तर्कसंग्रह (टीका सहित) · भाग 461480
सद्धेतुविशिष्यकलक्षणादौदिप्रकारकज्ञानजनकशब्दप्रतियोगिकध्वंसविशिष्टः
असद्धेतुविशेष्यकलक्षणादिप्रकारकज्ञानजनकशब्दविषयकेच्छाविश् इष्टश्च
यः असद्धेतुत्वव्याप्यधर्मप्रकारकज्ञानजनकशब्दः
तदनुकूलवर्तमानकालीनकृतिमानित्यखण्डबोधः। अत्रासद्धेतुमित्यस्य
देहलीदीपन्यायेनोभयत्रान्वयः। प्रथमवैशिष्ट्यं
स्वप्रतियोगिसमानकर्तृकत्वस्वाश्रयकालवृत्तित्वोभयसम्बन्धेन।
द्वितीयवैशिष्ट्यं
स्वप्रयोज्येच्छाविषयत्वस्वविषयसमानकर्तृकत्वोभयसम्बन्धेन।
सद्धेतुमित्यत्र सत्पदस्यार्थमाह - प्रकाशिकायाम् [189] व्याप्त्यादिविशिष्टेति। आदिना पक्षधर्मतापरिग्रहः।
1. तादृशस्येति।
स्वप्रतियोगितावच्छेदककोटिप्रविष्टविशेष्यतावच्छेदकधर्मरूपस्येत्यर्थः
ननु स्यान्नाम
सामान्यधर्मकथनस्यावश्यकता, तथापि दुष्टलक्षणस्य प्रतिज्ञातत्वात्
तस्यैव वक्तव्यतया तदुपेक्ष्य दोषलक्षणाभिधानासङ्गतिरित्यत आह
- दोषलक्षण इत्यादि। [190] लाभः बोधः।
प्राप्त्यर्थकधातोर्ज्ञानार्थकत्वादिति भावः। [190] अत्रानुमितिपदमित्यादि। अयमाशयः-अनुमितिपदं
प्रकृतपक्षधर्मिङ्कप्रकृतसाध्यप्रकारकानुमिति-प्रकृतपक्षविशेष्यकप्रकृतसाध्यव्याप्यहेतुप्रकारकपरामर्शान्यतरपरम्,
न तु परामर्शस्यानुमितिकरणत्वेनात्र प्रवेशः। यद्यपि पर्वतो
वह्निमान् ह्रदश्च तथेत्यनुमितौ पर्वतो वह्निव्याप्यधूमवान् ह्रदश्च
तथेत्यादिपरामर्शें च समूहालम्बने ह्रदो न वह्निमान् नापि
वह्निव्याप्यधूमवानित्यादिविपरीतनिश्चययोः प्रतिबन्धकत्वात्
तद्विषये ऽतिव्याप्तिः। बाधाद्यसङ्ग्रहभिया
तादृशान्यतरत्वव्यापकप्रतिबध्यतानिवेशासम्भवात्। तथापि
प्रकृतानुमितित्वव्यापकत्वप्रकृतपरामर्शत्वव्यापकत्वान्यतरवत्प्रतिबध्यतानिरूपितप्रतिबन्धकतानिवेशात्
न दोषः। अत एवानुमितिकरणत्वेन परामर्शनिवेशोपेक्षा।
भ्रमभिन्नेत्यर्थः इति। भमत्वं च
1स्वावच्छिन्नत्वस्वानुयोगिनिष्ठविशेष्यतानिरूपितत्वस्वप्रतियोगिनिष्ठत्वत्रितयसम्बन्धेन
संसर्गविशिष्टान्यप्रकारतानिरूपकत्वम्। तेन पर्वतो निर्वह्निरिति
ज्ञानस्य किञ्चिदंशे प्रमात्वे ऽपि न क्षतिः।
[190] यद्रूपावच्छिन्नविषयकेति।
यद्विषयकेत्युक्तौ विशिष्टशुद्धयोरनतिरेकात् ह्रद
इत्याद्येकदेशज्ञानमादायासम्भवस्स्यादिति तदुपेक्षा। कस्तर्हि
ज्ञानविशेष इत्याकाङ्क्षायां तत्प्रदर्शनमुखेन
निष्कृष्टहेत्वाभासलक्षणं प्रदर्शयति - [190] एवं चेति।
अत्रायमनुमगमः
1. स्वशब्देन रजते
इदं रजतमिति प्रमायां विषयभूतः यः समवायाख्यः संबन्धः स
ग्राह्यः, तदवच्छिन्नत्वं रजतत्वनिष्ठप्रकारतायामस्ति। एवं स्वं समवायः
तदनुयोगि रजतं तन्निष्ठविशेष्यतानिरूपितत्वं च
रजतत्वनिष्ठप्रकरतायामस्ति। एंव स्वं समवायः तत्प्रतियोगि
रजतत्वं तन्निष्ठत्वं च प्रकारतायामस्ति। अतः उक्तत्रितयसंबन्धेन
संसर्गविशिष्टा प्रमीयप्रकारता तदन्या प्रकारता भ्रमीया
रजतत्वनिष्ठप्रकारता तन्निरूपकत्वं भ्रम इति।
पक्षतावच्छेदकविशिष्टरूपसत्त्वं हेत्वाभासत्वम्। वैशिष्ट्यं च
स्वविशिष्टप्रतिबध्यतानिरूपितप्रतिबन्धकताविशिष्टत्वसम्बन्धेन।
स्ववैशिष्ट्यं
1स्वावच्छिन्नविशेष्यतानिरूपितसाध्यतावच्छेदकधर्मसम्बन्धावच्छिन्नप्रकारताशाल्यनुमितिवृत्तिभेदप्रतियोगितावच्छेदक
त्वसम्बन्धावच्छिन्नस्वनिष्ठावच्छेदकताकप्रतियोगिताकभेदवत्त्वस्वावच्छिन्नविशेष्यतानिरूपितसाध्यव्याप्यहेतुप्रकारताशालिपरामर्शवृत्तिभेदप्रतियोगितावच्छेदकत्वसंबन्धावच्छिन्नस्वनिष्ठावच्छेदकताकप्रत् इयोगिताकभेदवत्त्वोभयसम्बन्धेन।
प्रतिबन्धकतावैशिष्ट्यं आधेयतासम्बन्धेन। सा च
2स्वसेत्यादिभेदवत्त्वसंबन्धेन। स्वाधिकरणता
स्वावच्छिन्नविषयकानाहार्याप्रामाण्यज्ञानानास्कन्दितनिश्चयत्वसम्बन्धेन।
भेदप्रतियोगितावच्छेदकता स्वरूपसम्बन्धेन। तेनात्रायं दोष
इत्यादौ न वाक्यभेदः। अत्रायं प्रतिबध्यप्रतिबन्धकभावनिष्कर्षः।
ह्रदत्वादिनिष्ठानवच्छिन्नावच्छेदकताकविशेष्यतानिरूपितसंयोगत्वावच्छिन्नसंसर्गताकवह्नित्वादिनिष्ठानवच्छिन्नवच्छेदकताकप्रकारताकानाहार्यबुद्धित्वावच्छिन्नं
प्रति ह्रदत्वादिनिष्ठानवच्छिन्नावच्छेदकताकविशेष्यतानिरूपिता या
वह्नित्वादिनिष्ठानवच्छिन्नावच्छेदकताकसंयोगसम्बन्धावच्छिन्नप्रति योगितासम्बन्धावच्छिन्नप्रकारतानिरूपितस्वरूपसम्बन्धावच्छिन्नाभावत्वावच्छिन्नप्रकारता
तच्छाल्यनाहार्यत्वादिविशिष्टज्ञानत्वेन विरोधित्वम्। अत्र जातिमान्
वह्निमानिति ज्ञानव्यावृत्तये प्रतिबध्यदिशि जातिमान्
वह्न्यभाववानित्यादिज्ञानव्यावृत्त्ये प्रतिबन्धकदिशि
अनवच्छिन्नत्वनिवेशनम्। एवं प्रतिबध्यदिशि कालिकत्वादिना
संयोगावगाहिभ्रमस्याप्रतिबध्यत्वोपपत्तये संयोगत्वादिना
पदार्थांन्तरावगाहि भ्रमस्याप्रतिबध्यत्वोपपत्तये संयोगत्वादिना
पदार्थांन्तरावगाहिभ्रमस्य प्रतिबध्यत्वोपपत्तये च
संयोगत्वावच्छिन्नसर्ंसताप्रवेश इति ध्येयम्। ज्ञानविशेषनिवेशे
प्रयोजनमाह - [190] तनेति। [190] अप्रामाण्यज्ञानविशिष्टस्येति।
विषयत्वसामानाधिकरण्योभयसम्बन्धेनेत्यादिः।
1. स्वं -
पक्षतावच्छेदकम्।
अत्र सर्वत्र स्वशब्दः
दोषतावच्छेदकरूपपरः।
मिश्रव्याख्यामुपन्यस्यति - [191] परेत्वित्यादिना। [191] दुष्टानामित्यादि। तथा च न दुष्टनिरूपणप्रतिज्ञाविरोध
इति भावः। [191] इदम् -
अनुमितिप्रतिबन्धकयथार्थज्ञानविषयत्वम्। [191] दुष्टानामेवेति। एवेन दोषव्यवच्छेदः। ननु पर्वतो
वह्निमान् धूमादित्यादौ पर्वतो वह्न्यभाववानिति
बाधभ्रममादायातिप्रसङ्गः। तस्याप्यनुमितिप्रतिबन्धकतया हेतौ
तत्प्रकारकग्रहस्य यथार्थत्वसम्भवादित्यत आह - [191] परन्त्विति। ननु ज्ञायमानव्यभिचारादिप्रतिबन्धकतामताश्रयणे
प्रतिबन्धकयथार्थज्ञानेत्यत्र कर्मधारयासम्भवात्
लक्षणवाक्यार्थानुपपत्तिरित्यत आह - [191] तदर्थस्त्विति।
अनुमितीत्यादिलक्षणवाक्यार्थस्त्वित्यर्थः। [191] एकेति। स्वविषयकेत्यर्थः
ज्ञानविशेषणम्। लक्ष्ये लक्षणं ग्राहयति - [191] धूमवानित्यादिना। [191] उक्तेति।
एकज्ञानविषयप्रकृतहेतुतावच्छेदकधर्मवत्त्वरूपेत्यर्थः। एवमग्रे ऽपि
[191] दर्शितेत्यस्य। [191] तदिति।
धूमाभाववद्वृत्तित्वविशिष्टवह्न्यादिरूपव्यभिचारेत्यर्थः।
ननु इह
लक्षणे ऽनुमितिसामान्यस्य प्रवेशात् पर्वतो वह्निमान्
धूमादित्यादावतिव्याप्तिः। ह्रदो धूमवानित्याद्यनुमितिप्रतिबन्धको
यो व्यभिचारः धूमाभाववद्वृत्तित्वविशिष्टवह्न्यादिरूपः
प्रागुक्तसंबन्धेन तत्प्रकारकप्रमाविशेष्यत्वस्य धूमादिसद्धेतौ
सत्त्वात् इत्याशङ्कां निरारकरोति [191] प्रकृतेति।
प्रकृतपक्षकप्रकृतसाध्यकप्रकृतहेतुकेत्यर्थः। [191] सद्धेतावित् इ। नातिव्याप्तिरित्यनेन सम्बन्धः। [191] यथार्थपदानुपादान इत्यादि। यद्यप्यनुपदमेव पर्वतो
वह्निमान् धूमादित्यादिस्थले तादृशव्यभिचाराद्यप्रसिद्ध्या
नातिप्रसङ्गप्रसक्तिरित्युक्तत्वात्। कथमेतत्प्रयोजनकथनसङ्गतिः।
तथापि धूमवान् वह्नेरित्यत्रैव
रासभादिधर्मिकदर्शितसंसर्गकतादृशव्यभिचारादिरूपतत्स्थलप्रस् इद्धदोषप्रकारकभ्रमविषेष्यतामादाय
रासभादावतिप्रसङ्ग इत्याशयात् न दोषः। न चैवं
सद्धेतावित्युक्तिरयुक्तेति वाच्यम्। इह सद्धेतुपदस्य
प्रकृतहेतुभिन्नपरत्वात्। तथा च सद्धेतावपि पकृतहेतुभिन्ने ऽपि
रासभादाविति शेषः। अपिना प्रकृतहेतुसंग्रहः। दृष्टान्ततया
भ्रमप्रमासाधारण्येनैव ज्ञानस्य लक्षणे निवेशादिति भावः। [191] तदिति। यथार्थपदेत्यर्थः। [191] आहुरिति। अत्रायमस्वरसः
--- अनुमितीत्यादेर्देषलक्षणत्वे दोषवत्त्वं दुष्टानां लक्षणं
स्फुटतया लभ्यते। उक्तरीत्या तस्य दुष्टलक्षणत्वे तु दोषलक्षणं नैव
लभ्यत इति शिष्यधीवैशद्यासिद्धिः। यद्यप्यनुमितिप्रतिबन्धकेत्यनेन
अनुमितिप्रतिबन्धकत्वं तल्लक्षण लभ्यते तथापि
तन्मते ऽनुमितिप्रतिबन्धकवत्त्वमित्युक्तिमात्रेणोभयसामञ्जस्ये
प्रतिबन्धकयथार्थज्ञानेत्याद्युक्तेरस्वारस्यमिति।
सव्यभिचारनिरूपणम्
सङ्ग्रहे [195] साध्याभाववद्वृत्तिरिति। अत्र केचित् - वह्निमान्
धूमादित्यादौ अतिव्याप्तिः। साध्याभाववती या धूमाधिकरणता
तन्निरूपिताधेयत्वस्य धूमादौ सत्त्वात्। न च
साध्याभाववन्निष्ठाधिकरणतानिरूपिताधेयत्वं विवक्षितमिति न दोष
इति वाच्यम्। एवमपि धूमाधिकरणता पर्वतान्या
धूमाधिकरणतात्वादित्यादौ अतिव्याप्तेः। तत्र साध्याभाववान्
पर्वतः तन्निष्छठा या धूमाधिकरणता तन्निरूपिताधेयत्वस्य
धूमाधिकरणतात्वे सत्त्वात्। न च साध्याभाववन्निरूपितत्वे सति
साध्याभाववन्निष्ठाधिकरणतानिरूपिता या आधेयता इति
विवक्षणात् 1न दोष इति वाच्यम्। एवमपि धूमाधिकरणता
अधिकरणताभिन्नत्वपर्वतान्यत्वोभयवती धूमाधिकरणतात्वात्
2इत्यत्रातिव्याप्तेः।
1. न दोष इति।
धूमाधिकरणतात्वनिष्ठायामाधेयतायां
साध्याभाववत्पर्वतनिष्ठधूमाधिकरणतानिरूपितत्वे ऽपि
साध्यभाववत्पर्वतनिरूपितत्वाभावादौदिति भावः।
2.
इत्यत्रातिव्याप्तेरिति। तत्र हि साध्याभाववान् पर्वतः
धूमाधिकरणता च भवति साध्याभाववत्पदेन पर्वतस्योपादाने
तन्निष्ठा या अधिकरणता धूमाधिकरणता तन्निरूपितत्वं
धूमाधिकरणतात्वनिष्ठायां आधेयतायामस्ति,
एवं
साध्याभाववत्पदेन धूमाधिकरणतारूपायाः अधिकरणतायाः उपादाने
तन्निरूपितत्वं च धूमाधिकरणतात्वनिष्ठायामाधेयतायामस्ति
इत्यतिव्याप्तेरित्यर्थः।
न च
साध्याभाववद्विशिष्टाधेयत्वं विवक्षितम्। वैशिष्ट्यं च
स्वनिरूपितत्वस्वनिष्ठाधिकरणतानिरूपितत्वोभयसम्बन्धेन। अतो न
दोष इति वाच्यम्। एवमपि प्रमेयत्वाधिकरणता
प्रमेयत्वाधिकरणतात्वनिष्ठाधेयतानिरूपिताधिकरणताभिन्ना
प्रमेयत्वाधिकरणतात्वात् इत्यत्रातिव्याप्तेः। साध्याभाववती या
साध्यभूतभेदप्रतियोग्यधिकरणता तन्निरूपितत्वस्य साध्याभाववती
या तादृशाधिकरणता तन्निष्ठा या प्रमेयत्वाधिकरणता
तन्निरूपितत्वस्य च
प्रमेयत्वाधिकरणतात्वनिष्ठाधिकरणतानिरूपिताधेयतायां सत्त्वात्।
न च
स्वनिष्ठाधिकरणतानिरूपितत्वस्थले स्वनिष्ठाधिकरणतानिरूपकत्वं
वाच्यम्। आधेयताया
अधिकरणनिरूपकत्वाभावेनोक्तदोषानवकाशादिति वाच्यम्। एवमपि
आधेयत्वाधिकरणता
आधेयतात्वनिष्ठाधिकरणतानिरूपिताधिकरणताभिन्ना
आधेयत्वाधिकरणतात्वादित्यत्रातिव्याप्तेः।
आधेयतासामान्यनिरूपिताधिकरणतानिरूपकत्वस्याधेयतामात्रे
सत्त्वात्।
न च
स्वनिरूपकत्वस्थले
स्वनिरूपकतावच्छेदकहेतुतावच्छेदकधर्मसम्बन्धावच्छिन्नाधेयतात्वकत्वनिवेशात्
न दोष इति वाच्यम्। तथा सति साध्याभाववदवृत्तित्वरूपव्याप्तेः
निरुक्तव्यभिचाराभावरूपत्वे हेतुभेदेन भेदापत्त्या
केवलान्वयिग्रन्थविरोधापत्तेः। तत्र तादृशव्याप्तेरभेदस्योक्तत्वात्।
न च
स्वनिरूपकत्वसम्बन्धावच्छिन्नस्वनिष्ठप्रतियोगिताकात्यन्ताभावस्वनि रूपितत्वोभयसम्बन्धेन।
साध्याभाववद्विशिष्टाधेयत्वं विवक्षितमिति न दोषः। आधेयताया
अधिकरणनिरूपकताविरहात् इति वाच्यम्।
वृत्त्यनियामकसम्बन्धस्यात्यनताभावप्रतियोगितानवच्छेदकतामते
उक्तपरिष्कारासम्भवात्।
न च
स्वनिरूपकत्वसम्बन्धावच्छिन्नस्वनिष्ठावच्छेदकताकप्रतियोगिताकभेदवत्त्वमेव
निवेश्यमिति न दोषः।
वृत्त्यनियामकसम्बन्धस्याप्यन्योन्याभावप्रतियोगितावच्छेदकतावच्छेदकतायाः
सर्वसंमतत्वात् इति वाच्यम्। तथासति धूमवान्
वह्नेरित्पयादावसम्भवापत्तेः। निरूपकतया
अयोगोलकादिमतो ऽप्रसिद्धेरिति वदन्ति।
अत्रोच्यते-विलक्षणनिरूपितत्वसम्बन्धेन
साध्याभाववद्विशिष्टाधेयत्वं विवक्षितम्। वैलक्षण्यं चाखण्डोपाधिः।
न च तत्र मानाभाव इति वाच्यम्। कार्यतायाः
कारणमित्याद्यव्यवहारात् कार्यस्य कारणमिति व्यवहाराच्च
विलक्षणनियपितत्वस्य षष्ठ्यर्थताया गदाधरेण बाधग्रन्थे उक्ततया
तत्तुल्ययुक्त्या अधिकरणे वर्तते, अधिकरणतायां वर्तत
इत्यादिव्यवहाराव्यवहाराभ्यां विलक्षणनिरूपितत्वस्य
सप्तम्यर्थताया अप्यावश्यकत्वात्। वैलक्षण्यस्य
चाखण्डोपाधिरूपादन्यस्य निर्वक्तुमशक्यत्वात् इति बोध्यय्।
अन्ये तु
साध्याभाववन्निष्ठाधिकरणतानिरूपकत्वं विवक्षितमिति न दोष
इत्याहुः। तच्चिन्त्यम् -
प्रमेयाधिकरणता
पर्वतान्या प्रमेयाधिकरणतात्वादित्यादावव्याप्तेः। प्रमेयत्वेन
प्रकृतहेतोरपि तादृशाधिकरणतानिरूपकत्वात् इति।
प्रकाशिकायाम् [196] साध्यतावच्छेदकधर्मसंबन्धावच्छिन्नेति।
साध्यतावच्छेदकधर्मसम्बन्धपर्याप्तावच्छेदकताकेत्यर्थः। तेन
द्वित्वाद्यवच्छिन्नाभावविशिष्टाभावयोः
संयोगसमवायोभयसंबन्धावच्छिन्नप्रतियोगिताकाभावस्य च
व्यावृत्तिः। तादृशावच्छेदकताकत्वं च तादृशधर्मेतरधर्मानवच्छिन्नत्वे
सति सादृशसम्बन्धेतरसम्बन्धानवच्छिन्नत्वम्।
धर्मसम्बन्धयोर्निवेशप्रयोजनमाह - [196] तेनेति
हेतुतावच्छेदकसंबन्धप्रवेशनं च वह्निमान् धूमादित्यादौ
विपक्षभूते ह्रदादौ कालिकादिनां धूमादेस्सत्त्वात्
अतिव्याप्तिवारणाय। [196] साध्याभाववत्तायाम्
साध्याभावनिष्ठाधेयतायाम्। ननु कपिसंयोगी एतत्वादित्यादौ
अतिव्याप्तिः।
शुद्धविशेषणतायास्तादृशत्वादित्यत आह - कपीति। [196] दिगिति।
आकाशाभावत्वावच्छिन्नकालिकविशेषणतासंबन्धावच्छिन्नप्रतियोगिताकाभाववान्
आत्मत्वादित्यादौ कालिकविशेषणतैव
तादृशसम्बन्धः। यदि च
ऽअधिकं तुऽ इत्यादि न्यायेन
निरवच्छिन्नविशेषणतासंसर्गककपिसंयोगाभावप्रकारकनिश्चयमादाय
तद्दोषतादवस्थ्यमित्युच्यते। तदा
यद्धर्मपर्याप्तावच्छेदकताकसंसर्गतानिरूपितसाध्याभावप्रकारताकनिश्चियः
प्रतिबन्धकः तद्धर्मपर्याप्ताधेयतावच्छेदकतानिवेशात् न दोषः। न
चैवमपि तादृशसमूहालम्बनज्ञानमादाय तद्दोषतादवस्थ्यमिति
वाच्यम्। तादृशनिश्चयसामान्यं प्रतिबन्धकमित्यर्थविवक्षणात्। तथा
च ज्ञानत्ववृत्तिधर्मपर्याप्तावच्छेदकताकत्वं निवेश्यम्। वृत्तिश्च
स्वसेत्यादि भेदवत्त्वसंबन्धेन। स्वाधिकरणता
स्वपर्याप्तावच्छेदकताकसंसर्गताकसाध्याभावप्रकारतानिरूपितविशेष्यतावच्छेदकतानिरूपकनिश्चयत्वसंबन्धेन।
भेदप्रतियोगितावच्छेदकतास्वाश्रयविशिष्टत्वसंबन्धेन। वैशिष्ट्यं
तादात्म्यस्वविशिष्टप्रतिबध्यतानिरूपितप्रतिबन्धकत्वोभयसम्बन्धेन।
स्ववैशिष्ट्यं
स्वविशेष्यतावच्छेदकधर्मावच्छिन्नविशेष्यतानिरूपितसाध्यतावच्छेदकधर्मसम्बन्धावच्छिन्नप्रकारताशाल्यनाहार्यज्ञानवृत्तिभेदप्रतियोगितावच्छेदकत्वसंबन्धावच्छिन्नस्वनिष्ठावच्छेदकताकप्रतियोगिताकभेदवत्त्वसंबन्धेन।
नातो व्यभिचारस्य विशिष्टैकार्थरूपताभङ्ग इति।
सपक्षवृत्तित्वसामान्याभावनिवेशस्यावश्यकतया तत एव
किञ्चित्सपक्षमादाय दोषविरहात् सर्वपदवैयर्थ्यथ्मत्याशङ्क्याह-
[196] सपक्षवृत्तित्वेति। ननु सपक्षत्वं यदि साध्यवत्त्वमात्रं तदा
असम्भवः। शब्दत्वादावनित्यत्वादिसामानाधिकरण्यसत्त्वादित्यत आह -
[196] सपक्षपदमिति। ननु शब्दादावनित्यत्वादिसाधने
शब्दत्वादिःसद्धेतुरेवेति कथं
तस्यासाधारणहेत्वाभासतेत्याशङ्क्याह - [197] शब्द इत्यादि। [197] सम्प्रदायविदः प्राञ्चः। नवीनमतस्य निर्दुष्टत्वात्
प्राहुरित्युक्तम्। [195] अन्वयव्यतिरेकदृष्टान्तरहितो ऽनुपसंहारी इति
संग्रहोक्तयथाश्रुतलक्षणे सिद्ध्यसिद्धिभ्यां व्याघात इत्यालोच्याह -
[197] अन्वयव्यतिरेकेति। यत्किञ्चिद्धर्मिणि साध्यनिश्चयस्य
साध्याभावनिश्चयस्य वा सत्त्वे अनुपसंहारव्यवहारविरहात्
दलद्वयोपादानम्।
विरुद्धनिरूपणम्
ननु
विरोधासाधारण्ययोरभेदप्रसङ्गः इत्यत आह - [203] साध्याभावेति। साक्षात् - परामर्शमद्वारीकृत्य।
तदभावव्याप्यवत्ताज्ञानविधयेति यावत्।
सत्प्रतिपक्षनिरूपणम्
[203] यस्य
साध्याभावसाधकमित्यादिसङ्ग्रहवाक्ये षष्ठ्यन्तयच्छब्दार्थस्य
साध्ये ऽन्वयः। पक्ष इत्यध्याहार्यम्। प्राचीनमते
सत्प्रतिपक्षस्यानित्यदोषत्वेन सद्धेतोरपि तद्व्यवहारस्येष्टत्वेन
विद्यत इत्यस्य ज्ञायत इत्यर्थः कर्माख्याताश्रयणात्। नव्यमते तु
कर्त्राख्याताश्रयणेन वर्तत इत्यर्थः। साधकम् - व्याप्यतया
गृह्यमाणमित्यर्थः। प्राचांमते। नवीनमते तु व्याप्यमित्यर्थ
इत्यभिप्रायेण व्याचष्टे - [203]
यत्सम्बन्धीत्यादि। [203] नवीनाः पुनरिति। साध्याभावव्याप्यहेत्वन्तरवत्पक्षः
सत्प्रतिपक्षः। व्याप्तिश्चान्वयतो व्यतिरेकतश्च बोध्या। तद्ग्रहश्च
तदभावव्याप्यवत्ताग्रहविधयानुमितिविरोधीति भावः।
असिद्धनिरूपणम्
[203] पक्षे पक्षतावच्छेदकविरह इति।
तज्ज्ञानस्य पक्षतावच्छेदकविशिष्टपक्षग्रहविरोधित्वम्। [203] पक्षे हेत्वभाव इति। तद्ग्रहस्य च
पक्षधर्मतावगाहिपरामर्शविरोधित्वं बोध्यम्। ननु
बाधादेरिवोपाधेरपि दोषत्वात्
तद्विशिष्टस्यातिरिक्तहेत्वाभासत्वमावश्यकत्वं बाधितादिवत्
उपधेयसङ्करे ऽपीति न्यायात्। अतः सोपाधिको व्याप्यत्वासिद्ध
इत्यसङ्गतमिति हेत्वाभासपञ्चत्वव्याघातापत्तिरित्यत आह - [204] उपाधेरिति। ननु
साध्याप्रसिद्धिसाधनाप्रसिद्धिरूपयोर्देषयोरधिकयोस्सत्त्वात् कथं
हेत्वाभासानां पाञ्चविध्यमित्याशङ्क्य
तयोर्व्याप्यत्वासिद्धावन्तर्भावात् न तद्विरोध इत्याह - [204] अत्रेदमवधेयमित्यादिना।
उपाधिनिरूपणम्
संग्रहे [207] साध्यव्यापकत्वे सतीत्यादि। अत्र च वह्निमान्धूमादित्यादौ
द्रव्यत्वादेर्घटादेश्च वारणाय दलद्वयोपादानम्। ननु
साध्यव्यापकत्वं साध्यवन्निष्ठाभावाप्रतियोगित्वरूपं चेत्, तदा
असम्भवः; सर्वेंषामेव
द्वित्वाद्यवच्छिन्नाभावप्रतियोगित्वात्। किं तु
साध्यवन्निष्ठाभावप्रतियोगितानवच्छेदकधर्मवत्त्वम्। तथा च
वह्निमान् धूमादित्पयादौ वह्नित्वादिना महनसीयवह्न्यादेः
साध्यव्यापकत्वात् उपाधितापत्तिरित्यत आह - प्रकाशिकायाम् [207] साध्यव्यापकत्वेत्यादि। साध्यतावच्छेदकसंबन्धेन
साध्यवन्निष्ठाभावीयोपाधिताघटकसंबन्धावच्छिन्नप्रतियोगितानवच्छेदकः
साधनतावच्छेदकसंबन्धेन
साधनवन्निष्ठाभावीयोपाधिताघटकसम्बन्धावच्छिन्नप्रतियोगितावच्छेदकश्च
य 1उपाधिताघटकधर्मः तद्वत्त्वमित्यर्थः। अयमत्रानुगमः --
भेदविशिष्टोपाधितावच्छेदकधर्मवत्त्वं उपाधिलक्षणम्। वैशिष्ट्यं
स्वाश्रयत्वस्वविशिष्टोपाधितावच्छेदकसम्बन्धावच्छिन्नसाधनवन्निष्ठाभावीयप्रतियोगितावच्छेदकत्वोभयसम्बन्धेन।
स्ववैशिष्ट्यं स्वप्रतियोगितावच्छेदकतासम्बन्धेन। अवच्छेदकता
स्वावच्छिन्नसाध्यवन्निष्ठाभावप्रतियोगितावच्छेदकत्वसम्बन्धावच्छिनना
इति। उपाधितावच्छेदकसम्बन्धप्रवेशफलमाह --- तेनेति।
केचित्तु -
उपाधिताघटकसम्बन्धविशिष्टोपाधिताघटकधर्मवत्त्वं लक्षणम्।
वैशिष्ट्यं स्वावच्छिन्न
साध्यवन्नष्ठाभावप्रतियोगितावच्छेदकत्वसम्बन्धावच्छिन्नस्वनिष्ठावच्छेदकताकप्रतियोगिताकभेदवत्त्वस्वा
वच्छिन्नसाधनवन्निष्ठाभावीयप्रतियोगितावच्छेदकत्वोभयसम्बन्धेनेत् इ
वदन्ति। वस्तुतस्तु अवच्छेदकताविशिष्टधर्मवत्त्वम् तत्। वैशिष्ट्यं
स्वाश्रयत्वस्वविशिष्टावच्छेदकत्वसम्बन्धावच्छिन्नस्वनिष्ठावच्छेदकताकप्रतियोगिताकभेदवत्त्वोभयसंबन्धेन।
1. उपाधिताघटकधर्म
इति। उपाधितावच्छेदकधर्म इत्यर्थः।
उपाधिताघटकसंबन्धेत्यत्रापि उपाधितावच्छेदकसंबन्धेत्यर्थः।
स्ववैशिष्ट्यं
स्वावच्छेदकसंबन्धावच्छिन्नत्वस्वविशिष्टप्रतियोगितानिरूपितत्वोभयसंबन्धेन।
स्ववैशिष्ट्यं स्वनिरूपकप्रतियोगिताविशिष्टत्वसंबन्धेन। वैशिष्ट्यं
स्वावच्छेदकसम्बन्धावच्छिन्नत्वस्वनिरूपकाभावनिष्ठसाधनतावच्छेदकसंबन्धेन
साधनतावच्छेदकावच्छिन्नवन्निरूपिताधेयतावच्छेदकसम्बन्धावच्छिन्नसाध्यतावच्छेदकावच्छिन्नवन्निरूपिताधेयतावदभावीयत्वोभयसंबन्धेन।
अतो न सम्बन्धान्तराण्यादाय दूषणावकाश इति। [208] अव्याप्तिमिति। वायुः प्रत्यक्ष इत्यादौ उद्भूतरूपादेः
गुणादिसाधारणशुद्धसाध्यव्यापकत्वाभावादिति भावः। [208] यद्धर्मविशिष्टसाध्येत्यादि।
पक्षधर्मादिविशिष्टोपाधितावच्छेदकधर्मवत्त्वमिति निष्कर्षः।
वैशिष्ट्यं
स्वावच्छिन्नसाध्यनिरूपिततत्सम्बन्धावच्छिन्नव्यापकतावच्छेदकत्वस्वावच्छिन्नसाधननिरूपिततत्सम्बन्धावच्छिन्नाव्यापकतावच्छेदकत्वोभयसंबन्धेन।
वस्तुतस्तु
अधिकरणताविशिष्टरूपवत्वं विवक्षितम्। वैशिष्ट्यं
स्वाश्रयावच्छेदकत्वस्वविशिष्टप्रतियोगितावच्छेदकत्वसंबन्धावच्छि न्नस्वनिष्ठावच्छेदकताकप्रतियोगिताकभेदवत्त्वाभय
सम्बन्धेन।
स्ववैशिष्ट्यं
स्वाश्रयावच्छेदकसंबन्धावच्छिन्नत्वस्वनिरूपकपक्षधर्मादिविशिष्टसाध्यवन्निष्ठात्यन्ताभावीयत्वोभयसंबन्धेन।
अधिकरणता च स्वावच्छिन्नसाधनवन्निष्ठाभावीयत्वसम्बन्धावच्छिन्ना।
तेनात्रायमुपाधिरित्यत्र न वाक्यभेदः। वस्तुतस्तु
अधिकरणताविशिष्टधर्मवत्त्वमुपाधिलक्षणम्। वैशिष्ट्यं
स्वनिरूपकभेदप्रतियोगिताकाधिकरणतानिरूपकभेदप्रतियोगितावच्छेदकसंबन्धावच्छिन्नत्वस्वविशिष्टप्रतियोगितानिरूपितत्वोभयसंबन्धेन।
स्ववैशिष्ट्यं
स्वविशिष्टसाध्यवन्निरूपिताधेयतावदभावीयत्वस्वनिरूपकभेदप्रतियोगितावच्छेदकाधिकरणताश्रयसम्बन्धावच्छिन्नत्वोभयसम्बन्धेन।
स्ववैशिष्ट्यं स्वाश्रयसंम्बन्धावच्छिन्नत्वसंबन्धेन। द्वितीये वैशिष्ट्यं
स्वनिरूपकभेदप्रतियोगितावच्छेदकाधिकरणतानिरूपकभेदप्रतियोगि तावच्छेदकसंबन्धावच्छिन्नत्वस्वविशिष्टप्रतियोगितानिरूपितत्वोभयसंबन्धेन।
स्ववैशिष्ट्यं
स्वनिरूपकभेदप्रतियोगितावच्छेदकाधिकरणताश्रयसम्बन्धावच्छिन्नत्वस्वविशिष्टसाधनवन्निरूपिताधेयतावदभावीयत्वोभयसम्बन्धेन।
स्ववैशिष्ट्यं स्वाश्रयसम्बन्धावच्छिन्नत्वसम्बन्धेन। अत्र साध्यवत्त्वं
साध्यतावच्छेदकसम्बन्धेन साध्यतावच्छेदकावच्छिन्नवत्त्वम्, तेन
संबन्धान्तरेण साध्याधिकरणमादाय न दोषः। न वा
विशिष्टसत्तावान् जातेरित्यादौ द्रव्यत्वादेरूपाधितानुपपत्तिः। एवं
साधनवत्त्वमपि साधनतावच्छेदकसम्बन्धेन
साधनतावच्छेदकावच्छिन्नवत्त्वम्। तेन
संबन्धान्तरेण
साधनाधिकरणमादाय न दोषः। न वा द्रव्यं विशिष्टसत्त्वादित्यादौ
गुणादेरुपाधितापत्तिः एवं व्यावृत्त्यन्तरमवसेयम्। कस्यचिदिति।
पर्वतीयधूमाधेरित्यर्थः। [208]
इदं-बहिर्द्रव्यस्य
पक्षधर्मताकथनम्। तेन बाह्यप्रत्यक्षविषयत्वस्य साध्यतायां
द्रव्यत्वमात्रमेव पक्षधर्म इति सूचितम्। [208] अनित्यत्वव्यापकमिति। दीपिकावाक्ये ऽनित्यत्वपदस्य
जन्यत्वविनाशित्वसाधारणत्वात् प्रकृतानुगुण्यार्थमाह --- [208] विनाशित्वेति। अन्यथा तादृशसाध्यव्यापकत्वोपादनपरत्वं
तादृशग्रन्थस्य न संभवतीति भावः।
बाधितनिरूपणम्
[208] यस्य साध्याभाव इति संग्रहपङ्क्तौ पक्ष
इत्यध्याहार्यम्। तथा
चानुमानातिरिक्तप्रमाणजन्यपक्षधर्मिकनिश्चप्रकारीभूतः
यद्धेतुसंबन्धि यत् साध्यं तदभाव इत्यर्थः। सम्बन्धश्च
हेतुसाध्यभावलक्षणः। अत्र बाधादिनिश्चयानां कुत्र केन रूपेण
प्रतिबन्धकत्वमित्याशङ्कायामाह - दीपिकायाम् बाधस्येत्यादिना।
दोषाणामनुमितिप्रतिबन्धकत्वप्रकारशोधनम्
बाधशब्दस्य
दोषविशेषे ऽपि प्रयोगादाह --- प्रकाशिकायाम् [212] बाधस्य साध्याभाववत्तानिश्चयस्येति। दीपिकायाम् [212] सत्प्रतिपक्षस्य विरोधिज्ञानजनकसामग्रीत्वेनेति। सत्प्रतिपक्षस्य
सत्प्रतिपक्षज्ञानस्य। विरोधिज्ञानजनकसामग्रीत्वेन
तदभाववत्ताज्ञानजनकसामग्रीत्वेन।
अत्र नवीनाः ---
सामग्रीत्वमेककारणविशिष्टापरकारणत्वमिति
प्रतिबन्धकतावच्छेदकगर्भे कारणान्तरप्रवेशो निष्फलः
गौरवसम्पादकश्चेति विशेष्यभूतज्ञानस्य
तदभावव्याप्यवत्ताज्ञानत्वेनैव प्रतिबन्धकत्वमुचितम्, लाघवात्।
एवं प्रतिहेतुव्यापकः साध्याभावः प्रतिहेतुमान् पक्ष इति
विशकलितज्ञानद्बयसाधारणतया ज्ञानविशिष्टज्ञानत्वेनैव
विरोधित्वमावश्यकम्। एतेन विरोधिज्ञानजनकत्वेन
विरोधित्वमित्यपि प्रत्युक्तमिति प्राहुः। तन्मतं दर्शंयति ---
प्रकाशिकायाम् [212] वस्तुतस्त्विति। ननु दीपिकायाम्
साधारणस्य इत्याद्यसङ्गतम्, दुष्टहेतोरेवसाधारणशब्दार्थतया
तस्याव्यभिचाराभावरूपत्वासम्भवात् इत्यत आह- [292] भावप्रधाननिर्देशतयेति। वैशिष्ट्ये तृतीया। [212] एवमग्रे ऽपीति। विरुद्धस्येत्यादावित्यर्थः। वस्तुतस्तु
विरुद्धस्येत्यत्र भावेक्त प्रत्ययमङ्गीकृत्य विरोधस्येत्यर्थः सुलभ
इति ध्येयम्। ननु साध्याभाववद्वृत्तित्वज्ञानस्य हेतुधर्मिकस्य
सत्त्वे ऽपि हेतुसमानाधिकरणेत्यादिव्याप्तिः न हेतौ गृह्यत
इत्यनुभवसिद्धम्, तच्च नोपपद्यते। साध्याभाववद्वृत्तित्वज्ञानस्य
ग्राह्याभावानवगाहित्वेन तादृशव्याप्तिज्ञानविरोधित्वासम्भवात्
इत्याशङ्क्याह - [212] हेताविति। व्याप्तीति।
हेतुसमानाधिकरणेत्यादिव्याप्तीत्यर्थः। [212] मणिमन्त्रादिन्यायेनेति।
तेन ग्राह्याभावानवगाहित्वेन
तादृशव्यभिचारग्रहस्य
तादृशव्याप्तिग्रहाविरोधित्वे ऽपि न तद्दशायां तदापत्तिरिति भावः।
[212] विशिष्टव्याप्त्यभावतयेत्यादि। अथात्र धूमवान् वह्नेरित्यादौ
हेतुव्यापकसाध्याप्रसिद्ध्या तद्घटितविशिष्टव्यापतेरप्रसिद्ध्या
तदभावस्य सुतरामप्रसिद्ध्या कथमाभासता। न च -
स्वव्यापकतावच्छेदकसाध्यतावच्छेदकावच्छिन्नसामानाधिकरण्यसम्बन्धावच्छिन्नहेतुनिष्ठप्रतियोगिताकात्यन्ताभाव
एव हेतुनिष्ठः व्याप्यत्वासिद्धिरिति न दोषः।
तादृशसामानाधिकरण्यसंबन्धेन हेतुविशिष्टहेतुमान् पक्ष इति
ज्ञानस्यैव चानुमितिहेतुत्वम् अतो न तस्याभासतानुपपत्तिरिति
वाच्यम्। तथा सति
प्रागुक्तव्यभिचारादीनामाभासतानुपपतेरशक्यपरिहारत्वादिति।
मैवम्। यतः
स्ववृत्तिभेदप्रतियोगितावच्छेदकत्वस्वावच्छिन्नसामानाधिकरण्योभयसम्बन्धेन
साध्यतावच्छेदकविशिष्टहेतुमान् पक्ष इति
ज्ञानमेवानुमितिहेतुरूपेयते भेदप्रतियोगितावच्छेदकता
स्वसेत्याद्यवच्छेदकत्वसम्बन्धेन।
उक्तस्ववृत्तिभेदप्रतियोगित्वसंबन्धावच्छिन्नसाध्यतावच्छेदकनिष्ठप्रतियोगिताकाभाववद्धेतुरेव
व्यभिचारः।
स्वावच्छिन्नसामानाधिकरण्यसम्बन्धावच्छिन्नसाध्यतावच्छेदकनिष्ठप्रतियोगिताकात्यन्ताभाववद्धेतुरेव
व्याप्यत्वासिद्धिः। उक्तग्रन्थस्याप्यत्रैव तात्पर्यम्। अतो न धूमवान्
वह्नेरित्यादौ उक्तरीत्या तदप्रसिद्धिरिति मदेकपरिशीलितः पन्था।
केचित्तु -
साध्यतावच्छेदकनिष्ठ
हेतुव्यापकतावच्छेदकत्वहेत्वधिकरणवृत्तितावच्छेन्दकत्वोभयाभावो
विवक्षित इति नाप्रसिद्धिरिति वदन्ति। तत्तुच्छम् --- धूमवान्
वह्नेरित्यादौ हेतुव्यापकसाध्यसमानाधिकरणहेतुमान् पक्ष
उ इति ज्ञानस्य सादध्यतावच्छेदके
हेत्वधिकरणवृत्तितावच्छेदकत्वानवगाहितया दर्शितोभयाभावस्य
तद्विरोधितया हेत्वाभासताया दुर्वञ्चत्वात्। दर्शितज्ञाने
तुल्यवित्तिवेद्यतान्यायेन नियमतस्तद्भाने मानाभावात्। प्रत्यक्षरूपे
तादृशज्ञाने कथञ्चित् तस्य तथा भाने ऽपि
अनुमितौ शाब्दे च
तद्भाने नियामकाभावेन तादृशाभावग्रहदशायां
तादृशपरामर्शसम्भवात् अनुमित्युत्पादसम्भवेन तादृशाभावस्य
हेत्वाभासताया अयुक्तत्वात्। तादृशपरामर्शस्य
तुल्यरूपोभयानवगाहित्वेन
तादृशोभयाभावग्रहप्रतिबध्यत्वायोगात्। तादृशपरामर्शे
धूमत्वादिरूपसाध्यतावच्छेदकस्य स्वरूपत एव भानेन
व्यापकतावच्छेदकत्वाद्यंशे तस्य नियमतो ऽवच्छेदककत्वेन सुतरां
विपरीतनिश्चयप्रतिबध्यत्वासंभवाच्च।
धूमत्वत्वादिरूपेणधूमत्वादिभानोपगमे च
धूमत्वत्वाद्यनवच्छिन्नविधेयतावच्छेदकताकानुमित्यनुपपत्तिप्रसङ्गात्।
यदपि
हेतुव्यापकतावच्छेदकत्वहेत्वधिकरणवृत्तितावच्छेदकत्वोभयविशि ष्टसाध्यतावच्छेदकहेतुमान्
पक्ष इति परामर्शस्यानुमितिहेतुत्वं स्वीक्रियते, नातो दोष
इति --- तदपि न सत्। कारणतावच्छेदकगर्भे
हेतुतावच्छेदकावच्छिन्नविषयतायाः त्रेधा निवेशेन
व्याप्यत्वासिद्धेः। [212] विशिष्टव्याप्त्यभावतयेति दीपिकावाक्येन
हेतुनिष्ठाभावस्यैव दोषताप्रतीतेः तावतापि तदनुपपादनाच्च।
हेतुभूतपरामर्शे बहुव्रीह्यर्थस्य सम्बन्धस्याधिकस्य भानेन
महागौरवाच्च इति सर्वमनवद्यम्।
दीपिकायाम् [212] व्याप्तिसंशयाधायकत्वेनेति। आधायकत्वं प्रयोजकत्वम्। ननु
व्याप्तिसंशयप्रयोजकत्वं कथं तयोरित्यतः तदुपपादनयति ---
प्रकाशिकायाम् [213] हेतावसाधारण्यादीति। आदिना
अनुपसंहारित्वसंग्रहः। प्राचीनेति। नवीनमतं तु प्रागेवोक्तमिति
भावः। [213] व्याप्तिज्ञानप्रतिबन्धकः --
व्याप्तिज्ञानविरोधिधीविषयः। परमुखनिरीक्षकस्येत्यत्र प्रतिबन्ध
इत्यादिः। [213] तथा चेत्यादि। अत्रायमाशयः ---
हेत्वाभाससामान्यलक्षणे
निविष्टमनुमितितत्करणान्यतरप्रतिबन्धकत्वम् न तावत्
तदनुत्पादप्रयोजकत्वम्। व्यभिचारितासम्बन्धेन
उपाधिविशिष्टहेतावतिप्रसङ्गात्। एवं च
हेतावुपाधिप्रकारकज्ञानाभावस्य परामर्शकारणताविरहात्
नातिव्याप्तिरिति। शिथिलम् अयुक्तम्।
पक्षतावच्छेदकविशिष्टपक्षग्रहाविरोधित्वस्यैवाश्रयासिद्धिलक्षणतया
साध्यवत्पक्षे तदभावात् उक्तलक्षणे च साध्यसंशयांशनिवेशस्य
विफलत्वेन संशयस्य पक्षतात्वनिरासाच्च दर्शितस्य शिथिलत्वमिति
भावः। दीपिकायाम्। [212] आश्रयासिद्धावन्तर्भवतीति। अयं भावः -
आश्रयस्य पक्षताविशिष्टस्यासिद्धिः चेनेति विग्रहः। तथा च
साध्यनिश्चयदशायां साध्यसंशयरूपपक्षताविरहेण तद्विशिष्टस्य
पक्षतावच्छेदकावच्छिन्नस्य तदानीमसिद्धेः। साध्यवत्पक्षस्य तत्रान्तर्भाव
उचित इति भावः। सिद्धसाधनस्याश्रयासिद्ध्यन्तर्भावप्रयोजकं
पक्षताविघटकत्वमुपपादयति --- [213] प्रकाशे तनमत इति।
प्राचीनमत इत्यर्थः। अयं भावः -- पक्षताविघटकत्वं
आश्रयासिद्धित्वम्। विघटकत्वं च विरोधिग्रहविषयत्वम्। पक्षता च
पक्षतावच्छेदकविशिष्टपक्षधर्मकसाध्यसंशयात्मिका
प्राचीनमते। तथा च पक्षनिष्ठपक्षतावच्छेदकविरहस्न्य साध्यवत्पक्षस्य
च निश्चयदशायामुक्तपक्षताया असम्भवात्। उभयोरपि
तथात्वमव्याहतमिति साध्यवत्पक्षस्य
सिद्धसाधनरूपस्याश्रयासिद्धिरूपतया नाधिक्यापत्तिरिति न
विभागव्याघातशङ्केति भावः। सिद्धेः पूर्वं परतो वा यत्र
सिषाधयिषा तत्र सिषाधयिषाविरहकालावच्छेदेन सिद्धेः।
प्रतिबन्धकताया आवश्यकत्वेन साध्वत्पक्षातिप्रसङ्गतादवस्थ्यमिति
शङ्कानिरासायोक्तञ् [213] केवलमिति। अनेन सिद्धेः
सिषाधयिषासाहित्याभावव्यवच्छेदः। तथा च सिद्धेः पूर्वं परतश्च
यत्र सिषाधयिषा जाता तत्र सिद्धेरताथात्वात् नातिप्रसङ्ग
इत्यर्थः॥
॥ इति
प्रसरणाख्यायां दीपिकाप्रकाशव्याख्यायामनुमानपरिच्छेदः॥
समाप्तः
। । ।
उपमानपरिच्छेदः
[218] कुतश्चिदारण्यकपुरुषादित्यादिसङ्ग्रहवाक्ये पञ्चम्याः
प्रयोज्यत्वमर्थः। तस्य श्रुधात्वर्थशाब्दबोधे अन्वयः। इति शब्दस्य
शब्दान्वयीत्याकारकत्वमर्थः। स्फुटमन्यत्। यत्तु इतिशब्दः
तादृशानुपूर्व्यवच्छिन्नवाक्यपरः, श्रुधातोः श्रावणप्रत्यक्षमर्थः। तत्र
विषयितया वाक्यस्यान्वयः इति - तत्तुच्छम् -
स्मरन्नित्युक्तस्मृतिसामग्रीप्रविष्टावश्यकशाब्दरूपानुभवप्रतिपादनपरत्वसम्भवे
तत्परित्यागेनानुपयुक्तान्यथासिद्धवाक्यसाक्षात्कारप्रतिपादनपरताया
अन्याय्यत्वात्। प्रकाशे [218] अवसरसङ्गत्येति।
प्रतिबन्धकीभूतशिष्यजिज्ञासानिवृत्युत्तरकालीनावश्यवक्तव्यत्वमवसरः।
तृतीयार्थादिकं सर्वमपि पूर्ववत्।
ननु [218] संज्ञासंज्ञिसंबन्धज्ञानमुपमितिरिति सङ्ग्रहवाक्येन उपमितेः
पदपदार्थसम्बन्धविषयकज्ञानत्वं लक्षणमुक्तम् - तन्न युज्यते।
तादृशानुमित्यादावतिव्याप्तेः। अतस्तादृशसङ्ग्रहवाक्यं
नोपमितेर्लक्षणकथनपरम् अपि तु तत्स्वरूपमात्रप्रदर्शनपरमित्याह
- [218] उपमितिस्वरूपमिति। किं तर्हि तस्या लक्षणमित्याकाङ्क्षायाम्
आह - [218]
लक्षणं त्विति।
गम्येत्यन्तम् उपमितित्वस्य जातिरूपतायां प्रमाणसूचनाय। [218] एतेन स्मरन्निति वर्तमाननिर्देशेन। [218] आहुरिति। अत्र च संग्रहकारस्य
कुतश्चिदारण्यकादित्याद्यभिहितवतः
अतिदेशवाक्यार्थविषयकशाब्दबोधः करणम् तद्विषयकं स्मरणं
व्यापारः- उपमितिः फलमिति मतप्रदर्शनमेवाभिमतम्, न तु
सादृश्यादिविशिष्टपिण्डदर्शनं करणं तादृशस्मरणं व्यापारः
उपमितिः फलमिति मतप्रदर्शनम्। तथासति शब्दप्रयोगस्य
स्वाधीनत्वेन स्मरिष्यन्निति पिण्डं पश्यतीति ब्रूयात्, अतः
स्मरन्नित्याद्युक्तिस्वारस्यपर्यालोचनया पूर्वमतमेवाभिमतम्, न तु
द्वितीयं मतमिति तत्प्रदर्शनपरतया
तादृशग्रन्थव्याख्यानानौचित्यमरुचिबीजम्। संग्रहे वाक्येति।
गोसदृशो गवयपदवाच्य इति स्वरूपातिदेशेत्यादिः। [218] उद्बोधकान्तरेति।
सादृश्यविशिष्टपिण्डदर्शनातिरिक्तादृष्टादिरूपोद्बोधकेत्यर्थः।
[219] सादृश्य(विशिष्टपिण्ड)दर्शनानन्तरमित्यादि। अत्रोपमितेःअयं
गवयपदवाच्य इत्यानकारत्वोपगमे गवयव्यक्त्यन्तरदर्शनानन्तरं
तत्र पदवाच्यतायाः स्मरणानुपपत्तिः, गोसदृशो गवयपदवाच्य
इत्याकारकत्वस्योपगमे च सादृश्यस्य
तद्भेदसमानाधिकरणतद्गतधर्मवत्त्वरूपस्य गुरुत्वेन
पदवाच्यतावच्छेदकत्वासम्भवात् तस्या भ्रमत्वापत्तिरित्यालोच्य
गवयो गवयपदवाच्य इत्याकारिकैव
उपमितिरुपगन्तव्येत्यभिप्रायेणोक्तम् [219] गवयत्वादिरूपलघुधर्मेत् इ।
तादृशधर्मावच्छिन्नविशेष्यताकेत्यर्थः। [219] इदम्-सादृश्यदर्शनस्य
उपमितिहेतुताप्रदर्शनं, उपलक्षणं वक्ष्यमाणार्थसूचकम्। [218] सादृश्यादीत्यादिना वैधर्म्यसंग्रहः।
॥ इति प्रसरणाख्यायां दीपिकाप्रकाशिकाव्याख्यायां उपमानपरिच्छेदः॥
। । ।
शब्दपरिच्छेदः
शब्दलक्षणम्
[222] उपजीव्योपजीवकत्वसङ्गत्येति। अत्र
वक्तव्यं सर्वं प्रागेव प्रपञ्चितम्। [222] शाब्दबोधोपजीव्यत्वेन
शाब्दबोधहेतुत्वेन। [222] फलनिष्ठत्वे ऽपीति।
आश्रयतारूपसाक्षात्सम्बन्धेनेत्यादिः। [222] स्वरूपयोरपि -
शब्दप्रमाणोपमानप्रमाणयोरपि। एतेन सङ्गतेः साक्षात्सम्बन्धेन
करणनिष्ठत्वं सूचितम्। [222]
करणयोरित्यादि षष्ठ्यर्थो
विषयत्वम् अभिधानशब्दार्थैकदेशज्ञानान्वितम्। अनन्तरत्वं
चाव्यवहितत्वम्। तच्च पूर्वापरसाधारणम्।
स्वनिरूपणपूर्वनिरूपणपूर्वत्वशून्यत्वस्वोत्तरनिरूपणानुत्तरत्वान्यतरवत्त्वरूपं
बोध्यम्।
ननु [222] आप्तवाक्यं शब्द इति संग्रहे शब्दत्वस्य लक्ष्यतावच्छेदकत्वे
वह्निना सिञ्चतीत्याद्यप्रमाणवाक्ये ऽव्याप्तिः;
आप्तोच्चरितत्वविरहादित्यत आह - [222] प्रमाणशब्द इति। तथा
च प्रमाणशब्दत्वं लक्ष्यतावच्छेदकम्। तच्च वह्निना
सिञ्चतीत्यादिवाक्यव्यावृत्तमिति भावः। [222] लक्षणमिति।
जबगडदशादौ अतिव्याप्तिव्युदासाय वाक्यत्वमुक्तम्।
आप्तोक्तवाक्यमित्यत्र उक्तशब्देन समासान्तर्गतषष्ठ्याः उच्चरितत्वमर्थ
इति सूचितम्। [222] यथार्थवक्तृत्वरूपेति। एतेन आप्तत्वं
हीष्टत्वम्। तथा च वह्निना सिञ्चतीति वाक्ये ऽतिव्याप्तितादवस्थ्यम्।
तत्प्रयोक्तुः कस्यचित् इष्टत्वसम्भवादितिशङ्का निरस्ता। ननु
वह्निना सिञ्चतीत्यादिप्रयोक्तुरपि कदाचित्
बाधितार्थकवाक्यप्रयोगहेतुभूतयथार्थज्ञानवत्तायाः सम्भवात्
कथमतिव्याप्तिवारणमित्यत आह -- [222] प्रकृतवाक्यार्थेति। [222] निष्कर्ष इति। अयं भावः --
तादात्म्य1स्वप्रतिपाद्यार्थगोचरयथार्थज्ञानजन्यत्वोभयसम्बन्धेन
1. स्वप्रतिपाद्येत्यादि।
स्वं जलेन सिञ्चतीत्यादिवाक्यं तत्प्रतिपाद्यो यो ऽथः
जलकरणकसेककर्ता तद्विषयकं यत् यथार्थज्ञानं
तादृशवाक्यप्रयोक्तृनिष्ठं तज्जन्यत्वं तादृशवाक्ये, ऽअर्थ बुद्ध्वा
शब्दरचनाऽ इति न्यायादिति भावः।
वाक्यविशिष्टवाक्यत्वं
1स्वजन्यत्वस्वविषयीभूतार्थप्रतिपादकत्वोभयसम्बन्धेन
यथार्थज्ञानविशिष्टवाक्यत्वं वा शब्दलक्षणमिति। [222] एतत् वाक्यार्थज्ञानस्य शब्दप्रयोगहेतुत्वम्।
शक्तिनिरूपणम्
ननु [225] अर्थस्मृत्यनुकूलेत्यादिना दीपिकायाम्
शक्तिपदार्थनिरुक्तिरयुक्ता। तन्निरुक्तेरिहाप्रकृतत्वादित्याशङ्कयाह -
[225] मीमांसकेत्यादि। [225] निरासकत्वेनेति। प्रयोजनतया
हेतुत्वविवक्षया तृतीया। अग्र इत्यवतारणान्वयि। अवतारणं
प्रवृत्त्यनुकूलो व्यापारः। स च शङ्काग्रन्थप्रवृत्तिः। [225] तदिति। मीमांसकेत्यर्थः। [225] मतम्
प्रामाणिकतया
स्वीकृतोर्ऽथः। [227] साधारण्येनेति। साधारण्यं
तद्वृत्तिरूपवत्त्वम्। रूपं चार्थेत्याद्युक्तम्। शक्तिपदार्थान्वितं वैशिष्ट्यं
तृतीयार्थः। स्फुटमन्यत्। दीपिकास्थशक्तिरित्यस्य शक्तिपदार्थ
इत्यर्थसूचनाय [225] शक्तिपदार्थमित्युक्तम्। दीपिकायाम्
अनुकूलेत्यन्तं संबन्धविशेषणम्। ननु
दीपिकोक्तशक्तिपदार्थलक्षणेर्ऽथस्मृत्यनुकूलत्वनिवेशने ऽपि
घटादिपदाकाशयोः समवाये ऽतिप्रसङ्गः तदवस्थः।
स्वनिष्ठत्वस्वार्थनिष्ठत्वोभयसम्बन्धेन
पदविशिष्टत्वनिवेशने ऽप्याकाशपदाकाशयोस्समवायवारणमधक्यम्
तस्यापि तदुभयसम्बन्धत्वात् अर्थस्सृत्यनुकूलत्वाच्चेत्यत आह - [225] शाब्दबोधजनकेति। स्मृतिविशेषणमेतत्। तथा च
समवायज्ञानाधीन -
आकाशादिरूपार्थस्मृतेश्शाब्दबोधजनकत्वाभावात् नातिप्रसङ्ग
इति भावः। ननु अनुकूलत्वं जनकत्वम्, तच्च संबन्धे बाधितम्
तज्ज्ञानस्यैव स्मृतिजनकत्वादित्यत आह - [225] अनुकूलत्वमिहेति। [225] विशेष्यमितीति। यद्यपि स्वप्रयोजकादृष्टवत्त्वादेरात्मपदं प्रति
आत्मनि सम्बन्धत्वमस्ति, तथापि स्मृतिनिष्ठा या शाब्दबोधजनकता
तन्निरूपिता या जन्यतासम्बन्धावच्छिन्ना ज्ञाननिष्ठावच्छेदकता
तदवच्छेदकसंसर्गताश्रयत्वमिति निष्कर्षात् न दोषः।
1. स्वजन्यत्वेत्यादि।
स्वं जलेन सिञ्चतीत्यादिवाक्यार्थविषयकं ज्ञानं तज्जन्यत्वं
तादृशवाक्ये, एवं स्वं तादृशवाक्यार्थज्ञानं तद्विषयो योर्ऽथः
वाक्यार्थः तत्प्रतिपादकत्वं च तस्मिन् वाक्ये इति समन्वयः।
1जन्यतासम्बन्धेन
तत्तदर्थधर्मिकतत्तत्पदप्रकारकशक्तिसंसर्गकज्ञानविशिष्टतत्तदर्थस्मृतित्वेन
शाब्दबोधहेतुत्वोपगमात्
लक्षणसमन्वयः। एवं
संबन्धान्तरज्ञानजन्यार्थस्मृतेः शाब्दबोधहेतुताविरहात् न दोष
इति।
ननु अन्यः पदार्थः
पदार्थान्तरमिति व्युत्पत्त्या पदार्थान्तरपदं
कॢप्तपदार्थातिरिक्तपरम्,
प्रतियोगिविशेषसमर्पकपदासमभिव्याहृतातिरिक्तादिपदानां
स्वसमभिव्याहृतपदार्थतावच्छेदकाश्रयत्वेन
कॢप्ततत्तद्धर्मिप्रतियोगिकभेदकूटवद्बोधकतायाः ऽचित्रमतिरिक्तं
रूपऽमित्यादौ दृष्टत्वात्। तथा च मीमांसकैः शक्तेरपि
पदार्थत्वाङ्गीकारात्
तादृशभेदकूटवत्पदार्थाप्रसिद्धिरित्याशङ्क्याह - [225] तत्तदिति। तथा च शक्तित्वातिरिक्तानां द्रव्यत्वादीनामेव
ग्रहणात् नाप्रसिद्धिरिति भावः। [225] व्याघातः - विरोधः।
अप्रसिद्धिरिति यावत्। अथवा नैयायिकमते शक्तिः न पदार्थान्तरमिति
निषेधो नोपपद्यते। प्रतियोग्यप्रसिद्धेरत आह - [225] तत्तत्पदार्थतावच्छेदकाभावकूटवदित्यर्थ इति। अत्र च
पदार्थानां तत्तत्पदार्थतावच्छेदकानां अनतरमभावकूटः अत्रास्तीति
पदार्थान्तरमिति अर्शाद्यजन्यताया उपगमेनोक्तार्थलाभात् न
पदार्थान्तरमित्यत्र च नञः
प्रकृतिप्रत्ययार्थयोरन्तराभासमानार्थकताया अन्यत्र दर्शनात्
प्रकृते ऽपि अन्तरपदार्थस्याभावकूटस्य नञर्थाभावे
प्रतियोगितयान्वयेन तत्तत्पदार्थतावच्छेदकविरहकूटाभावाश्रय
इत्यर्थं मनसि निधायाह - [225]
न व्याघात इति। व्याघात इत्यतः
प्राक् सिद्ध्यसिद्धिभ्यांमित्यादिः। [227] अन्येति नैयायिकेत्यर्थः।
तत्तत्पदार्थतावच्छेदकाभावकूटस्य प्रत्येकं प्रसिद्धत्वात्
प्रतियोगितावच्छेदकविशिष्टप्रतियोगिज्ञानसम्भवेन नैयायिकमते
निषेधोपपत्तेरिति भावः। यद्यप्यत्र कूटत्वं दुर्वचम्। अप्रसिद्ध्या
एकाभावविशिष्टापराभावनिवेशश्च न
1.
जन्यतासंबन्धेनेत्यस्य ज्ञानविशिष्टेत्यत्रान्वयः।
सम्भवति। तथापि
तत्तदभावविषयकधीविषयत्ववदित्यर्थाङ्गीकारात् न दोषः।
विषयत्ववत्त्वं चाधेयतासम्बन्धावच्छिन्नस्वव्यापकतासम्बन्धेन।
तत्सम्बन्धावच्छिन्नप्रतियोगिताकतदभावप्रसिद्ध्या निषेधोपपत्तेः।
[225] अतिरिक्तैवेति। कॢप्तयोर्विनिगमनाविरहे ऽकॢप्तमन्यत्
सिद्ध्यतीति न्यायादिति भावः। [225] यत इत्यादि। अत्र कल्पे
वाच्य इत्यादौ धातोस्तादृशविशेष्यत्वमर्थः। प्रत्ययस्य आश्रय इति
बोध्यम्। नन्वेवं सति वाच्य
इत्यादिवाक्यजन्यशाब्दबोधे आश्रयत्वरूपाधिकपदार्थभानस्य
वक्तव्यतया गौरवम्। एवं विशेष्यतायामिच्छासम्बन्धतया
निरूपितत्वस्य निवेशनीयतयापि तथेत्याशङ्क्य कल्पान्तरमाह -
[226] तादृशेति। तत्तत्पदजन्यबोधविषयत्वनिष्ठेत्यर्थः। [226] तदिति। ईश्वरेत्यर्थः। एवं चात्र कल्पे
धातोरीश्वरेच्छैवार्थः, प्रत्ययस्य
पदजन्यबोधविषयत्वप्रकारतानिरूपितविशेष्यतावानार्थः,
विशेष्यतायां च निरूपितत्वसम्बन्धेन इच्छान्वय इति भावः [226] नाति प्रसङ्ग इति। घटादिपदजन्यबोधविषयत्वादेः
ईश्वरेच्छायां घटादावेव भानात् तद्विषयतयोरेव
निरूप्यनिरूपकभावसत्त्वादिति भावः।
ननु गङ्गायां घोष
इत्यादौ गङ्गापदादितः तीरादिबोधोत्पत्त्या तीरादिगतस्य
तादृशबोधविषयत्वादेरपि ईश्वरेच्छया विषयीकरणमावश्यकम्।
तस्याः विद्यमानयावद्धर्मविषयकत्वनियमात्। तथा च तीरं
गङ्गापदजन्यबोधविषयो भवत्वित्याकारकत्वमपि तस्या अस्तीति
प्रागुक्तरीत्या लक्षणोच्छेदप्रसङ्गतादवस्थ्यमित्यत आह - [226] गङ्गापदजन्यत्वस्येति। गङ्गापदजन्यो बोधः बोधविषयो
भवतु तीरमित्याकारकत्वमेव ईश्वरेच्छायां स्वीक्रियते, तावतैव
तस्या उक्तनियमोपपत्तेः। बोधविषयतात्वरूपेण
गङ्गापदजन्यबोधविषयत्वादेरपि तत्र भानसम्भवादित्यर्थः। [226] अभावेनेति। अन्यथा
विशिष्टाकारेच्छाविशकलिताकारेच्छयोरवैलक्षण्यप्रसङ्गादिति
भावः। [226] गङ्गापदजन्यत्वप्रकारतानिरूपितेत्यादि।
एतेन बोधविषयो भवतु तीरमित्याकारकत्वस्य
तादृशेच्छायामुपगमात्। बोधविषयतात्वेन
गङ्गापदजन्यबोधविषयत्वप्रकारतानिरूपितत्वं तीरविशेष्यताया
अप्यक्षतमित्यतिप्रसङ्गतादवस्थ्यमिति शङ्का निरस्ता।
विशकलितेच्छीयविशेष्यताप्रकारतयोरैक्यासम्भवेन
जन्यत्वबोधविषयत्वयोः प्रकारतारूपयोः
निरूप्यनिरूपकभावासम्भवात्। [226] न क्षतिः - न
लक्षणोच्छेदप्रसङ्गः। [206] स्वातन्त्र्येण भानमिति। वैशिष्ट्ये तृतीया
भानं प्रकारता। स्वातन्त्र्यं
चार्थविशेष्यतानिरूपितविषयत्वप्रकारतानिरूपितबोधप्रकारतानिरूपितत्वाभावः।
पदनिष्ठप्रकारतानिरूपितजन्यत्वप्रकारतानिरूपितबोधप्रकारतानि रूपितत्वाभावश्च।
स्वातन्त्र्येणेत्यस्योक्तार्थकस्य
यथायोगमन्वयो
बोध्यः। [206] सङ्क्षेप इति। अत्रायमाशयः -
ईश्वरेच्छायां तीरं गङ्गापदजन्यबोधविषयो
भवत्वित्याकारकत्वमनभ्युपगम्य
दर्शितविशकलिताकारकत्वाभ्युपगमे लक्षणाया
वृत्त्यन्तरत्वकल्पनस्यावश्यकत्वेन गौरवम्।
विशिष्टाकारकत्वाभ्युपगमे तु लाघवमिति तर्कानुगृहीतेन
ईश्वरेच्छा विशिष्टाकारकत्वतदभावान्यतरवती
प्रमेयत्वादित्यनुमानेन तस्याः विशिष्टाकारकत्वसिद्धिरिति तु न
शङ्कनीयम्। तथासति अभ्रान्तानां घटो घटपदवाच्य इति
व्यवहारप्रसङ्गात्। बाधकतर्काभावविशिष्टस्यैव
लाघवतर्कस्यानुमानानुग्राहकत्वोपगमात्। उक्तानुमानेन तत्र
तदसिद्धेः। एवं घटो घटपदस्य वाच्य इत्यादौ प्रत्ययार्थे
विभक्त्यर्थस्यान्वयो वाच्यः। स चानुभवविरुद्ध इति। षष्ठ्या
जन्यत्वप्रकारतार्थः। तत्र प्रकृत्यर्थस्य
स्वनिष्ठप्रकारतानिरूपितत्वसम्बन्धेनान्वयः। वच
धातोः
बोधप्रकारतानिरूपितविषयत्वप्रकारतानिरूपकत्वविशिष्टेच्छार्थः।
षष्ठ्यर्थस्य बोधप्रकारतायां निरूपितत्वसम्बन्धेनान्वयः।
विशिष्टेच्छायाश्च प्रत्ययार्थविशेष्यतावदेकदेशविशेष्यत्वे
विशेषणावच्छिन्ननिरूपितत्वसम्बन्धेनान्वयः। एवं प्रथमकल्पो ऽपि
साधुरेवेति। एवं
विशिष्टेच्छीयविशेष्यताप्रकारतयोरभेदमनुपगम्य
अवच्छेद्यावच्छेदकभावाङ्गीकारे प्रकारतानिरूपितप्रकारतास्थले
प्रकारतानिरूपितविशेष्यत्वावच्छिन्नप्रकारता निवेश्येति।
विशिष्टशक्तिस्थापनम्
[230] विशिष्टे शक्तिमित्यादि।
विशिष्टविशेष्यकशक्तिप्रकारकाप्रामाण्यज्ञानानास्कन्दितनिश्चयानुकूलव्यापारविषयकेच्छाविशिष्टः
मीमांसकमतविषयकज्ञानजनकशब्दप्रतियोगिकध्वंसविशिष्टः
मीमांसकमतविशेष्यकानुपपन्नत्वप्रकारकज्ञानजनकशब्दः
तदनुकूलकृतिमानित्यखण्डबोधः। द्वितीयं वैशिष्ट्यं
स्वप्रतियोगिसमानाकर्तृकत्वस्वाश्रयकालवृत्तित्वोभयसम्बन्धेन।
स्फुटमन्यत्। [230] अर्थापत्तीति। अर्थापत्तिश्च आनयनकर्मत्वस्य
साक्षात्सम्बन्धेन गोनिष्ठत्वमन्तरा
स्वाश्रयवृत्तित्वरूपपरम्परासम्बन्धेन
गोत्ववृत्तित्वमुनपपन्नमित्याकारिका बोध्या।
ननु
जात्याश्रयव्यक्तावेव शक्तिस्वीकारे गवादिपदजन्यशाब्दबोधे
गोत्वादितत्सम्बन्धयोः कथं भानसम्भवः। आशक्यस्नपय शाब्दबोधे
भानं नास्तीति नियमात्। न च तादृशनियमे मानाभाव इति
वाच्यम्। तथा सति गवादिपदजन्यशाब्दबोधे घटादीनां
बोधापत्तेः। यत्तु - नीलो घट इत्यादौ अभेदस्य एवं सति
शाब्दबोधे भानं न स्यादिति - तन्न - पदार्थद्वय -
संसर्गातिरिक्तस्येति विशेषणादित्याशङ्क्य
प्राचीनाभिमतसमाधानमाह - [231]
अत्रेदं बोध्यमित्यादिना। नवीनास्तु
तादृशनियमे मानाभावः। न चोक्तातिप्रसङ्गः।
शक्तितदवच्छेदकतदवच्छेदकताघटकसम्बन्धत्वानामेव शाब्दबोधे
भाननियामकत्वाङ्गीकारात्। एवं च जातितद्वैशिष्ट्यायोः
शक्तिर्नाभ्युपेयेति वदन्ति। तन्मतं दर्शयति - नव्यास्त्विति।
शक्तिग्रहोपायप्रतिपादनम्
ननु
अप्येकदन्तेत्यादिकोशादौ एकदन्तादिशब्दानां
द्वन्द्वसमासो ऽनुपपन्नः। समस्यमानपदार्थानां मिथो भेदसत्त्व एव
द्वन्द्वस्य साधुत्वादिह तदभावादित्यत आह - [234] तत्रेति। [235] व्यवहारतः। प्रवृत्तेरित्यर्थः। [234] वृद्धव्यवहारेणेति दीपिकावाक्ये ऽपि वृद्धस्य व्युत्पन्नस्य
व्यवहारेण प्रवृत्त्येत्यर्थः। ननु दीपिकास्थ [237] नन्वित्यादिवाक्ये कार्यपरत्वादित्यस्य
षष्ठ्यन्ताकाङ्क्षासम्भवात् व्यवहारस्येत्यस्योत्तरत्रान्वयासम्भवाच्चाह
- [237] व्यवहारस्येत्यादि। [237]
व्यवहारस्य - वाक्यप्रयोगस्य। ननु
[234] प्रवृत्तिमुपलभ्य गवानयनं च दृष्ट्वेति
दीपिकावाक्यात्प्रवृत्त्यनुमानानन्तरं गवानयनज्ञानमिति लभ्यते।
तच्च न युज्यते। पक्षज्ञानमन्तरा अनुमानासम्भवेन गवानयनज्ञानस्य
प्रथममावश्यकत्वादित्यत आह - [237] गवानयनं
दृष्ट्वेत्यादि। प्रवृत्युपलम्भस्य प्रमित्यन्तरस्यासम्भवादाह -
उपलभ्येत्यस्येति। अनुमानप्रयोगमाह - [235] इयं क्रियेते। अयं
प्रयत्नः गवानयनधर्मिकेष्टसाधनताज्ञानजन्यः प्रवृत्तित्वात्
स्वीयप्रवृत्तिवत् इत्यनुमानान्तरमपीह बोध्यम्। [235] गवानयनज्ञानस्य - गवानयनधर्मिकेष्टसाधनताज्ञानस्य।
[234] निश्चित्येति। अयमाशयः - तादृशज्ञानं
तादृशवाक्यजन्यम्
तादृशवाक्यविशिष्टत्वादित्यानुमानिको ऽत्र निश्चयः। वैशिष्ट्यं
च
स्वसत्ताधीनसत्ताकत्वस्वाभावाधीनाभावप्रतियोगित्वोभयसम्बन्धेनेति।
ननु गामानय
इत्यादिविशिष्टवाक्यस्यैव तादृशविशिष्टार्थे शक्तिः कुतो न
स्वीक्रियत इत्यत आह - [235] वाक्यस्येति। ननु यवशब्दस्य
दीर्घशूकविशिष्ट शक्तिस्वीकारे म्लेच्छानां प्रियङ्गौ प्रयोगो न
स्यादित्यत आह - [235] प्रियङ्गौ त्विति। [235] आख्यातस्य यत्नत्वविशिष्ट इत्यादि। आख्यातं
यत्नत्वविशिष्टवाचकं 1तादृशकरोतिव्याख्येतत्वादिति रीत्या
विवरणस्य शक्तिग्राहकता बोध्या। तत्समानार्थकपदान्तरेण
तदर्थकथनं हि व्याख्यानमिति भावः।
शब्दानां
सिद्धपरत्वमपीति निरूपणम्
ननु सिद्धार्थो ऽपि
वाक्यप्रयोगी भवतु किं तावता व्युत्पत्तेरित्यत आह - [237] तथाचेति। [237] अन्यथा-तत्र शक्तिग्रहावश्यम्भावविरहे।
लक्षणानिरूपणम्
ननु [237] तीरेपि शक्तिः न कल्प्यत इति दीपिकावाक्यमनुपपन्नम्।
तीरादिशब्दानां तीरे शक्तिस्वीकारादित्यत आह - [238] गङ्गापदस्येति। [238] शेष इति। [238] नानार्थकत्वानुपपत्तिरिति। नानार्थशक्तत्वानुपपत्तिरित्यर्थः।
ननु लवणाश्वयोरपि
कथञ्चित् संयोगः सम्भवति, एवमेककालीनत्वादिसम्बन्धो ऽपीति
नोक्तदोषविस्तारसंभव इत्यत आह - [238] इदमुपलक्षणमिति।
[237] इदं लवणाश्वयोः परस्परसम्बन्धाभावात्
नानाशक्तिकल्पनम्। [238] प्रसिद्धयोः
समानप्रयोगप्राचुर्ययोरित्यर्थः। एतेन गङ्गादिपदात्
विशेषस्सूचितः। तत्र तीरप्रवाहयोरतथात्वात्। [238] मञ्चस्थपुरुष इति। अत्र मञ्चपदं पुरुषमात्रपरम्,
मञ्चस्थेत्युक्तिस्तु तत्र शक्यसम्बन्धलाभाय। वाच्यार्थस्य मञ्चादेस्तु न
शाब्दबोधे भानमिति ध्येयम्। इदमत्रजहलल्लक्षणालक्षणम् -
लक्ष्यतावच्छेदकरूपेण लक्ष्यमात्रविषयकबोधजनिका लक्षणेति। [238] अपिना - अपिशब्देन। [238]
एकसार्थवाहित्वेन -
एकसमुदायघटकत्वेन। अजहल्लक्षणालक्षणम् - लक्ष्यतावच्छेदकरूपेण
शक्यलक्ष्योभयबोधिका
लक्षणेति।
लक्ष्यतावच्छेदकं दर्शितम्। ननु छत्रिपदमुख्यार्थस्य छत्रिणः
गमनकर्तृत्वान्वयानुपपत्तिविरहात् किमत्र लक्षणानियामकमित्यत
आह [238] तात्पर्येति। मतुबर्थकेत्यनेन इनिप्रत्ययस्य
शक्तत्वलक्षणपदत्वं सूचितम्। [238]
तच्छक्त्येति। वाक्यशक्त्येत्यर्थः।
मीमांसकमतमभिप्रयन्नाह - [238]
प्रतिपाद्येति। स्वमताभिप्रायेणाह -
[238] अन्यथेति। [238] एकसार्थे एकसमुदाये लक्षणा
स्वाश्रयपुरुषघटितत्वरूपपरम्परासम्बन्धात्मिका। [238] आहुरित्यस्वरससूचनम्। तद्बीजन्तु तथासति
जहल्लक्षणोदाहरणमेवेदं स्यात्। तथा च प्रकृतानुपयोगः
दीपिकायाम् तस्याजहल्लक्षणोदाहरणत्वकथनादिति। [239] तस्य तीवब्रह्मणोरैक्यस्य। [239] तत्तांशस्येदानीमित्यादि।
अयं भावः - तद्देशादिसम्बन्धविशिष्टे एतद्देशादिसम्बन्धो बाधितः,
विशिष्टे अन्वीयमानधर्मस्य विशेषणे ऽप्यन्वयावश्यकतया
विशेषणीभूततद्देशादिसम्बन्धे तद्बाधात्। अतः तत्पदं
देशकालसम्बन्धिमात्रपरम् न तु देशादौ तत्तांशो ऽपि विवक्षितः।
तथा च तच्छब्दलक्षणा जहदजहल्लक्षणा। तल्लक्षणन्तु
वाच्यतावच्छेदकाप्रकारकवाच्यविषयकबोधप्रयोजिका लक्षणेतीति।
सो ऽयं देवदत्त
इत्यादौ यदि विशिष्टवैशिष्ट्यावगाहिशाब्दबोधः स्वीक्रियते
तदैवं स्यात्, न चायं स्वीक्रियते, किं तु
तद्देशतत्कालवृत्तित्वोपलक्षितानुयोगिकवैशिष्ट्यावगाहिबोधः। तत्र
च न प्रागुक्तरीत्या बाधावकाशः। विशेषणे विधेयानन्वयात्। अत एव
सो ऽयं देवदत्त इत्यादिवाक्यजन्यशाब्दबोधसमनन्तरं
तद्देशतत्कालवृत्तिः न वा देवदत्त
इत्यादिसंशयानुत्पादो ऽप्यनुभवसिद्ध उपपद्यते।
अतस्तत्तांशस्याहानात् नात्रलक्षणावकाश इति नोपेयत एव
जहदजहल्लक्षणेति वदन्ति। तन्मतमाह - [239] परे त्वित्यादिना।
गौणीव्यञ्जनयोर्वृत्त्यन्तरत्वखण्डनम्
[242] राज्ञामपि शक्त्यैवेति। भुवं धरति
रक्षतीति रीत्या योगशक्त्यैवेत्यर्थः। ननु व्यञ्जनायाः कुत्र
लक्षणायामन्तर्भाव इत्यत्राह - [242] गङ्गायामित्यादि। [242] लक्षणासाम्राज्यात् - लक्षणाबलात्। चकारस्य
समुच्चयपरत्वासम्भवादाह - [242]
चस्त्वर्थ इति। [242] विलक्षणशब्दप्रयोक्तृत्वादिति।
विलक्षणशब्दप्रयोगविशिष्टत्वादित्यर्थंः। वैशिष्ट्यं
स्वानुकूलकृतिमत्त्वाधेयत्वोभयसम्बन्धेन। आधेयता
स्वपतिविशेष्यक-एवंविधशाब्दबोधप्रकारकेच्छाप्रयोज्यत्वोभयसम्बन्धेन।
तेनास्मदादिष्वपि यथाश्रुतहेतुसत्त्वेन न
व्यभिचारः। [242] सम्भावनादीत्यादिना मानसपरिग्रहः। [243] मन्तव्यमिति। तथ च तथानुव्यसायो ऽसिद्ध इति भावः।
लक्षणाबीजनिरूपणम्
[245] लक्षणानुपपत्तिरिति। शक्यार्थस्य यष्ट्यादेः
क्रियान्वयसम्भवादिति भावः। [245]
नियतकाले -
अश्वादिनियतप्रयाणादिकाल इत्यर्थः। [245] विशेषणादेरित्यादिना
साहचर्यादेः परिग्रहः।
अर्थाघ्याहारखण्डनम्
[246] अध्याहारः - उपस्थितिः। [246] अर्थज्ञानार्थत्वादित्यत्रार्थज्ञानमुपस्थितिः। यथाकथञ्चिदिति।
मानान्तरेणेत्यर्थः। ननु पदजन्यत्वनिवेशस्य घटः
कर्मत्वमित्यादिस्थपलविशेषप्रयोजनकथनं विफलं,
प्रत्यक्षाद्युपस्थितपदार्थस्थले ऽपि तत्सम्भवात् इत्याशङ्क्य न बोधे
पदजन्यत्वनिवेशस्य इदं प्रयोजनकथनम्, अपि तु
विशेषपदस्यापीति समाधानमाह - [247] विशेषपदस्यापीति।
वृत्त्येति वैशिष्ट्ये तृतीया। [247]
दिगिति। अयं भावः --- यद्यपि
घटादिपदं वस्तुगत्या वृत्तिविशिष्टमेवेति
तत्समवायज्ञानजन्याकाशोपस्थित्या शाब्दबोधवारणाय
तत्तद्दण्डवृत्तिप्रकारकतत्तत्पदधर्मिकज्ञानजन्यतत्तदर्थोपस्थितेर्हेतुत्वं
वक्तव्यम्। एवं
तत्तत्पदवृत्तिप्रकारकतत्तदर्थधर्मिकज्ञानजन्यतत्तदर्थोपस्थितेरपि। एवं
च समवायस्य वृत्तिरूपत्वाभावात् नातिप्रसङ्गः। शक्तिलक्षणयोरेव
वृत्तिरूपत्वादिति।
पदविभागः
[248] अवयवशक्तिः - स्वघटकपदशक्तिः। [248] तन्मात्रेणेति। अवयवशक्तिमात्रेणेत्यर्थः। मात्रशब्देन
रूढिशक्तिव्यवच्छेदः। तथा च
रूढिशक्तिज्ञानजन्यार्थविषयकबोधजनकत्वाभावे सति
अवयवशक्तिज्ञानजन्यार्थविषयकबोधजनकत्वं यौगिकस्य लक्षणमिति
पर्यवसितम्। योगरूढिवारणाय सत्यन्तम्। [248] तन्मात्रेणेत्यादि। रूढिमात्रेणेत्यर्थः।
मात्रपदेनावयवशक्तिव्ययच्छेदः। तथा च
योगशक्तिज्ञानजन्यार्थविषयकबोधजनकत्वाभावे सति
रूढिशक्तिज्ञानजन्यार्थविषयकबोधजनकत्वं रूढस्व्य लक्षणम्।
यौगिकवारणाय सत्यन्तम्। [248]
योगरूढिभ्यामित्यादि
योगशक्तिज्ञानजन्यः यः रूढिशक्तिज्ञानजन्यशाब्दबोधः
तज्जनकत्वमित्यर्थः। रूढिवारणाय प्रथमं जन्यान्तम्।
यौगिकवारणाय द्वितीयम्। परस्परसहकारेणेत्यनुदपादाने रूढ्या
अर्थप्रतिपादकत्वे सति योगेनार्थप्रतिपादकत्वं लक्षणं स्यात्। तत्र
मूल पाठ: Tarkasaṃgraha with autoentary (Dīpikā), Nīlakaṇṭha's Dīpikāprakāśikā and Bālapriyā · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0