनकेत्यर्थः
ज्ञानविशेषणम्। कार्यत्वादीत्यनेन तत्प्रतिपादक इत्यत्र
तच्छब्दार्थकथनम्। तव्यादीत्यादिना तव्यदनीयरोः परिग्रहः। ननु
वस्तुगत्या कृतिसाध्यतारहिते कृतिसाध्यताभ्रमात् लोके
प्रवृत्तिर्दृश्यते। अतः [370] कृत्यसाध्ये प्रवृत्त्यदर्शनादिति
दीपिकावाक्यमयुक्तमित्यत आह --- कृत्यसाध्यत्वेनेति।
कृत्यसाध्यत्वप्रकारकज्ञानविषयीभूत इत्यर्थः।
1. स्वं ध्वंसः
तदाश्रयकालावच्छेदेन आकाशवृत्तिमान् शब्दः, एवं स्व ध्वंसः
तत्प्रतियोगी प्रतिपत्त्यनुकूलशब्दात्मकव्यापारः तत्समानकर्तृकश्च
शब्द इति संबन्धद्वयोपपत्तिः।
2. स्वं
न्यूनतापरिहारेच्छा तत्प्रयोज्या इच्छा
विधिज्ञानजनकशब्दविषयकेच्छा तद्विषयत्वं तादृशशब्दे, एवं स्वं
न्यूनतापरिहारेच्छा तद्विषयः न्यूनतापरिहारः तत्समानकर्तृकत्वं
च तादृशशब्दे इति संबन्धद्वयोपपत्तिः।
3. अत्र स्वपदमिति।
एतत्प्रकरणे प्रकाशिकास्थानि स्वपदानि इत्यर्थः।
ऽस्वपरमतसाधारणम्ऽ ऽस्वमतेऽ इत्यादौ स्थितानि स्वपदानि
नैयायिकपराणीत्यर्थः।
चिकीर्षाद्वारेत्यादि।
एवमग्रे ऽपि बोध्यमिति भावः। कृत्यसाध्यत्वेति।
कृतिसाध्श्यत्वाभावेत्यर्थः। एवमग्रे ऽपि। कृत्यसाध्यत्वज्ञानाभाव
एवेत्येवेन कृतिसाध्यताज्ञानव्यवच्छेदः। तत्त्वेप्रवर्तकत्वे
गौरवादिति। द्विधा अभावत्वघटितस्य
कृत्यसाध्यत्वाभावज्ञानाभावत्वस्य
कृतिसाध्यताज्ञानत्वमपेक्ष्येत्यादिः। तत्तदिति। कृतिसाध्यत्वाभाव
कृतिसाध्यभेदेत्यर्थः। व्याप्यादीत्यादिना
तत्तदवच्छेदकधर्मकृतिसाध्यत्वविरुद्धधर्मयोः सङ्ग्रहः। दिगिति।
अयमाशयः--- यत्र कृत्यसाध्यत्वस्य कृतिसाध्यत्वस्य च ज्ञानं नासीत्
तत्र प्रवृत्तिवारणाय कृतिसाध्यताज्ञानस्य प्रवर्तङ्कत्वमावश्यकमिति।
तत्रापि-विषभक्षणादावपि। अयम्-ज्योतिष्टोमादिः। मत्कृतिं
विनेत्यादि। इदं च पुरषान्तरकृतपाकादौ व्यभिचारवारणाय।
आनुमानिकेति। अनुमानजन्येर्थः। रूपेति निमित्तविशेषणम्।
सन्ध्यावन्दनेत्युत्तरमादिशब्दः पूरणीयः। तेन स्नानसङ्ग्रहः।
शुचिजीवित्वादीत्यत्र शुचिजीवित्वादिमत्त्वादीत्यर्थः। आदिना
तत्कालाशौचसङ्हः। एवमग्रे ऽपि। दीपिकायाम् अनुनुगम इति।
उक्तकर्मत्रयस्थलीयकृतिसाध्यताज्ञानानां प्रवृत्तित्वावच्छिन्नं प्रति
एककारणत्वासम्भव इत्यर्थः। प्रकाशिकायाम्
उपपादयतिप्रवृत्तिसामान्येति।
प्रवृत्तित्वावच्छिन्नकार्यतानिरूपितकारणतावच्छेदकरूपस्येत्यर्थः।
एकस्य - दर्शितकर्मत्रयस्थलीयकृतिसाध्यताज्ञानसाधारणस्य। तस्येत्यत्र
तन्निष्ठेत्यत्र च तच्छब्दः पुरुषपरः। कामनादिरित्यादिना
विहितकालशुचितीवित्वतात्कालिकाशौचवत्त्वयोः सङ्ग्रहः। तद्वत्ताया
इत्यत्र तच्छब्दः कामनादिंपरः। एवं-तत्सम्बन्धस्येत्यत्रापि। तथा -
स्वविषयेति। स्वपदमत्र कामनापरम्। साधनत्वादीत्यादिना
आश्रयत्वसङ्ग्रहः। रूपेति सम्बन्धविशेषणम्। चरमः तच्छब्दः
ज्ञानपरः। अनुगतत्वादिति। अथैवमपि स्वत्वस्य
तत्तत्पुरुषव्यक्तिविश्रामात्
पुरुषव्यक्तिभेदेनानन्तकार्यकारणभावप्रसङ्गः। अन्यथा
प्रवृत्तित्वस्यानुगतस्य कार्यतावच्छेदकत्वे व्यभिचारापत्तेः। मैवम्
-- समवायेन वैदिककर्मगोचरप्रवृत्तित्वावच्छिन्नं प्रति
आधेयत्वसमवायोः भयसम्बन्धेन कृतिसाध्यताज्ञानत्वेन
हेतुत्वोपगमाददोषात्। आधेयत्वं
स्वविशेषणवत्ताप्रतिसन्धानजन्यत्वसम्बन्धेन।
कारणतावच्छेदकेत्यतपरं संबन्धेति वक्तव्यम्। लाघवेनेत्यर्थ
इति। समवायस्य तादृशस्यातिलघुत्वादिति भावः। तदिति।
गुर्वीत्यर्थः। कारणतावच्छेदकस्येति। सम्बन्धस्येति शेषः।
जन्यत्वेति। नियतोत्तरवृत्तित्वरूपेत्यादिः। जन्यत्वादीत्यादिना।
सम्बन्धावच्छिन्नत्वाधेयत्वोभयत्वानां सङ्ग्रहः। अत्र -
प्रयत्नजनकज्ञानविषयशरीरे। बलवदनिष्टाननुबन्धित्वमपि इति।
बलवत् यदनिष्टं तदननुबन्धित्वमपीत्यर्थः।
ज्योतिष्टोमयागहेतुभूतस्यार्थंव्ययकायक्लेशादिरूपानिष्टस्य
व्यावृत्त्ये बलवदिति। इष्टोत्पत्तिप्राक्कालींनभिन्नत्वमिह बलवत्त्वम्।
अपिः कृतिसाध्यताज्ञानत्वेष्टसाधनताज्ञानत्वयोः दृष्टान्तत्वेन
समुच्चायकः। तत्र तदन्तर्भावप्रयोजनमाह
- तेनेति।
प्रयत्नजनकज्ञानविषयशरीरे
बलवदनिष्टाननुबन्धित्वनिवेशेनेत्यर्थः। न प्रवृत्त्यापत्तिरिति
सम्बन्धः। रूपेष्टेति कर्मधारयः। विशिष्टेति।
बलवदनिष्टाननुबन्धिकृतिसाध्येष्टसाधनतेत्यर्थः।
प्रवृत्तावित्यादिः। कृतिसाध्यत्वादीति। आदिना
इष्टसाधनत्वबलवदनिष्टाननुबन्धित्वयोः सङ्ग्रहः। पृथगेवेति।
कृतिसाध्यताज्ञानत्वादिनैवेत्यर्थः। दण्डचक्रादिन्यायेनेति। अन्यथा
उक्तविशिष्टज्ञानत्वेन कारणत्वोपगमे विशेषणविशेष्यभावे
विनिगमनाविरहेण गुरुधर्मावच्छिन्ननानाकारणतास्वीकारापत्तेरिति
ध्येयम्। प्रवृत्तीत्यर्थ इति। अन्यथा प्रयत्नस्य
निवृत्तिजीवनयोनिसाधारणस्य
कृतिसाध्त्वादिज्ञानकार्यतावच्छेदकत्वे
व्यतिरेकव्यभिचारप्रसङ्गादिति भावः। प्रत्यवायस्येति।
पापस्येत्यर्थः। प्रागभावः - अनुत्पत्तिः। अन्यथा यावदायुषं
सन्ध्यवन्दनादिकर्तरि प्रत्यवायाजननात्। प्रागभावासम्भवेन
तदीयसन्ध्यावन्दनादेर्निंष्फलत्वापत्तेरिति भावः। ननु लोके सुख,
दुःखनिवृत्ति, दुःखहेतुनिवृत्तीनामेव फलत्वमिष्टतया
दृष्टमितिकथमुक्तलक्षणप्रागभावस्य फलत्वसम्भवः, इष्टस्यैव
फलत्वादित्यत्राह -- तस्येति। दुःखजनकाभावतयेति। दुःखजनकस्य
यो ऽभावः तत्त्वेनेत्यर्थः। तदिति दुःखजनकेत्यर्थः। फलत्वमिति।
प्रवृत्त्युद्देश्यत्वघटितमित्यादिः दुःखजनकाभावतया इष्टत्वं च
तादृशाभावत्वप्रकारकेच्छाविषयत्वमिति ध्येयम्। ननु
प्रत्यवायपरिहारशब्दितस्य तत्प्रागभावस्य तदनुत्पत्तिरूपस्य कथं
फलत्वम्। जन्यवे सति प्रवृत्युद्देश्यत्वं हि तत्। उक्तप्रागभावस्तु न
जन्य इति शङ्कते - न चेति। तदिति। प्रत्यवायेत्यर्थः। तस्य -
प्रत्यवायप्रागभावस्य। स्वरूपसंबन्धरूपस्य - धर्मिस्वरूपानतिरिक्तस्य।
तत्र - प्रत्यवायप्रागभावे। फलत्वाक्षतेरिति फलत्वशरीरेजन्यत्वस्थले
प्रयोज्यत्वस्यैव निवेशनीयत्वादिति भावः।
अपूर्वस्य
लिङर्थत्वखण्डनम्
[377] इच्छाविशेषेति।
स्वस्वत्वनिवृत्तिपूर्वकदेवतास्वत्वप्रकारकेच्छेदत्यर्थः।
आशुतरविनाशिन इति। एतदर्थस्त्वग्रे व्यक्तीभविष्यति। भानम्-ज्ञानं
शाब्दरूपम्। यद्वा भानं-विषयता। एवमग्रे ऽपि। साधनत्वेनेत्यत्र
तृतीया
विषयतान्वयिनि
प्रकारतानियपितत्वे। भानमित्यस्य शाब्दबुद्धावित्यादिः। [378] अयोग्यत्वादिति। स्वर्गसाधनत्वाभाववत्वात्। साधनत्वस्य च
कार्याव्यवहितप्राक्क्षणावच्छेदेन
कार्याधिकरणवृत्त्यभावप्रतियोगितानवच्छेदकतद्धर्मवत्त्वरूपत्वात्
स्वर्गाव्यवहितप्राक्क्षणावच्छेदेन यागाभावादिति भावः। ननु
आशुतरविनाशित्वमतिशीघ्रविनाशित्वं विनाशित्वं
नाशप्रतियोगित्वम्। तच्चाफलस्थायिन्यपि सम्भवति
ततो ऽधिकस्थाय्यपेक्षया तस्य तथात्वादित्यतो व्याचष्टे - तृतीयेति।
स्वोत्पत्तिक्षणेत्यादिः। अन्यथा किञ्चिदपेक्षया तृतीयत्वस्यापि
सर्वक्षणसाधारण्यानपायात् तद्दोषापत्तेः। स्वोत्पत्तिक्षणतृतीयत्वं च
स्वोत्पत्तिक्षणध्वंसोत्पत्त्यधिकरक्षणध्वंसोत्पत्त्यधिकरणत्वम्। न चात्र
स्वत्वघटनयाननुगमः। यतः प्रमेयविशिष्टत्वमाशुतरविनाशित्वमिति
स्थूलो ऽनुगमः। वैशिष्ट्यं
1स्वतादात्म्यस्वोत्पत्तिक्षणध्वंसोत्पत्त्यधिकरणक्षणध्वंसोत्पत्त्यधिकरणक्षणवृत्तिध्वंसप्रतियोगित्वोभयसम्बन्धेन।
1. यागादेः स्वोत्पत्ति
तृतीयक्षणवृत्तिध्वंसप्रतियोगित्वमुपपादनीयम्। तत्र प्रमेयपदेन
याग एव ग्राह्यः तद्विशिष्टत्वमुभयसंबन्धेन यागे। तथा हि स्वं यागः
तत्तादात्म्यं यागे, एवं स्वं यागः तदुत्पत्तिक्षणः प्रथमक्षणः
तद्ध्वंसोत्पत्त्यधिकरणक्षणः द्वितीयक्षणः
तद्ध्वंसोत्पत्यधिकरणक्षणः तृतीयक्षणः तद्वृत्तिर्योयागध्वंसः
तत्प्रतियोगित्वं यागे इति।
1क्षणविशिष्टत्वमिति
सूक्ष्मानुगमः। वैशिष्ट्यं
स्ववृत्तिध्वंसप्रतियोगित्वस्वनिरूपितस्वोत्पत्तिक्षणध्वंसोत्पत्त्यधिकरणक्षणध्वंसोत्पत्त्यधिकरणत्वसम्बन्धावच्छिन्नाधेयत्वोभयसम्बन्धेन।
अतो न दोषः। अनेकक्षणवृत्तित्वरूपं स्थायित्वम्।
द्वितीयक्षणमात्रवृत्तिपदार्थंसाधारणमपीत्यालोच्य व्याचष्टे -
फलपर्यन्तस्थायीति।
फलेत्यस्य प्रकृतेत्यादिः।
2स्वोत्पत्तिक्षणध्वंसाधिकरणप्रकृतफलोत्पत्तिक्षणध्वंसानधिकरणयावत्क्षणवृत्तित्वम्।
आधेयतया तादृशक्षणत्वव्यापकत्वपर्यवसितं फलपर्यन्तस्थायित्वम्।
ननु [377] स्थयिकार्यमपूर्वमेव इति दीपिकावाक्यमयुक्तम्।
कृतिसाध्यतारूपकार्यताया याग एव सम्भवात् अपूर्वे
तदसम्भवादित्यत्राह - याग इति। साक्षात् - किञ्चिदद्वारा।
आश्रयतासम्बन्धेनेति यावत्। यागद्वारा -
स्वाश्रययागजन्यत्वरूपपरम्परासम्बन्धेन। तदिति। जन्येत्यर्थः।
एकदेश इति। कृताविति शेषः। तत्र - ज्योतिष्टोमेन यजेतेति
वाक्ये। साधनान्तं यागविशेषणम्। पूर्वमिति।
ज्योतिष्टोमवाक्यजन्यबोधादित्यादिः। अनुपस्थितत्वादिति।
प्रमाणान्तरेणापूर्वसिद्धेरसम्भवात् तादृशवाक्येनैव
तत्सिद्धेर्वक्तव्यत्वादिति भावः। तत्र - अपूर्वे।
अत्र - उक्ताक्षेपे।
प्रवदन्तीति। समाधानमिति शेषः। तदिति। गुर्वित्यर्थः। तादृशेति।
तद्धर्मावच्छिन्नविषयकेत्यर्थः। तद्धर्मावच्छिन्नविषयकत्वं
तद्धर्मावच्छिन्नविषयतानिरूपकत्वम्। न त्विति। तद्विषयकशाब्दं प्रति
तद्विषयकशक्तिग्रहस्य
1. प्रथमस्वपदेन
यागोत्पत्तितृतीयक्षणो ग्राह्यः। तद्वृत्तिध्वंसप्रतियोगित्वं यागे।
द्वितीयस्वपदं तृतीयक्षणपरम्। तृतीयस्वपदं यागपरम्।
तृतीयक्षणनिरूपिता यागनिष्ठा आधेयता
स्वोत्पत्तिक्षणध्वंसोत्पत्त्यधिकरणक्षणध्वंसोत्पत्त्यधिकरणक्षणत्वसंबन्धावच्छिन्नाः।
तेन संबन्धेन यागस्य तृतीयक्षणे सत्त्वादिति
तादृशाधेयत्वोभयसंबन्धेन तृतीयक्षणविशिष्टत्वं यागस्येति
समन्वयः।
2. स्वं यागः
तदुत्पत्तिक्षणध्वंसाधिकरक्षणमारम्य
प्रकृतफलस्यस्वर्गादेरुत्षतिक्षणध्वंसानधिकरणभूता। यावन्तः क्षणाः
तावद्वृत्तित्वमित्यर्थः।
तद्विषयकोपस्थितेश्च
हेतुता न स्वीक्रियत इत्यर्थः। एवं चोक्तरीत्या
शक्तिग्रहादिशाब्दबोधयोः समानविषयकत्वेन
कार्यकारणभावमनुपेत्य समानप्रकारकतया तयोस्तदुपगमे
चेत्यर्थः। यत्र कुत्रचित् - घटादौ। योग्यतेति।
यागविषयकत्वान्वयेत्यर्थः। ननु शाब्दबोधे योग्यतावशात्
घटादिरूपकार्यस्यैव भानं कुतो न सम्भवतीत्यत्राह - न हीति। न
सम्भवति हीत्यन्वयः। अन्यदिति। अपूर्वरूपकार्यादित्यादिः। नित्य
इति। कर्मणीति शेषः।
फलाभावादिति।
फलत्वमिह जन्यत्वघटितम्। तत्र - नित्यकर्मवाक्ये। दीपिकायाम्
[377] नित्यवाक्ये ऽपीति अपिः काम्यवाक्यसमुच्चायकः दृष्टान्ततया।
वाच्यमिति। लिङादेरित्यादिः। नन्वपूर्वस्य केनाकारेण
नित्यवाक्यस्थलिङादिवाच्यतेत्याशङ्कायामाह - प्रकाशिकायाम्
कार्यत्वेनेत्यादिरिति। पण्डेति। तन्मते ऽपूर्वं द्विविधम् -
1कलिकापूर्वम् पण्डापूर्वम् चेति। तत्र
काम्यवाक्यस्थलिङादिवाच्यमपूर्वमाद्यम्। नित्यवाक्यस्थलिङादिवाच्यं
द्वितीयम्। पण्डत्वं नपुंसकत्वम् फलाजनकत्वमिति यावत् इति
ध्येयम्। दीपिकायाम् [377] कल्प्यत इति। अयमत्र
कल्पनाप्रकारः-नित्यवाक्यस्थलिङ् कार्यात्वप्रकारेणापूर्ववाचकः
वैदिकलिङ्त्वात् काम्यवाक्यस्थलिङ्वदिति। क्रियेत्यादिवाक्ये
क्रियाया धात्वर्थस्य यत्कार्यं फलं तत्रेत्यर्थ इति भ्रमव्युदासायाह -
प्रकाशिकायाम् धात्वर्थनिष्ठेति। तथा चात्र कार्यशब्दः कार्यत्वपरः।
क्रियाकार्य इत्यत्र षष्ठीसमास एवेति भावः। अलौकिकेति।
वैदिकेत्यर्थः। लिङादीति पूरणीयम्। साधारण्येनेति।
साधारण्यमाधेयत्वम् शक्त्यन्वयिनि वैशिष्ट्ये तृतीया।
कार्यत्वादावेवेति। एवेनापूर्वव्यवच्छेदः। दीपिकायाम् [377] यागस्यापीति। अपिरत्र दृष्टान्तत्वेनापूर्वसमुच्चायकः।
अयोग्येति। स्वर्गसाधनत्वाभाववत्तेत्यर्थः। साधनतयेति।
स्वर्गादीत्यादिः। तदिति।
1. कलिकापूर्वमिति।
कलयति उत्पादयति फलमिति व्युत्पत्त्या निष्पन्नो ऽयं शब्दः
सवर्गादिकाम्यफलसाधनमूपर्वमाचष्टे। नपुंसकवाची पण्डशब्दः
निष्फलत्वार्थकः। तथा च निष्फलापूर्वमिति पण्डापूर्वशब्दार्थः।
साधनतेत्यर्थः। एवं
व्याख्याने ऽपि तन्निर्वाहायेत्यत्र अवान्तरेति।
फलसाधनयोर्मध्यदशाभावीत्यर्थः। अपूर्वकल्पनादिति। अयमत्र
कल्पनाप्रकारः--यागः स्वर्गजनकव्यापारजनकः
स्वर्गाव्यवहितप्राक्कालावृत्तित्वे सति स्वर्गजनकत्वात् यो
यदव्यवहितप्राक्कालावृत्तित्वे सति यज्जनकः स
तज्जनकव्यापारजनकः। यथा संस्कारद्वारा स्मृतिजनकानुभव इति।
ननु
यागस्यायोग्यतानिश्चयो मा भूत् तत्संशयः परं जायत एवेति
निश्चयवत्संशयस्यापि तद्वत्ताधीविरोधित्वात् कथं
स्वर्गादिसाधनतया यागबोधसम्भव इत्यत्राह --- प्रकाशिकायाम्
अयोग्यतेति। स्वर्गादिसाधनत्वाभाववत्तेत्यर्थः। तस्य -
अयोग्यतासंशयस्य। अविघटकत्वादिति। अविरोधित्वादित्यर्थः।
तदभाववत्तानिंश्चयस्यैव तद्वत्ताधीविरोधित्वादिति भावः।
यागधर्मिङ्कस्वर्गादिसाधनत्वप्रकारकबुद्धावित्यादिः। बोध इति।
ज्योतिष्टोमादिवाक्यतः स्वर्गादिसाधनताया इत्यादिः।
वाक्यादिति। ज्योतिष्टोमादीत्यादिः। तस्य-यागस्य। नन्वपूर्वस्य
यागव्यापारत्वे यागजन्यत्वं यागजन्यस्वर्गादिरूफलजनकत्वं द्वयमपि
कल्पनीयम्। यागध्वंसस्य यागव्यापारतायां तु प्रतियोगिविधया
यागजन्यताया यागध्वंसे कॢप्तत्वात् स्वर्गादिरूफलजनकतामात्रं
कल्पनीयमित्युभयकल्पनया पूर्वपक्षे गौरवमित्याशङ्कते ---
नन्विति। ध्वंसस्यैवेत्येवेनापूर्वव्यवच्छेदः। व्यापारत्वमिति।
यागेत्यादिः। स्पर्शादीत्यादिना
करतोयातिलङ्घनगण्डकीबाहुतरणयोः संग्रहः।
दीपिकायाम् [377] न
यागध्वंसो व्यापार इति। न व्यापार इत्यन्वयः। व्यापार
इत्यस्य यागेत्यादिः। अन्यथा श्रौतस्य क्षरतेः नश्यतीत्यर्थपरतया
ध्वंसस्य नाशविरहेण व्यापारस्य
कीर्तनादिनाशश्रुतिविरोधप्रसङ्गादिति भावः। अत्र च न क्षरतिः
नाशरूपमुख्यक्षरणपरः अपि तु फलासमर्थत्वरूपगौणक्षरणपरः। एवं
च यागध्वंसस्य यागव्यापारतायामपि न क्षतिः। तस्य फलासमर्थत्वं च
भवति। धर्मकीर्तनादेः स्वर्गादिफलं प्रति प्रतिबन्धकत्वकल्पनया।
अन्यथा प्रागुक्तकल्पना -- अपूर्वरूपधर्मस्य नाशकल्पना तन्नाशं प्रति
कीर्तनादेः हेतुत्वकल्पना चेति महागौरवापत्तेरिति
दीपिकोक्तदूषणं न विचारसहमिति आलोच्य ध्वंसस्य
व्यापारतायामभेद्यं दूषणं स्वयमाह - प्रकाशिकायाम् ध्वंसस्येति।
दूषणान्तरम् - प्रागुपादितदूषणातिरिक्तदूषणम्।
आख्यातस्य
यत्नार्थकत्वस्थापनम्
ननु
लोकव्युत्पत्तीत्यत्र व्युत्पत्तेः कृतिसाध्यत्वादौ लिङ्गादि
शक्तिग्रहरूपतायाः क्रियायां
कृतिसाध्यत्वाद्यन्वयनियामकत्वकथनं न युज्यते इत्यतो
व्याचष्टे - [380] लोकव्यवहारेत्यर्थ इति। स च
लोकव्यवहारश्च। इत्येवंरूप इत्यनेनान्वयः।
कृतिसाध्यत्वेनेत्यादि। ज्ञानान्वयिनि प्रकारत्वे तृतीया। तत्पदं
त्रलन्तयत्पदसमानार्थकम्। तथा च
कृतिसाध्यत्वेष्टसाधनत्वप्रकारकज्ञानवानित्यर्थः। तदर्थ इति।
तत्पदमत्र लोकव्युत्पत्तिबलादित्येतत्परम्। तत्रेतीति। तत्र - लोके।
दीपिकायाम् लिङ्त्वेनेत्यतः परमादीति शेषः। विध्यर्थत्वमिति।
लिङादेरित्यादिः। विधिरथौ वाच्यो यस्येति बहुव्रीहिः। तथा च
विधिशब्दस्य प्रवर्तकज्ञानविषयपरतया
तादृशविषयवाचकत्वमित्यर्थः। आख्यतत्वेनेत्यादि। आख्यातत्वावच्छिन्नं
तन्निर्वक्ति --- प्रकाशिकायाम् आख्यातत्वेनेति। तच्च --- आख्यातत्वं च।
संकेतेति। पाणिनीयेत्यादिः। शक्तेति।
लिङादिनिष्ठकृतिनिरूपितेत्यादिः। शक्तिनिरूपकतेत्यर्थः। अवच्छिन्ने
-- विशिष्टे। एवमग्रे ऽपि। संबन्धेति। सम्बन्धश्चात्रानुकूलता।
एवमग्रे ऽपि। तत् - किं करोतीत्येवं रूपम्। तदिति। किं
करोतीत्येवंरूपप्रश्नवाक्येत्यर्थः। निवर्तकत्वमिति। सम्भवतीन्ति
शेषः। अनयथा। कृतित्वावच्छिन्ने पाकसंबन्धबोधकत्वविरहे।
तन्निवर्तकत्वमित्यादेरनुषङ्गात् तन्निवर्तङ्कत्वं न
सम्भवतीत्यन्वयः। कृतिबोधकत्वासंभवादिति। अचेतने रथादौ
चेतनधर्मस्य कृतेरसम्भवादिति भावः। तदिति। रथो
गच्छतीत्यादिस्थलीनयाख्यातेत्यर्थः। अनुरोधेनेति। अनेन
सर्वाख्यातानां शक्त्यैकरूप्यौचित्यन्यायः सूचितः। व्यापार एवेति।
एवेन कृतिव्यवच्छेदः। ननु रथो गच्छतीत्यादौ
व्यापारत्वरूपलघुधर्मावच्छिन्ने लक्षणास्वीकारेणैव सामञ्जस्ये
अनुकूलव्यापारत्वरूपगुरुधर्मावच्छिन्ने लक्षणाकथनं
दीपिकाकारस्यायुक्तम्। एवमनुकूलत्वे निरूपितत्वसंम्बन्धेन
गमनादेरन्वयस्य वाच्यतया तादृशसंबन्धस्याधिकस्य शाब्दबुद्धैं
भानकल्पने महागौरवं चेत्यत्राह---व्यापार इति। एतेन ---
अनुकूलत्वरूपेण। निरूढेति।
अनादितात्पर्यविषयीभूतार्थनिष्ठेत्यर्थः। एवमग्रे ऽपि
आश्रयतासम्बन्धेनैवेत्येवकारः अन्वयेनेत्युत्तरं योज्यः।
एवेनाख्यातार्थतया कल्पिते आश्रयत्वे निरूपितत्वसम्बन्धेन
अन्वयव्यवच्छेदः। नामार्थयोरिवेति एकनामार्थें अपरनामार्थस्य यथा
अभेदातिरिक्तसम्बन्धेन नान्वयः। तथेहापि नामार्थे
धात्वर्थस्याभेदातिरिक्तसम्बन्धेनान्वयो नोपेयते। अन्यथा
राजापुरुष इत्यादौ पुरुषादिपदार्थें राजादिपदार्थस्य
स्वस्वामिभावादिसम्बन्धेन पच्यते तण्डुल इत्यादौ धात्वर्थस्य
पाकादेः क्रियाकर्मभावादिसम्बन्धेन तण्डुलादिपदार्थे
यथाक्रममन्वयापत्तेरिति भावः। अव्युत्पन्नत्वात् --
समभिव्याहारविशेषज्ञाननियाम्यत्वविरहात्। तत्र-रथो
गच्छतीत्यादौ। तथा - प्रथमान्तार्थे गमनादेराश्रयतासंबन्धेन।
संबन्धे ऽतिरिक्तत्वविशेषणप्रवेशफलमाह - स्तोकं
पचतीत्यादावपीति। कर्तृकर्मणोराख्यातार्थतासम्भवे दीपिकाकृता
युक्तेरकथनात् स्वयं
तत्र तामाह - आख्यातस्येति। कर्त्रादाविति। आदिना
धात्वर्थतावच्छेदकत्वाभिमतसंयोगविभागादिरूपतत्तत्फलवदात्मककर्मपरिग्रहः।
महागौरवसूचनायानन्तेत्युक्तम्। कृत्यादेरित्यादिना
संयोगादिरूफलपरिग्रहः। एवमग्रे ऽपि। अङ्गीकार्यमित्यतः परं
कृतित्वादिजातेः शक्यताव्च्देदकतावच्छेदकमप्यङ्गीकार्यमिति
शेषः। कृतित्वादीतयादिना संयोगत्वादिपरिग्रहः।
जात्यखण्डोपाध्यतिरिक्तस्य यत्किञ्चिद्रूपेणैव भानादिति भावः।
लाघवमिति। कृतित्वादिजातेरेकत्वेनानन्त्यविरहात्
जात्यनुल्लिखितप्रतीतौ जातेः स्वरूपत एव भानोपगमेन
कस्यचिद्धर्मान्तरस्य शक्यतावच्छेदकतावच्छेदकताया
अप्यनुपगमाच्चेति भावः। दीपिकायाम् तदिति कर्तृकर्मपरम्।
एकत्वादीत्यादिपदार्थमाह - प्रकाशिकायाम् आदिना कृत्यादीति।
आदिनेत्यस्यादिशब्देनेत्यर्थः। एवमन्यत्रापि। तर्हि आख्यातस्य
कृत्याद्यर्थकत्वे। कर्तृकर्मणोरिति। देवदत्तः पचति पच्यते तण्डुल
इत्यादावितिशेषः। लाभः - प्रतितिः। कर्तृत्वकर्मन्त्वाभ्यां
देवदत्ततण्डुलादेरित्यादिः।
एवमग्रे ऽपि।
दीपिकायाम् तयोः - कर्तृकर्मणोः। आक्षेपादेवेति।
आक्षेपश्चार्थापत्तिः। देवदत्तादेः कर्तृत्वादिकमन्तरा
कृत्यादिपराख्यातसमभिव्याहृतदेवदत्तादिपदबोध्यत्वमनुपपन्नमि त्यादिरूपा।
ननु स्वमते उक्तरूपाक्षेपानुपगमादाक्षेपादेवेति
दीपिकावाक्यमसङ्गतमित्यत्राह - प्रकाशिकायाम् परमतेनेति।
स्वमते त्विति। स्वपदमत्र नैयायिकपरम्। पदेनैव इत्येवेन
उक्ताक्षेपव्युदासः। तदिति कर्तृकर्मेत्यर्थः। देवदत्तः पचतीत्यादौ
कञ्चनाक्षेपं तत्परिहारं च विवक्षन् तदुपयो गित्वेन
शाब्दबोधप्रकारं यथायोगं दर्शयति - देवदत्तः तण्डुलं
पचतीत्यत्रेति। तत्र - तेवदत्तः पचति, तण्डुलः पच्यत
इत्युक्तस्थलयोः। अनभिधानादितीति। तृतीयाद्वितीयानियामकयोः
सूत्रयोरनभिहिताधिकारीयत्वादिति भावः। अनभिह्वित इति।
लकारादिभिरित्यादिः। लकारादि जन्यशाब्दबोधाविषय इत्यर्थः।
तादृशे - लकारादिभिरनभिहित - इत्यर्थः। मूले ऽप्येवम्।
उपसर्गाणां
द्योतकत्वम्
[385] उपसर्गाणाम् - उपसर्गात् क्रियायोग
इति विहितोपसर्गसंज्ञकानाम् प्रादीनामिति शेषः। वचनत्वेति।
प्रकर्षादिरूपार्थविशेषेत्यादिः। तात्पर्येति।
समभिव्याहृतधातुप्रतिपाद्यार्थविशेषेत्यादिः। ग्राहकत्वमिति। अन्यथा
उपास्यते गुरुः इत्यादौ उपशब्दस्य समीपदेशपरतया
आसेश्चाधेयत्वार्थकत्वेन
समीपदेशाधेयत्वरूपविशिष्टार्थपरस्योपासेरकर्मकत्वेन ऽलः
कर्मणि च भावे चाकर्मकेभ्यःऽ (पा. सू 3.4.69) इति सूत्रोक्तरीत्या
कर्मलकारानुपपत्तिप्रसङ्गात्। अतः उपशब्दः
उपासनात्मकज्ञानविशेषरूपार्थविशेषे आसधातोस्तात्पर्यं ग्राह यति
इत्येव वक्तव्यमिति। एवमन्यत्रापि बोध्यम्। दीपिकायाम्
प्रकर्षे-प्रकर्षादौ द्योतकत्वमेवेत्येवकारव्यवच्छेद्यं स्फुटयति-न तत्र
शक्तिरिति। तत्र प्रकर्षादौ। तेन - उक्तरीत्या उपसर्गाणां
द्योतकत्वस्थापनेन। सूचितमित्यनेन सम्बन्धः। इतरेति।
उपसर्गंसंज्ञारहितेत्यर्थः। निपातनादिति एवकारादीनामिति शेषः।
ऽस्वरादिनिपातमव्ययम्ऽ (पा. सू. 1.1.37) इति
सूत्रविहितनिपातसंज्ञकानामित्यर्थः। एवकारादीनां
वाचकत्वप्रकारमुपपादयति - तथा हीत्यादिना। अयोगव्यवच्छेदः
उद्देश्यतावच्छेदकीभूतशङ्खत्वादिव्यापकत्वम्। अन्ययोगेति
एवकारस्येत्यादिरनुषज्यते। व्यवच्छेदश्चेति। अर्थ इत्यनुषज्यते।
अन्ययोगव्यवच्छेदः उद्देश्यतावच्छेदकपार्थत्वादिव्याप्यत्वम्।
इत्यादिकमित्यादिना क्रियासङ्गतैवकारस्यात्यन्तायोगव्यवच्छेदः
उद्देश्यतावच्छेदकत्वाभिमतसरोजत्वादिसामानाधिकरण्यरूपः। अर्थ
इत्यादिकमित्यर्थः।
पदार्थतत्त्वज्ञानस्य
मोक्षहेतुत्वनिरूपणम्
[388] प्रेक्षावदिति। बुद्धिमदित्यर्थः। विषयेति
मुक्तिविशेषणम्। पृथिव्यादेः जलत्वादिना ज्ञानस्यातत्त्वज्ञानस्य
मुक्तिप्रयोजकत्वासम्भवादाह - पदार्थतत्त्वज्ञानस्येति।
यथावस्थिताकारेण पदार्थज्ञानस्येत्यर्थः। अन्येषामिति।
मुक्तियपप्रयोजनादित्यादिः। अवान्तरेति। मध्यवर्तीत्यर्थः। परमेति।
परमत्वं च स्वानन्तरोत्पन्नतत्त्वज्ञानसाध्यप्रयोजनकान्यत्वम्।
साध्यत्वं च साक्षात्परम्परया वा बोध्यम्। अनुगमस्तु स्फुटः।
श्रुतेरिति। ऽआत्मा वारेऽत्यादिः।
ननूपायस्य
फलप्राग्भावित्वानुरोधेनोपायप्रतिपादकस्य भागस्य
फलप्रतिपादकभागप्राग्भावित्वमावश्यकमिति कथं द्रष्टव्य
इत्यादिवाक्यसङ्गतिरित्यत्राह आर्थेति। अर्थसम्बन्धीत्यर्थः।
क्रमेणेति। क्रमश्च पौर्वापर्यम्। उक्तश्रुतिवाक्य इत्यादिः।
एवमग्रे ऽपि। शब्देति। शब्दसम्बन्धीत्यर्थः। त्यक्तो भवतीति।
निदिध्यासितव्यो द्रष्टव्य इति योजनेति भावः। युक्तिभिः
बहुयुक्तिविषयकपरामर्शजन्यानुमितिधारेत्यर्थः। आत्मन इति।
आत्मविशेष्यकेतरभिन्नत्वप्रकारकानुमितिरित्यर्थः। तच्च -
उक्नरूपानुमानं च। प्रतियोगीतरेति समानाधिकरणसमासः। तच्च
उक्तरूपानुपानं च। तदिति। आत्मन
इतरर्भिन्नत्वेनानुमानत्यर्थः। तदनन्तरमि त्यत्र तच्छब्दो
मननपर इत्याशयेन व्याचष्टे -- मननेत्यादि। श्रुतस्येत्यादि।
नैरन्तर्यं विजातीयप्रत्ययाव्यवहितत्वम्। वैशिष्ट्ये तृतीया। प्रत्यये
विजातीयत्वं च श्रुतार्थातिरिक्तार्थविषयकत्वम्। प्रत्याहृत्येति।
प्रत्याहरणं सम्बन्धनिवृत्त्यनुकूलव्यापारः। सम्बन्धान्वयिनि
अनुयोगित्वे पञ्चमी विषयेभ्य इत्यत्र। एवमग्रे ऽपि तदनन्तरमित्यत्र
तच्छब्दः निदिध्यासनपर इत्यभिसन्धायाह - [388] निदिध्यासनेति। ननु मिथ्याज्ञानमात्रनाशे ऽपि
तदधीनवासनासत्त्वे दोषसम्भवात् मिथ्याज्ञाननाशेन
दोषाभावकथनमयुक्तमित्यतो व्याचष्टे --- [388] वासनासहितेति। ज्ञानविशेषणम्। वासना - संस्कारः।
रागादिरित्यादिना दोषमोहयोः परिग्रहः। [688] विशेषेति। रजतव्यावर्तकाकारेत्यर्थः।
शुक्तित्वादिरूपेत्यादिः। ज्ञानेनैवेत्येवेन तादृ
मूल पाठ: Tarkasaṃgraha with autoentary (Dīpikā), Nīlakaṇṭha's Dīpikāprakāśikā and Bālapriyā · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0