तर्कसंग्रह (टीका सहित) · भाग 401420
विरोधार्थकः। विरोधश्च
समभिव्याहृतपदार्थन्तावच्छेदकैकत्वाधिकरणनिरूपितोपाधिभेदानवच्छि न्नवृत्तिकत्वाभावः।
तस्य च सम्बन्धे अन्वयः। तथा च
एकत्वविरुद्धोपाधिभेदप्रयुक्तप्राणापानादिसंज्ञानिरूपितसंबधाश्रयः
स इति बोधः।
केचित्तु अपिशब्दस्य
विरोधार्थकतामाहुः। तदसत्। धर्मिणि
तादृशसम्बन्धाश्रयत्वभानेनैव तादृशसम्बन्धाश्रयत्वे
एकत्वाविरोधलाभेन पृथक्कथनवैयर्थ्यात्। अस्मन्मते तु
विरोधतत्सामानाधिकरण्ययोरेकत्र संभवप्रदर्शनपरतया
तत्सार्थक्यात्। के ते उपाधय इत्याशङ्कायामुपाधिशब्दार्थमाह
दीपिकायाम् [82] स्थानेति। तत्र प्रमाणमाह प्रकाशिकायाम्
[82] हृदि प्राण इत्यादि इति।
सृष्टिसंहारप्रक्रिया
दीपिकायाम् [85] चिकीर्षावशादिति। यद्यपीश्वरेच्छा नित्यैव। तथाप्येतत्काले
परमाणौ क्रिया भूयादिति रीत्या तस्याः कालविशेषावगाहितया
तत्काल एव तत्र क्रियात्पत्तिः नान्यदेति नियम उपपद्यते। एवं
संजिहीर्षावशादित्यत्रापि बोध्यम्। चाक्षुषद्रव्यत्वादित्यत्र चाक्षुषं
यत् द्रव्यत्वमित्यर्थविवक्षायामात्मनि व्यभिचारतादवस्थ्यमभिसन्धाय
द्रव्यपदेन कर्मधारयं 1कर्मधारयोपरिऽ इत्यादिन्यायं
चाभिप्रेत्यार्थमाह- [85] चाक्षुषत्वे सतीत्यादि। [85] रूपादाविति। इदं च जन्यद्रव्यत्वस्य साध्यताभिप्रायेण।
द्रव्यसमेवतत्वरूपसावयवत्वसाधने तु घटाभावादौ व्यभिचारो
बोध्यः। एतत्संग्राहकमेवादिपदमिति ध्येयम्। [85] कार्यत्वे ऽनवस्थाप्रसङ्गादिति।
अवयवत्वव्यापकसावयवत्वकत्वरूपाव्यवस्थितपरम्परा
धीनमेरुसर्षपगतपरिमाणतारतम्यानुपपत्तिरूपानिष्टप्रसज्जनाद् इत्यर्थः।
तथा च ऽत्र्यणुकावयवः सावयवः महादारम्भकत्वात्ऽ इत्यत्र
उक्ततर्कबलात् नित्यावयवसमवेत इत्यनुमितिरुत्पद्यत इति भावः।
[86] प्रकाशिकायां संक्षेप इति। अयमत्र भावः।
यद्यपि त्रुटिमहत्त्वस्य नित्यत्वोपगमे अवयवसंख्यायाः
नापेक्षेति
दर्शितानुमानस्याप्रयोजकत्वशङ्का दुर्वारा, तथापि ---
ऽजालसूर्यमरीचिस्थं
यत्सूक्ष्ममुपलभ्यते।
तस्य षष्ठतमो भागः
परमाणुःप्रकीर्तितः॥ऽ
इति
स्मृतिप्रामाण्यबलात् द्व्यणुकपरमाण्वोः स्वीकार आवश्यक इति।
दिगिति। अत्रायमाशयः-- सर्वशब्दस्य
स्वसमभिव्याहृतपदार्थतावच्छेदकव्यापकत्वार्थकतया
कार्यद्रव्यत्वव्यापकत्वमवान्तरप्रलयस्य, भावकार्यत्वव्यापकत्वं
महाप्रलस्य च लक्षणम्। व्यापकत्वं च
स्वनिष्ठध्वंसप्रतियोगितासंबन्धेन। स्वननिष्ठत्वं च
कालिकसंबन्धेन। एतेन कार्याणां भावकार्याणां चानन्तानां
विशिष्यासर्वज्ञदुर्ज्ञेयत्वेन तावद्ध्वंससमुदायत्वस्य सुतरां
परिज्ञानासम्भवात् एतल्लक्षणकथनमसंगतमित्यपास्तमिति।
आकाशनिरूपणम्
[88] द्योतनायेति। तथा च शब्दगुणकमिति
संग्रहवाक्ये ऽसर्व वाक्यऽमिति न्यायेन शब्द एव गुणो विशेषगुणो
यस्मिन्निति बहुव्रींहिरिति भावः। ननु तच्चैकमिति संग्रहवाक्ये
आकाशस्यैकत्वमुक्तम्, तन्न युक्तम्,
1.
कर्मधारयोपरीत्यादिन्यायमिति। कर्मधारयोपरि विद्यमानः
भावार्थकप्रत्ययः सामानाधिकरण्यबोधक इति न्यायमित्यर्थः।
घटाकाशो मठाकाश
इत्यादिव्यवहारस्य आकाशानेकत्वसाधकस्य सत्त्वात्, व्यवहारभेदे
व्यवहर्तव्यभेदस्यैव नियामकत्वात्। तथा च ऽघटाकाशव्यवहारः
मठाकाशत्वावच्छिन्नभिन्ननिष्ठव्यवहर्तव्यताकः
मठाकाशत्वभिन्नधर्मावच्छिन्नव्यवहर्तव्यताकव्यवहारत्वात्, यो
यद्धर्मभिन्नधर्मावच्छिन्नव्यवहर्तव्यताकव्यवहारः स
तद्धर्मावच्छिन्नभिन्ननिष्ठव्यवहर्तव्यताकःऽ इति
सामान्यव्याप्त्युपष्टभ्यमनुमानमत्र मानमित्याशङ्कायां
ऽव्यवहर्तव्यतावच्छेदकभेद एव व्यवहारभेदनियामकः, अन्यथा
प्राणापानादिव्यवहारभेदानुपपत्तेः। एवं च दर्शितानुमाने
प्राणापानादिव्यवहारमादाय व्यभिचारः। तथा च प्रकृते
घटमठादिरूपव्यवहर्तव्यतावच्छेदकभेदेन तादृशव्यवहारोपपत्तौ
न तस्याकाशभेदसाधकत्वम्ऽ इति समाधानमभिसन्धायाह- [88] घटाकाशो मठाकाश इत्यादीति। [88] अनेकत्वे -
आकाशत्वन्यूनवृत्तिधर्मवत्त्वे। [88] प्रमाणम् - प्रमा, तस्य
विशेष्यतासम्बन्धावच्छिन्नप्रतियोगिताकाभावदित्यर्थः। तथा च
ऽआकाशं आकाशत्वन्यूनवृत्तिधर्मशून्यं,
तादृशधर्मवत्त्वप्रकारकप्रमाविशेष्यत्वाभावात्, यन्नैवं तन्नैवम्ऽ
इति व्यतिरेक्यनुमानमाकाशस्य एकत्वे प्रमाणमुपदर्शितम्। [88] एकत्वादेवेति। आकाशत्वन्यूनवृत्तिधर्मशून्यत्वादेवेत्यर्थः।
केचित्तु -
आकाशत्वव्याप्यधर्मविरुद्धधर्माव्यापकाकाशत्वकत्वमेव आकाशे
एकत्वम्। अत्रायमनुगमः-भेदविशिष्टाकाशत्वकत्वं तत्। वैशिष्ट्यं च
स्वप्रतियोगितावच्छेदकत्वस्वाश्रयत्वोभयसम्बन्धेन। अवच्छेदकता
स्वव्याप्यधर्मविशिष्टत्वसम्बन्धेन। वैशिष्ट्यं च
स्वविरुद्धधर्मविशिष्टत्वसम्बन्धेन। वैशिष्ट्यं च
स्वसेत्यादिभेदवत्त्वसम्बन्धेन - इत्याहुः।
यत्तु
विभाजकधर्मद्वयशून्यत्वं तदिति। तत्तुच्छम्। पदार्थविभाजकद्रव्यत्व
- द्रव्यविभाजकाकाशत्वयोः सत्त्वेनासम्भवापत्तेः।
आकाशविभाजकत्वनिवेशने च सिद्ध्यसिद्धिभ्यां व्याघातापत्तेरिति
ध्येयम्। आकाशकालदिगात्मनां साधारणं विभुत्वं न जातिः।
तत्साधिकायाः अनुगतप्रत्यक्षधियो ऽसंभवात्, तेषु रूपाद्यभावात्,
अनन्यथासिद्धलिङ्गानुपलम्भेनानुमानासम्भवात्। शब्दस्य
चाप्तोक्तत्वानिश्चयेन सन्दिग्धप्रामाण्यकत्वात्, अन्यथा
वैपरीत्यस्यापि सुवचत्वात्। न च विभुपदवाच्यतावच्छेदकतया
विभुत्वजातिसिद्धिरिति वाच्यम्। 1तुल्ययुक्त्या भूतत्वस्यापि
सिद्ध्यापत्त्या प्रागुक्तत्रितयसम्बन्धेन तद्विशिष्टत्वरूपजातिसांकर्यस्य
जातित्वाभावव्याप्यतया गृहीतस्य जातिबाधकस्य सत्त्वेन तस्य
जातित्वासिद्धेः।
यत्तु
परममहत्परिमाणवत्त्वं विभुत्वमिति। तन्न। ऽवैभवात्
महानाकाशस्तथा चात्माऽ इति सूत्रे कणादेन
परममहत्वसाधकलिङ्गात्वेन विभुत्वस्योक्तत्वात्
परममहत्परिमाणवत्त्वस्य तत्स्वरूपतायाः सूत्रकाराननुमतत्वात्
इत्यभिप्रायेण प्रकारान्तरेण विभुत्वं निर्वक्ति- [88] सर्वमूर्तेति। अत्र च पटादिसंयुक्तघटादिवारणाय सर्वपदम्।
विभूनां
क्रियाविरहेण परस्परसंयोगाभावात् असंभवनिरासाय मूर्तपदम्।
मूर्तत्वस्य क्रियासमवायिकारणतावच्छेदकतया
सिद्धजातिविशेषरूपत्वपक्षे
प्राचीनाभिमतोत्पन्नविनष्टद्रव्यमादायासम्भववारणाय द्रव्यपदं
संयोगवदर्थकम्। अत एवोक्तदोषवारणाय मूर्तपदं
नित्यमूर्तपरमिति प्रलपितमनादेयम्। द्रव्यपदवैयर्थ्यापाताच्च।
ऽक्रियावत्त्वं मूर्तत्वम्ऽ इति मते उत्पन्नविनष्टद्रव्यानुपगन्तृनये
वा नोपादेयमेव तत्।
अथ
ऽसर्वमूर्तद्रव्यसंयोगित्वम्ऽइत्यस्य सर्वाणि यानि मूर्तद्रव्याणि
तावत्प्रतियोगिकसंयोगवत्त्वार्थकत्वे
तावत्प्रतियोगिकैकसंयोगाप्रसिद्ध्या असम्भवः। तावतां
प्रत्येकप्रत्येकप्रतियोगिकसंयोगसमुदायवत्त्वार्थकत्वे
घटपटसंयोगादेरपि तादृशसमुदायघटकतया
तद्घटितसमुदायवत्त्वस्य आकाशादावभावात् स एव दोषः। यत्तु -
यावन्ति मूर्त द्रव्याणि तेषां
प्रत्येकप्रतियोगिकैकसंयोगघटितसमुदायवत्त्वं तदिति - नैष
दोषः। न च मूर्तत्वजातिपक्षे
1. तुल्ययुक्त्येति।
भूतपदवाच्यतावच्छेदकतयेत्यर्थः। प्रागुक्तेति।
स्वसामानाधिकरण्यस्वाभावसामानाधिकरण्यस्वसमानाधिकरणात्यन्ताभावप्रतियोगित्वैतत्त्रितयसंबन्धेनेत्यर्थः।
उत्पन्नविनष्टपृथिव्यादेरपि तदाश्रयतया
सर्वमूर्तानतर्गतत्वेन तत्प्रतियोगिकसंयोगाप्रसिद्ध्या न
तद्घटितसंयोगसमुदायवत्त्वमाकाशादावित्यसम्भवतादवस्थ्यमिति
वाच्यम्। द्रव्यपदस्य संयोगवदर्थकतायाः प्रागेवावेदिततया
तादृशपृथिव्याद्यसंग्रहात् मूर्तपदस्य क्रियावत्परत्वे
सुतरामदोषाच्चेति। तत्तुच्छम्। अपेक्षाबुद्धिविशेषविषयत्वरूपस्य
आकाशादिचतुष्टयघटकप्रत्येकमात्रसमवेतसंयोगसमुदायपर्याप्तसमुदायत्वस्य
भिन्नभिन्नतया तादृशैकैकसमुदायत्वावच्छिन्नवत्त्वस्य
विभुसामान्यलक्षणत्वोपगमे वाच्यतासम्बन्धेन
विभुपदवत्त्वरूपलक्ष्यतावच्छेदकवत्यन्यस्मिन् तस्यासत्त्वात् अव्याप्तेः।
तत्तत्समुदायचतुष्टयवत्त्वस्य लक्षणत्वे असंभवापत्तेः। तस्य
कुत्राप्यसत्त्वात्। तावदन्यतमवत्त्वस्य तथात्वे तादृशान्यतमत्वस्य
तत्तत्समुदायत्वावच्छिन्नेभेदचतुष्टयवदन्यत्वरूपतया
व्यासज्यवृत्तिधर्मावच्छिन्नानुयोगिताकाभावानुपगमे असम्भवापत्तेः।
तदुपगमे च घटाकाशादिसंयोगस्यापि तादृशान्यतमत्वाश्रयतया
घटादावतिव्याप्तेः कथमिदं संगच्छते।
यदपि
ऽसर्वमूर्तद्रव्यसंयोगित्वम्ऽ इत्यनेन मूर्तद्रव्ये
गगनादिसंयुक्तत्वं नास्तीति लभ्यते। एवं च स्वासंयुक्तमूर्तद्रव्यकं
यद्यत्स्वं तत्तद्व्यक्तित्वावच्छिन्नप्रतियोगिताकभेदकृटवत्त्वं लक्षण
फलितम्। अत्र गगनाद्यसंयुक्तमूर्ताप्रसिद्ध्या स्वपदेन
गगनाद्युपादानासम्भवात् गगनादौ लक्षणसमन्वयः। गगनादेरपि
स्वासंयुक्तगुणादित्वादसम्भववारणाय मूर्तेति। मूर्तत्वजातिपक्षे
तदाश्रयोत्पन्नविनष्टघटादेरपि स्वासंयुक्तत्वादसम्भववारणाय
संयोग्यर्थकं द्रव्यपदम्। तादृशघटादेश्च गगनाद्यसंयुक्तत्वे ऽपि
संयोगित्वविरहान्नासम्भवः। न चैवं मूर्तपदवैयर्थ्यम्,
गुणादेरतथात्वादिति वाच्यम्। तथापि गगनादेः
स्वासंयुक्तगगनादिकत्वात्
तद्दोषावारणाय
तस्यावश्यकत्वादिति - तदप्यसत्।
कालान्तरीणपुरुषान्तरीयमूर्तपदार्थव्यक्तीनां
विशिष्यास्माभिर्ज्ञातुमशक्यतया तादृशभेदकूटघटितलक्षणस्य
दुष्करत्वात्। स्वासंयुक्तमूर्तसंयुक्तकत्वतादात्म्योभयसम्बन्धेन
प्रमेयविशिष्टान्यत्वस्यानुगतस्य लक्षणत्वसम्भवे ऽपि
स्वसंयुक्ताप्रसिद्ध्या संयुक्तत्वसंबन्धेन
स्वावच्छिन्नभिन्नत्वघटितलक्षणस्य रूपादावतिव्याप्तेः, स्वातन्त्र्येण
द्रव्यत्वनिवेशेन तद्वारणे ऽपि उत्पन्नविनष्टपृथिव्यादावतिव्याप्तेः।
द्रव्यत्वस्थले संयोगित्वं निवेश्य तत्परिहारे ऽपि महागौरवात्
वक्ष्यमाणरीत्या यथाश्रुतशब्दलभ्यार्थस्य निर्देषस्य संभवे
तत्परित्यागेनार्थान्तरं परिकल्प्य तत्र दोषान्तरव्युदासाय
विशेषणान्तरनिवेशस्य 1प्रक्षालनाद्धिन्यायेनायुक्तत्वाच्च।
एतेन
स्वासंयुक्तेत्यनेन
स्वनिष्ठसंयुक्तत्वसम्बन्धावच्छिन्नप्रतियोगिताकात्यन्ताभावविवक्षणान्नोत्पन्नविनष्टपृथिव्यादावतिव्याप्तिः।
एवं क्रियावदवृत्तिद्रव्यविभाजकधर्मत्त्वं
मूर्तत्वजातिव्यधिकरणद्रव्यविभाजकधर्मवत्त्वं वा
सर्वमूर्तद्रव्यसंयोगित्वमित्यनेन विवक्षितम्। तादृशधर्मवत्ता च
स्वरूपसमवायान्यतरसम्बन्धेन। नातः कालात्मादावव्याप्तिरित्यपि
परास्तम्। उदक्षरताया दुर्वारत्वात्।
अन्यतरत्वघटकयोर्भेन्दयोर्मिथो विशेषणविशेष्यभावे
विनिगमनाविरहेण
विभुपदार्थद्वैविध्यप्रसङ्गाच्च।
अत्रोच्यते -
सर्वमूर्तेत्यादेर्मूर्तद्रव्यत्वव्यापकत्वमर्थः। सर्वशब्दस्य
समभिव्याहृतपदार्थतावच्छेदकव्यापकत्वार्थकत्वात्। व्यापकता च
स्वानुयोगिकसंयोगप्रतियोगित्वसंबन्धेन। एतल्लाभायैव
संयोगीत्युक्तम्। यद्यपि स्वानुयोगिकसंयोगप्रतियोगित्वसम्बन्धेन
मूर्तद्रव्यत्वव्यापकत्वं
मूर्तद्रव्यनिष्ठात्यन्ताभावीयतादृशसम्बन्धावच्छिन्नप्रतियोगिताशून्यत्वपर्यवसितम्,
वृत्त्यनियामकसम्बन्धस्यात्यन्ताभावप्रतियोगितानवच्छेदकत्वमते न
प्रसिद्ध्यति, तथापि
मूर्तद्रव्यनिष्ठभेदप्रतियोगितानिरूपितनिरुक्तसम्बन्धावच्छिन्नावच्छेदकताशून्यत्वरूपं
तदिह विवक्षितम्। अत्यन्ताभावप्रतियोगितावच्छेदकस्यापि
वृत्त्यनियामकसंबन्धस्यान्योन्याभावप्रतियोगितावच्छेदकतावच्छेदकतायाः
1.
प्रक्षालनाद्धिन्यायेति। ऽप्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम्ऽ
इति न्यायेनेत्यर्थः।
सर्वसंमतत्वादिति
मदेकपरिशीलितः पन्थाः।
ननु परिमाणे
परिच्छन्नत्वं नापकर्षरूपम्, येनोक्तदोषः स्यात्। अपि
त्वाकाशाद्यन्यतमासमवेतत्वम्।
यत्तु -
विभ्वसमवेतत्वं तदिति - तदसत् - विभुत्वस्य
मूर्तत्वघटितत्वेनान्योन्याश्रयप्रसङ्गात्। अतो न परमाणुषु
अवयाप्तिरिति मनसि निधायाह -- प्रकाशिकायाम् [88] वस्तुतस्त्विति।
कालनिरूपणम्
[89] अनागतादीत्यादिना वर्तमानपरिग्रहः।
[90] घटकतयेति। अतीतादिव्यवहारं प्रति
1अतीतत्वादिप्रकारकज्ञानस्य कारणतया
तादृशव्यवहारजनकतावच्छेदकप्रतियोगित्वप्रकारतानिरूपितध्वंसप्रकारता-
निरूपिताधेयत्वप्रकारतानिरूपितप्रकारताद्याश्रयतयेत्यर्थः,
अभेदस्तृतीयार्थहेतुत्वान्वितः। वस्तुतस्तु अतीतत्वं
स्ववृत्तिध्वंसप्रतियोगित्वसम्बन्धेन, ऽअतीतिऽ इति
शब्दप्रयोगाधिकरणकालवत्त्वम्। भविष्यत्वं च
स्ववृत्तिप्रागभावप्रतियोगित्बसम्बन्धेन भविष्यतीति
शब्दप्रयोगाधिकरणकालवत्त्वम्। वर्तमानत्वं च आधेयतासम्बन्धेन
वर्तत इति शब्दप्रयोगाधिकरणकालवत्त्वम्। एवं च व्यवहारे
व्यवहर्तव्यतावच्छेदकप्रकारकज्ञानस्य कारणतया
तदवच्छेदकविषयतावत्त्वरूपं व्यवहारहेतुत्वं कालस्याक्षतमेव।
घटकतयेत्यस्यापि तादृशविषयताश्रयतयेत्यर्थः। अभेदस्तृतीयार्थः।
प्रागभावानुपगमे पुनः भविष्यतीति
शब्दप्रयोगाधिकरणक्षणध्वंसावच्छिन्नकालोत्पत्तिकत्वरूपं
स्वध्वंसावच्छिन्नकालोत्पत्तिकत्वसंबन्धेन
तादृशक्षणविशिष्टत्वपर्यवसितं निर्वाच्यमिति ध्येयम्।
जनकतावच्छेदिका च
विषयता
मुख्यविशेष्यतानिरूपितप्रकारत्वरूपा पूर्वङ्कल्पे ऽ चरमकल्पे तु
1.
अतीतत्वादिप्रकारकज्ञानस्येति। घटः
वर्तमानकालवृत्तिध्वंसप्रतियोगो इत्याकारकज्ञानस्येत्यर्थः।
तादृशव्यवहारजनकतावच्छेदकेत्यस्य अन्तिमप्रकारतायामन्वयः।
प्रतियोगित्वनिष्ठप्रकारतानिरूपिता या ध्वंसनिष्ठप्रकारता
तन्निरूपिता या
आधेयत्वनिष्ठप्रकारता तन्निरूपिता या वर्तमानकालनिष्ठप्रकारता
तदाश्रयतयेत्यर्थः।
मुख्यविशेष्यतानिरूपितप्रकारत्वमुख्यविशेष्यतानिरूपितसंसर्गतानिरूपितोत्पत्तिविषयतानिरूपितविषयत्वान्यतररूपा
ग्राह्या, अतो नातिप्रसङ्ग इति। [90] अनुगतस्येत्यादि।
प्रतिक्षणदिनादिकं सूर्यपरिस्पन्दादेर्भिन्नभिन्नत्वात्
तत्रातीतादिव्यवहारानुपपत्तेरिति भावः।
[90] दिगिति। यद्यपि
अतीतादिव्यवहारस्यानुगतकालविषयकत्वे वर्तमानादावपि
तादृशव्यवहारापत्त्याननुगतसूर्यपरिस्पन्दादिरूपोपाधिविषयकत्वमेवानायत्या
स्वीकर्तव्यमिति नोक्तरीत्या अतिरिक्तकालसिद्धिः। तथापि
कालिकपरत्वाद्यसमवायिकारणसंयोगाश्रयतया आकाशादीनां प्रत्येकं
विनिगमनाविरहात् अतिरिक्तकालः सिध्यतीति कालिकसम्बन्धेन
सर्वाधारत्वस्य क्रियादावतिव्याप्तिभ्रमं निराकारोति -- [90] अत्रेत्यादिना। प्रतीच्यादीत्यादिना उदीचीदक्षिणयोः परिग्रहः।
आत्मनिरूपणम्
[92] समवायेन ज्ञानवदित्यर्थ इति। अन्यथा
कालिकादिना ज्ञानवति कालादावतिव्याप्तिरिति भावः। [92] विरोध इतीति। 1तया ईश्वरस्य ज्ञानस्वरूपत्वबोधनादिति
भावः। ऽ(नित्यं) विज्ञानम्ऽ इति श्रुतौ विज्ञानपदस्य अर्श आद्यजन्यत्वं
वा नन्द्यादित्वात् कर्तरिल्युप्रत्ययान्तत्वं वाभिप्रेयत्याह - [93] विज्ञानवदर्थकतेति। नन्वीश्वरे सुखाभावात् कथमुक्तश्रुतेः
प्रामाण्यमित्याशङ्क्याह - [93] अत्रेति। [93] सुखी
संवृत्तो ऽहमितिवदिति। तादृशवाक्यस्थसुखशब्द इवेत्यर्थः।
अत्र-उक्तश्रुतौ, आनन्दः- आनन्दशब्दः दुःखाभावे उपचर्यत इति।
सप्तम्या आधेयत्वमर्थः। उपचारो लक्षणा। निरूपकत्वमाश्यातार्थः।
तथा च दुःखाभावनिष्ठलक्षणानिरूपकः उक्तश्रुतिस्थानन्दशब्द इति
फलितम्।
1. तेयति। ऽनित्यं
विज्ञानमानन्दं ब्रह्मऽ इति श्रुत्येत्यर्थः।
श्रुतिवाक्यस्थपदस्यासति बाधके लक्षणा न युक्तेत्यानन्दशब्दस्य
मुख्यार्थपरत्वं वर्णयतां नवीनानां मतमाह [93] नवीनास्त्विति। नन्वीश्वरे जन्यमुखाभावात् कथमानन्दशब्दस्य
मुख्यार्थकत्वमत आह -- [93] नित्यसुखमिति। दर्शितश्रुतिबलादित्यादिः।
[93] विजातीयेति। अन्यथा परात्मनः परेण मनसा प्रत्यक्षापत्तेरिति
भावः।
इदमत्र बोध्यम् -
ऽआत्मा बाह्यप्रत्यक्षीयलौकिकविषयताशून्यः
उद्भूतरूपशून्यद्रव्यत्वात्ऽ, ऽजीवगतसुखाद्यतिरिक्तं
मानसीयलौकिकविषयत्वाभाववत्
विजातीयमनोयोगतदाश्रयसमवेतत्वादिशून्यत्वात्,
गगनादिवत्ऽइत्यनुमानद्वयं विवक्षितम्। तेन न चार्वाकमते
पक्षाप्रसिद्धिः। अवच्छेदकावच्छेदेन साध्यसिद्धेरुद्देश्यत्वात्
नांशतस्सिद्धसाधनम्। [92] नाप्यनुमानम् लिङ्गाभावादित्यत्रापि
प्रमेयसामान्यं
स्वव्यतिरिक्तात्मसाधकत्वसम्बन्धावच्छिन्नजीवनिष्ठप्रतियोगिताकात्यन्ताभाववत्
वस्तुत्वादित्यनुमानमवसेयमिति।
[93] दिगिति। अयमत्र भावः - यद्यपि
कुलालकृतित्वाद्यवच्छिन्नसत्त्वे घटत्वाद्यवच्छिन्नसत्त्वं तदभावे तदभाव
इत्यन्वयव्यतिरेकाभ्यां घटत्वादिकुलालादिकृतित्वाभ्यामेव
कार्यकारणभावस्सिध्यति, तथापि यद्विशेषयोरितिव्याप्तिबलात्
कार्यत्वावच्छिन्नं प्रति कृतित्वेन कारणत्वमप्यावश्यकम्। एवं
कार्यत्वावच्छिन्न प्रति ज्ञानत्वेच्छात्वाभ्यामपि तथात्वं
तादृशान्वयव्यतिरेकाविशेषात्। एवं च ऽकार्यं कृतिजन्यं
कार्यत्वात्ऽ इत्यनुमानमिव
ऽकार्यं ज्ञानजन्यं
इच्छाजन्यञ्च कार्यत्वात्ऽ इत्यनुमानद्वयमपि विवक्षितामिति,
[93] अपरोक्षज्ञानादेरित्यादिपदेन चिकिर्षापरिग्रहः। [93] चिकिर्षादिकमित्यादिपदेन कृतिपरिग्रहः। ननु ऽयः सर्वज्ञः
सर्ववित्ऽइति श्रुतौ सर्वज्ञशब्देनैव ईश्वरस्य
सर्वविषयकज्ञानत्वलाभे पुनः सर्ववित्पदं व्यर्थमित्याशङ्क्याह -
[93] सर्वविदितीति। वस्तुतस्तु सर्वविदित्यस्य सर्वं विदन्तीति
व्युत्पत्त्या सर्वव्याप्त इत्यर्थः। विद लाभ इति धातोः क्विपि
तादृशार् थसम्भवादिति ध्येयम्।
ननु [92] जीवस्य लक्षणमाह - जीव इतीति दीपिकायाम् [91] जीवस्तु प्रतिशरीरं भिन्न इति संग्रहवाक्यावतरणमयुक्तम्।
प्रतिशरीरं भिन्नत्वस्य इन्द्रियादिसाधारणतया
जीवलक्षणत्वासम्भवात्, अतो लक्षणपदस्य बहुलग्रहणसामर्थ्यात्
लक्ष्यत इदमिति व्युत्पत्त्या कर्मणि ल्युडन्तत्वमाश्रित्य
स्वरूपपरत्वमभिसन्धाय व्याचष्टे - [93] स्वरूपमाहेस्यर्थ इति।
[93] मूले प्रति शरीरं भिन्न इति। अत्र च
प्रतिपदसमभिव्याहृतद्वितीयायाः
आधेयताश्रयभेदप्रतियोगितावच्छेदकत्वमभावश्च
खण्डशोर्ऽथः। अन्यथा सामान्यतो व्यापकत्वस्य व्याप्यविशेषाघटितस्य
दुर्वचत्वेन द्वितीयार्थतानुपपत्तेरिति ध्येयम्।
ननु ऽप्रतिशरीरं
भिन्नऽ इति वाक्यात् प्रतिद्रव्यं सत्तेत्यादिषु द्रव्यत्वव्यापिका
सत्तेत्याद्यर्थवत् प्रतिपदसमभिव्याहृतशरीरपदस्य
शरीतत्वव्यापकत्वार्थकतया शरीरत्वव्यापकभेदप्रतियोगीत्यर्थो
लभ्यते। तच्च न घटते। जीवात्मन्येकत्वोपगमे ऽपि
ईदृशार्थनिर्वाहात् आत्मभेदस्य शरीरत्वव्यापकत्वाक्षतेः।
अत्रोच्यते - न हि भेदस्य शरीरत्वव्यापकत्वं स्वरूपसंबन्धेन
विवक्षितम्। येनैवं स्यात्। अपि [तु] स्वसमानाधिकरणभोगावच्छेदकत्वस्वप्रतियोगितावच्छेदकत्वोभयसंबन्धेन
अवच्छेदकता
स्वविशिष्टयोगजधर्माद्यजन्यशरीरावच्छिन्नभोगवत्त्वसंबन्धेन। शरीरे
स्ववैशिष्ट्यं च स्वभिन्न
[त्व] स्वसमानकालीनत्वोभयसंबन्धेन। अतो
नोक्तदोषः। एतदेवाभिप्रेत्याह - [93] समानाकालिकेत्यादि। किं
तर्हि जीवलक्षणमित्याशङ्कायामाह - दीपिकायाम् [92] सुखादिकं जीवलक्षणमिति। अत्र सुखोपादानं
प्राचीनमतमनुसृत्य। अन्यथा नवीनमते उक्तरीत्या
ईश्वरे ऽतिव्याप्तेः। आदिना दुःखद्वेषयोः परिग्रहः।
प्रकाशिकायाम् [93] अन्यथा-शरीरातिरिक्तस्यात्मत्वे। सिद्धान्ते मनुष्यादिशब्दस्य
स्ववृत्तिचेष्टासाधारणकारणयत्नवत्त्वसंबन्धेन
मनुष्यादिशरीरावच्छिन्नात्मपरतया
मनुष्यो ऽहमित्यादिप्रतीत्युपपत्तिरित्यभिसन्धायोक्तम् [93] अभिमान इति।
[94] यन्मध्यमपरिमाणमित्यादि। परिमाणे
मध्यमत्वं च परमाणुत्वपरमहत्त्वभिन्नत्वम्। तथा चात्मनस्तथात्वे
यथादेहं तस्यापि
सङ्कोचविकासशालित्वापत्त्या अनित्यत्वप्रसङ्ग इति भावः।
[94] दिगिति। अयमत्र भावः- यदि च
कायव्यूहस्थले शरीरान्तरे ऽपि सुखादिसाक्षात्कारोपपत्तये
प्रभाप्रसरणमङ्गीक्रियते, तदा अन्यत्रादृष्टस्येह कल्पनमनुपपन्नम्;
दृष्टानुरोधेनैव कल्पनस्य सर्वसम्मतत्वात्।
एकग्रहवर्तिदीपप्रसरणस्य ग्रहान्तरे ऽदृष्टेः। एवं
व्यापित्वप्रतिपादकागमो ऽपि तत्र प्रमाणमिति।
मनोनिरूपणम्
दीपिकायाम् [98] स्पर्शरहितत्वे सतीति। वायावतिव्याप्तिभिया
रूपादिरहितत्वोपेक्षणम्। सङ्ग्रहे [98] प्रत्यात्मनियतत्वादिति।
अत्र केचित् - यावन्तः
आत्मानः तावतां मनसां वाच्यत्वात् मनसो ऽनन्तत्वमिति
विशिष्टार्थः। तल्लाभः कथमिति चेत् इत्थम् -
प्रतिपदसमभिव्याहृतमात्मपदं प्रातिस्विकरूपेण तत्तदात्मव्यक्तिपरम्।
तन्नियतत्वं च तदन्यासम्बन्धित्वम् तच्च
तदन्यसमवेतज्ञानाजनकत्वम्। तथा च
स्वजन्यज्ञानाश्रययत्किञ्चिदात्मभिन्नसमेवतज्ञानाजनकत्वादित्यर्थः।
एकैकस्य मनस इति शेषः। ज्ञानज्ञाप्यत्वं पञ्चम्यर्थः अनन्तत्वे
अन्वेतीति - तत्तुच्छम्। आत्मशब्दस्यात्मत्वजातिविशिष्टशक्तितया
तत्तद्व्यक्तित्वावच्छिन्नपरत्वे तस्य लक्षणाप्रसङ्गात्।
आत्मनामनन्तत्वेन विशिष्ट दुर्ज्ञेयत्वाच्च।
वस्तुतस्तु
नियतत्वमत्र भेदाश्रयत्वम्; भेदे चात्मनः
प्रतिपदीसमभिव्याहारबलात्
1स्वसेत्यादिभेदवत्त्वरूपव्यापकतासंबन्धेन अन्वयः। स्वाधिकरणता
तादात्म्यसंबन्धेन।
1.
स्वसेत्यादिभेदवत्त्वेति।
स्वसमानाधिकरणभेदप्रतियोगितावच्छेदकत्वसंबन्धावच्छिन्नस्वनि ष्ठावच्छेदकताकप्रतियोगिताकभेदवत्वसंबन्धेनत्यर्थः।
भेदः
स्वभिन्नसमवेतज्ञानजनकत्वसम्बन्धावच्छिन्नस्वप्रतियोगितावच्छेदकत्वस्वाश्रयमनोजन्यज्ञानसमवायित्व-
उभयसंबन्धेन। एवं चात्मपदस्य मुख्यार्थपरतापि सुतरां
सङ्गच्छते। अत एव सङ्ग्रहटिप्पण्यामुक्तमर्थान्तरमपि
दूरतो ऽपास्तम्। ननु लाघवात् सर्वेषामप्यात्मनां एकमेव मन
आस्तामित्यत्राह - [99] सर्वात्मनामित्यादि। ननु मनसो ऽणुत्व एव
उक्तदोषः स्यात्। न हि वयं तस्याणुत्वं स्वीकुर्महे। अपि तु
विभुत्वमेव। तथा च सर्वात्मनां मनस एकत्वे ऽपि सर्वेन्द्रियैरेकदा
संयोगसम्भवात् नैकस्य पुंसः ज्ञानदशायां अपरस्य
तदनुपपत्तिरित्यभिप्रायेण शङ्कते - दीपिकायाम् [99] ननु मन इत्यादिना। [99]
स्पर्शरहितत्वे सतीत्यादि।
पृथिव्यादौ व्यभिचारवारणाय सत्यन्तम्। गुणादौ
व्यभिचारनिरासाय विशेष्यम्। अत्र च मनसो ऽणुत्वे आनन्त्यं
कल्पनीयम्। विभुत्वे तु न तथेति लाघवमिति तर्कसत्त्वात्
नास्यानुमानस्याप्रयोजकत्वमिति
भावः। समवायेन
संयोगं प्रति समवायेन क्रियायाः कारणत्वात् विभुषु च
क्रियाविरहेण नोक्तसंयोगोपपत्तिरित्याशयेनाह - प्रकाशिकायां
[99] विभुद्वयेति। [99] क्रियादीत्यादिना संयोगपरिग्रहः।
दीपिकायाम् [99] तदा सुषुप्तिरिति। इदमत्र बोध्यम् -
सुषुप्तिः स्वापः
पुरीतन्नाडीप्रदेशावच्छिन्नात्मानुयोगिकःमनःप्रतियोगिकसंयोगः न
तु तादृशदेशानुयोगिकमनःप्रतियोगिकसंयोगः। तथा सति ऽचैत्रः
स्वपितिऽ, ऽमैत्रः सुषुप्तःऽ इत्यादिवाक्यानामप्रामाण्यापातात्। तत्र
चैत्रादिपदस्य तत्तच्छरीरावच्छिन्नात्मपरतया आत्मनि च
तादृशसंयोगविरहात्। कर्तृप्रत्ययस्य चाश्रयत्वबोधकत्वात्। अत
एवोक्तम्
व्युत्पत्तिवादटिप्पण्याम् कृष्णम्भट्टेनापि ऽतत्रैकस्मिन्
स्वापे निद्रानाड्यवच्छिन्नमनोयोगरूपेऽ दैति ऽधात्वर्थस्वापे
निद्रानाड्यवच्छिन्नात्ममनोयोरूपेऽ इति च।
यत्तु - स्वपितीत्यादौ
पुरीतत्प्रदेशमनोयोगानुकूलकृतिमानिति बोधवर्णनम् -
तदयुक्तम् - स्वापदशायामात्मनि तादृशकृतेरभावात्
जीवनयोनिरूपयत्नस्य च प्राणक्रियामात्रहेतुत्वेन
तादृशसंयोगानुकूलत्वविरहात्
इष्टसाधनताज्ञानजन्यतावच्छेदकप्रवृत्तित्वजातेरेवाख्यातार्थतावच्छेदकतायाः
गदाधरेण उक्ततया
जीवनयोनियत्नस्याख्यातार्थताप्रसक्तेरेवाभावाच्च। यद्यपि
तादृशमनोयोगस्य स्वापरूपत्वे मनः
स्वपितीत्याददिवाक्यप्रामाण्यापत्तिः, तथाप्यनुयोगिताया एव तत्र
प्रत्ययार्थत्वस्वीकारेण तस्याश्च प्रतियोगिन्यनभ्युपगमात्
नोक्तापत्तिः। यद्यप्याख्यातादेराश्रयत्वाद्यर्थकताया अप्यन्यत्र कॢप्तत्वात्
तत्तात्पर्येण मनः स्वपिति इत्यादिप्रयोगापत्तिः दुर्वारैव। तथापि
कृत्यादावेवाख्यातस्य शक्तिः, आश्रयत्वादौ तु निरूढलक्षणेति
सर्वानुमतम्। तत्र स्वपिधातुसमभिव्याहृतप्रत्ययस्यानुयोगित्व
एवानादितात्पर्यं कल्प्यते। अतो न दोषः।
अथानुयोगित्वादेस्संसर्गतया भानेनैवोपपत्तौ
किमाख्यातादेस्तदर्थकतामुपगम्य प्रकारविधया तद्भानस्वीकारेण?
अन्यथा तत्संसर्गस्यापि शाब्दबोधविषयत्वकल्पनापत्त्या गौरवात्। न
चैवं चैत्रो न स्वपितीत्यादौ नञर्थाभावान्वयानुपपत्तिः।
प्रतियोगितावदनुयोगितायां अपि
वृत्त्यनियामकत्वेनाभावप्रतियोगितानवच्छेदकत्वादिति वाच्यम्।
वृत्त्यनियामकस्याप्यभावप्रतियोगितावच्छेदकताघटकसम्बन्धत्वोपगमेनादोषात्।
न च वृत्त्यनियामकसम्बन्धावच्छिन्नप्रतियोगिताकाभावस्यातिरिक्तस्य
कल्पने गौरवमिति वाच्यम्।
तादृशसम्बन्धावच्छिन्नप्रतियोगिताकतदभावस्य
तदीयतादृशसम्बन्धाभावसमनियतत्वेन तदभिन्नतया
अतिरिक्तकल्पनाविरहात्। न चैवमपि
वृत्त्यनियामकसम्बन्धावच्छिन्नप्रतियोगिताकल्पने गौरवमिति
वाच्यम्। भवन्मते ऽपि प्रागुक्तगौरवसत्त्वेन साम्यात्। न च
राजपुरषवादोक्तयुक्त्यानुयोगित्वस्य शाब्दबोधे
प्रकारत्वमावश्यकमिति वाच्यम्। तादृशयुक्तीनां
विस्तरेणान्यत्रास्माभिर्निरस्तत्वात्। स्वपितीत्येतावन्मात्रस्य
बोधकत्वोपपत्तये आख्यातादेरनुयोगितार्थकताया आवश्यकत्वात्।
यद्यपि चैत्रः स्वपितीत्यादौ अनुयोगितायाः पदार्थत्वे ऽपि शाब्बोधे
संसर्गतया भाने न को ऽपि दाषः। तथापि
तात्पर्यार्थविशेषानुरोधेन तत्संसर्गको वा तत्प्रकारको वा
बोधो भावत्विति न तत्रास्माकमाग्रहः।
चैत्रो
जानातीत्यादावप्येवमेव बोध्यम्। एवं भवन्मते पुरीतत्
स्वपितीत्यादिप्रयोगस्य प्रामाण्यं दुर्वारम्। अस्मन्मते तु नेति
मदेकपरिशीलितः पन्थाः।
[98] सुखाद्युपलब्धिसाधनमिन्द्रियं मन इति
सङ्ग्रहः। अत्र च घटाद्युपलब्धिसाधनीभूतचक्षुरादिनिरासाय
सुखादीति। आत्मन्यतिव्याप्तिवारणाय विशेष्यम्। यदि च
तादृशोपलब्धिसाधनत्वं
तादृशोपलब्धिनिष्ठानुभवत्वव्याप्यधर्मावच्छिन्नजन्यतानिरूपितजनकत्वम्,
अन्यथा कालविधया तज्जनके चक्षुरादावतिव्याप्तेः। तथा च
नात्मन्यतिव्याप्तिरिति इन्द्रियत्वविशेषेणं व्यर्थमिति विभाव्यते,
तदाप्याह - प्रकाशिकायाम् आत्ममनोयोगादिति। आदिपदेन
सुखादिपरिग्रहः। तथा च सुखादिमानसत्वावच्छिन्नं प्रति मनसः
करणता निर्वाहर्थं आत्ममनोयोगस्यात्मसमेवतयोग्यविशेषणत्वेन
सुखादेर्वा व्यापरताकल्पनस्यावश्यकतया तद्वारणाय तत्सार्थक्यमिति
भावः। [99] अणुत्वसिद्धिरिति। इदमत्र
प्रमाणाभिमतम् ऽमनः अणुत्वतदभावान्यतरवत् प्रमेयत्वात्ऽ
इत्यनुमानं मनसो ऽनणुत्वे उक्तरीत्या सुषुप्त्यनुपपत्तिरिति
तर्कसहकृतमिति।
रूपनिरूपणम्
[100] चक्षुर्मात्रग्राह्यो गुणो रूपमिति
संग्रहवाक्यम्। अत्र च चक्षुर्मात्रग्राह्य इत्यनने
चक्षुर्विशिष्टधर्माश्रयग्राह्य इति बोधः। वैशिष्ट्यं च
लौकिकप्रत्यासत्त्या
स्वग्राह्यरूपग्राहकेन्द्रियवृत्तिभेदप्रतियोगितावच्छेदकत्वसंबन्धावच्छिन्न
स्वनिष्ठावच्छेदकताकप्रतियोगिताकभेदवत्त्वचक्षुष्ट्वनिष्ठाधेयत्वोभयसम्बन्धेन।
अधिकम् अन्यत्र प्रपञ्चितं अस्माभिः। प्रकाशिकायाम् [101] न
रूपे सम्भवतीति। रूपस्यात्ममनोग्राह्यत्वादिति भावः। [101] तथापि त्वगिन्द्रियेति। यद्यपि
चक्षुरितरनिरूपितज्ञानत्वानवच्छिन्नजन्यताश्रयज्ञानीयलौकिकविषयताशून्य
त्वरूपचक्षुरितराग्राह्यत्वविवक्षणे न दोषः। तथापि त्वगादेः
चाक्षुषप्रत्यक्षं प्रति कालादिविधया
जनकतामादायासम्भववारणाय जनकतायां
कालत्वाद्यनवच्छिन्नत्वस्य वा जन्यतायामेवव वा
ज्ञानत्वव्याप्यधर्मावच्छिन्नत्वस्य वा विवक्षणीयतया
चक्षुस्संयुक्तसमवायमादायासम्भववारणाय चक्षुरितरस्य द्रव्यत्वेन
विशेषणीयतया च गौरवमित्यालोच्य तत्परित्यागः। [101] त्वगग्राह्यत्वेत्यादि। त्वाचनिरूपितलौकिकविषयताशून्यत्वं
चाक्षुषनिरूपितलौकिकविषयतावत्वं च जातिविशेषणमत्र वक्तव्यम्।
तेन त्वाचप्रत्यक्षे यपत्वस्योपनयमर्यादया भाने ऽपि त्वचश्च
कालविधया रूपचाक्षुषज्ञानजनकत्वे ऽपि न क्षतिः। एवं गुरुत्वादेः
चाक्षुषे उपनयमर्यादया भाने ऽपि नातिव्याप्तिः। अत्र रसादिवारणाय
चाक्षुषेति। प्रभादिवारणाय गुणविभाजकेति। गुणत्वव्याप्येत्यर्थः।
ननु प्रभाभित्तिसंयोगे ऽतिव्याप्तिवारणाय गुणपदमेव
विशेषगुणपरं किं नोक्तमित्यशङ्कायाम् आह- [101] अत
एवेत्यादि। तथा च दर्शितातिव्याप्तिवारणा
चक्षुर्मात्रग्राह्लयसांसिद्धिकद्रवत्वविशेषे ऽतिव्याप्तिनिरासाय च
जातिघटितपरिष्कारस्यावश्यकतया त्वगग्राह्यत्वादेः।
तद्विशेषणतयैवोपपत्तौ लक्षणे विशेषत्वनिवेशनं गौरवावहमिति
भावः।
दीपिकायाम् [100] अव्याप्यवृत्तिनीलादीति। अत्राव्याप्तिवृत्तित्वविशेषणं
परस्परवैयधिकरण्याशङ्कानिरासाय दैशिकाव्याप्यवृत्तित्वमिह
विवक्षितम्। तच्च
1स्वप्रतियोगित्वस्वाधिकरणनिरूपितकिञ्चिद्देशावच्छिन्नाधेयत्वोभयसंबन्धेनाभावविशिष्टत्वम्।
ननु [100] रूपस्य व्याप्यवृत्तित्वनियमादिति दीपिकोक्तिरसङ्गता।
उत्पन्नं द्रव्यमिति न्यायेन रूपादीनां
कालिकाव्याप्यवृत्तित्वस्यावश्यकत्वादित्यत आह - प्रकाशिकायाम् [101] व्याप्यवृत्तित्वेति। दैशिकव्याप्यवृत्तित्वेत्यर्थ
इति।
दैशिकव्याप्यवृत्तित्वं च पूर्वोक्तोभयसम्बन्धनाभावविशिष्टान्यत्वम्।
1.
स्वप्रतियोगित्वेत्यादि। स्वं कपिसंयोगाभावः तत्प्रतियोगित्वं
कपिसंयोगे, एवं स्वं कपिसंयोगाभावः तदधिकरणं वृक्षः
तन्निरूपिताग्रदेशावच्छिन्नवृत्तित्वं कपिसंयोगे ऽस्तीति समन्वयः।
1अत्र च
नीलादिसमुदायः नित्ररूपमिति प्रतीतिविषयत्वतदभावान्यतरवान्
प्रमेयत्वादित्यनुमानं नीलादिसमुदायो यदि प्रतीतिविषयः स्यात्
तर्ह्यव्याप्यवृत्तिः स्यादिति तर्कसहकृतं प्रमाणं वाच्यम्। तत्र रूपस्य
व्याप्यवृत्तित्वनियमे विप्रतिपन्नं प्रति दूषणान्तरमाह - [101] इदमुपलक्षणमित्यादिना। एवं च
दर्शितगौरवज्ञानसहकृतमुक्तानुमानमेव चित्ररूपस्यातिरिक्तत्वे
प्रमाणमिति भावः। प्रागभावादीत्यादिना ध्वंसपरिग्रहः। ननु
चित्रपटे रूपवत्ताप्रतीतेः
2सामानाधिकरण्सम्बन्धेनावयवरूपमादायोपपत्तेः अतिरिक्तचित्ररूपं
नोपेयते। परस्परविरोधेन व्याप्यवृत्तिनीलादिसमुदायो ऽपि न
तत्रोत्पत्तुमर्हतीति आशङ्कते [100] ननु चित्रेत्यादिना
दीपिकायाम्। सामानाधिकरण्येन तत्र रूपसत्त्वादाह - प्रकाशिकायाम्
[101] समवायेनेत्यादिरिति। 3समवेतत्वीयसम्बन्धस्य स्वरूपस्य
कारणतावच्छेदकत्वाकल्पनया लाघवमभिसन्धायाह - [101] स्वाश्रयसमवेतत्वसम्बन्धेन रूपमिति। ज्ञानगतप्रत्यक्षत्वजातौ
प्रयोजकत्वासम्भवादाह - [101]
प्रत्यक्षविषयत्वेति। ननु
द्रव्यवृत्तिलौकिकविषयतासम्बन्धेन प्रत्यक्षं प्रति समवायेन रूपस्य
कारणत्वे चित्रपटस्थले ऽतिरिक्तरूपतत्प्रागभावतद्ध्वंसानां कल्पनया
महागौरवमिति तदपेक्षया स्वश्रयसमवेतत्वसम्बन्धेनैव रूपस्य
कारणत्वमुचितमित्यतो दूषणान्तरमाह - [101] चित्रावयवावयवकेत्यादिना। दीपिकायाम् [101] तस्मात् पटस्येत्यादि। अयमत्र भावः --- अयं पटः
रूपतदभावान्यतरवान् प्रमेयत्वादित्यनुमानेन यद्ययं रूपशून्यः
स्यात् तर्ह्यप्रत्यक्षः स्यादिति तर्कसहकृतेन सिद्धं रूपं
1. अत्र चेति।
नीलीदिसमुदायस्य चित्ररूपत्वाभाव इत्यर्थः। यद्वा रूपस्य
व्याप्यवृत्तित्व इत्यर्थः। अथवा चित्ररूपस्यातिरिक्तत्व इत्यर्थः।
2.
सामानाधिकरण्यसंबन्धेनेति। स्वाधिकरणवृत्तित्वसंबन्धेनेत्यर्थः।
स्वं अवयवतन्तुरूपं तदधिकरणं तन्तवः तद्वृत्तित्वं पटस्थेति तेन
संबन्धेन पटस्य तन्तुरूपवत्त्वम्।
3. समवेतत्वीयेति।
रूपवत्समवेतत्वस्य प्रत्यक्षत्वप्रयोजकत्वे तस्य स्वरूपसंबन्धेनैव
प्रयोजकत्वं वाच्यमिति समवेतत्वप्रतियोगिकस्वरूपसंबन्धस्य
कारणतावच्छेदकसंबन्धत्वं वक्तव्यम्। स्वाश्रयसमवेतत्वसंबन्धेन
रूपस्य
कारणत्वे तु
समवेतत्वमेव कारणतावच्छेदकसंबन्धः न तु तदीयस्वरूपमिति
लाघवमिति। कारणतावच्छेदकधर्मलाघवमप्यत्र बोध्यम्।
पूर्वोक्तयुक्त्या
अतिरिक्तत्वसिद्धेः चित्ररूपमिति व्यवह्रियत इति। चित्ररसासिद्धौ
हेतुमाह - [101] द्रव्यलौकिकेत्यादि। तथा चायं
रसतदभावान्यतरवान्
प्रमेयत्वादित्यनुमानमनुकूलतर्कविरहादप्रयोजकमिति भावः। अत्र
च नानारसवदवयवद्वयारब्धे वस्तुनि अत्र रस इति प्रतीत्युपपत्तये
चित्ररसाङ्गीकार आवश्यक इति त्वनाशङ्कनीयम्।
तत्रावयवरसस्यैव 1सामानाधिकरण्येन भानाभ्युपगमात्। यत्र च
नानारसवत्परमाणुद्वयारब्धद्व्यणुकादिक्रमेण महावयविपर्यन्तं
उत्पन्नं तत्र रसप्रतीतिर्नोपेयत एव। धर्मिणः रासनप्रत्यक्षे
उपनयमर्यादयैव भानाभ्युपगमात्। परमाणुरसस्यापि
विशेष्यविधयालौकिकप्रत्यक्षासम्भवात्। उपनीतं विशेषणतयैवेति
नैयायिकसिद्धान्तादिति। वस्तुतस्तु तसस्य व्याप्यवृत्तित्वनियमे
प्रमाणाभावात् देशभेदावच्छेदेन एकस्मिन्नेव वस्तुनि
नानारसोत्पत्तिसम्भवात् समवायेनात्र रस इति प्रतीतेः
प्रमारूपाया नानुपपत्तिः। सर्वमिदमभिसन्धायोक्तम् [101] सङ्क्षेप इति।
रसनिरूपणम्
ननु [103] रसनग्राह्यो गुणो रस इति लक्षणवाक्ये
परमाणुरसे ऽव्याप्तिः। रसनग्राह्यजातिमत्त्वविवक्षायामपि
सत्तादिकमादाय
रूपादावतिव्याप्तिरत आह - [104]
रसनेत्यादि। [104] गुणविभाजकेति। 2गुणत्वन्यूनवृत्तित्वं विवक्षितम्।
स्पर्शनिरूपणम्
ननु त्वगिन्द्रयमात्रग्राह्य
इत्यादिलक्षणे ऽसम्भवः। स्पर्शस्यत्वगितरात्मादिग्राह्यत्वात्। एवं
परमाणुस्पर्शे ऽव्याप्तिः। त्वग्रग्राह्यत्वात् इत्यत आह - [104] चक्षुरग्राह्येत्यादि।
1.
सामानाधिकरण्येनेति। स्वाश्रयसमवेतत्वसंबन्धेनेत्यर्थः।
2. ननु
गुणविभाजकत्वं गुणत्वव्याप्यत्वम्, तच्च गुणत्वस्याप्यक्षतमिति
तदादाय रूपादावतिव्याप्तिरित्यत आह - गुणत्वन्यूनवृत्तित्वं
विवक्षितमिति। गुणत्वन्यूनवृत्तित्वं च गुणत्वसमानाधिकरणत्वे
सति गुणत्वसमानाधिकरणभेदप्रतियोगितावच्छेदकत्वम्। तच्च
गुणत्वस्य नास्तीति भावः
चक्षुरग्राह्यत्वं च
चाक्षुषनिरूपितलौकिकविषयताशून्यत्वम्। त्वगिन्द्रियग्राह्यत्वं च
त्वाचनिरूपितलौकिकविषयतावत्त्वम्। नातः 1पूर्ववद्दोषः।
गुणविभाजकत्वं च वायुप्रत्यक्षतावादिनवीनमते
वायुत्वजातिमादाय वायावतिव्याप्तिवारणाय उपात्तम्।
पाकप्रक्रियानिरूपणम्
[106] परावृत्त्यादीत्यादिना रूपान्तरपरिग्रहः।
ननु [105] आमनिक्षिप्ते घट इति दीपिकावाक्ये
सप्तम्यन्तघटपदस्योत्तरत्रान्वयासम्भवात् असङ्गतिरित्यतो
योजनामाह -- [106] घटे आमनिक्षिप्ते सतीति। तथा च
घटपदोत्तरसप्तम्या आमसंयोगोर्ऽथः। तस्य
चोत्तरकालीनत्वसंबन्धेन श्यामघटनाशे अन्वय इति भावः।
ननु परमाणुषु
रूपोत्पत्तौ श्यामघटनाश इति दीपिकावाक्यात् श्यामघटनाशे
परमाणुनिष्ठरूपोत्पत्त्युत्तरकालीनत्वं लभ्यते। तच्चयुक्तम् -
अवयविनाशानन्तरमेव परमाणुषु रूपान्तरोत्पत्तेः वैशेषिकैः
स्वीकारात् अतो योजनया अन्वयमाह -- [106] श्यामघटनाश इत्यादि।
जाति इति शेषः। तथा च नाशपदोत्तरसप्तम्याः उत्पत्तिरर्थः।
तस्याश्चोत्तरकालीनत्वसम्बन्धेन रूपान्तरोत्पत्तावन्वय इति भावः।
[106] स्वतन्त्रेष्विति। विशकलितेष्वित्यर्थः।
आरम्भकसंयोगरहितेष्विति यावत्। [106] अपरावयवीति।
पूर्वविनष्टावयविव्यतिरिक्तावयवीत्यर्थः। [106] अत
एवेति। अवयविन्यपि परमाणुवत् पाकाङ्गीकारादेवेत्यर्थः। ननु
सो ऽयं घट इति
प्रत्यभिज्ञासाजात्यमवलम्बते। निर्वापितारोपितदीपे सेयं
दीपज्वालेति प्रत्यभिज्ञावत् न त्वेकस्या एव व्यक्तेः कालद्वयसम्बन्धम्।
अतो न विरोध इत्यतो दूषणान्तरमाह - [105] अनन्तावयवीत्यादि। नाशादीत्यादिना
प्रागभावपरिग्रहः।
[107] वारणसम्भवादिति।
वैजात्यस्यावयवरूपाजन्यावयविरूपव्यावृत्तत्वादिति भावः।
1. पूर्ववद्दोष इति।
चाक्षुषे उपनयमर्यादया स्पर्शत्वस्य, त्वाचे
गुरुत्वस्योपनयमर्यादया भाने ऽपि नासम्भवः अतिव्याप्तिर्वेत्यर्थः।
[107] यथायोग्यमिति। तथा च
रूपादिचतुष्टयपदं तादृशचतुष्टयान्यतमपरमिति भावः।
ननु उद्भूतत्वस्य
जातिरूपताया इन्द्रियलक्षणावसरे निरस्तत्वात् अत्र च
जातिरूपत्वोक्तेः पूर्वोत्तरग्रन्थविरोध इत्याशङ्क्य
मतभेदनोभयग्रन्थसङ्गतिरिति तस्य जातिरूपत्वमेवेत्याह - [107] उद्भूतत्वं जातिरित्यादिना। गुणगतेति। गुणघटितेत्यर्थः।
[107] न दोषः - न पूर्वोततरग्रन्थविरोध इत्यर्थः। अयं भावः -
साङ्कर्यस्य जातिबाधकतायां प्रमाणभूते धर्मशास्त्रे
द्रव्यगतसांकर्यस्यैव जातिबाधकत्वोक्तेः।
स्वाधिकरणद्रव्यवृत्तित्वस्वाभावाधिकरणद्रव्यवृत्तित्वस्वाधिकरणद्रव्यवृत्त्यभावप्रतियोगित्वत्रितयसंबन्धेन
जातिविशिष्टत्वरूपद्रवयघटितजातिसाङ्कर्यस्यैव
जातित्वाभावव्याप्यताया उपगमेन जातिबाधकत्वं स्वीक्रियते। न तु
गुणादिसाधारणस्वाधिकरणघटितजातिसाङ्कर्यस्येति।
वस्तुतस्तु
प्रागुक्तसम्बन्धेन द्रव्यत्वव्याप्यजातिविशिष्टत्वमेव
जातित्वाभावव्याप्यमित्युपगमात् गुणत्वव्याप्यजातिवैशिष्ट्यस्य
चातथाभूतस्य न जातिबाधकत्वमिति ध्येयम्।
जातिसाङ्कर्यसामान्यस्यैव जातिबाधकत्वमभ्युपेत्य
प्रकृतग्रन्थमुपपादयतां मतमाह - केचित्त्विति।
आहुरित्यनेनास्वरसः सूचितः। तद्बीजन्तूद्भूतत्वस्य
तत्तदनुद्भूतत्वाभावकूटरूपत्वे तस्य गगनादिसंयोगसाधारणतया
गगनादिप्रत्यक्षभियाप्रत्यक्षप्रयोजकत्वासम्भवात् उद्भूतत्वं
प्रत्यक्षप्रयोजकमितिदीपिकाग्रन्थासङ्गतिरिति।
परिमाणनिरूपणम्
[108] भावप्रधान इति। भावः प्रधानं
मुख्यविशेष्यः यस्मिन्निति व्युत्पत्त्या धर्मनिष्ठमुख्यतानिरूपकत्वं
भावप्रधानत्वम्, निरूपकत्वं च ज्ञानद्वारकम्, एवं
चाणुमहदादिशब्दः सङ्ग्रहवाक्यस्थः अणुत्वमहत्वादिकं लक्षणया
बोधयतीति भावः।
संयोगनिरूपणम्
[110] साधारणकारणत्वेन -
कार्यत्वावच्छिन्नकार्यतानिरूपितकारणत्वेन। ननु
स्वात्यन्ताभावसमानाधिकरणत्वमव्याप्यवृत्तित्वमिति दीपिकावाक्ये
स्वपदस्य यत्राव्याप्यवृत्तित्वं स्थाप्यम् तद्व्यक्तिपरताया
आवश्यकतया संयोगादिव्यक्तीनामानन्त्यात्
एकव्यक्त्युपादाने ऽपरव्यक्त्यसंग्रहः। स्वात्यन्ताभावसमानाधिकरणं
यद्यत्स्वं तावदन्यतमत्वं तु सर्वज्ञेनैव ज्ञेयम्, महागौरवं, च अतो
निष्कृष्टार्थमाह -- [110] स्वप्रतियोगित्वेत्यादि। यद्यपि
स्वात्यन्ताभावसमानाधिकरणत्वतादात्म्योभयसंबन्धेन
प्रमेयविशिष्टत्वमनुगतम्, तथापि
तादात्म्यादिरूपाधिकपदार्थनिवेशात् गौरवमिति तदुपेक्षितम्।
अथात्र
संयोगादिसम्बन्धावच्छिन्नप्रतियोगिताक-घटत्वाद्यभावाद्यधिकरणे
समवायादिना घटत्वादेस्सत्त्वात् तत्रातिव्याप्तिः। न च
तत्सम्बन्धावच्छिन्नप्रतियोगिताकतदभावाधिकरणे
तत्सम्बन्धेनाधेयत्वस्य विवक्षया न दोष इति वाच्यम्।
यत्त्वतत्त्वाननुगमेन लक्षणस्य तत्तद्व्यक्तिविश्रमापातात्।
न चाभावविशिष्टत्वं
तत्, वैशिष्ट्यं च स्वप्रतियोगित्वस्वविशिष्टाधेयत्वोभयसंबन्धेन।
आधेयतायां स्ववैशिष्ट्यं
स्वप्रतियोगितावच्छेदकसम्बन्धावच्छिन्नत्वस्वाधिकरणनिरूपितत्वोभयसंबन्धेन।
अतो नाननुगम इति वाच्यम्, एवमपि
संयोगादिसम्बन्धावच्छिन्नप्रतियोगिताकघटत्वाद्यभावस्याव्याप्यवृत्तिताप्रसङ्गात्।
स्वस्य संयोगादिना यो ऽभावः तदीयपूर्वक्षणादिवृत्तित्वविशिष्ट
स्वाभावनिष्ठप्रतियोगितावच्छेदकस्वरूपसंबन्धेन पटादौ
तत्सत्त्वात्।
न च स्वस्मिन्
स्वाभावीयं यत्प्रतियोगित्वं तदवच्छेदकसंबन्धेन
स्वाभावाधिकरणवृत्तित्वनिवेशात् नायं दोषः इति वाच्यम्।
यत्त्वतत्त्वाननुगमस्य दुर्वारत्वात्।
न च
अधिकरणताविशिष्टत्वं तत्, वैशिष्ट्यं च
स्वाश्रयाश्रयत्वस्वविशिष्टाधेयत्वोभयसंबन्धेन। आधेयतायां
स्ववैशिष्ट्यं च
स्वनिरूपकाभावाधिकरणनिरूपितत्वस्वाश्रयावच्छेदकसंबन्धावच्छिन्नत्वोभयसंबन्धेन।
अधिकरणता च
स्वनिरूपितप्रतियोगितात्वसम्बन्धावच्छिन्ना। अतो न को ऽपि
दोषः। यद्वा प्रतियोगिताविशिष्टत्वं तत्, वैशिष्ट्यं च
स्वाश्रयत्वस्वविशिष्टाधेयत्वोभयसंबन्धेन। स्ववैशिष्ट्यं च
स्वावच्छेदकसम्बन्धावच्छिन्नत्वस्वनिरूपकाभावाधिकरणनिरूपितत्वोभयसम्बन्धेनेति
वाच्यम्।
एवमपि
द्रव्यान्यत्वविशिष्टसत्ताभावादावतिव्याप्तेः।
तदभावरूपविशिष्टसत्तायाः शुद्धसत्तानतिरिक्ततया तदधिकरणे
घटादौ तत्सत्त्वात्। न चाभावत्वविशिष्टत्वं अधिकरणताविशिष्टत्वं
वा तत्। प्रथमे वैशिष्ट्यं च
स्वनिरूपितप्रतियोगित्वस्वविशिष्टाधेयत्वोभयसम्बन्धेन।
स्ववैशिष्ट्यं च
स्वावच्छिन्नाधिकरणनिरूपितत्वस्वनिरूपितप्रतियोगितावच्छेदकसम्बन्धावच्छिन्नत्वोभयसम्बन्धेन।
द्वितीये अधिकरणता स्वनिरूपितप्रतियोगितात्वसम्बन्धेन। वैशिष्ट्यं
च स्वाश्रयाश्रयत्वस्वविशिष्टाधेयत्वोभयसम्बन्धेन। स्ववैशिष्ट्यं च
स्वनिरूपकाभावत्वावच्छिन्नाधिकरणनिरूपितत्वस्वाश्रयावच्छेदकसम्बन्धावच्छिन्नत्वोभयसम्बन्धेन।
अतो न दोषः। अत्र द्रव्यान्यत्वविशिष्टसत्ताभावो नास्तीत्यप्रत्ययात्
गुणादौ तादृशसत्ताभावाभावत्वेन वृत्त्यनुपगमादिति वाच्यम्।
एवमप्यभावत्वस्यानुगताखण्डोपाधिरूपताया अन्यत्र व्यवस्थापितत्वेन
तस्य सर्वत्राभिन्नतया तद्दोषतादवस्थ्यात्।
अत्रोच्यते -
अधिकरणताविशिष्टत्वमव्याप्यवृत्तित्वम्। अधिकरणता च
स्वविशिष्टप्रतियोगितात्वसम्बन्धेन। स्ववैशिष्ट्यं च
स्वविशिष्टाभावनिरूपितत्वस्वनिरूपित -
किञ्चिद्धर्मावच्छिन्नप्रकारतानिरूपितसंसर्गत्वोभयसम्बन्धेन। अभावे
स्ववैशिष्ट्यं च स्वाश्रयत्व1स्वसेत्यादिभेदवत्त्वोभयसम्बन्धेन।
स्वाधिकरणता च स्वावच्छेदकतासम्बन्धेन।
1.
स्वसेत्यादिभेदवत्त्वेति।
स्वाधिकरणवृत्तिभेदप्रतियोगितावच्छेदकत्वसंबन्धावच्छिन्नस्वनिष्ठावच्छेदकताकप्रतियोगिताकभेदवत्त्वेत्यर्थः।
भेदप्रतियोगितावच्छेदकता च आधेयतासम्बन्धेन।
अधिकरणताविशिष्टत्वं
स्वाश्रयाश्रयत्वस्वविशिष्टाधेयत्वोभयसम्बन्धेन। स्ववैशिष्ट्यं च
स्वाश्रयावच्छेदकसम्बन्धावच्छिन्नत्वविशिष्टाधिकरणनिरूपितत्वीभयसम्बन्धेन।
अधिकरणे स्ववैशिष्ट्यं च स्वसेत्यादिभेदवत्त्वसम्बन्धेन।
स्वाधिकरणत्वं च स्वनिरूपकविषयतावच्छेदकतासम्बन्धेन।
भेदप्रतियोगितावच्छेदकता
स्वरूपसम्बन्धावच्छिन्नाधेयतावच्छेदकतासम्बन्धेन। यद्यपि
कालिकसम्बन्धेन घटत्वाभावादिविशिष्टस्य ध्वंसस्य घटादौ
सम्भवात् अतिप्रसङ्गः, तथापि स्वविशिष्टाधिकरणनिरूपितत्वस्थाने
स्वविशिष्टाधिकरणतावन्निरूपितत्वं निवेश्यम्। स्ववैशिष्ट्यं च
स्वावच्छिन्नप्रतियोगिताकभेदनिरूपितत्वस्वसेत्यादिभेदवत्त्वोभयसम्बन्धेन।
भेदप्रतियोगितावच्छेदकता स्वविशिष्टावच्छेदकतासम्बन्धेन।
वैशिष्ट्यं च
स्वाश्रयनिरूपितस्वरूपसम्बन्धावच्छिन्नाधेयत्वनिरूपितत्वस्वनिरूपकविषयतावच्छेदकतावच्छेदकसम्बन्धावच्छिन्नत्वोभयसम्बन्धेन।
वस्तुतस्तु
1प्रतियोगिताविशिष्टत्वमव्याप्यवृत्तित्वम्। वैशिष्ट्यं च
स्वाश्रयत्वस्वविशिष्टाधेयत्वोभयसम्बन्धेन। स्ववैशिष्ट्यं च
स्वावच्छेदकसम्बन्धावच्छिन्नत्वस्वावच्छेदकधर्मावच्छिन्नत्वस्वनिरूपकाभावाधिकरणनिरूपितत्वत्रितयसम्बन्धेन।
2तेन विशिष्टसत्त्वस्य नाव्याप्यवृत्तित्वमिति ध्येयम्।
1.
प्रतियोगिताविशिष्टत्वमित्यादि। प्रतियोगिता कपिसंयोगनिष्ठा
तद्विशिष्टत्वं कपिसंयोगे स्वाश्रयत्वसंबन्धेनास्ति, कपिसंयोगस्य
प्रतियोगिताश्रयत्वात्। एवं
प्रतियोगितावच्छेदकसमवायसंबन्धावच्छिन्ना
प्रतियोगितावच्छेदककपिसंयोगत्वावच्छिन्ना
प्रतियोगितानिरूपककपिसंयोगाभावाधिकरणवृक्षनिरूपिता च
कपिसंयोगनिष्ठाधेयता भवति इति त्रितयसंबन्धेन
प्रतियोगिताविशिष्टमाधेयत्वं च कपिसंयोगे ऽस्तीति
कपिसंयोगस्याव्याप्यवृत्तित्वम्।
2. तेन
विशिष्टसत्त्वस्येति। विशिष्टसत्तानिष्ठायाः
विशिष्टसत्तानिष्ठप्रतियोगितानिरूपकाभावाधिकरणगुणनिरूपिताधेयतायाः
प्रतियोगितावच्छेदकविशिष्टसत्तात्वावच्छिन्नत्वविरहात्
उक्तत्रितयसम्बन्धेन प्रतियोगिताविशिष्टत्वाभावादिति भावः
विभागनिरूपणम्
[111] केचिदित्यस्वरसस्सूचितः। तद्बीजन्तु
जन्यमात्रस्य कालत्वपक्षे जन्यरूपादावतिव्याप्तिरिति। परे त्वित्यादि।
अत्र चावच्छिन्नान्तेन जन्यताविशेषणेन घटितमेकं लक्षणम्।
समवायसम्बन्धावच्छिन्नत्वेन कारणताविशेषणेन घटितमपरं
लक्षणम् इति विवेकः। अन्यथा एकत्र लक्षणे उभयनिवेशने
प्रयोजनाभावात्। तत्तद्ध्वंसव्यक्तित्वावच्छिन्नं प्रति तादात्म्येन
तत्तत्प्रतियोगिव्यक्तेः कारणतयैव संयोगा - [द्य] (दि)तिव्याप्तिवारणादिति बोध्यम्।
ननु कार्यसामान्यं
प्रति तादात्म्येन हेतुभूते कालादौ अतिव्याप्तिविरहात्
गुणपदवैयर्थ्यमित्याशङ्कां तस्य
दर्शितार्थतात्पर्यग्राहकत्वोपगमेन परिहरति - [111] एतत्तात्पर्येति।
परत्वापरत्वनिरूपणम्
ननु
परापरव्यवहारासाधारणकारणे परत्वापरत्वे इति
सङ्ग्रहवाक्यात् उभयव्यवहारासाधारणकारणत्वमुभयलक्षणमिति
लभ्यते। तच्चासम्भवि, परत्वादेः
प्रत्येकमपरव्यवहाराद्यसाधारणकारणत्वविरहात्, अतो व्याचष्टे -
[112] दीपिकायां परव्यवहारेत्यादि। असमवायिकारणत्वमात्रस्य
गुरुत्वलक्षणत्वे तन्तुद्वयसंयोगादावतिव्याप्तिः। पतनकारणत्वस्य
तथात्वे ऽपि आश्रयतया पतनसमवायिकारणे फलादावतिव्याप्तिः
स्फुटैवेत्यालोच्याद्यपदस्य कृत्यमाह - [113] द्वितीयादीति।
नन्वाद्यत्वमिहादौ भवमिति व्युत्पत्त्या पूर्वकालोत्पन्नत्वं, तच्च
द्वितीयादिपतनस्यापि तृतीयादिपतनपूर्वकालोत्पन्नतया अक्षतमिति
कथं तद्वारणसम्भव इत्यत आद्यत्वमन्यादृशं निर्वक्ति - [111] प्रकाशिकायाम् आद्यत्वमिहेति। स्वसमानाधिकरणेत्यादि। अथात्र
स्वपदमनुयोगिपरम् वा प्रतियोगिपरम् वा। नाद्यः,
आद्यपतनव्यक्तीनामानन्त्यात्। तेनैकोपादाने इतरासङ्ग्रहात्।
स्वसमानाधिकरणपतनप्रतियोगिकध्वंसासमानकालीनं यद्यत्स्वं
तावदन्यतमत्त्वं तु असर्वज्ञदुर्ज्ञेयम्। अन्यतमत्त्वघटकभेदानां मिथो
विशेषणविशेष्यभावे विनिगमनाविरहश्च। नाप्युत्तरः,
तादृशयत्किञ्चिदेकपतनव्यक्तिभेदस्य द्वितीयादिपतनसाधारणत्वात्।
तादृशं यद्यत्स्वं तत्तद्व्यक्तित्वावच्छिन्नभेदकूटवत्त्वस्य
तावदन्यतमत्वावच्छिन्नभेदवत्त्वस्य वा प्रागुक्तदोषदूषितत्वात्।
अत्रोच्यते -
1तादात्म्यस्वसमानाधिकरणपतनप्रतियोगिकध्वंससमानकालीनत्वसम्बन्धावच्छिन्नस्वनिष्ठावच्छे-
दकताकप्रतियोगिताकभेदवत्त्वोभयसम्बन्धेन
पतनविशिष्टत्वमाद्यत्वमिति अनुयोगिनि स्वत्वान्तर्भावे
स्थूलानुगमः।
2स्वसमानाधिकरणपतनध्वंससमानकालीनत्वसम्बन्धावच्छिन्नस्वप्रतियोगितावच्छेदकत्वाश्रयत्वोभयसंबन्धेनभेदविशिष्टत्वमिति
सूक्ष्मानुगमः। 3प्रतियोगिनि स्वत्वादरे तु
स्वसमानाधिकरणपतनध्वंससमानकालिकत्ववादात्म्योभयसंबन्धेन
पतनविशिष्टान्यत्वमिति स्थूलानुगमः।
4स्वसमानकालीकत्वस्वसमानाधिकरणपतनप्रतियोगिकत्वसम्बन्धावच्छिन्नाधेयत्वोभयसम्बन्धेन
1. तादात्म्येत्यादि स्वं
प्रथमपतनं तत्समानाधिकरणम् यत् द्वितीयपतनं
तद्ध्वंससमानकालिकत्वं प्रथमपतने नास्तीति
तादृशसमाननकालिकत्वसम्बन्धेन स्ववद्भिन्नत्वस्य स्वतादात्म्यस्य च
प्रथमपतने सत्त्वात् तस्य आद्यत्वोपपत्तिः।
2.
स्वसमानाधिकरणेत्यादि। प्रथमस्वशब्दः आद्यपतनपरः। द्वितीयस्वशब्दः
आद्यपतनवद्भेदपरः। आद्यपतनसमानाधिकरणं यत् द्वितीयपतनं
तत्प्रतियोगिकध्वंससमानकालिकत्वसम्बन्धेन यः आद्यपतनवद्भेदः
तदाश्रयत्वं तत्प्रतियोगितावच्छेदकत्वं चाद्यपतने ऽस्तीति समन्वयः।
3. प्रतियोगिनीत्यादि।
स्वं द्वितीयपतनं तत्समानाधिकरणं यत् प्रथमपतनं
तद्ध्वंससमानकालिकत्वं तादात्म्यं च द्वितीयपतने ऽस्तीति
उक्तोभयसम्बन्धेन द्वितीयपतनविशिष्टं तदेव, तदन्यत्वं
प्रथमपतने ऽस्तीति समन्वयो बोध्यः।
4.
स्वसमानकालिकत्वेत्यादि। ध्वंसपदेन प्रथमपतनध्वंसो ग्राह्यः।
तद्विशिष्टत्वं द्वितीयपतने तदन्यत्वं प्रथमपतन इति समन्वयो
वाच्यः। तथाहि - प्रथमस्वपदं प्रथमपतनध्वंसपरम्।
तादृशध्वंससमानकालिकत्वं द्वितीयपतने ऽसित। द्वितीयस्वपदं
द्वितीयपतनपरम्। द्वितीयपतनं हि
स्वसमानाधिकरणपतनप्रतियोगिकत्वसम्बन्धेन प्रथमपतनध्वंसे ऽस्ति
इति द्वितीयपतननिष्ठा प्रथमपतनध्वंसनिरूपिता आधेयता
स्वसमानाधिकरणपतनप्रतियोगिकत्वसम्बन्धावच्छिन्ना भवति। तथा च
तादृशाधेयतासम्बन्धेन प्रथमपतनध्वंसविशिष्टं द्वितीयपतनं
तदन्यत्वमाद्यपतने इति बोध्यम्।
ध्वंसविशिष्टान्यत्वमिति सूक्ष्मानुगमः। तादृशाधेयत्वस्थाने
1स्वप्रतियोगिपतनसमानाधिकरणत्वं वा निवेश्यमिति न को ऽपि
दोषः। एवमन्यत्रापि। यद्यपि वृक्षात् सौधे पतितस्य फलादेः
सौधात्पतनदशायां तत्र निरुक्तमाद्यत्वमसम्भवि। तथापि तत्र
सौधावधिकपतनं तादृशफलादिगतम् न तावत् सामान्यत आद्यम्,
परन्तु सौधावधिकपतनेषु प्राथमिकपतनस्याद्यत्वं सम्भवति। तच्च
स्वसमानाधिकरणसौधावधिकपतनध्वंसमानकालीनत्वादिरूपमित्यवधिविशेषघटितमाद्यत्वं
वाच्यम्। एवं च वृक्षावधिकपतनस्य
स्वसमानाधिकरणवृक्षावधिकपतनप्रागभावासमानाकालीनत्वादिरूपं
अवधिविशेषघटितमेव चरमत्वं निर्वाच्यम्।
प्रकाशिकोक्तमवधिविशेषाघटितमाद्यत्वन्तु
सम्भवस्थलाभिप्रोयणेत्यवधेयम्।
शब्दनिरूपणम्
दीपिकायाम् [113] गुणपदमिति। न चैवमदृष्टवारणाय
पिण्डीभावासाधारणकारणत्वस्य विवक्षणीयतया गुणपदमिति
व्यर्थमिति वाच्यम्। असमवायिकारणभूतचूर्णादिवारणाय
तदावश्यकत्वात्। प्रकाशिकायाम् [113] पिण्डीभावस्संयोगविशेष इति। धारणकर्षणादियोग्य
इत्यर्थः। शब्दमात्रे आकाशस्य समवायिकारणतायाः स्पष्टत्वादाह -
[113] आद्ये असमवायिकारणमित्यादि।
बुद्धिनिरूपणम्
ननु [114] सर्वव्यवहारहेतुर्ज्ञानं बुद्धिरिति संग्रहवाक्ये
सर्वव्यवहारहेतुत्वं बुद्धिलक्षणं फलितम्। तच्च न घटते।
शुकाद्युच्चरितव्यवहारहेतुत्वस्य बुद्धावभावात्।
बुबोधयिषाधीनव्यवहारं प्रति हेतुत्वोक्त्या व्यभिचारविरहे ऽपि
मूल पाठ: Tarkasaṃgraha with autoentary (Dīpikā), Nīlakaṇṭha's Dīpikāprakāśikā and Bālapriyā · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0