भाषा

ENहिગુ
ग्रंथ पाठ

तर्कसंग्रह (टीका सहित) · भाग 321340

वैधर्म्यसमालक्षणम्
वैधर्म्येण
दूषकमुत्तरम् वैधर्म्यसमा। यथा तत्रैव क्रियावतो लोष्टस्य
साधर्म्यात् यदि क्रियावानात्मा, तदा विभुत्वरूपतद्वैधर्म्यात्
निष्क्रिय एव किं न स्यात्। न हि तत्साधर्म्यात् क्रियावता भवितव्यम्,
तद्वैधर्म्यात् निष्क्रियेण न भवितव्यम् इत्यत्र किञ्चित्
नियामकमस्ति इति।
बालप्रिया
एवं
दृष्टान्तावृत्तिधर्मवत्त्वरूपेण दृष्टान्तवैधार्म्येण वाद्युक्तहेतोः
स्वसाध्यासाधकत्वकथनं वैधर्म्यंसमा। विभुत्वरूपेति। विभुत्वं
परममहत्परिमाणवत्त्वम्। तथा च वादिना आत्मा क्रियावान्
क्रियाहेतुगुणवत्त्वात् लोष्टवत् इत्युक्ते, आत्मा निष्क्रियः
सक्रियलोष्टविधर्मत्वात् इति प्रतिवादी वदति। सक्रिये लोष्टे
विद्यमानस्य धर्मस्य सत्त्वात्
आत्मा लोष्टवत्
सक्रियश्चेत् लोष्टे अविद्यमानस्य विभुत्वस्य आत्मनि सत्त्वात् आत्मा
निष्क्रिय एव कुतो न स्यादिति दूषनं वैधर्म्यसमेत्युक्तं भवति।
प्रकाशिका
उत्कर्षसमालक्षणम्
परोक्तसाधनादेव
तदव्यापकस्य धर्मस्य पक्षे आपादनम् उत्कर्षसमा। यथा शब्दो ऽनित्यः
कृतकत्वात् घटवत् इत्यादौ कश्चिदेवमाह ऽयदि कृतकत्वेन
हेतुना शब्दः घटवदनित्यः स्यात्, तर्हि तेनैव शब्दः
घटवदश्रावणो ऽपि स्यात्ऽ इति।
बालप्रिया
उत्कर्षसमाया
लक्षणमाह - परोक्तसाधनादेवेति। परेण स्वसाध्यसाधनाय यो
हेतुरुच्यते तेनैव तादृशहेतोरव्यापको यः धर्मः तस्य पक्षे
प्रसञ्जनं उत्कर्षसमेत्यर्थः। यथा शब्दो ऽनित्यः कृतकत्वादित्यत्र
कश्चिदाह - यदि कृतकत्वेन हेतुना शब्दः घटवदनित्यः तर्हि
तेनैव हेतुना शब्दः घटवद् अश्रावणो ऽपि स्यादिति। अत्र हेतोः
कृतकत्वस्य अव्यापकः धर्मः अश्रावणत्वं तस्य पक्षे आपादनं क्रियते।
ईदृशमुत्तरं उत्कर्षसमा।"व्याप्तिमपुरस्कृत्य
पक्षदृष्टान्तान्यतरस्मिन् साध्यसाधनान्यतरेण
अविद्यमानधर्मप्रसञ्जनं
उत्कर्षसमः। यथा शब्दो ऽनित्यः कृतकत्वात् इति स्थापनायाम्
अनित्यत्वं कृतकत्वं च घटे रूपसहचरितम्, अतः शब्दो ऽपि रूपवान्
स्यात्। एवं श्रावणशब्दसाधर्म्यात् कृतकत्वात् घटो ऽपि श्रावणः
स्यादविशेषात्"इति विश्वनाथः।

प्रकाशिका
अपकर्षसमालक्षणम्
परोक्तदृष्टान्तसाधर्म्येण पक्षे पराभिमतधर्मान्तरस्य
अभावसाधनम् अपकर्षसमा। यथा तस्मिन्नेव अनुमाने ऽयदि
कृतकत्वेन शब्दः घटवदनित्यः स्यात् तर्हिं तेनैव शब्दो
घटवदश्रावणो ऽपि स्यात्ऽ इति।
बालप्रिया
अविद्यमानधर्मप्रसञ्जनं उत्कर्षंसमा। विद्यमानधर्माभावप्रसञ्जनं
अपकर्षसमा। तदाह - परोक्तदृष्टान्तसाधर्म्येणेति। परेण वादिना
उक्तो यो दृष्टान्तः तत्साधर्म्येण पक्षे वाद्यभिमतस्य
अर्थान्तरस्याभावसाधनम् अपकर्षसमा। यथा शब्दो ऽनित्यः
कृतकत्वात् इति वादिनोक्ते प्रतिवादी वदति - यदि
कृतकत्वरूपात् घटसाधर्म्यात् शब्दो घटवदनित्यः तर्हि तस्मादेव
हेतोः शब्दः घटवत् अश्रावणो ऽपि स्यादिति। अत्र पक्षे शब्दे
अनित्यत्ववत् वाद्यभिमतं अर्थान्तरं श्रावणत्वं तदभावस्य प्रसञ्जनं
क्रियते इति समन्वयः।"साध्ये धर्माभावं दृष्टान्तात्
प्रसजतो ऽपकर्षसमः"इति भाष्यम्।
प्रकाशिका
वर्ण्यसमालक्षणम्
वर्ण्यस्य
स्थापनीयस्य दृष्टान्तधर्मस्य पक्षे साधनम् वर्ण्यसमा। यथा
पूर्वोक्तानुमाने ऽक्रियाजनकनोदनाख्यसंयोगवत्त्वात् लोष्टादेः
भवतु क्रियावत्त्वम्। आत्मनस्तु क्रियावत्त्वे
तज्जनकनोदनाख्यसंयोगवत्त्वमपि स्यात्ऽ इति।
बालप्रिया
वर्ण्यसमां लक्षयति
- वर्ण्यस्येति। दृष्टान्ते विद्यमानस्य पक्षे स्थापनीयस्य साधनं
वर्ण्यसमा। यथा आत्मा क्रियावान् क्रियाहेतुगुणवत्त्वात्
लोष्टवदिति वादिनोक्ते प्रतिवादी उत्तरयति-लोष्टादेः
क्रियाजनकनोदनाख्यसंयोगवत्त्वात् क्रियावत्त्वं भवतु। आत्मनस्तु
क्रियावत्त्वे लोष्टवत् क्रियाजनकनोदनाख्यसंयोगवानात्मा
भवेदिति। ईदृशमुत्तरं वर्ण्यसमा।"ख्यापनीयो वर्ण्यो
विपर्ययादवर्ण्यः"इति भाष्यम्।
प्रकाशिका
अवर्ण्यसमालक्षणम्
साध्यहेत्वोर्धर्मयोरपि पक्षे तुल्यतासाधनम् अवर्ण्यसमा।
यथा तत्रैवानुमाने लोष्टादिगतनोदनादिरूपक्रियाहेतुगुणवत्त्वं
आत्मन्यसिद्धम्। तथा च तुल्यतया यथा असिद्धेन क्रियाहेतुगुणेन
आत्मनिक्रियावत्त्वं साध्यते, तथा तादृशेन क्रियावत्त्वेन
तज्जनकगुणवत्त्वमपि किमिति न साध्यते नियामकाभावात् इति।

बालप्रिया
अवर्ण्यसमामाह - साध्यहेत्वोरिति। पक्षे
साध्यहेत्वोर्द्वयोरपि तुल्यत्वात् यत् वादिदूषकमुत्तरं
तदवर्ण्यसमा। यथा आत्मा सक्रियः क्रियाहेतुगुणवत्त्वात् लोष्टवत्
इत्यनुमाने एव आत्मनि क्रियावत्त्वमपि असिद्धम्,
क्रियाहेतुनोदनाख्यसंयोगवत्त्वमप्यसिद्धम्। तत्रासिद्धेन
नोदनाख्येन क्रियाहेतुगुणेन आत्मनः सक्रियत्वं साध्यते चेत्
असिद्धेन क्रियावत्त्वेन क्रियाजनकनोदनाख्यसंयोगवत्त्वमपि कुतो न
साध्यते नियामकाभावात् इत्येवं यदुत्तरं तदवर्ण्यसमेत्यर्थः।
प्रकाशिका
विकल्पसमालक्षणम्
दृष्टान्तविकल्पं
प्रदर्श्य दार्ष्टान्तिकविकल्पकथनं विकल्पसमा। यथा तत्रैव अनुमाने
ऽक्रियाहेतुगुणयुक्तं किञ्चित् लघु, यथास वायुः, एवं
क्रियाहेतुगुणयुक्तं किञ्चित् क्रियावत् स्यात् यथा लोष्टादि
किञ्चिदक्रियम् यथा आत्मा। पूर्वविकल्पो भवति अयं तु न
भवतीत्यत्र किं नयामकं स्यात्ऽ इति।
बालप्रिया
विकल्पसमामाह -
दृष्टान्ताविकल्पं प्रदर्श्येति। दृष्टान्ते विविधं कल्पं प्रदर्श्य
दार्ष्टान्तिके ऽपि विविधकल्पप्रदर्शनं विकल्पसमेत्यर्थः। यथा
पूर्वोक्ते आत्मा सक्रियः क्रियाहेतुगुणवत्त्वात् इत्यनुमाने एव
क्रियाहेतुगुणयुक्तं किञ्चित् गुरु यथा
लोष्टादि किञ्चिल्लघु
यथा वायुः, एवं किंयाहेतुगुणयुक्तं किञ्चित्सक्रियं यथा घटादि,
किञ्चिदक्रियं यथा आत्मा। तत्र पूर्वो विकल्प एव समीचींनः अयं तु
विकल्पः न समीचीनः इत्यत्र नियामकं किमपि नास्ति। तथा च
क्रियाहेतुगुणवत्त्वे समाने ऽपि कस्यचित् सक्रियत्वमित्यपि
सम्भवतीति तेन हेतुना आत्मनो निष्क्रियत्त्वमेवास्तु इति रीत्या
यदुत्तरं तत् विकल्पसमा।
प्रकाशिका
साध्यसमालक्षणम्
दृष्टान्तस्य
पक्षतुल्यताकथनम् साध्यसमा। साध्यशब्दो ऽत्र पक्षवाची। यथा तत्रैव
यदि ऽयथा लोष्टः तथा आत्माऽ इति त्वया उच्यते तदा ऽयथा आत्मा
तथा लोष्टःऽ इत्यप्यायातम्। तथा च यद्यात्मनि क्रियावत्त्वं साध्यते
तर्हि लोष्टे ऽपि तत्साधनीयम् नेति चेत्तर्हि यथा लोष्टः तथा
आत्मेति न वाच्यम्। ऽलोष्टसदृश आत्मा, नात्मसदृशो
लोष्टःऽ इत्यत्र
नियामकाभावात् इति।

बालप्रिया
साध्यसमामाह -
दृष्टान्तस्य पक्षतुल्यताकथनमिति। साध्यते ऽस्मिन्निति व्युत्पत्त्या
साध्यशब्दः पक्षवाची। दृष्टान्तः पक्षतुल्य इत्यापादनं साध्यसमा।
शिष्टं स्पष्टम्।"हेत्वाद्यवयवसामर्थ्ययोगी धर्मः साध्यः त्र
दृष्टान्ते प्रसजतः साध्यसमः। यदि यथा लोष्टः तथा आत्मा,
प्राप्तस्तर्हि यथा आत्मा तथा लोष्ट इति। साध्यश्चायमात्मा
क्रियावानिति कामं लोष्टो ऽपि साध्यः। अथ नैवम्, न तर्हि यथा
लोष्टः तथा आत्मा"इति भाष्यम्।
प्रकाशिका
प्राप्तिसमालक्षणम्
प्राप्त्या
प्रत्यवस्थानम् प्राप्तिसमा। प्राप्तिश्च साध्यहेत्वोः
सामानाधिकरण्यम्। यथा तत्रैव क्रियाहेतुगुणवत्त्वेनैव किमिति
क्रियावत्त्वं साध्यते किमिति क्रियावत्त्वेन तादृशगुणवत्त्वं न
उभयोरविशेषात् इति।
बालप्रिया
प्राप्तिसमामाह -
प्राप्त्या प्रत्यवस्थानमिति। साध्येन सह एकाधिकरणवृत्तित्वं
हेतोरस्ति चेत् हेतुना साकं एकाधिकरणवृत्तित्वं
साध्यस्याप्यस्तीत्यङ्गीकरणीयम्। तथा च साध्यसामानाधिकरण्यं
पुरस्कृत्य हेतुना साध्यं साध्यते चेत् हेतुसामानाधिकरण्यं
पुरस्कृत्य साध्येनैव हेतुः साध्यताम्। एवं च आत्मा क्रियावान्
क्रियाहेतुगुणवत्त्वात् इतिवत् आत्मा क्रियाहेतुगुणवान्
क्रियावत्त्वात् इत्यपि साध्यताम् अविशेषात् इति प्रत्यवस्थानं
प्राप्तिसमेत्यर्थः। उभयोरविशेषादिति। उभयोः
सामानाधिकरण्याविशेषादित्यर्थः।
प्रकाशिका
अप्राप्तिसमालक्षणम्
अप्राप्त्या
प्रत्यवस्थानम् अप्राप्तिसमा। यथा तत्रैव पूर्वोक्तदोषादप्राप्तस्य
हेतोः साध्यसाधकत्वं वाच्यम्, तथा चाप्राप्तत्वाविशेषात् सर्वः
सर्वं साधयेत् इति। अयमेव हेतुः साध्याभावं किमिति न
साधयेत्। साध्यमेव तु साधयेदित्यत्र विनिगमकाभावात् इति।
बालप्रिया
अप्राप्तिसमामाह -
अप्राप्त्या प्रत्यवस्थानमिति। अप्राप्तिः साध्यहेत्वोः
असामानाधिकरण्यम्। अत्रैवं विकल्पः कर्तव्यः। आत्मा क्रियावान्
क्रियाहेतुगुणवत्त्वात् इत्युक्ते अयं हेतुः साध्यसमानाधिकरणः
सन् साध्यं साधयति वा? साध्यासमानाधिकरणः सन् साध्यं साधयति

वा? आद्ये सामानाधिकरण्याविशेषात् साध्येनापि कुतो न हेतुः
साध्यत इति प्रत्यवस्थानात् प्राप्तिसमा। द्वितीये
असामानाधिकरण्याविशेषात् साध्यमिव अन्यत् सर्वंमपि हेतुः कुतो
न साधयेत्। तथा च सर्वः सर्वं साधयेत्। तथा हेतुर्यथा
साध्येनासमानाधिकरणो ऽपि साध्यं साधयति तथा
साधाभावेनासमानाधिकरणत्वात् साध्याभावमेव कुतो न
साधयेत्? इति रीत्या प्रत्यवस्थानम् - दूषणकथनम्
अप्राप्तिसमेत्यर्थः।
प्रकाशिका
प्रसङ्गसमालक्षणम्
साधनपरम्पराप्रश्नः प्रसङ्गसमा। यथा क्रियावत्त्वे
क्रियाहेतुगुणवत्त्वं साधनम्। तत्र किं साधनम्? न हि साधनं विना
कस्यचित् सिद्धिरस्ति। एवं तत्रापि किं साधनमित्यादि।
बालप्रिया
प्रसङ्गसमां
लक्षयति - साधनपरम्पराप्रश्न इति। साधनपरम्परा विषयकः प्रश्नः
प्रसङ्गसमा।"साधनस्यापि साधनं वक्तव्यमिति
प्रसङ्गेन प्रत्यवस्थानं प्रसङ्गसमः"इति भाष्यम्। शिष्टं
स्पष्टम्।
प्रकाशिका
प्रतिदृष्टान्तसमालक्षणम्
दृष्टान्तान्तरेण
साध्याभावसाधनम् प्रतिदृष्टान्तसमा। यथा ऽतत्रैव लोष्टदृष्टान्तेन
क्रियावत्त्वे साधिते निष्क्रियाकाशदृष्टान्तेन आत्मनो निष्क्रियत्त्वमेव
किं न स्यात्। लोष्टदृष्टान्तेन क्रियावत्त्वं आकाशदृष्टान्तेन
निष्क्रियत्त्वं न इत्यत्र
नियामकाभावात्ऽ इति।
बालप्रिया
प्रतिदृष्टान्तसमामाह - दृष्टान्तान्तरेणेति। आत्मा क्रियावान्
क्रियाहेतुगुणयुक्तत्वात् लोष्टवत् इति लोष्टदृष्टान्तेन
क्रियावत्त्वं साध्यते चेत् आत्मा निष्क्रियः
क्रियाहेतुवायुसंयोगवत्त्वात् आकाशवत् इत्याकाशदृष्टान्तेन
कुतो न साधयितुं शक्यत इति प्रकृतसाध्यशून्यं दृष्टान्तं प्रदर्श्य
दूषणोद्भावनं प्रतिदृष्टान्तसमा।"क्रियावान् आत्मा
क्रियाहेतुगुणयोगात् लोष्टवत् इत्युक्ते प्रतिदृष्टान्त उपादीयते
क्रियाहेतुगुणयुक्तं आकाशं निष्क्रियं दृष्टथ्मति। कः पुनराकाशस्यं
क्रियाहेतुगुणः, वायुना संयोगः"इति भाष्यम्।
प्रकाशिका
अनुत्पत्तिसमालक्षणम्
अनुत्पत्त्या

प्रत्यवस्थानम् अनुत्पत्तिसमा। यथा ऽघटो न नित्यः जन्यैकात्वात्ऽ
इत्यादौ कश्चिदाह - यदि जन्यैकत्वं अनित्यत्वे प्रमाणम् तदा घटे
एकत्वोत्पत्तेः पूर्वं तदभावात् नित्यत्वम्। नित्यश्चेत् तर्हि अनुत्पन्न
एवेति।
बालप्रिया
अनुत्पत्तिसमामाह -
अनुत्पत्त्या प्रत्यवस्थानमिति। जन्यैकत्वादिति। जन्यं च तत् एकत्वं च
जन्यैकत्वम्, तस्मात्। अनुत्पन्न एवेति। तथा च अनित्यत्वं
बाधितामिति भावः।"तथा च साधनाङ्गपक्षहेतुदृष्टान्तानां
उत्पत्तेः प्राक् हेत्वभाव इत्यनुत्पत्त्या प्रत्यवस्थानं अनुत्पत्तिसमः।
उत्पत्तेः पूर्वं हेत्वाद्यभावेन प्रत्यवस्थानस्यैव लक्षणत्वात्"इति
विश्वनार्थः।
प्रकाशिका
संशयसमालक्षणम्
साधारणधर्मं
प्रदर्श्यं संशयोद्भावनं संशयसमा। यथा ऽशब्दो ऽनित्यः
कार्यत्वात्ऽ इत्यादौ ऽशब्दस्य अनित्यघटेन सह कार्यत्वरूपं
साधर्म्यं यथा अस्ति तथा नित्येन शब्दत्वेन सह श्रावणप्रत्यक्षविषयत्वं
साधर्म्यं अस्तीति उभयसाधर्म्यदर्शनात् संशयः स्यात्। एकपरिशेषे
नियामकाभावात्ऽ इति।
बालप्रिया
संशयसमामाह -
साधारणधर्मं प्रदर्श्येति। स्पष्टार्थम्।"नित्यानित्यसाधर्म्यादिति
संशयकारणोपलक्षणम्। तेन समानधर्मदर्शनादि
यत्किञ्चित्संशयकारणबलात् संशयेन प्रत्यवस्थानं संशयसमः"इति
विश्वनाथः।
प्रकाशिका
प्रकरणसमालक्षणम्
वाद्युक्तहेतोः
साध्यविपरीतसाधकहेत्वन्तरोद्भावनम् प्रकरणसमा।
सत्प्रतिपक्षोदाहरणमेव अत्रोदाहरणं बोध्यम्।
बालप्रिया
प्रकरणसमामाह
वाद्यक्तहेतोरिति। शब्दः अनित्यः कृतकत्वात् घटवत् इति वादिना
अनित्यत्वसाधनाय कृतकत्वहेतौ उक्ते सति तादृशहेतुसाध्यस्य
अनित्यत्वस्य विपरीतं यत् शब्दः नित्यः श्रावणत्वात् शब्दत्ववत्
इत्येवं प्रयुज्यमानं हेत्वन्तरम् श्रावणत्वाख्यं तदुद्भावनेन
प्रत्यवस्थानं प्रकरणसमेत्यर्थः।
प्रकाशिका
अहेतुसमालक्षणम्

कालत्रये ऽपि
हेतुत्वासम्भवेन अहेतुत्वकथनम् अहेतुसमा। यथा
ऽकार्यत्वादिरूपसाधनं साध्यादनित्यत्वात् पूर्वकालवृत्ति चेत्
तदानित्यत्वरूपसाध्यस्य तदानीमभावात् कस्य साधकम्। अथ
पश्चात्कालवृत्ति चेत् तदा पूर्वकाले साधनाभावात् कस्य
साध्यमनित्यत्वम्। यदि च उभयं एककालवृत्ति तदा किं कस्य साधनं
किं कस्य साध्यम्। विनिगमकाभावादिति। हेतुसमेति पाठे तु
कालत्रये ऽपि हेतुत्वस्य असम्भवकथनं हेतुसमेत्यर्थः।
बालप्रिया
अहेतुसमां
लक्षयति - कालत्रये ऽपीति। कालत्रये ऽपि हेतुत्वासम्भवकथनपूर्वकं
अहेतुत्वकथनम् अहेतुसमा।
कस्य साधकमिति।
अनित्यत्वस्य कार्यत्वं न साधकमित्यर्थः। पूर्वकालावच्छेदेन
अविद्यमानस्य साध्यस्य हेतुः कथं
साधको भवेत्
इति भावः। कस्य साध्यमनित्यत्वमिति। अनित्यत्वं कार्यत्वस्य साध्यं
न भवतीत्यर्थः। कालत्रयशब्देन कार्यकालतत्पूर्वकालतत्पश्चात्कालाः
विवक्षिताः।"हेतुरहेतुना न विशिष्टयते। अहेतुना
साधर्म्यात् प्रत्यवस्थानम् अहेतुसमः"इति भाष्यम्।
प्रकाशिका
अर्थापत्तिसमालक्षणम्
अर्थापत्तिपुरस्कारेण साध्याभावोद्भावनम् अर्थापत्तिसमा।
यथा"पूर्वोक्तानुमाने शब्दस्य अनित्यसाधर्म्यादनित्यत्वं यदि, तदा
अर्थापत्त्या सिद्धं नित्यसाधर्म्यात् नित्यत्वमपि एकतरावधारणे
नियामकाभावात्"इति।
बालप्रिया
अर्थापत्तिसमां
लक्षयति - अर्थापत्तिपुरस्कारेणेति। शब्दः अनित्यः कृतकत्वात् इति
अनित्येन घटेन कृतकत्वसाधर्म्यात् शब्दः अनित्यः इत्युक्ते
अर्थादापद्यते नित्यसाधर्म्यात् नित्य इति। अस्ति च नित्येन आकाशेन
अस्पर्शत्वरूपं साधर्म्यं शब्दस्य इति शब्दो नित्य एव किं न
स्यादित्येवम् अर्थापत्तिपूर्वकं दूषणोद्भावनं
अर्थापत्तिसमेत्यर्थः।"अर्थापत्त्या प्रतिपक्षं साधयतः
अर्थापत्तिसमः। यदि प्रायत्नानन्तरीयकत्वात् अनित्यसाधर्म्यात्
अनित्यः शब्द इति, तदा अर्थादापद्यते नित्यसाधर्म्यात् नित्य इति।
अस्ति त्वस्य नित्येन साधर्म्यं अस्पर्शत्वम्"इति भाष्यम्।
एकतरावधारण इति। अनित्यसाधर्म्यादनित्यत्वमेवेत्यवधारण
इत्यर्थः।
प्रकाशिका

अविशेषसमालक्षणम्
सर्वाविशेषप्रसङ्गोद्भावनम् अविशेषसमा। यथा तत्रैव
ऽयदि कृतकत्वादिना अनित्यघटादिसाधर्म्येण शब्दस्य अनित्यत्वं तदा
प्रमेयत्वादिरूपेण तत्साधर्म्येण सर्वस्यैवानित्यत्वं स्यात्।
मदुक्तसाधर्म्येण तत्सिध्यति, न तु त्वदुक्तेनेत्यत्र नियामकाभावात्ऽ
इति।
बालप्रिया
अविशेषसमां
लक्षयति - सर्वाविशेषप्रसङ्गोद्भावनमिति। शब्दो ऽनित्यः
कृतकत्वात् इत्यत्र एकस्य धर्मस्यश् कृतकत्वादेः शब्दे घटे च
सत्त्वात् यदि शब्दघटयोरनित्यत्वेनाविशेष उच्यते, तदा
सर्वेंषामविशेषप्रसङ्गः। सत्त्वप्रमेयत्वादिरूपस्य एकस्य धर्मस्य
सर्वेषु सत्त्वात्। तथा च
सन्मात्रवृत्तिधर्मेणाविशेषापादनमविशेषसमा। तथा च सर्वेषामभेदे
पक्षादिविभागो न स्यात्। सर्वेषामेकजातीयत्वे ऽवान्तरजात्युच्छेदः,
सर्वेषामनित्यत्वे जात्यादिविलय इति विश्वनाथः निरूपयति।
प्रकाशिका
उपपत्तिसमालक्षणम्
उभयपक्षसाधर्म्येण
साधनोपपत्तिकथनम् उपपत्तिसमा। यथा ऽयदि अनित्यत्वसाधनं
कार्यत्वमुपपद्यत इति शब्दस्यानित्यत्वं तदा नित्यत्वसाधनमपि
किञ्चिदुपपद्यत इति नित्यत्वं किं न स्यात्ऽ इति।
बालप्रिया
उपपत्तिसमां
लक्षयति - उभयपक्षसाधर्म्येणेति। द्वयोरपि पक्षयोः साधनमुपपद्यत
इति कथनम् उपपत्तिसमा। शब्दस्य अनित्यत्वपक्षे यथा साधने
कार्यत्वमुपपद्यते, तथा शब्दनित्यत्वपक्षे ऽपि साधनं
श्रावणत्वादिकमुपपद्यत इति द्वयोरपि पक्षयोः
साधनस्योपपन्नत्वाख्यं समानधर्मं पुरस्कृत्य प्रत्यवस्थानम्
उपपत्तिसमेति यावत्।
प्रकाशिका
उपलब्धिसमालक्षणम्
वाद्युपदर्शितसाधनाभावे ऽपि साध्यस्य उपलब्धिकथनम्
उपलब्धिसमा। यथा शब्दो ऽनित्यः प्रयत्नानुविधायित्वात् घटवत्
इत्यत्र प्रयत्नं विनापि वायुनोदनवाशात् वृक्षशाखाभङ्गजन्यस्य
शब्दस्य उपलब्धेः
न
प्रयत्नानुविधायित्वं शब्दे ऽस्ति इति।
बालप्रिया
उपलब्धिसमां

सोदाहरणं लक्षयति - वाद्यक्तेति। वादिना निर्दिष्टस्य
कारणस्याभावे ऽपि साध्योपलम्भात् प्रत्यवस्थानम् उपलब्धिसमः। तथा
हि - पर्वतो वह्निमान् धूमात् इत्यादिकं वह्न्यवधारणार्थं
उच्यते, न तत्सम्भवति, धूमं विना आलोकादितो ऽपि वह्निसिद्धेः।
तथा च न तस्य साधकत्वमिति प्रतिकूलतर्कः इति विश्वनाथः।
प्रकाशिका
अनुपलब्धिसमालक्षणम्
वादिनानुपलब्धिवशात् कस्यचित् पदार्थस्य अनङ्गीकारे
अनुपलब्धिवशादेव वाद्यभिमतस्यापि यत्किञ्चित्पदार्थस्य अभावसाधनम्
अनुपलब्धिसमा। यथा - ऽजलादेः विद्यमानस्यापि आवरणवशात्
यथानुपलब्धिः तथा उच्चारणात्पूर्वं शब्दस्य विद्यमानस्यापि
आवरणवशात् अनुपलब्धिः इत्येतन्मतं वादिनां
दूष्यते-यद्यावरणवशात् शब्दो नोपलभ्येते, तदा जलाद्यावरणमिव
शब्दाद्यावरणमप्युपलभ्येतेति। अत्रोत्तरम्-यदि भवद्भिः
अनुपलब्धित आवरणं नाभ्युपेयते तदा अनुपलब्धेरपि
अनुपलब्ध्याभावो सिद्धे तदभावात् आवरणाभावासिद्धौ
आवरणसिद्धिःऽ इति।
बालप्रिया
अनुपलब्धिसमां
लक्षयति - वादिनेति। नैयायिकैस्तावत् शब्दानित्यत्वं एवं साध्यते
- यदि शब्दः नित्यः स्यात् तर्हि उच्चारणात् प्राक् कुतो
नोपलभ्यते। न हि घटाद्यावरणकुड्यादिवत् शब्दस्यावरणमस्ति,
तदनुपलब्धेरिति। तत्रैवं जातिवादी
प्रत्यवतिष्ठते-यद्यावरणानुपलब्धेः आवरणाभावः सिध्यति तदा
आवरणानुपलब्धेरप्यनुपलम्भात् आवरणानुपलब्धेरप्यभावः
सिध्येत्। तथा च अनुपलब्धिप्रमाणकः आवरणाभावो न स्यात् अपि तु
आवरणोपपत्तिरेव स्यादिति शब्दनित्यत्वे नोक्तं बाधकं युक्तमिति।
इत्थं च एवंरूपेण प्रत्यवस्थानम् अनुपलब्धिसमेत्यर्थ इति
विश्वनाथः।
प्रकाशिका
नित्यसमालक्षणम्
धर्मस्य
नित्यत्वानित्यत्वविकल्पात् धर्मिणो नित्यत्वसाधनम् नित्यसमा। यथा
ऽशब्दस्य यत् अनित्यत्वं भवद्भिः उच्यते तत् नित्यं अनित्यं वा।
यदि नित्यं तदा शब्दवृत्तेरेव तस्य सदातनत्वात् शब्दस्यापि
तथात्वमागतम्। अथ अनित्यं तदा शब्दे कदाचित्
अनित्यत्वाभावो ऽस्तीति नित्य एव शब्द इत्युभयथापि शब्दस्य
नित्यत्वम्ऽ इति।
बालप्रिया
नित्यसमां लक्षयति

- धर्मस्येति। शब्दस्यापि तथात्वमागतमिति। शब्दस्यापि नित्यत्वं
प्रसक्तमित्यर्थः। धर्मिणं विना धर्मस्य स्थित्यभावेन धर्मस्यानित्यत्वस्य
नित्यत्वे सदातनत्वे धर्मी शब्दो ऽपि नित्यः स्यादिति भावः। शब्दे
अनित्यत्वस्य नित्यं सर्वकालं स्वीकारे अनित्ये शब्दे नित्यत्वं
स्यादित्यापादनं नित्यसमा इति विश्वनार्थः।
प्रकाशिका
अनित्यसमालक्षणम्
अनित्यदृष्टान्तसाधर्म्यात् सर्वानित्यत्वप्रसङ्गोद्भावनम्
अनित्यसमा। यथा ऽयदि अनित्येन घटने सादृश्यात् शब्दः अनित्यः
इत्युच्यते तदा येन केनचित् धर्मेंण सर्वस्यैव तत्सदृशत्वात्
सर्वस्यानित्यत्वप्रसङ्गःऽ इति।
बालप्रिया
अनित्यसमां
लक्षयति - अनित्यदृष्टान्तेति। अनित्येन घटेन साधर्म्यात्
(कृतकत्वरूपात्) अनित्यः शब्द इति ब्रुवतः अस्ति घटेनानित्येन
सर्वभावानां साधर्म्यं (सत्त्वादिरूपम्) इति सर्वस्य
अनित्यत्वमनिष्टं सम्पद्यते। सो ऽयं अनित्यत्वेन प्रत्यवस्थानात्
अनित्यसम इति भाष्यम्। व्याप्तिमपुरस्कृत्य
यत्किञ्चिद्दृष्टान्तसाधर्म्येण सर्वस्य
साध्यवत्त्वापादनात्
अनित्यसमा। साध्यपदादविशेषसमातो व्यवच्छेदः तत्र सर्वाविशेष
एवापद्यते न तु सर्वस्य साध्यवत्त्वम् इति विश्वनार्थः।
प्रकाशिका
कार्यसमालक्षणम्
वाद्युक्तहेतोः
अन्यकोर्येणापि सम्भवाभिधानं कार्यंसमा। यथा तत्रैव
प्रयत्नानुविधायित्वं उभयथापि सम्भवति घटादिवत्
शब्दस्वरूपोत्पत्तौ जलादिवत् आवरकनिवृत्तौ च उभयत्रापि
प्रयत्नानुविधायित्वदर्शनात्। तथा च तस्य
आवरकनिवृत्तिरूपकार्यान्तरस्य सम्भवात् नानित्यत्वनियतत्वं
इति। क्वचित् कारणसमेति पाठः। तस्यापि ऽकारणस्य
प्रयत्नानुविधायित्वस्य उभयत्र शब्दस्योत्पत्तौ तदावरकनिवृत्तौ च
समत्वाभिधानम्ऽ इति रीत्या उक्त एवार्थे पर्यवसानमवसेयम्। अत्र
ग्रन्थगौरवभयात् सूक्ष्मप्रकाराः न दर्शिताः इत्यभियुक्तैरन्यत्र
ते ऽनुसन्धेयाः।
बालप्रिया
कार्यसमां लक्षयति
- वाद्युक्तहेतोरिति। यथा शब्दः अनित्यः प्रयत्नानुविधायित्वात्
इत्यत्र प्रयत्नानुविधायित्वं कार्यद्वये ऽस्ति स्वरूपोत्पत्तौ
आवरकनिवृत्तौ चेति। तत्र स्वरूपोत्पत्त्यभिप्रायेण वादिनोक्ते

जातिवादल आह आवरकनिवृत्तावेव प्रयत्नानुविधायित्वस्योपयोगः
न स्वरूपोत्पत्ताविति शब्दस्यानित्यत्वं न सिध्यतीति। एवंरीत्या
प्रत्यवस्थानं कार्यसमेत्यर्थः।
अत्रेदमवधेयम्-केषुचित् ग्रन्थेषु
साधर्म्यसमा वैधर्म्यसमा इत्यादिरूपेण स्त्रीलिङ्गतया समशब्दः
प्रयुज्यते, केषुचित्तु साधर्म्यसमः वैधर्म्यसमः इत्यादिरूपेण
पुल्लिङ्गतया प्रयुज्यते। तत्र जातेर्विशेष्यत्वविवक्षायां समशब्दस्य
स्त्रीलिङ्गत्वम्। न्यायसूत्रकारस्तु-ऽसाधर्म्यवैधर्म्यसमौऽ
इत्यादिरूपेण पुल्लिङ्गतयैव निर्दिशति। तस्यायं भावः - वाद्यक्तस्य
प्रतिषेधः किल जातिवादिना क्रियते, तत्र प्रतिषेघशब्दः पुल्लिङ्ग
इति तदनुरोधेन समशब्दस्य पुल्लिङ्गेतेति। तदुक्तं
न्यायपरिशुद्धौ वेदान्तदेशिकैः -"अक्षपादीयेषु च
जातिविशेषलक्षणसूत्रेषु पुल्लिङ्गान्तसमशब्दनिर्देशः
स्वपक्षस्थापनपरपक्षप्रतिक्षेपरूपेण विभागे प्रत्यवस्थाने
प्रतिषेधभागेनात्र जातित्वं विवक्षितम्
इत्युक्तरूपजातिविशेषाभिप्राय इत्याहुः"इति। न्यायभाष्यकारादयो ऽपीति प्रतिषेधशब्दस्य सूत्रे
बहुलं प्रयोगात् प्रतिषेधशब्दमादायेव समशब्दे
पुल्लिङ्गनिर्वाहं मन्यन्ते। विश्वनाथन्यायपञ्चाननस्तु
ऽसाधर्म्यसमादयो जातिविकल्पाः। विविधः कल्पः विकल्पः प्रभेदःऽ
इति वदन् विकल्पशब्दानुसारेण समशब्दस्य पुल्लिङ्गतां
निर्वहति। एवं वादिना साधने क्रियामाणे तत्र प्रतिवादिना
उद्भाव्यमानः असदुत्तरविशेषः जातिः। तस्य जातिशब्दवाच्यता
जायमानत्वनिबन्धना। तथा च"साधर्म्यवैधर्म्याभ्याम्
प्रत्यवस्थानम् जातिः"इति। कथायां प्रवृत्तयोः
वादिप्रतिवादिनोः मध्ये वादिना साधने कृते
यथावस्थितोत्तरस्फुर्तिरहितस्य जिगीषोः प्रतिवादिनः मुखात्
यः कश्चित्
हेत्वाभासः अवशात् आगतः जायमान एव भवति न तु जातः सन्
कार्यकरो ऽपीत्याशयेन अवधारणार्थतया जातिशब्दः प्रवर्तत इति
उत्तमूरुवीरराघवाचार्यस्वामिनः निरूपयन्ति। ते एव स्वामिनः
साम्यार्थकसमशब्दघटनस्य तात्पर्यमेवं वर्णयन्ति -
वादिप्रतिवादिप्रयुक्तयोर्हेंत्वोः(?) साम्यम्, वादिप्रतिवादिनोरपि
साम्यं च समशब्देन लक्ष्यते। सूत्रे समशब्दः
प्रतिषेधरूपहेतुविशेषणीभूतः हेतुगतं साम्यं दर्शयति। अथापि
वक्तृगतसाम्यमपि विवक्षितम्। तदाह वार्तिककारः -"समीकरणार्थं प्रयोगसमः। साधर्म्यमेव समं तस्य प्रयोगस्य स
साधर्म्यसमः"इति। अत्र समीकरणार्थमित्यनेन वस्तुतः
साम्याभावे ऽपि समीकरणोद्धेशो ज्ञाप्यते। न हि सद्धेतोरसद्धेतुना
निराकरणं साम्यापादनं वा भवति। केन कस्य समीकरणमिति चेत्
- वादिना प्रतिवादिनः समीकरणम्। तथा च प्रतिवादिना
स्वापकर्षपरिहारार्थमन्ततः समीकरणार्थं जातिप्रयोगः क्रियत

इत्युक्तं भवति। देशिकचरणास्तु न्यायपरिशुद्धौ जातिप्रयोगः
क्रियत इत्युक्तं भवति। देशिकचरणास्तु न्यायपरिशुद्धौ
जातिवादिप्रयुक्तहेतोः परघातकत्ववत् स्वव्याघातकत्वमप्यस्तीति
तदेव साम्यं समशब्देन प्रतिपाद्यत इति निर्वहन्ति।
एवं चतुर्विशतिधा निर्दिष्टदासु जातिषु
कासांचित् जातीनां लक्षणेषु परिशीरल्यमानेषु समानत्वं
स्थूलदृष्ट्या प्रतीयते। ततः नामभेदमात्रमिति शङ्का अवतरति।
तत्रापि सूष्मदृष्ट्या विचार्यंमाणे लक्षणेषु भदो ऽवगन्तुंशक्यते। तदेतन्मनसि निधायाह - अत्र ग्रन्थगौरवभयात्
सूक्ष्मप्रकाराः न दर्शिताः इति। किं च आसां
जातीनां सप्ताङ्गानि
भवन्तीति उदयनाचार्थैः न्यायपरिशिष्टस्यान्ते -
"लक्ष्यं लक्षणमुत्थितिः स्थितिपदं मूलं
फलं शातनं
जातीनां
सविशेषमेतदखिलं प्रव्यक्तमुक्तं रहः"॥
इति श्लोकार्धेंन
प्रतिपादितम्। तत्र प्रतिवादिना यत् असदुत्तरमुच्यते तदेव
लक्ष्यम्। तस्य साधर्म्यंसमादिषु यत्रानतर्भावः तल्लक्षणमेव लक्षणम्।
उत्थितिर्नाम जन्म। स्थितेः पदं स्थितिपदं जात्युत्तरस्थितेः आश्रयः।
असतिसाधनप्रयोगे जात्युत्तराप्रवृत्तेः दूष्यो हेतुरेव
स्थितिपदत्वेन विवक्षितः। ईदृशजातिप्रयोगस्य मूलं
साधर्म्याद्याकारकदर्शनम्। फलं तु वादिनः स्वोक्तहेतौ प्रतिवादिना
दुष्टत्वभ्रमोत्पादनम्। शातनं वादिना प्रतिवाद्युक्तस्यासदुत्तरस्य
जातिरूपस्य निराकरणम्। सूत्रकारस्तु जात्युत्तरस्य
निराकरणप्रकारं प्रतिजाति विशदं प्रतिपादितवान्। सप्ताङ्गकत्वं
तु न्यायपरिशिष्टे तत्र तत्र सूचितमेव। सर्वमिदं विस्तरभयात्
अत्रोपेक्षितमिति भावः।
दीपिका
निग्रहस्थाननिरूपणम्
वादिनः
अपजयहेतुः निग्रहस्थानम्।
प्रकाशिका
निग्रहस्थानं
लक्षयति - वादिन इति। इदं च यद्यपि छलादावप्यस्ति
तथाप्यर्थान्तरादिरूपनिग्रहस्थानमध्ये ऽन्तर्भावात् अदोषः।
छलत्वादिनापि ज्ञानस्योपयोगित्वात् पृथिगुपादानं
हेत्वाभासवत्।
दीपिका
प्रतिज्ञाहानिः,
प्रतिज्ञान्तरम्, प्रतिज्ञाविरोधः, प्रतिज्ञासन्न्यासः, हेत्वन्तरम्,

अर्थान्तरम्, निरर्थकम्, अविज्ञातार्थकम्, अपार्थकम्, अप्राप्तकालम्,
न्यूनम्, अधिकम्, पुनरुक्तम्, अननुभाषणम्, अज्ञानम्, अप्रतिभा,
विक्षेपः, मतानुज्ञा, पर्यनुयोज्योपेक्षणम्, निरनुयोज्यानुयोगः,
अपसिद्धान्तः, हेत्वाभासाश्च निग्रहस्थानानि। शेषं सुगमम्।
प्रकाशिका
प्रतिज्ञाहानिलक्षणम्
तस्यावान्तरभेदान् दशयति -- प्रतिज्ञेत्यादिना। यत्र
प्रतिज्ञातार्थविरुद्धाभ्युपगमः प्रतिज्ञातार्थपरित्यागो वा तत्र
प्रतिज्ञाहानिः। यथा ऽशब्दो ऽनित्यः प्रत्यक्षगुणत्वात्ऽ इत्यत्र
ऽसो ऽयम् गकारःऽ इत्यादिप्रत्यभिज्ञाबलात्परेण बाधे उद्भाविते
ऽअस्तु तर्हि नित्यः शब्दःऽ इति नित्यत्वमङ्गीकुर्वन् वादी शब्दस्य
अनित्यत्वप्रतिज्ञां जहाति।
बालप्रिया
प्रतिज्ञाहानिं
लक्षयति - यत्र प्रतिज्ञातार्थेति। प्रतिज्ञातस्य साध्यस्य यत् विरुद्धं
तदङ्गीकारः प्रतिज्ञातस्य साध्यस्य त्यागो वा प्रतिज्ञाहानिः। इदं
च"साध्यधर्मप्रत्यनीकेन धर्मेण प्रत्यवस्थिते प्रतिदृष्टान्तधर्मं
स्वदृष्टान्ते ऽभ्यनुजानन् प्रतिज्ञां जहातीति प्रतिज्ञाहानिः"इत्यादि भाष्यानुसारि लक्षणम्। विश्वनाथस्तु -"स्वपक्षेपरपक्षधर्माभ्यनुज्ञा प्रतिज्ञाहानिः। स्वयं
विशिष्याभिहितपरित्याग इति फलितार्थः। सेयं
पक्षहेतुदृष्टान्तसाध्यतदन्यहानिभेदात् पञ्चधा भावति। यथा शब्दः
अनित्यः कृतकत्वात् इत्युक्ते
प्रत्यभिज्ञाबाधितविषयो ऽयमित्युत्तरिते अस्तु तर्हि घट एव पक्ष
इति। एवं तत्रैव शब्दो ऽनित्यः ऐन्द्रियकत्वात् इत्युक्ते
हेतोरनैकान्तिकत्वमिति प्रत्युक्ते अस्तु कृतकत्वादिति हेतुरिति।
एवं पर्वतो वह्निमान् धूमात् आलोकवदित्युक्ते दृष्टान्तः
साधनविकल इति प्रत्युक्ते अस्तु तर्हि महानसविदिति। एवं अत्रैव
सिद्धसाधनेन प्रत्युक्ते अस्तु तर्हिं इन्धनवानिति। अन्यहानिस्तु
विशेषणहान्यादिः, यथा तत्रैव
नीलधूमादित्युक्ते ऽसमर्थविशेषणत्वेन प्रत्युक्ते अस्तु तर्हिं धूतादिति
हेतोरिति"इत्याह। तदनुसारेण दिनकर्याम् -
ऽविशिष्य प्रतिज्ञातस्य पक्षादेः परित्यागरूपप्रतिज्ञाहानेःऽ इति
प्रोक्तम्।
प्रकाशिका
प्रतिज्ञान्तरलक्षणम्
परोक्तदोषोद्दिधीर्षया पूर्वानुक्तविशेषणविशिष्टतया
प्रतिज्ञातार्थकथनम् प्रतिज्ञान्तरम्। यथा -- क्षित्यादिकं गुणजन्यम्
कार्यत्वात् इत्यत्र अदृष्टजन्यत्वेन सिद्धसाधनोद्भावने
ऽसविषयकऽ इति गुणविशेषणदानम्।
बालप्रिया
प्रतिज्ञान्तरं

लक्षयति - परोक्तेति। गुणविशेषणदानमिति। सविषयकगुणजन्यत्वं
साध्यम्। अदृष्टस्य तु सविषयकत्वाभावात् तज्जन्यत्वमादाय न
सिद्धसाधनमिति भावः। ऽप्रतिज्ञातार्थस्येत्युपलक्षणम्।
हेत्वतिरिक्तार्थंस्येति तत्त्वम्। तेन उदाहरणान्तरम्, उपनयान्तरम्,
निगमनान्तरं च प्रतिज्ञान्तरत्वेन सङ्गृहीतं भवतिऽ इति
विश्वनाथः। हेत्वन्तरं तु सूत्रकारेण पृथङ्निग्रहस्थानत्वेन
निर्दिष्टम्।
प्रकाशिका
प्रतिज्ञाविरोधलक्षणम्
स्वोक्तसाध्यविरुद्धहेतुकथनम् प्रतिज्ञाविरोधः। यथा - द्रव्यं
गुणभिन्नम् रूपादितः पृथक्त्वेन अनुपलभ्यमानत्वात् इति।
बालप्रिया
प्रतिज्ञाविरोधं
लक्षयति - स्वोक्तसाध्येति। रूपादितः पृथक्त्वेन अनुपलभ्यमानत्वं हि
गुणाभिन्नत्वव्याप्यम्, न गुणभिन्नत्वसाधकम्। अतो
गुणभिन्नत्वाभावव्याप्तस्य हेतोः कथनात् प्रतिज्ञाविरोध इत्यर्थः।
प्रकाशिका
प्रतिज्ञासन्न्यासलक्षणम्
स्वोक्तेर्ऽथे परेण
दूषिते तदपलापः प्रतिज्ञासन्न्यासः। यथा -- ऽशब्दो ऽनित्यः
ऐन्द्रियकत्वात्ऽ इत्युक्ते परेण सामान्ये व्यभिचारमुद्भाव्य
दूषिते स्वोक्तमपलपति ऽकेनोच्यते शब्दो ऽनित्यःऽ इति।
बालप्रिया
प्रतिज्ञासन्न्यासं
लक्षयति -- स्वोक्तेर्ऽथे इति। प्रतिज्ञाहानौ प्रतिज्ञातार्थस्य त्यागः
प्रतिज्ञासन्न्यासे तु तस्यापलाप इति भेदः।
प्रकाशिका
हेत्वन्तरलक्षणम्
परोक्तदूषणोद्दिधीर्षया पूर्वोक्तहेतुकोटौ
विशेषणान्तरोपादानम् हेत्वन्तरम्। यथा ऽशब्दो ऽनित्यः
प्रत्यक्षत्वात्ऽ इत्यत्र सामान्ये व्यभिचारोद्भावने ऽजातिमत्त्वे
सतिऽ इति विशेषणदानम्।
बालप्रिया
हेत्वन्तरं लक्षयति
- परोक्तेति। परोक्तदूषणोद्दिधीर्षया
पूर्वोक्तहेतुतावच्छेदकातिरिक्तहेतुतावच्छेदकविशिष्टवचनं
हेत्वन्तरमित्यर्थः। जातिमत्त्वे सतीति विशेषणे दत्ते तु सामान्ये
जातिमत्त्वाभावात् न व्यभिचारः।
प्रकाशिका
अर्थान्तरलक्षणम्

प्रकृतानुपयुक्तार्थकथनम् अर्थान्तरम्।
यथा-नित्यः शब्दः अस्पर्शवत्त्वात् इति हेतुः। हेतुपदं च
हिनोतेस्तुनिप्रत्यये निष्पन्नम्; पदं च सुप्तिङन्तम् इत्यादि।
बालप्रिया
अर्थान्तरं लक्षयति
- प्रकृतानुपयुक्तेति। प्रकृतानाकाङ्क्षितार्थाभिधानमित्यर्थः।
प्रकाशिका
निरर्थकलक्षणम्
अवाचकशब्दप्रयोगो निरर्थकम्। यथा शब्दः अनित्यः
जबगडदशत्वात् इत्यादि।
अविज्ञातार्थलक्षणम्
परिषत्प्रतिवाद्यबोधप्रयोजकपदप्रयोगः अविज्ञातार्थम्। तच्च
ऽक्लिष्टान्वयं अप्रसिद्धार्थकं त्वरितोच्चारितम्ऽ इत्यादिरूपम्।
बालप्रिया
अविज्ञातार्थं
लक्षयति - परिषदिति। वादिनां त्रिवारमुक्तमपिप्रतिवादिना
सदस्यैश्च यन्न बुध्यते तत् अविज्ञातार्थम्।
ऽअवहिताविकलव्युत्पन्नपरिषत्प्रतिवादिबोधानुकूलोपस्थित्य
जनकवाचकवाक्यप्रयोगो ऽविज्ञातार्थम्। वाचकेत्यनेन
निरर्थकापार्थङ्कव्युदासःऽ इति विश्वनार्थः। तादृशं वाक्यं ऽभूस्तनं
हिमभेषजवत्ऽ इत्यादिकम्। भूस्तनमित्यस्य पर्वत इत्यर्थंः।
हिमस्य भेषजम् अग्निः तद्वान् इति हिमभेषजवदित्यस्थार्थः।
ऽअग्निर्हिमस्य भेषजम्ऽ इति श्रुतेः।
प्रकाशिका
अपार्थकलक्षणम्
परस्परानन्वितपदसमूहः अपार्थकम्। यथा-शब्दत्वं घटः पटः
नित्यं अनित्यं च प्रमेयत्वात् इत्यादि।
बालप्रिया
अपार्थकं लक्षयति -
परस्परेति। अभिमतवाक्यार्थबोधानुकूलाकाङ्क्षाशून्यपदसमूहः
अपार्थकमित्यर्थः।
प्रकाशिका
अप्राप्तकाललक्षणम्
अवयवानां
व्युत्क्रमेण कथनम् अप्राप्तकालम्। यथा शब्दत्वात् शब्दः अनित्यः
इत्यादि।
बालप्रिया
अप्राप्तकालं
लक्षयति - अवयवानामिति।"प्रतिज्ञादीनां अवयवानां यथालक्षणं
अर्थवशात् क्रमः। तत्रावयवविपर्यासेन वचनं अप्राप्तकालम्"इति

भाष्यानुसारीदं लक्षणम्। विश्वनाथस्तु-अवयवस्य कथैकदेशस्य
विपर्यासः वैपरीत्यम्। तथा च
समयबन्धविषयीभूतकथाक्रमविपरीतक्रमेणाभिधानं पर्यवसन्नम्।
तत्रायं क्रमः-वादिना साधनमुक्त्वा सामान्यते हेत्वाभासा उद्धरणीयाः
इत्येकः पादः, प्रतिवादिनश्च तत्रोपालम्भः द्वितींयः पादः,
प्रतिवादिनः स्वपक्षसाधनं तत्र हेत्वाभासोद्धारणं चेति तृतीयः
पादः। जयपराजयव्यवस्था चतुर्थः पादः। एवं प्रतिज्ञाहेत्वादीनां
क्रमः। तत्र सभाक्षोभव्यामोहादिना व्यत्यस्ताभिधानं अप्राप्तकालम्ऽ
इति प्रतिपादयति।
प्रकाशिका
न्यूनलक्षणम्
यत्किञ्चिदवयवशून्यावयवाभिधानम् न्यूनम्। स्पष्टम्।
अधिकलक्षणम्
अधिकहेत्वादिकथनम् अधिकम्। यथा शब्दः अनित्यः शब्दत्वात्
श्रावणत्वाच्च इत्यादि।
पुनरुक्तलक्षणम्
अनुवादं विना
कथितस्य पुनः कथनम् पुनरुक्तम्। यथा -- शब्दः अनित्यः, शब्दः
अनित्यः इत्यादि।
बालप्रिया
पुनरुक्तं लक्षयति - अनुवादं विनेति।
निष्प्रयोजनं पुनरभिधानं पुनरुक्तम्। अनुवादस्तु व्यख्यारूपः
सप्रयोजनकः। अतो न तत्रातिव्याप्तिः। तथा च
समानार्थकसमानानुपूर्वीकशब्दस्य निष्प्रयोजनं पुनरभिधानं
शब्दपुनरुक्तम्। यथा शब्दः अनित्यः शब्दः अनित्य इति।
समानार्थभिन्नानुपूर्वीकशब्दस्य निष्प्रयोजनं पुनः
अभिधानमर्थपुनरुक्तम्। यथा शब्दः अनित्यः ध्वनिर्निरोधधर्मक
इति।
प्रकाशिका
अननुभाषणलक्षणम्
परिषदा
त्रिरभिहितस्यापि अननुवादः अननुभाषणम्।
बालप्रिया
अननुभाषणं
लक्षयति -- परिषदेति। वादिना त्रिरुक्तस्य परिषदा विज्ञातार्थस्य
वाक्यस्य प्रतिवादिना
अननुवादः
अननुभाषणम्। अज्ञानसाङ्कर्यनिरासाय अज्ञानमनाविष्कुर्वतेति
विक्षेपसाङ्कर्यनिरासाय कथामविच्छिन्दतेति च विशेषणीयम्
इत्याचार्याः। न च अप्रतिभासाङ्कर्यम्, उत्तरप्रतिपत्तावपि

सभाक्षोभादिना अननुभाषणसम्भवादिति विश्वनाथः।
प्रकाशिका
अज्ञानलक्षणम्
परिषदा विज्ञातस्य
वादिना त्रिरभिहितस्यापि वाक्यार्थस्याबोधः अज्ञानम्
अप्रतिभीलक्षणम्
उत्तरार्हं परोक्तं
बुद्ध्वापि उत्तरस्य अस्फूर्तिवशात् तूष्णींभावः अप्रतिभा।
बालप्रिया
अप्रतिभां लक्षयति
-- उत्तरार्हमिति। न चात्र अननुभाषणस्यावश्यकत्वात् तदेव
दूषणमस्त्विति वाच्यम्। परोक्ताननुवादे हि तत्। अप्रतिभायां तु
परोक्तानुवादे ऽपि उत्तराप्रतिपत्तिरिति विशेषात्।
प्रकाशिका
विक्षेपलक्षणम्
असम्भवत्कालान्तरकार्यव्यासङ्गानुद्भाव्य कथाविच्छेदः
विक्षेपः।
बालप्रिया
विक्षेपं लक्षयति --
असम्भवदिति। कालान्तरे कर्तुं शक्यं वस्तुत इदानीं भवितुमनर्हं
यत् कार्यं तत्र व्यासङ्गमुद्भाव्य कथाविच्छेदो विक्षेपः। तेन
राजपुरुषादिभिराकारणे गृहजनादिभिर्वा
आवश्यककार्यार्थमाकारण स्वगृहदाहादिकं पश्यतो गमने
वास्तवशिरोरोगादिना प्रतिबन्धे वा न विक्षेपः। ऽयत्र कर्तव्यं
व्यासज्य कथां व्यवच्छिन्नत्ति इदं मे करणीयं विद्यते तस्मिन्नवसिते
पश्चात् कथयामीति विक्षेपो नाम निग्रहस्थानम्ऽ इति भाष्यम्।
प्रकाशिका
मतानुज्ञालक्षणम्
स्वपक्षे
दोषमनुद्धृत्य परपक्षे दोषाभिधानम् मतानुज्ञा।
बालप्रिया
मतानुज्ञां लक्षयति
- स्वपक्ष इति। स्वसिद्धान्ते परोक्तं दोषमङ्गीकृत्यानुद्धृत्य च
परसिद्धान्ते ऽपि समानो दोष इत्युद्भावनं मतानुज्ञेत्यर्थः।
यथा-पुरुषत्वाच्चेदहं चोरः तत एव भवानपि चोर इत्यादिकम्।
प्रकाशिका
पर्यनुयोज्योपेक्षणनपलक्षणम्
उद्भावनार्हपरकीयनिग्रहस्थानानुद्भावनं
पर्यनुयोज्योपेक्षणम्।
बालप्रिया

पर्यनुयोज्योपेक्षणं लक्षयति - उद्भावनार्हेति।
पर्यनुयोज्यो नाम निग्रहोपपत्त्या चोदनीयः, तस्योपेक्षणं
निग्रहस्थानं प्राप्तो ऽसीत्यननुयोगः। एतच्च कस्य पराजय
इत्यनुयुक्तया परिषदा वचनीयम्। न खलु निग्रहं प्राप्तः
स्वकौपीनं विवृणुयात्ऽ इति भाष्यम्।
ऽननु वादिना
कथमिदमुद्भाव्यम्, स्वकौपीनविरणस्यायुक्तत्वादिति
चेत्-सत्यम्। मध्यस्थेनैव इदमुद्भाव्यम्, वादे च
स्वयमुद्भावने ऽप्यदोषःऽ इति विश्वनाथः। शिष्टं स्पष्टम्।
अत्र
जातिनिग्रहस्थानविषये
भाष्य-वार्तिक-तात्पर्यटीका-परिशुद्धि-न्यायपरिशिष्ट-न्यायपरिशिष्ट-न्यायमञ्जरी
-तार्किकरक्षादिषु
ग्रन्थेषु वेदान्तदेशिककृतन्यायपरिशुद्धौ च बहुविवेचितमस्ति।
तत्सर्वं सावधानं परामृश्य कश्चिन्महान्प्रबन्धः पृथगेव लेखनीयः।
प्रकरणग्रन्थे एतावदेव पर्याप्तमिति विस्तरभयादुपरम्यते।
प्रकाशिका
निरनुयोज्यानुयोगलक्षणम्
निग्रहस्थानरहिते
निग्रहस्थानोद्भावनम् निरनुयोज्यानुयोगः।
अपसिद्धान्तलक्षणम्
एकसिद्धान्तमतमाश्रित्य कथाप्रवृत्तौ
तद्विरुद्धसिद्धान्तमतमालम्ब्योत्तरदानम् उपसिद्धान्तः।
प्रतिज्ञाहानि -
अननुभाषण - अज्ञान - अप्रतिभा -
विक्षेपपर्यनुयोज्योपेक्षणानामभावे, मन्येषां
हेत्वाभासव्यतिरिक्तनिग्रहस्थानानां गुणे, हेत्वाभासानां च
द्रव्यादिषु अन्तर्भावः यथायथं बोध्यः। अतिरिक्तः सूत्रार्थः सुगम
इत्यभिप्रायेणाह - शेषमिति।
बालप्रिया
जातीनां
निग्रहस्थानानां च कॢप्तेषु सप्तसु पदार्थेषु अन्तर्भाव-प्रकारमाह -
प्रतिज्ञाहानीत्यादिना। दिनकरीग्रन्थे प्रतिज्ञाहान्यादीनां
निग्रहस्थानानां प्रत्येकमुपादानेन तत्र तत्रान्तर्भावः विशदमुक्तः
तत एवावसेयः। असदुत्तररूपजातेः
स्वाभिमतार्थव्याघातकस्वोत्तरवाक्यरूपतया शब्दात्मके
गुणे ऽन्तर्भावः।
दीपिका
शक्तेरतिरिक्तपदार्थत्वखण्डनम्
ननु

करतलानलसंयोगे सत्यपि प्रतिबन्धके सति दाहानुत्पत्तेः शक्तिः
पदार्थान्तरमिति चेत् - न। प्रतिबन्धकाभावस्य कार्यमात्रे
कारणत्वेन शक्तेरनुपयोगात्। कारणत्वस्यैव शक्तिपदार्थत्वात्।
प्रकाशिका
ननु अनलसंयोगे
सत्यपि मण्यादिसमवधाने दाहो न जायत इति मण्यादेः
प्रतिबन्धकता वाच्या। सा च वह्नौ दाहानुकूलशक्तिस्वीकार एव
निर्वहति। प्रतिबन्धकतायाः कार्यांनुकूलशक्तिविघटकत्वरूपत्वात्।
अतः तदन्यथानुपपत्तिसिद्धायाः शक्तेरतिरिक्तत्वात् ऽसप्तैव पदार्थाःऽ
इत्यसङ्गतमिति प्राभाकरः शङ्कते - नन्विति। नन्वेवं
शक्तिसिद्धावपि तस्या अतिरिक्तत्वासिद्धिरिति चेत् - न। यतो न
तावद्द्रव्यात्मिका शक्तिः गुणादिवृत्तित्वात्।
अत एव न
गुणकर्मान्यतररूपा, न च सामान्याद्यन्यतमरूपा, उत्पत्ति
विनाशशालित्वात्। एवं चातिरिक्तपदार्थत्वसिद्धिरिति। ननु
प्रतिबन्धकत्वं न कार्यानुकूलशक्तिविघटकत्वमे किं तु
कारणीभूताभावप्रतियोगित्वम्। तच्च मण्यभावस्य हेतुत्वादेव
उपपद्यते, मणिसमवधानदशायां च तदभावरूपकारणान्तराभावादेव
दाहानुत्पत्तिसम्भवः। इत्थं चातिरिक्तशक्तिस्वीकारो ऽनुचित इति
समाधत्ते - प्रतिबन्धकाभावस्येति। ननु ऽदाहोत्पादे वह्निः शक्तःऽ
इति व्यवहारान्यथानुपपत्त्या सेत्स्यति अतिरिक्ता शक्तिरित्याशङ्क्य
तस्याः कारणतारूपत्वे ऽपि व्यवहारोपपत्तेः नातिरिक्ता शक्तिरित्याह
- कारणत्वस्येति। ननु मण्याद्यभावस्य हेतुत्वे मणिसमवधानदशायां
सत्यप्युत्तेजके दाहो न स्यात्। मन्मते तु मण्याद्यपसारणदशायामिव
उत्तेजकसमवधानदशानयामपि वह्नौ दाहानुकूलशक्त्यन्तरोत्पत्तेः
अङ्गीकारेण न दोष इति चेत् - न।
उत्तेजकाभावविशिष्टमण्याद्यभावस्य कारणत्वाङ्गीकारेण अदोषात्। न
च उत्तेजकानां अननुगतत्वात्
तत्तदुत्तेजकाभावकूटविशिष्टमण्याद्यभावस्यैव कारणतायाः
कल्पनीयतया गौरवमिति वाच्यम्। दाहानुकूलशक्ति प्रति
एतादृशकारणतायाः तवाप्यावश्यकत्वात्
अनन्तशक्तितत्प्रागभावतद्ध्वंसकल्पने गौरवादिति सङ्क्षेपः।
बालप्रिया
करतलस्य अग्नेश्च
संयोगे सत्यपि मणियपप्रतिबन्धकसत्त्वे करतलस्य दाहो न जायत
इति शक्तिः पदार्थान्तरम्। इत्याशङ्कितं दीपिकायाम्। तत्र
दाहानुत्पत्तिमात्रेण शक्तेः पदार्थान्तरत्वं कथ सिध्येत्, अतः
शङ्केयमनुपपन्ना इत्यतः शङ्काग्रन्थस्याशयं वदन् अवतारयति
-- नन्वनलंसयोगे सत्यपीति। करतलस्य अनलसंयोगे सत्यपि
मण्यादिसत्त्वे करतलस्य दाहो न जायते मण्याद्यसत्त्वे दाहो जायते।

यत्सत्त्वे कार्यं नोत्पद्यते यदसत्त्वे चोत्पद्यते तस्य प्रतिबन्धकत्वात्
मण्यादेः सत्त्वे दाहो न जायते तदसत्त्वे दाहो जायत इति
मण्यादेः दाहप्रतिबन्धकत्वं वाच्यम्। प्रतिबन्धकत्वं च
कार्यानुकूलशक्तिविघटकत्वम्। तथा च दाहानुकूला या अग्निनिष्ठा
शक्तिः सा मणिना नाश्यते। अतः शक्तिविशिष्टवह्नेरेव दाहजनकत्वात्
मणिसत्त्वे दाहशक्तेर्नाशात् शक्तिविशिष्टवह्नेरेव दाहजनकत्वात्
मणिसत्त्वे दाहशक्तेर्नाशात् शक्तिविशिष्टवह्निरूपकारणाभावात् न
दाहः। इत्थं च कार्यानुकूलशक्तिविघटकत्वात् विना नोपपद्यत
इत्येवमर्थापत्तिप्रमाणेन शक्तिरूपस्यातिरिक्तस्य पदार्थस्य सिद्धौ
पदार्था इत्युक्तिः सङ्गच्छत इति शङ्कितुर्भावः।
नन्वेवमिति।
अर्थांपत्तिप्रमाणेन पूर्वोक्तरीत्या शक्तिरूपपदार्थस्य सिद्धाविप तस्याः
सप्तपदार्थातिरिक्तत्वं कथमित्यर्थः। यतो न तावत्
द्रव्यात्मिकेत्यादि। शक्तिः द्रव्यभिन्ना गुणादिवृत्तित्वात्
गुणत्वादिवत्। शक्तिर्हि रूपादिगुणेषु क्रियादौ चास्ति।
अवयवरूपादौ अवयविरूपादिकारणत्वेन तदनुगुणशक्तेः सत्त्वात्
तस्याः रूपादिगुणवृत्तित्वात् क्रियायाः संयोगादिजनकत्वेन
तदनुकूलशक्तिमत्त्वात् शक्तेः क्रियावृत्तित्वाच्च। तथा च
गुणादिवृत्तिगुणत्वक्रियात्वादिकं यथा न द्रव्यं तथा शक्तिरपि
गुणादिवृत्तित्वात् न
द्रव्यमित्यर्थः। अत एवेति। गुणादिवृत्तित्वादेवेत्यर्थः। शक्तिः
गुणकर्मान्यतरभिन्ना गुणादिवृत्तित्वात् गुणत्वादिवत्।
गुणकर्मोभयभेदस्य साध्यत्वे गुणरूपत्वे कर्मंरूपत्वे ऽपि च ऽएवं
नोभयम्ऽ इति न्यायेन उभयभेदसम्भावात् उद्धेश्यासिद्धिः
स्यादित्यालोच्य अन्यतरभेदस्य साध्यत्वमनुसृतम्। यत्र गुणभेदः
कर्मभेदश्च उभयमस्ति तत्रैव गुणकर्मान्यतरभेदः संभवतीति भावः।
न च
सामान्याद्यन्यतमरूपेति। शक्तिः सामान्याद्यन्यतमभिन्ने
उत्पत्तिविनाशशालित्वात् घटादिवत्। उत्पत्तिमत्त्वमात्रस्य हेतुत्वं
सामान्याद्यन्यतमभेदाभाववति ध्वंसे उत्पत्तिमत्त्वसत्त्वात् व्यभिचारः।
तद्वारणाय विनाशशालित्वादिति। ध्वंसस्य विनाशाभावात् न
व्यभिचारः। विनाशाशालित्वामात्रोक्तौ उक्तसाध्याभाववति प्रागभावे
विनाशित्वसत्त्वात् व्यभिचारः। तद्वारणाय उत्पत्तिनिवेशः।
प्रागभावस्यानादेः उत्पत्तिविराहत् न व्यभिचारः। तथा च
उत्पत्तिविनाशोभयवत्त्वं उत्पत्तिविशिष्टविनाशवत्त्वं वा हेतुः।
सामान्यादीत्यत्र आदिशब्देन विशेषसमवायाभासव गृह्यत। एवं चेति।
पूवौक्तानुमानैरर्थापत्त्या चानुगृजहीतेन शक्तिः अतिरिक्तः पदार्थः
कॢप्तपदार्थानन्तर्भूतत्वे सति पदार्थत्वात् इति
परिशेषानुमानेन शक्तेरतिरिक्तपदार्थत्वं सिध्यतीति भावः।
ननु

मूल पाठ: Tarkasaṃgraha with autoentary (Dīpikā), Nīlakaṇṭha's Dīpikāprakāśikā and Bālapriyā · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc