तर्कसंग्रह (टीका सहित) · भाग 361380
इत्यादिनां कर्मणो
ज्ञानसाधनत्वप्रतिपादनात् ज्ञानद्वारैव कर्मणो मोक्षसाधनत्वं न
साक्षात्। तस्मात् पदार्थतत्त्वज्ञानस्य मोक्षः परमप्रयोजनमिति सर्वं
रमणीयम्।
इति
तर्कसंग्रहदीपिका समाप्ता
। । ।
प्रकाशिका
ऽकैवल्यं लभते
नरःऽ इत्यादिनेति। आदिना ऽक्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे
परावरेऽ इत्यादिश्रुतेः ऽज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते
तथाऽ इत्यादिस्मृतेश्च संग्रहः। ज्ञानद्वारैवेति। अत्रायं क्रमः --
निष्कामनया भगवत्प्रीत्यर्थं कृतैः कर्मभिः
दुरितक्षयरूपात्मशुद्धिर्भवति। ततो विषयेषु वैराग्यम्। ततः
श्रवणादौ प्रवृत्तिः। ततः श्रवणादिक्रमेण तत्त्वज्ञानोत्पत्तौ
पूर्वोक्तमिथ्याज्ञाननाशादिक्रमेण मोक्षनिष्पत्तिः। अधिकम्
अस्मदीयचिन्तामणिदीधितिव्याख्यायामनुसन्धेयं
तर्ककर्कशविचारचातुरीधुरीणैरिति।
कौण्डिन्यगोत्रसम्भूतो नीलकण्ठाख्यपण्डितः
कृतिमार्पिपदेतस्मै
चन्द्रचूडाय मङ्गलम्॥
इति प्रकाशिका
समाप्ता
। । ।
बालप्रिया
श्रीयन्ते चेति।
परावरे-- परे अवरा यस्मात् तस्मिन् परमात्मनि साक्षात्कृते सति
पुण्यपापरूपाणि कर्माणि नश्यन्तीत्यर्थः। ज्ञानाग्निरिति।
ज्ञानरूपो ऽग्निः सर्वाण्यपि पुण्यपापरूपाणि कर्माणि
भस्मीकरोतीत्यर्थः।
दीपिकायाम्
आत्मसाक्षात्कारे सतीत्यादि।"दुःखजन्यप्रवृत्तिदोषः
मिथ्याज्ञानानामुत्तरोत्तरापोय तदनन्तरापायादपवर्गः"इति
न्यायसूत्रमत्राभिसंहितम्। प्रथमतः अविच्छिन्नतैलधारावत्
श्रवणमननसमानविषयकानवरतात्मानुसन्धानरूपे निदिध्यासने सति
आत्मा देहादिभिन्नत्वेन साक्षात्क्रियते। अयं साक्षात्कार एव
तत्त्वज्ञानमित्युच्यते। अनेन तत्त्वज्ञानेन देहादौ आत्माभेदभ्रमरूपं
मिथ्याज्ञानं निवर्तते। तादृशदोषाणामनुत्पत्तौ रागद्वेषमोहरूपा
दोषाः नोत्पद्यनते। तादृशदोषाणामनुत्पत्तौ विहितनिषिद्धकर्मसु
प्रवृत्तिः न भवति। प्रवृत्त्यभावाच्च पुण्यपापरूपौ धर्मान्धर्मौ
नोत्पद्येते। धर्माधर्मयोरनुत्पत्तौ च शरीरप्राणसंयोगरूपं जन्म
आत्मनो
न भवति।
जन्मान्तराभावे अस्मिन् जन्मनि प्रारब्धयोः पुण्यपापयोरनुभवेन
विनाशे च चरमदुःखस्य ध्वंसरूपो मोक्षो भवति इति भावः।
तमेव विदित्वेति। तं
परमात्मानं विदित्वैव ज्ञात्वैव पुमान् मृत्युं संसारं अत्येति
अतिक्रामति। आत्मतत्त्वज्ञानवानेव संसारनाशवान् भवतीत्यर्थः।
अयनाय-मोक्षप्राप्तये अन्यः तत्त्वज्ञानादन्य पन्थाः उपायः न
वि।ते इत्यर्थः।
साधनान्तरनिषेधादिति। आत्मतत्त्वज्ञानादन्यस्य साधनस्य
निषेधादित्यर्थंः। तत्प्राप्तिहेतुरिति। मोक्षाप्राप्तेः तत्त्वज्ञानं
भगवत्प्रीणनयागादिरूपं कर्म चोभयं साधनमित्यर्थः। समुच्चय
इति। ज्ञानकर्मसमुदायः मोक्षसाधनम्। परस्परसहकारेण
ज्ञानकर्मणोरूभयोः मोक्षसाधनत्वं न ज्ञानमात्रस्येत्यर्थंः। ज्ञानं च
विमलीकुर्वन्निति। देहेन्द्रियादिविलक्षणात्मज्ञानं
मननेनाप्रामाण्यज्ञानानास्कन्दितं कुर्वन्नित्यर्थः। अभ्यासेनेति।
इन्द्रियनिग्रहपूर्वकासकृत्समरणरूपनिदिध्यासनेन पाचयेत्
फलोन्मुखं कुर्यादित्यर्थः। प्रकाशिकायां तर्ककर्कशेति। तर्कमूलकः
यः कर्कशः कठिनतरः विचारः विमर्शः तत्र या चातुरी चातुर्यं तया
तत्र वा धुरिणैः समर्थैरित्यर्थः। विमर्शः तत्र या चातुरी चातुर्थं
तया तत्र वा धुविणैः समर्थैरित्यर्थः। चन्द्रचूडाय मङ्गलमिति ।
मङ्गलमिति समर्पणाक्रियाविशेषणम्। मङ्गलं यथा स्यात् तथा
चन्द्रचूडाय समार्पयदित्यर्थः। यथा ईश्वरार्पणबुद्ध्या क्रियमाणं
यागदानादि मङ्गकलरं तथा तत्त्वज्ञानद्वारा सकलोज्जीवकस्नपय
ग्रन्थस्य ईश्वराय समर्पणमपि स्वस्य परेषां च मङ्गलकरमिति
भावः॥
निरञ्जनाञ्जनाद्रीशरीनिवासकृपाबलात्
सदाचार्यकटाक्षाच्च
व्याख्येयं समपूर्यत॥
प्रौढविद्वन्मनस्तुष्टिं
व्याख्यैषा जनयेन्न वा।
बालानां तु मनः
प्रीतिं परामावक्ष्यति ध्रुवम्॥
इति
श्रीकृष्णताताचार्यात्मजस्य श्रीदेवनाथताताचार्यकटाक्षलब्ध-
सामान्यविशेषशास्त्रविज्ञानस्य चतुश्शास्त्रशिरोमणेः
विद्यावारिधेः
नावल्पाकम् - शठकोपरामानुज-
ताताचार्यस्य
कृतिषु प्रकाशिकाव्याख्या
बालप्रिया
समाप्ता
। । ।
॥
श्रीगुरुचरणारविन्दाभ्यां नमः॥
॥
प्रकाशिकाव्याख्या प्रसारणा॥
मङ्गलवादः
[पृ.1]
निधायेत्यादिश्लोकस्यायं वाक्यार्थः।
तथा हि - हृदि इत्यत्र सप्तम्याः निरूपितत्वमर्थः। तस्य च
वृत्तित्वप्रकारकाहार्यज्ञानरूपनिपूर्वकधाधात्वर्थघटकवृत्तित्वे ऽन्वयः।
[1] विश्वेशमित्यत्र निरूपकतया ज्ञानान्वयि आश्रयतया तदन्वयि वा
विशेष्यत्वं विशेष्यित्वं वार्ऽथः। प्रकृत्यर्थस्य विशेष्यत्वे आधेयतया
विशेष्यित्वे वा निरूपितत्वसम्बन्धेनान्वयः। ल्यपः
समानकर्तृकत्वसहितोत्तरकालीनत्वपरत्वात् ल्यपप्रत्ययस्य
ध्वंसोर्ऽथः। तत्र प्रकृत्यर्थस्य प्रतियोगितयान्वयः। ध्वंसस्य च
स्वप्रतियोगिसमानकर्तृकत्वस्वाधिकरणकालवृत्तित्वोभयसम्बन्धेन
क्रियत इत्यत्र कृधात्वर्थकृतावन्वयः। [1] गुरुवन्दनमित्यत्र
स्वोच्चारयितृतावच्छेदकैककालीनोभयावृत्तिजातित्वोपलक्षितजातियुक्तशरीरावच्छिन्नचेतननिष्ठापकर्षावधित्वप्रकारक-
बोधानुकूलतादृशचेतनकर्तृको व्यापारो वन्दनम्।
गुरुपदस्य समासान्तर्गततया लुप्तषष्ठीकस्य
विशेष्यतानिरूपितोर्ऽथः। तस्य चाभेदसम्बन्धेन प्रकारतायामन्वयः।
प्रकृत्यर्थस्याधेयतया विशेष्यत्वे ऽन्वयः।
विपूर्वकधाधात्वर्थकृत्यन्वितं विधेयत्वं विधेयित्वं वा
द्वितीयार्थः। अत्रापि ल्यपः पूर्ववदेवार्थः। [1] बालानामित्यत्र षष्ठ्याः बोधान्वयि समवेतत्वम् अर्थः। तत्र
निरूपितत्वसम्बन्धेन प्रकृत्यर्थस्यान्वयः। [1] सुखबोधायेत्यत्र सुखं
यथा स्यात्तथा बोधः। सुखश्चासौ बोधश्चेति समानाधिकरणसमासः।
दीपिकायाम् [1] सूखेन बोध इति व्याख्यानम्
अर्थप्रदर्शनमात्रपरम्। अन्यथा तृतीयासमासानुपपत्तेः। सुखशब्दश्च
ऽभारापगमे सुखी संवृत्तो ऽहम्ऽ इतिवत् दुःखाभावे उपचर्यते।
स चेह धर्मिपरः। बोधायेत्यत्र ऽएधानाहर्तुं व्रजतिऽ इत्यर्थे
ऽएधेभ्यो व्रजतिऽ इतिवत् ऽबोधं जनयितुं क्रियतऽ इत्यर्थे
ऽबोधाय क्रियतऽ इति"क्रियार्थोपपदस्य च कर्मणि स्थानिन"इति
सूत्रेण प्राप्ता चतुर्थी उत्पत्त्यनुकूलव्यापारविषयकेच्छां बोधयति।
तस्याः स्वविषयसमानकर्तृकत्वस्वप्रयोज्येच्छाविषयत्वोभयसम्बन्धेन
कृतावन्वयः। उत्पत्तौ च बोधान्वयः। आख्यातस्याधेयतया
प्रकृत्यर्थान्वितो वर्तमानक्षणः, आश्रयतया
प्रथमान्तार्थान्वयि,
विधेयत्वं चार्थः। विशिष्टबोधः स्पषटः दीपिकायाम् [1] विश्वेश्वरमिति।
स्वनिष्ठकर्मासाधारणहेतुप्रयत्नवत्तवसम्बन्धेनाम्बासहितमूर्तिवि शिष्टाभिन्ननिखिलविद्योपदेशकर्त्रभिन्नविश्वेश्वरविशेष्यक-
स्वापकर्षावधित्वप्रकारकज्ञानानुकूलस्वीयव्यापारध्वंसविशेषिततकर्सङ्ग्रहप्रतिपाद्यार्थविषयकज्ञानजनकाभिन्नबालसम-
वेतानायासविशिष्टद्रव्यादिपदार्थविष्यकबोधनकाभिन्नव्याख्यान
- विधेयकवर्तमानकालीनकृतिमानहं इति बोधः।
व्यापारध्वंसवैशिष्ट्यं च
स्वप्रतियोगिसमानकर्तृकत्वस्वाधिकरणकालवृत्तित्वोभयसम्बन्धेन।
प्रकाशिकायाम् [2] वन्दे
शिवमित्यादि। पूर्वार्धस्य
उपदेष्ट्रभिन्नाम्बाविशिष्टाभिन्नदक्षिणामूर्तिशिवविशेष्यक-
स्वापकर्षावधित्वप्रकारकबोधानुकूलव्यापारानुकूलकृतिमानहमिति
बोधः। [2] यद्वन्दनेनेत्याद्युत्तरार्थस्य
यन्नमस्कारप्रयोज्यगुरुनिरूपितसादृश्यप्रतियोगिकसम्बन्धाश्रयो
मन्दो ऽपीति बोधः। अपिशब्दार्थः
स्वसमभिव्याहृतपदार्थतावच्छेदकमन्दत्वादिविरोधः, स
चैकक्षणावच्छेदेन एकाधिकरणावृत्तित्वं सादृश्यान्वयि।
उपदेशश्चाज्ञातज्ञापनंए विषयताविशिष्टशब्दरूपम्। वैशिष्ट्यं
स्निरूपकज्ञानजनकत्वस्वसामानाधिकरण्योभयसम्बन्धेन।
सामानाधिकरण्यघटकचरमवृत्तित्वं
स्वप्राक्कालावच्छिन्नज्ञानविषयत्वाभावसम्बन्धेन। ऽअस्यार्थस्योपदेशऽ
इत्यादौ षष्ठ्यर्थ आधेयत्वम्। तस्य
चोपददेशपदार्थघटकविषयतायामन्वय इति बोध्यम्।
दीपिकायाम् [1] चिकीर्षितस्येत्यादि। कृञ्धातोः कृतिरर्थः सनः इच्छा।
निष्ठायाश्च
कृतिनिष्ठविशेष्यतानिरूपितविषयतासम्बन्धावच्छिन्नप्रकारताश्रयोर्ऽथः।
कृतेः विशेष्यतासम्बन्धेनेच्छायामन्वयः। तस्याश्च
निरूपितत्वसम्बन्धेन प्रकारतायामन्वयः। सा च इच्छा
ऽग्रन्थविषयककृतिर्भवतुऽ इत्याकारिका। [1] निर्विघ्नपरिसमाप्त्यर्थमित्यत्र निर्विघ्नं यथा यथा
समाप्तिरिति विग्रहः। [2] निर्विघ्नपरिसमाप्तय इत्यत्र तु
पूर्ववदुत्पादकव्यापारेच्छैव चतुर्थ्यर्थः। व्यापारश्च
प्रतिभादिरूपः। समाप्तिश्च चरमवर्णघ्वंसः तदन्वितषष्ट्यर्थः
ग्रन्थस्येत्यत्र सम्बन्धः स्वघटकचरमवर्णप्रतियोगित्वरूपः।
एतत्तत्त्वमस्मद्विरचितसमाप्ति [विचारे] द्रष्टव्यम्।
[1] शिष्यशिक्षायै -- शिष्यान्
शिक्षयितुमित्यर्थः। ऽतुमर्थाच्च भाववचनात्ऽ इति सुत्रण चतुर्थी।
ऽपक्तुं व्रजतिऽ इत्यर्थे ऽपाकाय व्रजतिऽ इत्यादिवत्। तत्रेच्छैव
चतुर्थ्यर्थः। तस्याश्च
स्वविषयसमानकर्तृकत्वस्वप्रयोज्येच्छज्ञविषयत्वोभयसम्बन्धेन
निबन्धपदार्थज्ञानजनकशब्दरूपबिन्धने ऽन्वयः। ऽशिष्या अप्येवं
कुर्युःऽ इत्याकारकानुग्रहरूपेच्छैव शिक्षापदार्थः। तत्र शिष्याणां
विशेष्यतासम्बन्धेनान्वयः। ऽअवश्यकर्तव्यत्वप्रकारकज्ञानं शिक्षाऽ
इति तु अस्मद्दिनकरटिष्पण्यामतिविस्तरेण निरस्तम्। क्तप्रत्ययस्य
विशेष्यतानिरूपितविषयतासम्बन्धावच्छिन्नप्रकारताश्रयोर्ऽथः।
धात्वर्थः आद्यकृतिः। कृतावद्यत्वं च ध्वंसविशिष्टान्यत्वपर्यवसितम्।
वैशिष्ट्यं स्वोत्तरत्वस्वप्रतियोगिकृतिविशिष्टत्वोभयसम्बन्धेन।
कृतिवैशिष्ट्यं
स्वसामानाधिकरण्यस्वविषयग्रन्थविषयकत्वोभयसम्बन्धेन। अत्र
मङ्गलतदुपनिबन्धनयोः फलदर्शनात् ऽतयोराचरणे
तत्तद्धर्मिकेष्टविशेषसाधनताभ्रमप्रयुक्ते मङ्गलाचरणरूपत्वात्,
भ्रान्तपुरुषीयजलताडनाद्याचरणवत्ऽ इत्यनुमानं निरस्तम्।
यत्तु --
ऽमङ्गलादिकमनुष्ठेयम् निष्फलत्वात्ऽ इत्यनुमानप्रदर्शनम् --
तत्तुच्छम्। भ्रान्तपुरुषीयानुष्ठानविषयतया बाधापत्तेः।
इष्टसाधनत्वप्रमाधीन1 कृतिविशिष्टत्वाभावसाधने ऽपि कृतौ
1.
कृतिविशिष्टत्वाभावेति। कृतिविशिष्टत्वं च विषयतासम्बन्धेन।
प्रमाधीनत्वाभाव एव
पर्यवसानेन तदपेक्षया अस्मदुक्तस्यैव युक्तत्वात्। यदपि
ऽमङ्गलाद्याचरणं पापजनकम्ऽ इत्युनमानम् तदपि हेयम्।
व्यापारस्य निष्फलत्वे तदाचरणफलासिद्श्या अभ्रान्तानां
फलविशेषसाधनताज्ञानादेव प्रवृत्त्युपपत्तौ तदाचरणेन
पापोत्पत्तिकल्पने प्रमाणाभावात्। यद्यपि प्रतिज्ञायां न
कुर्यादित्यस्यापि
इष्टसाधनताज्ञानाभावाधीनाभ्रान्तपुरुषीयप्रवृत्त्यभावानुवादित्वात्,
प्राप्तार्थे ऽपि ऽभुञ्जतेऽ इत्यादौ विधिप्रययदर्शनात्, कृतेः
ऽकरोमिऽ, ऽक्रियतेऽ, ऽकुर्वऽ इत्यादिरूपाया निष्फलत्वात्
तदाचरणमयुक्तमिति शङ्का सम्भवति, तथापि तस्याः
शिष्यावधानफलकत्वात् न दोषः। अत एव ऽशिष्यावधानाय
प्रतिजानीतऽ इत्यादिलेखनं ग्रन्थकृतां तत्र तत्र
सङ्गच्छते। अवधानं
च मनसो विक्षेपराहित्यं विजातीयमनोयोग इति यावत्।
चतुर्थ्यर्थः उत्पत्त्यनुकूलव्यापारेच्छा। अन्यत् पूर्ववत्। स च
व्यापारः ऽमया प्रतिज्ञा कृता, भवद्भिस्सावधानेन भवितव्यम्ऽ
इति शिष्यान् प्रति गुरोः शब्दप्रयोगः। [2] स्वग्रन्थस्य इतरग्रन्थनेत्यादि।
स्वग्रन्थविशेष्यकेतरग्रन्थजन्यप्रयोजनजनकत्वाभावप्रकारकज्ञानजनकशब्दानुकलूकृतिमानित्यन्वयबोधः।
दीपिकायाम् [1] मङ्गलस्य समाप्तिसाधनत्वं नास्तीति। मङ्गलं
समाप्तिसाधनत्वाभाववदित्यर्थः। तादृशसाधनत्वाभावो
मङ्गलवृत्तिरिति वा।
[1] अन्वयव्यतिरेकाभ्यां व्यभिचारादिति।
अन्वयव्यभिचारश्च कारणसत्त्वे ऽपि कार्यानुत्पत्तिरूपः, तन्निष्टकर्षश्च
1स्वावच्छिन्नव्याप्यतानवच्छेदककारणतावच्छेदकावच्छिन्नकारणकूटवन्निष्ठाभावीयकार्यताव
- च्छेदकसम्बन्धावच्छिन्नप्रतियोगितावच्छेदककार्यतावच्छेदककत्वम्,
1. स्वावच्छिन्नेत्यादि।
स्वपदेन यद्धर्मावच्छिन्नसत्त्वे ऽपि कार्यं न जायते तद्ग्राह्यम्। तच्च
कपालाकाशसंयोगत्वं तदवच्छिन्नव्याप्यतावच्छेदकं
कपालद्वयसंयोगत्वं व्याप्यतानवच्छेदकं यत् कारणतावच्छेदकं
दण्डत्वादि तदवच्छिन्नकारणकूटवति कपालद्वयसंयोगशून्ये प्रदेशे
वर्तते यः घटाभावः तत्प्रतियोगितावच्छेदकघटत्वकत्वस्य
कलालकाशसंयोगत्वे सत्त्वात् तद्वतः कपालकाशसंयोगस्य
अन्वयव्यभिचारित्वम् अत्र कारणतावच्छेदके
व्याप्यतानवच्छेदकान्तानुपादाने
कपालाकाशसंयोगस्यान्वयव्यभिचारित्वं न निर्वहति।
अतस्तुदपादानम्।
कार्यतावच्छेदकनिरूपिततादृशावच्छेदकसम्बन्धावच्छेदकत्वाभिमतधर्मवत्त्वम्।
व्यतिरेकव्यभिचारश्च कारणाभावे ऽपि कार्योत्पत्तिरूपः।
कार्यतावच्छेदकसम्बन्धेन
कार्यतावच्छेदकावच्छिन्नाधिकरणविशिष्टकारणतावच्छेदकवत्त्वम्।
वैशिष्ट्यं1स्वनिष्ठाभावीयकारणतावच्छेदकसम्बन्धावच्छिन्नप्रतियोगितावच्छेदकत्वस्वावच्छिन्नव्याप्यतानवच्छेदक
यावदवच्छिन्नाधिकरणकूटवत्त्वसम्बन्धावच्छिन्नाधेयत्वोभायसम्बन्धेन।
तादृशकूटवत्त्वं च
स्वसमानाधिकरणभेदप्रतियोगितावच्छेदकत्वसम्बन्धावच्छिन्नस्वनि ष्ठावच्छेदकताक
प्रतियोगिताकभेदवत्त्वसम्बन्धेन स्वविशिष्टत्वपर्यवसितम्।
स्वाधिकरणता
स्वविशिष्टकरणतावच्छेदकधर्मावच्छिन्ननिरूपिताधिकरणतात्वसम्बन्धेन।
स्ववैशिष्ट्यं
स्वावच्छिन्नव्याप्यतावच्छेदकत्वसम्बन्धावच्छिन्नत्वस्वनिष्ठावच्छेदकताकप्रतियोगिताकभेदवत्त्वसम्बन्धेन।
प्रतियोगितावच्छेदकता चाधेयतासम्बन्धेन।
तादृशाधेयताशून्यकारणतावच्छेदकधर्मवत्त्वम् अन्वयसहचारः।
निरुक्तोभयसम्बन्धेन कार्याधिकरणविशिष्टान्यकारणतावच्छेदकवत्त्वं
व्यतिरेकसहचारः।
अन्वयव्यभिचारग्रस्तकपालाकाशसंयोगवारणायान्वयसहचारग्रहः
कारणताग्रहहेतुः। व्यतिरेकव्यभिचारग्रस्तरासभादिवारणाय
व्यतिरेकसहचारग्रहः तथा। 2व्यभिचार ग्रहौ च क्रमेण
सहचारग्रहप्रतिबन्धकौ।
प्रकाशिकायाम् [3] अतो
न व्यभिचार इत्यनेनान्वय इति। अतो न व्यभिचार
इत्युत्तरवाक्येनान्वय इत्यर्थः। विघ्नान्यूनसंख्याकत्वस्य
कारणतावच्छेदकत्वे गौरवमभिसन्धान कल्पान्तरमाह -
बलवत्तरस्येति।
1.स्वनिष्ठाभावीयेत्यादि। प्रथमस्वपदं
कार्यतावच्छेदकावच्छिन्नाधिकरणपरम्। द्वितीयस्वपदं
कारणतावच्छेदकपरम्। एवमुपरितनस्वपदानि
कारणतावच्छेदकधर्मपराणि।
2.
व्यभिचारग्रहौचेति। अन्वयव्यभिचारग्रहः
अन्वयसहचारग्रहप्रतिबन्धकः, व्यतिरेकव्यभिचारग्रहः
व्यतिरेकसहचारग्रहप्रतिबन्धक इत्यर्थः।
विघ्नध्वंसद्वारेति।
स्वजन्यविघ्नध्वंससम्बन्धेनेत्यर्थः। एवमग्रे ऽपि। अत एव
विघ्नबहुत्वे ऽपि यत्र बलवत्तरमेकं मङ्गलं वर्तन्ते तत्रापि
समाप्तिर्भवति। बलवत्तरत्वं च वैजात्यविशेषः।
[3] आहुः इत्यस्वरस्सूचितः। तद्बीजन्तु
ऽसकृदुच्चरितः शब्दः सकृदेवार्थं गमयतिऽ इति न्यायात् अत
इत्यादिपदानामावृत्तानामर्थद्वयबोधकत्वानुपपत्तिरेव। ननु
शिष्टाचारानुमितश्रुतिबोधिकर्तव्यताकमित्यनेन
शिष्टाचारस्य
मङ्गलकर्तव्यताबोधकश्रुत्यनुमापकत्वं लभ्यते। तच्च नोंपपद्यते।
शिष्टाचारमात्रस्य
श्रुतिबोधिताप्रवृत्तप्रवृत्तिविषयत्वलक्षणकर्तव्यतारहितभोजनसाधारणत्वात्।
ऽस्नात्वा भुञ्जीतऽ इत्यादिः तत्कर्तव्यताबोधिकेति वाच्यम्। तस्याः
भोजने स्नानोत्तरकालीनतामात्रविधानपरत्वात्। भोजनस्य
रागप्राप्ततया तद्विधिपरत्वासम्भवात्। ऽअप्राप्ते हि शास्त्रमथवत्ऽ
इति न्यायेनेत्याशयेन शङ्कते - [1] ननु मङ्गलस्य कर्तव्यत्व
इति। कर्तवयत्वे कृतिविधेयत्वे। किं शब्दः क्षेपे। तथा च
मङ्गलकर्तव्यताप्रमितिकरणं न किमपीत्यर्थः।
शिष्टाचारस्योक्तयुक्त्या श्रुत्यनुमापकत्वासम्भवात् इति भावः।
यत्तु कर्तव्यत्वं कृतिविधेयताप्रयोजकत्वमित्यर्थः इति,
तदपहास्यम्। विषयतात्मकगौणकर्मार्थकस्य तव्यादिप्रत्ययस्य
विषयताप्रयोजकधर्मवदर्थकतायां प्रमाणाभावात्। अन्यथा
बोद्धव्यशब्दादावपि तथा प्रसङ्गात्। अत एव [3] मङ्गलस्य श्रुतिबोधितकर्तव्यताकत्वं व्यवस्थापयितुं
शङ्कत इत्यवतरणिकादानमपि सङ्गच्छते।
अप्रामाण्यज्ञानानास्कन्दितनिश्चयानुकूलसमीचीनयुक्तिकथनं
व्यवस्थापनम्। तुमुनः इच्छैवार्थः। तस्य
1स्वविषयसमानकर्तृकत्वस्वप्रयोज्येच्छाविषयत्वोभयसम्बन्धेन
शङ्कायामन्वयः।
1. स्वविषयेत्यादि।
स्वं व्ववस्थापनेच्छा तद्विषयः व्यवस्थापनं तत्समानकर्तृकत्वं
शङ्कायाम्, तथा स्वं व्यवस्थापनेच्छा तत्प्रयोज्या
शङ्गाविषयकेच्छा तद्विषयत्वं च शङ्कायाम्। मङ्गलस्य
श्रुतिबोधितकर्तव्यताकत्वं व्यवस्थापयेयमितीच्छया पूर्वपक्षं
कुर्यामिति पूर्वपक्षेच्छा जायत इति भावः।
दीपिकायां समाधत्ते-
[1] शिष्टेत्यादि। हेतुसाध्यादिप्रदर्शनपूर्वकमनुमानस्वरूपं
विवृणोति - [1] तथाहीत्यलौकिकाविगीतशिष्टाचारविषयत्वादिति।
अत्रालौकिकत्वसमानाधिकरणाविगीतत्वसमानाधिकरणशिष्टाचारविषयत्वादित्याशयः।
कर्मधारयोपरि श्रूयमाणभावप्रत्ययस्य
पूर्वपदार्थतावच्छेदकसमानाधिकरणोत्तरपदार्थतावच्छेदकबोधकत्वव्युत्पत्तेः।
ननु शिष्टाचारानुमितश्रुतेरित्यत्र
शिष्टसमवेतकृतिविषयकपरामर्शजन्यानुमितिविधेयत्वं श्रुतौ
बोधितं न संघटते। ऽमङ्गलं श्रुतिबोधितकर्तव्यताकम्ऽ
इत्यनुमितिविधेयत्वस्य श्रुतिबोधितकर्तव्यताकत्व एव सत्त्वात्।
श्रुतेश्च 1तदवच्छेदककोटिप्रविष्टत्वात्। विधेयकोटिप्रविष्टत्वे ऽपि
विधेयत्वं न स्वीकर्तुं शक्यम्। तथा सति वह्नित्वमनुमितमिति
व्यवहारप्रसङ्गात् इत्याशङ्कायां श्रुतेर्विधेयत्वमुपपादयति -
[3] अत्रायमाशय इत्यादिना। अनुमितेः पूर्वमसिद्धत्वादिति।
अनुमितिप्राक्कालीनज्ञानविषयतानवच्छेदकत्वादित्यर्थः। तेन
परामर्शविषयत्वे ऽपि महानसीयवह्न्यादेः न विधेयतानुपपत्तिः। अत्र
च मङ्गलकर्तव्यताबोन्धकश्रुतिरूपविशेषस्तु पक्षे
साध्यसम्बन्धसिद्धिमात्रेणैव सम्भवति। पर्वतो वह्निमानित्यादौ
पर्वतीयवह्न्यादिवदित्यवधेयम्।
ननु [1] शिष्टाचारनुमितरुतेरेवेति दीपिकावाक्यस्थेनैवकारेण
तादृशश्रुत्यतिरिक्तस्य मङ्गलकर्तव्यतायां प्रमाणत्वं व्यवच्छिद्यते।
तच्च न युज्यते। ऽमङ्गलं कर्तव्यं समाप्तिफलकत्वात्ऽ
इत्यनुमानस्य तत्र प्रमाणत्वं सम्भवतीत्यत आह - [3] एवकारो ऽप्यर्थक इति। आहुरित्यस्वरसः। तद्बीजन्तु
वृत्त्यनियामकसम्बन्धस्य
व्यापकताघटकत्वसामानाधिकरण्यघटकत्वयोरसम्भवः।
यथाश्रुतदीपिकावाक्यार्थास्वारस्यं चेति। विधिमन्तरा रागादीति।
अत्र चान्तराशब्दस्याभावोर्ऽथंः। तस्य सामानाधिकरण्यसम्बन्धेन रागे
अन्वयः। अत्र च विधेः
स्वबोधितकर्तव्यताकत्वसम्बन्धावच्छिन्नप्रतियोगिताकत्वसम्बन्धेनान्वयः।
सामानाधिकरण्यघटकद्वितीयवृत्तिर्विंषयतया।
1. तदवच्छेदकेति।
विधेयतावच्छेदकेत्यर्थः।
तसिलः
प्रयोज्यत्वमर्थः। प्राप्तिः प्रवृत्तिः। क्तप्रत्ययार्थः विधेयः। तथा च
विद्ध्यभावसमानाधिकरणरागाधीनप्रवृत्तिविधेयभिन्नत्वमिति
फलितम्। यद्यपि मङ्गले रुतिबोधतकर्तव्यताकत्वसन्देहेन
तादृशरागाधीनप्रवृत्तिविषयत्वस्य सन्दिग्धतया विशिष्टहेतोः
साध्याविशेषो दुर्वारः,
निश्चितहेतोरेव
निश्चायकत्वात्, तथापि प्रवृत्तिविषयत्वेन उभयवादिमतसिद्धं
यद्यद्भोजनादिकं तत्तद्भिन्नत्वनिवेशे
तात्पर्यम्। अत एव
रात्रिश्राद्धादिवारणायाविगीतत्वविशेषणमपि सफलम्। अन्यथा तत्र
श्रुतिबोधितकर्तव्यत्वविरहे विधिमन्तरा रागतः प्राप्तत्वेन
तद्वैयर्थ्यात्। अविगीतत्वं धर्मशास्त्राद्यधीननिवृत्तिविषयभिन्नत्वम्।
आदिपदेन निष्फलत्वप्रमासङ्ग्रहः। तेन ऽनु कुर्यात् निष्फलम्ऽ
इत्यादेः अनुवादरूपत्वे व्युत्क्रमकृतदर्शादौ न व्यभिचारः।
एतत्सर्वमभिप्रेत्याग्रे [4] सङ्क्षेप इत्युक्तम्।
[3] वेदोक्तत्वज्ञानेनेति।
वेदोक्तत्वज्ञानजन्यवेदविहितकर्मानुकूलकृतिमत्त्वं
शिष्टत्वमित्यर्थः। वेदाविहितहिंसादिकर्माणि वेदोक्तत्वभ्रमेण यः
करोति तद्वारणाय वेदोक्तत्वज्ञानं प्रमारूपमिति भावः। [3] अहिंसादिकर्तरीति। 1अत्राहिंसाशब्देन हिंसाविरोधिव्यापारो
विवक्षितः। दीपिकायाम् [1] निषिद्धत्वादिति। इदं चापाततः। न
कुर्यादित्यादेरनुवादरूपतायाः प्रागेवोक्तत्वात्। [4] तर्कपदस्येत्यादिषष्ठ्याः विशेष्यत्वमर्थः। तस्य भ्रमे ऽन्वयः।
भ्रममित्यत्र निवृत्त्यन्वयि प्रतियोगित्वं द्वितीयार्थः।
निवृत्त्यनुकूलव्यापारो वारणं, तुमर्थ इच्छा, तस्याश्च
स्वविषयसमानकर्तृकत्वस्वप्रयोज्येच्छाविषयत्वोभयसंबन्धेन
निर्वचने ऽन्वयः। दीपिकायाम् सङ्क्षेपेणेति। स्वल्पत्वेनेत्यर्थः।
वैशिष्ट्ये तृतीया, तच्च कथनान्वितम्।
1. अत्राहिंसाशब्देनेति।
अहिंसाशब्दस्य हिंसाभावार्थकत्वे अभावस्य कृत्यविषयत्वात्
अहिंसाकर्तरीत्यनुपपन्नं स्यात्।
अतः
हिंसाविरोधिव्यापारो ऽहिंसेत्यर्थः। नञो ऽत्र विरोध्यर्थकत्वं
ऽतदन्यतद्विरुद्धतदभावेषु नञ्ऽ इति शास्त्रकृद्वचनम्।
पदार्थविभागः
[15] पदसम्बन्धित्वांशस्येति। न च
विषयत्वे ऽभिधारूपितत्वस्य व्यर्थत्वात् किं तदभिधानेनेति वाच्यम्।
1अभिधानिरूपितविषयत्वस्यापि विषयस्य सत्त्वात् अभिधीयविषयत्वस्य
पदार्थसामान्यलक्षणता न संभवतीति भ्रमवारणाय
विषयतायामभिधानिरूपितत्वस्य निवेशेनादोषात्।
पदसम्बन्धिन्याश्चाभिधायाः विषयतासंबन्धेनैव विषयसंबद्धत्वात्
यद्यपि विषयतासम्बन्धेन अभिधावत्त्वस्यैव लक्षणत्वं वक्तुमुचितमिति
तस्याः प्रकारविधया निवेशो विफलः, तथापि"व्यावृत्तिर्व्यवहारो वा लक्षणस्य प्रयोजनम्"इत्युक्तरीत्या व्यवहारसाधने विषयतायाः
वृत्त्यनियामकतया हेतुतावच्छेदकसम्बन्धत्वं सविवादमित्यभिप्रायः।
न चैवं
स्वसमानाधिकरणव्याप्यतावच्छेदकविषयतारूपधर्मान्तरघटितत्वात्
अभिधेयत्वत्वस्य व्याप्यतानवच्छेदकतया व्याप्यत्वासिद्धिरिति
वाच्यम्। अभिधाविषयत्वस्य निरूपितत्वसम्बन्धेनाभिधाविशिष्टत्वेन
लक्षणत्वादित्याशयादिति।
दीपिकायाम् [15] पदार्थान् विभजते इति। विपूर्वकभजधातोः
स्वसमभिव्याहृतद्वितीयान्तपदोपस्थाप्यतावच्छेदकव्याप्यधर्मप्रकारकज्ञानजनकशब्दोर्ऽथः।
द्वितीयान्तपदौपस्थाप्यतावच्छेदकत्वमुपलक्षणम्। एवमुत्तरत्रापि
बोध्यम्। ननु पृथिव्यादिपदार्थानामनन्तत्वात् कथं पदार्थानां
सप्तत्वकथनं संग्रहे सङ्गच्छत इत्याशङ्क्य सप्तपदस्य
द्रव्यत्वादिरूपसप्तोपाध्यन्यतमतत्परतया समाधत्ते प्रकाशिकायाम्
[15] द्रव्यत्वादिरूपा इति। सप्तोपाधय इति। नन्वत्रोपाधिषु
किं नाम सप्तत्वम्? न तावत् सङ्ख्यारूपं सम्भवति उक्तयुक्तेः।
एकत्वस्य सङ्ख्यारूपत्वे ऽपि द्रव्यत्वादिविशेषणसप्तत्वस्य
सङ्ख्यारूपत्वायोगात्। न च भ्रममादाय तदपपत्तिरिति वाच्यम्।
अभ्रान्तानां तादृशभ्रमासम्भवेन तेषामुपाधिषु
सप्तव्यवहारानुपपत्तिप्रसङ्गात्। तथापि एकमात्रवृत्तिधर्म एकत्वम्।
एकमात्रवृत्तित्वं च
1. अभिधानिरूपितेति।
अभिधया अनिरूपितं विषयत्वं यस्येत्यर्थः।
अभिधीयविषयत्वस्येति। अभिधया निरूपितं यत् विषयत्वं
तस्येत्यर्थः।
स्ववृत्तित्वस्वभिन्नवृत्तित्वोभयसम्बन्धेन
किञ्चिद्विशिष्टान्यत्वम्।
स्वप्रतियोगिवृत्तित्वस्वानुयोगिवृत्तित्वोभयसम्बन्धेन
भेदवदन्यत्वं वा। तथा चायमनुगमः
-स्वीयैकत्वप्रकारतानिरूपितद्रव्यत्वनिष्ठविशेष्यत्वस्वीयैकत्वप्रकारतानिरू
पितगुणनिष्ठविशेष्यत्वाद्यन्यतमवद्धर्मविशिष्टत्वं सप्तत्वम्।
अथात्र
स्वीयैकत्वप्रकारतानिरूपितद्रव्यत्वादिनिष्ठविशेष्यत्वादिसम्बन्धावच्छिन्न
स्वनिष्ठावच्छेदकताकप्रतियोगिताकभेदसप्तकवत्त्वसम्बन्धावच्छिन्नस्वनिष्ठावच्छेदकताकप्रतियोगिताकभेदवत्त्वसम्बन्धेन
विशिष्टत्वं वाच्यम्। एवं च तत्रापि भेदेषु सप्तत्वस्योक्तरित्या
अपेक्षाबुद्धिविशेषस्यैव वक्तव्यतया अनवस्थाप्रसङ्गादिति चेत् - न।
अत्रापेक्षाबुद्धिविशेषविषयत्वं च
द्रव्यत्वनिष्ठविशेष्यतानिरूपित एकत्वनिष्ठप्रकारत्वविशिष्टं
यद्गुणत्वनिष्ठविशेष्यतानिरूपित एकत्वनिष्ठप्रकारत्वविशिष्टं
तदादिविशिष्टा य बुद्धिः विशेष्यतासम्बन्धेनतद्वत्त्वं,
विशिष्टायास्तस्याः विशेष्यतासम्बन्धेन द्रव्यत्वादावेव
सत्त्वोपगमात् न समूहालम्बनज्ञानमादायातिप्रसङ्गः। वैशिष्ट्यं
सामानाधिकरण्यसम्बन्धेनेति। [15]
एवमग्रिमग्रन्थस्यापीति। नवैव
द्रव्याणीत्यादिरेत्यर्थः। दीपिकायाम्
अधिकसंख्याव्यवच्छेदार्थकत्वादिति। अत्राधिकसंख्याशब्दः
अष्टमपदार्थपरः। व्यवच्छेदो नाम निषेधसिद्धिः। तथा च ऽत्रीन्
ब्राह्मणान् आनयऽ इत्यादौ चतुर्थादिब्राह्मणनिषेधवत्
अष्टमपदार्थनिषेधसिद्धिरिति भावः।
1स्वाश्रयवृत्तित्वस्वानाश्रयवृत्तित्वोभयसम्बन्धेन
प्रकृतसप्तत्वविशिष्टसंख्या अधिकसख्यापदार्थः। [15] नन्वतिरिक्तः पदार्थ इति। यद्यपि
अतिरिक्तपदार्थरूपधर्म्यप्रसिद्धिः प्रमितत्वाभावकोण्ट्यप्रसिद्धिश्चेति
विकल्पो ऽयं नोपपद्यते, तथापि प्रमितः पदार्थः
पदार्थविभाजकधर्मः अतिरिक्तो वा न वेत्यर्थः।
1. स्वाश्रयवृत्तित्वेति।
स्वं सप्तत्वसंख्या स्वाश्रयाः सप्तपदार्थाः तद्वृत्तित्वं
अष्टत्वसंख्यायाम्, एवं स्वं सप्तत्वं तदनाश्रयः अष्टमपदार्थः
तद्वृत्तित्वं अष्टत्वसंख्यायाम्।
अतिरिक्तत्वं च
द्रव्यत्वाद्यभावत्वान्तान्यतमाधिकरणवृत्तित्वम्। तथा च
पदार्थविभाजकधर्मः तादृशाधिकरणवृत्तिर्नवेत्यर्थो लभ्यत इति
धर्मिप्रसिद्ध्या कोटिप्रसिद्ध्या च विकल्पसिद्धिः।
यत्तु
ऽद्रव्यादिभेदकूटवत्त्वस्य तादृशभेदक्टात्मकस्य
कूटघटकप्रत्येकानतिरिक्ततया प्रमितपदार्थवृत्तित्वाभावस्य
दुर्घटत्वात्। विकल्पे ऽन्यतरकोटेरबाधितत्वनियमात्
व्यासज्यवृत्तिधर्मवच्छिन्नानुयोगिताकैकदेशवृत्तिप्रतियोगिताकाभावस्याप्रामाणिकत्वात्
तादृशकूटाधिकरणत्वस्य चाप्रसिद्धत्वात् कूटत्वस्य दुर्वचत्वाच्च।
प्रमितः पदार्थः द्रव्यादिभेदकूटवान् न वेति विकल्पार्थः इत्यपि
न। भेदानामेकविशिष्टापरत्वेन निवेशे ऽप्रसिद्धिप्रसङ्गेन
तावद्विविषयकधीविषयत्वस्य प्रत्येकमेव भेदेषु सत्त्वात्। [16] इति व्यवच्छेदार्थकत्वादिति।
इत्याकारकनिश्चयफलकत्वादित्यर्थः। न च तादृशनिश्चय एव मास्तु
इति शङ्कनीयम्। षोडशपदार्थानां कॢप्तपदार्थान्तर्भावसाधने
तादृशव्याप्तिनिश्चयस्यावश्यापेक्षितत्वात्। [15] संग्रहे द्रव्यगुणेत्यादि। अत्र च द्रव्याद्यन्यतमत्वसम्बन्धेन ऽएकत्र
द्वयम्ऽ इति रीत्या पदार्थत्वावच्छिन्ने द्रव्याद्यन्वयो
व्युत्पत्तिवैचित्र्यात्। ऽपदार्थत्वं द्रव्यादिसप्तान्यतमत्वव्याप्यम्ऽ
इति बोधस्तु औत्तरकालिको मानस एव। प्रपञ्चितं
चेददस्माभिरन्यत्र।
दीपिकायाम् [15] द्रव्यादिसप्तान्यतमत्वं नामेत्यादि। अत्रायमाशयः---
सामानाधिकरण्यसंबन्धेन द्रव्यभेदविशिष्टो यो गुणभेदः
तद्विशिष्टो यः कर्मभेदः तद्विशिष्टो यो ऽयं सामान्यभेदः
तद्विशिष्टो यो ऽयं विशेषभेदः तद्विशिष्टो यो ऽयं समवायभेदः
तद्विशिष्टो यो ऽयमभावभेदः
तस्याभावत्वावच्छिन्नानुयोगिताकस्वरूपसंबन्धावच्छिन्नप्रतियोगिताकाभाव
एव द्रव्याद्यन्यतमत्वं, एवं वैपरीत्यमप्येवमूह्यम्। अन्यथा
द्रव्यादिभेदसप्तत्वावच्छिन्नप्रतियोगिताकाभावरूपत्वे सप्तत्वस्य
दुर्वचतया तादृशाभावस्यापि अप्रसिद्ध्यापत्तेः। यद्यपि सप्तत्वस्य
तद्विषयकधीविशेषविषयत्वरूपत्वं सुवचम्। तथापि विषयत्वस्य
व्यासज्यवृत्तित्वे मानाभावः तदवच्छिन्नात्यन्ताभावः द्रव्यादिषु
प्रत्येकं वर्तते। अस्मत्पक्षे तु तादृशभेदं प्रति
तादृशसंबन्धस्य
व्यधिकरणतया
व्यधिकरणसम्बन्धावच्छिन्नप्रतियोगिताकाभावप्रसिद्धिसौलभ्यमिति
सुधीभिः विभावनीयम्। [16] वस्तुतस्त्वित्यादि। इदमत्र
चिन्त्यम्-पदार्थत्वं द्रव्याद्यन्यतमत्वव्याप्यम्, सप्तत्वं च
तद्विषयकधीविषयकत्वरूपमित्युक्तयैव सामाञ्जस्ये द्रव्यपदस्य
द्रव्यत्वपरत्वं अन्यतमपदस्यान्यतमवत्परत्वं च विना लक्षणां न
निर्वहतीति लक्षणाश्रयणमयुक्तम्। किञ्चिल्लक्षणा हि शक्यसम्बन्धरूपा
द्रव्याद्यन्यतमस्य
शक्यार्थत्वाभावात्
तादृशान्यतमवति लक्षणा न शक्यते। तथा शक्त्यप्रसिद्धिः
उपपादनायैव।
द्रव्यविभागः
[22] द्रव्यमिति जात्येकवचनमिति। नन्वत्र किं
नाम जातिगतमेकत्वम्? न तावत् गुणः। तत्र तदनङ्गीकारात्।
नापि सजातीयद्वितीयंराहित्यम्, सिद्ध्यसिद्धिभ्यां व्याघाताम्
इति चेत्, उच्यते-एकमात्रवृत्तिधर्मावच्छिन्ने एकवचनस्य शक्तिः।
व्यक्त्येकत्वपरवाक्यस्थले ऽपशुना यजेतऽ इत्यादौ
1स्वाश्रयत्वस्ववृत्तिप्रतियोगितावच्छेदकत्वोभयसम्बन्धेन
प्रकृत्यर्थे ऽन्वयः। अवच्छेदकत्वं च
स्वकरणकयागकरणीभूतपश्वादिवृत्तिभेदप्रतियोगितावच्छेदकत्वसम्बन्धेन
अवच्छेदकता चाश्रयतासम्बन्धेन। जात्येकत्वपरवाक्यस्थले
द्रव्यमित्यादौ तु
2स्वाश्रयाश्रयत्वस्वकर्मकविभागकर्मीभूतद्रव्यवृत्तिभेदप्रतियोग् इतावच्छेदक-
त्वसम्बन्धावच्छिन्नस्वनिष्ठप्रतियोगितावच्छेदकताकत्वोभयसम्बन्धेन
प्रकृत्यर्थे ऽन्वयः। सा च स्वाश्रयाश्रयत्वसम्बन्धेन। एकत्वमन्यत्रापि
बोध्यम्।
1. स्वाश्रयत्वेति। स्वं
एकत्वम्, तदाश्रयत्वं प्रकृत्यर्थे पशौ, एवं स्वं एकत्वं तद्वृत्तिः
पशुमद्भेदः तत्प्रतियोगितावच्छेदकत्वं च पशौ। स्वकरणकेत्यत्र
स्वशब्दः प्रकृत्यर्थपशुपरः।
2.
स्वाश्रयाश्रयत्वेत्यादि। प्रथवस्वशब्दः एकत्वपरः। द्वितीयस्वशब्दः
तृतीयस्वशब्दश्च प्रकृत्यर्थद्रव्यपरः।
स्वनिष्ठप्रतियोगितावच्छेदकताकत्वमित्यस्य स्वनिष्ठा या
भेदप्रतियोगितावच्छेदकता तत्कत्वमित्यर्थः।
स्वनिष्ठावच्छेदकताकप्रतियोगिताकभेदवत्त्वमिति यावत्।
[24] मीमांसकमतमित्यादि। दूषणं
अनुपपन्नत्वप्रकारकज्ञानानुकूलयुक्तिकथनम्। तुमुन इच्छैवार्थः,
तस्याः उपन्यासे 1पूर्ववदेवान्वयः। [24] अतिरिक्तत्वं
व्यस्थापयितुम् इत्यत्रापि उक्तरीतिरेव। निराकरणं तु
अभावप्रकारकज्ञानानुकूलशब्दः। [24] अन्तर्भावमित्यत्र
द्वितीयायाः प्रतियोगित्वमर्थः। तस्य निराकरणैकदेशे ऽभावे ऽन्वयः।
दीपिकायाञ् [24] प्रतीतिबलादित्यत्र बलशब्देन
विषयसाधकत्वं द्योत्यते। अतः तस्या भ्रमत्वे न विषयसाधकत्वमिति
शङ्कानिरासायाबाधितेत्युक्तम्। नीलेत्यादि। अत्र च
द्रव्यसाधकहेतुद्वयकथनं 2न्यूनाधिकदृष्टान्तमभिसन्धाय। [24] कालिकादिसम्बन्धेनेति। अत्रादिपदेन विषयतासम्बन्धस्य
परिग्रहः। न तु दैशिकविशेषणतायाः, तथा सति मूर्तेषु
साध्यसत्त्वेन व्यभिचारानवकाशात्। [24] अतिप्रसक्तत्वे ऽपीति।
जन्यगुणदावित्यादिः। द्रव्यत्वे सिद्धे सतीति। अत्र द्रव्यत्व इति
सप्तम्याः अनुमितिरूपसिद्धिरर्थः। तस्या उत्तरकालीनत्वसम्बन्धेन
निराकरणे ऽन्वयः। दीपिकायाम् [23] तमसो
नाकाशादिपञ्चके ऽन्तर्भाव इति।
आकाशादिपञ्चकान्यतमत्वत्वावच्छिन्नप्रतियोगिताकाभावः
तमोवृत्तिरित्यन्वयबोधः। [23]
न वायाविति पृथक्करणं
वायावनन्तर्भूतत्वसाधकहेत्वन्तरसत्त्वात्। न हि स्पर्शाभावादेरपि
आकाशाद्यनन्तर्भून्तत्वसाधकत्वं सम्भवति, 3व्यभिचारात्।
नवीनमतमनुसृत्य प्रकाशिकायाम् [24] वस्तुतस्त्विति।
1. पूर्ववदेवान्वय
इति।
स्वविषयसमानकर्तृकत्वस्वप्रयोज्येच्छाविषयत्वोभयसंबन्धेनान्वयः
इत्यर्थः।
2.
न्यूनाधिकदृष्टान्तमभिसम्न्धायेति। तमसो
द्रव्यत्वसाधकनीलत्वहेतोः नीलद्रव्याण्येव द्दष्ठान्तः, तमसो
द्रव्यत्वसाधकक्रियावत्त्वहेतोस्तु मूर्तद्रव्याणि दृष्टान्त इत्येवं
तात्पयम्।
3. व्यभिचारादिति।
तमः आकाशाद्यनन्तर्भूतं स्पर्शाभावादिति हि प्रयोक्तव्यम्। तत्र च
साध्याभाववति आकाशादौ स्पर्शाभावसत्त्वात् व्यभिचार इत्यर्थः।
[24] विषमव्याप्तमिति। विषमव्याप्तत्वं च
साध्याव्यापकत्वे सति साध्यव्याप्यत्वम्। समव्याप्तत्वं च
साध्यव्यापकत्वे सति साध्यव्याप्यत्वम्। ननु
सदागतिमत्त्वाभावादित्यत्र हेतौ सदागतिशब्देन योगव्युत्पत्त्या
सार्वकालिकगमनं लभ्यते।
सार्वकालिकत्वं च
कालत्वनिरूपितकालिकसंबन्धावच्छिन्नव्यापकत्वं, प्रलयादौ
जन्यवायोरभावात् तदीयक्रियायाः तदानीं विरहेण
कालत्वव्यापकगमनरूपसदागतिशब्दार्थस्य जन्यवायावभावेन
1तदभावेन
वाय्वनन्तर्भून्तत्वसाधने व्यभिचार इत्यत आह -- [24] सदागतिः विजातीयक्रियेति। एवं च वैजात्यविशेषस्य
जन्यवायुक्रियायामपि सत्त्वात् न दोष इति भावः।
कॢप्तद्रव्येष्वनन्तर्भावादित्यर्थ इति। इदमत्र परिशेषानुमानं
विवक्षितम् - तमः पृथिव्यादिभेदकूटद्रव्यत्वोभयवत्
पृथिव्याद्यनन्तर्भून्तत्वद्रव्यत्वोभयस्मात् यन्नैवं तन्नैवं
यथा घट इति।
अत्राभावरूपतया तमसः नैयायिकैरभ्युपगमात् सिद्धसाधनवारणाय
साध्यकोटौ द्रव्यत्वनिवेशः। गुणादौ व्यभिचारवारणाय
हेतुकोटौ द्रव्यत्वनिवेशः। गुणादौ व्यभिचारवारणाय
हेतुकोटौ द्रव्यत्वनिवेशः। गुणादौ व्यभिचारवारणाय
हेतुकोटौ द्रव्यत्वनिवेशः। पृथिव्यादौ व्यभिचारवारणाय
पृथिव्यादीति।
यत्तु-सामानाधिकरण्यसम्बन्धेन
पृथिव्यादिभेदकूटविशिष्टद्रव्यत्वं साध्यं
पृथिव्याद्यनन्तर्भून्तत्वविशिष्टद्रव्यत्वं हेतुरिति। तन्न।
नैयायिकमते ऽनुमितेः प्राक् साध्यहेत्वोरप्रसिद्धतया
व्यतिरेकव्याप्तेर्दुर्ग्रहत्वादिति। दीपिकायाम् [23] प्रौढेत्यादि। प्रौढत्वमुत्कृष्टत्वं महत्त्वाश्रयत्वम्, तेजः
परमाणुवारणाय महत्वनिवेशः।
तेजस्त्रुटिवारणयोत्कृष्टत्वनिवेशः। प्रकाशकत्वं
चोद्भूतानभिभूतरूपवत्त्वम्। चक्षुरादिवारणायोद्भूतेति।
सुवर्णादिवारणायानभिभूतेति। घटादिवारणाय तेजः- पदम्।
यद्यपि उद्भूतत्वस्य वक्ष्यमाणरीत्या
तत्तदनुद्भूतत्वाभावकूटरूपतया
प्रतियोगितानवच्छेदकाननुगमात् तमः पदार्थनानात्वं प्रसज्यते,
1. तदभावेनेति।
सदागतिमत्त्वभावेने त्यर्थः।
तथापि
महाप्रभावत्वावच्छिन्नप्रतियोगिताकाभाव एव तमः।
प्रौढप्रकाशकतेजःशब्देन च महाप्रभैव विवक्षितमिति अभिप्रेत्यैवाग्रे
दिगित्युक्तम्। प्रकाशिकायाम् [24]
आलोकासहकृतेति।
आलोकाजन्यचाक्षुषनिरूपितलौकिकविषयत्वादिति पर्यवसितार्थः।
तेनान्यत्र चक्षुषः आलोकरूपसहकारिकारणविशिष्टत्वे ऽपि न क्षतिः।
ननु तमः प्रत्यक्षे ऽपि
कालविधया आलोकस्य कारणत्वात् असिद्धिरिति चेत् - न।
कालत्वावच्छिन्नालोकनिष्ठजनकताकत्वाभावस्य निवेशात्।
स्पार्शनमादाय घटादौ व्यभिचारवारणाय चाक्षुषेति। विषयतायां
लौकिकत्वनिवेशे प्रयोजनमाह - [24] तमसश्चाक्षुषे ऽपि
घटादीनामित्यादिना। ऽघटे तमऽ इत्याकारकप्रत्यक्षे ऽलौकिक्या
ज्ञानप्रत्यासत्त्या घटादीनां विषयत्वे ऽपि न तत्र व्यभिचार इत्यर्थः।
अत्र चाधुनातनेषु
पुस्तकेपु ऽतमोवान् घटःऽ इति पाठो ऽनुपपन्नः।"अस्मायामेधास्रजोविनिः"
इति सूत्रेण तस्मस्वीत्येव
रूपनिष्पत्तेः। मतुप्गुणयोरसम्भवात्। उपनीतं विशेषणतयैवेति
नियमेनालौकिकज्ञानप्रत्यासत्त्या घटादीनां विशेष्यतया
भानासंभवेनालौकिकविषयतामादाय घटादौ व्यभिचारासम्भवाच्च।
अतस्तादृशपाठो भ्रान्ततमः
प्रक्षिप्त इति
विदाङ्कुर्वन्तु विद्वांसः। [24]
विशेषाभावं
व्याप्यधर्मावच्छिन्नप्रतियोगिताकाभावम्। इदं च
पक्षदृष्टान्तयोरभेदशङ्कानिरासाय। अयमत्र भावः -
कार्यतावच्छेदककोटौ तमोभिन्नत्वस्य द्रव्यविशेषणत्वमुपगम्य
तमोभिन्नद्रव्यवृत्तिलौकिकविषयतासम्बन्धेन चाक्षुषं प्रति
संयोगेनालोकस्य कारणत्वे यद्यपि न दोषः, तथापि तमसो
द्रव्यत्वे कार्यतावच्छेदककोटौ तमोभिन्नत्वनिवेशात्
गौरवमनन्तावयवकल्पनयापि। तत्तमश्चाक्षुषस्याकस्मिकत्ववारणाय
असाधारणकारणान्तरकल्पनस्यावश्यकतया गौरवमिति। [25] प्रागभावादीत्यादिपदेनध्वंसपरिग्रहः। [25] आवश्यकेति। इदं च तमोभाव एव तेजः किं न स्यादिति
विनिगमनाविरहशङ्कानिरासाय। अन्यथा ऽउष्णं तेजःऽ इति
उष्णस्पर्शप्रतीत्यनुपपत्तिप्रसङ्गात्।
द्रव्यलक्षणम्
दीपिकायाम् [31] द्रव्यत्वजातिमत्त्वमिति। अत्र जातिपदं समवायेन द्रव्यत्वस्य
लक्षणत्वलाभाय। न तु तदपि लक्षणघटकं, तथा सति
स्वसमानाधिकरणव्याप्यतावच्छेदकधर्मान्तरघटिततया
व्याप्यतानवच्छेदकत्वेन व्याप्यत्वासिद्ध्यापातात्। प्रकाशिकायाम्
[31] संयोगजनकतावच्छेदकतयेति। अत्रेदमनुमानमभिमतम् -
संयोगनिष्ठसमवायसम्बन्धावच्छिन्नकार्यतानिरूपिततादात्म्यसम्बन्धावच्छिन्नकारणता
किञ्चिद्धर्मावच्छिन्ना कारणतात्त्वात्
दण्डादिनिष्ठघटादिकारणतावदिति। ऽसिंध्यतो धर्मस्य जातित्वे
लाघवम्ऽ इति तर्कसहकृताज्जातित्वे बाधकाभावसहिताच्च
परामर्शात् द्रव्यत्वजात्यवच्छिन्नत्वसिद्धिः। किञ्चिज्जात्यवच्छिन्नत्वस्य
साध्यत्वे
प्रतिबन्धकाभावनिष्ठकारणतायां व्यभिचारः स्यादिति तदुपेक्षितम्।
न च सत्तां पृथिवीत्वादिकां च जातिमादायानुमानपर्यवसानात्
अर्थान्तरमिति वाच्यम्। तत्समनियतधर्मस्यैव तदवच्छेदकत्वात्
सत्तादौ तद्व्याप्यत्वादिग्रहस्य प्रकृते सत्त्वेन
तदादायानुमानपर्यवसानासम्भवात्। ऽसत्तादिकं यदि
संयोगसमवायिकारणतावच्छेदकं स्यात् तर्हि
संयोगसमवायिकारणतासमनियतं स्यात्ऽ इति तर्कवलात्
सत्तादिजात्यवच्छिन्नत्वानुमित्यसम्भवात्। एवमुत्तरत्रापि बोध्यम्।
समवायेन संयोगं प्रति तादात्म्येन द्रव्यत्वेन कारणत्वं गुणादौ
समवायेन संयोगापत्तिवारणाय बोध्यम्।
[31] लक्षणलक्ष्यतावच्छेदकयोरभेद इति।
तथा सति लक्षणेनेतरभेदानुमाने परामर्शकाले
इतरभेदसमानाधिकरणद्रव्यत्वं द्रव्यत्वव्यापकेतरभेदः
इत्याकारकसिद्धिसत्त्वात् अनुमित्यनुपपत्तिः।
असमानाकारकनिश्चयस्यापि प्रतिबन्धकत्वात्। सिषाधयिषानुधावने
च प्रयासगौरवमित्यभिप्रायः।
यत्तु -
लक्षणलक्ष्यतावच्छेदकयोरभेदे उपनयवाक्यात् शाब्दबोधानुपपत्तिः
प्रकृते ऽपि सम्भवति इति, तत्तुच्छम् - द्रव्यत्वस्य स्वरूपतो
लक्ष्यतावच्छेदकत्वात्, द्रव्यत्वत्वेन च लक्षणत्वात् ऽद्रव्यत्ववत्
द्रव्यम्ऽ इत्याकारकप्राचीनमतोपनयस्य बाधकाभावात्।
तद्धर्मनिष्ठप्रकारतानिरूपितविशेष्यतानिरूपितावच्छेदकतावच्छेदकतासम्बन्धेन
शाब्दबुद्धिं प्रत्येव तद्धर्मभेदस्य कारणत्वस्य वक्तव्यत्वात्। अन्यथा
ऽद्रव्यं जातिमत्ऽ इत्यादिप्रयोगानुपपत्तेः।
अव्याप्त्यादिलक्षणम्
[33] लक्षणतावच्छेदकत्वाभिमतसंबन्धेन
यत्किञ्चिल्लक्ष्यावृत्तित्वमित्यर्थ इति।
लक्ष्यतावच्छेदकसमानाधिकरणाभावीयलक्षणतावच्छेदकसम्बन्धावच्छिन्नप्रतियोगित्वे
सति
लक्ष्यतावच्छेदकाधिकरणनिरूपितलक्षणतावच्छेदकसंबन्धेनाधेयत्वमव्याप्तिरिति
निष्कर्षः। अन्यथा यथाश्रुते
लक्ष्यैकदेशमात्रसाधारणानुगतानतिप्रसक्तस्य दुर्वचतया
असम्भवापत्तेः। असम्भविनो वारणाय द्वितीयदलम्,
गन्धादिसल्लक्षणवारणाय प्रथमदलम्, पृथिव्यादैं संयोगादिना
गन्धाद्यभावस्य सत्त्वात् अभावप्रतियोगितायां
लक्षणतावच्छेदकसम्बन्धावच्छिन्नत्वनिवेशः। कालिकसम्बन्धेन
गवावृत्तावेकशफादौ तद्वारणाय द्वितीयदलघटकाधेयतायां
तत्सम्बन्धावच्छिन्नत्वनिवेशः।
न चैवमपि
गन्धघटोभयाभावघटादिवृत्तित्वविशिष्टगन्धाद्यभावादेर्घटादौ
सत्त्वात् तद्दोषतादवस्थ्यमिति वाच्यम्।
तादृशाभावप्रतियोगितावच्छेदकः तादृशाधेयतावच्छेदकश्च यो
लक्षणतावच्छेदकधर्मः तस्य विवक्षितत्वात्। यद्यपि
तादृशाभावप्रतियोगितावच्छेदकं घटत्वगन्धत्वादिकमपि, तथापि
तादृशप्रतियोगितावच्छेदकतापर्याप्त्यधिकरणत्वविवक्षया न दोषः।
[33] अलक्ष्ये लक्षणस्येति। 1विशेषणताविशेषेण
लक्ष्यतावच्छेदकावच्छिन्नप्रतियोगिताकभेदवन्निरूपितलक्षणताघटकसम्बन्धावच्छिन्नाधेयत्वमित्यर्थः।
घटादौ घटादिभेदासत्त्वात् गन्धादैं नातिव्याप्तिः। न वा कालिकेन
जलादौ गन्धसत्त्वमादाय।
1.
विशेषणताविशेषेणेत्यस्य भेदवत्वे ऽन्वयः।
नापि पृथिव्यादावेव
पृथिव्यादिभेदस्य कालिकसंबन्धेन सत्त्वात् तद्दोषतादवस्थ्यम्।
लक्ष्यमात्रावृत्तित्वमिति दीपिकावाक्यात्
मात्रपदस्येतरव्यवच्छेदपरत्वे
लक्ष्येतरावृत्तित्वविशिष्टलक्ष्यवृत्तित्वं स्याभावः असम्भव इति
लभ्यते। तच्च न युज्यते - अतिव्याप्तधर्मे ऽतिप्रसङ्गात् इत्यतः
प्रकाशिकायां मात्रपदं कृत्स्नार्थकतया व्याचष्टे [33] मात्रपदमिति। [33] सम्बन्धविशेषेत्यादि।
लक्षणतावच्छेदकसम्बन्धावच्छिन्नोधेयताप्रतियोगिताकस्वरूपमेवात्रसंबन्धविशेषः।
लक्षणतावच्छेदकसम्बन्धावच्छिन्नाधेयताप्रतियोगिकस्वरूपसम्बन्धावच्छिन्नलक्ष्यवृत्तित्वत्वावच्छिन्नप्रतियोगिताका-
भावो ऽसम्भव इति
पर्यवसितम्। तेन द्वित्वाद्यवच्छिन्नाधेयताप्रतियोगिताकस्वरूपस्य
गुणादिवृत्तित्वं प्रति व्यधिकरणत्वात्। अत्र च मात्रपदस्य
समभिव्याहृतपदार्थतावच्छेदकव्यापकत्वार्थकतया
निरूपकतासम्बन्धावच्छिन्नलक्ष्यतावच्छेदकव्यापकत्वं आधेयत्वे
लभ्यते। तथा सत्यतिव्याप्तधर्मे ऽतिप्रसङ्गात्
यावत्यो लक्ष्यव्यक्तयः
तत्तद्व्यक्तित्वाभावकूटवत्त्वं तु दुर्ज्ञेयम्, विनिगमनाविरहाभ्यां
विवक्षितुमशक्यं चेत्यालोच्य एतत् [33] लक्ष्यवृत्तित्वसामान्याभावस्फोरकमिति।
वस्तुतस्तु
लक्ष्यतावच्छेदकव्यापकाभावीयलक्षणताघटसम्बन्धावच्छिन्नप्रति योगितावच्छेदकलक्षणतावच्छेदक-
लक्षणतावच्छेदकधर्मवत्त्वमसम्भवः। लक्ष्यतावच्छेदकव्यापकत्वं
च
लक्ष्यतावच्छेदकसमानाधिकरणात्यन्ताभावप्रतियोगितानवच्छेदकधम्रवत्त्वम्,
न तु तादृशाभावाप्रतियोगित्वम्; सर्वेषामेव
द्वित्वाद्यवच्छिन्नप्रतियोगितया असम्भवापत्तेः। एतेन विशेषरूपेण
संसर्गत्वानभ्युपगमे ऽपि न क्षतिः।
लक्ष्यतावच्छेदकताघटकसम्बन्धादिना
लक्ष्यतावच्छेदकादिप्रकारेणैवाधिकरणप्रवेशः। तेन सम्बन्धान्तरेण
लक्ष्यतावच्छेदकाद्यधिकरणमादाय न दोषः। न वानवस्था।
[33] एकशफवत्त्वमितीति। यद्यपि शते
पञ्चाशन्न्यायेन गवादेरप्येकशफवत्त्वमक्षतम्, तथाप्येकत्वमत्र न
सड्ख्यारूपम्। अपि तु स्वाश्रयपादवृत्तित्वस्वभिन्नत्वोभयसम्बन्धेन
शफविशिष्टान्यत्वरूपं पारिभाषिकं ज्ञेयम्। अतिव्याप्तिशरीरे
लक्ष्यवृत्तित्वनिवेशनमनावश्यकमित्यभिप्रायेण [33] दुष्टसङ्करेपीति, न्यायादिति। दुष्टस्वरूपैक्ये ऽपि
दोषस्वरूपयोः परस्परं भिन्नत्वात् तन्निवेशनमनावश्यकमिति
भावः।
अत्र क्वचित्
प्राचीनग्रन्थेषु दिगिति दृश्यते। तत्र चायं भावः -
असम्भविन्येकशफवत्त्वादौ ऽइदमत्रातिव्याप्तम्ऽ इति
व्यवहाराभावात् लक्ष्यवृत्तित्वमवश्यं निवेशनीयमिति न
तत्रोक्तन्यायावकाशः। एकत्रासम्भविन एवान्यत्र व्यवहारे
बाधकाभावात् तत्रोक्तन्यायावकाश इति।
लक्षणलक्षणविचारः
ननु [30] ऽएतद्दूषणत्रयरहितो धर्मऽ इति दीपिकावाक्यात्
तादृशदोषत्रयत्वावच्छिन्नप्रतियोगिताकाभाव एव लक्षणलक्षणमिति
लभ्यते। तच्च न युज्यते। अव्याप्त्यादिप्रत्येकदोषग्रस्तधर्मेंऽपि
तत्सत्त्वेनातिव्याप्तेः इत्यत आह [38] उक्तदूषणाभावत्रयविशिष्ट
इत्यर्थ इति। यावत् प्रत्येकाधिकरणस्यैव कूटाधिकरणत्वात् न
दोष इति भावः। [38] अव्याप्त्यादीत्यादिपदेनासम्भवपरिग्रहः।
[38] अन्यादृशमिति। तथा च असाधारणपदं वक्ष्यमाणार्थे
पारिभाषिकमिति। साधारणं न भवतीत्यसाधारणं इति व्युत्पत्त्या
साधारणपदार्थः लक्ष्यवृत्तित्वविशिष्टालक्ष्यवृत्तित्वरूपः
तदभावरूपासाधारणपदार्थस्य यौगिकस्याव्याप्त्यसम्भवग्रस्तयोः
सत्त्वेन तादृशार्थानुपपत्तिः, किं च ऽएतद्दूषणत्रयरहितधर्मो लक्षणम्ऽ
इति ग्रन्थेन विरोधश्च इत्यस्वारस्यद्वयं मनसि निधाय
पारिभाषिकं निर्वक्तीत्यपि बोध्यमिति
प्रकाशिकावतरणिकातात्पर्यम्। ऽअव्याप्त्यसम्भवग्रस्तयोर्वारणाय
सत्यन्तम्ऽ इति
पाठः प्रामादिकः।
एकशफवत्त्वादिरूपस्यासम्भविनः
स्वव्यापकतत्कत्वरूपलक्ष्यतावच्छेदकव्याप्यत्वविरहेण
तत्राव्याप्त्यप्रसक्तेः। [38] अव्याप्तस्येति प्राचीनकोशेषु पाठो
दृश्यते। स एव युक्तः।
यत्तु - पृथिव्यादिकं
समवायेन लक्षणमित्यादावसम्भविनि गगनदावतिव्याप्तिः।
लक्ष्यतावच्छेदकाभाववद्वृत्तित्वरूपस्य लक्ष्यतावच्छेदकव्याप्यत्वस्य तत्र
सत्त्वात् इत्यव्याप्त्यसम्भवग्रस्तयोरिति पाठो ऽपि साधुरिति - तन्न
- अभिधेयत्वादावतिव्याप्तेः वक्ष्यमाणायाः असङ्गतिप्रसङ्गात्
स्वव्यापकतत्कत्वरूपव्याप्यत्वस्यावश्यं निवेशनीयतया
तत्पाठसाधुत्वासम्भवात्। यदि च तत्पाठसाधुत्वे ऽप्याग्रहः, तदा
स्वाभाववद्वृत्तित्वसम्बन्धावच्छिन्न
लक्ष्यतावच्छेदकनिष्ठप्रतियोगितावच्छेदकनिष्ठाभावीयस्वसमानाधिकरणभेद-
प्रतियोगितावच्छेदकत्वसम्बन्धावच्छिन्नप्रतियोगित्वरूपव्याप्यत्वस्य
निवेशेन तदुपपादनीयम्। [38]
स एवासाधारण धर्म इत्युच्यत
इति दीपिकावाक्यात् असाधारणत्वे सति धर्मत्वमिति लभ्यते, तत्र
धर्मत्वांशस्य निवेशनमफलम् अवृत्तिगगनादेः
लक्ष्यतावच्छेदकव्यापकत्वविरहात् तत्राव्याप्तेरप्रसरात् अतः
तत्पदस्य सार्थक्यमाह - [38] धर्मपदमिति। [38] लक्षणताघटकसम्बन्धेनेति। लक्ष्यतावच्छेदकसम्बन्धेन
लक्ष्यतावच्छेदकाधिकरणवृत्त्यभावीयलक्षणतावच्छेदकसंबन्धावच्छिन्नप्रतियोगितानवच्छेदकः
लक्षणतावच्छेदकसम्बन्धेन
स्वावच्छिन्नाधिकरणवृत्तिभेदप्रतियोगितानवच्छेदक
क्ष्यतावच्छेदककश्च यो लक्षणतावच्छेदकधर्मः तद्वत्त्वं
विवक्षणीयमित्यर्थः। [38] व्यापकत्वादित्यादिना व्याप्यत्वपरिग्रहः।
तथा च लक्ष्यतावच्छेदकविशिष्ट लक्षणतावच्छेदकवत्त्वं
असाधारणत्वमिति निष्कर्षः। वैशिष्यं च
स्ववृत्तिभेदप्रतियोगितावच्छेदकत्वस्वाधिकरणवृत्त्यभावीयतादृशप्रतियोगितावच्छेदकत्वसम्बन्धावच्छिन्नस्वनिष्ठा-
वच्छेदकताकप्रतियोगिताकभेदवत्त्वोभयसम्बन्धेन।
1अवच्छेदकत्वं लक्षणताघटकसम्बन्धेन
1. अवच्छदेकत्वमिति।
प्रथमसम्बन्धघटकमवच्छेदकत्वमित्यर्थः। तथा च लक्ष्यतावच्छेदके
गोत्वे यो भेदः सास्नादित्ववद्भेदः, तथा हि स्वं सास्नादित्वरूपं
लक्षणतावच्छेदकं तदवच्छिन्नस्य सास्नादेः
लक्षणतावच्छेदकसमवायसम्बन्धेन यदधिकरणं गोः
तद्वृत्तिभेदप्रतियोगितावच्छेदकत्वस्य गोत्वे ऽभावात्
तादृशभेदप्रतियोगितावच्छेदकत्त्वसम्बन्धेन न सास्नादित्ववत्
गोत्वं इति गोत्ववृत्तिः सास्नादित्ववद्भेदः भवति
तत्प्रतियोगितावच्छेदकत्वं सास्नादित्वे। एवं स्वं गोत्वं
तदधिकरणवृत्यभावप्रतियोगितावच्छेदकत्वं सास्नादित्त्वे नास्तीति
तादृशप्रतियोगितावच्छेदकत्वसम्बन्धेन गोत्ववद्भेदः
सास्नादित्वे ऽस्तीति उभयसम्बन्धेन लक्ष्यतावच्छेदकगोत्वविशिष्टत्वं
लक्षणतावच्छेदके सास्नादित्वे द्रष्टव्यम्। एवं च
प्रथमद्वितीयतृतीयस्व पदानि लक्ष्यतावच्छेदकपराणि, चतुर्थस्वपदं
लक्षणतावच्छेदकपरमिति विवेकः।
स्वावच्छिन्नाधिकरणवृत्तिभेदप्रतियोगितावच्छेदकत्वसंबन्धेन।
संयोगादिनां गन्धाद्यभाववारणाय व्यापकतायां
लक्षणताघटकसंबन्धावच्छिन्नत्वनिवेशः। जलादौ कालिकादिना
गन्धादिसत्त्वात् व्याप्यतायां तन्निवेशः। अन्यच्च स्वयमूह्यम्। [38] असाधारणत्वस्य विघटका इति। अत्र विपूर्वघटधातोः
अभावोर्ऽथः। ण्वुलस्सम्पादकः। तथा च
लक्ष्यतावच्छेदकव्यापकत्वसहितलक्ष्यतावच्छेदक1व्याप्यत्वरूपविशिष्टाभावसम्पादका
इत्यर्थः। तादृशाभावश्चातिव्याप्ते2विशेष्याभावप्रयुक्तः।
अव्याप्त्यसम्भविनोश्च विशेषणाभावप्रयुक्त इत्यभिप्रेत्याह - [38] अतिव्याप्ताविति। पक्षतावच्छेदकसामानाधिकरण्यमात्रेण
हेत्वभाववत्त्वं भागासिद्धिः। तदवच्छेदेन तदभाववत्त्वं
स्वरूपासिद्धिरिति विवेकः। अत्र च भागासिद्धेः अवच्छेदकावच्छेदेन
पक्षे हेतुमत्ताज्ञानविरोधितया, स्वरूपासिद्धेः अवच्छेदकावच्छेदेन
सामानाधिकरण्येन च पक्षे हेतुमत्ताज्ञानविरोधितया द्वयोरपि
पक्षधर्मताज्ञानं प्रति विरोधितया हेत्वाभासत्वमिति ध्येयम्।
[39] व्यावृत्तिरेवेति। अयमाशयः -
ऽव्यावृत्तिर्व्यवहारो वा लक्षणस्य प्रयोजनम्ऽ इति। व्यावृत्तिः
इतरभेदः। व्यवहारः ज्ञानजनकशब्दः। प्रयोजनं ज्ञाप्यम्। तथा च
व्यावर्तकत्वम् इतरभेदानुमापकत्वम्। व्यावहारिकत्वं
व्यवहारानुमापकत्वम्। प्रकृते च व्यावृत्तिरेव लक्षणज्ञाप्या
इत्येकं मतम्। व्यावृत्तिव्यवहारोभयं ज्ञाप्यमित्यपरं मतम्।
तत्राद्यपक्षे व्यावर्तकत्वस्यैव लक्ष्यतावच्छेदकतया वक्ष्यमाणरीत्या
अतिव्याप्तिरिति। व्यावर्तकस्येत्यत्र
1.
व्याप्यत्वरूपविशिष्टेति। व्याप्यत्वरूपं यत् विशिष्टं
तदभावसंपादकाः।
2. विशेष्याभावेति।
लक्ष्यतावच्छेदकव्याप्यत्वरूपं यद्विशेष्यं तदभावप्रयुक्त इत्यर्थः।
विशेषणाभावेति। लक्ष्यतावच्छेदकव्यापकत्वरूपं यद्विशेषणं
तदभावप्रयुक्त इत्यर्थः।
व्याङ्पूर्वकवृतुधातोरितरभेदोर्ऽथः।
अकप्रत्ययस्यानुमितिजनक इत्यभिप्रायेणाह [39] इतरभेदानुमितिजनकस्येत्यर्थ इति। अनुमितिजनकत्वं
लिङ्गपरामर्शस्यैव, न तु परामृश्यमानलिङ्गस्य। तथा च
गन्धादेर्व्यावर्तङ्कत्वानुपपत्तिः। न
चेतरभेदानुमितिजनकज्ञानविषयत्वं व्यावर्तकत्वमिति न दोष
इति वाच्यम्। एवमपि
समूहालम्बनपरामर्शविषयोदासीनावरणात्,
अभिधेयत्वादावतिव्याप्तिकथनासङ्गतेश्च। तस्याप्युक्तरीत्या
लक्ष्यत्वात्। न च तादृशजनकतावच्छेदकविषयताश्रयत्वं तदिति
वाच्यम्। एवमपि इतरभेदव्याप्तिधटकाभावादावतिव्याप्तेः
गोत्वाद्यवच्छेदेन गवेतरभेदव्यापककपिलरूपवती गौः
इत्याद्याकारकभ्रमात्मकपरामर्शविषयतामादाय कपिलरूपादेरपि
व्यावर्तकतापत्तेश्च। तथा च धर्मत्वमेव लक्षणलक्षणमित्याशङ्कायां
निष्कर्षार्थमाह [39] इतरभेदविधेयेत्यादि।
इतरभेदविधेयकानुमितिजनकज्ञानीय
पक्षतावच्छेदकावच्छिन्नविशेष्यतानिरूपितविषयतेत्यर्थः।
यत्तु -
भ्रमीयविषयतामादाय दोषवारणाय भ्रमानिरूपितत्वं निवेश्यमिति -
तदसत्। समानाकारकज्ञानेषु विषयताभेदाभावेन उदासीनांशे
समूहालंबनमादायासम्भवस्य दुर्वारत्वात्।
सामानाधिकरण्यघटकपक्षविशेष्यतानिरूपितां
मूल पाठ: Tarkasaṃgraha with autoentary (Dīpikā), Nīlakaṇṭha's Dīpikāprakāśikā and Bālapriyā · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0