तर्कसंग्रह (टीका सहित) · भाग 341360
ऽप्रतिबन्धकाभावस्य कार्यंमात्रे कारणत्वेन शक्तेरनुपयोगात्ऽ
इति दीपिकाग्रन्थः शक्तेः पदार्थत्वखण्डनाय प्रवृत्तः। कार्यमात्रे
प्रतिबन्धकाभावस्य कारणत्वमस्तु नाम। तावता शक्तेः पदार्थत्वं
कुतो न भवती इति शङ्कायां दीपिकायाः
तात्पर्यमाह-प्रतिबन्धकत्वं नेति। तच्चेति। प्रतिबन्धकत्वं चेत्यर्थः।
मण्यभावस्य हेतुत्वादेवेति। एवकारेण
कार्यानुकूलशक्तिविघटकत्वव्यवच्छेदः। तथा च मणेः
कार्यानुकूलशक्तिविघटकत्वाभावे ऽपि कारणीभूतो यो मण्यभावः
तत्प्रतियोगित्वात् प्रतिबन्धकत्वमुपपद्यते। तथा च
अन्यथानुपपत्तिरूपार्थापत्तिप्रमाणस्याभावात् न शक्तिसिद्धिरिति भावः।
तदभावरूपकारणान्तराभावादेवेति। मण्यभावरूपं यत् कारणान्तरं
तदभावादेवेत्यर्थः। अत्र अन्तरशब्दप्रयोगात् दाहं प्रति वह्निः
मण्यभावश्च इत्युभयं पृथक् कारणम्, न तु
मण्यभावविशिष्टवह्निः कारणम्। वह्निविशिष्टमण्यभावः कारणं वा
मण्यभावविशिष्टवह्निः कारणं चेति विशेष्यविशेषणभावे
विननिगमनाविरहेण गुरुभूतकार्यकारणभावद्वयापत्तेरिति
सूचितम्।
ननु
प्रतिबन्धकत्वान्यथानुपपत्त्या शक्त्यसिद्धावपि व्यवहारान्यथानुपपत्त्या
शक्त् सिध्यतीति शङ्कते - ननु दाहोत्पाद इति
शक्तिरूपातिरिक्तपदार्थ विनापि कॢप्तेन कारणत्वरूपपदार्थेनैव
व्यवहारस्योपपत्त्या न व्यवहारानुपपत्तिरस्तीत्याह - तस्याः
कारणतारूपत्वे ऽपीति। ननु कारणत्वं कथं नातिरिक्तं इति चेत् -
अत्राहुः। कारणत्वमिति आग्नित्वा उदिजातौ वा अभाव वा
कारणत्वस्यान्तर्भाव इति। स्पष्टमिदं कुसुमाञ्जलादौ।
शङ्कते -- ननु
मण्याद्यभावस्य हेतुत्व इति। चन्द्रकान्तमणिः दाहप्रतिबन्धकः
तदभावः दाहहेतुः। यत्र वह्नौ चन्द्रकान्तमणिसंयोगकाले
सूर्यकान्तमणिसंयोगो वा मन्त्रोद्धेश्यत्वं वा अस्ति तदा दाहो
जायते। तत्र चन्द्रकान्तमण्यभावरूपस्य कारणस्याभावात् तव मते
कथं दाहः? मम मते तु मण्यभावः न दाहकारणम्। अपि तु
शक्तिविशिष्टवह्निरेव कारणम्। चन्द्रकान्तमणिना
वह्निगतशक्तेर्नाशे ऽपि सूर्यकान्तमणिमन्त्रादिसमवधानदशायां पुनः
वह्नौ दाहानुकूलशक्त्यन्तरमुत्पद्यत इति स्वीकारेण
शक्तिविशिष्टवह्नेः सत्त्वात् दाहः सम्भवति, अतः शक्तिः
अङ्गीकरणीयेति शङ्कितुर्भावः। अत्र उत्तेजकशब्देन
प्रतिबन्धकसत्त्वे ऽपि कार्योत्पत्तिप्रयोजकः सूर्यकान्तमण्यादिरुच्यते।
प्रतिबन्धकसमवधानकालिककार्योत्पत्तिप्रयोजकत्वं उत्तेजकत्वमित्युक्तं
भवति।
समाधत्ते --
उत्तेजकाभावविशिष्टेति। यत्र मणिः उत्तेजकं च वर्तते तत्र
उत्तेजकाभावरूपविशेषणाभावात् विशिष्टाभावरूपं कारणं अस्तीति
दाहोत्पत्तिरूपपद्यत इति शक्तेरनुपयोग इति भावः।
अननुगतत्वादिति। अनेकत्वादित्यर्थः। गौरवमिति। अनेकेषां
उत्तेजकाभावानां कारणतावच्छेदककुक्षौ प्रवेशादिति भावः।
दाहानुकूलशक्तिं प्रतीति। मणिसत्त्वे
दाहानुकूलशक्तेर्नाशाङ्कीकारात् मण्यपसारणे
तादशशक्त्युत्पत्तेश्च
अङ्गीकारात्
वह्निनिष्ठां दाहानुकूलशक्तिं प्रति मण्यभावः कारणम्, तत्रापि
मणिमत्त्वे शक्तिनाशात् उत्तेजके सति शक्तेरुत्पत्तेश्च
उत्तेजकाभावविशिष्टमण्यभावः शक्तिं प्रति कारणमिति वाच्यम्।
तदपेक्षया दाहं प्रत्येव तस्य कारणत्वमस्तु किं अनन्तानां शक्तीनां
तत्प्रागभावतद्ध्वंसादीनां च कल्पनेनेति भावः। ननु
उत्तेजकाभावकूटविशिष्टमण्यभावस्य दाहं प्रति हेतुत्वे
मन्त्ररूपोत्तेजकदशायामपि शब्दात्मकस्य मन्त्रस्य गगननिष्ठत्वेन
वह्न्याधिकरणे देशे तदभावसत्त्वात् सामानाधिकरण्यसम्बन्धेन
तदुत्तेजकाभावविशिष्टमणिसत्त्वात् दाहानुत्पादप्रसङ्गः। किं च
संयोगवत् संयोगेन द्रव्यस्यापि अव्याप्यवृत्तितया मणिसत्त्वेपि
किञ्चिदवच्छेदेन संयोगेन
मण्यभावसत्त्वात्
दाहोत्पत्तिप्रसङ्गश्च इत्यत आह--सङ्क्षेप इति।
अभावीयविशेषणतासम्बन्धेन दाहत्वावच्छिन्नं प्रति
उद्देश्यता-दैशिकविशेषणतान्यतरसम्बन्धावच्छिन्नप्रतियोगिताकानां
तत्तदुत्तेजकाभावानां सामानाधिकरण्यरूपं यद्वैशिष्ट्यं तदवच्छिन्नस्य
मण्यादेः
दैशिकविशेषणता-उद्देश्यतान्यतरसम्बन्धावच्छिन्नप्रतियोगिताकाभावस्याभावीयविशेषणतासम्बन्धेन
हेतुत्वमिति दिनकर्युक्तरीत्या कार्यकारणभावं परिकल्प्य
पूर्वोक्तदोषौ वारणीयौ इति भावः। एतावता।
सहजशक्तिर्निंराकृता।
दीपिका
आधेयशक्तिनिरासः
ननु भस्मादिना
कांस्यादौ शुद्धिदर्शनात् आधेयशक्तिः अङ्गीकार्या इति चेत् - न।
भस्मादिसंयोगसमानकालीनास्पृश्यस्पर्शप्रतियोगिकयावदभावसहितभस्मादिसंयोगध्वंसस्य
शुद्धिपदार्थत्वात्।
प्रकाशिका
ननु एवमपि
कांस्यादेः अस्पृश्यवस्तुस्पर्शे सति न भोजनादिरूपकार्यार्हता
शक्तिमत्कांस्यादेरेव तदर्हत्वात्। अस्पृश्यस्पर्शें सति शक्तेर्नाशात्
भस्मसंयोगे तु पुनः शक्तेरुत्पादात् तदर्हता। एवं च कांस्यादौ
आधेयशक्तिः स्वीकार्या। न च कांस्यादौ भोजनादिकं प्रति
अस्पृश्यस्पर्शस्य प्रतिबन्धकत्वकल्पनादेव उपपत्तौ तदनङ्गीकार
इति वाच्यम्। प्रकृते च अस्पृश्यस्पर्शस्य असंस्पृश्यसंयोगरूपतया
सति सन्नाशे प्रतिबन्धकाभावसद्भावात्, कांस्यादौ अन्तरा
भस्मादिसंयोजनं भोजनाद्यर्हतापत्तेरिति पुनः प्रत्यवतिष्ठते -
ननु भस्मादिनेति। प्रथमेनादिपदेन अम्लादेः द्वितीयेन च ताम्रादेः
परिग्रहः। कॢप्तध्वंसविशेषेणैव कांस्यादेः शुद्धत्वोपपत्तौ
अतिरिक्तशक्त्यङ्गीकारो ऽनुचित इति समाधत्ते -
भस्मादिसंयोगेति। यत्र कांस्यादौ भस्मादिसंयोगध्वंसानन्तरं
पुनरस्पृश्यस्पर्शः तत्रापि भस्मादिसंयोगध्वंसस्य सत्त्वात्
शुद्ध्यापत्तिः अतः सहितान्तं ध्वंसविशेषणम्। साहित्यं चात्र
सम्बन्धविशेषनियन्त्रितं सामानाधिकरण्यम् अस्पृश्यवस्तूनां
अनुगमकरूपस्य दुर्वचतया
सामान्यधर्मावच्छिन्नानभावनिवेशासम्भवात्
यक्तिञ्चिदस्पृश्यस्पर्शाभावस्य च तत्र सत्त्वात् तदापत्तिः तदवस्थैव
इत्यतः यावदिति। तथा च तत्र यावतां अस्पृश्यस्पर्शाभावानां
निरवच्छिन्नविशेषणतासम्बन्धेन असत्त्वात् नोक्तदोष इति भावः।
यत्र च भस्मादिसंयोगास्पृश्यवस्तुस्पर्शौ युगपदेवोत्पन्नौ विनष्टौ
च तत्र तत्तदस्पृश्यस्पर्शाभाव
कूटसामानाधिकरण्यविशिष्टभस्मादिसंयोगध्वंसमादाय शुद्धतापत्तिः
अतः भसमादिसंयोगकालावच्छेदेन तत्र विद्यमानार्थकं
कालीनान्तमभावविशेषणम्। तथा च तव
भस्मादिसंयोगक्षणावच्छेदेन यावत्तदभावानामसत्त्वात् न दोष
इति भावः।
बालप्रिया
अथ प्रोक्षणादिभिः
व्रीह्यादिषु भस्मादिना कांस्यादिषु आधेया शक्तिर्निराक्रियते ऽननु
भस्मादिनाऽ इत्यादिना दीपिकायाम्। सहजशक्तिः आधेयशक्तिश्चेति
शक्तिद्वयस्य मीमांसकैरङ्गीकारात्। प्रथमेनादिपदेनाम्लादेरिति।
भस्मना शुध्यते
कांस्यं ताम्रमाम्लेन शुध्यति।
गोमयात् शुध्यते
भूमिः नारी तु रजसा तथा॥ऽ
इति
वचनमत्रानुसंहितम्। दीपिकायाम् भस्मादिसंयोगेति।
भस्मादिसंयोगसमानकालीनाः यावन्तः
अस्पृश्यस्पर्शप्रतियोगिकाभावाः तत्समुदायविशिष्ट
भस्मादिसंयोगध्वंस एव कांस्यादेः शुद्धिरित्यर्थः। यत्र कांस्यादौ
आदौ अस्पृश्यवस्तुसंयोगः ततः भस्मादिसंयोगः ततः
भस्मादिसंयोगनाशानन्तरं पुनरस्पृश्यवसतुस्पर्शः। तत्काले
पूर्वतनभस्मादिसंयोगध्वंससत्त्वात् भस्मादिसंयोगध्वंसमात्रस्य
शुद्धिपदार्थत्वे तदानीमपि शुद्धत्वापत्तिः। तद्वारणाय
सहितान्तं
भस्मादिसंयोगध्वंसे विशेषणम्। अस्पृश्यस्पर्शकाले
अस्पृश्यस्पर्शपतियोगिकाभावविशिष्टत्वं नास्तीति न दोषः।
साहित्यं च अत्र स्वरूपसंबन्धघटितसामानाधिकरण्यरूपम्। अतः
व्यधिकरणं कालिकादिसम्बन्धेन सामानाधिकरणं वा
अस्पृश्यस्पर्शप्रतियोगिकाभावमादाय तादृशस्पर्शकाले शुद्धत्वापत्तिः
न भवति। कांस्यादौ यत्किञ्चिदस्पृश्यवस्तुस्पर्शकाले ऽपि
अस्पृश्यवस्त्वन्तरसंयोगाभावसत्त्वात् तद्विशिष्टः
पूर्वतनभस्मादिसंयोगध्वंसो ऽस्तीति शुद्धत्वापत्तिः। अतः
यावत्त्वनिवेशः। तदानीं यावदभावान्तर्गतस्य
यादृशास्पृश्यवस्तुस्पर्शो ऽस्ति तदभावस्य असत्त्वात् न दोषः। न
चाभावे यावत्त्वनिवेशापेक्षया अस्पृश्यवस्तुस्पर्शत्त्वावच्छिन्नाभाव एव
निवेश्यतामिति वाच्यम्। विजातीयेष्वनेकेषु
अस्पृश्यवस्तुष्वनुगतधर्मस्याभावात् प्रतियोगितावच्छेदकस्य
सामान्यधर्मस्यात्रासम्भवात्। संयोगस्याव्याप्यवृत्तितया
कांस्यादावस्पृश्यवस्तुसंयोगकाले ऽपि किञ्चिदवच्छेदेन तदभावस्य
दैशिकविशेषणतासम्बन्धेन सत्त्वात् तद्विशिष्टं
पूर्वकालीनभस्मादिसंयोगध्वंसमादाय शुद्धत्वापत्तिवारणाय
सामानाधिकरण्यघटकाधेयताय
निरवच्छिन्नदैशिकविशेषणतासम्बन्धावच्छिन्नत्वं निवेश्यम्। यत्र
कांस्यादिपात्रे
भसमादिसंयोगः अस्पृश्यस्पर्शश्च एककाले उत्पन्नौ विनष्टौ च तत्र
भसमादिसंयोगध्वंसः अस्पृश्यस्पर्शाभावविशिष्टो भवतीति पात्रस्य
तद्वतः शुद्धत्वापत्तिवारणाय अस्पृश्यस्पर्शप्रतियोगिकाभावे
भस्मादिसंयोगसमानकालीनत्वविशेषणम्।
भस्मादिसंयोगावच्छेदकक्षणावच्छेदेन भस्मादिसंयोगाधिकरणे
विद्यमान इति तदर्थः। एवं च तत्र विद्यमानस्य अस्पृश्यस्पर्शाभावस्य
भस्मादिसंयोगध्वंसकालिकत्वे ऽपि भस्मादिसंयोगक्षणावच्छेदेन
विद्यमानत्वं नास्तीति न दोषः। एवं च
भस्मादिसंयोगावच्छेदकक्षणावच्छिन्नतदधिकरणवृत्तिकास्पृश्यस्पशर्प्रतियोगिकयावदभावनिष्ठनिरवच्छिन्न-
दैशिकविशेषणतासंबन्धावच्छिन्नाधेयतानियपिताधिकरणतावद्वृत्ति -
भस्मादिसंयोगध्वंस शुद्धिरिति फलितम्। तदाह - यत्र
कांस्यादावित्यादिना। संबन्धविशेषनियन्त्रितमिति।
निरवच्छिन्नदैशिकाविशेषण तासम्बन्धघटितमित्यर्थः।
दीपिका
स्वत्वस्यातिरिक्तपदार्थत्वखण्डनम्
स्वत्वमपि न
पदार्थान्तरम्, यथेष्टविनियोगयोग्यत्वस्य स्वत्वरूपत्वात्।
तदवच्छेदकं च प्रतिग्रहादिलब्धत्वमेवेति।
प्रकाशिका
ऽचैत्रस्य इदं
धनम्ऽ इत्यादौ धनादौ यत्स्वत्वं प्रतीयते तत्पदार्थान्तरमिति
मतं निरस्यति - स्वत्वमपीति। अपिना अनुक्तसमुच्चानयकेन
प्रतियोगित्वादिपरिग्रहः। ननु तर्हि स्वत्वं किंस्वरूपम् इत्यत आह
- यथेष्टेति। तदवच्छेदकं चेति। तादृशयोग्यत्वप्रयोजकमित्यर्थः।
प्रतियोगित्वं प्रतियोगिरूपं प्रतियोगितावच्छेदकरूपं वेत्यादिकं
बहुतरमूहनीयम्।
बालप्रिया
यत्स्वत्वं प्रतीयत
इति। षष्ठ्येति शेषः। तत्पदार्थन्तरमिति। स्वत्वं न द्रव्यात्मकम्
गुणादिवृत्तित्वात्। अत एव न गुणकर्मान्यतरात्मकम्। न च
सामान्यादिरूपम्, नित्यत्वप्रसङ्गात्। मम स्वत्वं उत्पन्नम्, तव
स्वत्वं विनष्टं इत्यादि प्रतीत्या स्वत्वस्यानित्यत्वावगमेन
इष्टापत्तेः कर्तुमशक्यत्वात्। नाप्यभावात्मकम्, भावत्वेन
प्रतीयमानत्वात्। अतः कॢप्तपदार्थानन्तर्भूतत्वात् स्वत्वं
पदार्थान्तरमिति पूर्वपक्षः। यथेष्टविनियोगयोग्यतानियामकं
प्रतिग्रहादिना लब्धत्वमेव स्वत्वम्। तच्च संयोगादिरूपम्,
नातिरिक्तपदार्थ इति सिद्धान्तः।
दीपिका
विधिवादः
अथ विधिः निरूप्यते --
प्रयत्नजनकचिकीर्षाजनकज्ञानविषयो विधिः। तत्प्रतिपादकः
लिङादिर्वा। कृत्यसाध्ये प्रवृत्त्यदर्शनात्-कृतिसाध्ये
प्रवृत्तिदर्शनात् कृतिसाध्यताज्ञानं प्रवर्तकम्। न च विषभक्षणादौ
प्रवृत्तिप्रसङ्गः, इष्टसाधनतालिङ्गककृतिसाध्यताज्ञानस्य
काम्यस्थले विहितकालशुचिजीवित्वनिमित्तज्ञानजन्यस्य
नित्यनैमित्तिकस्थले प्रवर्तकत्वात्। न चाननुगमः,
स्वविशेषणवत्ताप्रतिसन्धानजन्यत्वस्यानुगतत्वादिति गुरवः। तन्न -
लाघवेन
कृतिसाध्येष्टसाधनताज्ञानस्यैव चिकीर्षाद्वारा प्रयत्नजनकत्वात्। न
च नित्यनैमित्तिकस्थले
इष्टसाधनत्वाभावात् अप्रवृत्तिप्रसङ्गः, तत्रापि
प्रत्यवायपरिहारस्य पापक्षयस्य च फलत्वकल्पनात्। तस्मात्
कृतिसाध्येष्टसाधनत्वमेव लिङाद्यर्थः।
प्रकाशिका
सर्वेषां
पदार्थानां उक्तपदार्थेषु यथायथमन्तर्भावं निरूप्य मूलन्यूनतां
परिहर्तुं विधिं निरूपयिष्यमाणः शिष्यावधानाय तन्निरूपणं
प्रतिजानीते -- अथेति। स्वपरमतसाधारणं विधित्वं तावत् निर्वक्ति
- प्रयत्नेति। प्रयत्नजनिका या चिकीर्षा तज्जनकं यज्ज्ञानं तद्विषय
इत्यर्थः। गुरुमते कृतिसाध्यताज्ञानस्य, स्वमते
कृतिसाध्यत्वविशिष्टेष्टसाधनताज्ञानस्य चिकीर्षाद्वारा
प्रयत्नजनकत्वात् तन्मते कृतिसाध्यत्वे स्वमते
कृतिसाध्यत्वविशिष्टेसाधनत्वे च लक्षणसङ्गतिः। अभिधायकस्य
विधिमताभिप्रोयणाह - तत्प्रतीति।
तादृशज्ञानविषयकार्यत्वादिप्रतिपादकलिङादिरित्यर्थः।
लिङादिरित्यादिना लोट्तव्यादिसङ्ग्रहः। वाकारो ऽनास्थायाम्।
गुरुमतमाशङ्कते -- कृत्यसाध्य इति। कृत्यसाध्यत्वेनावगत
इत्यर्थः। प्रवर्तकमिति। चिकीर्षाद्वारा प्रवृत्तिजनकमित्यर्थः। न च
कृत्यसाध्यत्वज्ञानाभाव एव प्रवर्तको ऽस्त्विति शङ्क्यम्,
कृत्यसाध्यत्वज्ञानाभावत्वेन तत्त्वे गौरवात्।
कृतिसाध्यत्वाभावकृतिसाध्यभेदतत्तद्व्याप्यादिदर्शनानां प्रवृत्तौ
प्रतिबन्धकत्वकल्पनेन महागौरवाच्च इति दिक्।
ननु विषभक्षणादौ
प्रवृत्त्यापत्तिः। कृतिसाध्यताज्ञानस्य तत्रापि सत्त्वादित्याशङ्कां
निराचष्टे -- न चेत्यादिना। इष्टसाधनतालिङ्गकेति। ऽअयम्
मत्कृतिसाध्यः, मत्कृतिं विना अनुपपद्यमानत्वे सति
मदिष्टसाधनत्वात्ऽ इत्यानुमानिकेत्यर्थः। काम्यस्थल इति।
प्रवर्तकत्वादित्यनेनान्वयः। ज्योतिष्टोमयागादावित्यर्थः।
विहितकालेत्यादि।
विहितकालशुचितीवित्वज्ञानाधीनस्य कृतिसाध्यताज्ञानस्य नित्ये
सन्ध्यावन्दनादौ, आशौचादिरूपनिमित्तज्ञानाधीनस्य तस्य नैमित्तिके
स्नानादौ प्रवर्तकत्वादित्यर्थः। ऽअहम्
एतत्कालिककृतिसाध्यसन्ध्यावन्दनकः, एतत्कालिकशुचिजीवित्वात्ऽ
इत्येवंरीत्या कृतिसाध्यत्वज्ञानस्य
विहितकालशुचिजीवित्वादिज्ञानजन्यत्वमवसेयम्।
अननुगम इति।
प्रवृत्तिसामान्यप्रयोजकस्य एकस्याभावादिति भावः।
स्वविशेषणवत्तेव्यादि। स्वं प्रवर्तमानपुरुषः, तस्य विशेषणं
तन्निष्ठो धर्मः कामनादिः, तद्वत्तायाः स्वविषयसाधनत्वादिरूपस्य
तत्सम्बन्धस्य प्रतिसन्धानं ज्ञानं तज्जन्यत्वस्येत्यर्थः। लाघवेनेति।
कारणतावच्छेदकलाघवेनेत्यर्थः। तन्मते कारणतावच्छेदकस्य
जन्यत्वादिघटितत्वात् गौरवमिति भावः।
कृतिसाध्येष्टसाधनतेति। तत्र
बलबदनिष्टाननुबन्धित्वमप्यन्तर्भावनीयम्। तेन न कृतिसाध्यत्वेन
तृप्तिरूपेष्टसाधत्वेन चावगते विषसंपृक्ते भोजनादौ
प्रवृत्त्यापत्तिः। विशिष्टज्ञानत्वावच्छिन्नस्य कारणत्वकथनं तु प्राचां
मतेन। नव्यमते कृतिसाध्यत्वादिज्ञानानां पृथगेव
दण्डचक्रादिन्यायेनन कारणत्वात्। प्रयत्नेति। प्रवृत्तीत्यर्थः।
प्रत्यवायेति। प्रत्यवायस्य परिहारः प्रागभावः, तस्य
दुःखजनकाभावतया तन्नाशस्यैव इष्टत्वेन फलत्वमिति भावः। न च
कथं तत्प्रागभावस्य फलत्वं तस्याजन्यत्वादिति वाच्यम्; यत्सत्त्वे
यत्सत्त्वमिति व्यवहारलभ्यस्य स्वरूपसंबन्धरूपस्य
सन्ध्यावन्दनप्रयोज्यत्वस्य तत्र सत्त्वेन फलत्वाक्षतेरित्यवधेयम्।
बालप्रिया
मूलन्यूनतां
परिहर्तुमिति। न च विध्यनिरूपणेन कथं मूलस्य न्यूनता, सप्तानां
षोडशानां वा पदार्थानां निरूपणेनैव ऽक्रियते तर्कसंग्रहःऽ इति
प्रतिज्ञायाः निरूढत्वादिति वाच्यम्। सर्वप्रमेयसंग्राहके ऽत्र
मण्यादिग्रन्थेषु विस्तरेण निरूपितस्य विधेरनिरूपणे
न्यूनतैवेत्याशयात्। प्रयत्नजनिकेत्यादि। प्रवृत्तिरूपप्रयत्नं प्रति
ऽइदं कुर्याम्ऽ इत्याकारिका चिकीर्षा कारणम्। चिकीर्षां प्रति
गुरुमते ऽइदं मत्कृतिसाध्यम्ऽ इत्याकारकं कृतिसाध्यताज्ञानं
कारणम्। नैयायिकमते ऽइदं मत्कृतिसाध्यत्वे सति
मदिष्टसाधनम्ऽ इत्याकारकं ज्ञानं कारणम्, तद्विषयत्वं
कृतिसाध्यत्वे, कृतिसाध्यत्वविशिष्टेष्टसाधनत्वे चास्तीति
विधिलक्षणस्य तयोः समन्वय इत्यर्थः। अभिधायकस्येति।
विधिवाचकस्य लिङादेरपि विधिशब्दवाच्यत्वमिति
मताभिप्रायेणेत्यर्थः। तथा च वात्स्यायनभाष्यम् --"यद्वाक्यं विधायकं चोदकं स विधिः" [न्याण्सू-2-9-63] इति"यद्वाक्यं विधायकं देशकं स
विधिः"इति तत्र वार्तिकम्। वाकारो ऽनास्थायामिति।
विधिनिमन्त्रणेत्यादिपाणिनिसूत्रस्वारस्यात् लिङाद्यभिधेये एव
विधिशब्दः प्रवर्तते, न
त्वभिधायके
इत्यवगमात् इति भावः। ऽननु कृत्यसाध्ये प्रवृत्त्यदर्शनात्ऽ
इति दीपिकोक्तमयुक्तम्। कृत्यसाध्ये ऽपि कृतिसाध्यताभ्रमेण
प्रवृत्तिदर्शनादित्यत आह -- कृत्यसाध्यत्वेनावगत इत्यर्थ इति।
कृत्यसाध्ये कृतिसाध्यत्वभ्रमात् प्रवृत्तावपि कृत्यसाध्यत्वज्ञाने सति
न प्रवृत्तिः अतः नासङ्गतिरिति भावः। ननु प्रवृत्तिं प्रति चिकीर्षाया
एव कारणत्वात् कृतिसाध्यताज्ञानं प्रवर्तकमिति न सङ्गतमित्यत
आह -- चिकीर्षाद्वारा प्रवृत्तिजनकमित्यर्थ इति। न च
कृत्यसाध्यत्वेति। कृत्यसाध्यत्वज्ञानकाले प्रवृत्तिवारणाय हि
कृतिसाध्यताज्ञानस्य प्रवृत्तिहेतुत्वमुक्तम्। प्रवृत्तिं प्रति
कृत्यसाध्ताज्ञानाभावः कारणमित्युक्त्यैव कृत्यसाध्यत्वज्ञानकाले
प्रवृत्तिवरियितुं शक्यते। न च लाघवानवकाश इति वाच्यम्।
प्रतिबन्धकाभावस्य कार्यसामान्ये कारणतायाः कॢप्तत्वात्
कृत्यसाध्यताज्ञानाभावस्य कारणत्वं न कल्पनीयम् इति लाघवम्,
कृतिसाध्यताज्ञानस्य तु अकॢप्तं कारणत्वं कल्पनीयम् इति
गौरवमिति शङ्कितुराशयात्। समाधत्ते --
कृत्यसाध्यताज्ञानाभावत्वेनेति। कृतिसाध्यताज्ञानत्वापेक्षया
कृत्यसाध्यताज्ञानाभावत्वस्य कारणतावच्छेदकस्य गुरुत्वादित्यर्थः।
कृतिसाध्यत्वाभावेति। प्रवृत्तिं प्रति कृतिसाध्यत्वाभावज्ञानस्य
कृतिसाध्यभेदज्ञानस्य कृतिसाध्यत्वाभावव्याप्यवत्ताज्ञानस्य
कृतिसाध्यभेदव्याप्यवत्ताज्ञानस्य च प्रतिबन्धकत्वात् तेषां ये ऽभावाः
तेषां अपि कारणत्वं वक्तव्यमिति महागौरवम्। तदपेक्षया
कृतिसाध्यताज्ञानस्यैकस्य कारणत्वे लाघवमिति भावः।
दीपिकायाम्
इष्टसाधनतालिङ्गकेत्यादि। काम्यकर्मसु प्रवृत्तिं प्रति
इष्टसाधनत्वलिङ्गककृतिसाध्यत्वविधेयकानुमित्यात्मकं
कृतिसाध्यत्वज्ञानं हेतुः। ऽइदव ज्योतिष्टोमादिरूपं काम्यकर्म
मत्कृतिसाध्यम् मत्कृतिं विना असत्त्वे सति मदिष्टसाधनत्वात्
यन्नैवं तन्नैवं यथा चैत्यवन्दनम्ऽ इत्यनुमानं द्रष्टव्यम्।
सन्ध्यावन्दनादिनित्यनैमित्तिककर्मसु प्रवृत्तिं प्रति
निमित्तरूपलिङ्गज्ञानजन्यकृतिसाध्त्वविधेयकानुमित्यात्मकं
कृतिसाध्यताज्ञानं कारणम्। विहितकाले शुचित्वे सति जीवित्वं
सन्ध्यावन्दनादिनित्यकर्मसु निमित्तम्। स्नानादिरूपनैमित्तिककर्मसु
अशुचित्त्वे सति जीवित्वं निमित्तम्। तथा च तत्र ऽअहम्
इदानीन्तनकृतिसाध्यसन्ध्यावन्दनकः एतत्काले शुचित्वे सति
जीवित्वात् यो नैवम् स नैवम् यथा बौद्धःऽ, ऽअहम्
एतत्कालिककृतिसाध्यस्नानकः एतत्काले अशुचित्वे सति जीवित्वात्
यो नैवं स नैवं यथा नास्तिकः इत्यनुमानं प्रवर्तते। न च
क्वचित् इष्टसाधनतालिङ्गककृतिसाध्यताज्ञानस्य
क्वचिद्विहितकालिकशुचिजीवित्वादिलिङ्गककृतिसांध्यताज्ञानस्य च
प्रवृत्तिहेतुत्वे तयोः परस्परं विनापि प्रवृत्तेर्जायमानतया
व्यतिरेकव्यभिचारात् प्रवृत्तिसामान्यं प्रति कृतिसाध्यताज्ञानस्य
हेतुत्वं न सम्भवति, अभयसाधारणस्यैकस्य
कारणतावच्छेदकधर्मस्याभावादिति वाच्यम्।
स्वविशेषणवत्ताज्ञानजन्यत्वस्यानुगतस्य कारणतावच्छेदकस्य
सद्भावात्। स्वं प्रवर्तमानः पुरुषः तस्य विशेषणं तद्वृत्तिधर्मः
फलकामना तद्वत्त्वं तद्विषयफलसाधनत्वरूपः तत्सम्बन्धः तज्ज्ञानं
ऽकाम्यं इष्टसाधनम्ऽ इत्याकारकं तज्जन्यत्वं
इष्टसाधनतालिङ्गककृतिसाध्यताज्ञोन, एवं स्वं प्रवर्तमानपुरुषः
तद्विशेषण विहितकालिकशुचित्वविशिष्टजीवित्वम्
अशुचित्वविशिष्टजीवित्वं च तद्वत्ताज्ञानं ऽतादृशधर्मवानहम्ऽ
इत्याकारकज्ञानं तज्जन्यत्वं सन्ध्या
वन्दनस्नानादिनित्यनैमित्तिककर्मविशेष्यककृतिसाध्यताज्ञाने
निमित्तलिङ्गकानुमित्यात्मके ऽस्तीति
स्वविशेषणवत्ताज्ञानजन्यत्वस्यानुगतकारणतावच्छेदकत्वमिति भावः।
प्रकाशिकायाम् अयं
मत्कृतिसाध्य इत्यादि। अयम् काम्यः ज्योतिष्टोमादिः। अत्र हेतौ
मदिष्टसाधनत्वमात्रोपादाने मत्कृतिसाध्यत्वरूपसाध्याभाववति
वृष्ट्यादौ मदिष्टसाधनत्वरूपहेतुसत्त्वात् व्यभिचारः। तद्वारणाय
सत्यन्तम्। वृष्ट्यादेः मत्कृतिं विनापि सत्त्वात् मत्कृतिं विना असत्त्वं
नास्तीति न व्यभिचारः। अनुपपद्यमानत्वे सति इत्यस्य असत्त्वे
सतीत्यर्थः। मत्कृतिं विनेत्यत्र मत्पदानुपादाने मदिष्टसाधने
परकृतपाकादौ मत्कृतिसाध्यत्वरूपसाध्याभाववति कृतिं वना
अनुपपद्यमानत्वे सति मदिष्टसाधनत्वरूपहेतुसत्त्वात् व्यभिचारः।
तद्वारणाय तत्र मत्पदम्। परकृतपाकस्य मत्कृतिं विनापि
परकीयकृत्या उपपद्यमानतया सत्यन्ताभावात् न व्यभिचारः।
दुःखविशेषरूपे श्रमे स्वेच्छाधीनकृतिसाध्यत्वरूपसाध्याभाववति
मत्कृतिं विना असत्त्वरूपहेतुसत्त्वात् व्यभिचारः। तद्वारणाय
इष्टसाधनत्वादिति विशेष्यम्। मदीयश्रमे
मच्छत्रोरिष्टसाधनत्वात् व्यभिचारतादवस्थ्यम्। तद्वारणाय
मदिष्टसाधनत्वादिति। मदीयश्रमस्य मच्छत्र्विष्टसाधनत्वे ऽपि
मदिष्टसाधनत्वं नास्तीति न व्यभिचारः।
अत्र साध्ये कृतौ
स्वेच्छाधीनत्वं विशेषणं देयम्। अन्यथा नान्तरीयकश्रमे ऽपि
उक्तहेतुज्ञानजन्यकृतिसाध्यताज्ञानसत्त्वेन तदुद्देशेन प्रवृत्त्यापत्तेः।
स्वपदं यत्र प्रवर्तते तत्परम्। नान्तरीयकश्रमे तु न
तद्विषयकेच्छाधीनकृतिसाध्यताज्ञानमिति न तत्र प्रवृत्त्यापत्तिः। एवं च
हेतावपि मत्कृतिं विनेत्यत्रापि कृतौ स्वेच्छाधीनत्वं विशेषणं
देयम्। अन्यथा अन्येच्छाधीनमत्कृतिसाध्ये मदिष्टसाधने
नान्तरीयकजलसंयोगादौ व्यभिचारापत्तेः। न चैवं सति
नान्तरीयकश्रमे स्वेच्छाधीनमत्कृतिं विना सत्त्वेन सत्यन्ताभावादेव
व्यभिचारवारणसम्भवे इष्टसाधनत्वादिति विशेष्यदलवैयर्थ्यम्
इति वाच्यम्। इष्टापत्तेः। अस्य हेत्वन्तरत्वात् न दोष इति
वदन्ति। विहितकालशुचिजीवित्वज्ञानाधीनस्येति। विहितकालिकं
यत् शुचित्वविशिष्टजीवित्वं तद्विषयकज्ञानजन्यस्येत्यर्थः।
आशौचम्। अशुचित्वम्। तस्य कृतिसाध्यताज्ञानस्य।
प्रवृत्तिसामान्यप्रयोजकस्येति।
प्रवृत्तित्वावच्छिन्नकार्यतानिरूपितकारणतावच्छेदकस्येत्यर्थः।
कारणतावच्छेदकलाघवेनेत्यर्थ इति।
स्वविशेषणवत्ताज्ञानजन्यत्वापेक्षया
कृतिसाध्यत्वविशिष्टेष्टसाधनत्वज्ञानत्वरूपस्य कारणतावच्छेदकस्य
लघुत्वेनेत्यर्थः। लघुत्वमेवोपपादयति --- तन्मत इति। गुरुमत
इत्यर्थः। जन्यत्वादिघटितत्वादित्यत्र आदिपदेन कार्यताज्ञानत्वं
परामृश्यते। तथा हि -- स्वविशेषणवत्ताज्ञानजन्यत्वमात्रं न
प्रवृत्तिकारणतावच्छेदकम्, तादृशज्ञानविषयकानुव्यवसायस्यापि
तज्जन्यत्वेन प्रवृत्तिं प्रति कारणत्वापत्तेः। अपि तु
स्वविशेषणवत्ताज्ञानजन्यकृतिसाध्यताज्ञानत्वेनैव कारणत्वं वाच्यम्।
तत्र च नियमघटितजन्यत्वस्य कृतिसाध्ताज्ञानत्वस्य च प्रवेशात्
गौरवमिति भावः।
ननु
कृतिसाध्यत्वविशिष्टेष्टसाधनत्वप्रकारकज्ञानस्य प्रवृत्तिहेतुत्वे
मधुविषसम्पृक्तान्नभोजने ऽपि इदं मत्कृतिसाध्यत्वे सति
मत्तृप्तिरूपेष्टसाधनमिति ज्ञानसत्त्वात् प्रवृत्त्यापत्तिरित्यत आह - अत्र
बलवदनिष्टेति। तथा च
बलवदनिष्टाजनकत्वविशिष्टकृतिसाध्यत्वविशिष्टेष्टसाधनत्वप्रकारकज्ञानं
प्रवृत्तिहेतुः। मधुविषसम्पृक्तान्नभोजने तु तत्काले
तृप्तिरूपेष्टसाधनत्वे ऽपि कालान्तरे
मरणरूपबलवदनिष्टसाधनमितिज्ञानस्यैव सत्त्वेन तत्र न प्रवृत्तिरिति
भावः। बलवदनिष्टाननुबन्धित्वं नाम
इष्टोत्पत्तिनान्तरीयकदुःखाधिकदुःखाजनकत्वम्।
बलवद्द्वेषविषयदुःखाजनकत्वं वा। ननु
बलवदनिष्टाजनकत्वविशिष्टकृतिसाध्यत्वविशिष्टेसाधनताज्ञानस्य
कारणत्वे बलवदनिष्टाजनकत्वादीनां विशेष्यविशेषणभावे
विनिगमनाविरहात् गुरुभूताः अनेके कार्यकारणभावाः प्रसज्यन्त
इति कथं तत्कारणत्वं दीपिकाकारेणोक्तमित्याशङ्क्य
प्राचीनमतानुसारेण तथोक्तमित्याह - विशिष्टज्ञानत्वावच्छिन्न्स्येति।
नव्यमत इति। पूर्वोक्तास्वारस्यात् न विशिष्टज्ञानत्वावच्छिन्नस्य
कारणत्वम्। किन्तु बलवदनिष्टाननुबन्धित्वज्ञानत्वावच्छिन्नस्य
कृतिसाध्यताज्ञानत्वावच्छिन्नस्य इष्टसाधनताज्ञानत्वावच्छिन्नस्य च
पृथगेव कारणत्वम्। यथा दण्डचक्रादीनां घटं प्रति
दण्डत्वचक्तत्वादिना पृथगेव कारणत्वम् न तु
दण्डविशिष्टचक्रत्वादिना तद्वदिति भावः।निष्फले प्रवृत्त्यभावात्
इष्टसाधनताज्ञानस्यैष्टसाधनत्वेन ज्ञायमाने ऽपि
मधुविषसम्पृक्तान्नभोजने अप्रवृत्तेः बलवदनिष्टाननुबन्धित्वज्ञानस्य,
कृत्यसाध्ये सुमेरुशृङ्गानयनादौ प्रवृत्त्यभावात्
कृतिसाध्यताज्ञानस्य चेति त्रयाणामपि प्रवृत्तिहेतुत्वमावश्यकमिति
भावः। निवृत्त्यात्मकप्रयत्नव्यावर्तनायोक्तम् प्रवृत्तीत्यर्थ इति। न
हि निवृत्तिरूपयत्नं प्रति कृतिसाध्येष्टसाधनताज्ञानस्य हेतुत्वमिति
भावः। दुःखजनकाभावतयेति।
दुःखजनकप्रतियोगिकाभावतयेत्यर्थः। प्रत्यवायस्य दुःखजनकतया
तदभावस्य दुःखजनकाभावत्वम्। स्वरूपसम्बन्धरूपस्येति। सिद्धस्य
संरक्षणरूपो यः तत्कारणत्वमत्र विवक्षितम्। अतः
प्रत्यवायप्रागभावसत्तारूपः क्षेमः सन्ध्यावन्दन प्रयोज्यत्वेनाभिमत
इति भावः।
दीपिका
अपूर्वस्य
लिर्ङ्थत्वखण्डनम्
ननु
ऽज्योतिष्टोमेन स्वर्गकामो यजेतऽ इत्यत्र लिङास्वर्गसाधनमपूर्वं
कार्यं प्रतीयते। यागस्य आशुतरविनाशिनः
कालान्तरभाविस्वर्गसाधनत्वायोगात् तद्योग्यं स्थायि
कार्यंमपूर्वमेव लिङाद्यर्थः। कार्यं कृतिसाध्यम्। कृतेः
सविषयत्वात् विषयाकाङ्क्षायां यागो विषयत्वेनान्वेति। ऽकस्य
कार्यम्ऽ इति नियोज्याकाङ्क्षायां स्वर्गकामपदं
नियोज्यपरतयान्वेति। कार्यबाद्धा नियोज्यः। तेन
ऽज्योतिष्टोमनामकयागविषयकम् स्वर्गकामस्य कार्यम्ऽ इति
वाक्यार्थः सम्पद्यते। वैदिकलिङ्त्वात् ऽयावज्जीवमग्निहोत्रं
जुहुयात्ऽ इति नित्यवाक्ये ऽप्यपूर्वमेव
वाच्यम् कल्प्यते।
ऽआरोग्यकामो भेषजपानम् कुर्यात्ऽ इत्यादि लौकिकलिङ्ः
क्रियाकार्यें लक्षणा इति चेत् - न।
यागस्याप्ययोग्यतानिश्चयाभावेन इष्टसाधनतया प्रतीत्यनन्तरं
तन्निर्वाहार्थम् अवान्तरव्यापारतया अपूर्वकल्पनात्। कीर्तनादिना
नाशश्रुतेः न यागध्वंसो व्यापारः।
प्रकाशिका
लिङादेः कार्य एव
शक्तिरिति गुरुमतं आशङ्कते - नन्विति। इच्छाविशेषरूपस्य
यागस्य आशुतरविनाशिनः स्वर्गसाधनत्वेन भानं न सम्भवति,
अयोग्यत्वादित्यपूर्वरूप एव कार्ये शक्तिरङ्गीकार्येत्याह -
यागस्येति। आशुतरविनाशिनः - तृतीयक्षणवृत्तिध्वंसप्रतियोगिनः।
स्थायि - फलपर्यन्तस्थायि। अन्वयप्रकारं दर्शयति - कार्यं
कृतिसाध्यमिति। यागे कृतिसाध्यत्वं साक्षात्। अपूर्वं तु
यागद्वारेति बोध्यम्। कार्यबोद्धेति। इदम् मत्कृतिसाध्यमिति
ज्ञानवानित्यर्थः। विध्यर्थमुख्यविशेष्यकं शाब्दबोधं दर्शयति -
तेनेति। स्वर्गकामस्य लिङर्थे कार्ये तदेकदेशे च यागस्य
अन्वयेनेत्यर्थः। न्यायमते तु तत्र
ऽकृतिसाध्यबलवदनिष्टाजनकेष्टसाधनयागानुकूलकृतिमान्
स्वर्गकामःऽ इति वाक्यार्थबोधः। ननु अपूर्वस्य
पूर्वमुनपस्थितत्वात् कथं तत्र शक्तिग्रह इति चेत्, अत्र प्रवदन्ति
अभिज्ञाः - तन्मते तद्धर्मावच्छिन्नविषयकशाब्दबोधं प्रति
तद्धर्मावच्छिन्नविषयकशक्तिग्रहस्य तादृशोपस्थितेश्च हेतुता, न तु
समानविषयकत्वेन हेतुहेतुमद्भावः। एवं च कार्यत्वावच्छिन्ने यत्र
कुत्रचित् शक्तिग्रहः। योग्यताबलाच्च अपर्वूरूपकार्यस्य शाब्दबोधे
भानं, न हि यागविषयकमन्यत्कार्यं सम्भवतीति। ननु नित्ये
फलाभावात् कथं तत्र अपूर्वबोधकता इत्यत आह - यावज्जीवमिति।
अपूर्वमेवेति। कार्यत्वेनेत्यादिः। पण्डापूर्वमित्यर्थः। लौकिकस्थले
अपूर्वभानासम्भवादाह - आरोग्येति। क्रियाकार्य इति।
धात्वर्थनिष्ठकार्यत्व इत्यर्थः। लौकिकालौकिकसाधारण्येन
कार्यत्वादावेव लिङादेः शक्तिरङ्गीकार्येत्याशयेन समाधत्ते -
यागस्येति। अयोग्यत्वात् यागस्य स्वर्गसाधनत्वेन भानं न
सम्भवतीत्युक्तदोषं निराच्ष्टे - अयोग्येति। अयोग्यतासंशयसत्त्वे ऽपि
तस्याविघटकत्वात् शाब्दबोधो भवत्येवेति भावः।
वाक्यादिष्टसाधनत्वेन योगे ऽवगते
तस्याशुतरविनाशिनः
व्यापारं विना फलजनकत्वासम्भवात् तन्निर्वाहाय अपर्वूं कल्प्यत
इत्याह - तन्निर्वाहार्थमिति। ननु यागध्वंसस्यैव व्यापारत्वमस्तु
किमपूर्वकल्पनेनेत्यत आह-कीर्तनादिनेति। आदिना
"कर्मनाशाजलस्पर्शात्करतोयाविलङ्घनात्।
गण्डकीबाहुतरणात्
धर्मः क्षरति कीर्तनात्॥"
इत्यत्रोक्तकर्मनाशाजलस्पर्शादिपरिग्रहः। ध्वंसस्य
व्यापारत्वे स्वर्गधारापत्तिरित्यपि दूषणान्तरं विभावनीयम्।
कर्मनाशा, करतोया, गण्डकी इति नदीविशेषाः।
बालप्रिया
मूले अपूर्वं कार्यं
प्रतीयत इति। अपूर्वं कार्यत्वेन प्रतीयत इत्यर्थः। लिङो हि
कार्यत्वावच्छिन्ने शक्तिः। प्रकाशिकायाम् अयोग्यत्वादिति।
स्वर्गसाधनत्वान्वययोग्यताविरहादित्यर्थः।
द्वितीयक्षणवृत्तिध्वंसप्रतियोगित्वरूपस्य क्षणिकत्वस्य
बौद्धेरेवाङ्गीकारादाह-तृतीयक्षणेति।
मासादिपर्यन्तस्थायित्वस्यानुपयोगादाह - फलपर्यन्तस्थायीति।
स्वर्गोत्पत्तिपर्यन्तं वर्तमानमित्यर्थः। विध्यर्थमुख्यविशेष्यकमिति।
लिङर्थकार्यमुख्यविशेष्यकमित्यर्थः। स्वर्गकामस्येत्यादि। लिङः
कृतिसाध्यमित्यर्थः। कृतौ स्वर्गकामस्य समवेतात्वसम्बन्धेनान्वयः,
विषयतासम्बन्धेन यागस्यान्वयः। तथा च स्वर्गकामसमवेता
यागविषयिणी या कृतिः तत्साध्यम् (अपूर्वम्) इत्याकारको बोध
इत्याशयः। स्वर्गङ्कामस्य कार्ये ऽन्वय इत्युक्तावपि
प्राप्ताप्राप्तविवेकेन कृतावन्वय एव विवक्षितः। तदेकदेश इति।
कार्यैकदेशे कृतावित्यर्थः। न्यायमते त्विति। तन्मते लिङ्त्वेन
रूपेण लिङा कृतिसाध्यत्वं बलवदनिष्टाजनकत्वं इष्टसाधनत्वं च
अभिधीयते। आख्यातत्वेन रूपेण कृतिरभिधीयते कृतिसाध्यत्वादीनां
त्रयाणां धात्वर्थे योगे आश्रयतासम्बन्धेनान्वयः।
यागस्यानुकूलतासम्बन्धेन आख्यातार्थकृतावन्वयः।
कृतेराश्रयतासम्बन्धेन प्रथमान्तार्थे स्वर्गकामे ऽन्वयः। तथा च
कृतिसाध्यत्व-बलवदनिष्टजनकत्व-इष्टसाधनत्वाश्रय-यागानुकूलकृतिमान्
स्वर्गकाम इति बोधः। न तु समानविषयकत्वेनेति।
तद्धर्मावच्छिन्नतद्विषयकशाब्दबोधं प्रति
तद्धर्मावच्छिन्नातद्विषयकशक्तिज्ञानस्य
तद्धर्मावच्छिन्नतद्विषयकोपस्थितेश्च हेतुतेति नेत्यर्थः। यत्र
कुत्रचिदिति। यागादिक्रियायामित्यर्थः। योग्यताबलादिति।
स्वर्गसाधनत्वान्वययोग्यताबलादित्यर्थः। पण्डापूर्वमिति।
निष्फलमपूर्वं पण्डापूर्वमित्युच्यते।
नित्यस्थले तस्य स्वतः
प्रयोजनत्वं प्राभाकरेरुच्यते। क्रियारूपस्य कार्यस्य धातुनैव
लाभात् तत्र लक्षणोक्तिरसङ्गतेत्यत आह - धात्वर्थनिष्ठकार्यत्व
इति। कार्यशक्तस्य लिङः तत्र कार्यत्वे लक्षणेत्यथेः।
ऽभेषजपानरूपक्रियाजन्ये
आरोग्यसाधनभेषजप्रतियोगिनाडीनिष्ठविलक्षणसंयोगे
लक्षणेत्यर्थःऽ इति नृसिंहशास्त्रिणः प्राहुः।
वाक्यादिष्टसाधनत्वेनेत्यादि। ऽज्योतिष्टोमेव स्वर्गकामो यजेतऽ
इति वाक्यात् ऽज्योतिष्टोमयागः स्वर्गंसाधनम्ऽ इति
शाब्दबोधः आदौ जायते। तदनन्तरं द्विक्षणावस्थायिनो यागस्य
श्रुतिबोधितं स्वर्गसाधनत्वं अनुपपन्नमित्यनुपपत्तिप्रतिसन्धानात्
कल्पितस्य अपूर्वस्य प्रथमोत्पन्नशाब्दबोधाविषयतया अपूर्वस्य
लिङर्थत्वं न सम्भवतीति तात्पर्यम्। कर्मनाशेति। कर्मनाशा,
करतोया, गण्डकी, इति नदीविशेषाणां संज्ञाः।
दीपिका
आख्यातस्य
यत्नार्थकत्वस्थापनम्
लोकव्युत्पत्तिबलात् क्रियायामेव कृतिसाध्येष्टसाधनत्वं
लिङा बोध्यत इति लिङत्वेन विध्यर्थकत्वम्, आख्यातत्वेन
यत्नार्थकत्वम्। पचति पाकं करोतीति विवरणदर्शनात्, किं
करोति इति प्रश्ने पचतीत्युत्तराच्च आख्यातस्य
प्रयत्नार्थकत्वनिश्चयात्। रथो गच्छतीत्यादौ अनुकूलव्यापारे
लक्षणा। ऽदेवदत्तः पचितऽ, ऽदेवदत्तेन पच्यते तण्डुलःऽ इत्यादौ
कर्तृकर्मणोः नाख्यातार्थत्वम्। किन्तु तद्गतैकत्वादीनामेव।
तयोराक्षेपादेव लाभः।
प्रकाशिका
लोकव्युत्पत्तीति।
लोकव्यवहारेत्यर्थः। स च यो यत्र प्रवर्तते स
कृतिसाध्यत्वेनेष्टसाधनत्वेन च तज्ज्ञानवानित्येवंरूपः। केचित्तु
यदिच्छया यत्र प्रवृत्तिः तत्तत्साधनमिति लोकव्यवहार इत्याहुः।
नव्याः पुनः लोके पचेतेत्यादिलिङादिसमभिव्याहारस्थले
क्रियायामेव कृतिसाध्यत्वविशिष्टेसाधनत्वबोध इति
नियमबलादिति तदर्थः। सर्वत्रेति शेष इति व्याचख्युः।
आख्यातत्वेनेति। तच्च सङ्केतसम्बन्धेनाख्यातपदवत्त्वं
तिप्त्वादिकमेव शक्ततावच्छेदकमिति तु नव्याः। यत्नार्थकत्वम् -
कृतित्वावच्छिन्नवाचकत्वम्। किं करोतीति। कृतित्वावच्छिन्ने
जिज्ञासितसम्बन्धबोधकत्व एव
तन्निवर्तकत्वं
नान्यथेति भावः। ननु रथो गच्छति इत्यादौ आख्यातस्य
कृतिबोधकत्वासम्भवात् तदनुरोधेन व्यापार एव शक्तिः
वक्तव्येत्यत आह - रथो गच्छतीत्यादाविति। व्यापारे
अनुकूलत्वोत्कीर्तनं तु तेन सम्बन्धेन व्यापारे
गमनस्यान्वयलाभाय। नव्याः पुनः गच्छतीत्यत्र आख्यातस्य
जानातीत्यादाविव आश्रयत्वे निरूढलक्षणा। न चाश्रयतासम्बन्धेनैव
प्रथमान्तार्थे गमनादेरन्वयेन निर्वाहे आश्रयत्वे निरूढलक्षणाकल्पनं
निरर्थकमिति। वाच्यम्। नामार्थयोरिव
धात्वर्थनामार्थयोरभेदातिरिक्तसम्बन्धेनान्वयस्याव्युत्पन्नत्वात् तत्र
तथान्वयासम्भवात्। स्तोकं पचतीत्यादौ स्तोकादेः धात्वर्थे
पोके ऽन्वयात् अभेदातिरिक्तेति ध्येयम्। वैयाकरणमतं निराचष्टे
- देवदत्त इति। नाख्यातार्थत्वमिति। आख्यातस्य कर्त्रादौ
शक्तिस्वीकारे ऽनन्तकृत्यादेः शक्यतावच्छेदकत्वमङ्गीकर्तव्यम्।
कृत्यादौ शक्तिस्वीकारे तु कृतित्वादिजातेः शक्यतावच्छेदकत्वात्
लाघवमिति भावः। तद्गतैकत्वादीनामेवेति। आख्यातार्थत्वमिति
पूर्वेणान्वयः। आदिना कृत्यादिपरिग्रहः। ननु तर्हि कर्तृकर्मणोः
कथं लाभ इत्यत आह - तयोरिति। आक्षेपादेवेति। परमतेन।
स्वमते तु प्रथमन्तपदेनैव तल्लाभात्। ऽदेवदत्तः तण्डुलं पचतिऽ
इत्यत्र ऽतण्डुलकर्मकपाकानुकूलकृतिमान् देवदत्तःऽ
इत्यन्वयबोधः। ऽदेवदत्तेन पच्यते तण्डुलऽ इत्यत्र तु
ऽदेवदत्तसमवेतकृतिजन्यपाककर्मीभूतस्तण्डुलःऽ इति शाब्दबोधः।
न च ऽदेवदत्तः पचतिऽ इत्यत्र तृतीया, ऽतण्डुलः पच्यतेऽ इत्यत्र
च द्वितीया स्यात्। तत्र कर्तृकर्मणोः आख्यातेनानभिधानादिति
वाच्यम्। अनभिहिते कर्तृत्वे तृतीयायाः तादृशे च कर्मत्वे
द्वितीयाया विधानेनादोषादिति ध्येयम्।
बालप्रिया
यो यत्रेति। यः
पुरुषः यत्र यागादौ प्रवर्तते स पुरुषः
कृतिसाध्यत्व-इष्टसाधनत्वप्रकारकयागविशेष्यकज्ञानवानित्येवंरूपात्
लोकव्यवहारात् यागादिक्रियायामेव लिङा
कृतिसाध्यत्क्मिष्टसाधनत्वं चावगम्यत इत्यर्थः। व्यवहारपरतया
व्युत्पत्तिपदं व्याख्याय, नियमपरतया व्युत्पत्तिपदं व्याचक्षाणानां
नव्यानां मतमाह - नव्याः पनुरिति। तच्च सङ्केतसंबन्धेनेति।
आख्यातपदस्य यत्र तिबादौ पाणिन्यादीनां इच्छाविशेषात्मकः
सङ्केतो ऽस्ति स तिबादिः सङ्केतसंबन्धेन आख्यातपदवान्।
आख्यातपदवत्त्वं
तिबादिनिष्ठम्। तत्
शक्ततावच्छेदकमित्यर्थः। यथा तिबादिषु अष्टादशसु आख्यातपदस्य
पाणिनेरन्यस्य वा सङ्केतः तथा शब्दान्तरसंकेतस्यापि
अन्यपुरुषीयस्य सम्भवात् तत्तच्छब्दवत्त्वस्यापि विनिगमनाविरहेण
शक्ततावच्छेदकत्वं स्यादित्यालोच्य नवीनाः तिप्त्वादिकमेव
कृतिशक्ततावच्छेदकमित्याहुः। तन्मतमाह - तिप्त्वादिकमेवेति। अत्र
"तिबोदेरेव यत्र वाचकताग्रहः तदनुरोधेन
पचतीत्याद्यानुपूर्वीज्ञानस्य तिबादिजन्योपस्थितिसहकारेण
शाब्दबोधोपधायकताकल्पनस्य आवश्यकतया तिबादेरेव ताद्रूप्येण
शक्तताकल्पनायाः उचितत्वम्"इति व्युत्पत्तिवादग्रन्थो ऽनुसन्धेयः।
कर्त्रर्थकत्वापेक्षया यत्नार्थकत्वे शक्यतावच्छेदकलाघवमस्तीति
सूचनाय कृतित्वावच्छिन्नवाचकत्वं इत्युक्तम्। दीपिकायां पचति
पाकं करोतीति। तत्समानार्थकपदान्तरेण तदर्थकथनं विवरणम्।
ऽपचतिऽ इति विवरणीयपदे पच् ति इति भागद्वयमस्ति। ऽपाकं
करोतिऽ इति विवरणवाक्ये ऽपाकम्ऽ इत्यनेन धातोः
विवरणम्, ऽकरोतिऽ इत्यनेन ऽतिऽ इत्याख्यातस्य विवरणम्।
यत्नः कृधातोरर्थः। तथा च करोतिना विवरणात् आख्यातस्य
यत्नार्थकत्वम्। एवं ऽकिं करोतिऽ इति प्रश्नस्य पचति इत्युत्तरं
दीयते। तत्र प्रश्नवाक्ये किं शब्दस्य जिज्ञासाविषयधर्मावच्छिन्नोर्ऽथः।
द्वितीयायाः विषयत्वमर्थः। तत्राधेयतासम्बन्धेन किंपदार्थस्यान्वयः।
विषयत्वस्य निरूपकतासम्बन्धेन कृतावन्वयः। तथा च
जिज्ञासाविषयधर्मवच्छिन्ननिष्ठविषयतानिरूपककृतिरिति बोधो
जायते। ऽपचतिऽ इति वाक्येन पाकनिष्ठविषयतानिरूपककृतिरिति
बोधो भवति। तथा च जिज्ञासितधर्मावच्छिन्नविषयककृतिवाचकस्य
प्रश्नस्य विशेषधर्मावच्छिन्नविषयकयत्नवाचकशब्द एवोत्तरं
भवितुमर्हतीति आख्यातस्य यत्नवाचकत्वमिति भावः। प्रकाशिकायाम्
जिज्ञासितसम्बन्धबोधकमिति।
जिज्ञासाविषयधर्मावच्छिन्नप्रतियोगिकविषयत्वरूपसम्बन्धबोधकम् इत्यर्थः।
पाकसम्बन्धबोधकत्व इति। पाकविषयकत्वबोधकत्व इत्यर्थः।
तन्निवर्तकत्वमिति। जिज्ञासानिवर्तकत्वमित्यर्थः।
कृतिबोधकत्वासम्भवादिति। अचेतने रथे
यत्नरूपकृतेर्बाधितत्वादिति भावः। ननु रथो गच्छतीत्यादौ
आख्यातस्यानुकूलव्यापारे लक्षणेत्युक्तिर्न युक्ता। अनुकूलत्वस्य
संसर्गतया भानसम्भवेन तदंशे शब्दवृत्तेरनावश्यकत्वात्
व्यापारमात्रे लक्षणायाः वक्तुमुचितत्वादित्याशङ्क्य दीपिकाया अपि
तथैव तात्पर्यमित्याह - व्यापारे अनुकूलत्वोत्कीर्तनमिति। नव्याः
पुनरिति। दीघितिकारादयः इत्यर्थः। मणिकृन्मतमाशङ्कते - न
चाश्रयतासम्बन्धेनैवेति। अव्युत्पन्नत्वादिति। अन्यथा ऽचैत्रः पच्यतेऽ
इत्यत्र धात्वर्थपाकस्य कर्तृतासम्बन्धेन चैत्रे, तण्डुलः
पचतीत्यादौ कर्मतासम्बन्धेन तण्डुलस्य धात्वर्थे
पाके ऽन्वयापत्तरिति भावः।
वैयाकरणमतमिति।
ऽदेवदत्तः तण्डुलं पचतिऽ इत्यत्र तण्डुलपदोत्तरद्वितीयायाः कर्म
अर्थः तत्राभेदेन तण्डुलस्यान्वयः। कर्मणः
स्वनिंष्ठकर्मतानिरूपकत्वसम्बन्धेन धात्वर्थे पाके ऽन्वयः। ऽपचतिऽ
इत्यत्र तिपः कर्ता अर्थः। तत्र देवदत्तस्याभेदेनान्वयः। कर्तुः
धात्वर्थपाके स्वनिष्ठकर्तृतानिरूपकत्वसम्बन्धेनान्वयः। तथा च
देवदत्ताभिन्नकर्तृकः तण्डुलाभिन्नकर्मकः पाकः इति
धात्वर्थमुख्यविशेष्यको बोधः। देवदत्तेन पच्यते तण्डुलः इत्यत्र
तृतीयायाः कर्ता अर्थः। तत्र देवदत्तस्य अभेदेनान्वयः, कर्तुश्च
पाके ऽन्वयः। आख्यातस्य कर्म अर्थः तत्र तण्डुलस्याभेदेन कर्मणश्च
धात्वर्थे ऽन्वयः। देवदत्ताभिन्नकर्तृकः तण्डुलाभिन्नकर्मकः पाक इति
शाब्दबोधः।
नैयायिकमते तु
देवदत्तः तण्डुलं पचति इत्यत्र द्वितीयायाः कर्मत्वमर्थः।
तत्राधेयतासम्बन्धेन तण्डुलस्यान्वयः। कर्मत्वस्य निरूपकतासम्बन्धेन
धात्वर्थे पाके ऽन्वयः। आख्यातस्य कृतिरर्थः। तत्रानुकूलतासम्बन्धेन
धात्वर्थपाकस्यान्वयः। कृतेराश्रयतासम्बन्धेन देवदत्ते ऽन्वय इति
तण्डुलनिष्ठकर्मतानिरूपकपाकानुकूलकृतिमान् देवदत्त इति
प्रथमान्तार्थमुख्यविशेष्यको बोधः। देवदत्तेन पच्यते तण्डुल
इत्यत्र तृतीयायाः कृतिरर्थः। तत्र देवदत्तस्य समवायेनान्वयः।
कृतेर्जन्यतासम्बन्धेन धात्वर्थपाके ऽन्वयः। आख्यातस्य कर्मत्वमर्थः।
तत्र निरूपितत्वसम्बन्धेन पाकस्यान्वयः। कर्मत्वस्याश्रयतासम्बन्धेन
प्रथमान्तार्थे तण्डुले ऽन्वय इति
देवदत्तसमेवतकृतिजन्यपाकनिरूपितकर्मतावान् तण्डुल इति
बोधः।
भाट्टमीमांसकानां
मते देवदत्तः ओदनं पचति इत्यत्राख्यातस्य कृतिरूपा भावना
अर्थः। ओदनपदोत्तरद्वितीयायाः अखण्डोपाधिरूपं कर्मत्वमर्थः।
तत्राधेयतासम्बन्धेन तण्डुलस्यान्वयः। कर्मत्वस्य
स्वनिरूपकधात्वर्थपाकानुकूलत्वसम्बन्धेन आख्यातार्थकृतावन्वयः।
देवदत्तस्यापि तत्रैवान्वयः। धात्वर्थपाकस्य
करणत्वसम्बन्धेन
कृतावन्वयः। स्वनिष्ठकरणतानिरूपकौदनोद्देश्यकत्वसम्बन्धेन
पाकस्य कृतावन्वय इति पर्यवस्यति। तथा च देवदत्तसमवेता
तण्डुलकर्मकपाकानुकूला पाककरणिका कृतिरिति बोधः। ऐतेषां
मते आख्यातर्थकृतिः शाब्दबोधे मुख्यविशेष्यतया भासते। पाकस्य
कृतौ करणत्वं च कृतिं प्रति उद्देश्यभूतौदनकरणत्वात्। यत्र तु
द्वितीयान्तं विना पचति इत्येतावन्मात्रमुक्तम् तत्र धात्वर्थपाकस्य
कर्मतासम्बनधेन कृतावन्वयः। देवदत्तसमवेता पाककर्मिका
कृतिरिति बोधः। चैत्रेण ओदनः पच्यते इत्यत्रापि तृतीयायाः
कर्तृत्वमर्थः। तस्य स्वनिरूपकपाकानुकूलत्वसम्बन्धेन
आख्यातार्थकृतावन्वयः। धात्वर्थस्य पाकस्य
स्वकरणकौदनोद्देश्यकत्वसम्बन्धेन कृतावन्वयः। आख्यातस्य तत्र
कर्मत्वं भावना चार्थः। कर्मत्वे ओदनस्यान्वयः। कर्मत्वस्य
स्वनिरूपकपाकानुकूलत्वसम्बन्धेन भावनायामन्वयः। तथा च
देवदत्तकर्तृकपाकानुकूला ओदनकर्मकपाकानुकूला
पाककरणकौदनोद्देश्यिका भावेनति शाब्दबोध इति।
पूर्वेणान्वय इति।
तथा च च कर्तृकर्मगता एकत्वादिसङ्ख्या कृतिः कालश्च आख्यातार्थः।
अस्मिन् मते अनभिहिते इति सूत्रस्य
कर्तृकर्मगतसङ्ख्यायामनभिहितायामित्यर्थः। अथ वा कर्तृत्वे
कर्मत्वे चानभिहिते इत्यर्थः। नातः देवदत्तः पचति इत्यत्र
देवदत्तपदोत्तरं तृतीयायाः, तण्डुलः पच्यते इत्यत्र
तण्डुलपदोत्तरं द्वितीयाया वा अपत्तिः। अग्रे च स्पष्टमिदम्।
कृत्यादिपरिग्रह इति। आदिना कालो गृह्यते। परमतेनेति।
मीमांसकमतेनेत्यर्थः। ऽकर्ता चाक्षेपलभ्यःऽ इति न्यायप्रकाशादौ
निरूपितत्वात्।
दीपिका
उपसर्गाणां
द्योतकत्वम्
प्रजयति इत्यादौ
धातोरेव प्रकर्षे शक्तिः। उपसर्गाणां द्योतकत्वमेव, न तत्र शक्तिः।
प्रकाशिका
उपसर्गाणां
वाचकत्वमतं निरस्यति प्रजयतीत्यादाविति। ननु धातुनैव
प्रकर्षादेर्बोधे प्रशब्दादेर्वैयर्थ्यमत आह
- उपसर्गाणामिति।
द्योतकत्वम् - तात्पर्यग्राहकत्वम्। तेन ऽइतरनिपातानाम्
वाचकत्वम्ऽ इति सूचितम्। तथा हि-एककारस्य
अयोगव्यवच्छेदोर्ऽथः ऽशङ्खः पाण्डुर एवऽ इत्यादौ,
अन्ययोगव्यवच्छेदश्च ऽपार्थ एव धनुर्धरऽ इत्यादौ इत्यादिकं
बहुतरमूहनीयम्।
बालप्रिया
तात्पर्यग्राहकत्वम्
- यत्र प्र इति उपसर्गः धातुना सह उच्चार्यते तत्र धातोः प्रकर्षे
तात्पर्यमिति ग्रहो भवति। अतः धातोरर्थविशेषे
तात्पर्यग्रहजनकत्वमुपसर्गाणामिति भावः। इतरनिपातानामिति।
उपसर्गातिरिक्तनिपातानामित्यर्थः। इत्यादिकं
बहुतरमूहनीयमिति। ऽनीलम् सरोजं भवत्येवऽ इत्यादौ
एवकारस्य अत्यन्तायोगव्यवच्छेदोर्ऽथ इत्यूहनीयमित्यर्थः।
अत्रेदं बोध्यम् -
एवकारार्थस्त्रिविधः-अन्ययोगव्यवच्छेदः, अयोगव्यवच्छेदः,
अत्यन्तायोगव्यवच्छेदश्चेति। विशेष्यसङ्गतैवकारस्य
अन्ययोगव्यवच्छेदोर्ऽथः। यथा पार्थ एव धनुर्धर इत्यादौ
पार्थान्यस्मिन् धनुर्धंरत्वयोगो व्यवच्छिद्यते। तत्र अन्यः, योगः,
अभावश्चेति त्रयः एवकारस्य पृथक् शक्याः। अन्यशब्दार्थः भेदवान्।
भेदे पार्थस्य प्रतियोगितासम्बन्धेनान्वयः। सम्बन्धरूपे योगे
प्रकृते तादात्म्यात्मके प्रतियोगित्वेन धुनर्धंरस्यान्वयः।
योगस्याभावे प्रतियोगित्वेनान्वयः। अभावस्य स्वरूपसम्बन्धेन
अन्यस्मिन्नन्वयः। एवं धनुर्धरस्य अभेदसम्बन्धेन पार्थे ऽन्वयः। तथा च
पार्थप्रतियोगिकभेदवान् (पार्थान्यः)
धनुर्धरप्रतियोगिकतादात्म्याभाववान् (धनुर्धरत्वाभाववान्)
पार्थः धनुर्धराभिन्नश्चेति शाब्दबोधो जायते। पार्थस्य
विशेष्यतया अन्यविशेषणतया च द्विर्भानम्। एवं धुनर्धरस्य
एवकारार्थयोगविशेषणतया पार्थविशेषणतया च द्विर्भानम्।
विशेषणसङ्गतैवकारस्य अयोगव्यवच्छेदोर्ऽथः। यथा
ऽशङ्खः पाण्डर एवऽ इत्यादौ शङ्खे पाण्डरायोगो व्यवच्छिद्यते।
तत्रैवकारस्य योगाभावे अभावे च शक्तिः। सम्बन्धात्मके योगे
पाण्डरस्य प्रतियोगितया अन्वयः। योगाभावस्य प्रतियोगितया
अभावे ऽन्वयः। अभावस्य स्वरूपसंबन्धेन शङ्खे ऽन्वयः। तथा च शङ्खः
पाण्डरयोगाभावाभाववान् इति शाब्दबोधः।
क्रियासङ्गतैवकारस्य
अत्यन्तायोगव्यवच्छेदोर्ऽथः। यथा ऽनीलं सरोजं भवत्येवऽ
इत्यादौ सरोजे
नीलभवनात्यन्तायोगो व्यवच्छिद्यते। अत्यन्तत्वं अभावश्च तत्र
एवकारार्थः। अत्यन्तत्वं च व्यापकत्वम्। तच्च
भेदप्रतियोगितानवच्छेदकत्वम्। भेदे
सरोजस्याधेयतासम्बन्धेनान्वयः। भेदप्रतियोगितानवच्छेदकत्वस्य
प्रतियोगितया
अभावे ऽन्वयः। अभावस्य
स्वरूपसम्बन्धेन अयोगे ऽन्वयः। एवं नीलकर्तृकभवनस्य
नीलत्वात्मकस्य अयोगैकदेशे योगे प्रतियोगित्वेनान्वयः। तथा च
सरोजनिष्ठभेदप्रतियोगितानवच्छेदकत्वाभाववान्
नीलत्वप्रतियोगिकसम्बन्धाभावः इति शाब्दबोधः।
नीलत्वसम्बन्धाभावे सरोजत्वव्यापकत्वस्यासम्भवेन
सरोजत्वव्यापकत्वविशिष्टायोगाभावस्य बोधयितुमशक्यत्वात्
अयोगे सरोजत्वव्यापकत्वव्यवच्छेदबोधो वर्णित इति। अधिकम्
दीधिकारीयैवकारार्थविवेचने
जयरामन्यायपञ्चाननकृतपदार्थमालायां च द्रष्टव्यम्।
दीपिका
पदार्थतत्त्वज्ञानस्य मोक्षहेतुत्वनिरूपणम्
पदार्थज्ञानस्य
परमप्रयोजनं मोक्षः। तथा हि-- ऽआत्मा वारे द्रष्टव्यः श्रोतव्यो
मन्तव्यो निदिध्यासितव्यःऽ इति श्रुत्या श्रवणादीनां
आत्मसाक्षात्कारहेतुत्वबोधनात् श्रुत्ता देहादिविलक्षणात्मजाने
सत्यप्यसम्भावनानिवृत्तेः युक्त्यनुसन्धानरूपमननसाध्यत्वात्।
मननोपयोगिपदार्थनिरूपणद्वारा शास्त्रस्यापि मोक्षोपयोगित्वम्।
तदनन्तरं श्रुत्युपदिष्टयोगविधिना निदिध्यासने कृते तदनन्तरं
देहादिंविलक्षणात्मसाक्षात्कारे सति देहादौ
अहमित्यभिमानरूपमिथ्याज्ञाननाशे दोषाभावात् प्रवृत्त्यभावे
धर्माधर्मयोरभावे जन्माभावे पूर्वधर्माधर्मयोरनुभवेन नाशे
चरमदुःखध्वंसलक्षणमोक्षो जायते। ज्ञानमेव मोक्षसाधनम्।
मिथ्याज्ञाननिवृत्तेर्ज्ञानमात्रसाध्यत्वात्। ऽतमेवं
विदित्वातिमृत्युमेति नान्यः पन्था विद्यते ऽयनायऽ इति श्रुत्या
साधनान्तरनिषेधाच्च।
प्रकाशिका
प्रेक्षावत्प्रवृत्तये
सकलकामनाविषयमुक्तिप्रयोजनकतां ग्रन्थस्य दर्शयति -
पदार्थज्ञानस्येति। पदार्थतत्त्वज्ञानस्येत्यर्थः।
अन्येषामवान्तरप्रयोजनानामपि सद्भावादाह - परमेति।
श्रुतेरयमर्थः -- अरे मुमुक्षुणा आत्मा द्रष्टव्यः मुमुक्षोः
आत्मदर्शनमिष्टसाधनमिति यावत्। आत्मदर्शनोपायं दर्शयति ---
श्रोतव्य इत्यादिना। आर्थ-क्रमेण शाब्दक्रमः त्यक्तो भवति,
ऽअग्निहोत्रं जुहोतिऽ ऽयावगूं पचतिऽ इत्यादिवत्।
असम्भावनानिवृत्तेरिति। अप्रामाण्यज्ञाननिवृत्तेरित्यर्थः।
युक्त्यनुसन्धानेति। अयं भावः--- युक्तिभिरनुचिन्तनं मननम्। तच्च
आत्मन इतरभिन्नत्वेनानुमानम्। तच्च
भेदप्रतियोगीतरज्ञानसाध्यम्। तदर्थं सकलपदार्थनिरूपणमिति।
मोक्षोपयोगित्वं विशदयति --- तदनन्तरमिति।
मननानन्तरमित्यर्थः।
बालप्रिया
सकलकामनाविषयेति। अपुनर्भवरूपत्वात् सर्वेषामपीष्टः यो
मोक्षः तत्प्रयोजनकत्वमित्यर्थंः। यदपेक्षया अन्यत् प्रयोजनं न
भवति तत् परमप्रयोजनम्। यदपेक्षया अन्यत् प्रयोजनं भवति
तत् अवान्तरप्रयोजनम्। प्रयोजनान्तरासाधनत्वे सति प्रयोजनत्वं
परमप्रयोजनत्वम्। प्रयोजनान्तरसाधनत्वे सति प्रयोजनत्वं
अवान्तरप्रयोजनत्वम्। ननु"आत्मा वा अरे
द्रष्टव्यः श्रोतव्यः"इति
श्रुतौ पाठक्रमानुसारेण दर्शनस्यैव श्रवणसाधनत्वमवगम्यते न तु
श्रवणादेर्दर्शनसाधनत्वमित्याशङ्क्याह - आर्थक्रमेणेति।
प्रयोजनवशेन यः क्रमः सः आर्थक्रमः। यथा अग्निहोत्रयवागूपाकयोः।
अत्र हि यवाग्वाः होमप्रयोजनकत्वेन तत्पाकः प्रयोजनवशेन
पूर्वमनुष्ठीयते। पदार्थबोधकवाक्यानां यः क्रमः सः पाठक्रमः।
तेन च पदार्थानां कमः आश्रीयते। अप्रामाण्यज्ञाननिवृत्तेरिति।
श्रुतिवावयजन्ये देहादिविलक्षणात्मविषयकशाब्दबोधात्मकश्रवणे
अप्रामाण्यज्ञानस्य निवृत्तिः मननेन भवति। मननं चानु मित्यात्मकम्।
आत्मा देहादिभिन्नः ज्ञानेच्छाद्याश्रयत्वात् यन्नैवं तन्नैवम् इति
व्यतिरेक्यनुमानप्रयोगो द्रष्टव्यः।
भेदप्रतियोगीतरज्ञानसाध्यमिति।
आत्मानुयोगिकभेदप्रतियोगिभूताः ये आत्मेतरपदार्थाः तद्विष
यकज्ञानजन्यमनुमित्यात्मकं मननमित्यर्थः। तदर्थमिति। आत्मेतर
पदार्थविषयकज्ञानोत्पादनार्थमित्यर्थः। प्रत्याहृत्य-निगृह्य,
विषयसंयुक्तानि यथा न भवेयुस्तथा कृत्वेत्यर्थः। मनःप्रत्याहृत्य -
मनः इन्द्रियसंयुक्तं यथा न स्यात् तथा कृत्वा। साक्षात्कर्तव्ये
आत्मनि मनसः प्रणिधानं स्थापनं योगः। विशेषदर्शनेनैवेति।
रजतव्यावर्तकस्य शुक्तिगतस्यासाधारणधर्मस्य शुक्तित्वस्य
दर्शनेनैवेत्यर्थः। तथा प्रकृते ऽपीति। आत्मगतस्य
तदितरव्यावर्तकस्य धर्मस्य दर्शनेनैव देहादिभ्रमरूपं मिथ्याज्ञानं
निवर्तते इत्यर्थः।
। । ।
तर्कसंग्रहः
काणादन्यायमतयोर्बालव्युत्पत्तिसिद्धये।
अन्नम्भट्टेन विदुषा
रचितस्तर्कसङ्ग्रहः॥
॥ इत्.इ
तर्कसंग्रहः समाप्तः॥
। । ।
दीपिका
ज्ञानकर्मसमुच्चयवादनिरासः
ननु
ऽतत्प्राप्तिहेतुर्विज्ञानं कर्मचोक्तं महामुनेऽ इति कर्मणो ऽपि
मोक्षसाधनत्वस्मरणात् ज्ञानकर्मणोः समुच्चय इति चेत् - न।
"नित्यनैमित्तिकैरेव कुर्वाणो
दुरितक्षयम्।
ज्ञानं च
विमलीकुर्वन्नभ्यासेन च पाचयेत्॥
अभ्यासाच्च
क्वचिज्ज्ञानात् कैवल्यं लभते नरः"॥
मूल पाठ: Tarkasaṃgraha with autoentary (Dīpikā), Nīlakaṇṭha's Dīpikāprakāśikā and Bālapriyā · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0