तर्कसंग्रह (टीका सहित) · भाग 421440
येन ज्ञानेन प्रतिबन्धकवशात् व्यवहारो न जनितः तस्य
व्यवहारोपधायकत्वाभावात् तत्राव्याप्तिः।
स्वरूपयोग्यतारूपहेतुत्वस्य निवेशे ऽपि घटादिज्ञानेषु
पटादिव्यवहारहेतुत्वाभावात् नैकज्ञानस्य
सर्वव्यवहारहेतुत्वमित्यत आह - [114] ज्ञानत्वमात्रं लक्षणमिति।
ननु तर्हिं सङ्ग्रहे सर्वव्यवहारहेतुरिति
1. स्वप्रतियोगीति। अत्र
स्वपदं प्रथमपतनध्वंसपरम्। तत्प्रतियोगि प्रथमपतनम्,
तत्समानाधिकरणत्वं द्वितीयपतने।
किमर्थमुक्तमित्यत्राह -
इदं चेति। [114] संस्कारस्य त्रिविधत्वादिति। तथा च इह
संस्कारपदेन वेगस्थितस्थापकयोर्विवक्षणे स्मृतावसम्भव इति
भावः। [114] भावनाख्य इतीति। तथा च भावनायाः
स्मृतिहेतुत्वात् नायं दोष इति भावः। [114] संस्कारजन्यत्वस्य सत्त्वेनेति। अयं भावः - ज्ञानप्रत्यासत्तेः
अनुद्बुद्धसंस्कारान्यसविषयकत्वेन हेतुत्वमावश्यकम्, अन्यथा
इच्छाद्यनुव्यवसायेन घटादिभानानुपपत्तेः। एवं च संस्कारस्यापि
उपनयविधया हेतुत्वमिति संस्कारजनयत्वमिति तेन
नानुमित्यादावतिव्याप्तिंरिति भावः। [114] तथापि चक्षुरादीति। न
चात्र मनोजन्यत्वाभावानिवेशे ऽयो ऽहं घटमद्राक्षम् सो ऽहं
इदानीं स्पृशामिऽ इमि मानसप्रत्यभिज्ञायामतिव्याप्तिः। तन्निवेशे
त्वसम्भवः। ज्ञानसामान्ये मनसः करणत्वात्। एवं चक्षुरादेः
कालादिविधया स्मृतिहेतुत्वादसम्भवश्चेति वाच्यम्।
चाक्षुषत्वमानसत्वादिरूपजात्यवच्छिन्नप्रतियोगिताकभेदकूटवत्त्वस्य
प्रत्यक्षत्वावच्छिन्नप्रतियोगिताकभेदस्य वा निवेश्यत्वात्।
इदमत्र चिन्त्यम् -
मात्रपदघटितयथाश्रुतशब्दलभ्यस्य
संस्कारेतरनिरूपितज्ञानत्वव्याप्यधर्मावच्छिन्नजन्यताशून्यत्वस्य
लघोः निवेशेनैवोपपत्तौ उक्तरीत्या भेदनिवेशे
उदक्षरतापत्तिरिति।
यथार्थानुभवलक्षणम्
ज्ञानत्वनिवेशेनापीच्छादिवारणसम्भवादाह - स्मृतीति। [116] एतत्फलमनुभवत्वनिवेशप्रयोजनम्। [116] यत्रेतीत् इ। अत्र च ऽघटपटोभयं घटऽ इत्यादिज्ञानानामपि
आंशिकप्रमात्वस्येष्टत्वात् न तत्रातिव्याप्तिशङ्केति भावः।
केचित्तु-ऽघटपटोभयं
घटऽइत्यादिज्ञानस्यालक्ष्यत्वे ऽपि तत्र नातिप्रसङ्गः।
तत्सम्बन्धावच्छिन्नतदधिकरणतावच्छेदकधर्मावच्छिन्नविशेष्यतानिवेशात्
तत्प्रतियोगिकतत्सम्बन्धानुयोगितावच्छेदकधर्मावच्छिन्नविशेष्यतानिवेशाद्वा
घटपटोभयत्वादेः निरुक्ताधिकरणतानवच्छेदकत्वात्
निरुक्तानुयोगितानवच्छेदकत्वाच्च तादृशोभयत्वादेः
तादृशाधिकरणतादिन्यूनवृत्तित्वात्। न च
निर्धर्मितावच्छेदककप्रमायामव्याप्तिरित वाच्यम्।
तादृशाधिकरणताद्यत वच्छेदकधर्मानवच्छिन्नविशेष्यतानिवेशात्। न
च तथा
सति
निर्धर्मितावच्छेदककभ्रमे ऽतिव्याप्तिरिति वाच्यम्।
तादृशभ्रमस्याप्रामाणिकत्वात् - इत्याहुः।
तदसत् -
रजतत्वादिना शुक्त्याद्यवगाहिनः रजतत्वाद्यंशे
निर्धर्मितावच्छेदककस्य इह रजतमस्तीद्याकारकस्य
भ्रान्तजनानामनुभवसिद्धत्वात् उक्तपरिष्कारे तत्रातिव्याप्तेः
दुर्वारत्वात्।
अन्ये तु -
प्रसक्ताधिकरणताद्यवच्छेदकधर्मानवच्छिन्नत्वावच्छिन्नत्वोभयाभावस्य
विशेष्यतायां निवेशात् उक्तरीत्या ऽघटपटोभयं घटऽ इत्यादिभ्रमे
नातिप्रसङ्गः। नापि निर्धर्मितावच्छेदकप्रमायामव्याप्तिः। यत्तु -
व्यासज्यवृत्तिधर्मानवच्छिन्नविशेष्यतानिवेशात् नेयमतिव्याप्तिरिति
- तत्तुच्छम्। ऽएतद्घटतद्घटोभयं घटऽ इति
प्रमायामव्याप्तेरिति वदन्ति। तदप्यसत्। उक्ताव्याप्तेरेवावरणात्।
एतद्घटतद्घटोभयत्वादेः घटत्वादिन्यूनवृत्तितया
घटत्वाद्यधिकरणतानिरूपितस्वरूपसम्बन्धरूपावच्छेदकत्वे
मानाभावात् तदन्यूनानतिप्रसक्तस्यैव तदवच्छेदकत्वोपगमात्।
अन्था अनन्तानां तादृशोभयत्वादीनां तदवच्छेदकत्वे
महागौरवप्रसङ्गात्। अनितिरिक्तवृत्तित्वरूपतदवच्छेदकत्वनिवेशे
द्रव्यत्वादिसामानाधिकरण्यमात्रेण घटत्वाद्यवगाहिन्यां ऽद्रव्यं घटऽ
इत्यादि प्रमायामव्याप्तेः।
[116] ननु तद्वतीत्यस्येत्यादि।
निरूपकतासम्बन्धस्य
वृत्त्यनवच्छेदकत्वेनाभावप्रतियोगितानवच्छेदकतया
नञर्थान्वयानुपपत्तेः विशेष्यतार्थकत्वासम्भवादाह- [115] सप्तम्यर्थो विशेष्यित्वमिति। यद्वा भूतलं वह्निमात्, पर्वतो
घटवानित्यादि समूहालम्बनतो वैलक्षण्यसिद्धये पर्वतो
वह्निमानित्यादिज्ञाने विशेष्यत्वप्रकारत्वयोः निरूप्यनिरूपकभावः
स्वीकार्य इत्येकं मतम्। तन्निरूपितविषयितारूपयोः
विशेष्यित्वप्रकारित्वयोरवच्छेद्यावच्छेदकभावस्तथेत्यपरं मतम्।
तत्र द्वितीयमतमनुसृत्याह - विशेष्यित्वमिति। अत्र च विशेष्यतायाः
सप्तम्यर्थत्वे प्रकारताविशिष्टविशेष्यतानिरूपकानुभवत्वं
प्रमात्वम्। विशेष्यितायास्तदर्थत्वे तु
प्रकारिताविशिष्टविशेष्यितावदनुभवत्वं तत्। प्रथमे वैशिष्ट्यं च
1स्वावच्छेदकसंबन्धेन स्वाश्रयवन्निष्ठत्वस्वनिरूपितत्वोभयसम्बन्धेन।
द्वितीये वैशिष्ट्यं च
स्वावच्छिन्नत्वस्वनिरूपितप्रकारताविशिष्टविशेष्यतानिरूपितत्वोभयसम्बन्धेन।
प्रकारतावैशिष्ट्यं च
स्वावच्छेदकसम्बन्धेनस्वाश्रयवन्निष्ठत्वसम्बन्धेनेति। ध्येयम्। [116] तद्वतीस्यस्य तत्संबन्धिनीत्यर्थ इति। प्रथमे
प्रकारताविशिष्टविशेष्यतानिरूपकानुभवत्वम्। वैशिष्ट्यं च
2स्वनिरूपितत्वस्वविशिष्टप्रतियोगितानिरूपितानुयोगिताश्रयनिष्ठत्वोभयसंबन्धेन।
1. स्वावच्छेदकेत्यादि।
रजते इदं रजतमिति ज्ञाने समन्वयः क्रियते। स्वं
रजतत्वनिष्ठप्रकारता तदवच्छेदकसंबन्धः समवायः तेन संबन्धेन
प्रकारताश्रयरजतत्ववत् रजतं तन्निष्ठत्वं विशेष्यतायाम्, एवं स्वं
रजतत्वनिष्ठप्रकारता तन्निरूपितत्त्वं च विशेष्यतायाम् इति
तादृशविशेष्यतानिरूपकानुभवत्वं इदं रजतमिति ज्ञाने ऽस्तीति।
द्वितीयानुगमे स्वं प्रकारिता रजतत्वनिष्ठप्रकारतानिरूपिता
ज्ञाननिष्ठ तदवच्छिन्नत्वं
रतजनिष्ठविशेष्यतानिरूपितज्ञानष्ठिविशेष्यितायामस्ति, एवं स्वं
प्रकारिता तन्निरूपिता या रजतत्वनिष्ठा प्रकारता
तदवच्छेदकसमवायसम्बन्धेन
प्रकारताश्रयरजतत्वन्निष्ठविशेष्यतानिरूपितत्वं च
विशेष्यितायामस्ति,
तदाश्रयानुभवत्वम्
इदं रजतमिति प्रमायामस्तीति समन्वयः।
2.
स्वनिरूपितत्वेत्यादि। स्वं रजतत्वनिष्ठप्रकारता तन्निरूपितत्वं
रजतनिष्ठविशेष्यतायाम्। एवं स्वं प्रकारता तद्विशिष्टा
रजतत्वनिष्ठा प्रतियोगिता (समवायसंबन्धनिरूपिता) तन्निरूपिता
अनुयोगिता रजतनिष्ठा रजतत्वसमवायं प्रति
रजतस्यानुयोगित्वात् तदाश्रयरजतनिष्ठत्वं विशेष्यतायाम्।
रजतत्वनिष्ठप्रकारतावैशिष्ट्यं च
रजतत्वनिष्ठप्रतियोगितायमेवमुपपादनीयम् - स्वं प्रकारता
स्वाश्रयः रजतत्वं तन्निष्ठत्वं प्रतियोगितायाम्। एवं स्वं प्रकारता
तस्याः स्वावच्छेदकतावच्छेदकतासंबन्धेनाधिकरणं समवायत्वं,
तन्निष्ठो यो भेदः स्वनिरूपकतावच्छेदकतासंबन्धेन
प्रतियोगितावद्भेदो न भवति, समवायस्य
रजतत्वनिष्ठप्रतियोगितानिरूपकतया समवायत्वे
रजतत्वनिष्ठप्रतियोगितानिरूपकतावच्छेदकत्वसत्त्वात् तेन
संबन्धेन प्रतियोगितावति समवायत्वे तद्वद्भेदासंभवात्। अपि
तु अन्यो भेदः तत्प्रतियोगितावच्छेदकत्वं प्रतियोगितायां
नास्तीति स्वसमानाधिकरणभेदप्रतियोगितावच्छेदकत्वसंबन्धेन
स्ववद्भिन्नत्वरूपं स्वसेत्यादिभेदवत्त्वं च प्रतियोगितायामस्ति।
तथा योक्तोभयसंबन्धेन प्रकारताविशिष्टा प्रतियोगिता भवतीति।
एवमुत्तरत्रापि ऊहनीयम्।
प्रतियोगितायां
स्ववैशिष्ट्यं च स्वाश्रयनिष्ठत्वस्वसेत्यादिभेदवत्त्वोभयसम्बन्धेन।
स्वाधिकरणत्वं च स्वावच्छेदकतावच्छेदकतासम्बन्धेन।
भेदप्रतियोगितावच्छेदकतास्वनिरूपकत्वीयविलक्षणावच्छेदकतासम्बन्धेन।
तेन समवायैक्यवादिप्राचीनमते ऽवायुः समवायेन रूपवान्ऽ इति
भ्रमे नातिव्याप्तिः। न वा ऽगुणाद्यन्यत्वविशिष्टसत्तावान् गुणऽ
इत्यादिभ्रमे विशिष्टनिरूपितत्वावच्छिन्नसमवायस्य
संसर्गतापक्षे ऽतिव्याप्तिः। यद्यपि संयोगसमवायादीनां स्वरूपतः
संसर्गतापक्षे ऽसम्भवः, तथापि तन्मते
स्वावच्छेदकसंबन्धनिरूपितत्वमेव प्रतियोगितायां निवेश्यम्।
विशिंष्टसत्तावानिति भ्रमे तु
वैशिष्ट्यावच्छिन्नसमवायनिष्ठनिरूपकताकाधिकरणताया एव
विलक्षणायाः संसर्गत्वमिति
नातिप्रसङ्गः। यदि
चैवं सति संयोगसमवायोभयसम्बन्धेन
घटत्वादिप्रकारकज्ञाने ऽतिव्याप्तिः
तादृशोभयसम्बन्धावच्छिन्नप्रकारतामादाय दुर्वारेत्युच्यते। तदा
प्रतियोगितायां स्ववैशिष्ट्यं च
स्वाश्रयनिष्ठत्वस्वसेत्यादिभेदवत्त्वोभयसम्बन्धेन। स्वाधिकरणता
स्वावच्छेदकसंसर्गतासम्बन्धेन। भेदप्रतियोगितावच्छेदकता
स्वनिरूपकतासम्बन्धेन।
यत्तु -
प्रतियोगितायां स्ववैशिष्ट्यङ्घटकतया
स्वावच्छेदकपर्याप्तावच्छेदकतावत्वं निवेश्यम्। तच्च
स्वसेत्यादिभेदवत्त्वपर्यवसितम्। स्वाधिकरणावच्छेदकता च
अवच्छेदकतासम्बन्धेन न
चैवमनवच्छिन्नघटत्वादिप्रकारताकप्रमायामव्याप्तिरिति वाच्यम्।
निरुक्तस्वसेत्यादिसम्बन्धेन स्ववैशिष्ट्यमनिवेश्य
स्वसमानाधिकरणभेदप्रतियोगितावच्छेदकत्वसम्बन्धावच्छिन्नस्वनि ष्ठप्रतियोगिताकात्यन्ताभाववत्त्वसम्बन्धेन
स्ववैशिष्ट्यनिवेशनादोषात्। अनवच्छिन्नप्रकारतां प्रत्युक्तसंबन्धस्य
व्यधिकरणत्वात्। तथा च विशिष्टसत्तावा निति भ्रमे नातिप्रसङ्गः।
अथ वा प्रतियोगितायां स्ववैशिष्ट्यं च
स्वाश्रयनिष्ठत्वस्वावच्छेदकसम्बन्धनिरूपितत्वस्वनिष्ठभेदप्रतियोगितावच्छेदकत्वत्रितयसंबन्धेन।
अवच्छेदकत्वं स्वविशिष्टधर्मावच्छिन्नत्वसम्बन्धेन। स्ववैशिष्ट्यं
चावच्छेदकतासम्बन्धावच्छिन्नस्वनिष्ठावच्छेदकताकप्रतियोगिताकभेदवत्त्वसम्बन्धेन।
स्वानवच्छेदकधर्मानवच्छिन्नत्वं तु न शक्यनिवेशम्।
स्वानवच्छेदकत्वस्य स्वावच्छेदकभिन्नत्वरूपत्वे
स्वावच्छेदकाप्रसिद्ध्या प्रागुक्तप्रमायामव्याप्तेः।
अवच्छेदकसंबन्धावच्छिन्नस्वनिष्ठप्रतियोगिताकाभावरूपत्वे ऽपि
प्रतियोगितायां तादृशधर्मावच्छिन्नत्वसत्त्वने तद्दोषानिरासादिति।
तन्न।
ऽविशिष्टसत्तावान् गुणऽ इत्यादिभ्रमे ऽतिव्याप्तेः।
गुणाद्यन्यत्वोपलक्षितसत्तावान् गुण इत्यादिज्ञानस्य प्रमारूपतायाः
सर्वसंमततया गुणाद्यन्यत्ववैशिष्ट्यस्यापि
गुणादिनिरूपिताधेयतावच्छेदकत्वानपायात्।
आधेयतादिविशेषणस्यैव आधेयताद्यवच्छेदकत्वात्। अत एव
विशिष्टाभावप्रतियोगितावच्छेदकसम्बन्धत्वादिकं
विशिष्टनिरूपितत्वावच्छिन्नसमवायस्योपलक्षिताभावप्रतियोगितावच्छेदकसम्बन्धत्वादिकम्
अनवच्छिन्नसमवायस्य च स्वीकृतं गदाधरेण सिद्धान्तलक्षणे। अन्यथा
विशेषणस्य प्रतियोगितावच्छेदकत्वतदभावाभ्यामेव
विशिष्टाभावोपलक्षिताभावयोः वैलक्षण्यनिर्वाहे दर्शितरीत्या
तदुपपादनस्यासङ्गतत्वापातात्।
गुणाद्यन्यत्वविशिष्टसत्तावानित्याकारकगुणाद्यन्यत्ववैशिष्ट्योपलक्षितसमवायसंसर्गकप्रतीत्यादेरप्रामाणिकतया
मन्मते
दर्शितदोषानवकाशात्। अन्यथा उक्तरीत्या अव्यवस्थापत्त्या
सिद्धान्तलक्षणविरोधापत्तेरिति ध्येयम्।
[116] प्रमाणान्तरतापत्तेरिति।
प्रत्यक्षादिचतुष्टयातिरिक्तप्रमाणतापत्तेरित्यर्थः।
भावनारूपसंस्कारात्मकव्यापारवत्त्वे सति असाधारणकारणत्वस्य तत्र
सत्त्वादिति भावः।
अयथार्थानुभवनिरूपणम्
[119] सङ्ग्रहे तदभाववतीत्यादि। अत्र च
प्रकारताविशिष्टविशेष्यतानिरूपकत्वविशेषितं
प्रकारिताविशिष्टविशेष्यितावत्त्वविशेषितं वानुभवत्वं भ्रमत्वम्।
प्रथमे वैशिष्ट्यं च
1स्वविशिष्टैकमात्रवृत्तिधर्मावच्छिन्नप्रतियोगिताकाभाववन्निष्ठत्वस्वन् इरूपितत्वोभयसम्बन्धेन।
स्ववैशिष्ट्यं च
1स्वविशिष्टैकमात्रवृत्तिधर्मावच्छिन्नप्रतियोगिताकाभाववन्निष्ठत्वस्वन् इरूपितत्वोभयसम्बन्धेन।
स्ववैशिष्ट्यं च
स्वावच्छेदकसम्बन्धावच्छिन्नत्वस्वाश्रयनिंष्ठत्वोभयसम्बन्धेन। द्वितीये
वैशिष्ट्यं चोक्तरीत्या 2स्वयमूह्यम्। अत्र संसर्गमध्ये स्वाश्रये
व्याप्यवृत्तित्वस्य निवेशनीयतया
नाव्याप्यवृत्तिप्रकारकप्रमायामतिप्रसङ्गः। वस्तुतस्तु
निरवच्छिन्नाधिकरणतायामभावीयत्वेन निवेशात् न को ऽपि
दोष इति सारम्। स्वाभावस्य स्वावच्छेदकतया भ्रमे
भानविरहादाह - दीपिकायाम् [120] संयोगाभावेति। ननु
तदभावावच्छेदकदेशावच्छिन्नविशेष्यतेत्यादिभ्रमलक्षणस्य शुक्ताविदं
रजतमित्यादिव्याप्यवृत्तिरजतत्वादिप्रकारकभ्रमे ऽव्याप्तिरित्यह आह -
[120] अत्रेदमवधेयमित्यादि। इदमत्र चिन्तनीयम् -
प्रकारताविशिष्टविशेष्यतानिरूपकानुभवत्वमिति रीत्या
व्याप्याव्याप्यवृत्तिप्रकारभेदे ऽपि लक्षणेक्यस्य सुवचतया तद्भेदेन
लक्षणभेदवर्णनमयुक्ततमम्। वैशिष्ट्यं च
3स्वनिरूतिपत्वस्वविशिष्टाधिकरणनिष्ठत्वोभयसम्बन्धेन।
स्ववैशिष्ट्यं च स्वविशिष्टाभाववत्तासम्बन्धेन। स्ववैशिष्ट्यं च अभावे
स्वावच्छेदकसम्बन्धेन
स्वाश्रयानधिकरणवृत्तित्वस्वविशिष्टप्रतियोगिताकत्वोभयसम्बन्धेन।
स्ववैशिष्ट्यं च
स्वावच्छेदकसम्बन्धावच्छिन्नत्वस्वाश्रयनिष्ठत्वोभयसम्बन्धेन।
1. स्वविशिष्टेति।
स्वविशिष्टेत्यस्य एकमात्रवृत्तिधर्मावच्छिन्नप्रतियोगितायामन्वयः।
तथा च स्वं रजतत्वनिष्ठप्रकारता तदवच्छेदकसंबन्धः
समवायसंबन्धः तदवच्छिन्ना रजतत्वनिष्ठा प्रतियोगिता एवं सा
प्रकारताश्रयनिष्ठा च भवति इति प्रकारताविशिष्टा प्रतियोगिता
रजतत्वत्वरूपैकमात्रवृत्तिधर्मावच्छिन्ना तन्निरूपाभाववन्निष्ठत्वं
विशेष्यतायामिति रीत्या समन्वयः कार्यः।
2. स्वयमूह्यमिति।
प्रकारिताविशिष्टविशेष्यितावदनुभवत्वं भ्रमत्वम्। वैशिष्ट्यं च
स्वावच्छिन्नस्वनिरूपितप्रकारताविशिष्टविशेष्यतानिरूपितत्वोभयसंबन्धेन।
विशेष्यतायां प्रकारतावैशिष्ट्यं च
स्वविशिष्टैकमात्रवृत्तिधर्मावच्छिन्नप्रतियोगिताकाभाववन्निष्ठत्वस्वनि रूपितत्वोभयसंबन्धेन।
प्रतियोगितायां स्वविशिष्टत्वं च
स्वावच्छेदकसंबन्धावच्छिन्नत्वस्वाश्रयनिष्ठत्वोभयसम्बन्धेनेत्यूह्यमित्यर्थः।
3.
स्वनिरूपितत्वेत्यादि। अत्रानुगभे स्वशब्दाः सर्वे ऽपि प्रकारतापराः।
समन्वयः पूर्ववदूह्यः।
यत्तु - दशितसम्बन्धेन
स्वविशिष्टविशेष्यतानिरूपितत्वतादात्म्योभयसम्बन्धेन
प्रकारताविशिष्टप्रकारतानिरूपकानुभवत्वं
तदितितदसत्-प्रकारत्वस्य द्विधा निवेशेनाधिकस्य तादात्म्यस्य च
प्रवेशेन महागौरवप्रसङ्गात्। न च [120] यदवच्छेदेन इत्यादि
दीपिकावाक्यस्वरस्यानुरोधेर तथावर्णनमिति वाच्यम्।
तादृशदीपिकावाक्यस्य लक्षणभेदपरत्वे मूलोपलक्षितो वृक्षः
कपिसंयोगीत्यादिप्रमायामतिव्याप्तेः।
अव्याप्यवृत्तिप्रकारस्थलीयभ्रमलक्षणस्य दुर्वारत्वात्।
विषयबाधविरहेणेष्टापत्तेरयोगात्। तस्मात् उक्तदीपिकावाक्यं
अस्मदुक्तरीत्या
भ्रमलक्षणपरिष्काराभिप्रायेणाव्याप्यवृत्तिप्रकारकभ्रमे ऽव्याप्तिमाशङ्क्य
मूलादिविशिष्टानुयोगिकसंयोगादिवैशिष्ट्यावगाहिज्ञानस्यैव
भ्रमत्वेन लक्ष्यताप्रदर्शनपरम्। एवं च दीपिकायाम् [120] विवक्षितत्वादित्यस्य लक्ष्यत्वेनेत्यादिः। [120] विशेष्यित्वेति। अत्र यद्यपि विशेष्यताप्रकारतयोः
निरूप्यनिरूपकभावं निवेश्यापि समूहालम्बनव्यावृत्तिसम्भवः,
तथापि शिष्यधीवैशद्याय प्रकारान्तरमप्युक्तमिति ध्येयम्।
यथार्थानुभवविभागः
दीपिकायाम् [123] प्रसङ्गादिति। अत्र पञ्चम्यर्थो ज्ञानजन्यजिज्ञासाधीनत्वं
विभागान्वितम्। कः प्रसङ्गः इत्याकाङ्क्षायामाह - प्रकाशिकायाम्
[123] स्मृतस्योपेक्षानर्हत्वमित्यादि। स्मृतस्य
पूर्वाहितपदार्थसम्बन्धेन स्मृतिगोचरस्योपेक्षानर्हत्वं
द्वेष्यज्ञानविषयताविरोधिरूपम्। तच्च प्रकृते प्रमितिकरणत्वम्।
इदं
चोपोद्घातादिपञ्चकभिन्नत्वमनिवेश्यानन्तराभिधानप्रयोजनकजिज्ञासाजनकज्ञानप्रकारत्वेनोपोद्घातादीनामपि
प्रसङ्गे एवान्तर्भाव इत्यभिमानेन अन्यथा करणत्वस्य
कारणताविशेषरूपतया कारणतासामान्यभेदघटितप्रसङ्गलक्षण्स्य
प्रकृते ऽसम्भवेनासङ्गतेः। वस्तुतस्तु
अनन्तराभिधाननियामकजिज्ञासाजनकनिरूप्यतावच्छेदकप्रकारकस्मरणप्रयोजकः
निरूप्यनिष्ठौपोद्घातादिव्यातिरिक्तः सम्बन्धः प्रसङ्गसङ्गतिः।
प्रकृते च चतुर्विधत्वेन प्रमितिसादृश्यमेव प्रमाणस्य तादृशमिति।
इदमत्रावधेयम् -
धर्मविशिष्टधर्मवत्वं सङ्गतिः वैशिष्ट्यं च
स्वभिन्नत्वस्वविशिष्टशब्दविशिष्टत्वोभयसंबन्धेन। स्ववैशिष्ट्यं च
स्वविशिष्टशब्दोत्तरत्वसम्बन्धावच्छिन्नस्वनिष्ठावच्छेदकताकप्रति योगिताकभेदवत्वस्वावच्छिन्नकर्मनिरूपणोत्तरत्वोभयसम्बन्धेन
। स्ववैशिष्ट्यं च
स्वावच्छिन्नकर्मकनिरूपणोत्तरत्वस्वभिन्नधर्मावच्छिन्नविशेष्यकलक्षणादिप्रकारकज्ञानजनकत्वोभयसंबन्धेनः।
शब्दवैशिष्ट्यं च आधेयत्वस्वप्रयोजकेच्छाविशिष्टत्वोभयसम्बन्धेन।
इच्छावैशिष्ट्यं च आधेयत्वस्वजनकज्ञानप्रकारत्वोभयसम्बन्धेन।
आधेयत्वं
स्वनिष्ठप्रकारतानिरूपितव्याप्यत्वप्रकारतानिरूपितधर्मप्रकारतान् इरूपितप्रकारत्वप्रकारतानिरूपितनिरूपकत्वप्रकारतानिरूपितज्ञानत्वावच्छिन्नविशेष्यताकत्वसंबन्धेन।
तथा चानुमानं प्रत्यक्षसङ्गतमित्यादौ धर्मविशिष्टधर्म एव
सङ्गतिपदार्थः। तत्र प्रत्यक्षत्वनिष्ठाधेयतासम्बन्धेन प्रत्यक्षस्य
प्रथमधर्मे ऽन्वयः। धर्मत्वोनान्वयितावच्छेदकधर्मविशेषबोधकत्वं
सङ्गतिपदस्य व्युत्पत्तिसिद्धम्।
एवमन्वयिसमर्पकपदप्रवृत्तिनिमित्तताघटकसम्बन्धावच्छिन्नन् इष्ठनिरूपितत्वसम्बन्धेनप्रत्ययार्थैकदेशाश्रयतायां
द्वितीयधर्मान्वयबोधकत्वमपि तथा।
वस्तुतस्तु
धर्मविशिष्टत्वमेव सङ्गतिः। वैशिष्ट्यं च
स्वविशिष्टाधिकरणताविशिष्टत्वसम्बन्धेन। स्ववैशिष्ट्यं च
स्वभिन्नधर्मावच्छिन्नप्रतियोगिताकभेदनिरूपितत्वस्वविशिष्टशब्दवि शिष्टबोभयसम्बन्धेन।
शब्दे स्ववैशिष्ट्यं च प्राग्वत्। शब्दवैशिष्ट्यं च
आधेयत्वस्वप्रयोजकेच्छाविशिष्टत्वोभयसम्बन्धेन। आधेयता
स्वनिरूपकभेदप्रतियोगितावच्छेदकधर्मावच्छिन्नविशेष्यकलक्षणादि प्रकारकज्ञानजनकत्वसम्बन्धेन।
इच्छावैशिष्ट्यं च
स्वनिरूपकभेदप्रतियोगितावच्छेदकत्वोपलक्षितधर्मव्याप्यधर्मप्रकारज्ञानत्वावच्छिन्नविशेष्यताकत्वसम्बन्धावच्छिन्नाधेयत्वप्रयोजकसमरणविशिष्टत्वोभयसम्बन्धेन।
वैशिष्ट्यं च
स्वप्रयोजकसंबन्धनिष्ठत्वस्वनिरूपकभेदप्रतियोगितावच्छेदकधर्मप्रकारकत्वसम्बन्धावच्छिन्नाधेयत्वोभयसम्बन्धेन।
अधिकरणतावैशिष्ट्यं च स्वाश्रयाश्रयत्वसम्बन्धेन। अत्र च
सङ्गतमित्यादौ तत्प्रत्ययार्थैकदेशभूताश्रयतायामधिकरणतायाः
येन सम्बन्धेन सम्बन्धज्ञानस्य स्मारकत्वं
तत्सम्बन्धावच्छिन्ननिष्ठस्वाश्रयनिरूपितत्वसंबन्धेन अन्वयव्युत्पत्तिः
स्वीकार्या। अन्यत् पूर्ववदति।
करणलक्षणम्
[124] अदृष्टादेरित्यादिना ईश्वरपरिग्रहः। [124] अनुभवत्वव्याप्येति। यद्यपि
कार्यत्वातिरिक्तधर्मावच्छिन्नकार्यतानिरूपितकारणत्वनिवेशादपि
कालादिवारणसम्भवः, तथापि
ज्ञानसामान्यहेतुभूतस्यात्मदादेरवारणात् तदुपेक्षा। [124] प्रमावृत्तीति। इदं भ्रमजनकदोषे ऽतिव्याप्तिवारणाय। ननु
निरुक्तप्रमाणलक्षणस्य चक्षुस्संयोगादावतिव्याप्तिः। न च
द्रव्यत्वनिवेशात् न दोष इति वाच्यम्। तथा सति व्याप्तिज्ञानादेः
प्रमाणत्वानुपपत्तेरित्यत आह -- [124] व्यापारवत्त्वे
सतीत्यपीति। व्यापारवत्त्वं च
स्वजनकत्वस्वजन्यजनकत्वोभयसंबन्धेन किञ्चिद्विशिष्टत्वम्।
व्यापारत्वं च तज्जन्यत्वे सति तज्जन्यजनकत्वम्।
कारणवारणाय
सत्यन्तम्। फलवारणाय विशेष्यम्।
स्वजन्यत्वस्वजन्यजनकत्वोभयसम्बन्धेन प्रमेयविशिष्टत्वमनुगतार्थः।
यदि च प्रमेयत्वादिरूपाधिकपदार्थनिवेशात् गौरवमित्युच्यते
तदा जन्यताविशिष्टत्वं तद्वाच्यम्। वैशिष्ट्यं च
स्वाश्रयत्वस्वनिरूपकजन्यजनकत्वोभयसम्बन्धेन। अथ वा
स्वाश्रयजनकत्वस्वनिरूपकजन्यत्वोभयसम्बन्धेन।
जन्यताविशिष्टत्वमित्यनुगमो बोध्यः।
वस्तुतस्तु
फलजनकताप्रयोजकजनकतानिरूपकत्वं व्यापारत्वम्। तेन
कुलालपुत्रादेः कुलालादिव्यापारताप्रसङ्गस्य नावकाशः। यद्वा
तज्जन्यजनकत्वं तादृशजनकतावच्छेदकसम्बन्धत्वरूपमिह बोध्यम्।
नन्वेवं सति श्रोत्रेन्द्रियस्य प्रमाणतानुपपत्तिः। तत्र समवायस्यैव
सन्निकर्षतया तस्याजन्यत्वेन निरुक्तव्यापारत्वासम्भवादित्यत आह
[124] श्रोत्रेति। ननु कारणत्वं फलाव्यवहितपूर्ववृत्तित्वम्। तच्च
कारणतावच्छेदकसम्बन्धेन वाच्यम्। अन्यथा यागादेः
स्वर्गादिकारणत्वानुपपत्तेः। तथोक्तौ तु स्वजन्यापूर्वसम्बन्धेन
यागादेस्तथात्वात् नानुपपत्तिः। एवं च
व्यापारसम्बन्धावच्छिन्नकारणत्वमेव करणत्वम्। व्यापारवत्त्वे सतीति
पृथग्विशेषणस्य व्यर्थत्वात् चक्षुस्संयोगादेरुक्तरूपाभावेन
तत्रानतिप्रसङ्गात्। तथा च शब्दवृत्तिलौकिकविषयतासम्बन्धेन
श्रावणं प्रति स्ववृत्तिमनस्संयोगसम्बन्धेन श्रोत्रस्य कारणत्वं न
सम्भवतीत्यत आह [124] शब्दो वेति। तथा च
स्ववृत्तिशब्दतादात्म्यसम्बन्धेन श्रोत्रस्य कारणत्वं सम्भवतीति भावः।
[124] वदन्तीति। प्राञ्च इति शेषः। नवीनमतमाह [124] यद्विलम्बादिति।
स्वेतरयावत्प्रकृतकार्यकारणसमवधानकालीनकार्योत्पत्त्यभावप्रयोजकीभूताभावप्रतियोगित्वं
कार्योत्पत्त्यभावविशिष्टत्वपर्यवसितम् असाधारणत्वमिति निष्कर्षः।
तेन न स्वत्वाननुगमः। वैशिष्ट्यं च
स्वप्रयोजकीभूताभावप्रतियोगित्वस्वाधिकरणक्षणवृत्तिभेदप्रतियोगितावच्छेदकत्वोभसम्बन्धेन।
भेदप्रतियोगितावच्छेदकता1स्वसेत्याद्यवच्छेदकत्वसम्बन्धेन।
स्वाधिकरणता स्वेतरप्रकृतकार्यकारणाधिकरणत्वसम्बन्धेन।
भेदप्रतियोगितावच्छेदकता आधेयत्वसम्बन्धेन। यस्तु
स्वविशिष्टक्षणवृत्तिप्रकृतकार्योत्पत्त्यभावप्रयोजकाभावप्रतियोगित्वतादात्म्योभयसंबन्धेन
प्रमेयविशिष्टत्वं तत्,
1.
स्वसेत्याद्यवच्छेदकत्वसम्बन्धेनेति।
स्वसमानाधिकरणभेदप्रतियोगितावच्छेदकत्वसंबन्धेनेत्यर्थः।
अत्रैवं समन्वयः
- स्वप्रयोजकेत्यत्र
स्वाधिकरणेत्यत्र च स्वशब्दः कार्योत्पत्यभावपरः। स्वसेत्यादीत्यत्र
स्वशब्दः दण्डादिकारणपरः। स्वेतरेत्यत्रस्वशब्दः दण्डादिकारणपरः।
तथा च-
स्वं घटोत्पत्त्यभावः
तद्विशिष्टत्वं दण्डे इति तस्यासाधारणकारणत्वम्। स्वं
घटोत्पत्त्यभाव तत्प्रयोजकीभूतो ऽभावः दण्डभावः तत्प्रतियोगित्वं
दण्डे। एवं स्वं घटोत्पत्त्यभावः तदधिकरणक्षणे वर्तते यः भेदः
दण्डवद्भेदः तत्प्रतियोगितावच्छेदकत्वं च दण्डे।
दण्डवद्भेदशब्देनात्र
स्वेतरप्रकृतकार्यकारणाधिकरणवृत्तिभेदप्रतियोगितानिरूपिताधेयतासम्बन्धावच्छिन्नावच्छेदकतासम्बन्धेन
दण्डवद्भेदो
ग्राह्यः।
दण्डेतरघटकारणाधिकरणप्रदेशस्य
घटोत्पत्त्यभावाधिकरणक्षणवृत्तित्वनियमात् तादृशप्रदेशे वर्तमानः
भेदः आधेयतासम्बन्धेन घटोत्पत्त्यभावाधिकरणक्षणवद्भेदः न
भवति, अतः
स्वेतरप्रकृतकार्यकारणधिकरणवृत्तिभेदप्रतियोतावच्छेदकत्वं
तादृशक्षणे नास्तीति तादृशावच्छेदकतासंबन्धेन दण्डवान्
तादृशक्षणो न भवति। अतः दण्डवद्भेदः तादृशक्षणवृत्तिः।
तत्प्रतियोगितावच्छेदकत्वं दण्डे ऽस्तीति उक्तोभयसंबन्धेन
घटोत्पत्त्यभावविशिष्टत्वात् दण्डस्व घटासाधारणकारणत्वनिर्वाहः।
वैशिष्ट्यं च
1स्वसेत्यादिभेदत्त्वसंबन्धेन। स्वाधिकरणत्वादिकं प्राग्वदिति रीत्या
अनुगमः। स तु तादात्म्यादिनिवेशेन गौरवदूषितत्वादनादरणीयः।
कारणलक्षणम्
ननु
स्वभिन्नत्वनिवेशनेनापि स्ववारणसम्भवः। एवं संयोगादिना
घटाद्यधिकरणे भूतलादौ तादात्म्यादिसम्बन्धेन कपालाभावसत्त्वात्
कपालादीनां घटाधिकरणत्वाद्यनुपपत्तिः। एवं कार्याधिकरणे
कार्याव्यवहितपूर्वकालावच्छेदेन कार्योत्तरकालावच्छेदेन च
कारणाभावसम्भवात् स एव दोषः। एवं सर्वेषामेव
द्वित्वाद्यवच्छिन्नाभावप्रतियोगित्वादसम्भवः।
तादृशाभावप्रतियोगितानवच्छेदकधर्मवत्त्वं तु
तादृशप्रमेयत्वादिधर्ममादाय
रासभादावतिप्रसक्तम्,
अतो निष्कर्षमाह-- [126] कार्यतावच्छेदकसंबन्धेनेत्यादि। अत्र
चाभावेत्यतः परं प्रतियोगितेत्यतः
प्राक्कारणताघटकत्वेनाभिमतसम्बन्धावच्छिन्नेति पूरणीयम्। तेन न
सम्बन्धान्तरावच्छिन्नकारणाभावमादाय दोष इति ध्येयम्।
अन्यथासिद्धिनिरूपणम्
[127] येन सहेत्यादि दीपिकावाक्ये
तृतीयान्तयत्पदं कारणतावच्छेदकत्वाभिमततन्तुत्वाद्यवच्छिन्नपरम्।
षष्ठ्यन्तयत्पदं अन्यथासिद्धत्वाभिमततन्तुत्वादिपरम्।
द्वितीयान्तयत्पदं प्रकृतकार्यतावच्छेदकधर्मावच्छिन्नपरमिति
1.
स्वसेत्यादिभेदवत्त्वसंबन्धेनेति।
स्वसमानाधिकरणभेदप्रतियोगितावच्छेदकसंबन्धावच्छिन्नस्वनिष्ठावच्छेदकताकप्रतियोताकभेदवत्त्वसम्बन्धेनेत्यर्थः।
मनसि निधायार्थमाह
- [127] येन तन्तुनेत्यादि। अत्र च सहशब्दः साहित्यम्।
तच्चैकक्रियान्वयः। क्रिया च धातुत एव लभ्यत इत्यन्वय एव
सहशब्दार्थः। ऽअनन्यलभ्यशब्दार्थःऽ इति न्यायात्। स चात्र
प्रकारतानिरूपकत्वरूपः। येनेति तृतीयायाः
प्रकारतान्वितमाधेयत्वमर्थः। विशेषणसङ्गतैवकारमहिम्ना
यद्धर्मावच्छिन्नविशेष्यकप्रकृतकार्यनियतपूर्ववृत्तित्वप्रकारकज्ञानत्वव्यापकत्वविशिष्टस्वरूपसंबन्धेन
अवपूर्वकगमिधात्वर्थज्ञाने तादृशप्रकारतानिरूपकत्वान्वयः।
आख्यातस्य प्रकारत्वमर्थः, यस्येति
षष्ठ्यन्तार्थयद्धर्मावच्छिन्नविशेष्यकत्वस्य ज्ञाने ऽन्वयः। प्रकारत्वं च
प्रथमान्तपदार्थान्वयि। तथा चोक्तसंबन्धेन
यन्निष्ठप्रकारतानिरूपकत्वविशेषितयद्धर्मावच्छिन्नविशेश्यकज्ञानप्रकारीभूतं
प्रकृतकार्यनियतपूर्ववृत्तित्वमिति ऽयेन सहेऽत्यादिवाक्याधीनो
बोधः। एवं च
यद्धर्मावच्छिन्नविशेष्यकप्रकृतकार्यनियतपूर्ववृत्तित्वप्रकारकज्ञानसामान्यं
यद्धर्मावच्छिन्नप्रकारतानिरूपकं तद्धर्मवत्त्वमेकम् अन्यथासिद्धत्वमिति
फलितम्।
अयमत्रानुगमः -
धर्मविशिष्टधर्मवत्त्वम् वैशिष्ट्यं चाधेयतासंबन्धेन। सा च
स्वसेत्यादिभेदवत्त्वसम्बन्धेन। स्वाधिकरणता
स्वावच्छिन्नविशेश्यकप्रकृतकार्यनियतपूर्ववृत्तित्वप्रकारकज्ञानत्वसम्बन्धेन।
भेदप्रतियोगितावच्देदकता स्वावच्छिन्नप्रकारतानिरूपकत्वसम्बन्धेन।
अत्र च पटादीनां तनतुत्वादेः
समूहालम्बनमादायान्यथासिद्धिवारणाय
सामान्यपदार्थव्यापकत्वनिवेशनम्। विषयतामात्रनिवेशे दण्डादेः
स्वेनान्यथासिद्धिप्रसङ्गः इति प्रकारतानिवेशनम्। पटं प्रति
तन्तुरूपस्य रूपत्वेन न कारणत्वं व्यभिचारादेव। अतः तदानीं
प्रथमान्यथासिद्ध्यसम्भवे ऽपि न क्षतिरिति
सूचनायानतिप्रसक्तेत्युक्तम्।
[128] तन्तुविषयकमेवेति।
जातिवाचिपदोल्लिखितप्रत्यये जातेः किञ्चिद्रूपेणैव भानात्
तनतुत्वस्य प्रकृते तनतुत्वत्त्वेनैव विशेष्यत्वात् तन्तुत्वत्त्वस्य च
तन्त्वितरासमवेतत्वे सति निखिलतन्तुसमवेतत्वरूपत्वादिति भावः।
[127] सङ्क्षेप इति। यद्यपि तन्तुना
तन्तुसंयोगस्यान्यथासिद्धिवारणायावश्यकेन विशेषणेनैव
तन्तुत्वेन तन्तोरन्यथासिद्धिवारणात् येनेत्यस्य
स्वतन्त्रान्वयव्यतिरेकशालिनेति विशेषणं विफलम्, तथापि
तन्तुरूपस्य तन्तुत्वेनान्यथासिद्धिवारणाय विशेषणं विफलम्,
तथापि तन्तुरूपस्य तन्तुत्वेनान्यथासिद्धिवारणाय तदावश्यकता
बोध्या। अत एव यत्पदस्य यद्धर्मावच्छिन्नपरतया व्याख्यानादेव
तन्तुत्वेन तन्तोरन्यथासिद्धिवारणसम्भवः। तन्तुः
पटनियतपूर्ववृत्तिरिति ज्ञाने तन्तुत्वस्य स्वरूपत एव भानात्। एवं
च शून्यान्तविशेषणं व्यर्थथ्मति शङ्का निरस्ता।
तन्तुत्वत्वविशिष्टेन
तदाश्रयवृत्तिरूपत्वावच्छिन्नस्यान्यथासिद्धिवारणाय तत्सार्थक्यात्।
स्वतन्त्रान्वयव्यतिरेकशालित्वं
स्वेतरगतान्वयव्यतिरेकानधीनान्वयव्यतिरेकवत्त्वम्। अन्वयश्च
प्रकृतकार्यसत्ताप्रयोजकसत्तावत्त्वम्। व्यतिरेकश्च
प्रकृतकार्यविरहप्रयोजकविरहनिरूपकत्वम्। अत्र च
1तादृशसत्ताविशिष्टत्वे सति तादृशव्यतिरेकविशिष्टत्वमित्यनुगमः।
प्रथमे वैशिष्ट्यं च
स्वाश्रयत्वस्ववृत्तिभेदप्रतियोगितावच्छेदकत्वोभयसंबन्धेन।
अवच्छेदकत्वं स्वभिन्नगतान्वयाधीनत्वसम्बन्धेन। द्वितीये वैशिष्ट्यं च
स्वाश्रयत्वस्ववृत्तिभेदप्रतियोगितावच्छेदकत्वोभयसम्बन्धेन।
भेदप्रतियोगितावच्छेदकता स्वभिन्नगतव्यतिरेकाधीनत्वसम्बन्धेन।
अत्र च सत्यन्तं वा विशेष्यदलं वा एकैकमेवोपादेयम्। उभयनिवेशे
प्रयोजनविरहात्
तादृशविशिष्टाभाव एव स्वतन्त्रान्वयव्यतिरेकशून्यत्वम्।
1. तादृशसत्तेत्यादि।
प्रकृतकार्यसत्ताप्रयोजकसत्ताविशिष्टत्वे सति
प्रकृतकार्यव्यतिरेकप्रयोजकव्यतिरेकविशिष्टत्वमित्यर्थः।
प्रकृतकार्य पटः तत्सत्ताप्रयोजकसत्ताश्रयत्वं तन्तोः। एवं
तादृशसत्तानिष्ठः यो भेदः स्वभिन्नगतान्वयाधीनत्वसंबन्धेन
तन्तुमद्भेदः तत्प्रतियोगितावच्छेदकत्वं तन्तौ। एवं
पकृकार्यव्यतिरेकः पटाभावः तत्प्रयोजको यो व्यतिरेकः
तन्त्वभावः तत्प्रतियोगित्वरूपं तदाश्रयत्वं तन्तौ। एवं
तादृशव्यतिरेकनिष्ठः यः स्वभिन्नगतव्यतिरेकाधीनत्वसंबन्धेन
तन्तुमद्भेदः तत्प्रतियोगितावच्छेदकत्वं तन्ताविति समन्वयो
द्रष्टव्यः।
1वस्तुतस्तु
स्वाश्रयान्वयव्यतिरेकप्रयुक्तत्वसम्बन्धावच्छिन्नस्वनिष्ठावच्छेदकताकप्रतियोगिताकभेदवत्त्वसम्बन्धेन
स्वविशिष्टान्वयव्यतिरेकवत्त्वस्वप्रतियोगित्वोभयसम्बन्धेन वा
भेदविशिष्टत्वमित्यनुगमः। स्ववैशिष्ट्यं च
स्वप्रतियोगीतरान्वयव्यतिरेकाधीनत्वसम्बन्धेन
स्वावच्छिन्नभेदवत्तासम्बन्धेनेति। तत्तु
तादात्म्यादिरूपाधिकपदार्थनिवेशनगौरवादुपेक्षणीयमिति
ध्येयम्।
यत्तु - ऽयेनैव यस्य
यं प्रति पूर्ववृत्तित्वमवगम्यतेऽ इत्याद्युक्त्यैव सामञ्जस्ये
सहशब्दवेयर्थ्यमिति - तन्न - तथा सति सस्येति
षष्ट्यर्थविशेष्यत्वान्वयिनः अवच्छिन्नत्वस्य तृतीयार्थत्या
प्रकृतकार्यनियतपूर्ववृत्तित्वज्ञानीययन्निष्ठविशेष्यतासामान्यं
यदवच्छिन्नमिति लक्षणं सम्पद्यते। तत्र
चावच्छेदककोटिप्रविष्टस्यावच्छेदकत्वानादरे दण्डत्वादावव्याप्तेः।
सहशब्दोपादाने चास्मदुक्तार्थपर्यवसानेन दोषविरहादिति। अत
एव तनतुसमवेतत्वादिविशिष्टरूपादेस्तन्तुत्वादिनान्यथासिद्धिंरपि
सुवचेति ध्येयमिति भावः। तन्तुत्वस्य तद्व्यक्तित्वेन कारणत्वे ऽपि
प्रथमान्यथासिद्धिमुपपादयतां मतमाह - [127] इतरान्वयेति।
स्वान्वयव्यतिरेकवत्त्वस्वभिन्नत्वोभयसंबन्धेन
किञ्चिद्विशिष्टत्वमन्यथासिद्धत्वमिति तु निष्कर्षः।
[127] दीपिकायाम् अन्यं प्रतीत्यादि। अन्यं प्रति
प्रकृतकार्येतरकार्यं प्रति। ऽपूर्ववृत्तित्वेऽ इत्यत्र सप्तम्याः ऽयस्य च
भावेनऽइत्युक्तन्यायेन ज्ञानमर्थः। तस्य च
जन्यतासम्बन्धेनावगमे ऽन्वयः। तथा च
प्रकृतकार्येतरकार्यपूर्ववृत्तित्वप्रकारकज्ञानाधीनप्रकृतकार्यपूव्रवृत्तित्वप्रकारकज्ञानविशेष्यत्वं
द्वितीयान्यथासिद्धस्य लक्षणमिति फलितम्। तत्र च कारणताज्ञानं
विशिष्टानुयोगिकवैशिष्ट्यावगाहितया
विशेष्यतावच्छेदकप्रकारकनिर्णयं नियमतो ऽपेक्षत इति
लक्षणगमनमित्याशयेनाह प्रकाशिकायाम् [127] तथा चेति।
अनेकद्रव्यसमवेतत्वेति। अणुभिन्नद्रव्यत्वेत्यर्थः। [128] तदुपस्थितेः -- प्रागभावोपस्थितेः।
1. वस्तुतस्तु
स्वाश्रयान्वयेत्यादि। सर्वत्र स्वशब्दः तन्वादिभेदपरः।
कारणविभागः
संग्रहे
यत्समवेतमित्यादि। कार्यमित्यत्र यदित्यादिः कार्यं यत्समवेतं
सदुत्पद्यत इति योजनया यत्समवेतं प्रतियोगितया
यदनुयोगिकसमवायवत् उत्पद्यत इत्यर्थः। धात्वर्थ
आद्यक्षणावच्छिन्नाधेयत्वम्। आख्यातार्थ आश्रयत्वम्।
उद्श्यविधेयभावमहिम्ना तादृशसमवायावच्छिन्नत्वमाधेयतायां
भासते। सदन्तविशेषणतावच्छेदकस्योद्देश्यतावच्छेदकत्वनियमात्।
उद्देश्यविधेयभावस्थले
उद्देश्यतावच्छेदकविधेययोरवच्छेद्यावच्छेदकभावभानव्युत्पत्तेः। तथ
च यत्कार्यं यदनुयोगिकसमवायावच्छिन्नतादृशाधेयतावत् तत्कार्यं
प्रति तत्समवायिकारणमिति वाक्यार्थः। अत्र च यत्तत्पदयोः
कार्यकारणव्यक्तिपरत्वे कार्यकारणभावान्त्यमित्यालोच्य तयोः
यत्तद्धर्मावच्छिन्नपरतामभिसन्धायाह - प्रकाशिकायाम् [134] यद्धर्मावच्छिन्नमित्यादिना। एवं च
समवायसम्बनधावच्छिन्नकार्यतानिरूपिततादात्म्यसंबन्धावच्छिन्नकारणत्वं
समवायिकारणस्य लक्षणं फलितम्। तत्र च घटादिप्रत्यक्षे
घटादिरूपविषयस्य तादात्म्यसम्बन्धेन कारणत्वात्
घटादिविषयस्य
स्वप्रत्यक्षं प्रति समवायिकारणतावारणाय कार्यतायां
समवायसम्बन्धावच्छिन्नत्वनिवेशनम्।
प्रत्यक्षनिष्ठविषयनिरूपितकार्यतायाः विषयतासंबन्धावच्छिन्नत्वात्
न दोषः। असमवायिकारणे ऽतिव्यापितवारणाय कारणतायां
तादात्म्यसंबन्धावच्छिन्नत्वनिवेशः।
संग्रहे [133] कार्येण कारणेन वा सहेत्यादि। अत्र च कार्येण सहैकस्मिन्नर्थे
समेवतं सत् यत्कारणं तदेकं असमवायिकारणम्। कारणेन
सहैकस्मिन्नर्थे समवेतं सत् यत्कारणं तदपदं असमवायिकारणमिति
वाक्यभेदेन योजना। वाकारश्च एतद्द्योतक एव। सहशब्दार्थः
सहितत्वम्, तच्च प्रकृते अधिकरणनियपितत्वरूपम्
समवेतपदार्थतावच्छेदकसमवेतत्वे अन्वितम्। कार्येणेत्यत्र
तृतीयायाः अधिकरणतान्वयिनिरूपितत्वमर्थः। एकपदमत्र
यत्किञ्चित्परम्। अर्थपदोत्तरसप्तम्याः निरूपितत्वमर्थः। तथा च
कार्याधिकरणनिरूपितयत्किञ्चिदर्थनियपितसमवेतत्ववत्
कारणमिति एको वाक्यार्थः। एवं कारणेनेत्यादिवाक्ये ऽपि बोध्यम्।
वस्तुतः संग्रहे [133] कार्येण सहेत्यादि। अत्र सहशब्दार्थंः साहित्यम्।
तच्चैकक्रियान्वयित्वरूपम्। प्रकृते
समवेतत्वनिरूपकत्वपर्यवसितम्। कार्येणेत्यत्र तृतीयार्थ
आधेयत्वम्, एकशब्दो ऽधिकरणपरः। अर्थ इत्यत्र
समवेतत्वान्वयिनिरूपितत्वमर्थः। तथा च
कार्यनिष्ठसमेवतत्वनिरूपकीभूताधिकरणार्थनिरूपितसमेवतत्ववदित्यर्थ
इति फलितम्। कारणेनेत्यादावपि एवमेव बोध्यमिति तु सारम्।
कारणेनेत्यत्र कस्य कारणमित्याकाङ्क्षायां आह - प्रकाशिकायाम् [134] स्वकार्येति। स्वकार्यस्य समवायिकारणेनेत्यर्थः। अत्र च
समवायसम्बन्धावच्छिन्नकार्यतानिरूपितसमवायस्वाश्रयसमवेतत्वान्यतरसम्बन्धावच्छिन्नकारणत्वं
असमवायिकारणसामान्यस्य लक्षणम्। कारणतायां
समवायसम्बन्धावच्छिन्नत्वमात्रनिवेशे प्रथमासमवायिकारणस्य
स्वाश्रयसमवेतत्वसंबन्धावच्छिन्नत्वमात्रनिवेशे
द्वितीयासमवायिकारणस्य च तदेव लक्षणं बोध्यम्।
द्रव्यवृत्तिलौकिकविषयतासंबन्धेन
द्रव्यसमवेतवृत्तिलौकिकविषयतासंबन्धेन च प्रत्यक्षं प्रति
समवायेन स्वाश्रयसमवेतत्वसंबन्धेन च हेतुभूते
उद्भूतरूपादावतिव्याप्तिवारणाय लक्षणद्वये ऽपि कार्यतायां
समवायसम्बन्धावच्छिन्नत्वनिवेशः। द्वितीयासमवायिकारणे
अतिव्याप्तिवारणाय प्रथमासमवायिकारणलक्षणे कारणतायां
समवायसम्बन्धावच्छिन्नत्वनिवेशः। प्रथमासमवायिकारणे
अतिव्याप्तिवारणाय द्वितीयासमवायिकारणलक्षणे तत्र
स्वाश्रयसमवेतत्वसंबन्धावच्छिन्नत्वनिवेशेः। अत्र
चोक्तान्यतरसंबन्धावच्छिन्नत्वस्थले
समवायसंबन्धावच्छिन्नस्वनिष्ठावच्छेदकताकप्रतियोगिताकभेदवत्त्वस्वाश्रयसमवेतत्वसंबन्धावच्छिन्नस्वनिष्ठावच्छिदकताकप्रतियोगिताकभेदवत्त्वोभयसम्बन्धावच्छिन्नस्वनिष्ठावच्छेदकताकप्रतियोगि ताकभेदवत्त्वसंबन्धावच्छिन्नत्वं
निवेशनीयमित्यवधेयम्। तृरीतन्तुसंयोगादेरपि
तृरीपटसंयोगादिकं प्रत्यसमवायिकारणत्वात्
असमवायिकारणसामान्यलक्षणे
तद्भिन्नत्वनिवेशनमव्याप्तिसम्पादकमित्यालोच्य उक्तम्
तत्तदसमवायिकारणलक्षण इति। [134] दिगिति। अयं भावः --
समवायेन पटं प्रति संयोगेन तुर्या एव कारणत्वस्वीकारात् न
विशेषणलक्षणे ऽपि तद्भिन्नत्वं निवेशनीयमिति तु न सम्यक्।
नियतपूर्ववृत्तित्वलक्षणस्य कारणत्वस्य
तुरीतन्तुसंयोगे ऽप्यक्षतत्वात्। यद्यप्येवमपि तन्त्वाकाशसंयोगादौ
विशिष्टलक्षणस्य अतिव्याप्तिः। तद्भिन्नत्वस्यापि निवेशे
महागौरवम्, तथापि तन्त्वादिमात्रसमवेतत्वं
तन्त्वन्यासमवेतत्वादिपर्यवसितं विशेषणं निवेश्यमिति न दोष
इति।
सङ्ग्रहे [133] तदुभयभिन्नमित्यादि। निमित्तकारणलक्षणे तदुभयपदं
समवाय्यसमवायिकारणद्वयपरमित्याह - दीपिकायाम् [133] समवायीत्यादि। अत्र च तत्कार्यविशिष्टं तत्कार्यं प्रति
निमित्तकारणमिति लक्षणं वाच्यम्। वैशिष्ट्यं च
स्वनिरूपितसमवायिकारणत्वसम्बन्धावच्छिन्नस्वनिष्ठावच्छेदकताकप्रतियोगिताकभेदवत्त्वस्वनिरूपितासमवायिकारणत्वसम्बन्धावच्छिन्नस्वनिष्ठावच्छेदकताकप्रतियोगिताकभेदवत्त्वस्वनिरूपितकारणत्वत्रि तयसम्बन्धेन।
यद्यपि ध्वंसादौ प्रतियोग्यादेः निमित्तकारणत्वहानिः। आभावकार्ये
समवायिकारणाद्यप्रसिद्धेः, तथापि
स्वनिरूपितसमवायिकारणत्वसम्बन्धावच्छिन्नस्वनिष्ठप्रतियोगिताकाभावस्वनिरूपितासमवायिकारणत्वसम्बन्धावच्छिन्नस्वनिष्ठप्रतियोगिताकाभावस्वनिरूपितकारणत्वत्रितयसंबन्धेन
तत्कार्यवैशिष्ट्यं निवेश्यमिति न दोषः। ध्वसादिकं
प्रति
समवायिकारणत्वादेर्व्यधिकरणसम्बन्धतया
तादृशसम्बन्धावच्छिन्नप्रतियोगिताकतदभावसौलभ्यात्। अत एव
तुर्यादेः स्वगतरूपादौ समवायिकारणत्वादिमत्त्वे ऽपि
सामान्यतस्समवाय्यादिभिन्नत्वासम्भवनिबन्धना न क्षतिरिति।
प्रत्यक्षविभागः
[136] तुरीयविषयतानिरूपकत्वस्येति। अन्यथा
सविषयकत्वाभावेन ज्ञानत्वमेव निर्विकल्पकस्य भज्येत। ज्ञानत्वस्य
सविषयत्वव्याप्यतया व्यापकनिवृत्तौ व्याप्यनिवृत्तेरावश्यकत्वादिति
भावः। [136] विशेष्यादिविधयेत्यादि। इदं च
विशेषणविशेष्यसम्बन्धानवगाहीति यथाश्रुते ऽसम्भवः। निर्विकल्पके
घटादेः चक्षुस्संयोगसत्त्वेन भानवत् घटत्वसमवाययोरपि
चक्षुस्संयुक्तसमवायचक्षुस्संयुक्तविशेषणतारूपसन्निकर्षसत्त्वेन
तद्भानस्याप्यवर्जनीयत्वात्। परं तु घटघटत्वसमवायेषु तत्र
तुरीयविषयतामात्रमित्याशयेन पूरितम्। [136] विशेष्यादीति। आदिपदेन प्रकारसंबन्धयोः परिग्रहः।
विशेष्यत्वादिनेत्यर्थः। विशेष्याद्यनवगाहीत्यत्र धात्वर्थो ऽवगाहनम्,
तच्च विषयता, णिनिप्रत्ययार्थो निरूपकम्, विधयेत्यत्र
तृतीयार्थो ऽभेदः विषयतान्वयि निरूपकस्य नञर्थभेदे ऽन्वयः। तथा
च विशेष्यत्वाद्यभिन्नविशेष्यादिनिष्ठविषयतानिरूपकभिन्नत्वलाभः। तत्र
चाभेदतादृशनिष्ठत्वांशयोर्व्यर्थत्वात्
विशेष्यतादिनिरूपकाभिन्नमात्रं लक्षणमित्यभिप्रायेणाह - [136] तथा चेति। [136] ज्ञानत्वघटितमिति।
घटादिष्वतिव्याप्तिवारणाय इदमुक्तम्। [135] विशेष्यविशेषणसम्बन्धानवगाहीत्यत्र दीपिकावाक्ये न द्वन्द्वः।
अपि तु विशेष्यणविशेष्ययोः यस्ससंम्बन्ध इत्यभिप्रायेण
व्याचक्षाणानां मतमाह - [136] केचित्त्विति। [136] भासमानेति।
विषयताश्रयेत्यर्थः। तज्ज्ञानीयविषयताश्रयवैशिष्ट्यप्रतियोगित्वं
तज्ज्ञाने प्रकारत्वमित्यर्थंः। तेन नातिप्रसङ्गः। ननु
घटभूतलसंयोगा इति ज्ञाने घटस्य प्रकारतापत्तिः। अत आह - [136] संसर्गावच्छिन्नेति। ननु पूर्वोक्तयुक्त्या निर्विकल्पके ऽपि
संसर्गभानस्यावश्यकत्वात् असम्भव इत्यत आह -- [136] संसर्गतेति। लाघवादित्यस्य
संसर्गावच्छिन्नविषयताशन्यत्वरूपलक्षणापेक्षयेत्यादिः। तथा च
संसर्गानवगाहित्वं संसर्गनिष्ठविषयत्वानिरूपकत्वम्।
संसर्गावच्छिन्नविषयताशून्यत्वं च
संसर्गनिरूपितावच्छिन्नत्ववद्विषयताशून्यत्वम्। तत्र च
निरूपितत्वस्याधेयत्वस्थानीयत्वे ऽपि अवच्छिन्नत्वस्याधिकस्य निवेशात्
संसर्गावच्छिन्नेत्यादिलक्षणापेक्षया गौरवम्।
संसर्गताशून्यत्वलक्षणमपेक्ष्य तु तादृशलक्षणस्य गौरवं स्फटमेवेति
भावः। [136] बोध्यमिति। अन्यथा उक्तरीत्या
निर्विकल्पके ऽतिव्याप्तेरिति भावः। [136] दिगिति। अयमत्र भावः -
विशेष्यविशेषणसंबन्धानवगाहीत्यत्र षष्ठीतत्पुरुषाश्रयणे संबन्धेन
विशेष्यविशेषणनिष्ठत्वनिवेशनं विफलमिति
दीपिकावाक्यास्वारस्यम्। अस्मन्मते तु लक्षणत्रयलाभार्थतया न
तदुक्तिवैफल्यमिति। ऽननु विशिष्टबुद्धिर्विशेषणज्ञानजन्या
विशिष्टबुद्धित्वात्ऽ इत्यनुमानमप्रयोजकम्
अनुकूलतर्कविरहादित्याशङ्क्य विशिष्टबुद्धिविशेषणज्ञानयोः
कार्यकारणभावभङ्गप्रसङ्गलक्षणस्तर्को ऽत्रास्तीति
नास्याप्रयोजकत्वमितयाशयेनाह - [136]
विशिष्टबुद्धिं
प्रतीत्यादि। अत्र [यदि] विशिष्टबुद्धित्वं
विशेषणजन्यत्वव्यभिचारि स्यात् तर्हि विशेषणज्ञानजन्यतावच्छेदकं
न स्यादिति तर्को ऽभिमत इत्याशयेनाह - [136] भाव इति। दीपिकायाञ् [136] अनवस्थाप्रसङ्गादिति।
जन्यज्ञानत्वव्यापकं स्वनिरूपकज्ञानजन्यत्वं
स्वसमानाधिकरणप्रकारतानिरूपकत्वोभयसंबन्धेन
विषयताविशिष्टत्वमिति अव्यवस्थितपरम्परारोपात्
सुषुप्त्याद्यनुपपत्तिरूपानिष्टप्रसञ्जनसहितात् निष्प्रकारकत्वेन
ज्ञानमनुमितौ भासते। अथवा विशेषणनिष्ठायां
विषयतायामनवच्छिन्नत्वं
विषयतानिरूपितत्वसामान्याभावरूपमुक्ततर्कसंग्रहबलात् तत्र भासत
इति भावः। [136] गौरितीति। इदं च स्वस्मिन्
यद्विशेषणं तद्विषयकधीजन्यत्वरूपसाध्यविशेषलाभायाभिहितम्।
अन्यथा यद्विशेषणप्रकारकं ज्ञानं
तदन्यविशेषणज्ञानजन्यत्वसिद्धिमादायार्थान्तरतापत्तेरिति भावः।
सङ्ग्रहे [135] इन्द्रियार्थसन्निकर्षजन्यमित्यादि। इदं च जन्यप्रत्यक्षस्यैव
लक्ष्यत्वाभिप्रायेण। तेनेश्वरप्रत्यक्षस्य नित्यत्वात्
तत्राव्याप्तिशङ्कानिरासः। तस्यालक्ष्यत्वात्। अन्यथा
पुररिन्द्रियार्थसन्निकर्षाजन्यत्वजन्यत्वोभयाभावञ्जन्यनिष्ठस्वाभाववत्तासंबन्धावच्छिन्नस्वनिष्ठावच्छेदकताकप्रतियोगिताकभेदवत्त्वसंबन्धेन
इन्द्रियार्थसन्निकर्षजन्यताविशिष्टत्वपर्यवसितं निवेश्य
तत्सङ्ग्रहो बोध्यः। अत्र यद्यपि आत्ममनःसंयोगस्य
ज्ञानसामान्यहेतुत्वात् अनुमित्यादावतिव्याप्तिः। मनस
इन्द्रियत्वात् आत्मनश्चार्थत्वात् तथापि
जन्यतायामनुभवत्वव्याप्यधर्मावच्छिन्नत्वनिवेशात् न दोषः।
यथाश्रुते ज्ञानपदमेतत्तात्पर्यग्राहकम्।
निरुक्तोभयाभावनिवेशने त्वाकाशादिवारणाय ज्ञानपदम्।
केचित्तु -- जन्यनित्यप्रत्यक्षसाधारणं ज्ञानाकरणकत्वे सति
ज्ञानत्वं लक्षणम्।
अनुमित्यादीनां व्याप्त्यादिज्ञानकरणकत्वात् न तत्रातिव्याप्तिः।
ईश्वरप्रत्यक्षस्याजन्यत्वात्। जन्यप्रत्यक्षे तु इन्द्रियस्यैव
करणत्वाच्च लक्षणसमन्वयः। निर्विकल्पकस्य सविकल्पकारणत्वात्
करणत्वं निवेशितमित्याहुः।
सन्निकर्षविभागः
दीपिकायाम् [137] द्रव्यप्रत्यक्ष इत्यादि। अत्र च
द्रव्यवृत्तिलौकिकविषयतासंबन्धेन चाक्षुषं प्रति समवायेन
चक्षुस्संयोगस्य कारणत्वं वाच्यम्। तत्र रूपादौ व्यभिचारावारणाय
कार्यदिशि द्रव्यवृत्तित्वनिवेशनम्।
घटत्वादिसामान्यप्रत्यासत्तिजन्यचक्षुरसम्बद्धातीतानागतघटादिविषयकालौकिकचाक्षुषमादाय
व्यभिचारवारणाय लौकिकत्वप्रवेशः। एवं दण्डाद्यंशे
ज्ञानप्रत्यासत्तिजन्ये पूर्वदण्डवानयमासीदिति चाक्षुषे ऽपि
तद्बोध्यम्। एवं दव्यसमवेतवृत्तिलौकिकविषयतासंबन्धेन
चाक्षुषं प्रति स्वरूपसंबन्धेन चक्षुस्संयुक्तसमवायस्य कारणत्वम्। अत्र
चावयवपरम्परायाः त्र्यणुकपर्यन्तविश्रामपक्षे त्र्यणुके
व्यभिचारनिरासाय कार्यदिशि वृत्त्यन्तम्। यद्यपि
द्रव्यमवेतवृत्तित्वनिवेशने ऽपि परमाणुस्वीकारपक्षे
तदवस्थोदोषः। तथापि द्रव्यान्यत्वस्य
समवेतविशेषणत्वाभ्युपगमात् न दोषः। वृत्त्यन्तं च
रूपत्वादिजातिप्रत्यक्षे व्यभिचारवारणाय बोध्यम्।
रूपत्वादिसामान्यप्रत्यासत्तिजन्यातीतादिरूपादिविषयकालौकिकचाक्षुषमादाय
तद्वारणाय विषयतायां लौकिकत्वनिवेशः। एवं नीलाद्यंशे
ज्ञानप्रत्यासत्तिजन्यपूर्वंनीलरूपवानयमासीदितिप्रत्यक्षे ऽपि
चक्षुस्संयोगविशिष्टनिरूपितसमवायविरहात् व्यभिचारवारणायापि
तथा। एवं द्रव्यसमवेतसमवेतवृत्तिलौकिकविषयतासंबन्धेन
चाक्षुषं प्रति चक्षुस्संयुक्तसमवेतसमवायस्य कारणत्वम्।
योगजधर्मंप्रत्यासत्तिजन्यनिखिलविषयकयोगिचाक्षुषे
जातित्वसामान्यप्रत्यासत्तिजन्यनिखिलजातिचाक्षुषे च
व्यभिचारवारणायात्र लौकिकत्वनिवेशः। स्वतन्त्रत्र्यणुकपक्षे
त्र्यणुकतद्रूपादौ व्यभिचारवारणाय वृत्त्यन्तम्। मतान्तरे ऽपि
तादृशविषयताया आकस्मिकतावारणाय तन्निवेश्यमेव।
शब्दवृत्तिलौकिकविषयतासंबन्धेन श्रावणप्रत्यक्षं प्रति
श्रोत्रसमवायस्य कारणत्वम्, शब्दत्वादौ व्यभिचारवारणाय
वृत्त्यन्तम्। शब्दत्वसामान्यप्रत्यासत्तिजन्ये अतीतादिशब्दविषयके
योगजप्रत्यासत्तिजन्यतादृशप्रत्यक्षे च व्यभिचारनिरसाय
लौकिकत्वनिवेशनम्। शब्दसमवेतवृत्तिलौकिकविषयतासंबन्धेन
श्रावणं प्रति श्रोत्रसमवेतसमवायस्य कारणत्वम्। शब्दे
व्यभिचारवारणाय वृत्तित्वविशेषणम्।
जातित्वसामान्यप्रत्यासत्त्यातीतानागतककारादिवृत्तिकत्वादिजातिप्रत्यक्षे
व्यभिचारवारणाय लौकिकत्वनिवेशः। एवमन्यत्रापि बोध्यम्।
ननु विशेषणतानां
संयुक्तविशेषणतासंयुक्तसमवेतविशेषणतादिभेदेन नानात्वात्
कथं सन्निकर्षंषाड्विध्यम्। यदि च तासां विशेषणतात्वेनानुगमः
तर्हि संयुक्तसमवायादीनां समवायत्वेनानुगमः। किं न
स्यादित्याशंङ्कां निराकरोति -- [138] अत्रेदमवधेयमित्यादिना।
अनुपलब्धेःप्रमाणान्तरत्वनिराकरणम्
[142] विशेषणविशेष्यभावसन्निकर्षेति।
विशेष्यत्वविशेषणत्वान्यतरसन्निकर्षेत्यर्थः। [142] घटोपलब्धिदशायामित्यादि।
लौकिकसन्निकर्षाजन्यतदभाववत्ताबुद्धिं प्रत्येव तद्वत्तानिश्चयस्य
प्रतिबन्धकतया लौकिकसन्निकर्षजन्यघटाभावप्रत्यक्षस्य
घटवत्तानिश्चयदशायामापत्तिः। न च घटाभावरूपविषयविरहादेव न
घटवति देशे घटाभावप्रत्यक्षप्रसंगः। घटासत्त्वे कथं
घटवत्तानिश्चयसंभव इति वाच्यम्। घटशून्यदेशे ऽपि
धर्म्यन्तरघटितसन्निकर्षेण भ्रमात्मकघटवत्तानिश्चयसम्भवेन तत्र
घटाभावप्रत्यक्षापत्तिसम्भवात्। घटादिमति देशे ऽपि
धर्म्यन्तरघटितसन्निकर्षबलेन घटाभावप्रत्यक्षापत्तिसंभवाच्चेति।
[141] प्रमाणान्तरत्वमित्यादि। यद्यप्यन्यत् प्रमाणं प्रमाणान्तरमिति
व्युत्पत्त्या प्रत्यक्षाद्यतिरेकेण प्रमितिकरणत्वं लभ्यते
तत्तुसहकारितयोपगताया अनुपलब्धेः नैयायिकैरप्युपगतम्।
तस्या अभावरूपाया एवाभावप्रमाकरणत्वस्य तैरभ्युपगमात्,
तथाप्यन्तरपदव्यत्यासमुपगम्य प्रत्यक्षाद्यतिरिक्ता या प्रमा तत्करणत्वं
प्रत्यक्षादिप्रमितिविजातीयप्रमितिकरणत्वपर्यवसितं विवक्षितमिति न
को ऽपि दोषः। अभावप्रमितेः प्रत्यक्षरूपाया एव नैयायिकैरुपगमात्।
अत एवाग्रे विजातीयप्रमितिकरणत्वकल्पनमित्युक्तम्। ननु
द्रक्ष्येतेत्यन्तेनैवानुपलब्धौ योग्यतोपपादनात् ऽदर्शनाभावात्
नास्तीऽति वाक्यखण्डवेयर्थ्यमित्याशङ्क्यावतारयति
-- [142] तर्कस्येत्यादिना। [142] विपर्यये - आपादकाभावव्याप्याभावे। प्रतियोगित्वं
कोट्यन्वितं सप्तम्यर्थः। तत्कोटिपर्यवसायित्वं - तस्य तर्कस्य
कोटिः आपाद्यरूपा तद्विषयकत्वमित्यर्थः। [142] सत्त्वस्य - सत्त्वप्रसक्तेः विरोधिनी या उपलब्धिरिति।
उपलब्धेयस्सत्त्वप्रसक्तिविरोधित्वं
चापत्तिहेतुभूतापाद्यव्यतिरेकनिश्चयविघटनद्वारा, न तु
स्वरूपतः। तथा च
सत्त्वप्रसक्तिविरोधित्वं
तद्धतुभूतापाद्यव्यतिरेकनिश्चयप्रतिबन्धकत्वम्। प्रतिबन्धकत्वं
चानाहार्यस्यैव सम्भवतीति अनाहार्यत्वमेव विरोधित्वविशेषणेन
विवक्षणीयम्। अन्यथा
आहार्यप्रतियोग्युपलम्भदशायामभावग्रहानापत्तेरिति वदन्ति [142] विरोधित्वविशेषणमिति। नन्वन्धकारे
योग्योपलम्भविरहात् घटाभावप्रत्यक्षापत्तिरित्याशङ्क्य
निष्कृष्टार्थमाह - [142] प्रतियोगिसत्तेत्यादिना।
प्रतियोगिसत्त्वविषयकापत्तिजन्यापत्तिविषयेत्यर्थः। [142] सङ्क्षेप इति। अत्रायमाशयः - सर्वत्राभावप्रत्यक्षस्थलेऽयद्यत्र
प्रतियोगि स्यात् तर्ह्युपलभ्येतऽ इत्यापादनोत्पत्तौ मानाभाव
इति। [142] प्रतियोगिसत्तापादनेत्यादिना
प्रतियोगिनिष्ठव्याप्यतानिरूपितव्यापकत्वं विवक्षणीयम्। अधिकं
मुक्ताबलीप्रकाशादौ द्रष्टव्यमिति।
अन्धकारे
घटाभावप्रत्यक्षापत्तिमनुपलब्धौ निरुक्तयोग्यताविशेषणमनिवेश्यैव
प्रकारान्तरेण योग्यतां परिष्कृत्य
तन्निवेशेन वारयतां
तर्कितेत्यादिदीपिकावाक्यमपि अन्यथा व्याचक्षाणानां
केषाञ्चिन्मतमाह- [142] केचित्त्विति। अत एव उपलम्भाभावे
तादृशप्रयोज्यत्वविशेषणदानादेव। [142] आहुरित्यस्वरससूचनम्।
तद्बीजन्तु प्रतियोगिसत्त्वे तर्कितत्वविशेषणवैयर्थ्यम्। पूर्वमते
तु अनुपलब्धौ योग्यतानिवेशतात्पर्यग्राहकतया
तर्कितपदस्योपयोगः। एतन्मते तु
प्रतियोगिसत्त्वरूपकारणविरहप्रयोज्यत्वस्यैव योग्यतारूपतया तस्य
च प्रतियोगिसत्त्वविरोधिपदेनैव लाभात् तर्कितपदस्य न
क्वाप्युपयोगः। एवमधिकरणभेदेनाभावभेदविरहात् अन्धकारे
घटाभावप्रत्यक्षापत्त्यवारणं चेति। न्यूनतापरिहारायाह - [143] अत्रेदमिति। [143] तत्र-दर्शितत्रिविधप्रत्यासत्तिमध्ये। ननु
कथमेतादृशार्थलाभ इत्यत्राह - [143] सामान्यमित्यादि। [143] तदिति। धूमत्वादिसामान्येत्यर्थः। [143] तदिति। जातीत्यर्थः।
सामान्यलक्षणेत्यत्र सामान्यशब्दस्य तद्ज्ञानपरत्वे लक्षणापत्त्या
यथाश्रुतार्थानुरोधायाह - [142]
विषयो वेति। ननु
चक्षुस्संयोगादिरूपोक्तसन्निकर्षेणैव निर्वाहे किमस्याः
प्रत्यासतितोपगमेनेत्यत आह - [143] अतीतेति। ननु विनैव
सन्निकर्षमिन्द्रियेण तत्प्रत्यक्षं कुतो न स्यादित्यत्राह - [143] इन्द्रियाणामिति। असन्निकृष्टानामित्यस्य प्रत्यक्षेत्यस्य च
तदर्थेत्यादिः। [143] भान इति। उपयुज्यत इत्यनुषज्यते।
ननु चक्षुस्संयुक्तसमवायेनैव निर्वाहः कुतो न भवतीत्यत्राह -
[143] सौरभेणेति। तदिन्द्रियग्रहणयोग्यपदार्थस्यैव
तदिन्द्रियसंयुक्तसमवायादिः प्रत्यक्षहेतुः न तु
तदिन्द्रियग्रहणायोग्यपदार्थस्य, तथासति
तदिन्द्रियग्राह्याग्राह्यगुणविशेषादिव्यवस्थानुपपत्तेरित्यभिप्रायेणोक्तम्
योग्येति। मुक्तावलीप्रकाशोक्तं
कारणतावच्छेदकसम्बन्धादिकमभिसन्धायाह - सङ्क्षेप इति।
इति
प्रसरणाख्यायां दीपिकाप्रकाशव्याख्यायां
प्रत्यक्षपरिच्छेदः
समाप्तः
। । ।
अनुमानपरिच्छेदः
अनुमानलक्षणम्
[147] प्रत्यक्षोपजीवकत्वसङ्गत्येति। प्रत्यक्षस्य
प्रत्यक्षप्रमाणभूतस्य चक्षुरादेः उपजीवकं कार्यम्, तत्त्वलक्षणया
सङ्गत्येत्यर्थः। निरूपणान्वयि ज्ञानजन्यजिज्ञासाप्रयोज्यत्वं
तृतीयार्थः। ज्ञाने च विषयितया प्रकृत्यर्थान्वयः। सङ्गतिप्रदर्शनं
च विष्याणासमङ्गतत्वज्ञानेन उन्मत्तप्रलपितत्वशङ्कया अनवधानं
स्यादिति तन्निरासाय। पूर्वोत्तरग्रन्थयोः एकवाक्यताप्रतिपत्तिरपि
सङ्गतिप्रदर्शनप्रयोजनमित्यपि द्रष्टव्यम्। तादृशप्रतिपत्तिश्च
ऽअनुमानग्रन्थः प्रत्यक्षग्रन्थैकवाक्यतावान्
प्रत्यक्षग्रनथप्रतिपाद्यार्थसङ्गतार्थप्रतिपादकत्वात्ऽ इत्यनुमानत
इत्याद्यन्यत्र विस्तरः। [147] लक्षयतीति दीपिकावाक्यात्
लक्षणप्रकारकज्ञानजनकशब्दानुकूलकृतिमानित्यर्थो लभ्यते। तत्र
चाग्रे स्वरूपविभागादीनामपि प्रतिपादनात् तदप्रतिज्ञानेन न्यूनता
स्यादिति निरूपयतीत्युक्तम्। निरूपणं च
लक्षणस्वरूपप्रामाण्याद्यन्यतमप्रकारकज्ञानानुकूलशब्दः अतो न न्यूनता।
एवमग्रे ऽपि द्रष्टव्यम्। सङ्ग्रहे [147] अनुमितिकरणमनुमानमिति।
1अनुमानपदस्यानुमानपदार्थत्वावच्छिन्नलाक्षणिकतया तत्पुरुषे
2पूर्वपदलक्षणाविरहपक्षे
ऽघटो घटऽ
इतिवदत्र न निराकाङ्क्षता। अनुमितिकरणत्वं
चानुमितिनिष्ठानुभवत्वव्याप्यधर्मावच्छिन्न्कार्यतानिरूपितकारणताश्रयत्वम्।
1. ननु
ऽअनुमितिकरणमनुमानम्ऽ इति मूले
अनुमानपदस्यानुमितिकरणार्थकताया
अनुमितिकरणमनुमितिकरणम् इति वाक्यार्थपर्यवसानात्
अभेदान्वयस्थले उद्देश्वतावच्छेदकविधेयतावच्छेदकयोर्भेदस्य ऽघटो
घटऽ इति वाक्यप्रामाण्यवारणावस्वीकरणीयत्वात्
अनुमितिकरणत्वस्यैव उद्देश्यतावच्छेदकत्वाद्विधेयतावच्छेदकत्वाच्च
कथमुक्तवाक्यस्य प्रामाण्यमित्यत आह - अनुमानपदस्येति। तथा
चानुमितिकरणत्वमुद्देश्यतावच्देदकम्, अनुमानपदार्थत्वं
विधेयतावच्छेदकमिति तयोर्भेदाल्
अनुमितिकरणमनुमानपदार्थाभिन्नमिति वाक्यार्थे नानुपपत्तिरिति
भावः।
2.
पूर्वदलक्षणाविरहपक्ष इति। पूर्वपदलक्षणापशे तु
अनुमितिसम्बन्ध्यभिन्नकरणत्वमुद्देश्यतावच्छेदकम् अनुमितिकरणत्वं
विधेयतावच्छेदकमिति तयोर्भेदात्
अनुमानपदस्यानुमितिकरणार्थकत्वे ऽपि न निराकाङ्क्षतेति भावः।
1तेन तात्मादौ
अतिव्याप्तिः। ननु परामर्शजन्यं ज्ञानमित्यनुमितेर्लक्षणं
किमर्थमुक्तम्? न च घटितज्ञाने घटकज्ञानस्य
कारणत्वादनुमितिज्ञानमन्तरा तद्घटितानुमानलक्षणज्ञानं न
सम्भवतीति तदुक्तिसाफल्यामिति वाच्यम्।
तथाप्यनुमितिस्वरूपप्रदर्शनमात्रणैव तन्निसद्धेः
तल्लक्षणकथनानुपयोगात् इत्याशङ्क्य तल्लक्षणाकथते ऽनुमानस्य
प्रमाणान्तरत्वं न सिध्यति प्रत्यक्षानुमितिप्रमित्योः
मूल पाठ: Tarkasaṃgraha with autoentary (Dīpikā), Nīlakaṇṭha's Dīpikāprakāśikā and Bālapriyā · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0