तर्कसंग्रह (टीका सहित) · भाग 441460
व्यावृत्तलक्षणाभ्यां वैलक्षण्ये अज्ञाते सति
प्रत्यक्षाद्यतिरिक्तप्रमाणत्वसाध्यकानुमितिकरणत्वहेतुकानुमाने
व्यभिचारशङ्काया दुर्वारत्वात्। अतः सङ्ग्रहे
अनुमितिलक्षणकथनमुचितमित्यभिप्रायेण भावमाह - [147] तथा चेति।
अनुमितिलक्षणम्
[147] ननु संशयोत्तरप्रत्यक्ष इति
दीपिकावाक्यमसङ्गतम्, ऽनायं पुरुषऽ इति
विपरीतनिश्चयोत्तरप्रत्यक्षे ऽप्यतिव्याप्तिसम्भवेन तदकथनेन
न्यूनतापत्तेरित्याशङ्क्य दीपिकावाक्यस्थसंशयपदं
विरीतज्ञानमात्रोपलक्षणपरमित्यभिप्रायेणाह - [188] विपरीतज्ञानोत्तरप्रत्यक्षं प्रतीति। [148] अङ्गीकुर्वतामिति।
मिश्रादीनामिति शेषः। एतेन प्रात्यक्षिकनिश्चये
विशेषपदर्शनाभावविशिष्टविपरीतज्ञानस्नय प्रतिबन्धकत्वं
तदभावस्य हेतुत्वमिति वदतां दीधितिकारादीनां मते
नातिव्याप्तिरिति सूचितम्। ननु [147] स्थाणुपुरुषसंशयानन्तरमिति दीपिकावाक्यमसङ्गतम्।
संशयस्य तत्तदभावकोटिकत्वनियमेन
स्थाणुपुरुषकोटिकत्वायोगात् इत्यत आह - [148] इदमिति। [148] आहुः इत्यस्वरससूचनम्। तद्बीजन्तु
स्थाणुत्वतदभावकोटिकसंशयस्य प्रथमं विवक्षितत्वे पुरुष एवेति
प्रत्यक्षजननादित्युत्तरग्रन्थविरोधः। स्थाणुरेवेति प्रत्यक्षजननादिति
वक्तव्यत्वात्। अतः तादृशग्रन्थपर्यालोचनया
सथाणुपुरुषसुशयानन्तरमिति वाक्ये संशयद्वयं न विवक्षितम्,
किन्तु एक एव संशय इति।
1. तेनेति। आत्मादेः
अनुमितिनिष्ठज्ञानत्वावच्छिन्नकार्यतानिरूपितकारणताश्रयत्वे ऽपि
अनुमितित्वावच्छिन्नकार्यतानिरूपितकारणताश्रयत्वाभावन्नातिव्याप्तिरिति
भावः।
तच्चैतन्मते न घटत
इति। ननु पुरुष इति प्रत्यक्षजननादिति वक्तव्यम्
किमेवकारोपादानेनेत्याशङ्याह - [148] पुरुष एवेतीति। ननु
ऽपुरुषं अनुमिनोमीऽत्यनुव्यवसायसत्त्वे अनुमितित्वमपि तत्र
स्वीकार्यं स्यादित्यत आह - [148]
इदमुपलक्षणमिति। [148] इदं बाधकयुक्तिप्रदर्शनम्। [148] उपलक्षणम्
बाधकयुक्त्यन्तरस्यापि सूचकम्। ननु
संशयोत्तरप्रत्यक्षे ऽतिव्याप्तिवारणाथ
1परामर्शजन्यत्वशरीरप्रविष्टजनकतायां
विशिष्टपरामर्शत्वावच्छिन्नत्वमेव कुतो न निवेशितम्।
संशेयोत्तरप्रत्यक्षे च पुरुषत्वव्याप्यकरादिमानयमिति परामर्शस्य
2विशकलितज्ञानसाधारण्यानुरोधेन 3ज्ञानविशिष्टज्ञानत्वेनैव
कारणत्वोपगमात्। एवं विशेषपदर्शनस्य
विपरीतज्ञानप्रतिबनधकतायां उत्तेजकतामते उक्तविशेषणं विफलं
स्यात्। संशयोत्तरप्रत्यक्षे 4अतिव्याप्तेरनवकाशादिन्त्यत आह - [148] एतेनेति। जनकतायां
तादृशधर्मावच्छिन्नत्वमनिवेश्य
पक्षतासहकृतपरामर्शजन्यत्वस्यैव विवक्षणेनेत्यर्थः। [148] विशेषणतावच्छेदकप्रकारकनिर्णयविधयेत्यनेन
विशिष्टवैशिष्ट्यावगाहिबुद्धेः
तादृशविशिष्टपरामर्शत्वावच्छिन्नजनकताकत्वमस्तीति सूचितम्।
सङ्क्षेप इति। अत्रायमाशयः --- पक्षतासहकृतस्यैव परामर्शस्य
विशेषदर्शनत्वेन संशयोत्तरप्रत्यक्षे हेतुत्वात्
तद्दोषतादवस्थ्यमिति पक्षताजन्यत्वे सति परामर्शजन्यत्वमिति
तदर्थो वक्तव्यः। एवं पक्षताप्रत्यक्षे अतिव्याप्तिवारणाय
परामर्शजन्यत्वोपादानम्।
1. परामर्शजन्यत्वेति।
परामर्शनिष्ठजनकतानिरूपितजन्यत्वेत्यर्थः।
2. विशकलितज्ञानेति।
ऽपुरुषत्वव्याप्यं करादिऽ, ऽकरादिमांश्चायम्ऽ इति
ज्ञानद्वयसाधारण्यानुरोधेनेत्यर्थः।
3.
ज्ञानविशिष्टज्ञानत्वेनेति।
करादिविशेष्यकपुरुषत्वव्याप्यत्वप्रकारकज्ञानविशिष्टकरदिंप्रकारकेदन्त्वावच्छिन्नविशेष्यकज्ञानत्वेनेत्यर्थः।
4.
अतिव्याप्तेरनवकाशादिति।
ज्ञानविशिष्टज्ञानत्वावच्छिन्नकारणतानिरूतिपकार्यतानिरूपितकार्यतायाः
सत्त्वे ऽपि परामर्शत्वावच्छिन्नकारणतानिरूपितकार्यतायाः
विरहादिति भावः।
यद्यपि
पक्षतापरामर्शोभयविषयकसमूहालम्बनप्रत्यक्षे ऽतिव्याप्तिरेवमपि
सम्भवति, तथापि
पक्षताजन्यतावच्छेदकधर्मावच्छिन्नपरामर्शजन्यताविवक्षणात् 1न
दोषः। पक्षताप्रत्यक्षत्वपरामर्शप्रत्यक्षत्वोः अवच्छेदकयोः
भेदादित्यादिकं अनुमितिग्रन्थादौ विस्तरेणोक्तं द्रष्टव्यमिति।
पक्षतालक्षणम्
ननु
साध्यसंशयरूपपक्षतासहकृतत्वं कुतो नात्र निवेशयितुं
शक्यमित्यभिप्रायेण शङ्कते - [150] यद्यपीति। घनगर्जनेन
सुप्तोत्थितस्य मेघानुमितौ साध्यसंशयरूपकारणाभावेन
व्यभिचारापत्त्या साध्यसंशयस्यानुमितिहेतुभूतपक्षतारूपत्वं न
सम्भवतीति नातृ तद्विवक्षणं शक्यमित्यभिप्रायेण समाधत्ते - [150] तथापीति। [150] साध्यानुमितीच्छाया इति। अत्र
चेच्छामात्रनिवेशे सिद्धिसत्त्वे घटो भूयात्
इतीच्छादशायामनुमित्यापत्तिः। अनुमित्यसानिवेशे ऽपि
घटानुमितिः भूयात् इतीच्छाया वारणासम्भवः।
साध्यानुमितिविषयकेच्छानिवेशे ऽपि घटानुमितिः
भूयादितीच्छावारणं न सम्भवति।
2घटसाध्योभयसमूहालम्बनानुमितेर्विषयत्वसम्भवात्। अतः
प्रकृतसाध्यकत्वविशेषितानुमितित्वप्रकारिकेच्छाया इति तदर्थो
बोध्यः। अभावप्रतियोगितायां च तादृशेच्छात्वावच्छिन्नत्वं
निवेश्यम्, तेन तादृशेच्छाघटोभयाभावादिकमादाय 3न दोषः।
तादृशेच्छात्वावच्छिन्नत्वं च तादृशेच्छात्वपर्याप्तावच्छेदकताकत्वम्।
तच्च 4तादशेच्छात्वेतरधर्मानवच्छिन्नत्वपर्यवसितम्। तेन चैत्रस्य
सिद्धिसिषाधयिषयोः सत्त्वे
1. न दोष इति।
समूहालम्बनप्रत्यक्षनिष्ठायाः परामर्शजन्यतायाः
परामर्शविषयकप्रत्यक्षत्वावच्छिन्नत्वे ऽपि पक्षतायाः जन्यतावच्छेदकं
यत् पक्षताप्रत्यक्षत्वं तदवच्छिन्नत्वाभावादिति भावः।
2. घटसाध्येति।
ऽघटवह्न्युभयानुमितिर्भूयात्ऽ इति इच्छा अत्र विवक्षिता।
3. न दोष इति।
सिद्धिसिषाधयिषोभयसत्त्वकाले न पक्षतानुपपत्तिरित्यर्थः।
4.
तादृशेच्छात्वेत्यादि। तथा च घटवह्न्युभयानुमितिर्भूयादितीच्छायाः
यो ऽभावः तदीयप्रतियोगितायाः
तादृशेच्छात्वेतरघटसाध्यकत्वाद्यवच्छिन्नतया तदनवच्छिन्नत्वाभावात्
तादृशाभावस्य न उत्तेजकाभावरूपतेत्याशय।
मैत्रवृत्तित्वविशिष्टसिषाधयिषया अभावमादाय
नानुमित्यनुपपत्तिः। एवमग्रे ऽपि प्रतियोगितायां
विशिष्टसिद्धित्वेतरधर्मावच्छिन्नत्वं निवेश्यम्। तेन
विशिष्टसिद्धिघटोभयाद्यभावस्य
यत्किञ्चिदात्मवृत्तित्वविशिष्टतादृशसिद्ध्यभावस्य च व्युदासः।
अन्यथा सिषाधयिषां विना सिद्धिसत्त्वे ऽनुमित्यापत्तेः। यद्यपि
तादृशेच्छात्वेतरधर्मः तादृशानुमितित्वप्रकारकत्वरूप इति
सिषाधयिषाविरहस्यैवासंग्रहः। एवमग्रे ऽपि। तथापि
1तादृशप्रकारकत्वनिष्ठावच्छेदकताभिन्न -
इच्छात्वनिष्ठावच्छेदकताभिन्नावच्छेदकत्वानिरूपकत्वं
विवक्षणीयम्। एवं
सिषाधयिषाविरहवैशिष्ट्यनिष्ठावच्छेदकताभिन्नसिद्धित्वनिष्ठावच्छेदकताभिन्नावच्छेदकत्वानिरूपकत्वमग्रिमप्रतियोगितायां
निवेश्यमिति। एवमन्यत्रापि बोध्यम्। [151] समवायेनाभाव इति।
सिषाधयिषासिद्ध्योः सत्त्वदशायां
संयोगसंबन्धावच्छिन्नप्रतियोगिताकसिषाधयिषाविरहस्यात्मनि
सत्त्वात् अनुमित्यनुपपत्तिः अतः समवायेनेत्युक्तम्।
अवच्छिन्नप्रतियोगिताकत्वमभावान्वयि तृतीयार्थः। ननु
सिषाधयिषाविरहस्य स्वरूपसंबन्धेन सिद्धिविशेषणत्वे
सिद्धिसिषाधयिषयोः सत्त्वे ऽनुमित्त्यनुपपत्तितादवस्थ्यम्।
सिषाधयिषायाः समवायेनात्मन्येव सत्त्वात् इत्यत आह - [151] स्वरूपेत्यादि। तथा च सिषाधयिषाविरहवैशिष्ट्यं सिद्धौ न
स्वरूपसम्बन्धेन, येनोक्तदोषः स्यात्। अपि तु
स्वनिष्ठस्वरूपसंबन्धावच्छिन्नाधेयतानिरूपकनिरूपितसमवायसम्बन्धावच्छिन्नाधेयतासम्बन्धेन
तथा च नोक्तदोष इति भावः। [151] तद्विशिष्टायास्सद्धेरिति
व्यासेन लेखनात् सिषाधयिषाविरहविशिष्टसिद्ध्यभाव इति
दीपिकावाक्यस्थसमस्तपदे विशिष्टान्तं सिद्ध्यभावविशेषणमिति
भ्रमो निरस्तः। तथा सति सिद्धिसिषाधयिषयोः
1.
तादृशप्रकारकत्वेति।
तत्साध्यविशिष्टतत्पक्षविषयकानुमितित्वप्रकारकत्वनिष्ठावच्छेदकताभिन्ना
इच्छात्वनिष्ठावच्छेदकताभिन्ना व या अवच्छेदकता तदनिरूपिका या
सिषाधयिषानिष्ठा प्रतियोगिता तन्निरूपकाभावः
सिषाधयिषाविरहपदेन विवक्षित इति भावः।
सत्त्वे ऽनुमित्यनुपपत्तितादवस्थ्यात्।
सिद्ध्यभावरूपविशेष्यविरहादिति ध्येयम्। [151] सिद्धेस्समवायेनाभाव इत्यर्थ इति।
सिषाधयिषाविरहविशिष्टसिद्धेः संयोगेनाभावमादाय
विशिष्टसिद्धिदशायामनुमितिवारणाय समवायेनेत्युक्तम्। अत्र
सामानाधिकरव्यशरीरे प्रथमाधेयतायां
स्वरूपसंबन्धावच्छिन्नत्वानिवेशे सिद्धिसिषाधयिषयोः सत्त्वे ऽपि
आत्मनि सिषाधयिषाविरहस्य 1स्वप्रतियोगिमत्त्वसंबन्धेन
सत्त्वादनुमित्यनुपपत्तिः, अतः तन्निवेशः।
अनवच्छिन्नस्वरूपसंबन्धावच्छिन्नत्वं तदर्थः। तेन घटाद्यवच्छेदेन
सिषाधयिषाविरहस्य सिषाधयिषावत्यप्यात्मनि सत्त्वे ऽपि न क्षतिः।
सिषाधयिषाविरहवति काले कालिकविशेषणतया सिद्धिसत्त्वात् 2स
एव दोष इति द्वितीयाधेयतानवच्छिन्नस्वरूपसम्बन्धेन कारणत्वं
वक्तव्यम्। अन्यथा सिद्धिसत्त्वे घटाद्यवच्छेदेन तदभावसत्त्वात्
विशिष्टसिद्धिदशायामनुमित्यापत्तेः। [151] साध्यसिद्धिः
पक्षतावच्छेदकविशिष्ट इत्यादि।
पक्षतावच्छेदकावच्छिन्नविशेष्यतानिरूपितसाध्यतावच्छेदकधर्मसंबन्धावच्छिन्नप्रकारताशालिसंशयान्यज्ञानमित्यर्थंः।
अत्र च पाषाणमयः संयोगेन वह्निमानित्यादेः, पर्वतः संयोगेन
द्रव्यवान् इत्यादेः, पर्वतः कालिकादिना वह्निमानित्यादेश्च
निश्चयस्य सत्त्वे ऽपि अनुमित्यनुपपत्तिः स्यादिति
पक्षतावच्छेदकादेर्निवेशनम्।
विशेष्यताप्रकारतयोर्निरूप्यनिरूपकभावनिवेशनं च पर्वतो
घटवान्, ह्रदश्च वह्निमानित्यादिसमूहालंबननिर्णयस्य पर्वतो
वह्निमानित्याद्यनुमितिविरोधितावारणायेति बोध्यम्। पर्वतो
वह्निमान् नवेति संशयस्य प्रतिबन्धकतावारणाय
संशयान्यत्वनिवेशनम्। तच्च न सामान्यतः संशयभिन्नत्वम, तथा
सति पर्वतः संयोगेन वह्निमान् भूतं घटवान्
1.
स्वप्रतियोगमत्त्वेति। स्वं सिषाधयिषाविरहः तत्प्रतियोगि
सिषाधयिषा तद्वत्त्वमात्मनः।
2. स एव दोष इति।
सिद्धिसिषाधयिषयोः सत्त्वे ऽपि अनुमित्यनुपपत्तिरित्यर्थः।
नवेत्यादि
समूहालम्बनज्ञानस्यांशिकसंशयरूपस्याप्रतिबन्धकत्वप्रसङ्गात्,
किन्तु
साध्यतावच्छेदकसम्बन्धावच्छिन्नप्रतियोगिताकाभावाप्रकारकत्वम्।
यद्यपि अत्र वह्नित्वादिना पदार्थानतरावगाहिनःपर्वतः संयोगेन
वह्निमान् नवेत्यादिसंशयस्यापि तादृशत्वमस्ति
साध्यतावच्छेदकधर्मावच्छिन्नसाध्यतावच्छेदकसम्बन्धावच्छिन्नप्रत् इयोगितासम्बन्धावच्छिन्नप्रकारतानिरूपिताभावत्वावच्छिन्नप्रकारतानिरूपकत्वाभावविवक्षायामपि
पर्वता वह्निमान् ह्रदश्च
वह्न्यभाववानित्यादिग्रहस्याप्रतिबन्धकत्वप्रसङ्गः। तथापि
पक्षतावच्छेदकावच्छिन्नविशेष्यतानिरूपिता या
तादृशाभावत्वावच्छिन्नप्रकारतातन्निरूपकत्वाभावविवक्षणात् न दोषः।
अभावत्वावच्छिन्नप्रकारतायां
स्वरूपसम्बन्धावच्छिन्नत्वं निवेशनीयम्। अन्यथा पर्वतः
संयोगेन वह्निमान्कालिकादिना सम्बन्धेन
वह्न्यभाववांश्चेत्यादिनिश्चयस्यापि विरोधितापत्तिः।
पक्षतावच्छेदकावच्छिननविशेष्यतानिरूपितसाध्यवद्भेदत्वावच्छिन्नस्वरूपसम्बन्धावच्छिन्नप्रकारताकत्वाभावो ऽपि
निवेश्यः। अन्यथा पर्वतो वह्निमान् वह्निमदन्यो वेति संशयस्य
विरोधितापत्तिरित्यलमधिकेन।
ननु सिद्धौ
सिषाधयिषाविरहविशिष्टत्वनिवेशप्रयोजनं ऽसिद्धिसत्त्वे ऽपीऽत्यादि
दीपिकाग्रन्थोक्तं सिद्धिसिषाधयिषापरामर्शानां यौगपद्य एव
सम्भवति। तदेव च न घटते। योग्यविभुविशेषगुणानां
स्वोत्तरोत्पन्नगुणनाश्यत्वनियमेन तेषां युगपदवस्थानासम्भवात्,
अतः तत्प्रयोजनकथनमसङ्गतमित्याशङ्क्य
सिद्ध्यात्मकपरामर्शस्थले तत् सङ्गमयति - [151] अत्र
सिद्धिश्चेत्यादिना। [151] अतः समूहालम्बनपर्यन्तानुधावनात्।
परामर्शेति। अन्यथा यत्र प्रथमं परामर्शः ततः सिद्धिः, ततः
सिषाधयिषा, ततः अनुमितिः न जायत एव। परामर्शस्य पूर्वं
नष्टत्वात् अतो नात्र प्रयोजनं सम्भवतीति भावः। तथा च
विशेषणाभावप्रयुक्तविशिष्टाभावसम्भवात् न सिद्धिसिषाधयिषयोः
सत्त्वे व्यभिचार इति भावः।
परामर्शलक्षणम्
प्रकाशिकायाम्
[155] सप्तमीतत्पुरुषाङ्गीकार इति। नन्वत्र व्याप्तिविशिष्टस्य
पक्षधर्मतेति षष्ठीतत्पुरुषः कुतो नाश्रितः, स एव चाश्रयणीयः।
कारकाधिकारीयात् ऽसप्तम्यधिकरणे चेऽति सूत्रादसामर्थ्येन
समासानुपपत्तिभिया समस्तपदप्रविष्टक्रियासमभिव्याहारस्य
दुर्वञ्चत्वेन सप्तम्यनुपपत्तेरिति चेत् - न।
शैषिकषष्ठीप्रसक्तावपि अकारकाधिकरणवाचिपदादपि क्वचित् सप्तमी
साधुरिति सूचनायैव इह सप्तमीसमासादरः। तत्र प्रमाणं
चोक्तसूत्रे चकारोपादानमेव। अन्यथा तद्वैयर्थ्यापत्तेरिति। स्पष्टं
चेदम् व्युत्पत्तिवादे सप्तम्यर्थविचारे। ननु
व्याप्तिविषयकपक्षधर्मताज्ञानस्य परामर्शरूपत्वे धूमो वह्निव्याप्यः
धूमवान् पर्वत इति ज्ञानयोः व्यावृत्तिः यद्यपि सम्भवति, तथापि
हेतुः साध्यव्याप्यः हेतुमान् पक्ष इति समूहालम्बनस्य
परामर्शत्वापत्त्या ततो ऽनुमित्यापत्तिः अतो निष्कर्षमाह - [155] व्याप्त्यवच्छिन्नेत्यादिना। अत्र च व्यभिचारिस्थले
हेतुव्यापकसाध्यसामानाधिकरण्यरूपविशिष्टव्याप्त्यप्रसिद्ध्या
भ्रमीयविषयतासाधारणनिरूप्यनिरूपकभावापन्नविषयतैव
व्याप्तिघटकतावत्पदार्थानां निवेशनीया। तथा च
व्याप्त्यवच्छिन्नेत्यस्य
हेतुप्रकारतानिरूपितव्यापकत्वप्रकारतानिरूपितसाध्यप्रकारतानिरूपि तसामानाधिकरण्यप्रकारतानिरूपितेत्यर्थः।
व्यापकत्वघटकपदार्थानामपि निरूप्यनिरूपकभावापन्नविषयतैव
निवेश्या। वह्निव्याप्यधूवान् ह्रदः, पर्वतो घटवानिति
समूहालम्बनतः अनुमितिवारणाय
विशेष्यताप्रकारतयोर्निरूप्यनिरूपकभावनिवेशः। वह्निव्याप्यधूवत्
द्रव्यमिति ज्ञानात् पर्वतो वह्निमान् इत्यनुमितिवारणाय
पक्षतावच्छेदकनिवेशः। पर्वतो वह्निव्याप्यधूमवान् न वेति
संशयादनुमितिवारणाय निश्चय इत्युक्तम्। निश्चयत्वं च न
सामान्यतः संशयभिन्नत्वमांशिकसंशयस्याजनकत्वापत्तेः। किं तु
साध्यव्याप्यहेतुत्वाभावप्रकारतानिरूपितपक्षतावच्छेदकावच्छिन्नविशेष्यतानिरूपकत्वाभावादिरूपमिति
ध्येयम्।
व्याप्तिलक्षणम्
यत्र धृमः
तत्राग्निरिति साहचर्यनियमो व्याप्तिरिति संग्रहवाक्ये
तादृशवाक्यप्रतिपाद्या साहचर्यनियमाभिन्ना व्याप्तिरिति बोध
इत्यभिप्रायेणाह दीपिकायाम् [157] यत्रेत्यादि। [157] अभिनयः अभिलापकशब्दकथनम्। [157] साहचर्यनियम इति
संग्रहवाक्ये सहचरत इति सहचरौ तयोर्भावः साहचर्यम्।
सामानाधिकरण्यमित्यर्थः। तस्य नियमः प्राचीनमते
साध्याभाववदवृत्तित्वादिवैशिष्ट्यम्। नीवीनमते
हेतुव्यापकसाध्यनिरूतिपत्वात्मकं, तस्य हेतुनिष्ठत्वं
स्वाश्रयाश्रयत्वरूपपरम्परासम्बन्धनैव वाच्यमिति व्याप्य इत्यादौ स
एव प्रत्ययार्थः स्वादिति गौरवं नियमस्य विशेष्यत्वे दुर्वारम्।
तस्य विशेषणत्वे तु
नियमविशिष्टसामानाधिकरण्यस्याश्रयतासम्बन्धेनैव हेतुवृत्तित्वात्
नोक्तरीत्या गौरवावकाश इति मनसि निधाय [157] नियतसामानाधिकरण्यमित्युक्तम्। [157] साध्याभाववदवृत्ति त्वादिरूपमिति। आदिना
साध्यवदन्यावृत्तित्वपरिग्रहः। साध्याभाववदवृत्तित्वादिरूपं
विशेषणं घटकमिति यावत्। तादृशं यत्रेति व्युत्पत्त्या
साध्याभाववदवृत्तित्वादिघटितमित्यर्थः। अत्र वह्निमान्
गगनादित्यादिविरुद्धवारणाय 1विशेष्यम्। द्रव्यं सत्त्वात्
इत्यादिव्यभिचारिवारणाय 2विशेषणम्।
वृत्तिमात्रनिवेशेनोक्तविरुद्धनिरासे तु ऽधूमवान्
वह्नेऽरित्यादावपि प्रयोजनं बोध्यम्। केचित्तु - साहचर्यनियम
इत्यत्र कृदभिहितो भावो द्रव्यवत्प्रकाशत इति न्यायेन
नियमशब्दो नियतपरः सामानाधिकरण्यविशेषणमित्यभिप्रायेणाह
[157] नियतसामानाधिकरण्यमिति - इति व्याचक्रुः। तदसत् --
तथासति साहचर्यं सामानाधिकरण्यम्, तस्य नियम इति
षष्ठीसमासेन व्याख्यानविरोधात्। नियतपरनियमशब्दस्य
ऽविशेषणं विशेष्येऽत्यादिसूत्रेणा पूर्वनिपातापत्तेश्च। तस्मात्
नियतसामानाधिकरण्यंमिति फलितार्थकथनम;
1. विशेष्यमिति।
सामानाधिकरण्यरूपं विशेष्यमित्यर्थः।
2. विशेषणमिति।
नियमरूपं विशेषणमित्यर्थः।
न तु
शब्दार्थकथनमिति तत्त्वम्। तथा च नियतसामानाधिकरण्शरीरे
नियमः साध्याभाववदवृत्तित्वादिवैशिष्ट्यरूपो न शक्यते वक्तुमिति
भावः। तथात्वे दोषमाह -- [157]
इदं वाच्यमित्यादिना। अत्र च
साध्याभाववदवृत्तित्वशरीरे किं साध्यनिष्ठप्रतियोगिताकाभावो
निवेश्यते, उत
साध्यतावच्छेदकेतरधर्मानवच्छिन्नसाध्यतावच्छेदकसम्बन्धावच्छिन्नप्रतियोगिताकाभावपर्यन्तमिति
विकल्पं मनसि निधायाद्ये वाच्यत्वघटोभयाद्यभावमादाय
घटादिवृत्तित्वविशिष्टवाच्यत्वाद्यभावं
संयोगादिसंबन्धावच्छिन्नप्रतियोगिताकवाच्यत्वाद्यभावं चादाय
सद्धेतोरव्यभिचारित्वानुपपत्तेः स्फुटत्वात् द्वितीये दूषणमाह --
[157] साध्याभावाप्रतिसद्धेरिति। [157] प्रतियोगितानवच्छेदकसाध्यतावच्छेदकाविच्छन्नेत्यर्थ इति।
धूमवान् वह्नेरित्यादौ प्रमेयत्वद्रव्यत्वादिकमादाय
अतिव्याप्तिवारणाय विशिष्य साध्यतावच्छेदकप्रवेशः। यद्यपि
महानसीयवह्न्याद्यभावप्रतियोगितावच्छेदकत्वं वह्नित्वादेरप्यधिकं
त्विति न्यायादक्षतम्। तथापि तादृशप्रतियोगितानवच्छेदकेत्यादिना
1हेतुसमानाधिकरणाभावविशिष्टान्यसाध्यतावच्छेदकावच्छिन्नविषयतावत्त्वविवक्षया
न दोषः। वैशिष्ट्यं स्वसेत्यादिभेदवत्त्वसंबन्धेन। स्वाधिकरणता
स्वप्रतियोगितावच्छेदकत्वसम्बन्धेन भेदप्रतियोगितावच्छेकता
अवच्छेदकतासंबन्धेन। तथा च महानसीयत्वादौ
तादृशविषयतावच्छेदकताविरहात् लक्षणसङ्गतिः। विषयतायां
साध्यतावच्छेदकावच्छिन्नत्वं चैकमात्रवृत्तिधर्मस्य
साध्यतावच्छेदकत्वे तन्निष्ठावच्छेदकताकत्वम्, धर्मद्वयादः तथात्वे
1.
हेतुसमानाधिकरणाभावविशिष्टान्या या
साध्यतावच्छेदकावच्छिन्नविषयता तद्वत्त्वमित्यर्थः। स्वपदेन
हेतुसमानाधिकरणः घटाद्यभावो ग्राह्यः। स्वसेत्यादिभेदवत्त्वं नाम
स्वाधिकरणवृत्तिभेदप्रतियोगितावच्छेदकत्वसंबन्धावच्छिन्नस्वनिष्ठावच्छेदकताकप्रतियोगिताकभेदवत्त्वम्।
स्वं घटाभावः स्वप्रतियोगितावच्छेदकतासंबन्धेन
घटाभावाधिकरणं घटत्वं, तत्र यो भेदः अवच्छेदकतासंबन्धनेन
वह्नित्वावच्छिन्नविषयतावद्भेदः तत्प्रतियोगितावच्छेदकत्वं
वह्नित्वावच्छिन्नविषयतायांमिति
तादृशभेदप्रतियोगितावच्छेदकतासंबन्धेन घटाभाववती
वह्नित्वावच्छिन्नविषयता तेन संबन्धेन घटाभाववद्भिन्ना च
घटत्वावच्छिन्नविषयतेति स्वसेत्यादिभेदवत्त्वसंबन्धेन
घटाभावविशिष्टा घटत्वावच्छिन्नविषयता, तदन्या
वह्नित्वावच्छिन्नविषयतेति समन्वयो बोध्यः।
तु
धर्मद्वयादेर्विशेषणविशेष्यतावच्छेदकभावेन यादृशं विलक्षण
अवच्छेदकत्वं तन्निरूपकत्वरूपमिति न क्षतिरिति। न
चैवमिति
संयोगसमवायोभयसम्बन्धावच्छिन्नप्रतियोगिताकवह्न्याद्यभावमादाय
तद्दोषतादवस्थ्यमिति वाच्यम्।
साध्यतावच्छेदकसम्बन्धमात्रावच्छिन्नत्वस्य
तदितरसम्बन्धानवच्छिन्नत्वपर्यवसितस्य विवक्षितत्वात्। [158] हेतुतावच्छेदकावच्छिन्नपरमिति।
1प्रकृतहेतुतावच्छेदकताव्यापकतावच्छेदकताकनिरूपकताकपरमि त्यर्थः।
तादृशनिरूपकताकत्वमधिकरणतान्वयि। तेन विशिष्टसत्ताहेतुके
सत्तात्वस्यापि हेतुतावच्छेदकताया तद्दोषतादवस्थ्यमिति शङ्का
परास्ता।
वस्तुतस्तु एकधर्मस्य
हेतुतावच्छेदकत्वे तन्निष्ठावच्छेदकताकत्वमेवाधिकरणतायां
निवेश्यम्। यत्र
धर्मद्वयादेः तथात्वं
तत्र पूर्वोक्तरीत्या विलक्षणावच्छेदकताकत्वमिति न किञ्चिदवहीनम्।
अत्रैव [158] हेतुतावच्छेदकावच्छिन्नपरमित्यस्यापि
तात्पर्यमिति ध्येयम्। [158] विशिष्टेति।
2स्वरूपसमवायोभयघटितसामानाधिकरण्यसम्बन्धेन
गुणकर्मान्यत्वविशिष्टेत्यर्थः। ननु विशिष्टशुद्धयोर्भेन्दात् कथं
हेत्वधिकरणत्व गुणादेरित्यत आह - [158] विशिष्टस्येति।
द्रव्यत्वाभावस्य हेत्वधिकरणगुणादिनिष्ठत्वे ऽपीति योजना।
गुणादीत्यादिना कर्मादिसङ्ग्रहः। [158] नाव्याप्तिरिति।
तन्निष्ठाधिकरणतानिरूपकतावच्छेदकं यत्
1. निरूपकतापदेनात्र
आधेयता विवक्षिता। तथा च प्रकृतहेतुतावच्छेदकताव्यापिका या
आधेयतावच्छेदकता तन्निरूपकाधेयतानिरूपकत्वमधिकरणतायां
विवक्षितम्। तेन द्रव्यं विशिष्टसत्त्वात् इत्यत्र हेतुतावच्छेदकता
विशिष्टसत्तात्वे, तत्र
गुणनिष्ठाधिकरणतानिरूपिताधेयतावच्छेदकता नास्ति, ऽगुणो
गुणकर्मान्यत्वविशिष्टसत्तावान्ऽ इति प्रतीतिविरहात्। अपि तु
द्रव्यनिष्ठाभिकरणतानिरूपितधेयतावच्छेदकता अस्ति, ऽद्रव्यं
गुणकर्मान्यत्वविशिष्टसत्तावत्ऽ इति प्रतीतेः। अतः
हेतुतावच्छेदकताव्यापकावच्छेदकताकाधेयताकाधिकरणतावत्
द्रव्यमेव, तद्वृत्त्यत्यन्ताभावाप्रतियोगित्वं द्रव्यत्वे ऽस्तीति
नाव्याप्तिरिति भावः।
2.
स्वरूपसमवायोभयघटितसामानाधिकरण्यं नाम
स्वरूपसंबन्धावच्छिन्नस्वनिष्ठाधेयतानिरूपकाधिकरणनिरूपितसमवायसंबन्धावच्छिन्नवृत्तित्वम्।
तस्यैव
तदवच्छिन्ननिरूपिताधिकरणतावत्त्वेन गुणादेरतथात्वादिति भावः।
यद्यपि हेत्वधिकरणतायां हेतुतावच्छेदकसम्बन्धावच्छिन्नत्वानिवेशे
कालिकादिना धूमाद्यभिकरणे ह्रदादौ
संयोगाद्यवच्छिन्नवह्न्याद्यभावसत्त्वात् अप्यव्याप्तिसम्भवः। तथापि
जन्यमात्रस्य कालत्वानुपगमे नैष दोषः सम्भवतीति तत्र तन्निवेशस्य
प्रकारान्तरेण फलमाह - [158] नाव्याप्तिरिति। आत्मभिन्नं
ज्ञानवदन्यत्वादित्यादौ आत्मनः केनापि सम्बन्धेन
हेत्वधिकरणताविरहेण लक्षणसमन्वयसम्भवात् नासम्भवो दर्शितः।
संयोगसामान्याभावस्य वृक्षे सविवादत्वादाह -- [158] कपीति। [158] प्रतियोगिवैयधिकरण्यस्येति। यद्यपि
सामान्यतः प्रतियोगिनिवेशे तादृशविशेषणाक्रान्ताभावाप्रसिद्धिः।
स्वप्रतियोगिनिवेशे स्वत्वस्य तत्तद्व्यक्तिविश्रान्ततया
व्याप्तेरसर्वज्ञदुर्ज्ञेयतापत्तिः। तथापि
1तादात्म्यस्वप्रतियोग्यधिकरणवृत्तित्वोभयसंबन्धेन
अभावविशिष्टान्यत्वं निरूपकत्वस्वाश्रयाधिकरणवृत्तित्वोभयसंबन्धेन
प्रतियोगिताविशिष्टान्यत्वं वा स्थूलसूक्ष्मरीतिभ्यामनुगतमभावे
निवेश्यमिति न दोषः। अत्र च स्वप्रतियोग्यधिकरणावृत्तित्वस्य
प्रतियोगिवैयधिकरण्यशब्दार्थत्वे कपिसंयोगी सत्त्वादित्यादौ
व्यभिचारिण्यतिप्रसङ्गः। अधिकरणभेदेनाभावभेदविरहेण
साध्याभावस्य व्यापकताघटकत्वासम्भवात्।
स्वप्रतियोग्यनधिकरणवृत्तित्वस्य निवेशे च कपिसंयोगी
एतत्त्वादित्यादौ अव्यापिततादवस्थ्यमिति हेत्वधिकरणे
स्वप्रतियोग्यनधिकरणत्वं निवेशनीयमित्यादिकं मनसि निधायाह -
[158] अधिकमिति।
1. अभावपदेन
संयोगाभावो ग्राह्यः तादात्म्यसंबन्धेन
स्वप्रतियोग्यधिकरणवृत्तित्वसम्बन्धेन च तद्विशिष्टः स एव, तदन्यो
घटाद्यभावः। एवं प्रयितोगिता संयोगनिष्ठा, तन्निरूपकः
संयोगाभावः तथा स्वं प्रतियोगिता तदाश्रयः संयोगः
तदधिकरणवृत्तिश्च
संयोगाभाव इति उक्तोभयसम्बन्धेन प्रतियोगिताविशिष्टः
संयोगाभावः तदन्यः घटाद्यभाव इति समन्वयो द्रष्टव्यः।
अनुमानविभागः
सङ्ग्रहे [164] स्वयमेवेत्यादि। अस्य वाक्यस्य
परानधीनभूयोदर्शनजन्यमहानसादिनिरूपितस्वाश्रयाश्रयत्वरूपपरम्परासम्बन्धावच्छिन्नाधेयताश्रयः
यत्र धूमस्तत्राग्निरिति
व्याप्तिविषयकप्रत्यक्षोत्तरकालीनपर्वतसमीपकर्मकगमनाश्रयः
पर्वतवृत्तिवह्निविषयकसन्देहवान्
पर्वतधर्मिकधूमप्रकारकचाक्षुषाश्रयः यत्र
धूमस्तत्राग्निरित्याकारकव्याप्तिविषयकस्मरणाश्रय इत्यखण्डबोधः।
तत्र
धूमं पश्यन्
स्मरतीत्यनेन धूमदर्शनजन्यत्वं व्याप्तिस्मरणे लभ्यते।
उद्देश्यविधेयभावस्थले
उद्देश्यतावच्छेदकविधेययोर्जन्यजनकभावसम्बन्धभानस्य धनवान्
सुखीतयादौ दृष्टत्वात्। तथा च कथं व्याप्तिस्मरणहेतुत्वं
धूमदर्शनस्येत्याशङ्कायां तदुपपादयति प्रकाशिकायाम् [165] एकसंन्बधीति।
स्वार्थानुमाननिरूपणम्
भूयोदर्शनेन
व्याप्तिं गृहीत्वेति सङ्ग्रहवाक्यात् भूयोदर्शनस्य व्याप्तिग्राहकता
लभ्यते। तच्च नोपपद्यते। अन्वयव्यभिचारादित्याशङ्कते -
दीपिकायाञ् [164] नन्विति।
व्याप्तिग्रहोपायनिरूपणम्
ननु
व्यभिचारज्ञानदशायामपि भूयोदर्शनेन व्याप्तिनिश्चयः स्वीक्रियते
इतीष्टापत्तिः कुतो न सम्भवति इत्यत आह - [165] व्यभिचारज्ञानदशायामित्यादि। तथा चानुभवविरोध इति
भावः। यदि चानुभवविरोधमप्यनादृत्य इष्टापत्तिः स्वीक्रियते
तदाप्याह - [165] इदमुपलक्षणमिति।
इदं-व्यभिचारज्ञानदशायां
व्याप्तिनिश्चयापत्तिरूपातिप्रसङ्गकथनम्
उपलक्षणम्-वक्ष्यमाणदूषणान्तरसूचकम्। [165] रसाभादिसाधारण्याद् इति। इदमुपलक्षणम्
सामान्य-प्रत्यासत्त्यनुपगमपक्षे पर्वतीयवह्निधूमयोः
सामानाधिकरण्यस्यासन्निकृष्टतया महानसादौ व्याप्तिप्रत्यक्षे
भानासम्भवात् पर्वतादौ धूमादिदर्शनानन्तरं
व्याप्तिस्मरणानुपपत्तिरित्यपि द्रष्टव्यम्। हेतुतावच्छेदकपर्यंन्तस्य
व्याप्तित्वे धूमत्वादिकमेवावच्छेदकं अवच्छेद्यं च भवतीति
अवच्छेद्यावच्छेदकयोरैक्यप्रसङ्गः। न चेष्टापत्तिः।
अवच्छेद्यप्रकारकज्ञाने ऽवच्छेदकप्रकारकज्ञानस्य कारणतया
आत्माश्रयप्रसङ्गात्। आत्माश्रयश्च प्रकृते
स्वज्ञानहेतुत्वापादनजन्यस्वज्ञानभेदारोपात्मकः। यदि स्वज्ञानं
स्वज्ञानहेतुः स्यात् तर्हि स्वज्ञानव्यतिरिक्तं स्यादिति तर्क इति
यावत्। यद्वा यदि स्वं स्वहेतुः स्यात् तर्हि स्वभिन्नं स्यादित्यादि
तर्करूपः। स्वज्ञानादिहेतुत्वस्य स्वज्ञानादिव्यतिरिक्तत्वव्याप्यतया
आपाद्यापादकयोर्व्याप्तिसत्त्वात् आह - [165] धूमत्वादेरिति। [165] न
क्षतिरिति। तथा च तादृशधूमत्वत्वावच्छिन्नप्रकारताशालिज्ञानं
कार्यम्; धूमत्वादिनिष्ठानवच्छिन्नप्रकारताकज्ञानं कारणमिति
कार्यकारणयोः भेदात् नात्माश्रय इत्यर्थः। इष्टापत्तिदोषेण
तर्कानुत्थानादिति भावः।
ननु
व्यभिचारज्ञानाभावः सहचारग्रहश्च व्याप्तिग्रहहेतुरित्युक्तम् तत्र
तादृशविशिष्टव्याप्तिग्रहे किमंशे
व्यभिचारग्रहाभावस्योपयोगः-सामानाधिकरण्यग्रहस्य च
कुत्रोपयोग इत्याशङ्कायां तदुपपादयति [165] इत्थं चेत्यादिना। [165]
विशेषणज्ञानविधयेति। हेतुः
साध्यसमानाधिकरण इति ज्ञानं विना हेतुतावच्छेदके
साध्यसमानाधिकरणवृत्तित्वस्य दुर्ग्रहत्वादिति भावः।
साध्यसामानाधिकरण्यस्य व्याप्तित्वे ऽपि न दोष इत्याह - [165] वस्तुतस्त्विति। [166] तद्धर्मधर्मितावच्छेदककेति।
तद्धर्मावच्छिन्नविशेष्यताकेत्यर्थः। [166] अत एवेति।
सामानाधिकरण्यान्तस्यैव व्याप्तित्वव्यवस्थापनादेवेत्यर्थः। [166] धूमत्वत्वेति। धूमत्वत्वस्य
धूमेतरासमवेतत्वसहितनिखिलधूमवृत्तित्वरूपत्वादिति भावः।
[166] दिगिति। अयमाशयः -
हेतुतावच्छेदकावच्छिन्नप्रकारतानिरूपितव्यापकत्वप्रकारतानिरूपित
साध्यतावच्छेदकावच्छिन्नप्रकारतानिरूपितसामानाधिकरण्यप्रकारतानि रूपितहेतुतावच्छेदकधर्मसम्बन्धावच्छिन्नप्रकारतानिरूपितपक्षतावच्छेरकावच्छिन्नविशेष्यताकनिश्चयत्वेन
हेतुत्वोपगमात् न विशिष्टपरामर्शस्य अनुमितिहेतुत्वानुपपत्तिः।
एवं पूर्वमते वह्निमान् जलात् इत्यादौ
साध्यसमानाधिकरणावृत्तिहेतुतावच्छेदकं विरोधः। एतन्मते च
साध्याधिकरणावृत्तिहेतुः तथा। एवं पूर्वमते हेतुतावच्छेदकस्य
पक्षविशेषणतावच्छेदकतया स्वरूपतो ऽपि निवेशस्य
स्वरूपासिद्धेर्हेत्वाभासतोपपत्तये आवश्यकतया
व्याप्तिग्रहनिष्ठहेतुतावच्छेदकगर्भे त्रेधा
हेतुतावच्छेदकप्रवेशनमावश्यकमिति गौरवम् एतन्मते तु द्विधेति
लाघवम्। एवं
हेतुप्रकारतानिरूपितव्यापकत्वप्रकारतानिरूपितसाध्यप्रकारतानिरूपि तसमानाधिकरणप्रकारतानिरूपितवृत्तित्वप्रकारतानिरूपितहेतुतावच्छेदकप्रकारतानिरूपितहेतुतावच्छेदकावच्छिन्नप्रकारतानिरूपितपक्षतावच्छेदकावच्छिन्नविशेष्यताकनिश्चयत्वेन
पूर्वमते हेतुत्वं वाच्यमिति गौरवम्। एतन्मते तु न तथेति
लाघवमिति। अत्र च व्यभिचार संशयस्य व्याप्तिप्रत्यक्षं प्रत्येव
विरोधिता न तु व्याप्त्यनुमित्यादौ तत्र तस्यानुकूलत्वात्। तथा च
व्याप्तिप्रत्यक्षत्वमेव व्यभिचारसंशयप्रतिबध्यतावच्छेदकम्, न
त्वनुमित्यादिसाधारणव्याप्तिज्ञानत्वम्। तथा सति
व्यभिचारसंशयदशायां
व्याप्त्यनुमित्यनुपपत्तेः। एवं चैकधर्मावच्छिन्नं प्रति
संशयनिश्चयसाधारणव्यभिचारज्ञानत्वेन नैकं प्रतिबन्धकत्वं
सम्भवति। एवं तदवच्छिन्नाभावस्नय हेतुत्वमपि। किं च
व्यभिचारसंशयप्रतिबन्धकतायां तर्क उत्तेजकः।
निश्चयप्रतिबन्धकतायां तु स न तथेति
तर्काभावविशिष्टव्यभिचारसंशयत्वेन व्याप्तिप्रत्यक्षप्रतिबन्धकत्वं
तदविशेषितव्यभिचारनिश्चयत्वेन च व्याप्तिग्रहप्रतिबन्धकत्वमिति न
प्रतिबन्धकतैक्यसम्भव इति एकस्याभावस्य हेतुत्वं न
सम्भवतीत्यभिसन्धाय [166] हृदयमित्युक्तम्। [166] धूमाग्न्योरित्यादिवाक्ये दीपिकास्थे व्याप्तिग्रहे इति
सप्तम्यन्तस्य अन्वयानुपपत्तिमाशङ्क्य शेषं पूरयति - [166] व्याप्तिग्रहे उत्पत्स्यमान इति। तथा च ऽयस्य च भावेन
भावलक्षणम्ऽ इति सूत्रेण प्राप्ता सप्तमी व्याप्तिग्रहपदोत्तरं
उत्पत्तिं बोधयति। तस्याश्च व्यभिचारशङ्कानिवर्तक इत्यत्र
निवृत्तौ स्वप्राक्कालीनत्वसंबन्धेन अन्वयः। अज्ञातस्य विधेयत्वात्
ज्ञातस्य चोद्देश्यत्वात् सामान्यतो व्यभिचारशङ्कानिवर्तकस्य
कस्यचित् अवगतत्वेन दर्शितदीपिकावाक्ये योजनया अन्वयमाह -
[166] व्यभिचारशङ्कानिर्वतक इत्यादि। तर्काकारः
कथमित्याशङ्कायामाह - [166]
स चेति [166] असन्निकर्षेणेत्यादि।
प्रत्यक्षविषयतायाः सन्निकर्षव्याप्यत्वादिति भावः।
परार्थानुमाननिरूपणम्
[170] परार्थानुमानप्रयोजक इत्यादि। अयं
भावः -- परार्थं अनुमानं यस्मादिति व्युत्पत्त्या
बहुव्रीहावुत्तरपरस्यान्यपदार्थलाक्षणिकतया परार्थानुमानशब्देन
परार्थानुमानप्रयोजकत्वावच्छिन्नं बोध्यत इति
तस्यौपचारिकत्वमिति।
यत्तु -
परार्थानुमानशब्दे कर्मधारयमाश्रित्य प्रयोजकतारूपलक्षणया
पञ्चावयववाक्यत्वावच्छिन्नमेव तेन बोध्यते।
परार्थानुमानप्रयोजक इत्युक्तिस्तु शक्यसंबन्धप्रदर्शनार्थेति ---
तत्तुच्छम्-परार्थान-मानशब्दस्य वाक्यरूपतया नैयायिकैः
वाक्यलक्षणाया अनभ्युपगमात्। वाक्यशक्याप्रसिद्ध्या
शक्यसंबन्धरूपलक्षणाया असम्भवात्। अन्यथा गभीरायां नद्यां घोष
इत्यादौ नद्यादिपदस्य ग्रन्थकृतां
गभीरनदीतीरादिलक्षकत्वकथनविरोधापातात्। अयमत्र संग्रहः --
"बहुव्रीहिः पदार्थानुमानशब्दे ऽत्र
कीर्त्यते।
केचित्तु ब्रुवते
कर्मधारयं तत्र तन्न सत्॥
तथात्वे तस्य
वाक्यत्वात् लक्षणा नोपपद्यते।
वाक्यशक्यस्याप्रसिद्धेः
वाक्ययोगो हि लक्षणा॥
अस्मन्मते बहुव्रीहौ
लक्षकं पदमुत्तरम्।
तत्प्रयोजकतारूपशक्ययोगेन युज्यते"॥
इति।
अत्र चानुमानशब्दः
परार्थानुमानप्रयोजकपरः। परार्थंपदं तात्पर्यग्राहकमिति
केषाञ्चिन्मतम्। अनुमानशब्दः अनुमानप्रयोजनकपरः।
तदेकदेशे ऽनुमाने परार्थपदार्थस्यान्वय इति परेषां मतमिति
विवेकः।
न्यायावयवनिरूपणम्
[172] न्यायलक्षणं बोध्यमिति। तथा च
न्यायलक्षणापरिज्ञाने न्यायावयवत्वघटितवक्ष्यमाणलक्षणं दुर्ज्ञेयमिति
शङ्का निरस्ता। ननु [172] अनेन
प्रतिपादिताल्लिङ्गादित्यादिसंग्रहवाक्ये
प्रतिज्ञाद्यवयवपञ्चकसमुदायप्रयोज्यज्ञानविषयीभूतलिङ्गजन्यानुमित्याश्रयः
परो ऽपीत्यर्थो लभ्यते। स च न घटते।
ज्ञानमानलिङ्गस्यानुमितिहेतुताया असम्भवात्। अन्यथा
अतीतादिलिङ्गज्ञानदशायां अनुमित्यनुपपत्तेरित्याशङ्क्य
लिङ्गपदमत्र लिङ्गपरामर्शपरम्,
अतस्तादृशसमुदाण्प्रयोज्यलिङ्गपरामर्शजन्यानुमितिमान्
परो ऽपीत्यर्थो लभ्यत इति तानुपपतिरिति समाधिमभिप्रयन्नाह -
[172] अनेनेत्यादि। [172] साध्यवत्तया पक्षवचनम् इति
दीपिकावाक्ये साध्यपदं साध्यतावच्छेदकावच्छिन्नपरम्। तृतीयार्थः
प्रकारत्वम्। पक्षपदं
पक्षतावच्छेदकावच्छिन्नपरमित्यभिप्रायेणार्थमाह - [172]
साध्यतावच्छेदकावच्छिन्नेत्यादिना।
पक्षतावच्छेदकनिवेशप्रयोजनमहा - [172] उदाहरणेत्यादिना।
इदं चोदाहरणस्थसाध्यपदस्य केवलसाध्यपरतामङ्गीकृत्य। तेन
कल्पान्तरस्य वक्ष्यमाणत्वेन तस्यैव च यौक्तिकत्वात् तदभिप्रायेण
तेन निगमनस्य व्युदासाय शुद्धसाध्यतावच्छेदकनिवेशस्यावश्यकतया
उदाहरणस्थसाध्यवाचिपदस्य
हेतुव्यापकताविशिष्टसाध्यपरत्वे
तत्रादाहरणस्थसाध्यवाचिपदस्य हेतुव्यापकताविशिष्टसाध्यपरत्वे
तत्रातिप्रसङ्गविरहात् पक्षतावच्छेदकप्रेवशवैयर्थ्यंमिति
निरस्तम्। विशेष्यताप्रकारतयोर्निरूप्यनिरूपकभापस्य
साध्यतावच्छेदकस्य च निवेशफलमाह -- [163] उपनयाच्चेति।
वह्निव्याप्यधूमवान् पर्वत
इत्याद्युपनयजन्यबोधीयसाध्यतावच्छेदकावच्छिन्नप्रकारतायाः
पक्षतावच्छेदकावच्छिन्नविशेष्यतानिरूपितत्वविरहात्
द्रव्यादिसाध्यके धूमादिहेतुके स्थले
द्रव्यव्याप्यधूमवानित्याद्युपनजन्यबोधीयपक्षविशेष्यतानिरूपितप्रकारतायाः
साध्यतावच्छेदकावच्छिन्नत्वविरहाच्चनोपनये ऽतिप्रसङ्ग इति
भावः। कालिकसंयोगाभ्यां वह्न्यादेरेव हेतुसाध्यभावस्थले
उपनयवारणाय साध्यतावच्छेदकसम्बन्धनिवेशः। ननु
तादृशबोधजनकत्वमेव लक्षणमास्ताम्, किं
वाक्यत्वनिवेशनेनेत्याशङ्क्य तस्य
न्यायबहिर्भून्तवाक्यवारकत्वेन सार्थक्यमाह - [172] वाक्यपदस्येति। निगमनघटके साध्यवानयमिति
भागे ऽतिप्रसङ्ग व्युदासायावयवत्वस्य प्रवेशः। [173] अग्रे ऽपि - हेत्वादिलक्षणे ऽपि। दीपिकायाम् [172] पञ्चम्यन्तमित्यादि। पञ्चमी अन्तः यस्मिन् इति व्युत्पत्त्या
पञ्चम्यन्तत्वं 1स्वघटकपदपूर्वत्वाभाववत्पञ्चमीघटितत्वं
पञ्चमीविशिष्टत्वपर्यवसितम्। वैशिष्ट्यं
2स्वघटितत्वस्वनिष्ठभेदप्रतियोगितावच्छेदकत्वोभयसम्बन्धेन।
अवच्छेदकता 3स्वघटकपदपूर्वत्वसम्बन्धेन। तन्निवेशफलस्य तस्मात्
वह्निमानिति निगमनवारणस्य स्फुटत्वात्
लिङ्गप्रतिपादकत्वनिवेशफलमाह - प्रकाशिकायाम् [173] अयं न दण्डादित्यादिना। [173] दण्डसंयोगाजन्येत्यादि।
घटादौ दण्डरूपादौ च व्यभिचारवारणाय
विशेषणविशेष्ययोरुपादानम्।
पञ्चमीघटितत्वनिवेशेनैवोपनयवारणात्
तदन्तत्वपर्यन्तनिवेशस्य निगमनवारणमेव फलम्। पर्वतो
वह्निमानित्यादिप्रतिज्ञायाः पञ्चम्यन्तत्वविरहात् तदुपेक्षणम्। अयं
दण्डादित्यादेः सम्प्रदायविरोधात् न दण्डादित्युक्तम्।
पुंस्त्वादिरूपलिङ्ग परतायाः लिङ्गपदे भ्रमवारणायाह - [173] हेत्विति। यद्यपि दण्डसंयोगाजन्यद्रव्यत्वात
दण्डाजन्यत्ववत्सधर्मा न दण्डात् दण्डसंयोगाजन्यद्रव्यत्वादित्यादौ
एवमप्यतिव्याप्तिः, तथापि
पक्षतावच्छेदकावच्छिन्नविशेषणतापन्नसाध्यान्वितलिङ्गप्रतिपादकत्वस्य
पक्षतावच्छेदकावच्छिन्नविषयतानिरूपितसाध्यविषयतानिरूपितहेतुवि षयताशालिबोधजनकत्वरूपस्य
विवक्षणात् न दोषः।
1. स्वंउयस्मिन् समुदाये पञ्चमी अन्तः भवति स समुदायः, स्वघटकं
यत्पदं तत्पूर्वत्वाभाववती या पञ्चमी तद्घटितत्वं समुदाये।
2. स्वशब्दद्वयमपि
पञ्चमीपरम्।
3. स्वपदं
पञ्चम्यन्तसमुदायपरम्।
नन्वेवमपि
थाल्प्रत्ययार्थविकल्पमुखेन तन्निरासपूर्वकमन्यत्र
थाल्प्रत्ययघटितयोरुपनयनिगमनयोर्दूंषितत्वेन प्रकृते तस्मात् न
दण्डादित्याकारकस्यैव निगमनस्य वाच्यत्वेन तत्रातिप्रसङ्गः।
पञ्चम्यन्तत्वस्य तत्राक्षतत्वादिति चेत् -
न।
लिङ्गप्रतिपादकत्वशरीरे शुऽत्वस्य लिङ्गविशेषणतया निवेशात्
प्रकृतलिङ्गतावच्छेदकातिरिक्तानवच्छिन्नलिङ्गविषयताकबोधजनकत्वरूपस्य
शुद्धलिङ्गप्रतिपादकत्वस्यातिव्याप्त्यभावात् निगमनजन्यबोधे
लिङ्गे व्याप्त्यंशस्याधिकस्य भानादिति। उपनयादावपि
व्याप्तिप्रतिपादकत्वसत्त्वात् आह - [173] प्रकृतहेतुमतीत्यादि।
वादिवाक्ये स्वारसिकलक्षणाया एवातिप्रसञ्जकत्वादाह - [173] निरूढेति। अनादितात्पर्यविषयीभूतार्थनिष्ठेत्यर्थः। सम्भवति
सार्थकत्वे नैरर्थक्यमन्याय्यमिति आशयवानाह - [173] अथवेति। ननूदाहरणात् व्याप्तिबोधाभावे तस्य
व्याप्तिपरत्वं न निर्वहतीत्यत आह - [173] तथाचेति। तथा
चोदाहरणस्य व्याप्तिविषयकमानसबोधमौत्तरकालिकमादाय
व्याप्तिप्रतीतीच्छया उच्चरितत्वरूपं व्याप्तिप्रतिपत्तिपरत्वम्
व्याप्तिप्रतिपादकेत्यनेन विवक्षितं उपपादनीयमिति भावः। [173] दिगिति। अयं भावः - अयं न दण्डात्
दण्डसंयोगाजन्यद्रव्यत्वात् इत्यादौ यो हेतुमान् स न
दण्डादित्युदाहरणवाक्ये धर्मिणो ऽविवक्षायां नञो बोधकत्वं एव न
स्यात्। एवं निर्धूमो
निर्वह्नित्वादित्यादौ यो न वह्निमान् स न
धूमवानित्याद्यन्वय्युदाहरणस्य यत्तदर्थाविवक्षायामनुपपत्तिरिति।
[173]
व्याप्तिविशिष्टलिङ्गप्रतिपादकमिति
दीपिकोक्तोपनयलक्षणस्य निगमने ऽतिव्याप्तिमाशङ्क्याह - [173] पक्षतावच्छेदकविशिष्टविशेष्यकेति।
निरूप्यनिरूपकभावनिवेशात् न दोष इति भावः। [173] प्रयुज्यत इतिशेषपूरणेनेति। इदं च पक्षधर्मताज्ञानाय -
पक्षधर्मताज्ञानार्थमिति समासपक्षे चतुर्थ्याः कारकविभक्तितया
क्रियापदसापेक्षत्वादुक्तम्। पक्षधर्मताज्ञानमर्थो यस्मादिति
व्युत्पत्तिस्वीकारे तु शेषपूरणस्य नावश्यकता। वचनमित्यध्याहारेण
नपुंसकत्वमिति ध्येयम्। [172]
हेतुसाध्यवत्तया पक्षवनचमिति
निगमनलक्षणे हेतोस्साध्यमिति पञ्चमीसमासः। पञ्चमीति
योगविभागेनोपपादनीयः। यद्वा हेतोः साध्यमिति षष्ठी शैषिकी
ज्ञानज्ञाप्यत्वं बोधयति। इदानीं ऽसुप् सपेऽति समासो बोध्य
इत्यभिप्रायेणार्थमाह - [173]
हेतुज्ञानेति। [173] साध्यवद्विषयकेति।
तादृशसाध्यप्रकारकपक्षतावच्छेदकावच्छिन्नविशेष्यताकेत्यर्थः। ननु
पक्षसाध्यसम्बन्धादीनां प्रतिज्ञादित एव लाभात् निगमनं
विफलमित्याशङ्क्य
निगमनस्थहेतुवाचिपदस्याबाधितत्वादिविशिष्टहेतुलाक्षणिकत्वमुपगम्य
तत्प्रतीतेः शाब्दत्वं लक्षणाया जघन्यत्वादयुक्तमिति मनसि निधाय
मानसी अबाधितत्वादिप्रतिपत्तिरेव निगमनप्रयोजनमित्याह
दीपिकायाम् [172] अबाधितत्वादिकमिति।
आदिपदेनासत्प्रतिपक्षितत्वपरिग्रहः। अबाधितत्वादिकम् -
अबाधितत्वादिप्रतिपत्तिः। तेन यथाश्रुते विषयस्य
जन्यत्वघटितप्रयोजनत्वासम्भवादसङ्गतिरिति निरस्तम्।
उत्तरकालमित्यत्यन्तसंयोगे द्वितीया। तेन
निगमनजन्यशाब्दबोधोत्तरं हेतावबाधितत्वादिप्रतीतिर्नियमेन
जायत इति लभ्यते। उक्तरीत्या तत्प्रतिपत्तेः
शाब्दत्वासम्भवादाहप्रकाशिकायाम् [176] मानसो द्रष्टव्नय इति।
विशिष्टपरामर्शस्यानुमितिहेतुत्वस्थापनम्
कॢप्तस्येति।
एतेन नियतपूर्ववृत्तित्वमुभयसम्मतमिति सूचितम्। दीपिकायाम्
[176] किमर्थमङ्गीकर्तव्य इति। तद्धेतोरेवेति न्यायादिति
भावः। [177] अत्र त्वदभिमतेत्यादि। एतेन
मीमांसकस्यापि ज्ञानद्वये पूर्ववृत्तित्वं कल्पनीयमिति सूचितम्।
[177] शाब्देतीति। तद्बोधकपदमन्तरेण तद्भानासम्भवादिति
भावः। एतेन प्रत्यक्षस्थले सन्निकर्षवशात् कस्यचित्
हेतुतावच्छेदकस्य भानं दुर्वारमिति न तत्र व्यभिचारसम्भव इति
सूचितम्। दीपिकायाम् [177] परामर्शस्यावश्यकतयेति।
त्वदभिमतज्ञानद्वयं विनैव
विशिष्टपरामर्शस्यानुमितिपूर्वमुपेयतयेत्यर्थः। ननं क्वचित्
विशिष्टपरामर्शादनुमितिरस्तु किं सर्वत्र
विशिष्टपरामर्शकल्पनयेत्यत आह -- [177] लाघवेनेति। कस्य
लाघवमित्याशङ्गायामाह --- प्रकाशिकायाम् [177] कल्पनालाघवेनेत्यर्थ इति। [177] ज्ञानद्वये-व्याप्तिज्ञानत्वपक्षधर्मताज्ञानत्वावच्छिन्नद्वये। [177] विशिष्टपरामर्शे-व्याप्तिविशिष्टवैशिष्ट्यावगाहिपरामर्शत्वावच्छिन्ने।
तथा चैकधर्मावच्छिन्ने ऽनन्यथासिद्धत्वादिकल्पनमपेक्ष्य
पूर्वोक्तधर्मावच्छिन्नद्वये तत्कल्पनस्य गुरुत्वादिति भावः। ननु
व्याप्तिग्रहपक्षधर्मताग्रहयोः प्रातिस्विकरूपाभ्यां हेतुत्वं
नोपेयते। येनोक्तदोषस्स्यात्। अपि तु
व्याप्तिग्रहविशिष्टपक्षधर्मताज्ञानत्वेन तथात्वमुपेयते। एवं
चास्मन्मते ऽपि एकधर्मावच्छिन्न एव तत्कल्पनमिति लाघवं
दुरपह्नवम्। विनिगमनाविरहस्तुल्य एव।
उपदर्शितशाब्दपरामर्शस्थनपले व्यभिचारस्तु कार्यतावच्छेदकगर्भे
विशिष्टपरामर्शाव्यवहितोत्तरत्वं निवेश्यैव परिहर्तव्यः। अन्यथा
साध्यव्याप्यहेतुतावच्छेदकावच्छिन्नवानिति विशिष्टपरामर्शंस्य तत्र
व्यभिचारप्रसङ्गात् इत्यत्राह -- [177] वस्तुतस्त्विति।
[177] अवधेयमिति। अयं भावः -
मीमांसकमते ऽनुमितिकारणतावच्छेदककोटौ सामानाधिकरण्यस्य
द्विधा ज्ञानत्वस्य च प्रवेशः आवश्यकः। अस्मन्मते तु न तथा। एवं
व्याप्तिग्रहविशिष्टपक्षधर्मताज्ञानत्वेन
पक्षधर्मताज्ञानविशिष्टव्याप्तिग्रहत्वेन वा कारणतेति
विनिगमनाविरहात् कारणताद्वयं तन्मते वक्तव्यम्। अस्मन्मते तु
विनिगमनाविरहसम्भवे ऽपि समनियतकारणतानामभेदोपगमात् न
कारणताद्वयावकाशः। एवं
व्याप्त्यवच्छिन्नप्रतियोगिताकत्वविशिष्टसमवायादिसम्बन्धावच्छिन्नतादृशधूमादिप्रकारताशालिज्ञात्वेन
हेतुत्वे व्याप्त्यंशे निश्चयत्वमपि न निवेशनीयम्; अस्मन्मते
विशेषणतावच्छेदकांशे संशयात्मकज्ञानस्य
विशिष्टवैशिष्ट्यावगाहित्वायोगादिति लाघवमिति। [177] विनिगमनाविरहेणेति। लिङ्गविशेषितपरामर्शत्वेनैव
कारणत्वं वक्तव्यमित्यत्र नियामकाभावेनेत्यर्थः। उद्देश्यतासंबन्धेन
अनुमितिं प्रति हेतुतावच्छेदकसंबन्धेन संयोगादिना
धूमादिहेतोः कारणत्वं दुर्घटमित्याशयेनाह - [177] तत्राप्यनुमितेरिति।
अन्वयव्यतिरेकिनिरूपणम्
अन्वयेन
व्यतिरेकेण च व्याप्तिमदिति संग्रहे ऽन्वयशब्दः
हेतुसाध्यसामानाधिकरण्यरूपान्वयसहचारपरः। ग्रहग्राह्यत्वं
तृतीयार्थः। अत एव केवलव्यतिरेकिनिरासः। व्यतिरेकेणेत्यत्रापि
व्यतिरेको व्यतिरेकसहचारः। साध्याभावहेत्वभावयोः
सामानाधिकरण्यरूपः। तृतीयार्थः पूर्ववत् प्रकाशिकायाम्
अन्वयसहचारेत्यादि। केवलव्यतिरेकिवारणाय सत्यन्तम्।
केवलान्वयिव्युदासाय विशेष्यम्। अन्वयव्याप्तिमत्त्वमात्रनिवेशे
ऽपृथिवी इतरेभ्यो भिद्यते गनधवत्त्वात्ऽ
इत्यादिव्यतिरेकिवारणासम्भवः। उक्तपरिष्कारे
त्वन्वयव्याप्तिग्राहकदृष्टान्तविरहात् न हेतुसाध्ययोः सहचारग्रह
इति न दोषः। विशेष्यदले तु विशिष्टयैव व्याप्तिरुपादेया। न
तु तादृशग्रहग्राह्यत्वेनापीति बोध्यम्। संग्रहे [180] वह्नौ साध्य इति। वह्निनिष्ठसाध्यतानिरूपकं
धूमवत्त्वमित्यर्थः। दृष्टान्तवाक्ये महानसादिपदं सप्तम्यन्तम्।
यत्रेत्यनुरोधात्।
केवलान्वयिनिरूपणम्
ननु
केवलान्वयित्वमेव हेतोर्लक्षणम् कुतो नोक्तमित्यत आह - [182] केवलान्वयिसाध्यकेति। घटो ऽभिधेयः पृथिवीत्वात्
इत्यादिहेतोरित्यर्थः। [182]
तदेव केवलान्वयित्वमेव। ननु
गगनाभाववान् मेयत्वात् इत्यादावव्याप्तिः। साध्यस्य
गगनाद्यात्मकाभावप्रतियोगित्वात्। एवं संयोगाभाववान्
प्रमेयत्वात् इत्यादावपि साध्यस्य
संयोगाद्यात्मकाभावप्रतियोगित्वादित्यत्राह - [182] निरवच्छिन्नेति। सपतमीनिर्देश्यं यत् विलक्षणमवच्छेद्यत्वं
तद्रहितेत्यर्थः। तेनाधेयतायाः किञ्चिद्धर्मावच्छेद्यत्वनियमे ऽपि न
क्षतिः। तथा च गगनादेः वृत्तिमत्त्वाभावात् संयोगादिनिष्ठवृत्तेः
निरवच्छिन्नत्वविरहाच्च नोक्तदोषद्वयावकाश दैति भावः। केचित्तु
- स्वविरोधिवृत्तिमदत्यनताभावाप्रतियोगित्वं केवलान्वयित्वम्।
यद्यप्यत्र स्वपदेनानुयोग्युपादाने तत्तद्व्यक्तिविश्रामापत्तिः
तावदन्यतमत्वं च दुर्ग्रहम्। प्रतियोग्युपादाने
वीप्साविरहे ऽतिप्रसंगः वीप्साकरणे दुर्ज्ञेयता; तथापि
वृत्तिमदत्यन्ताभावविशिष्टान्यत्वं तत्। 1वैशिष्ट्यं
स्वप्रतियोगित्वस्वनिष्ठभेदप्रतियोगितावच्छेदकत्वोभायसम्बन्धेन।
अवच्छेदकता स्वाधिकरणवृत्तित्वसंबन्धावच्छिन्ना। अतो न दोष
इत्याहुः। तच्चिन्त्यम् --
संयोगादावुक्तकेवलान्वयित्वमतिव्याप्तमिति
स्वानधिकरणवृत्तित्वप्रवेशनस्यावश्यकत्वेन स्वातन्त्र्येण
वृत्तिमत्त्वविशेषणनिवेशवैयर्थ्यापत्तेः।
स्वाधिकरणनिरूपितनिरवच्छिन्नाधेयताशून्यत्वप्रवेशे च
संयोगाभावस्य केवलान्वयिताभङ्गापत्तेः। संयोगादिरूपाभावस्य
तथात्वात्। वृत्तावपि निरवच्छिन्नत्वनिवेशने च
प्रक्षालनाद्धिन्यायापत्तेः।
केवलव्यतिरेकिनिरूपणम्
[183] व्यतिरेकमात्रव्याप्तिकमिति संग्रहपङ्क्तौ
अन्वयव्याप्तिशून्यत्वे सति व्यतिरेकव्याप्तिमत्त्वमर्थो लभ्यते। अत्र
चान्वयव्यतिरेकिवारणाय विशेषणम्, व्यभिचारिवारणाय
विशेष्यमिति बोध्यम्। तच्च न घटते
हेतुव्यापकसाध्यसामानाधिकरण्यरूपायाः
साध्याभाववदवृत्तित्वरूपाया वा व्याप्तेः पृथिवी इतरेभ्यो भिद्यते
गन्धवत्वात् इत्यादौ हेतौ सत्त्वात्
अन्वयव्यापितप्रकारकनिश्चयाविशेष्यत्वे सति
व्यतिरेकव्याप्तिप्रकारकनिश्चयविशेष्यत्वं लक्षणं
वाच्यमित्यभिप्रायेण व्याचष्टे [184]
निश्चितेति।
अत्राप्यन्वयव्यतिरेकिव्यभिचारिणोः वारणाय विशेषणविशेष्ये।
व्यतिरेकव्याप्तिमत्त्वमेवालम् न लक्षणासङ्गतिरिति।
पृथिवीसामान्यस्य पक्षत्वेन
तदतिरिक्तदृष्टान्तदौर्लभ्येनान्वयव्याप्तिनिश्चयासम्भवादिति भावः।
इतरप्रतियोगिकभेदस्य जलत्वाद्यवच्छिन्नभेदाद्यात्मकस्य प्रसिद्ध्या
विकल्पासङ्गतेराह - [184] पृथिवीतरत्वावच्छिन्नेति। ननु
पृथिवीतरत्वावच्छिन्नप्रतियोगिताकभेदरूपस्य साध्यस्य प्रसिद्धिपक्षे
आद्ये [183] यत्रेत्यादिना दीपिकोक्तं दूषणमसङ्गतम्।
1. स्वं वृत्तिमान्
अत्यन्ताभावः घटाभावः तद्विशिष्टः घटः तदन्यत्वं अभिधेयत्वादेः।
घटस्य उक्तोभयसंबन्धेन घटाभावविशिष्टत्वं चेत्थम्-स्वं घटाभावः
घटाभावः तत्प्रतियोगित्वं घटस्य, एवं स्वं घटाभावः तन्निष्ठो यो
भेदः स्वाधिकरणवृत्तित्वसंबन्धेन घटवद्भेदः, घटाभावस्य
घटाधिकरणवृत्तित्वाभावात् तादृशभेदप्रतियोगितावच्छेदकत्वं च
घटस्येति।
अन्वयित्वस्यान्वयव्याप्तिमत्त्वरूपस्य तत्र सत्त्वेन
तदापादनासम्भवात् आपत्तावापाद्य व्यतिरेकनिर्णयस्य हेतुतया
तदसम्भवात् इत्यत आह - [184 ]
अन्वयसहचारेति। इष्टापत्तिः कुतो
न संभवतीत्याश्ङ्क्य भावमाह - [184] तथाचेति। [184] प्रसिद्धानुमानम् वह्न्यादिसाध्यकधूमादिहेतुकानुमानम्।
[184] एतदपि - पृथिवी इतरेभ्यो भिद्यते
गन्धवत्वादित्यादिकमपि।
[184] सपक्षेति। सपक्षत्वमत्र
साध्यप्रकारकनिश्चयविशेष्यत्वम् न तु साध्यवत्त्वमात्रम् असम्भवात्।
तथा च पृथिवीतरभेदे साध्ये गन्धवत्त्वादिरसाधारणहेत्वाभास
एव स्यात् न तु सद्धेतुरिति भावः। ननु विशेष्यज्ञानविरहे ऽपि
साध्यविशेश्यकानुमितेः साध्याघटितव्यतिरेकव्याप्तिविषयकात्
पृथिवीतरत्वव्यापकीभूताभावप्रतियोगि गन्धवती पृथिवी
इत्याकारकात् परामर्शात् सम्भवे बाधकाभाव इत्यत आह - [184] अप्रसिद्धेति [184] अभिप्रायेणेति। तथा चाप्रसिद्धसाध्यके ऽपि
साध्यप्रकारिकैवानुमितिरित्यभ्युपगम्यैव इदं दूषणमुक्तमिति
भावः। एवेन साध्यविशेष्यकानुमितिव्यवच्छेदः। [184] जलादीनामित्यादि। त्रयोदशान्योन्याभावा इति कर्मधारय
एतन्मत इति ध्येयम्। केचित्तु मते तु जलादित्रयोदशेति
पुनर्बहुव्रीहिः। अन्यथा चतुर्दशात्मकसमुदायालाभात्।
त्रयोदशान्योन्याभाव इति षष्ठीसमासः। [184] त्रयोदशत्वावच्छिन्नेति दीपिकावाक्ये त्रयोदशत्वं
समुदायत्वविशेष इति सूचितम्। [184] अपेक्षेत्यादिना।
अवच्छिन्नत्वं वैशिष्ट्यं भेदगतम्।
ननु
जलादित्रयोदशेत्यत्रोक्तरीत्या चतुर्दशलाभे ऽपि केवलं
त्रयोदशेत्यादिवाक्ये कथं तल्लाभ इत्यत आह - [184] जलादीत्यादिरिति। तथा च शेषपूरणेन तादृशार्भलाभ इति
भावः। मतान्तरसाधारण्येन
व्यतिरेकव्याप्तेरनुमित्यङ्गत्वस्थापनानुपपत्तिश्च। एवं
जलादित्रयोदशेत्यत्र बहुव्रीह्यन्तरकल्पनाप्रयासः प्रत्येकमिति
पदपूरणेन चतुर्दशात्मकसमुदायस्नय प्रत्येकं ये ऽन्योन्याभावा
इति व्याख्यानक्लेशः। स्वायत्ते शब्दप्रयोगे ईदृशवक्राभिधानस्य
ग्रन्थकाररीतिविरुद्धत्वं प्रथमघटकार्थस्यादिपदस्य
प्राथम्यमात्रपरत्वे ऽस्वारस्यम् चेति। दीपिकायाम् [184] एकाधिकरणवृत्तित्वाभावादिति। एकाधिकरणवृत्तितया
अनुमितेः प्राङ्निश्चतत्वाभावादित्यर्थः।
साध्याघटितव्यतिरेकव्याप्तिविषयकज्ञानस्य
साध्यज्ञाननिरपेक्षत्वादाह - [184]
साध्याभावेति। अपि तु
जलादिभेदकूटमिति। एतेन दीपिकावाक्यस्थं मेलनमित्यन्तं
व्याख्यातम्। यद्यपि कूटत्वस्यैकविशिष्टापरत्वरूपत्वे
तद्दोषतादवस्थ्यम्, तावद्विषयकधीविषयत्वरूपत्वे विषयताया
व्यासज्यवृत्तित्वे मानाभावात् प्रत्येकविश्रान्तत्वेन
उक्तानुमानस्यान्वयित्वप्रसङ्गः,
तादृशसाध्यतावच्छेदकावच्छिन्नाभावस्याप्रसिद्धत्वेन
व्यतिरेकव्याप्तिग्रहासम्भवश्च, तथापि
जलभिन्नानुयोगिकत्वविशिष्टस्वरूपसम्बन्धेन
वाय्वादिभेदविशिष्टतेजोभेदस्य साध्यत्वस्वीकारात् न दोषः।
अपेक्षाबुद्धिविशेषेत्यादिवक्ष्यमाणग्रन्थस्तु विषयताया
व्यासज्यवृत्तित्वाभ्युपगमेन प्रवृत्तः। अन्यथा पुनरुक्तरीतिरेवेति
ध्येयम्। [184] अनुमित्यङ्गत्वम् अनुमितिप्रयोजकत्वम्।
[185] अग्रे ऽपि - जलादित्रयोदशत्वावच्छिन्नभेदात्मकसाध्यस्येत्यत्रापि।
अस्मदुक्तरीत्या यथाश्रुतार्थस्यैव उपपत्तेः। जलादीति
शेषपूरणस्यायुक्तत्वमित्यस्वरसः आहुरित्यनेन सूचितः।
इदमत्रावधेयम् -
तावद्विषयकधीविषयत्वस्याधेयतासम्बन्धावच्छिन्नव्यापकतासम्बन्धेन
साध्यत्वमङ्गीकार्यमिति विषयत्वस्याव्यासज्यवृत्तित्वे ऽपि न
विरोधः। एवमन्यत्रापि बोध्यम्। तादृशव्यापकता च
स्वसमानाधिकरणभेदप्रतियोगित्वीयाधेयतासम्बन्धावच्छिन्नावच्छेदकतासम्बन्धावच्छिन्नस्वनिष्ठावच्छेदकताकप्रतियोगिताकभेदवत्त्वमिति।
पक्षलक्षणम्
[188] सन्दिग्धसाध्यवानिति
सङ्ग्रहोक्तपक्षलक्षणवाक्येन सन्देहप्रकारीभूतसाध्यवत्त्वं
पक्षलक्षणमिति लभ्यते। तच्च ह्रदो वह्निमानित्यादौ
ह्रदाद्यव्यापकमित्याशङ्क्याह [188]
विशेष्यतासम्बन्धेनेति। [188] सपक्षलक्षणादिकमित्यादि। विशेष्यतासंबन्धेन
साध्यप्रकारकनिश्चयवत्त्वं सपक्षलक्षणम्। आदिपदग्राह्यं विपक्षलक्षणमपि
तेन संबन्धेन साध्याभावप्रकारकनिश्चयवत्त्वम्। अन्यथा ह्रदादौ
वह्न्यादिभ्रमदशायां तस्य सपक्षतया पर्वतादौ
निर्वह्नित्वादिभ्रमदशायां तस्य विपक्षतया
भ्रान्तपुरुषीयोपन्यासानुपपत्तेः। दीपिकायाम् [188] निश्चितत्वेनेति। इतरविलक्षणत्वेनेत्यादि। दीपिकायाञ् [188] उक्तेत्यादि। यद्यपि तादृशसिद्ध्यभावः घटादावप्यस्तीति
पर्वतो वह्निमानित्यादौ तत्रातिप्रसङ्गः। तथा च
स्वप्रतियोगितावच्छेदककोटिप्रविष्टविशेश्यतावच्छेदकधर्मवत्तासम्बन्धेन
तादृशसिद्ध्याभावस्य
पक्षपदप्रवृत्तिनिमित्ततोपेयत इति न दोषः। 1तादृशस्य
इह पर्वतत्वादेः घटादावभावादिति बोध्यम्।
हेत्वाभासनिरूपणम्
दीपिकास्थ सद्धेतुं
निरूप्येऽत्यन्तोपादानस्य प्रयोजनमाह - [189] असद्धेतुनिरूपण इति।
कृत इति शेषः। तथा च कृतिः सपतम्यर्थः। तस्या
उत्तरकालीनत्वसम्बन्धेन स्मरणे ऽन्वयः। [189] प्रसङ्गसङ्गत्येति।
असद्धेतुत्वादिरूपयेति शेषः। [189]
तदिति। असद्धेत्वित्यर्थः। (190)
हेतुवदाभासन्त इतीति। इदं चार्थप्रदर्शनपरम्, न तु
विग्रहप्रदर्शनपरम्। विग्रहस्तु हेतव इवाभासा इति वक्तव्यम्।
तादात्म्येन सद्धेतुप्रकारकभ्रमविशेष्यतेत्यर्थः। भ्रमहेतुदोषश्च
पञ्चम्यन्तपदप्रतिपाद्यत्वरूपः। दीनपिकायाम् [189] सद्धेन्तु निरूप्येत्यादि
मूल पाठ: Tarkasaṃgraha with autoentary (Dīpikā), Nīlakaṇṭha's Dīpikāprakāśikā and Bālapriyā · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0