तर्कसंग्रह (टीका सहित) · भाग 2140
तन्तुसंयोगनाशे तु न पटस्तिष्ठति, अपि तु नश्यति। अतो
निमित्तकारणस्य वैधर्म्यात् समवायिकारणवैधर्म्याच्च तन्तुसंयोगः
असमवायिकारणत्वेन स्वीकृत इति।
किं
चासमवायिकारणानभ्युपगमे द्रव्यनाशं प्रति किं कारणमिति
वक्तव्यम्। न तावन्निमित्तकारणनाशः, कुलालादिसद्भावे ऽपि
घटनाशदर्शनात् कुलालादिनाशे ऽपि घटसद्भावदर्शनाच्च। नापि
समवायिकारणनाशः कारणम्। द्व्यणुकनाशानुपपत्तेः। द्व्यणुकस्य
हि परमाणुः समवायिकारणम्। न हि तस्य नाशः संभवति,
नित्यत्वात्। अतो द्व्यणुकस्य समवायिकारणनाशान्नाशो न
संभवतीति असमवायिकारणभूतस्य परमाणुद्वयसंयोगस्य नाशादेव
नाशो वक्तव्यः। तथा च द्व्यणुकनाशस्य असमवायिकारणनाशो
हेतुः, इतरकार्यद्रव्यनाशस्य समवायिकारणनाशो हेतुरिति
कल्पनामपेक्ष्यानुगततया कार्यद्रव्यसामान्यनाशं प्रति
असमवायिकारणस्वीकार आवश्यकः।
तर्हि समवायिकारणं
असमवायिकारणं चेति द्वेधा विभागो ऽस्तु, निमित्तकारणं मास्तु
इति चेत - न। यदि समवायिकारणभिन्नं सर्वं
कारणमसमवायिकारणमिति वर्गे ऽन्तर्भाव्यते, तर्हि
असमवायिकारणनाशस्य पूर्वोक्तरीत्या द्रव्यनाशहेतुत्वात्
कुलालादिनाशे ऽपि घटनाशापत्तिः स्यात्। अतो
निमित्तकारणमतिरिक्ततया स्वीकरणीयमिति। तथा च युक्तियुक्तत्वात्
कारणत्रयमपि स्वीकरणीयमिति त्रेधा कारणविभागः
प्राचीनग्रन्थारूढश्चेति सिद्धम्।
( 7 ) निर्विकल्पकसविकल्पकविचारः
प्रत्यक्षं द्विविधं
निर्विकल्पकं सविकल्पकम् च।
निष्प्रकारकं ज्ञानं
निर्विकल्पकम्, सप्रकारकं ज्ञानं सविकल्पकम् इति तर्कसंग्रहे
उक्तम्। विशेषणविशेष्यसंबन्धानवगाहि ज्ञानं निर्विकल्पकम्,
नामजात्यादिविशेषणविशेष्यसंबन्धावगाहि ज्ञानं सविकल्पकम्
इति दीपिकायाम्। विशेष्यताशून्यत्वं प्रकारताशून्यत्वं
संसर्गताशून्यत्वे च निर्विकल्पकत्वम्, विशेष्यतानिरूपकत्वं
प्रकारतानिरूपकत्वं संसर्गतानिरूपकत्वम् च सविकल्पकत्वमिति
प्रकाशिकायाम्। एतत्तत्त्वमिदार्नीं प्राक्तनग्रन्थालोडनपूर्वकं
विचार्यते।
न्यायसेत्रे न क्वापि
निर्विकल्पकसविकल्पकशब्दाभ्यां प्रत्यक्षविभागः कृतः।
ऽइन्द्रियार्थसंनिकर्षोत्पन्नम्ऽ इति
प्रत्यक्षलक्षणप्रतिपादकसूत्रस्थाभ्यां ऽअव्यपदेश्यम्ऽ
ऽव्यवसायात्मकम्ऽ इति पदाभ्यां निर्विकल्पकसविकल्पके विवक्षिते
इति तात्पर्यटीकाकाराः निरूपयन्ति। परं तु भाष्ये वार्तिके वा
नैवंविधं निरूपणमुपलभामहे।
न्यायमञ्जर्यां
न्यायसारे च निर्विकल्पकं सविकल्पकं चेति प्रत्यक्षद्वयं यद्यपि
सयुक्तिकं प्रसाधितम्, तथापि सूत्रात् तादृशविभागस्य
लाभप्रकारस्तत्र न प्रदर्शितः। न्यायभूषणे तु अव्यपदेश्यपदेन
निर्विकल्पकस्य व्यवसायात्मकपदेन सविकल्पकस्य ग्रहणमिति
सयुक्तिकं प्रत्यपादि।
प्रशस्तपादभाष्ये1 ---
ऽद्रव्ये तावद्विविधे
महत्यनेकद्रव्यवत्त्वोद्भूतरूपप्रकाश --
चतुष्टयसंनिकर्षात्
धर्मादिसामग्र्ये च स्वरूपालोचनमात्रम्ऽ
इति ग्रन्थेन
निर्विकल्पकप्रत्यक्षं प्रदर्शितम्। स्वरूपालोचनमात्रमित्यस्य
स्वरूपमात्रस्य ग्रहणमित्यर्थः। मात्रपदेन
जात्यादिसंबन्धविषयकत्वव्यवच्छेदः। ततः ---
ऽसामान्यविशेषद्रव्यगुणकर्मविशेषणापेक्षात् आत्ममनः -
संनिकर्षात्
प्रत्यक्षमुत्पद्यते सत् द्रव्यं पृथिवी विषाणी
शुक्लो गौर्गच्छतिऽ
इति ग्रन्थेन
सविकल्पकप्रत्यक्षं सोदाहरणमुपदर्शितम्। परं तु
निर्विकल्पकसविकल्पकशब्दौ न प्रयुक्तौ। कुमारिलभट्ट अपि1 ---
ऽअस्ति ह्यालोचनाज्ञानं
प्रथमं निर्विकल्पकम्।
बालमूकादिविज्ञानसदृशं शुद्धवस्तुजम्॥ऽ
इति श्लोकेन
निर्विकल्पकं,
ऽततः परं च तद्वस्तु
धर्मैर्जात्यादिभिर्यथा।
बुद्ध्यावसीयते
सापि प्रत्यक्षत्वेन संमता॥ऽ
इति श्लोकेन
सविकल्पकं च लक्षयांबभूवुः। प्रकरणपञ्चिकायां च ---
ऽसविकल्पाविकल्पा च
द्विविधा बुद्धिरिष्यते।
आद्या विशिष्टविषया
स्वरूपविषयेतरा॥ऽ
इति प्रत्यक्षस्य
निर्विकल्पकसविकल्पकभेदेन द्वैविध्यं प्रादर्शयन्।
तत्त्वचिन्तामणौ2 ---
ऽनामजात्यादियोजनारहितं वैशिष्ट्यानवगाहि निष्प्रकारकं
निर्विकल्पकम्ऽ इति निर्विकल्पकलक्षणं प्रादर्शि।
वैशिष्ट्यानवगाहीत्यस्यैव विवरणं निष्प्रकारकमिति। निर्विकल्पके
प्रकारताख्यविषयताशून्यत्वमिव विशेष्यताख्यविषयताशून्यत्वमपि
वर्तते। तथा च निर्विशेष्यकं ज्ञानं निर्विकल्पकमित्यपि शक्यते
वक्तुम्। तथा अनुक्त्वा निष्प्रकारकमिति वदतां
मणिकाराणामयमाशयः--- यथा सविकल्पकस्य विशिष्टज्ञानत्वात् ततः
पूर्वं विशेषणज्ञानं कल्प्यते, तथा निर्विकल्पकहेतुतया ज्ञानान्तरं
नापेक्षितमिति।
एतादृशनिर्विकल्पकसद्भावे प्रमाणं तु - एतज्जन्मनि प्राथमिकं
गौरिति प्रत्यक्षं जन्यविशेषणज्ञानजन्यं जन्यविशिष्टज्ञानत्वात्
अनुमितिवत् इत्यनुमानम्। यथा ऽपर्वतो वह्निमान्ऽ
इत्यनुमितिः वह्निविशिष्टपर्वतविषियणी
वह्नरूपविशेषणज्ञानात्मकसाध्यप्रसिद्धिजन्या तथा प्राथमिकं
गौरिति विशिष्टप्रत्यक्षमपि गोत्वात्मकविशेषणज्ञानादेवोदेतीति
वक्तव्यम्। तदेव वैशिष्ट्याविषयकं निर्विकल्पकम्।
न च तत्र
प्राथमिकविशिष्टप्रत्यक्षं प्रति गोत्वरूपविशेषणस्मरणमेव हेतुः,
तथा च न निर्विकल्पकप्रत्यक्षं सिध्यतीति वाच्यम्। एतज्जन्मनि पूर्वं
गोत्वस्याननुभवेन तत्स्मरणासंभवात्।
न च
गोत्वरूपविशेषणानुभवः सविकल्पक एव सन् ऽअयं गौःऽ इति
विशिष्टप्रत्यक्षं जनयतु। तथा च गतं निर्विकल्पकेनेति वाच्यम्।
तथात्वे तस्यापि विशिष्टज्ञानत्वेन विशेषणज्ञानजन्यत्वं तस्यापि
तथेत्यनवस्थाप्रसङ्गात्। तथा च गोत्वविषयकं
निर्विकल्पकमर्थात्सिध्यति।
अत्रेदमाशङ्क्यते -
यदुक्तं विशिष्टबुद्धेर्विशेषणज्ञानपूर्वकत्वान्निर्विकल्पकं सिध्यतीति।
तन्न। गौरिति विशिष्टज्ञानं विशेषणज्ञानजन्यं विशिष्टज्ञानत्वात्
इत्यनुमाने भिन्नसामग्रीवेद्यविषयकत्वस्योपाधित्वात्। यत्र
विशेषणं विशेष्यं च भिन्नसामग्रीवेद्यं तत्रैव विशिष्टज्ञानं
विशेषणज्ञानपूर्वकं दृष्टम्, यथा सूरभि चन्दनमिति
विशिष्टप्रत्यक्षम्। तत्र हि विशेषणं सौरभं घ्राणेन्द्रियवेद्यं विशेष्यं
चन्दनं चक्षुर्वेद्यमिति भिन्नसामाग्रीवेद्यविषयकत्वात् विशिष्टप्रत्यक्षस्य
आदौ सौरभरूपविशेषणज्ञानं, तेन सुरभि चन्दनमिति
विशिष्टप्रत्यक्षं भवति। एकेन्द्रियवेद्ययोर्गोत्वयोरेककाल
विशिष्टज्ञानसंभवात् गोत्वज्ञानं ततो गोत्वविशिष्टगोज्ञानमिति
कल्पनं न युज्यते।
ननु
विशेषणविशेष्ययोः गोत्वगोव्यक्त्योः एकेन्द्रिययोग्यत्वेन
एकज्ञानविषयत्वे ऽपि तयोः संबन्धस्यातथात्वात्
प्रथमज्ञाने तयोः
संबन्धो न भासते। तदेव निर्विकल्पकम्।
विशेषणविशेष्यसंबन्धानवगाहिज्ञानस्यैवास्माभिर्निविकल्पकशब्दवाच्यत्वाङ्गीकारादिति
चेत्-न। संबन्धपदेन किं स्वरूपं विवक्षितम्? अत समवायः? आद्ये
विशेषणविशेष्यस्वरूपग्रहणे संबन्धो ऽपि गृहीत एवेति क्व
निर्विकल्पकम्। द्वितीये चक्षुषा संयुक्तविशेषणताख्यसंनिकर्षेण
समवायो गृह्यत इति भवत्सिद्धान्तात्
गोगोत्वसमवायानामेकेन्द्रिययोग्यत्वात् एककाल एव त्रयाणां
ग्रहणं भवितुर्महति। अन्यथा योग्यस्यापि समवायस्य प्रथममग्रहणे
पश्चादपि ग्रहणं न स्यात्। तथा च संसर्गानवगाहि निर्विकल्पकज्ञानं
न युक्तिसहमिति।
अत्रेत्थं समाधीयते ---
निर्विकल्पकज्ञाने जात्यादिरूपं विशेषणं व्यक्तिरूपं विशेष्यं च
भासते। संबन्धस्तु न भासते। संबन्धज्ञानं प्रति संबन्धिज्ञानस्य
कारणतया पूर्वं तदभावात्। तथा च पूर्वं
विशेषणविशेष्यरूपसंबन्धिनोर्ज्ञानं निर्विकल्पात्मकं जायते,
ततस्तयोः संबन्धावगाहि सविकल्पकं ज्ञानं जायते।
तदुक्तमुदयनाचार्यैः --- ऽसहकारिवैकल्यात्तु निर्विकल्पके
समवायाग्रहणम्ऽ इति। सहकारिवैकल्यादित्यस्य
संबन्धिज्ञानविरहादित्यर्थः। तथा च संबन्धो ऽपि कुतो निर्विकल्पके
न भासत इति चोद्यस्य नावसरः।
यदपि
भिन्नसामग्रीवेद्यविषयकत्वमुपाधिरिति - तत्रदं वक्तव्यम्।
अनुमितिशाब्दादौ साध्यप्रसिद्ध्यादेः कारणतया यद्विशेषयोरिति
न्यायेन विशिष्टज्ञानत्वावच्छिन्नं प्रति विशेषणज्ञानत्वावच्छिन्नं
कारणमिति सामान्यकार्यङ्कारणभावस्य सिद्धौ एकसामग्रीवेद्येष्वपि
विशेषणज्ञानकल्पनेन तज्जन्यैव विशिष्टबुद्धिः। तथा च
भिन्नसामग्रीवेद्यविषयकत्वस्य साध्यव्यापकत्वभङ्गात् उपाधित्वं न
संभवतीति।
सर्वमिदं
मनसिकृत्यैव दीपिकायामुक्तम् ---
ऽननु निर्विकल्पके किं
प्रमाणमिति चेत्-न। गौः इति
विशिष्टज्ञानं
विशेषणज्ञानजन्यं विशिष्टज्ञानत्वात् दण्डीति
ज्ञानवत्
इत्यनुमानस्य प्रमाणत्वात्। विशेषणज्ञानस्यापि
सविकल्पकत्वे
अनवस्थाप्रसङ्गात् निर्विकल्पकसिद्धिःऽ
इति।
[ 8 ] संनिकर्षविचारः
तर्कसंग्रहे
दीपिकायां च प्रत्यक्षहेतुः संनिकर्षः संयोगादिभेदेन षड्विध
इति सोदाहरणं प्रदर्शितम्। प्रकाशिकायां प्रत्यक्षं द्विविधं
लौकिकम् अलौकिकं चेति। लौकिकप्रत्यक्षहेतुः संनिकर्षः
संयोगादिभेदेन षङ्विधः। अलौकिकप्रत्यक्षहेतुः संनिकर्षः
सामान्यलक्षणः ज्ञानलक्षणः योगजधर्म इति त्रिविध इति
प्रत्यपादि।
षोढा संनिकर्षस्तु
न्यायवार्तिके प्रस्तुतः, सूत्रे भाष्ये वा न दृश्यते क्वापि। एतं
विषयमधिकृत्य न्यायभूषणकाराः1 इत्थं किञ्चिद्विचारयन्ति ---
आचार्याध्ययनपादनामा न्यायसूत्रभाष्यकारः निकर्षशब्देनैव संबन्ध
इत्यर्थे लब्धे ऽसम्ऽ इत्युपसर्गबलात् संभवी संबन्धः
संनिकर्षशब्देनोच्यते। संभवी च संबन्धः षड्विध एवेति
प्रत्यपादयत्। तन्न। तथा सति ऽनिऽ इत्युपसर्गस्य व्यर्थत्वात्।
कर्षशब्देनैव धातूनामनेकार्थत्वात् संबन्ध इत्यर्थे लब्धे ऽसंऽ
शब्दमहिम्ना षड्विधत्वलाभे निशब्दो व्यर्थ इति। कर्षशब्दस्य
संबन्धार्थकत्वेन लोकप्रसिद्धिर्नास्तीति चेत् निकषशब्दस्य
संबन्धवाचकत्वेन कुत्र प्रसिद्धिरिति भवता वक्तव्यम्।
निकृष्टत्ववाचकतया हि निकर्षशब्दो लोके प्रसिद्धो न
सम्बन्धवाचकतया। तस्मात् ऽसम्ऽ ऽनिऽ इत्युपसर्गद्वययुक्त एव
कृषधातुः संबन्धमभिधत्ते यथा ऽसम्ऽ ऽअवऽ इत्युपसर्गद्वयपूर्वकः
इण्धातुः समवायम्। तस्मात् कृषधातोः सम्बन्धार्थकत्वद्योतकतया
सार्थकः ऽसम्ऽ शब्दः षङ्विधत्वप्रतिपादनाय नालमिति ऽसम्ऽ
शब्दमहिम्ना षड्विधत्वलाभ इति व्याख्यानं न समीचीनम्।
तस्माद्यथा आलोकादयः सूत्रानुक्ता अपि अन्वयव्यतिरेकबलात्
प्रत्यक्षहेतुतया अनुमन्यन्ते तथा षड्विधानां संनिकर्षाणामपि
प्रत्यक्षं प्रत्यन्वयव्यतिरेकबलाद्धेतुत्वं सिध्यति। न्यायसिद्धो ऽयमर्थो
यतः सूत्रकारैर्न निराकृतः
अतस्तत्संमत
इत्युन्नीयते। ऽपरमतमप्रतिषिद्धमनुमतमिति हि तन्त्रयुक्तिःऽ इति
न्यायात् इति।
वैशेषिकदर्शने तु
संनिकर्षप्रभेदविषये न्यायसूत्रापेक्षया किञ्चित् स्पष्टतया
सूचनमस्ति। तथा हि ---
ऽआत्ममनसोः
संयोगादात्मप्रत्यक्षम्ऽ (वै.सू.9-1-11) इति सूत्रेण
आत्मविषयकप्रत्यक्षं प्रति मनस्संयोगः कारणमित्युक्तम्। तेन
द्रव्यविषयकप्रत्यक्षं प्रति इन्द्रियसंयोगः कारणमिति सूचितम्।
ततः-- ऽआत्मसमवायादात्मगुणेषुऽ (वै.सू.9-1-15) इति सूत्रेण
आत्मसमवेतज्ञानादिगुणविषयकप्रत्यक्षे मनस्संयुक्तसमवायः
कारणमिति स्पष्टीकृतम्। तथा --
ऽअनेकद्रव्यसमवायाद्रूपविशेषाच्च रूपोपलब्धिःऽ (वै.सू.4.1.7)
ऽसंख्याः परिमाणं कर्म च रूपिद्रव्यसमवायाच्चाक्षुषाणिऽ
(वै.सू.4-1-11) इति सूत्राभ्यां द्रव्यगतगुणक्रियाविषयकप्रत्यक्षे
चक्षुस्संयुक्तसमवायः कारणमिति स्पष्टमुक्तम्।
ऽएतेन गुणत्वे भावे
च सर्वेन्द्रियं ज्ञानं व्याख्यातम्ऽ (वै.सू.4.1.13) इति सूत्रेण यथा
गुणप्रत्यक्षे द्रव्यसमवायो हेतुस्तथा गुणगतजातिप्रत्यक्षे ऽपि
संयुक्तसमवेतसमवायो हेतुरिति व्यञ्जितम्। तथा-
ऽश्रोत्रग्रहणो योर्ऽथः
स शब्दःऽ (वै.सू.2-2-21) इति सूत्रेण शब्दस्य
श्रोत्रजन्यप्रत्यक्षविषयत्वं लक्षणमुक्त्वा,
ऽएकद्रव्यत्वान्न द्रव्यम्ऽ
(वै.सू.2-2-23) इति सूत्रेण शब्दस्याद्रव्यत्वे
आकाशात्मकैकद्रव्यसमवायस्यं हेत् करणात्,
ऽभूयस्त्त्वात्
गन्धवत्त्वाच्च पृथिवी गन्धज्ञाने प्रकृतिःऽ
(वै.सू.8-2-5)
ऽतथापस्तेजो वायुश्च
रसरूपस्पर्शाविशेषात्ऽ (वै.सू.8-2-6) इत्याष्टमिकसूत्राभ्यां
घ्राणरसनचक्षुस्त्त्वचां चतुर्णामिन्द्रियाणां
भूतप्रकृतिकत्वमुपन्यस्यता श्रोत्रस्य प्रकृतिविशेषानिर्देशेन
नित्यत्वसूचनद्वारा आकाशस्य श्रोत्रत्वसूचनाच्च श्रोत्रसमवायः
शब्दप्रत्यक्षे हेतुरिति ध्वनितम्।
ऽएतेन गुणत्वे भावे
चऽ (वै.सू.4-1-13)
इति सूत्रोक्तन्यायेन
शब्दत्वप्रत्यक्षे समवेतसमवायाख्यः संनिकर्षो ऽपि सूचित एव। तथा
ऽअसदिति
भूतप्रत्यक्षाभावात् भूतस्मृतेर्विरोधिप्रत्यक्षवत्ऽ
(वै.सू.9-1-6)
इति सूत्रं दृश्यते।
तस्यायमर्थः --- असन् घट इत्यद्याकारकमभावप्रत्यक्षं
विरोधिप्रत्यक्षवत् प्रतियोगिघटप्रत्यक्षतुल्यम्। प्रतियोगिनो
घटस्य प्रत्यक्षं यथानुभवसिद्धं लौकिकसंनिकर्षजन्यं च तथा
अभावप्रत्यक्षमपि नापलापार्हं संनिकर्षजन्यं चेत्यर्थः। अभावप्रत्यक्षे
तु प्रतियोगिनो योग्यानुपलब्धिः स्मरणं चेति
सहकारिकारिणद्वयमपेक्षितमिति वशेषः। तदाह ---
भूतप्रत्यक्षाभावात् भूतस्मृतेरिति। भूतस्य उत्पद्य विनष्टस्य घटादेः
प्रतियोगिनः उपलब्ध्यभावात् स्मरणाच्चेत्यर्थः। एवं चाभावप्रत्यक्षस्य
संनिकर्षजन्यत्वं सूचयन् सूत्रकारः संयोगसमवायाद्यसंभवात्
विशेष्यविशेषणभावात्मकं संनिकर्षमपि समसूचयत्। तथा च
षड्विध इति शब्देन अविभक्तो ऽपि षट्संख्याकः संनिकर्षः
वैशेषिकतन्त्रसूचित इति निश्चिनुमहे। प्रशस्तपादभाष्ये
प्रत्यक्षनिरूपणावसरे विशेषणविशेष्यभावं विना अन्ये पञ्च
संनिकर्षाः निर्दिष्टाः। अभावपदार्थमधिकृत्य प्रशस्तपादभाष्ये यतो
निरूपणं नास्ति अतो विशेषणताख्यसंनिकर्षस्य तत्र प्रस्तावो न
विद्यते। कन्दलीकारास्तु षड्विधमपि संनिकर्षं सोदाहरणं
प्रदर्शयामास।
प्रत्यक्षसूत्रे
न्यायवार्तिककाराः1 ऽसंनिकर्षः पुनः षोढा भिद्यते, इत्यादिना
ग्रन्थेन पूर्वोक्तान् षड्विधान् संनिकर्षान् सोदाहरणं
प्रादर्शयन्। सूत्रादयं विभागः कथं लभ्य इति शङ्कायाम् ---
ऽसो ऽयं
संनिकर्षशब्दः संयोगसमवाय-
विशेषणविशेष्यभावव्यापकत्वादुपात्तःऽ
इति ग्रन्थेन2
संयोगसमवायादिसाधारणं संनिकर्षशब्दं प्रयुक्तवता सूत्रकारेण
संभाविताः संनिकर्षा ग्रहीतव्या इति सूचितमिति समाहितम्।
विशेषणविशेष्यभावः
न्यायवार्तिके
विशेषणविशेष्यभावः षष्ठः संनिकर्षः प्रोक्तः। स च
समवायविषयकप्रत्यक्षं प्रति
अभावविषयकप्रत्यक्षं
प्रति च हेतुरिति प्रसाधितम्। तत्र टीकायाम्3 --
ऽविशेषणभावेन
संयुक्तविशेषणं समवेतविशेषणं च संगृहीतम्ऽ इति व्याख्यानं
दृश्यते। तस्यायमाशयः। भूतलादिविशेष्यकाभावप्रत्यक्षं प्रति
संयुक्तविशेषणत्वं संनिकर्षंः। अकारे ऽनुदात्तस्वरो
नास्तीत्यादिशब्दविशेष्यकाभावप्रत्यक्षं प्रति समवेतविशेषणत्वं
संनिकर्ष इति। न्यायसारे4 तु ---
ऽएतपञ्चविधसम्बन्धसंबद्धविशेषणविशेष्यभावात्
दृश्याभावसमवाययोर्ग्रहणम्ऽ
इत्यभिहितम्।
विशेषणत्वं पञ्चविधं संयुक्तविशेषणत्वम्,
संयुक्तसमवेतविशेषणत्वम्, संयुक्तसमवेतसमवेतविशेषणत्वम्,
समवेतविशेषणत्वम्, समवेतसमवेतविशेषणत्वम् चेति तदाशयः।
दीपिकायां
प्रकाशिकायां च विशेषणत्वविशेष्यत्वयोरुभयोरपि संनिकर्षत्वम्
सयुक्तिकं प्रत्यपादि। तद्विस्तरो बालप्रियायां द्रष्टव्यः।
त्रिविधः
अलौकिकसंनिकर्षस्तु प्राचीनग्रन्थेषु न दृश्यते। मणिकारैस्तत्र तत्र
व्यवहृतः मुक्तावलीकारादिभिः प्रपञ्चितः। अनुमानखण्डे मणौ
सामान्यलक्षणा प्रत्यासत्तिः परं विस्तरेण स्थापितेत्यास्तामियता।
( 9 ) अनुपलब्धिविचारः
अनुपलब्धिसहकृतेन्द्रियेणैवाभावज्ञानोपपत्तौ अनुपलब्धिः न
प्रमाणान्तरम्। अधिकरणज्ञानार्थमपेक्षितस्येन्द्रियस्यैव
करणत्वोपपत्तौ अनुपलब्धेः करणत्वायोगादिति दीपिकाकाराः।
एतत्तत्त्वमिदानीं विचार्य निर्धार्यते।
न्यायदर्शने --- ऽन
चतुष्ट्वमैत्तिह्यार्थापत्तिसंभवाभावप्रामाण्यात्ऽ (न्या. सू. 2-2-1)
इति सूत्रेण चत्वार्येव प्रमाणानीत्येतन्न संगच्छते। ऐतिह्यम्
अर्थापत्तिः संभवः अभावश्चेति चतुर्णां प्रमाणानां संभवात्
इत्याशङ्क्य, ऽशब्दे ऐतिह्यानर्थान्तरभावात्
अनुमानेर्ऽथापत्तिसंभवाभावानामनर्थान्तरभावाच्चाप्रतिषेधःऽ (न्या.
सू. 2-2-2) इति सूत्रेण ऐतिह्यस्य शब्दे अर्थापत्तिसंभवाभावानां
त्रयाणामनुमाने ऽन्तर्भावात् चत्वार्येव प्रमाणानीति सिद्धान्तितम्।
तत्राभावपदेन किं विवक्षितम्? तस्य कथमनुमाने ऽन्तर्भावः? इति
विषये न्यायसूत्रतः किमपि नावगम्यते। न्यायभाष्यकारः
तत्सूत्रव्याख्यानावसरे ---
ऽअभावो विरोधी
अभूतं भूतसयः अविद्यमानं
वर्षकर्म विद्यमानस्य
वाय्वभ्रसंयोगस्य प्रतिपादकम।
विधारके हि
वाय्वभ्रसंयोगे गुरुत्वादपां पतनकम
न भवतिऽ
इति अभाषत।
तस्यायमाशयः - अभावो ऽपि कस्यचिदर्थस्य प्रमिति-हे तुर्भवति, यथा
तोयपातरूपवृष्ट्यभावः वायुमेघसंयोगस्य। अतः
अभावेनाप्यर्थान्तरप्रमित्युत्पत्त्या अभावो ऽपि प्रमाणमिति पूर्वपक्षः।
सिद्धान्तस्तु - सत्यमभावः प्रमाणम्, न त्वतिरिक्तं प्रमाणम्। अभावस्य
लिङ्गविधया अर्थान्तरप्रमितिजनकत्वेनानुमाने ऽन्तर्भावात् इति।
वार्तिकतात्पर्यटीकयोरप्येवमेवोपपादितम्। परं त्वेतेषु
मूलग्रन्थेषु मीमांसकैः अभावशब्देन व्यवह्नियमाणं यत्
अतुपलब्ध्याख्यं प्रमाणं तस्य प्रस्ताव एव नास्ति।
यद्यप्यनुपलब्धेरप्युपलब्ध्यभावरूपतया तस्यापि
घटाभावादिप्रत्यायकस्य प्रमाणत्वशङ्का तस्यानुमाने ऽन्तर्भावश्च
पूर्वोत्तरपक्षसूत्राभ्यां सूच्यत इत्यस्ति संभावयितुमवकाशः तथपि
भाष्यवार्तिकादितो ऽस्याशयस्य सूचकं किमपि नोपलभ्यते।
कणादमुनिः
अभावप्रमाणमधिकृत्य विशिष्य न किञ्चिदभ्यधात्। तथापि ऽअसदिति
भूतप्रत्यक्षाभावात्
भूतस्मृतेःऽ [वै.सू.9-1-6] इति सूत्रेण अभावप्रत्यक्षं
प्रतियोग्युपलम्भाभावजन्यमिति कथनेन
प्रतियोग्युपलम्भाभावसहकृतमिन्द्रियमभावप्रत्यक्षहेतुरिति
सूचितवात्। कन्दलीकारः1 ----
ऽअपि
चेन्द्रियार्थसंनिकर्षादुपलभ्यमाने भूतले
अभावज्ञानमपि भवति
अघटं भूतलमिति ।
तत्र
भूतलस्येवाभावस्यापि प्रत्यक्षता किं नेष्यतेऽ
इति ग्रन्थेन
अभावबुद्धिः प्रत्यक्षेप्यन्तर्भावयितुं शक्यते, अतो न तत्साधनं
प्रमाणान्तरमन्वेष्टव्यमिति प्रत्यपादयत्।
शबरस्वामिनः
अभावाख्यप्रमाणमधिकृत्य2 ---
ऽअभावो ऽपि
प्रमाणाभावः नास्तीत्यस्यार्थस्यासंनिकृष्टस्यऽ
इत्यभाषन्त। ऽभूतले
घटो नास्तिऽ इत्येवं प्रतीयमानो यो नञर्थो ऽभावः
इन्द्रियासंनिकृष्टः तस्य बोधकं प्रमाणम् अभाव इत्युच्यते।
अभावो नाम प्रमाणाभावः, प्रत्यक्षादिप्रमाणपञ्चकाभाव इत्यर्थः।
अयमेवानुपलब्धिपदेन पश्चात्कालिकैर्व्यवह्रियते।
उदयनाचार्याः1
अनुपलब्धेः प्रत्यक्षानुमानयोरन्तर्भावं साधयन्ति स्म। तथा हि -
अनुपलब्धिः कदाचित् ज्ञायमाना अभावप्रमां प्रति कारणम्,
कदाचिच्चाज्ञायमाना। तत्र ज्ञातानुपलब्धेः अनुमाने, अज्ञातानुपलब्धेः
प्रत्यक्षे ऽन्तर्भावः। ज्ञातकारणस्य परोक्षज्ञानजनकतायाः अज्ञातकारणस्य
प्रत्यक्षज्ञानजनकतायाश्च लिङ्गेन्द्रियादौ दर्शनात्।
ज्ञातानुपलब्धेरुदाहरणं यथा - मन्दिराच्चैत्रमानेतुमाज्ञप्तः प्रेष्यः
स्वामिनं कथयति - ऽनिपुणतरमन्विष्टो मया मन्दिरे चैत्रः, एवमपि
नोपलब्धःऽ इति। अस्माच्च मन्दिरे चैत्रस्य योग्यानुपलब्धिं ज्ञात्वा
स्वामी अनुमिनोति ऽप्रेष्यप्रवेशसमये चैत्रो मन्दिरे
नासीत्ऽ इति। अत्र
परकीयानुपलब्धिः शब्दतो ज्ञायमाना अनुमित्यात्मकं परोक्षज्ञानं
जनयतीति। एवमेव प्रातःकालिकाभावप्रतीतिरपि व्याख्यातव्या। तथा
हि चैत्रो मन्दिरे प्रातरासीत् किम्? इति मध्याह्ने केनचित्
पृष्टे कश्चिदेवं मन्यते - निपुणतरं प्रातश्चैत्रान्वेषणाय मन्दिरं
प्रविष्टवतापि मया यस्माच्चैत्रो नोपलब्धः, तस्मात्तदा स तत्र
नासीदिति। अत्र स्वयमेव स्वकीयानुपलब्धिं कालान्तरे ज्ञात्वा
अभावमनुमिनोति। तस्मात्प्रातःकालिकस्याभावस्य प्रतीतिर्मध्याह्ने
ज्ञायमाना ज्ञातानुपलब्धिजन्यत्वादनुमितिरूपेति।
अज्ञातानुपलब्धिजन्यं
तु ज्ञानं प्रत्यक्षम्। तत्र चत्वारो हेतव उपन्यस्ताः---
ऽप्रतिपत्तेरपारोक्ष्यादिन्द्रियस्यानुपक्षयात्।
अज्ञातकारणत्वाच्च
भावावेशाच्च चेतसः॥ऽ इति।
इन्द्रियभूतलसंयोगानन्तरभवा ऽअघटं भूतलंऽ
इत्यभावप्रतीतिः इन्द्रियकरणिका अपरोक्षरूपत्वात्
कार्यान्तरानुपक्षीणेन्द्रियसापेक्षत्वात् अज्ञायमानकरणकत्वात्
मनसो भावरूपं कारणान्तरमपेक्ष्यैव
बाह्यानुभवजनकत्वनियमसिद्धात्
मनस्सहकारिभावभूतकरणसापेक्षत्वाच्चेति उक्तश्लोकस्यार्थः। एते च
हेतवः कुसुमाञ्जलौ तत्त्वचिन्तामणौ सविस्तरमुपपादितास्तत्रैव
द्रष्टव्याः।
अपि च प्राचीनेषु
सर्वेषु ग्रन्थेषु योग्यस्यानुपलब्धिः इति षष्ठीतत्पुरुषमभिप्रेत्य
योग्यप्रतियोगिप्रकारकयोग्याधिकरणविशेष्यकोपलम्भाभावो
योग्यानुपलब्धिरिति व्यवह्रियते स्म।
योग्यप्रतियोगिप्रकारकत्वविशेषणात् स्तम्भे पिशाचाभावस्य न
प्रत्यक्षता। योग्याधिकरणविशेष्यकत्वनिवेशात् जलपरमाणौ
पृथिवीत्वाभावस्य न प्रत्यक्षता। मणिकारास्तु योग्या
चासावनुपलब्धिश्च योग्यानुपलब्धिरिति कर्मन्धारयमभिप्रेत्य
प्रतियोगिसत्त्वप्रसञ्जनप्रसञ्जितप्रतियोगिकत्वं योग्यत्वमिति
परिष्कारं चक्रुः। दीपिकादौ
मणिकृन्मतानुसारेणैव निर्वचनं कृतम्। प्राचीनमते ऽपि न
काचिदस्त्यनुपपत्तिरिति दिनकरीव्याख्यायां रामरुद्र्यां स्पष्टम्।
[ 10 ] व्याप्तिविचारः
तत्त्वचिन्तामणौ
अनुमानखण्डे प्राचीनोक्तानि बहूनि व्याप्तिलक्षणानि अनूद्य दूषयित्वा
स्वयं निर्देषाण्यनेकानि व्याप्तिलक्षणानि गङ्गेशोपाध्यायाः
प्रदर्शयामासुः। तत्र
प्रतियोग्यसमानाधिकरणयत्समानाधिकरणात्यन्ताभावप्रतियोगितावच्छेदकावच्छिन्नं
यन्न भवति तेन समं तस्य सामानाधिकरण्यमिति प्राथमिकी
सिद्धान्तव्याप्तिः। इयमेव दीपिकायां प्रकाशिकायां च अनूदिता।
तद्धटकदलानां प्रयोजनानि च विवेचितानि।
अत्रेदं विचार्यते ---
सर्वेष्वपि मणिकारप्रदर्शितेषु व्याप्तिलक्षणेषु साध्यहेत्वोः
सामानाधिकरण्यस्य प्रवेशात् व्यधिकरणसाध्यसाधनयोरपि
व्याप्तेरिष्टत्वात् तत्र कथं समन्वयः। तथाहि - अधोदेशे
नदीपूर्त्या ऊर्ध्वदेशे वृष्टिरनुमीयते, पद्मस्य विकासेन
सूर्यस्योदयो ऽनुमीयते, समुद्रस्य वृद्ध्या चन्द्रस्योदयनुमीयते।
तथा भूमिष्ठेनालोकेन उपरिष्ठः सविता, चक्रस्य भ्रमणेन भ्रामकस्य
कुलालस्य संनिहितत्वम्, कृत्तिकोदयेन रोहिण्युदयासत्तिः
ऊर्ध्वभागस्थधूमेनाधोभागस्थवह्निश्चानुमीयते। एतादृशस्थलेषु
सामानाधिकरण्यगर्भव्याप्तेरभावात्
लक्षणाव्याप्तिः इति।
इदमत्र समाधानम्
--- व्यधिकरणतया उदाहृतस्थलेष्वपि नदी वृष्टिमदूर्ध्वदेशसंबद्धा
पूरवदधोदेशसंबद्धत्वात्, अयं कालः सूर्योदयवान्
पद्मविकासवत्कालत्वात्, अयं प्रदेशः कुलालासत्तिमान्
भ्रमच्चक्राधिकरणत्वात् इत्याद्यनुमानानां विवक्षितत्वात् तत्र
सामानाधिकरण्यस्योपपत्तिः। देशतः व्यधिकरणेंषूक्तस्थलेषु कालतः
सामानाधिकरण्यसद्भावात् कालिकसंबन्धस्य
साध्यहेतुतावच्छेदकत्वं स्वीकृत्य व्याप्तिः संपादनीयेति।
( 11 ) पदशक्तिविचारः
दीपिकायां
शब्दपरिच्छेदे गवादिपदानां गोत्वादिजातावेव शक्तिरिति
मीमांसकमतेन पूर्वपक्षं कृत्वा वृद्धव्यवहारबलेन
जातिविशिष्टव्यक्तावेव शक्तिरिति स्थापितम्। एतत्तत्त्वं
प्राच्यनव्यग्रन्थविवेचनपूर्वकं स्पष्टीक्रियते।
तत्रादौ
न्यायसूत्रकाराद्याशयः चिन्त्यते। गवादिप्रातिपदिकस्यार्थः कः? किं
व्यक्तिः? किं वा अवयवसंयोगविशेषरूपा आकृतिः? अथ वा जातिरिति
सन्देहः। संदेहस्य कारणं तु अविनाभावेन वर्तमानासु
व्यक्त्याकृतिजातिषु गौरिति शब्दः प्रयुज्यते। तत्र न ज्ञायते किं
तासामन्यतमः शब्दार्थः? अथ वा ताः तिस्रो ऽपीति। तत्र व्यक्तिवादी
आहशब्दप्रयोगसामर्थ्याद्धि पदार्थो निश्चेतव्यः। शब्दप्रयोगश्यश्च
व्यक्तिमुद्दिश्यैव भवति। तथा हि ऽया गौस्तिष्ठतिऽ ऽया गौर्निष्णाऽ
इति गोशब्दार्थस्य स्थित्यादीनि विशेषणानि दीयन्ते। जातेः
शब्दार्थत्वे तस्याः एकत्वात् विशेषणमनुपपन्नम्,
व्यावर्तनीयान्तराभावात्। व्यक्तेः पदार्थत्वे तु या गोव्यक्तिर्न
तिष्ठति तद्व्यावर्तनार्थं तिष्ठतीति विशेषणं संगच्छते। एवं गौः
उपचीयते, अपचीयते, गां ददाति प्रतिगृह्णाति इत्यादौ
वृद्धिदानादिक्रियासंबन्धः व्यक्तेरेव भवति न जातेः। गौः शुक्ला
कपिलेत्यादौ शुक्लादिगुणसंबन्धः व्यक्तेरेवोपपद्यते। एवं
गोत्वजातेरेकत्वात् एकत्वातिरिक्तसंख्यावत्त्वं तस्याः नास्तीति
जातेः पदार्थत्वे विंशतिर्गाव इत्यादिवाक्यार्थबोधो ऽनुपपन्नः।
एवं गोसुखमित्यादिसमासे सुखाद्यन्वयो गोव्यक्तेरेव श्लिष्यते।
गैर्ङ्गां जनयतीत्यादौ जन्मान्वयः गोव्यक्तेर्न गोत्वजातेः। तस्मात्
व्यक्तिरेव पदार्थ इति।
आकृतिवादी तु प्राह
--- न व्यक्तिः पदार्थः। अयं गौः अयमश्व इति प्राणिनां या व्यवस्था
सा अवयवसंयोगरूपाकृतिमपेक्ष्य हि भवति। तस्मात् आकृतिः
पदार्थ इति।
जातिवादी तु - न
व्यक्तिः नाप्याकृतिः पदार्थः। तासामानन्त्येन तत्र शक्तिग्रहासंभवात्।
अपि च मृद्गवके व्यक्तेराकृतेश्च सद्भावे ऽपि ऽगां प्रोक्षयऽ
ऽगामानयऽ इत्यादिवाक्योक्तप्रोक्षणानयनादिकं न क्रियते।
व्यक्तिवादे आकृतिवादे च तत्रापि तत्प्रसङ्गः। जातेः पदार्थत्वे तु
मृद्गवके गोत्वजात्यभावात् न प्रोक्षणादिकमिति।
परं तु जातिपक्षे ऽपि
अगृह्यमाणायां व्यक्तौ आकृतौ च जातेरग्रहात् जातिज्ञानस्य
व्यक्त्याकृतिविषयकत्वनियमात् जातिमात्रं न पदवाच्यं
भवितुमर्हन्तीत्याक्षेपो वर्तते। अतः कः पदार्थ इति
जिज्ञासायामुक्तं
सूत्रकारेण ---
ऽजात्याकृतिव्यक्तयस्तु
पदार्थःऽ (न्या.सू. 2-2-67) इति। अस्यैवं व्याख्यानम् -- त्रिष्वेका
शक्तिरिति सूचनायपदार्थ इत्येकवचनम्। कदाचित् व्यक्तेः
प्राधान्यम्, कदाचिदाकृतेः कदाचिज्जातेः इति प्राधान्यानुसारेण
पदार्थत्वमिति विशेषसूचनाय तुशब्दः। यदा भेदविवक्षा
व्यक्तिविशेषावगतिश्च गौस्तिष्ठति गौर्निषण्णेति तदा व्यक्तिः
पदार्थः अङ्गे जात्याकृती। यदा तु भेदो ऽविवक्षितः
सामान्यावगतिश्च तदा जातिः पदार्थः यथा गौर्न पदा
स्प्रष्टव्येत्यादौ। पिष्टकमय्यो गावः क्रियन्तामित्यादौ आकृतिः
पदार्थ इति।
एवमपि लाघवात्
जातावेव शक्तिरस्तु, इतरयोर्लक्षणयैव बोधो भवतु इति
शङ्का जायते। अत्रोक्तं तात्पर्यटीकायाम् - गोशब्दश्रवणानन्तरं
विदितसंगतेः पुरुषस्य एककाले व्यक्त्याकृतिजातीनां बोधो
भवति, न पुनर्यथा ऽगङ्गायां घोषः प्रतिवसतिऽ इत्यत्र वा
ऽगौर्वाहीकःऽ इत्यत्र वा गङ्गात्वगोत्वावगमोत्तरं वाक्यार्थे
तत्सम्बन्धानुपपत्तेः तदविनाभावेन वा लक्ष्यमाणगुणयोगेन वा
तीरं वाहीको वावगम्यते तथेहावगतिः। अपि तु
युगपदेवावगतिः। अतो ऽवगतिरूपेण कार्येण कल्पनीया
पदशक्तिस्त्रिषु पदार्थेंषु विश्राम्यति,
त्रयाणामेककाले ऽवगत्याविशेषादिति। इयं प्राचीनन्यायग्रन्थरीतिः।
नव्यनैयायिकास्तु घटादिपदात्
घटत्वघटकृतिप्रकारकव्यक्तिविशेष्यकबोधोदयात्
जात्याकृतिविशिष्टव्यक्तौ घटादिपदानां शक्तिः।
आत्मादावाकृत्यभावात् जातिविशिष्टव्यक्तौ शक्तिः।
आकाशादिपदानामुपाधिविशिष्टे शक्तिः, आकाशजात्यभावात्। तत्रापि
घटत्वादेः शक्यत्वे सति शक्यतावच्छेदकत्वमप्यङ्गीक्रियते।
अवयवसंयोगविशेषरूपाकृतेः शक्यत्वे ऽपि शक्यतावच्छेदकत्वं
नाङ्गीक्रियते, जातेरिव साक्षात्संबन्धेन शक्यव्यक्त्यवृत्तित्वात्,
स्वाश्रयसमवेतत्वरूपपरम्परासंबन्धेनैव शक्यतावच्छेदकत्वं
वाच्यमिति गौरवात् इत्याहुः।
अन्ये तु
संस्थानानुपस्थितावपि गोत्वादिना गवाद्यन्वयबोधात्
जातिविशिष्टव्यक्तावेव गवादिपदानां शक्तिः। संस्थाने च पृथगेव
शक्तिरित्याहुः। परं त्वस्मिन् पक्षे सूत्रस्थमेकवचनमस्वरसं भवति।
मीमांसकमतपरिशीलनम्
यत्तु मीमांसकैः
प्रथमोपस्थितत्वाज्जातावेव शक्तिरित्युक्तम्, तद्विपरीतम्।
आश्रयप्रतीतिमन्तरा जातिगुणयोरेवाप्रतीतेः। व्यक्तिर्हि प्रथमतो
ज्ञायते। ततो व्यक्तिगतव्यञ्जकाकृतिविशेषदर्शनानन्तरं
व्यङ्ग्यायाः जातेः
प्रतीतिरित्यनुभवसिद्धम्। किं च
संयुक्तसमवेतविषयकचाक्षुषं प्रति चक्षुस्संयुक्तसमवायः कारणम्।
तस्य च संयोगपूर्वकत्वात् द्रव्यचाक्षुषत्वावच्छिन्नं प्रति
चक्षुस्संयोगस्य कारणतया जात्यादिप्रत्ययात् प्राक्
सामग्रीवशाज्जायमानं द्रव्यप्रत्यक्षं नापलपितुं
शक्यम्।
ननु अयं दण्डीति
ज्ञानवत् अयं घट इति ज्ञानमपि विशिष्टज्ञानत्वात्
विशेषणज्ञानपूर्वकमास्थेयम्। विशेषणज्ञानं च न
विशिष्टार्थविषयकम्, अनवस्थाप्रसङ्गात्। अतो जातिमात्रविषयकं
तदित्यवश्यमङ्गीकरणीयमिति जात्यादेः प्रथमोपस्थितत्वं
वक्तव्यमिति चेत् -- सत्यं विशिष्टज्ञानं विशेषणज्ञानजन्यमिति।
तदेव च विशेषणज्ञानं न जातिमात्रविषयकम्।
जातिभासकसंनिकर्षस्य संयुक्तसमवायरूपस्य
तदाश्रयव्यक्तिभासकसंयोगख्यसंनिकर्षघटिततया तज्जन्यज्ञानस्य
जातिविषयकत्ववत् तदाश्रयव्यक्तिविषयकत्वस्यापि दुर्वारत्वात्। न
चैवमनवस्था, विशेषणज्ञानस्य जातिव्यक्त्युभयविषयकस्यापि
वैशिष्ट्याविषयकतया विशिष्टज्ञानत्वाभावन तत्र
विशेषणज्ञानान्तरस्यानपेक्षणात्। अतो विशेषणज्ञानकारणत्वबलात्
जातेः प्रथमोपस्थितत्वं भवेदिति प्रत्याशा न कार्या।
एवं लाघवाज्जातिमात्रे
शक्तिरित्यनुपपन्नम्। व्यक्तिपरप्रयोगस्यैव बाहुल्येन बहुत्र
व्यक्लिक्षणायाः कल्पनीयतया गौरवात्। तदपेक्षया विशिष्टव्यक्तौ
शक्तिं स्वीकृत्य क्वाचित्कजातिपरप्रयोगस्य लाक्षणिकताया एव
युक्तत्वात्। ऽव्रीहिभिर्यजेतऽ इत्यादिविधिवाक्येषु सर्वत्र
व्रीह्यादिपदानां व्यक्तिलाक्षणिकत्वे सति ऽन विधौ परः शब्दार्थःऽ
इति न्यायविरोधश्च स्यात्।
अपि च शक्तिग्राहकेषु
व्याकरणादिषु गवादिपदानां जातिमात्रशक्तौ न किमपि प्रमाणं
पश्यामः। व्यक्तिवाचकत्वमुपजीव्य प्रवृत्तेषु सरूपादिसूत्रेषु
व्यक्त्याख्यायामित्यनभिधानात् जातिवाचकत्वमुपजीव्य प्रवृत्तेषु
ऽजात्याख्यायामेकस्मिन्ऽ (पा.सू. 1-2-58) इत्यादिसुत्रेषु क्वचिदेव
जात्याख्यायामित्यादिनिर्देशाच्च सर्वत्र
व्यक्तेरभिधेयत्वं
गम्यते। ऽचादयो ऽसत्त्वेऽ (पा.सू.1-4-57) इत्यादिपर्युदासाच्च
द्रव्यवाचित्वं गम्यते। सादृश्यप्रतीतिमुपजीव्य प्रवर्तमानमुपमानं च
न व्यक्तिवाचकतामन्तरेण घटते। ऽगोसदृशो गवयःऽ
इत्यतिदेशवाक्यगतगवयपदार्थव्यक्तौ सादृश्यग्रहाद्धि गवयो
गवयपदवाच्य इति शक्तिग्रहः। लिङ्गविशेषनिर्णयपुरस्कारेण
प्रवृत्तः कोशो ऽपि तद्योग्यव्यक्तिवाचकत्वमेव कल्पयति। आप्तवाक्यं च
ऽगामानयऽ ऽन सुरांपिबऽ इत्यादिकं
प्रवृत्तिनिवृत्त्यन्वयिपदार्थगोचरं व्यक्तिशक्तिं व्यनक्ति। व्यवहारो ऽपि
गवानयनप्रवृत्त्यादिर्व्यक्तिवाचकत्व एवोपपद्यते। वाक्यशेषांऽपि
ऽयत्रान्या ओषधयो म्लायन्तऽ इत्यादिः
मोदमानत्वादिविशेषणार्हव्यक्तिवाचकतामेव द्रढयति। विवरणमपि
पाकं करोतीत्यादि क्रियादिव्यक्तिवाचकतापक्षस्वरसम्।
प्रसिद्धपदसांनिध्यमपि ऽइह सहकारतरौ मधुरं पिको रौतिऽ
इत्यादिकं द्रव्यवाचकत्व एव संगतम्। अतो गवादिशब्दानां
जातिशक्तत्वे न किमपि प्रमाणं स्वारसिकम्। बाधकानि च भूयांसि
लिङ्गसंङ्ख्यानन्वयादीनि पूर्वमेवापपादितानि।
किं च जातिरेव यदि
गवादिशब्दार्थंस्तर्हि गोत्वं व्यक्तिनिष्ठमितिवत्
गौवर्यक्तिनिष्ठेत्यपि प्रयोगः प्रसज्यते। गवादिपदानां
जातिमात्रविवक्षया प्रयोगे त्वतलाद्यपेक्षा च न स्यात्। किं च खण्डो
गौः शुक्लो गौः इत्यादिसामानाधिकरण्यं न घटते।
खण्डत्वादेर्जातावनन्वयात्। यत्त्वत्रोच्यते मीमांसकैः लक्ष्यार्थव्यक्तौ
तदन्वय इति। तदपि न। कुत्रापि वाक्ये
लक्ष्यार्थान्वयिविशेषणाप्रयोगात्। न हि गङ्गायां घोष इत्यादौ
गङ्गापदलक्ष्यार्थतीरासाधारणं विशेषणं केनापि वाक्ये
प्रयुज्यते। प्रत्युत गभीरायां नद्यां घोष इत्यादौ शक्यार्थन्वय्येव
विशेषणं प्रयुज्यते। तस्मा ज्जातिविशिष्टव्यक्तौ पदानां शक्तिरित्येव
युक्तम् इति नैयायिकाः।
[ 12 ] प्रामाण्यविचारः
दीपिकायां
प्रामाण्यस्य ज्ञप्तावुत्पत्तौ च स्वतस्त्वं परतस्त्वं च निरुच्य
मीमांसकमतनिराकरणपूर्वकमुभयत्र परतस्त्वं स्थापितं
प्रामाण्यवादप्रकरणे। एतत्तत्त्वं प्राच्यनव्यग्रन्थविमर्शपूर्वकमधुना
विव्रियते।
कस्मिंश्चिद्विषये ज्ञाते
सति जाते ज्ञाने प्रामाण्यबुद्धिमन्तरा विषये प्रवृत्तिर्न भवतीति
ज्ञानगतप्रामाण्यज्ञानमपि प्रवृत्तिहेतुरिति वक्तव्यम्। न चेदं ज्ञानं
प्रमेति ज्ञानं विनापि प्रवृत्तेरुत्पत्त्या व्यतिरेकव्यभिचारात्
प्रामाण्यज्ञानस्य प्रवृत्तिहेतुत्वं नास्तीति वाच्यम्।
बहुवित्तव्ययायाससाध्ये यागादौ प्रवृत्तेः प्रामाण्यनिश्चयं विना
असंभवात्। न च तत्राप्यावश्यकार्थनिश्यादेव प्रवृत्तिरिति वाच्यम्।
यत्संशयः यद्व्यतिरेकनिश्चयश्च यत्प्रतिबन्धकौ
तन्निश्चयस्तद्धेतुरित्यवश्यं स्वीकरणीयम्। यथा व्याप्तिसंशये वा
व्याप्तिव्यतिरेकनिश्चये वा सत्यनुमितिर्न जायत इति
व्याप्तिनिश्चयो ऽनुमितिं प्रति हेतुरिति अङ्गीक्रियते, तथा
प्रामाण्यसंशये वा प्रामाण्यव्यतिरेकनिश्चये वा सति प्रवृत्तिर्न
जायत इति प्रवृत्तिं प्रति प्रामाण्यनिश्चयः कारणमिति सिध्यति। तथा
च ज्ञानप्रमात्यनिश्चयं विना प्रवृत्त्यसंभव इति। न च ज्ञाने
प्रामाण्यसंदेहे
सत्यर्थसंदेहात्
अर्थनिश्चयरूपकारणाभावादेव प्रवृत्त्यभावोपपत्तौ प्रवृत्तिं प्रति
प्रामाण्यसंदेहस्य प्रतिबन्धकत्वाभावेनोक्तनियमाप्रवृत्त्या
प्रामाण्यनिश्चयस्य प्रवृत्तिं प्रति हेतुत्वाभावात्
प्रामाण्यस्वतस्त्वपरतस्त्वविचारो ऽनवसर इति वाच्यम्। यत्र
ज्ञानविशेषे प्रमात्वसंदेहो तत्र निष्कम्पप्रवृत्तिः
इदमित्थमेवेत्यवधारणादेव संपादनीया। तच्चावधारणं ज्ञानस्य
प्रमात्वनिश्चयं विना न संभवतीति
प्रवृत्तिहेतुभूतार्थनिश्चयहेतुतया प्रामाण्यनिश्चयस्य प्रवृत्तिं प्रति
प्रयोजकत्वात् प्रामाण्यनिश्चयो ऽपि संपादनीयः। स च स्वतः परतो
वेति विचारो युक्त एव।
तत्र प्रामाण्यज्ञप्तौ
स्वतस्त्वं परतस्त्वं च मणौ पञ्चधा निरुक्तम्। तत्र प्रथमनिरुक्तिमात्रं
दीपिकायामनूदितम्। ज्ञानं यया सामग्या ज्ञायते तयैव ज्ञानगतं
प्रमात्वमपि ज्ञायत इति ज्ञानग्राहकसामग्रीग्नाह्यत्वात्मकं प्रथमं
स्वतस्त्वम्। तत्र प्राभाकरा ः - घटमहं जानामीत्येव ज्ञानाकारः। तस्य
ज्ञानस्य स्वयंप्रकाशत्वात् ज्ञानग्राहकमपि स्वयमेवेति तद्ग्राह्यत्वं
प्रामाण्यस्येति वदन्ति।
भाट्टाः --- ज्ञानं
ज्ञाततयानुमीयत इति ज्ञाततालिङ्गकानुमितिः
ज्ञानग्राहकसामग्रीजन्यग्रहः तद्विषयत्वं प्रामाण्यस्येत्याचक्षते। मुरारिमिश्राः --- ऽअयं घटःऽ इति ज्ञानानन्तरं
ऽघटमहं ज्ञानामिऽ इत्यनुव्यवसायो जायते। तेन ज्ञाने
विषयीक्रियमाणे तद्गतं प्रमात्वमपि विषयीक्रियते। तथा च
ज्ञानग्राहकानुव्यवसायग्राह्यत्वात् प्रामाण्यस्य
स्वतस्त्वमित्युपवर्णयन्ति। मतत्रये ऽपि
ज्ञानग्राहकसामग्रयाःभिन्नत्वे ऽपि ज्ञानग्राहकसामग्रीग्राह्यत्वात्मकं
स्वतस्त्वं
साधारणम्। अत्र
यत्प्रामाण्याश्रये ज्ञाने दोषवशादप्रामाण्यग्राहिका काचन सामग्री तया
तत्प्रामाण्यस्याग्रहात् स्वतस्त्वबाधः स्यादिति अप्रामाण्यग्राहकेति
सामग्रीविशेषणं देयम्। एवमपि इदं ज्ञानमप्रमेति ज्ञाननिष्ठस्य
अप्रामाण्यवति अप्रामाण्यप्रकारकत्वरूपस्य प्रामाण्यस्य
अप्रामाण्यग्राहकसामग्र्यैवं ग्रहणात्
अप्रामाण्यग्राहकसामग्रीग्राह्यत्वात्मकस्वतस्त्वस्य तत्र बाधः स्यादिति
तद्वारणाय तदप्रामाण्याग्राहकेति वक्तव्यम्। तस्मिन् अप्रामाण्ग्राहकेति
तदर्थंः। यादृशप्रामाण्ये स्वतस्त्वमिष्यते
तादृशप्रामाण्याश्रयविशेष्यकाप्रामाण्यप्रकारकज्ञानजनकेति यावत्।
इदं ज्ञानमप्रेमेत्याकारकज्ञाननिष्ठप्रामाण्यग्राहकसामग्र्याः।
इदञ्ज्ञानविशेष्यकाप्रामाण्यग्राहकत्वे ऽपि प्रकृतप्रामाण्याश्रयभूतं
यत् इदं ज्ञानमप्रमेत्याकारकं ज्ञानं
तद्विशेष्यकाप्रामाण्यज्ञानाजनकत्वान्न दोषः। नैयायिकैरपि
ज्ञानग्राहकं यत् इदं ज्ञानं प्रमा समर्थप्रवृत्तिजनकत्वात्
इत्यनुमानं तद्ग्राह्यत्वस्य प्रमात्वे ऽङ्गीकारात्
स्वतस्त्वापत्तिवारणाय यावज्ज्ञानग्राहकसामग्रीति यावत्त्वविशेषणमपि
देयम्। तच्च सामाग्र्यां न विशेषणम्। सर्वाभिर्ज्ञानसामग्रीभिरेकस्य
ज्ञानस्याजननेन यावत्सामग्रीजन्यग्रहाप्रसिद्धंः। अपि तु
ज्ञानविशेषणम्। तथा च
ज्ञानग्राहकसामग्रीजन्ययावद्ग्रहविषयत्वमिति फलितम्।
तादृशयावद्ग्रहान्तर्गतानुव्यवसायग्राह्यत्वस्य प्रामाण्ये
नैयायिकैरनङ्गीकारान्न दोषः। यावत्त्वस्य च व्यापकत्वरूपत्वात्
तदप्रामाण्यग्राहकतत्तद्धर्मप्रकारकज्ञानग्राहकसामग्रीजन्यग्रहत्वव्यापकविषयितानिरूपकत्वं
स्वतस्त्वमिति दीधितिकारैर्निष्कर्षः कृतः। स निष्कर्षः
प्रकाशिकायामनूदितः।
अथ प्रामाण्यवादस्य तुलनात्मकदृष्ट्या
विचारः
प्रमात्मकज्ञानगतं
प्रामाण्यं अप्रमात्मकज्ञानगतमप्रामाण्यं च किं स्वतः उत परत इत्यत्र
तीर्थकरा विप्रतिपद्यन्ते। तत्र प्रामाण्यमप्रामाण्यं चेत्युभयं स्वत
इति सांख्याः। उभयं परत इति वैशेषिकादयः। अप्रामाण्यं परत
इति बौद्धाः। प्रामाण्यं स्वतः अप्रामाण्यं परत इति मीमांसकाः
वेदान्तिनश्चेति चत्वारः पक्षाः।
सांख्यमतम्
ज्ञाने
पूर्वमविद्यमानं प्रामाण्यमप्रामाण्यं वा पश्चात् कारणबलादुत्पद्यत
इत्यङ्गीकारे असत्कार्यवादो भवेदिति भीताः सांख्याः
प्रामाण्यमप्रामाण्यं चेत्युभयमपि स्वाभाविकमिति।
परं तु उभयमपि
हेतुविशेषं विना यदि स्वभावतो भवेताम्, तदा ऽइदं ज्ञानं
प्रमाणंऽ ऽइदं ज्ञानमप्रमाणम्ऽ इति व्यवस्था न स्यात् इति
अस्वारस्यमस्मिन् मते ऽस्ति।
बौद्धमतम्
अप्रामाण्यं स्वतः
प्रामाण्यं परत इति मन्यन्ते बौद्धाः। तथा हि --- यदि प्रामाण्यं
स्वत एव निश्चीयते, तर्हि प्रामाण्यरूपैकतरकोटेः निश्चयात् इदं
ज्ञानं प्रमा अप्रमा वेति संशयो न स्यात्। अतः कारणभूतस्य गुणसय
ज्ञानात् प्रवृत्तिसंवादाच्च प्रामाण्यं निश्चीयते।
तदुक्तम् ---
ऽतस्मिन् सदपि
मानत्वं विनिश्चेतुं न शक्यते।
उत्तरार्थक्रियाज्ञानात्
केवलं तत् प्रतीयते॥ऽ
इति। अप्रामाण्यं तु
स्वत एवावसीयते। अत एव वेदादुत्पन्नं ज्ञानं विपर्ययरूपम्। अतः
स्वतो ऽप्रमाणं वेदाः इति बौद्धानामाकूतम्।
इदमत्र दूषणम्।
अप्रामाण्यं स्वाभाविकमिति वादिनां मते ऽपि भ्रमज्ञाने ऽधिष्ठानांशे
प्रामाण्यस्य स्वाभाविकत्वं वक्तव्यम्। अन्यथा
निरधिष्ठानभ्रमप्रसङ्गात्। किं च ऽप्रमाणात् प्रमेयसिद्धिःऽ
ऽयुक्तियुक्तं वचो ग्राह्यम्ऽ इत्यादिकं वचनं सर्वैरपि वादिभिः
स्वतः प्रमाणमिति वक्तव्यम्। तथा निर्विकल्पकस्य
वासनोपप्लवशून्यस्य स्वत एव प्रामाण्यमुपगच्छन्ति। सविकल्पकस्यापि
स्वांशे प्रामाण्यं विषयांशे ऽप्रामाण्यं च वदन्ति। तथा च कुत्रचित्
प्रामाण्यस्वतस्त्वं तेषामप्यवर्जनीयम्। अपि च सर्वेष्वपि ज्ञानेषु
किञ्चिदंशे प्रामाण्यस्य सत्त्वात् अप्रामाण्यस्यैव क्वाचित्कत्वात् तदेव
किंशुकाद्युपाधिकारुण्यवत् सहेतुकं, प्रामाण्यमेव निर्हेतुकमिति
व्यवस्थापनात् इति मीमांसकाः। नैयायिकास्तु दोषतः अप्रामाण्यं
गुणतः प्रामाण्यमित्याहुः। सर्वथा अप्रामाण्यस्वतस्त्वं न घटते।
मीमांसकमतम्।
प्रामाण्यं स्वत
एवोत्पद्यते ज्ञायते च। अप्रामाण्यं तु परत उत्पद्यते ज्ञायते चेति
मीमांसकाः। प्रामाण्यं स्वत उत्पद्यत इत्यस्य प्रामाण्याश्रयज्ञानस्य या
सामग्री उत्पादिका तयैव ज्ञानगतं प्रामाण्यमप्युत्पद्यते, न तु
गुणादित्यर्थः। तेन च वेदादुत्पन्नस्य ज्ञानस्य यत् प्रामाण्यं तत्र
वक्तृयथार्थज्ञानरूपगुणापेक्षाविरहात् वेदस्यापौरुषेयत्वं स्थिरं
भवतीति तेषामाशयः। प्रामाण्यं स्वतो ज्ञायत इत्यस्य
प्रामाण्याश्रयस्य ज्ञानस्य यया सामग्र्या ज्ञानं भवति तयैव
तद्गतप्रामाण्यस्यापि ज्ञानं भवति। पश्चात्तु
बाधकज्ञानकारणदोषज्ञानाभ्यां प्रामाण्यं बाध्यते। एवं च अपौरुषेये
वेदे अनाप्तपुरुषसंबन्धकृतदोषाणामभावात् बाधकज्ञानाभावाच्च
ज्ञातं प्रामाण्यं तथैवावतिष्ठते। तथा च वेदप्रामाण्यस्थिरीकरणमेव
ज्ञप्तौ स्वतस्त्वसाधनस्य प्रयोजनमिति।
प्रामाण्यनिश्चये न्यायदर्शनाभिप्रायः
यद्यपि न्यायसूत्रे
प्रामाण्याप्रामाण्यस्वतस्त्वपरतस्त्वविचारः न कृतः, तथापि
ऽमन्त्रायुर्वेदप्रामाण्यवच्च तत्प्रामाण्यमाप्तप्रामाण्यात्ऽ (न्या0.सू0.
2-1-68) इति सूत्रेण परतः प्रामाण्यं सूचितमेव। न्यायभाष्यकारः
आरम्भवाक्यमेव प्रामाण्यपरतस्त्वख्यापकं विन्यास्थत् -
ऽप्रमाणतोर्ऽथप्रतिपत्तौ प्रवृत्तिसामर्थ्यादर्थवत्प्रमाणम्ऽ इति।
इदं च भाष्यवाक्यं वाचस्पतिमिश्रैः एवमवतारितम् - ननु
यच्छास्त्रमनुष्ठातुमशक्यमुपायं प्रतिपादयति तदनर्थकम्, यथा
ज्वरहरतक्षकचूडारत्नाहरणोपदेशकं शास्त्रम्। इदं
न्यायशास्त्रमपि तादृशमेव। तथा हि, षोडशपदार्थत्वज्ञानाद्धि
निःश्रेयसयुपदिश्यते ऽस्मिन् शास्त्रे। तदेव दुर्लभम्। प्रमेयादीनां
पदार्थानां तत्त्वज्ञानं प्रमाणतत्त्वज्ञानान्धीनम्। न हि प्रमाणं
तत्त्वेनानिर्णीतं सन् स्वविषयं अवधारयितुमलम्।
प्रमाणतत्त्वावधारणं च प्रमातत्त्वावधारणाधीनम्। न हि प्रमां
तत्त्वेनानवधारयन् प्रमाजनकस्य तत्त्वमवधारयितुं शक्नोति।
प्रमायाश्च तत्त्वमव्यभिचारित्वरूपं स्वतः परतो वा
निश्चेतुमशक्यम्। घटादिविषयगोचरं ज्ञानमात्मानमपि
विषयीकर्तुमशक्नुवत् कथं हि नाम स्वगतं प्रमात्वं ग्रहीष्यतीति
स्वतः पक्षः तावन्न युक्तः। ज्ञानं स्वयंप्रकाशम् इति पक्षे ऽपि
कथञ्चित् ज्ञानस्य स्वविषयकत्वसम्भवे ऽपि
स्वगताव्यभिचारित्वरूपप्रमात्वविषयकत्वं दुरूपपादम्। परतः
प्रमात्वं ज्ञायत इति पक्षे ऽपि परशब्देन ज्ञानविषयकज्ञानान्तरस्य
वा अर्थक्रियाविषयकज्ञानस्य वा अन्यस्य वा विवक्षायां तेषामपि
स्वस्मिन् प्रमात्वानवधारणे पूर्वज्ञाने प्रामाण्यं कथं ज्ञातुम्
शक्येत। अतस्तेषां प्रामाण्यं ज्ञानान्तरेभ्यश्चेत् तेषामपि
तथेत्यनवस्था। तेषां प्रमात्वं स्वत इति तु
पूर्वोक्तरीत्यानुपपन्नम्। तथा च स्वतः परतो वा
प्रमातत्त्वानवधारणात् प्रमाणतत्त्वावधारणं न सम्भवति।
तदसंभवाच्च प्रमेयादितत्त्वज्ञानमपि न संभवति। तस्मात्
प्रमाणादिषोडशपदार्थतत्त्वज्ञानान्निःश्रेयसाधिगम
इत्युपदिशच्छस्त्रमनर्थकमित्याशङ्कायाः निराकरणार्थं"प्रमाणतो अर्थप्रतिपत्तौ"
इत्यादिभाष्यं प्रवृत्तमिति।
अस्य भाष्यस्यायमर्थः -
प्रामाणमर्थवदिति प्रतिज्ञा। प्रवृत्तिसामर्थ्यादिति हेतुः। प्रमाणमिति
करणार्थकल्युडन्तः शब्दः। अर्थवदिति नित्ययोगे मतुप्। नित्यता
चार्थाव्यभिचारिता। अर्थाव्यभिचारित्वं च तद्वति तत्प्रकारकत्वम्।
तच्च प्रमाणस्य ज्ञानद्वारकम्। तथा च प्रमाणं तद्वति
तत्प्रकारकज्ञानजनकमिति प्रतिज्ञार्थः। समप्रवृत्तिजनकत्वमिति
तदर्थः। यदि प्रमाणमर्थाव्यभिचारि नाभविष्यत् समर्थां प्रवृत्तिं
नाकरिष्यत् यथा अर्थव्यभिचारी प्रमाणाभास इति
व्यतिरेक्यनुमानमत्र
विवक्षितम्। प्रमाणस्य
प्रवृत्तिजनकत्वं न साक्षात्, किं तु
अर्थप्रतिपत्तिजननद्वारेणेत्याशयेन प्रमाणतोर्ऽथप्रतिपत्तावित्युक्तम्।
तथा च विप्रतिपन्नं ज्ञानं तद्वति तत्प्रकारकं
सफलप्रवृत्तिजनकत्वादित्यनुमान एव पर्यंवसानम्। इत्थं च
सफलप्रवृत्तिजनकत्वहेतुकानुमित्या ज्ञानगतं प्रमात्वं गृह्यत इति
भाष्यकाराशयः।
नन्वनुमितिरूपज्ञाननिष्ठं प्रमात्वं केन गृह्यते?
अनुमित्यन्तरेणेति यदि, तदानवस्थेति चेत्---न।
अनुमितिविषयकानुव्यवसायेन अनुमितौ गृह्यमाणायो
तन्निष्ठप्रामाण्यस्यापि ग्रहात् अनुमितिप्रामाण्यस्य
स्वतोग्राह्यत्वाङ्गीकारात्। तर्हि ऽघटमहं जानामिऽ
इत्यनुव्यवसायेन घटज्ञाने गृह्यमाणे तत्प्रामाण्यमपि गृह्यताम्,
किमर्थं तत्र
प्रवृत्तिसामर्थ्यलिङ्गकानुमित्यनुधावनमितिचेत्--इदं ज्ञानं
प्रमा न वेति संशयानुरोधेन प्रमात्वनिश्चयाय
प्रवृत्तिसामर्थ्यरूपहेतुपरामर्शात् प्रकृते तदभावादिति
तात्पर्यटीकाकाराः निरूपयन्ति1।
प्रामाण्यस्यावश्यवेद्यत्वानभ्युपगमान्नानवस्थेति कुसुमाञ्जलिकाराः
उपपादयन्ति2।
ऽमन्त्रायुर्वेदप्रामाय्यवच्च तत्प्रामाण्यमाप्तप्रामाण्यात्ऽ
(न्या.सू. 2---1---68) इति सूत्रेण,
ऽकिङ्कृतमेतत्?
आप्तप्रामाण्यकृतम्। किं पुनराप्तानां
प्रामाण्यम्?
साक्षात्कृतधर्मता भूतदया यथाभूतार्थ-
चिख्यापयिषाऽ
इत्यादितत्सूत्रस्थभाष्येण च प्रामाण्यस्योत्पत्तौ
गुणजन्यत्वाख्यं परतस्त्वं सूचितमेव। कुसुमाञ्जलौ ज्ञप्तौ उत्पत्तौ
च
परतास्त्वं
विस्तरेणोपपादितम्। तदपेक्षयापि विस्तरेण मणौ दोधितौ
गादाधरीये च विवेचितम्। दीपिकायां प्रकाशिकायां च
तत्रत्यमेवोपपादनं पुनः संगृहीतमिति।
[ 13 ] अन्यथाख्यातिविचारः
भ्रमात्मकज्ञानस्य
ख्यातिरिति व्यपदेशः शास्त्रग्रन्थेषु वर्तते। तत्र विषये वादिनो
बहुधा वदन्ति। लोके यस्य यस्य यद्यत् ज्ञानं भवति तत्सर्वं प्रमेति
वक्तुं न शक्यते। तथा सति प्रतिवादिनो ज्ञानमपि प्रमा स्यात्। तथा
च प्रतिवाद्यपि विजयेत। तथासर्वं ज्ञानमप्रमेत्यपि वक्तुं न पार्यते।
तथा सति वादिनो यत् ज्ञानं तदप्यप्रमा स्यात्।
तथा च वादि
पराजितो भवेत्। तस्मात् किञ्चित् ज्ञानं प्रमा किञ्चित् ज्ञानमप्रमा
इति विभागः सर्वैरभ्युपगन्तव्यः। तत्र अप्रमात्मके ज्ञाने अन्यस्य
अन्यथाभानात्मिकामन्यथाख्यातिं नैयायिका जैना भाट्टाश्च
उररीकुर्वन्ति। अन्यथाख्यातेः या सामग्री भेदाज्ञानरूप अख्यातिः तथैव
व्यवहारोपपत्तेः अख्यातिपक्ष एव युक्त इति प्राभाकराः।
क्षणिकविज्ञानरूपः आत्मैव बाह्यवस्त्वाकारेण प्रतीयत
इत्यात्मख्यातिवादिनः। बौद्धाः। भ्रमस्थले असदेव प्रतीयत इति
असत्ख्यातिवादिनः माध्यमिकाः। भ्रमे सदसदनिर्वञ्चनीयं वस्तूत्पद्यते
प्रतीयते चेत्यद्वैतिनः। एतन्मते अनिर्वचनीयख्यातिः।
तत्र नैयायिका
अन्यथाख्यातिवादिन इति प्रसिद्धिः। न्यायदर्शने प्रथमसूत्रेण
तत्त्वज्ञानान्निःश्रेयसप्राप्तिमभिधाय ऽदुःखजन्मेऽ त्यादिद्वितीयसूत्रेण
मिथ्याज्ञानं परम्परया संसारहेतुरिति प्रतिपादितम्। तत्र
ऽमिथ्याज्ञानमनेकप्रकारकं वर्तते आत्मनि तावन्नास्तीति
अनात्मन्यात्मेति दुःखे सुखमितिऽ इत्यादि भाषमाणः वात्स्यायनः
अतस्मिंस्तदिति ज्ञानं मिथ्याज्ञानमिति मन्यते। वार्त्तिककारो ऽपि ---
ऽकः पुनरयं विपर्ययः। अतस्मिंस्तदिति प्रत्ययःऽ इति कथयति। अस्य
मूल पाठ: Tarkasaṃgraha with autoentary (Dīpikā), Nīlakaṇṭha's Dīpikāprakāśikā and Bālapriyā · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0