तर्कसंग्रह (टीका सहित) · भाग 381400
इतरभेदप्रकारतामादाय इतरभेदे ऽतिप्रसङ्गवारणाय
पक्षतावच्छेदकावच्न्नित्वनिवेशः। किञ्चिदवच्छिन्नत्वनिवेशे ऽपि
पक्षस्य सामानाधिकरण्यघटकत्वेन तद्देषतादवस्थ्यमिति
मदुपेक्षितम्। वस्तुतस्तु मुख्यविशेष्यतानिरूपितत्वमेव
प्रकारतायां निवेशनीयम्। अन्यथा भावस्याधेयत्वं लक्षणमित्यादौ
भावत्वाभावहेतुकानुमितिजनकतावच्छेदकव्याप्तिनिष्ठविशेष्यतानिरूपितप्रकारतामादा-
याधेयत्वे ऽतिप्रसङ्गात्। अत्र
चेतरभेदविषयकत्वस्यानुमितौ निवेशे ऽइतरभेदः प्रमेयः
अभिधेयत्वात्ऽ इत्यनुमितिजनकतां आदाय अभिधेयत्वादौ
व्यावर्तकताप्रसङ्गः। अत इतरभेदविधेयकत्वस्य तत्र निवेशः।
इतरभेदत्वावच्छिन्नविधेयताकत्वं विवक्षणीयम्। ऽघटः
स्वरूपसम्बन्धेन अभिधेयत्ववान् प्रमेयत्वात्ऽ
इत्युनमितिजनकतामादाय तद्दोषात् विधेयतायां
पक्षतावच्छेदकव्यापकत्वविशेषितस्वरूपसम्बन्धावच्छिन्नत्वं
निवेश्यम्। अत्यथा
गोत्वादिसामानाधिकरण्यमात्रावगाहिगौरितरभिन्नेत्याकारकानुमितिहेतुभूतप्रमात्मकतादृशपरा-
मर्शीयजनकतामादायाव्याप्तिग्रस्तधर्मे ऽतिप्रसङ्गात्।
तादृशविधेयताकत्वसहितानुमितित्वावच्छिन्नजन्यताप्रतियोगिकजनकता
निवेश्या। अन्था पक्षतावच्छेदकावच्छेदेन तत्सामानाधिकरण्यमात्रेण
चेतरभेदावगाहिसमूहालम्बनानुमितिजनकसामानाधिकरण्यमात्रावगाहि परामर्शीयजनकतामादाय
तद्दोषतादवस्थ्यम्। अथैवमपि
पृथिवीतरभेदव्याप्यघटेतरभेदादिमत्ताज्ञानसाधारण्येन
कालिकादिसम्बन्धेन
पृथिवीतरभेदव्याप्यपृथिवीतरभेदवत्ताज्ञानसाधारण्येन वा
कल्पनीयानुमितिजनकतामादाय
पृथिवीतरभेदादावतिव्याप्तिर्दुवारैव। न च
तादृशानुमित्युपधायकज्ञानीयत्वस्य विषयतायां निवेशात् न दोष
इति वाच्यम्। एवमपि
पृथिवीतरभेदाद्यंशे ऽप्रामाण्यतज्ञानास्कन्दितस्य
ऽपृथिवीतरभेदव्याप्यपृथिवीतरभेदवती
तद्व्याप्यद्रव्येतरभेदवती च पृथिवीऽ इत्याकारकज्ञानस्य
तथात्वात्। तादृशानुमित्यनुपधायकज्ञानवृत्तित्वस्य
तादृशानुमित्यनुपधायकसंशयादिसाधारणगन्धादिविषयत्वासङ्ग्राहकतया
निवेशासंभवात्। इति चेन्न।
तादृशानुमितित्वावच्छिन्नजन्यतानिरूपितजनकतावच्छेदिका
तादृशानुमित्युपधायकज्ञानवृत्तिर्या
अप्रामाण्यज्ञानानास्कन्दितज्ञानीयविषयता तदाश्रयत्वस्य
विवक्षितत्वात्। तादृशजन्यताविशिष्टविषयत्वमिति निष्कर्षः।
वैशिष्ट्यं
स्वनिरूपितजनकतावच्छेदकत्वस्वाश्रयानुमित्युपधायकाप्रामाण्यज्ञानानास्कन्दितज्ञानीयत्वोभयसम्बन्धेन।
अप्रामाण्यज्ञानानास्ककन्दितत्वं
विषयत्वसामानाधिकरण्यकालिकविशेषणत्वत्रितयसम्बन्धेन
भ्रमविशिष्टान्यत्वम्।
स्वप्रतियोगिनिष्ठत्वस्वानुयोगिनिष्ठविशेष्यतानिरूपितत्वस्वावच्छिन्नत्वत्रयसम्बन्धेन
संसर्गविशिष्टान्य प्रकारतानिरूपकत्वमिति मदेकपरिशीलितः
पन्थाः।
[39] एवेनेति। एवकारेणेत्यर्थः। ननु
सास्नादीनां गवादिलक्षणत्वस्य कथं अतिव्याप्तिप्रयोजकत्वं,
पृष्ठताडनेन दण्डभङ्गन्यायात्; अत आह [39] उक्तलक्षणेति [39] अभिधेयत्वादिभिन्नत्वं चेति। इदमत्र
चिन्त्यम् -- व्यावर्तकमात्रस्योक्तलक्षणलक्ष्यत्वे
लक्ष्यतावच्छेदकाभाववदवृत्तित्वरूपलक्ष्यतावच्छेदकव्याप्यत्वनि वेशेनैवव्यावहारिकवारणे
स्वव्यापकतत्कत्वत्वरूपलक्ष्यतावच्छेदकव्याप्यत्वं
निवेश्याभिधेयत्वादावतिव्याप्तिं संपाद्य तद्वारणाय
तद्भिन्नत्वनिवेशनं प्रक्षालनादिन्यायेनायुक्तम्।
यत्तु -
पृथिवित्वादिरूपलक्ष्यतावच्छेदकशून्ये जलादौ कालिकादिना
सत्त्वात् अतिव्याप्तिः - इति तन्न। घटादिलक्षणे ज्ञानवदन्यत्वादावेव
लक्षणगमनात्। अतो
लक्ष्यतावच्छेदकाभावव्यापकीभूताभावीयलक्षणताघटकसम्बन्धावच्छि न्नप्रतियोगित्वरूपलक्ष्यतावच्छेदकव्याप्यत्वस्य
विवक्षितत्वादिति। [39] न तावत्सामान्यतो भेदानुमापकत्वमिति।
सामान्यतो भेदत्वेन। तसिलो ऽवच्छिन्नत्वमर्थः। तस्य च
भेदानुमापकत्वघटकभेदविधेयतायामन्वयः। [39] यत्किञ्चिदुभयत्वावच्छिन्नप्रतियोगिताकेति। ऽघटः
घटपटोभयभिन्नः अभिधेयत्वात्ऽ, ऽपृथिवी घटपटोभयभिन्ना
पृथिवीतरभेदात्ऽ इत्याद्यनुमितिजनकतामादाय तत्र
व्यावर्तकत्वस्य सूपपादत्वात् इति भावः। यद्यपि ऽघटो भेदवान्
अभिधेयत्वात्ऽ इत्याद्यनुमितिजनकतामादाय तत् सुवचं इति
द्वित्वावच्छिन्नभेदसाध्यकानुमानपर्यन्तानुधावनं विफलम्, तथापिं
र्किञ्चिद्धर्मावच्छिन्नप्रतियोगिताकत्वसहितभेदत्वावच्छिन्नविधेयतापय्रन्तनिवेशे ऽपि
कथं दोषो भवति इत्येतदर्थं
व्यावृत्तिसाधारण्यार्थमपि तथोक्तिः। अन्यथा सिद्धसाधनापत्तेः
इति ध्येयम्।
ननु
व्यासज्यवृत्त्यतिरिक्तकिञ्चिद्धर्मावच्छिन्नप्रतियोगिताकत्वसहितभेदत्वावच्छिन्नविधेयतानिवेशात्
न को ऽपि दोष इत्यत आह -- [39] सर्वेषामपि
व्यतिरेकिधर्माणां यकिञ्चिब्द्यवर्तकतयेति। गौः
पटभिन्नाशृङ्गित्वात्ऽ, ऽकपिलगौः घटभिन्न कपिलरूपवत्त्वात्ऽ
इत्याद्यनुमितिजनकतामादाय शृङ्गित्वकपिलरूपादौ
तदुपपादनसम्भवादिति भावः। [39] नापि
विशिष्येत्यादि।
पृथिवीव्यापकत्वविशिष्टस्वरूपसम्बन्धावच्छिन्नपृथिवीत्वाद्यवच्छिन्न -
इतरभेदत्वावच्छिन्नविधेयताकानुमितिजनकतावच्छेदकनिरुक्तविषयताश्रयत्वमित्यर्थः।
यद्यपि ऽकपिलगौः घटभिन्ना कपिललरूपवत्त्वात्ऽ इत्यनुमितिमादाय
कपिलरूपादेर्व्यावर्तकताप्रसंगः, तथापि
धर्मिन्तावच्छेदकेत्यादिन्यायेन न दोषः। [40] गोत्वादिसमनैयत्यस्य
तत्रासत्त्वादिति। पदार्थत्वसमनियतत्वस्य लक्ष्याप्रसिद्ध्या अलक्षणत्वेन
तत्र तत्सत्त्वस्याकिञ्चित्करत्वात् इति भावः।
[40] गोत्वावच्छिन्नेतरभेदानुमापकत्वे साध्य
इति। स्वावच्छिन्नेतरभेदानुमापकत्वसम्बन्धेन गोत्वे साध्य
इत्यर्थः। तेनाग्रे ऽभिधेयत्वादौ व्यभिचारकथनं संगच्छते। अन्यथा
पदार्थत्वावच्छिन्नेतराप्रसिद्ध्यातद्घटितसाध्याभावस्य
सुतरामप्रसिद्धत्वेन साध्याभाववद्वृत्तित्वरूपव्यभिचारस्य
दुर्वचत्वात्। अस्मत्पक्षे तु पदार्थत्वं प्रति उक्तसम्बन्धस्य
व्यधिकरणतया साध्याभावस्य प्रसिद्धत्वेन व्यभिचारः सुवच एव।
[40] अभिधेयत्वादिभिन्नत्वं चेति। चकारो
वाकारार्थः। अन्यथा तद्धर्मावच्छिन्नेतरभेदभिन्नत्वस्य निवेशेनैव
पदार्थेतराप्रसिद्ध्या अभिधेयत्वादौ व्यभिचारवारणेन
अभिधेयत्वादिभिन्नत्वस्व हेतुकोटौ निवेशस्य निष्फलतया
तत्समुच्चायकत्वासम्भवादसङ्गतेः। अत्र सामान्यव्याप्तिस्थले
तद्धेतुधर्मिकतत्तत्साध्यव्याप्तिग्रहाभावविशिष्टतत्तत्साध्यहेतूभयस्थितेः
अनुमितिप्रमायाः सिद्धान्तलक्षणप्रामाण्यवादयोरुक्तत्वात् न
प्रकृते ऽनुमितिसम्भवः इत्यभिप्रेत्याह - [40] अधिकविचार इति।
[40] तेन रूपेण व्यवहर्तव्यज्ञानं विनेति।
इतरभेदादिप्रकारेण पक्षविषयकपरामर्शं विनेत्यर्थः।
तद्रूपावच्छिन्नेति।
लक्ष्यतावच्छेदकपृथिवीत्वाद्यवच्छिननप्रतिपादकेत्यर्थः।
व्यवहारासम्भवात् - व्यवहारानुमानासम्भवात्। तथा च
तद्धर्मावच्छिन्नबोधकशब्दरूपव्यवहारविधेयकानुमितिजनकतावच्छेदकत्वं
तद्धर्मांवच्छिन्नव्यावहारिकत्वम्। तच्च ऽघटः पृथिवीति व्यवहर्तव्यः,
पृथिवीतरभेदात्ऽ, ऽघटः पदार्थ इति व्यवहर्तव्यः,
अभिधेयत्वात्ऽ इत्याद्यनुमितिमादाय व्यावृत्त्यभिधेयत्वादावपि
अक्षतमिति भावः। एतेन दीपिकायां लक्षणप्रयोजनत्वे लक्षणज्ञाप्यत्वे
व्यवहारसाधनत्वात् व्यवहारानुमापकत्वादित्यर्थो बोध्यः।
गुणवत्त्वस्य
द्रव्यलक्षणत्वस्थापनम्
ध्वंसप्रागभाववति
अत्यन्ताभावस्य प्राचीनैरननुमतत्वात् नात्यन्ताभावघटिता व्याप्तिः
सम्भवति। यद्वा प्रतियोगिव्यधिकरणलक्ष्यनिष्ठाभावप्रतियोगित्वस्यैव
व्याप्तिशरीरे प्रविष्टत्वात् गन्धाद्यभावस्य चातथात्वात्
नाव्याप्तिरित्याशयेन शङ्कते -- प्रकाशिकायाम् [53] नन्वित्यादि। गुणाश्रयत्वलक्षणमिति। गुणात्मकलक्षणमित्यर्थः।
आश्रयत्वकथनं लक्षणताघटकसम्बन्धप्रदर्शनाय। एतेन -
गुणाधिकरणत्वस्याप्युत्पत्तिनिरूपिताधिकरणताया
अव्याप्यवृत्तित्त्वात्। गुणप्रतियोगिकत्वोपलक्षितसमवायेन
गुणवत्त्वस्य समवायैक्यपक्षे गुणादावतिव्याप्तिः।
तत्प्रतियोगिकत्वविशिष्टसमवायस्योत्पत्तिकालावच्छेदेनाभावसत्त्वात्
अव्याप्तिः इति
दूषणमनवकाशम्। सत्ताविशेषणत्वभ्रमवारणाय [53] जातिविशेषणमिति। अत्र च गुणसमानाधिकरणत्वं
गुणनिष्ठसमवायसम्बन्धावच्छिन्नाधेयतानिरूपकनिरूपितसमवायसम्बन्धावच्छिन्नाधेयत्वं,
तेन कालिकेन गुणवद्गुणसमवेतस्य, कालिकेन
गुणसमवायिवृत्तेर्गुणत्वस्य व्युदासः। [53] भाव इति। अथ ऽएकं रूपं
रसात् पृथक्ऽ इति व्यवहारस्य सामानाधिकरण्यसम्बन्धेन गुणे
गुणविषयकत्वस्योपगमे रूपादावपि स्वस्मात्
पृथग्व्यवहारप्रसङ्गः। स्वावधिकपृथक्त्वसामानाधिकरण्यस्य
स्वस्मिन्नप्यबाधात् इति चेत् - न। सामानाधिकरण्यस्य स्वस्मिन्
स्वावधिकपृथक्त्वसम्बन्धत्वानुपगमात्। कल्पनाकल्पनयोश्च
फलानुरोधित्वात्। वस्तुतस्तु ऽरूपं रसात् पृथक्ऽ इत्यादौ
पृथक्त्वस्य
स्वनिरूपकतावच्छेदकावच्छिन्नभिन्नत्वसामानाधिकरण्योभयसम्बन्धेन
भानाभ्युपगमात् न दोष इति। [53] कालिकादीत्यादिपदेन
समवायस्वरूपोभयघटितसामानाधिकरण्यपरिग्रहः।
[56] हेतुधर्मितावच्छेदककेति।
हेत्ववच्छिन्नविशेष्यताकेत्यर्थः।
असमानाकारकसिद्धेश्चाविरोधित्वादिति भावः। [56] सङ्क्षेप इति। अयमत्राशयः -
व्यतिरेकव्याप्तेरनुमानाङ्गत्वेन न काप्यनुपपत्तिः।
उपनयवाक्यात् शाब्दबोधानुपपत्तिरपि परार्थानुमानस्थल एव
दोषः न स्वार्थानुमानस्थले ऽपीति
लक्षणप्रयोजनसिद्धिर्निराबाधैवेति।
ननु भूतत्वस्य
जातित्वाभावात् कथं तत्सङ्करस्य बाधकत्वम्
उपाधिसङ्करस्यादोषत्वादित्यत आह - [57] जातित्वेनाभिमतेति।
जातित्वेनापादितेत्यर्थः। तथा च तुल्ययुक्त्या
भूतपदशक्यतावच्छेदकतया भूतत्वजातिसिद्ध्या न सांकर्यं
दोष इति भावः।
[57] व्यक्तेरभेद इत्यादि श्लोके इति पदाध्याहारेण
ज्ञानजनकस्वल्पशब्दरूपसङ्ग्रहाभेदबोधो वर्णनीयः। प्रथमत्रिकस्य
जातित्वे द्वितीयत्रिकस्य जातिमत्त्वे बाधकत्वमिति विशेषसूचनाय
मध्ये ऽथशब्दः। व्यक्तेरित्यादिश्लोकोक्तजातिबाधकत्वं च
जातिजातिमत्त्वान्यतरप्रकारकज्ञानप्रतिबन्धकज्ञानविषयत्वम्।
व्यक्तेरभेदः
1स्वसमेवतत्वस्वभिन्नसमवेतत्वोभयसम्बन्धेन प्रमेयविशिष्टान्यत्वं
स्वप्रतियोगिसमवेतत्वस्वानुयोगिसमवेतत्वोभयसम्बन्धेन
भेदवदन्यत्वं वा। तज्ज्ञानस्य तद्वदन्यत्वज्ञानविधया उक्तोभयसम्बन्धेन
प्रमेयविशिष्टत्वादिरूपानेकसमवेतत्वघटितजातित्वज्ञानप्रतिबन्धकत्वम्।
1. स्वसमवेतत्वेति।
स्वं नीलघटः तत्समवेतत्वं घटत्वे, एवं स्वं नीलघटः
तद्भिन्नपीतघटसमवेतत्वं च घटत्वे इति उक्तोभयसम्बन्धेन
नीलघटरूपप्रमेयविशिष्टे घटत्वं तद्भिन्नत्वमाकाशत्वे। एवं स्वं
नीलघटभेदः तत्प्रतियोगिनीलघटसमवेतत्वं घटत्वे, स्वं
नीलघटभेदः तदनुयोगिपीतघटसमवेतत्वं च घटत्वे इति
तादृशोभयसंबन्धेन भेदवत् - नीलघटभेदवत् घटत्वे
तदन्यत्वमाकाशे इति बोध्यम्।
तुल्यत्वं
स्वभिन्नजातिसमनियतत्वम्, स्वभिन्नत्वस्वसमनियतत्वोभयसम्बन्धेन
जातिविशिष्टत्वपर्यवसितम्। तच्च जातित्वाभावव्याप्यमिति
तद्ग्रहस्य तदभावव्याप्यवत्ताग्रहविधया कलशत्वादेः
घटत्वादिजातिभिन्नजातित्वोपगमे
विरोधित्वम्। तस्य च
जातित्वाभावव्याप्यत्वं घटत्वकलशत्वयोर्भिन्नजातित्वे घटादिपदस्य
धर्मद्वयावच्छिन्ने शक्तिद्वयकल्पनं कार्यकारणभावद्वयकल्पनं च
नान्यथेति लाघवमिति धीसहकृतेन
जातिविशिष्टत्वपक्षकजातित्वाभावव्याप्यतदभावान्यतरसाध्यकप्रमेयत्वादिहेतुकानुमानेन
सिद्धम्।
सङ्करश्च
स्वसामानाधिकरण्यस्वाभावसामानाधिकरण्यस्वसमानाधिकरणाभावप्रति योगित्वत्रयसम्बन्धेन
जातिविशिष्टत्वम्। तदपि च जातित्वाभावव्याप्यमेव। तस्य तथात्वं
च धर्मशास्त्रसिद्धम्। विरुद्धजातीनां परस्परं व्याप्यजात्या
व्यापकजातेः, व्यापकजात्या व्याप्यजातेश्च जातिसाङ्कर्यवारणाय
संबन्धत्रयनिवेशः।
अनवस्थितिः अनवस्था च
जात्यनाश्रयवृत्तिपदार्थविभाजकोपाधिपरम्परारोपाधीनजातिविशिष्टबुद्धिनिरूपितत-
त्तज्जातिज्ञानकारणतानन्त्यरूपानिष्टप्रसञ्जनरूपेह विवक्षिता।
तस्याश्च तदापादककापत्तिविधया
जातिर्जातिमतीत्याकारकज्ञानविरोधित्वम्।
रूपहानिः
स्वतोव्यावृत्तत्वरूपलक्षणस्वरूपस्य हानिः। स्वतोव्यावृत्तत्वं च
विशेषाणां स्वतःसिद्धपरस्परभेदवत्त्वम् तस्य विशेषाणां
जातिमत्त्वे ऽनुपपत्तिः। सजातीयानां पदार्थानां परस्परं भेदः
प्रत्यक्षेण व्यावर्तकान्तरेण वा सिद्ध्यतीति न्यायात् विशेषो यदि
जातिमान् स्यात् स्वतोव्यावृत्तत्त्ववान् न स्यात्
इत्यापत्तिविषयतया विशेषस्य जातिमत्त्वे बाधकत्वम्। ऽअयं
परमाणुः तत्परमाणुभिन्नः एतद्विशेषात्ऽ इत्यनुमानेन विशेषस्य
जातिमत्त्वे जात्याश्रयस्य जातिपुरस्कारेणैव व्यावर्तकत्वं इति
नियमेन जातिपुरस्कारेणैव व्यावर्तकताया व्यभिचारापत्तेः।
असंबन्धः
असमवेतत्वम्। तच्च बहुव्रीहिबलात्
समवेतत्वसामान्याभावपर्यवसितम्। तज्ज्ञानस्य
नित्यानेकसमवेतत्वरूपजात्यभावव्याप्यवत्ताज्ञानविधया
नित्यानेकसमवेतरूपजातिमत्ताज्ञानविरोधित्वम्।
एतत्सर्वमभिप्रेत्यैव [57] सङ्क्षेप इत्युक्तम्। दीपिकायाम् [56] लघुत्वस्य गुरुत्वाभावरूपत्वादिति। न च गुरुत्वस्य
लघुत्वाभावरूपत्वमादाय विनिगमनाविरह इति। वाच्यम्।
स्वतन्त्रेच्छस्येति न्यायेनादोषात् इति भावः।
कर्मविभागः
[62] असमवायीति। न चात्र संयोगभिन्नत्वे सति
असमवायिकारणमास्तामिति वाच्यम्। आद्यपतनासमवायिकारणादौ
अतिव्याप्तिवारणाय संयोगांशस्यापि सार्थक्यात्।
सामान्यविभागः
[63] सत्तायाः द्रव्यत्वापेक्षयेत्यादि।
अपेक्षाशब्दस्य प्रतियोगितानिरूपकत्वमर्थः। तृतीयायाश्च
वैशिष्ट्यम्। अधिकदेशवृत्तित्वं च
स्वप्रतियोग्यधिकरणवृत्तित्वस्वाधिकरणवृत्तित्वोभयसम्बन्धेनाभावविशिष्टत्वम्।
सकदेशे ऽभावे
तृतीयान्तार्थद्रव्यत्वनिष्ठप्रतियोगितानिरूपितत्वविशिष्टत्वान्वयः।
अधिकदेशवृत्तित्वेनेत्यत्र तृतीयाया अभेदोर्ऽथः।
द्रव्यत्वनिष्ठप्रतियोगिताकाभाववैशिष्ट्याभिन्नं द्रव्यत्वापेक्षया
परत्वमिति वाक्यार्थः। [63] द्रव्यत्वादीनां सत्तातो ऽपरत्वमिति।
तच्च
1स्वाश्रयाधिकरणवृत्त्यभावप्रतियोगित्वरूपम्।
विशेषविभागः
[63] विशेषासत्वनन्ता एवेति वाक्ये अनन्तत्वं
च न विद्यते अन्तः
सङ्ख्यात्वव्याप्यधर्मावच्छिन्नप्रकारताकास्मदादिसमवेतनिश्चयः
विशेष्यतासम्बन्धेन येषु नास्तीति विग्रहान्
सङ्ख्यात्वव्याप्यधर्मावच्छिन्नप्रकारताकतादृशनिश्चयविशेष्यत्वाभाववत्त्वम्।
प्रकाशिकायाम् [63]
1. स्वाश्रयेति। स्वं
सत्ता तदाश्रयः गुणः तन्निष्ठाभावः द्रव्यत्वाभावः तत्प्रतियोगित्वं
द्रव्यत्वे इति द्रव्यत्वस्य सत्तातो ऽपरत्वमिति भावः।
विवेक इति। तथा च
सामान्यं त्रिविधम् --- केवलपरम्, केवलापरम्, परापरम् चेति।
सङ्ग्रहे च केवलपरापरप्रदर्शनादेव परापरजातेः, स्फुटतया
लाभात् तदकथनमिति भावः। ननु सत्तायाः
केवलपरत्वकथनमनुपपन्नम्। प्रेमयत्वादिजातिसत्त्वात् सत्तायाः
1परापरत्वादित्यत आह --- दीपिकायाम् [63] सामान्यादिचतुष्टय
इति।
समवायलक्षणम्
[64] समवायस्त्वेक एवेत्यत्र सङ्ग्रहपङ्क्तौ समवायस्यैकत्वं
समवायनिष्ठभेदप्रतियोगितानवच्छेदकधर्मवत्त्वं न तु
सङ्ख्यारूपम्, समवायावृत्तित्वात् अव्यावर्तकत्वात् च। एवकारश्च
ईदृशपारिभाषिकत्वे तात्पर्यग्रहः। यद्वा एकत्वमुभयावृत्तिधर्मः।
उभयावृत्तित्वं च स्वप्रतियोगिवृत्तित्वस्वभिन्नवृत्तित्वोभयसम्बन्धेन
र्किञ्चिद्विशिष्टान्यत्वम्। एवकारस्य
चाधेयताश्रयभेदप्रतियोगितावच्छेदकत्वम् अभावश्च खण्डशोर्ऽथः।
आधेयतायां व्युत्पत्तिवैचित्र्येण प्रथमान्तपदोपस्थाप्यस्यापि
समवायस्य निरूपितत्वसम्बन्धेनान्वयः।
समवायनिरूपिताधेयताश्रयभेदप्रतियोगितावच्छेदकत्वस्य च
विधेयतावच्छेदकत्वाभिमतसम्बन्धावच्छिन्नावच्छेदकताकप्रतियोगिताकस्वरूपसम्बन्धावच्छिन्नप्रतियोगिताकत्वसम्बन्धे-
नाभावे ऽन्वयः।
तादृशाभावस्यचैकपदार्थे ऽन्वयः। तथा च समवायः
समवायनिरूपिताधेयताश्रयभेदप्रतियोगितावच्छेदकत्वविशेषिताभाववदभिन्न
इति बोधः इति अभिप्रायेणावतारयति - दीपिकायाम् [64] समवायस्य भेदो नास्तीत्याहेति। अत्र च भेदः
आधेयताश्रयभेदप्रतियोगितावच्छेदकधर्मः। समवायस्येत्यत्र षष्ट्या
निरूपितत्वमर्थः। तस्य च भेदपदार्थघटकाधेयतायामन्वयः।
असधात्वर्थाधेयतायामपि व्युत्पत्तिवैचित्र्यादन्वयः।
असधात्वर्थाधेयतायाश्च नञर्थाभावे तस्य च प्रथमान्तपदार्थे
भेदे ऽन्वयः। तथा च
समवायनिरूपिताधेयताश्रयभेदप्रतियोगितावच्छेदकधर्मः
समवायनिरूपिताधेयत्वाभाववानिति बोधः।
1. तपरापरत्वादिति।
सत्तायाः प्रमेयत्वापेक्षया अपरत्वम्, द्रव्यत्वाद्यपेक्षया परत्वमिति
रीत्या परापरत्वमिति भावः।
अनुयोगितावच्छेदकावच्छेदेनाभावबोधकताया नञः
व्युत्पन्नतया समवायद्वित्वपक्षे ऽप्युक्तवाक्यार्थसङ्गतिः। यद्वा भेदः
अन्योन्याभावः।
समवायस्येत्यत्र षष्ठ्याः
एकमात्रवृत्तिधर्मावच्छिन्नप्रतियोगिताकत्वमर्थः। समवायस्येति
पुनरावृत्त्या
तदर्थस्य
समवायवृत्तित्वस्यासधात्वर्थाधेयतायामन्वयः। तथा च समवायनिष्ठा
या एकमात्रवृत्तिधर्मावच्छिन्नप्रतियोगिता तन्निरूपितान्योन्याभावः
समवायनिरूपितवृत्तित्ववानिति। बोधः। इतिशब्दस्य
इत्याकारकमर्थः। तस्य चाभेदसम्बन्धेन
ज्ञानोत्पत्तिप्रयोजकशब्दरूपब्रूञर्थैकदेशे ज्ञाने ऽन्वयः। तस्य
चाख्यातार्थकृतावन्वयः। अनुकूलतासम्बन्धेन तादृशज्ञानं च प्रकृते
मानसरूपं बोध्यम्। तेन प्रकृते तस्य शब्दरूपत्वासंभवे ऽपि न
क्षतिः।
प्रकाशिकायाम् [64] रूपसमवायेति। अयमत्राशयः-तत्सम्बन्धेन तत्प्रकारकभ्रमत्वं च
तत्सम्बन्धावच्छिन्नप्रतियोगिताकतदभाववद्विशेष्यकत्वावच्छिन्नतत्सम्बन्धावच्छिन्नप्रकारकत्वम्।
तच्च ऽवायुः समवायेन रूपवान्ऽ इति ज्ञाने ऽक्षतमेव। तेन
सम्बन्धेन तत्प्रकारकप्रमात्वं च न
तत्प्रमोपलक्षिततत्सम्बन्धानुयोगिविशेष्यताकत्वघटितम्, किं तु
तत्प्रतियोगिकत्वावच्छिन्ननिरूपकताकतत्सम्बन्धानुयोगिताश्रयविशेष्यताकत्वघटितम्।
वायौ रूपशून्ये
रूपप्रतियोगिकत्वावच्छिन्ननिरूपितासमवायानुयोगिता न स्वीकृता
इति न तादृशज्ञानस्य प्रमात्वप्रसङ्गः। एवं
तत्प्रतियोगित्वविशिष्टतन्निरूपितस्य तत्सम्बन्धानुयोगित्वस्य तेन
सम्बन्धेन तत्सत्त्वव्याप्यत्वस्वीकारात् न वायौ
रूपप्रतियोगित्वोपलक्षितसमवायवति समवायेन
रूपवत्ताप्रसङ्गः इत्यभिप्रेत्य [64] दिगित्युक्तम्।
पृथिवीनिरूपणम्
दीपिकायाम् [65] उद्देशक्रमानुसारादित्यादि। पञ्चम्याः प्रयोज्यत्वमर्थः।
तादृशानुसारप्रयोज्यजलादिलक्षणकथनप्राक्कालीनाभिन्नपृथिव्यादिसमुदायघटकीभूतपृथिवीविशेष्यकलक्षणप्रकारक-
ज्ञानोद्देशप्रयोज्यशब्दानुकूलकृतिमानिति बोधः।
प्रकाशिकायाम् [65] प्राथम्ये - प्रथमवक्तव्यत्वे। [66] लक्षणीयवस्तुपरमिति। प्रकृतलक्षणाश्रययावद्वस्तुपरिमित्यर्थः।
तेन न घटादिपदे
प्रकृतलक्षणाश्रयघटादिप्रतिपादके ऽतिप्रसङ्गतादवस्थ्यम्। तथा च
प्रकृतलक्षणाश्रययावद्वस्तुनिष्ठविषयताशालित्वं बोधविशेषणं
देयमिति भावः।
[66] मात्रपदमितीति। अत्र केचित् ---
लक्ष्यतावच्छेदकेतराप्रकारकत्वं मात्रपदलभ्यम्। लक्षणवाक्यस्य
तदितरलक्षणप्रतिपादकत्वान्न तत्रातिव्याप्तिरिति भावः- इत्याहुः।
तत्तुच्छम्। मात्रपदस्य
समभिव्याहृतपदार्थेन्तरसंबन्धव्यवच्छेदबोधकताया ऽअत्र भूतले
धटो ऽस्तिऽ इत्यादौ व्युत्पन्नतया शब्दे लक्षणाप्रतिपादकत्वस्यैव
तल्लभ्यत्वात्। लक्ष्यतावच्छेदकेतरसंबन्धव्यवच्छेदबोधकतायां
व्युत्पत्तिविरोधस्य स्पष्टत्वात्। पदार्थद्वयसंसर्गबोधस्यैव
शाब्दाबोधरूपतया अन्ततः प्रकृत्यर्थसंङ्ख्याप्रकारकस्यापि
पृथिव्यादिविशेष्यकशाब्दबोधस्य संभवात्
लक्ष्यतावच्छेदकेतराप्रकारकशाब्दबोधाप्रसिद्धेश्च। एवं च
लक्ष्यतावच्छेदकप्रकारकशाब्दजनकतावच्छेदकयत्किञ्चिज्ज्ञानीयविषयताश्रयवर्णत्वव्यापकसमुदायत्वम्
उद्देशलक्षणम्। अतो न पृथिव्यादिभागे ऽतिव्याप्तिः।
तादृशसमुदायत्वं च
तादृशसमुदायत्वनिष्ठन्यूनवृत्तितानिरूपकत्वेन विशेषणीयम्। तेन
न लक्षणादिवाक्ये ऽतिव्याप्तिः। तादृशसमुदायत्वं च व्याप्तिसम्बन्धेन
उद्देशपदप्रवृत्तिनिमित्तम्। तेनाश्रयतया तस्यैकदेशसाधारणत्वे ऽपि
न क्षतिः। समुदायत्वस्य व्यासज्यवृत्तित्वेन निवेशः। अतः
धीविशेषविषयत्वरूपस्य तस्याननुगमे ऽपि न क्षतिः। यदि च
विषयत्वमव्यासज्यवृत्तीति नायं प्रकारः साधीयानित्युच्यते, तदा
तादृशवर्णत्वव्यापकधर्मवत्त्वमेवोद्देशलक्षणं वक्तव्यम्।
तादृशधर्मत्वेन च
विशेष्यतावच्छेदकधर्मबोधकत्वव्युत्पत्तेः
स्वीकारान्नातिप्रसङ्गावकाशः। यद्यपि पर्यायपदान्तराधीनशाब्दबोधे
व्यभिचारवारणाय तत्तत्पदज्ञानाव्यवहितोत्तरत्वस्य
कार्यतावच्छेदककोटौ अवश्यं निवेश्यतया तत्र विषयनिवेशे
प्रयोजनायोज्यशब्दानुकूलकृतिमानिति बोधः। प्रकाशिकायाम् [65] प्राथम्ये - प्रथमवक्तव्यत्वे। [66] लक्षणीयवसतुपरमिति।
प्रकृतलक्षणाश्रययावद्वस्तुपरिमित्यर्थः। तेन न घटादिपदे
प्रकृतलक्षणाश्रयघटादिप्रतिपादके ऽतिप्रसङ्गतादवस्थ्यम्। तथा च
प्रकृतलक्षणाश्रययावद्वस्तुनिष्ठविषयताशालित्वं बोधविशेषणं
देयमिति भावः।
[66] मात्रपदमितीति। अत्र केचित् ---
लक्ष्यतावच्छेदकेतराप्रकारकत्वं मात्रपदलभ्यम्। लक्षणवाक्यस्य
तदितरलक्षणप्रतिपादकत्वान्न तत्रातिव्याप्तिरिति भावः- इत्याहुः।
तत्तुच्छम्। मात्रपदस्य
समभिव्याहृतपदार्थेन्तरसंबन्धव्यवच्छेदबोधकताया ऽअत्र
भूतले घटो ऽस्तिऽ इत्यादौ व्युत्पन्नतया शब्दे
लक्षणाप्रतिपादकत्वस्यैव तल्लभ्यत्वात्।
लक्ष्यतावच्छेदकेतरसंबन्धव्यवच्छेदकाबोधकतायां
व्युत्पत्तिविरोधस्य स्पष्टत्वात्। पदार्थद्वयसंसर्गबोधस्यैव
शाब्दबोधरूपतया अन्ततः प्रकृत्यर्थसङ्ख्याप्रकारकस्यापि
पृथिव्यादिविशेष्यकशाब्दबोधस्य संभवात्
लक्ष्यतावच्छेदकेतराप्रकारकशाब्बोधाप्रसिद्धेश्च। एवं च
लक्ष्यतावच्छेदकप्रकारकशाब्दजनकतावच्छेदकयत्किञ्चिज्ज्ञानीयविषयताश्रयवर्णत्वव्यापकसमुदायत्वम्
उद्देशलक्षणम्। अतो न पृथिव्यादिभागे ऽतिव्याप्ति। तादृशसमुदायत्वं
च तादृशसमुदायत्वनिष्ठन्यूनवृत्तितानिरूपकत्वेन विशेषणीयम्।
तेन न लक्षणादिवाक्ये ऽतिव्याप्तिः। तादृशसमुदायत्वं च
व्याप्तिसम्बन्धेन उद्देशपदप्रवृत्तिनिमित्तम्। तेनाश्रयतया
तस्यैकदेशसाधारणत्वे ऽपि न क्षतिः। समुदायत्वस्य
व्यासज्यवृत्तित्वेन निवेशः। अतः धीविशेषविषयत्वरूपस्य
तस्यानुगमे ऽपि न क्षतिः। यदि च विषयत्वमव्यासज्यवृत्तीति नायं
प्रकारः साधीयानित्युच्यते, तदा
तादृशवर्णत्वव्यापकधर्मवत्त्वमेवोद्देशलक्षणं वक्तमव्यम्।
तादृशधर्मत्वेन च विशेष्यतावच्छेदकधर्मबोधकत्वव्युत्पत्तेः
स्वीकारान्नतिप्रसङ्गावकाशः। यद्यपि
पर्यायपदान्तराधीयनशाब्दबोधे व्यभिचारवारणाय
तत्तत्पदज्ञानाव्यवहितोत्तरत्वस्य कार्यतावच्छेदककोटौ अवश्यं
निवेश्यतया तत्र विषयनिवेशे प्रयोजनाभावेन
लक्ष्यतावच्छेदकीभूतपृथिवीत्वादिप्रकारकत्वावच्छिन्नत्वस्य
जन्यतायामसंभवः। तथापि
तत्तत्पदज्ञानाव्यवहितोत्तरशाब्दत्वावच्छिन्नजन्यतैव लक्षणे निवेश्या,
अतो न दोषः।
पृथिवीपदज्ञानाव्यवहितोत्तरशाब्दत्वावच्छिन्नजन्यतानिरूपितजनकतावच्छेदकयत्किञ्चिज्ज्ञा
-- नीयविषयताश्रयवर्णत्वव्यापकः
तादृशव्यापकसमुदायनिष्ठन्यूनवृत्तितानिरूपितश्च यो ऽयं धर्मः स
एव पृथिव्युद्देशलक्षणमितिरीत्या तत्तदुद्देशलक्षणं बोध्यम्। न च
किञ्चित्त्वनिवेशादननुगम इति वाच्यम्।
तादृशजनकतानिरूपिताधिकरणताविशिष्टधर्मवत्त्वस्य विवक्षितत्वात्।
वैशिष्ट्यं च
स्वसमानाधिकरणभेदप्रतियोगितावच्छेदकत्वसम्बन्धावच्छिन्नस्वनि ष्ठावच्छेदकताकप्रतियोगिताकभेदवत्त्वसम्बन्धेन
स्वाधिकरणतास्वविशिष्टविशिष्टविषयताश्रयवर्णन्त्वसम्बन्धेन।
विषयतायां स्वविषिष्टवैशिष्ट्यं च
स्वनिरूपकजनकतावच्छेदकत्वस्वाश्रयज्ञानीयत्वोभयसम्बन्धेन।
तादृशधर्मनिष्ठन्यूनवृत्तितानिरूपकभिन्नत्वं च
स्वावच्छिन्नप्रतियोगिताकभेदवद्वृत्तित्वस्वसामानाधिकरण्योभयसंबन्धेन
तादृशधर्मविशिष्टान्यत्वम्। अधिकरणतावैशिष्ट्यघटकतया
स्वविशिष्टधर्मविशिष्टत्वसंबन्धावच्छिन्नस्वनिष्ठावच्छेदकताकप्रतियोगिताकभेदवत्त्वसंबन्धः
पर्यवसितः। अत एव ऽपृथिवी गन्धवतीऽ इति वाक्ये नातिप्रसङ्ग
इति मदेकपरिशीलितः पन्थाः।
[65] ननु सुरभ्यसुरभ्यवयवारब्ध इति
दीपिकावाक्ये तादृशावयवाभ्यामारब्धमिति विग्रहात्
तादृशावयवसमेवताद्यकृतिमत्त्वं लभ्यते। आङ्पूर्वकस्य रभतेः
आद्यकृतिबोधकत्वात्। क्तप्रत्ययस्य विधेयत्वमर्थः। तच्चासङ्गतम्।
कृतेः आत्ममात्रधर्मत्वादित्यत आह-- [66] आरब्धे जन्य उ इति। [66] परस्परविरोधेनेतीति। विरोधः प्रतीबन्धकत्वम्, तत्र
परस्परत्वं च स्वाश्रयनिरूपितप्रतिबन्धकताश्रयनिरूपित्वं
प्रतिबन्धकताविशिष्टत्वपर्यवसितम्
स्वनिरूपकवृत्तित्वस्वाश्रयवृत्तित्वोभयसम्बन्धेन। [66] सुरभिगन्धं प्रति असुरभिगन्धस्येत्यादि। अत्र समवायेन
सुरभिगन्धं प्रति
समवायसम्बन्धावच्छिन्नप्रतियोगिताकस्यासुरभिगन्धाभावस्य
समवायसंबन्धावच्छिन्नप्रतियोगिताकस्य सुरभिगन्धाभावस्यैव वा
कार्यकालवृत्तितया कारणत्वेन प्रतीतिबलेन
सुरभ्यसुरभ्युभयोरसंबन्धयोरेव समवायेनोत्पत्तौ
कार्यकालावछेदेन प्रतिबन्धकाभावरूपकारणाभावात्
नोभयगन्धोत्पत्तिरिति भावः।
यत्तु - समवायेन
सुरभिगन्धं प्रति स्वसमवायिसमवेतसमवायेन असुरभिगन्धादेः
प्रतिबन्धकत्वर्णनं - तत्तु
प्रतिबन्धकतावच्छेदकसंबन्धगौरवादनादेयम्। [66] स्वाश्रयसमवेतत्वसंबन्धेनेत्यादिरिति।
अत्रावच्छिन्नसंसर्गताकत्वं
तृतीयार्थः। तच्च
प्रतीतिसंभवेनेत्यत्र प्रतीतावन्वेति। तृतीयायाः प्रयोज्यत्वमर्थः।
तस्य समवायेन गन्धप्रतीतौ भ्रमदोषविधया प्रयोजकत्वं बोध्यम्।
दीपिकायाम् [65] चित्रगन्धानङ्गीकारादिति। तथा च
चित्रगन्धस्यासत्त्वादव्याप्तिरस्त्येवेति भावः।
[66] प्रकाशिकायाम् तुष्यतु दुर्जन इति
न्यायेनेति। अत्रायमाशयः-- सुरभ्यसुरभिगन्धवत्परमाणुभ्यां
द्व्यणुकमारब्धम्।
ततस्त्र्यणुकादिक्रमेण महावयविपर्यन्तमुत्पन्नम्। तत्र घटे
गन्धप्रतीतिर्नोपेयत एव तदवयवकपालादौ गन्धाभावेन तत्र
गन्धासंभवात् परमाणुगन्धस्य चाप्रत्यक्षत्वात्। वस्तुतस्तु
परमाणुगन्धस्य लौकिकप्रत्यक्षविषयत्वाभावे ऽपि
स्वसमवायिघटितपरंपरासंबन्धेन तत्र
परमाणुगन्धविषयकालौकिकप्रत्यक्षं संभवत्येव। यदि चायं
गन्धवानिति लौकिकप्रतीतिर्जायते इत्याग्रहस्तदास्तु चित्रगन्ध
इति। [65] गन्धसमानाधिकरेणेति। अत्रापि
पूर्ववदेवार्थो बोध्यः। अन्यथा पूर्वरीत्या दोषात्।
ननु द्रव्यत्वापरत्वं
द्रव्यभिन्नभिन्नत्वम्, तथा च कथमसंभववारणमित्यत आह - [66] द्रव्यत्वन्यूनवृत्तीत्यर्थकमिति। द्रव्यत्वाभाववदवृत्तित्वमेव
सत्तावारणाय कुतो न निवेश्यत इत्यत आह - [66] तेनेति। [66] द्रव्यत्वव्युदास इति। द्रव्यत्वस्य
स्वाभाववदवृत्तिऽपि स्वसमानाधिकरणाभावप्रतियोगित्वविरहात्।
कालिकसंबन्धेन तादृशधर्मवत्त्वमादायातिव्याप्तिवारणाय [65] जातीति। नित्यत्वमात्रमत्र विवक्षितम्। अनेकसमवेतत्वस्य
प्रकृते ऽव्यावर्तकत्वात्। पृथिवीजलान्यतरत्वस्य
समवायसंबन्धघटितसामानाधिकरण्यविरहात्। कालिकसंबन्धेन
तादृशधर्मवत्त्वमादायातिव्याप्तिवारणाय समवायेन
तादृशधर्मवत्त्वस्य विवक्षणीयतया उक्तान्यतरत्वमादाय दोषाप्रसक्तेश्च।
पृथिवीजलद्वित्वादीनामपि अपेक्षाबुद्धिविशेषविषयत्वरूपतया
नित्यत्वविरहेणैव वारणं बोध्यम्। [66] स्वाश्रयसंयुक्तत्वसंबन्धेनेत्यादिरिति। अत्रापि पूर्ववदेवार्थो
वर्णनीयः। [66] अनुगतरूपेण -
स्वनिष्ठाधेयतावच्छेदकातिरिक्तत्वेनेत्यर्थः।
सर्वनिष्ठाधेयतानवच्छेदकसंबन्धेन घटादेः कपालादिलक्षणत्वे
भूतलादौ घटादिसंयोगिनि अतिव्याप्तेः। एवं समवायादीनां
तादृशरूपेण संबन्धत्वमप्यप्रामाणिकम्। [66] वस्तुतस्त्विति।
बोध्यमिति। पृथिव्याः समवायेन गन्धो लक्षणं, समवायेन कपालस्य
घटो लक्षणमिति भावः।
पृथिवीविभागः
संग्रहे [69] सा
द्विविधा नित्या अनित्या चेति। द्वे विधे यस्याः सा द्विविधा, विधा
नाम विभाजकधर्मः,
उद्देश्यतावच्छेदकपृथिवीत्वादिसाक्षाद्व्याप्यधर्म इति यावत्।
बहुव्रीहावुत्तरपदस्यान्यपदार्थे निरूढलक्षणायाः सर्वसंमततया
द्वित्वसंख्याश्रयविभाजकधर्मवति प्रकृते विधापदस्य निरूढलक्षणा।
द्विपदं तात्पर्यग्राहकम्। नित्यानित्ययोः
नित्यानित्यान्यतरत्वसंबन्धेनान्वयः पृथिव्याम्। सर्वत्र
विभागवाक्यस्थले तथा व्युत्पत्तेः स्वीकारात्। इति शब्दः
हेतुगर्भविशेषणद्योतकः। तथा च यतः तथा ततः पृथिवी
द्वित्वाश्रयतादृशधर्मवतीति बोधः। अत एव नित्यानित्यपदयोः
स्त्रीलिङ्गत्वमुपपन्नम्, तयोः पृथिवीपदसमानाधिकरणत्वात्।
यत्तु-नित्यानित्यपदे नित्यत्वानित्यत्वपरे। तयोरभेदसंबन्धेन
विभाजकधर्मे ऽन्वय - इति, तत्तुच्छम्। उभयाभेदस्य
विभाजकधर्मे ऽसंभवात्।
अन्यतरत्वबोधकपदाभावेन
नित्यत्वानित्यत्वान्यतरभेदबोधासंभवात् तयोर्लक्षणायां
मानाभावात्। यादृशार्थस्य लक्षणया यत्किञ्चित्पदार्थबोधः
तादृशार्थबोधस्य शक्तादपि पदादानुभाविकत्वेन पृथिवी द्विविधा
नित्यत्वमनित्यत्वमिति प्रयोगापत्तेः।
विधापदार्थतावच्छेदकविभाजकधर्मनिष्ठविशेष्यतानिरूपिताभेदसंबन्धावच्छिन्नप्रकारतासबन्धेन
शाब्दबोधं प्रति
विधापदसमभिव्याहृतैतिपदसमभिव्याहृतयकिञ्चित्पदनिरूपितशक्ति ज्ञानादेः
प्रतिबन्धकत्वादिकल्पने महागौरवापत्तेः।
अथ
परमाणुर्द्विंविधः-नित्यो ऽनित्यश्च। द्रव्यं द्विविधम्-पृथिवी जलं
चेति प्रयोगापत्तिरिति चेत्-न। द्विविधेत्यादिबहुव्रीहौ
विधापदार्थतया यावन्तो धर्माः प्रतीयन्ते
तावद्धर्ममात्रविषयकधीविशेषविषयत्वरूपद्वित्वादिविशेषितधर्मवति
निरूढलक्षणा। विशेषितत्वं च
स्वव्यापकपृथिवीत्वादिसाक्षाद्व्याप्यव्याप्यत्वाश्रयत्वस्वाश्रयत्वोभयसम्बन्धेनेत्यदोषः।
उद्देश्यतावच्छेदकीभूतपृथिवीत्वाद्यवच्छेदेन
तादृशधर्मवदन्वयस्वीकारात् न द्रव्यं द्विविधम् पृथिवी जलं
चेत्यादिप्रयोगः। यद्यपि नित्यत्वानित्यत्वयोर्जलादिसाधारणतया न
पृथिवीत्वादिव्याप्यत्वं तथापि
पृथिवीत्वाद्यन्यतमत्वविशिष्टस्वरूपादिसम्बन्धेन
तयोस्तथात्वमक्षतम्। साक्षात्पदं च ऽपृथिवी त्रिविधा
नित्यानित्यपटश्चेतिऽ इत्यादि प्रयोगवारणाय। ऽआपो द्विविधाः-
नित्यानित्याश्चेतिऽ इत्यादावप्युक्तैव रीतिः।
यदि च ऽपुनस्त्रिविधा
- शरीरेन्द्रियविषयभेदात्ऽ इत्यादेः
पृथिवीसामान्यविभागपरतामते
ऽतादृशभेदप्रयुक्तत्रित्वसङ्ख्याविशिष्टपृथिवीत्वसाक्षाद्व्याप्यधर्मवती
पृथिवीऽ इतयादिरीत्यैव बोधस्य वक्तव्यतया शरीतत्वादीनां
तादृशव्याप्यताविरहेणासङ्गतिरिति विभाव्यते, तदा
उद्देश्यतावच्छेदकपृथिवीत्वादिसाक्षाद्व्याप्यत्वं
नोपादेयम्।
विभाजकधर्माणां परस्परं वैयधिकरण्यभानव्युत्पत्तेः
द्विविधेत्यादौ स्वीकारात् ऽपृथिवी त्रिविधा, नित्यानित्यघटश्चऽ
इति प्रयोगानवकाशः। एवं च बहुव्रीहौ
तादृशद्वित्वविशिष्टाश्रयधर्मवति निरूढलक्षणा। वैशिष्ट्यं
1स्वसेत्यादिभेदवत्त्वतादात्म्योभयसम्बन्धेन।
भेदप्रतियोगितावच्छेदकता
उद्देश्यतावच्छेदकपृथिवीत्वादिसमानाधिकरणनिष्ठत्वविशेषितस्वनिष्ठा
- वच्छेदकताकप्रतियोगिताकभेदवत्त्व
अवच्छेदकतानिष्ठावच्छेदकताकप्रतियोगिताकभेदवत्त्वोभयसम्बन्धावच्छिन्ना
तत्रैकावच्छेदकता नित्यत्वातिरिक्ता
स्वाश्रयाधिकरणकालवृत्तित्वसम्बन्धावच्छिन्नस्वनिष्ठावच्छेदकताकप्रतियोगिताकभेदवत्त्वसम्बन्धेन।
ननु पुरस्त्रिविधेति
पृथिवीसामान्यविभागो वा कार्यपृथिवीविभागो वा। नाद्यः,
नित्यपृथिव्याः शरीरादावन्तर्भावासम्भवात्। नापि र्द्विन्तीयः,
पुनश्शब्दस्वारस्यविरोधात्। तेन हि यद्धर्मावच्छिन्नस्य प्राग्विभागः
कृति तद्धर्मावच्छिन्नस्यैव रूपान्तरेण - विभजनं सूच्यत इत्यत आह
प्रकाशिकायाम् [70] अत्रेति। तथा च ऽपुनस्त्रिविधाऽ इत्यादौ
पृथिवीसामान्यस्यैव विभागः। ऽविषयो मृत्पाषाणादिः- इत्यत्र
आदिपदेन परमाणुपरिग्रहसम्भवात्।
भौमदिव्यौदर्याकरजभेदादिति तैजसविषयविभागस्थले ऽपि
भूमेरिदं भौमममिति विग्रहात् भूमि सम्बन्ध्यादिपरत्वात् तेनैव
तैजसपरमाणुसङ्ग्रहादिति भावः। [70] वर्णयन्तीति। अत्र
पुनश्शब्दास्वारस्यमवसरबीजम्। इदमत्र बोध्यम् - अत्र ऽपुनः
त्रिविधा शरीरेन्द्रियविषयभेदात्ऽ इत्यत्र
शरीरप्रतियोगिकत्वेन्र्दिय -
प्रतियोगिकत्वान्यतरवन्निष्ठाधेयतत्वशरीरप्रतियोगिकत्वविषयप्रतियोगिकत्वान्यतरवन्निष्ठधेयत्वान्यतमसम्बन्धेन
शरीरादेरेकत्र द्वयमिति रीत्या भेदपदार्थे अन्योन्याभावे अन्वयः।
पञ्चम्याः प्रयोज्यत्वमर्थः।
शरीरादिविशेषितभेदवृत्तित्रित्वविशिष्टविभाजकधर्मवतीति बोधः।
भेदस्य प्रयोजकत्वं च स्वज्ञानाधीनापेक्षाब1द्धिद्वारा। उक्तरीत्या
अन्यत्रापि बोधः ऊह्यः। वैशिष्ट्यं च पूर्ववदिति।
1.
स्वसेत्यादिभेदवावेति।
स्वसमानाधिकरणभेदप्रतियोगितावच्छेदकत्वसंबन्धावच्छिन्नस्वनि ष्ठवच्छेदकताकप्रतियोगिताकभेदवत्त्वेत्यर्थः।
[69] विषयो मृत्पाषाणादिरिति।
मृत्पाषाणावादी यस्येति व्युत्पत्त्या
मृत्पाषाणादिनिष्ठादितानिरूपकः पार्थिवविषय इति बोधः।
तद्धर्मावच्छिन्नस्य तदादित्वं नाम
उद्देश्यतावच्छेदकनिष्ठतन्निरूपिताधेयताविशिष्टत्वम्। वैशिष्ट्यं
स्वाश्रयधर्मताविशिष्टतद्धर्मवत्त्वसम्बन्धेन। वैशिष्ट्यं च
स्वव्याप्यधर्मावच्छिन्नबोधकपदपूर्वपदप्रतिपाद्यतावच्छेदकत्वस्वव्याप्यत्वोभयसम्बन्धेन।
केचित्तु -
स्वविषयकज्ञानविषयसमुदायघटकत्वं आदित्वम्। स्वं
पार्थिवादिविषयः। तथा च
मृत्पाषाणादिविषयकज्ञानविषयसमुदायघटकतानिरूपकः
मृत्पाषाणादिघटितसमुदायविषयकज्ञानविषयः पार्थिवविषय
इत्यर्थः-इति
व्याचक्रुः। अतस्तन्तुसमदायत्वस्य धीविशेषविषयत्वरूपतया विशिष्य
तत्तत्पदार्थज्ञाने समुदायत्वस्यैव दुर्निरूपत्वात्।
तत्तत्पदासर्वज्ञजीवे ऽसम्भवात्। सम्बन्धकोटौ
स्वव्याप्यत्वोपादनात्, विषयो मृत्पाषाणजलादिरिति वाक्यस्य न
प्रामाण्यम्। व्याप्यत्वं चात्र
तत्समानाधिकरणभेदप्रतियोगितावच्छेदकत्वे सति
तत्सामानाधिकरण्यम्, न तु तदभाववदवृत्तित्वम्। तेन ऽप्रमेयः
पृथिव्यादिःऽ इत्यादिवाक्यस्य न प्रामाण्यानुपपत्तिः।
सत्यन्तनिवेशाच्च ऽपृथिवी द्रव्यादि गन्धवदादिऽ रित्यादिवाक्यस्य न
प्रामाण्यम्। सामानाधिकरण्यनिवेशाच्च मृत्पाषाणादिरिति वाक्यस्य
न प्रामाण्यम् इत्यलमतिविस्तरेण। [70] अन्त्येति।
द्रव्यसमानाधिकरणभिन्नत्वमन्त्यावयवित्वमिह विवक्षितम्।
ननु शरीरस्य
शरीरत्वजातिरेव कुतो लक्षणतया नोक्ता। एवमिन्द्रियस्यापि
इन्द्रियत्वजातिमत्त्वम्। न च शरींरत्वादेर्जातित्वेमानाभावः।
1पदवाच्यतापक्षकानुमानस्यैव तथात्वात् अत आह - शरीरत्वमिति।
1.
पदवाच्यतापक्षकानुमानस्येति। शरीरपदवाच्यता किञ्चिद्धर्मावच्छिन्ना
पदवाच्यतात्वात् घटपदवाच्यतावत् इत्यनुमानस्येत्यर्थः।
शब्देतरेत्यादीन्द्रियलक्षणे विशेषपदवैयर्थ्यं
संयोगस्योद्भूतत्वरूपजात्यनाक्रान्तत्वात्। अतः तत्पदं
सार्थकयितुमाह-
[70] उद्तत्वं न जातिरिति। [70] शुक्लन्वादिना साङ्कर्यादिति। सङ्कर एव साङ्कर्यम्।
चातुर्वर्ण्यादित्वात् स्वार्थे ष्यञ्। तेन पृथिवीत्वादिना
सङ्करादिति पूर्वग्रन्थेनाविरोधः। [70] कारणत्वानुपपत्तेरिति।
इदमत्र चिन्त्यम्-शुक्लत्वादिव्याप्यनानोद्भूतत्वाभ्युपगमे ऽपि
तत्तुदुद्भूतान्यतमत्वेन चाक्षुषं प्रति एकहेतुत्वं सुवचम्।
अन्यतमत्वघटकभेदानां मिथो विशेषणविशेष्यभावे
विनिगमनाविरह इति तु नाशङ्कनीयम्। उद्भूतत्वस्य
तत्तदनुद्भूतत्वाभावकूटरूपत्वपक्षे ऽपि कूटत्वस्य
तत्तद्विषयकधीविशेषविषयत्वरूपरूपतया तत्तद्विषयकत्वानां
विशेषणविशेष्यभावे विनिगमनाविरहस्य तुल्यत्वात्।
संयोगादिकमादायाकाशादिचाक्षुषवारणाय रूपत्वस्य
कारणतावच्छेदककोटौ अन्तर्भावनीयतया
रूपत्वतादृशोद्भूतत्वयोः विशेषणविशेष्यतावच्छेदकभावे
विनिगमनाविरहेण महागौरवप्रसङ्गाच्चेति। [71] विशेषेतीति। सामान्यगुणभिन्नेत्यर्थः। तेन
द्रव्यत्वादिकमादायासम्भववारणाय गुणपदमिति ध्येयम्।
रूपाभावेति। उद्भूतरूपाभावेत्यर्थः। तेन नाभावस्य
योग्यतानुपपत्तिः। [71] सन्निकर्षघटकतयेति। अयमत्र भावः-
ज्ञानकारणत्वं ज्ञाननियतपूर्ववृत्तित्वं तच्च
कालचक्षुस्संयोगे ऽक्षतमेव। अन्यथा
चक्षुस्संयोगविशिष्टनिरूपितविशेषणताविरहेण काले
रूपाभावप्रत्यक्षानुपपत्तेरिति।
[71] मनः पदमिति। काले सुखं नास्तीति
प्रत्यक्षन्तु न सम्भवत्येव, विजातीयात्ममनस्संयोगस्य ज्ञानमात्रं प्रति
हेतुत्वंस्वीकारात्। तथा च तत्तद्भेदकूटनिवेशगौरवभयेन
सर्वमतसाधारण्यायोक्तविशेषणं निवेशितमिति भावः। [71] प्रयोजनकथनपरतयेति। एतेन घ्राणेन्द्रिये ऽनुमानप्रमाणमपि
सूचितम्। तथा हि गन्धसाक्षात्कारः मनोभिन्नेन्द्रियकरणकः
मानसान्यप्रत्यक्षसामान्यसाक्षात्कारत्वात्। घटादिचाक्षुषज्ञानसामान्यं
प्रति समवायिकारणत्वात् सिद्धसाधनवारणाय साध्यशरीरे
मनोभिन्नेति मानससाक्षात्कारे व्यभिचारवारणाय हेतुकोटौ
मानसान्येति। [71] एवमुत्तरत्र ज्ञेयमिति।
शीतस्पर्शसमानाधिकरणेति पदं शीतत्वं स्पर्शनिष्ठजातिविशेष
इति सूचनाय। शीतस्पर्शवत्यः आपः इत्यादिसङ्ग्रहवाक्ये ऽपि
एवमेव बोध्यम्। न
तु तदपि लक्षणप्रविष्टम्। एवं उत्तरत्रापि।
तेजोनिरूपणम्
सङ्ग्रहे [76] अबिन्धनं विद्युदादि आपः इन्धनानि यस्येति बहुव्रीहिं
वर्णयति।
केचित्तु-करणे
ल्युडन्तस्येन्धनशब्दस्याप्शब्दसमानाधिकरणत्वे विशेष्यनिघ्नत्वे न
स्त्रीलिङ्गत्वापत्त्या ऽटिढ्ढाणञिऽत्यादिना ङीप्(?) प्रसङ्गेन
अबिन्धनमिति रूपानिष्प्त्तेः अबिन्धनिकमित्येव वक्तव्यत्वात्
इन्धनशब्दस्य पूर्वनिपातापत्तेश्च
इन्धनशब्दस्या1तथात्वादित्यभिप्रायेण व्यधिकरणबहुव्रीहिं
प्रदर्शयति अद्भिः इन्धनमित्यादिना। तथा च इन्धनशब्दः भावे
ल्युडन्त इति भावः-इत्याहुः।
सुवर्णतैजसत्ववादः
[77] सुवर्णस्येत्यादि।
सुवर्णविशेष्यकतैजसत्वप्रकारकनिश्चयानुकूलपरमतनिराकरणपूर्वक2व्यापारविषयकेच्छाविशिष्टपूर्वपक्षानुकूलकृतिमानिति
बोधः। वैशिष्ट्यं च
स्वप्रयोज्येच्छाविषयत्वस्वविषयसमानकर्तृकत्वोभयसम्बन्धेन। [76] सूवर्णं पार्थिवमिति दीपिकावाक्यम् सर्वं वाक्यमसति बाधके
सावधारणमिति न्यायेनावधारणगर्भमित्याशयेनावतारयति -
1.
अतथात्वात्-अप्शब्दसमानाधिकरणत्वाभावात्
विशेष्यनिघ्नत्वाभावाच्चेत्यर्थः।
2.
व्यापारविषयकेत्यादि। व्यापारः स्वमतस्थापनरूपः। स्वप्रयोज्येति।
स्वं व्यापारविषयकेच्छा तत्प्रयोज्या। इच्छा पूर्वपक्षं
कुर्यामित्याकारा तद्विषयत्वं पूर्वपक्षानुकूलकृतौ, एवं स्वं
व्यापारविषयकेच्छा तद्विषयः व्यापारः तत्समानकर्तृकत्वं च
तादृशकृतौ।
सुवर्णविशेष्यकेत्यादि। प्रथमविशिष्टान्तस्य
शङ्कानिवृत्त्यनुकूलव्यापारे द्वितीयविशिष्टान्तस्य कृतौ चान्बयः।
प्रथमवैशिष्ट्यं स्वप्रयोज्यत्वस्वसामानाधिकरण्योभयसंबन्धेन।
द्वितीयवैशिष्ट्यं
स्वप्रयोज्येच्छाविषयत्वस्वविषयसमानकर्तृकत्वोभयसंबन्धेन।
[77] पार्थिवत्वसाधकमित्यादिना। तेन
गुरुत्वस्य जले व्यभिचारेण पार्थिवत्वसाधकत्वासम्भवात्
तैजसत्वाभावसाधकत्वस्यैव वक्तव्यत्वेन तैजसत्वाभावस्य च
प्रतिज्ञावाक्येनालाभात् तत्साधकहेतुकथनमनुचितमिति शङ्का
निरवकाशा। सुवर्णं पार्थिवमेवेत्येव प्रतिज्ञार्थस्य वाच्यतया तत्र
चैवकारेण तैजसत्वाभावलाभात्। [77] एतेन
तैजसत्वाभावसाधकहेतुकथनेन। [77] दिगिति। अयं
भावः-समवायेन पीतरूपं प्रति तादात्म्यसम्बन्धेन पृथिवीत्वेन
कारणतायाः कॢप्तत्वात् सुवर्णस्य तैजसत्वे विजातीयपीतरूपं
प्रति कारणतान्तरं कल्पनीयम्। तस्य पार्थिवत्वे तु न
तत्कल्पनावश्यम्भाव इति लाघवमिति तर्कानुगृहीतं ऽसुवर्णं
पार्थिवत्वतदभावान्यतरवत् प्रमेयत्वात्ऽ इत्यनुमानं तस्य
पृथिवीत्वसाधकप्रमाणतया सम्भवतीति।
[77] सुवर्णस्य पीतिमगुरुत्वाश्रयत इत्यादि।
सुवर्णविशेष्यकपीतिमगुरूत्वाश्रयव्यतिरिक्तत्वप्रकारकाप्रामाण्यग्रहानास्कन्दितनिश्चयानुकूलयुक्तिकथनविषयकेच्छाविशिष्टानुमानविशेष्यकाप्रयोजकत्वप्रकारकशङ्कानिवृत्त्यनुकूलव्यापारविषयकेच्छाविशिष्टानुकूलतर्कव्यवस्थापनानुकूलकृतिमानिति
बोधः। [77] असति प्रतिबन्धक इत्यादि।
प्रतिबन्धकात्यन्ताभावविशिष्टात्यन्तानलसंयोगविशिष्टद्रवत्वादित्यर्थः।
अग्निसंयुक्तघटे व्यभिचारवारणाय द्रवत्वनिवेशनम्। वैशिष्ट्यद्वयं
एकक्षणावच्छिन्नैकाधिकरणवृत्तित्वरूपम्। [77] अत्यन्तानलसंयोगी
पीतिमाश्रय इत्यादि। अत्र चात्यन्तानलसंयोगीति
पक्षविशेषणानुपादाने जलमध्यस्थपीतरूपाश्रयद्रवद्रव्यविशेषे
सामानाधिकरण्येन
सिद्धसाधनवारणायावच्छेदकावच्छेदेनानुमितेरुद्देश्यताया
वक्तव्यत्वेन हरिद्रायां सामानाधिकरण्येन बाधः स्यादिति
तदुपादानम्। जलमध्यस्थघृते सामानाधिकरण्येन
सिद्धसाधनवारणायावच्छेदकावच्छेदेनानुमितेरुद्देश्यताया
वाच्यत्वेन घटदावंशतो बाधवारणाय पीतिमाश्रयत्वमुपात्तम्।
यद्यप्येवमपि पीतरूपवति तादृशघटादौ बाधः तथापि
स्वाव्यवहितात्तरप्येवमपि पीतरूपवति तादृशघटादौ बाधः तथापि
स्वाव्यवहितोत्तरक्षणावच्छिन्नसामानाधिकरण्यसंबन्धेन
विजतीयाग्निसंयोगविशिष्टपीतरूपवत्त्वस्यैव
पक्षतावच्छेदकत्वस्वीकारात् न दोष इति भावः।
स्वाव्यवहितोत्तरक्षणावच्छिन्नैकाधिकरणवृत्तित्वलक्षणसामानाधिकरण्यसंबन्धेनाग्निसंयोगविशिष्टद्रवत्वसहितगुरुत्वं
हेतुः।
स्वसमवेतद्रवत्वनाशप्रतिबन्धकद्रवद्रव्यान्तरसंयुक्तत्वं
साध्यम्। न च दृष्टान्तपक्षसाधारणस्वत्वाननुगमात् पक्षे बोधो
दृष्टान्ते साध्यवैकल्यं वा। एवं द्रवद्रव्यान्तरेत्यत्र
स्वान्योन्याभावाश्रयद्रवद्रव्यविवक्षायां अनुपयोगः अन्यथासिद्धिश्चेति
वाच्यम्।
1स्वसंयुक्तत्व-स्वप्रतिबध्यनाशप्रतियोगिद्रवत्वसमवायित्वस्वासमवेतजपतिमत्त्वत्रितयसम्बन्धेन
द्रवद्रव्यविशिष्टत्वस्य साध्यत्वाभ्युपगमात् साध्यशरीरे उद्देश्यसिद्धये
तृतीयसंबन्धनिवेशः। सिध्यति द्रव्ये व्यभिचारावारणाय
हेतुकोटौ गुरुत्वनिवेशः।
यद्यपि तादृशद्रव्यसिद्धितः प्राक् तत्र
व्यभिचारग्रहस्य न सम्भवः, तथापि
यद्यत्यन्तानलसंयोगविशिष्टद्रवत्वमुक्तसाध्यव्याप्यं सयात् तर्हि
प्रकृतपक्षतावच्छेदकावच्छेदेन दर्शितासाध्यसाधकं स्यादिति
रीत्याअनवस्था स्यादिति गुरुत्वोपादानम् [77] जलादिकमादायेति। अत्र आदानं ग्रहणम्। तच्च प्रकृते
विषयतारूपम्। ल्यपः समानकर्तृकत्वमात्रमर्थः
विषयतारूपपर्यवसानशब्दार्थान्वितम्। समानकर्तृकत्वं चेह
तन्निरूपकनिरूपितत्वम्। जलादिकमित्यत्र द्वितीयायाः आधेयत्वमर्थः।
तथा च जलादिनिष्ठं यद्विषयत्वं
तन्निरूपकनिरूपितानुमानविषयत्वरूपार्थान्तरधर्मिकसंभवित्वप्रकारकज्ञानानुकूलव्यापारकर्तेतिवाक्यार्थः।
--------------------------------------
1.
स्वसंयुक्तत्वेत्यादि। स्वं द्रवद्रव्यं जलं तत्संयुक्तत्वं धृते, स्वं जलं
तत्प्रतिबध्यः द्रवत्वनाशः तत्प्रतियोगि द्रवत्वं तत्समवायित्वं धृते,
स्वं जलं तदसमवेतपृथिवीत्वजातिमत्वं च धृते इति
जलमध्यस्थधृते समन्वयः। पक्षे तु स्वं सुवणगततेजोभागः
तत्संयुक्तत्वं पार्थिवभागे, स्वं तेजोभागः तत्प्रतिबध्यो यो
द्रवत्वनाशः तत्प्रतियोगिद्रवत्वं तत्समवायवत्त्वं पार्थिवभागे, स्वं
तेजोभागः तदसमवेता पृथिवीत्वजातिः तद्ववत्त्वं पार्थिवभागे
इति समन्वयः।
---------------------------------------
वायुनिरूपणम्
दीपिकायाञ् [82] स्पर्शानुमेयो वायुरिति। अत्र च स्पर्शपदं स्पर्शत्वपरम्।
तेन पर्वतानुमयो वह्निरिति
व्यवहारवारणाय
तृतीयायाः विशेश्यतार्थकत्वमपहाय
प्रकारतार्थकत्वस्योपगन्तव्यतया स्पर्शानुमेयो
वायुरित्यसंगतमित्यपास्तम्। यद्वा तादात्म्यसंबन्धेन स्पर्शस्यैव
हेतुत्वं विवक्षितमिति नासंगतिः। अनुमानप्रकारश्च
ऽउपलभ्यमानस्पर्शः क्वचिदाश्रितः स्पर्शत्वात्, तादात्म्येन स्पर्शाद्वा,
पार्थिवादिस्पर्शवत्ऽ उ इति [82] वायौवातीति। अत्र च
वायौ इति सप्तम्याः गगनमर्थः। तस्य च समानकालीनत्वसम्बन्धेन
उपलम्भे ऽन्वयः। यद्यपि गुणत्वाद्रूपवदिति हेतुदृष्टान्तयोरभिधानं
[न] युक्तम्; स्पर्शानुमेय इत्यत्र प्रागुक्तविरोघात्; तथापि
स्पर्शत्वादिहेतुकानुमानमुपलक्षणमित्यभिप्रायेण
गुणत्वहेतुकानुमानान्तरमप्युक्तमिति ध्येयम्।
अत्र
चोपलभ्यमानस्पर्शविशिष्टः [यदि] पृथिवी स्यात्
तर्ह्युद्भूतरूपवान् स्यात्, यदि जलादिकं स्यात्
तर्ह्यनुष्णाशीयस्पर्शवान्न स्यात्, यद्ययं स्पर्शः
आकाशादिचतुष्टयान्यतमसमवेतः स्यात् तर्हि
देशान्तरस्थजनसमवेतलौकिकप्रत्यक्षविषयः स्यात्, यदि
मनस्समवेतः स्यात् तर्हि लौकिकप्रत्यक्षविषयो न स्यात्।
यद्ययमुद्भूतस्पर्शः पृथिवीसमवेतः स्यात् उद्भूतरूपवद्वृत्तिः
स्यात्, यदि जलादिसमवेतः स्यात् अनुष्णाशीतो न स्यात्,
उद्भूतस्पर्शाश्रयो यदि विभुः स्यात्
देशान्तरस्थजनसमवेतप्रत्यक्षविषयस्पर्शकः स्यात्, यदि मनः स्यात्,
प्रत्यक्षाविषयस्पर्शकः स्यात् इति तर्कैः ऽअयं स्पर्शः
पृथिव्यादिभिन्नकिञ्चित्समवेतःऽ इत्याकारकानुमितिर्जायत इति
भावः।
[82] उद्भूतस्पर्शवदित्यादि। अत्र च घ्राणेन्द्रिये
व्यभिचारवारणाय प्रथममुद्भूतेति। उद्भूतत्वस्याभावकूटात्मकस्य
द्रव्यत्वे ऽपि सत्त्वात् तद्दोष इत्यतः स्पर्शपदम्। वायौ तद्वारणाय
पार्थिवत्वनिवेशः। वायावप्यनुद्भूतरूपसत्त्वात् द्रव्यत्वसत्त्वाच्च
उद्भूतरूपनिवेशः। अत्र चोपलभ्यमानस्पर्शाश्रयस्य पृथिवीत्वादिकं
प्रसक्तं न तु पृथिव्यादेस्तदाश्रयत्वम्।
अतो ऽप्रसक्तप्रतिषेधपरिहाराय योजनमाह- [82] अस्येत्यादि। दीपिकायाञ् [83] न विभुचतुष्टयमिति।
तदन्यतमं नेत्यर्थः। अन्यथा सिद्धसाधनप्रसंगात्,
एकत्रोभयादिभेदसत्त्वादिति ध्येयम्। नवीनास्तु वायोः प्रत्यक्षतां
वर्णयन्ति। तन्मतमाक्षेप्तुमनुवदति-- [83] ननु वायुः प्रत्यक्ष
इत्यादिना। ननु प्रत्यक्षत्वं प्रत्यक्षविषयत्वं, तथा च वायोरपि
अलौकिकमानसप्रत्यक्षविषयत्वाभ्युपगमात् सिद्धसाधनमत
आह-प्रकाशिकायाञ् [83] प्रत्यक्षः-बहिरिन्द्रयजन्यप्रत्यक्षविषय
इति। यद्यप्यलौकिकतादृशप्रत्यक्षविषयत्वमपि वायोरस्तीति
तद्दोषतादवस्थ्यम्, तथापि मानसानिरूपितलौकिकविषयत्वस्य
साध्यत्वे तात्पर्यान्न दोषः। अनिरूपितान्तं च
मानसविषयतामादायार्थान्तरवारणाय। अत एव
वक्ष्यमाणोपाधेरात्मनि
साध्यव्यापकताभङ्गस्य नावकाशः। [83] प्रत्यक्षेतीति।
लौकिकविषयताश्रयेत्यर्थविवक्षणान्नलौकिकप्रत्यक्षविषयस्पर्शवति
त्वगिन्द्रिये व्यभिचारतादवस्थ्यम्। स्पर्शपदं तु
लौकिकविषयताश्रयद्रव्यत्वादिकमादाय।
लौकिकविषयताश्रयगुणेत्युक्तावपि श्रावणप्रत्यक्षविषयशब्दमादाय
आकाशे व्यभिचारव्युदासाय। स्पर्शस्य समवायेन हेतुत्वसूचनाय
आश्रयत्वकथनम्।
दीपिकायाम् [83] उद्भूतरूपस्येति। अत्रोद्भूतपदं प्राचीनैकदेशिभिः
वायावप्यनुद्भूतरूपस्वीकारात् उपाधेः
साधनाव्यापकत्वोपपत्त्यर्थम्। प्रकाशिकायाञ् [83] साध्यव्यभिचारोन्नयनसम्भवादिति। यद्यपि
व्यापकतावच्छेदकत्वाभिमतरूपावच्छिन्नानिरूपितव्यभिचारस्य
व्याप्यतावच्छेदकत्वाभिमतरूपावच्छिन्ननिरूपितव्यभिचारस्यानुमापकतया
प्रकृते च द्रव्यत्वात्मकपक्षधर्मविशिष्टप्रत्यक्षत्वव्यभिचार एव
तद्विशिष्टसाध्यव्यापकव्यभिचारेणानुमातुं शक्यते, न तु
शुद्धसाध्यव्यभिचारो ऽपि, व्याप्तिग्रहविरहात्। तथापि
तादृशोपाधिव्यभिचारेण विशिष्टसाध्यव्यभिचारसिद्धौ
विशेषणवद्धिशिष्टाभाववद्वृत्तित्वेन हेतुना विशेष्याभाववद्वृत्तित्वं
पश्चादनुमातुं शक्यमिति भावः। अथ वा पक्षधर्मवति
साधनाव्यापकत्वेन शुद्धसाध्यव्यभिचार एवानुमातुं शक्यः।
पक्षधर्मवति साधनाव्यापकत्वं च
साधनाश्रयपक्षधर्मवन्निष्ठात्यन्ताभावप्रतियोगित्वम्। एवं
पक्षधर्मावच्छिन्नसाध्यव्यापकत्वं च
साध्याश्रयपक्षधर्मवन्निष्ठाभावाप्रतियोगित्वमिति। एवमुपाध्यन्तरे ऽपि
द्रष्टव्यम्।
वस्तुतस्तु
1उद्भूतरूपशून्यत्वद्रव्यत्व(द्रव्यत्व)उभयाभावः
समवायसम्बन्धावच्छिन्नप्रतियोगिताकस्वाभावीयद्रव्यनिष्ठाधिकरणतासंबन्धावच्छिन्नस्वनिष्ठावच्छेदकताकप्रतियोगिताकभेदवत्त्वससंबन्धेन
उद्भूतरूपं वा उपाधिः। तस्य रूपादावपि सत्त्वेन साध्यव्यापकत्वात्
पक्षभूतवायावसत्त्वेन साधनाव्यापकत्वाच्च। उपदर्शितधर्मविशेषस्य
उपाधित्वसूचनायैव पक्षधर्मावच्छिन्नसाध्यव्यापकत्वकीर्तनम्।
उपाधिचातुर्विन्ध्यकथनमपि तत्र तत्र विवक्षितधर्मविशेषस्य
उपाधित्वलाभाय विवक्षितसम्बन्धविशेषस्य उपाधितावच्छेदकत्वलाभाय
वेति मदेकपरिशीलितः पन्थाः।
केचित्तु
विशेषणाव्यभिचारित्वनिश्चयसहकृतविशिष्टव्यभिचारित्वव्याप्तिग्रहात्
विशेष्यव्यभिचारसिद्धिः इति वदन्ति। तदसत्। यतो
विशिष्टव्यभिचारः विशिष्टाभावद्वृत्तित्वमेव। न तु
विशेषणव्यभिचारासहितविशेष्यव्यभिचारः। प्रत्तक्षस्पर्शवत्त्वादौ
तदसंभवात्।
1.
उद्भूतरूपशून्यत्वेति। रूपादिगुणे द्रव्यत्वाभावप्रयुक्तोभयाभावस्य
सत्त्वात् घटादिद्रव्ये उद्भूतरूपशून्यत्वाभाप्रयुक्तोभयाभावसत्त्वाच्च
अस्य बहिरिन्द्रियजन्यप्रत्यक्षविषयत्वरूपसाध्यव्यापकत्वम्।
समवायसंबन्धेत्यादि।
स्वाभावीयेत्यस्य स्वाभावनिरूपितेत्यर्थः।
द्रव्यनिष्ठाधिकरणतायामन्वयः। रूपादिनिष्ठाधिकरणतायां
उद्भूतरूपाभावनिरूपितत्वसत्त्वे ऽपि द्रव्यनिष्ठत्वं नास्तीति
स्वाभावनिरूपितद्रव्यनिष्ठाधिकरणतासंबन्धेन स्ववत्त्वं
(उद्भूतरूपवत्त्वं) रूपादौ नास्तीति तेन संबन्धेन स्ववद्भिन्नत्वस्य
रूपादौ सत्त्वात् स्ववद्भिन्नत्वसंबन्धेन उद्भूतरूपं तत्रास्तीति
साध्यव्यापकत्वमिति भावः। घटादिनिष्ठाधिकरणतायां
द्रव्यनिष्ठत्वसद्भावे ऽपि उद्भूतरूपाभावनिरूपितत्वं नास्ति। अतः
स्वाभावनिरूपिताधिकरणतासंबन्धेन स्ववद्भिन्नत्वसत्त्वात्
तत्संबन्धेन उद्भूतरूपं घटादावस्तीति साध्यव्यापकता बोध्यः।
तथा
चोपदर्शितपरामर्शात् विशिष्टव्यभिचारसिद्धौ न किञ्चिदपि बाधकं
पश्याम इति विशिष्टसाध्यव्याप्तिकोपाधेः
शुद्धसाध्यव्यभिचारोन्नायकत्वानिर्वाह एवेति।
दीपिकायाञ् [82] प्राणस्य कुत्रान्तर्भाव इत्यादि। तथा च दशमद्रव्यत्वं प्राणस्य,
वायावन्तर्भावे ऽपि कार्यवानुचातुर्विध्यं वा प्रसज्येतेति भावः।
शरीरेत्यादिविशेषणेन
शरीरेन्द्रियभिन्नत्वरूपविषयलक्षणाक्रान्तत्वात् न चतुर्विध्यम्,
वाय्वन्तर्भावाच्च न दशमद्रव्यत्वमित्याशय इति भावश्च।"स
चैको ऽप्युपाधिभेदात् प्राणादिसंज्ञाभेदं लभत"इति
संग्रहवाक्ये उपाधिभेदादित्यत्र पञ्चम्याः प्रयोज्यत्वमर्थः। तस्य
ऽलभतऽ इत्यत्र धात्वर्थसम्बन्धे ऽन्वयः। स चेह वाच्यत्वरूपः।
एको ऽपीत्यत्र एकत्वं प्राणत्वन्यूनवृत्तिधर्मशून्यत्वम्। अपिरत्र
मूल पाठ: Tarkasaṃgraha with autoentary (Dīpikā), Nīlakaṇṭha's Dīpikāprakāśikā and Bālapriyā · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0