भाषा

ENहिગુ
ग्रंथ पाठ

तर्कसंग्रह (टीका सहित) · भाग 301320

उत्पत्तेरनन्तरं कार्यस्य। त्रैकालिकः संसर्गावच्छिन्नाभावः
अत्यन्ताभावः। यथा भूतले घटो नास्ति इति।
तादात्म्यावच्छिन्नप्रतियोगिताकाभावो ऽन्योन्याभावः। यथा
घटः पटो न भवतीति।
दीपिका
प्रागभावं लक्षयति
- अनादिरिति। आकाशादौ अतिव्यापितवारणाय सान्त इति। घटादौ
अतिव्यापितवारणाय अनादिरिति। प्रतियोगिसमवायिकारणवत्तिः
प्रतियोगिजनको भविष्यतीति व्यवहारहेतुः प्रागभावः। ध्वंसं
लक्षयति-सादिरिति। घटादौ अतिव्यापितवारणाण अनन्त इति।
आकाशादौ अतिव्याप्तिवारणाय सादिरिति। प्रतियोगिजन्यः
प्रतियोगिसमवायिकारणवृत्तिः ध्वस्त इति व्यवहारहेतुः ध्वंसः।
अत्यन्ताभावं लक्षयति -
त्रैकालिकेति।
अन्योन्याभावे अतिव्याप्तिवारणाय संसर्गेति।
ध्वंसप्रागभावयोरतिव्याप्तिवारणाय त्रैकालिक इति।
अन्योन्याभावं लक्षयति - तादात्म्येति।
प्रतियोगितावच्छेदकारोप्यसंसर्गभेदादेकप्रतियोगिकयोरत्यन्तान्योन्याभावयोर्भिन्नत्वम्।
केवलदेवदत्ताभावात् ऽदण्ड्यभावऽ इति प्रतीत्या विशिष्टाभावः,
ऽएकसत्त्वेपि द्वौ न स्तःऽ इति प्रतीत्या द्वित्वावच्छिन्नाभावः,
संयोगेन घटवति समवायेन घटाभावः, तत्तद्घटाभावात्
घटत्वावच्छिन्नप्रतियोगिताकसामान्याभावश्च अतिरिक्तः।
एवमन्योन्याभावो ऽपि।
प्रकाशिका
प्रागभावे
प्रमाणमाह - भविष्यतीति। संसर्गेति। तादात्म्यातिरिक्तसंसर्गेत्यर्थः।
ध्वंसप्रागभावयोरपि प्रतियोगितावच्छेदकसम्बन्धः वर्तत इति
मताभिप्रायेण त्रैकालिकेति विशेषणम्। अन्यथा
अन्योन्याभाववारकेणैव तयोर्वारणात् तद्व्यर्थतापत्तेः। यदि
संसर्गावच्छिन्नेत्यादेः अन्योन्याभावभिन्नाभाव इत्यर्थः तदा
त्रैकालिकेति सिद्धान्ते ऽपि सार्थकं त्रैकालिकत्वमिह नित्यत्वरूपम्।
मूले भूतले घटो
नास्तीति। अत्र घटाभावांशे भूतलस्य विशेष्यत्वं सम्बन्धः,
घटाभाववत् भूतलम् इत्यत्र तु भूतलांशे अभावस्य विशेषणत्वं
संसर्ग इति वदतां प्राचां अयमभिप्रायः - विशेष्यत्वविशेषणत्वे
स्वरूपसम्बन्धविशेषौ न ज्ञानीयविषयताविशेषौ। न च
विशेषणताख्यः स्वरूपसम्बन्ध एक एव अस्तु, ऽभूतले घटो नास्तिऽ
इति प्रतीतौ ऽभूतलं घटाभाववत्ऽ इति प्रतीतितो वैलक्षण्यस्य
विशेषणत्वावच्छिन्नाधेयताविषयकत्वकल्पनेनैव निर्वाहादिति
वाच्यम्। तादृशप्रतीत्योः वैलक्षण्याय प्रथमायां

विशेषणत्वावच्छिन्नाधेयता सन्निकर्षः, द्वितीयायां विशेषणता
संसर्गः इफयुपेयते; किं वा प्रथमायां विशेषणता संसर्गः,
द्वितीयायां विशेषणत्वावच्छिन्नाधारता इत्यत्र विनिगमकस्य
दुर्लभत्वात्। न च तादृशप्रतीत्योः संसर्गांशे ऽविलक्षणत्वे ऽपि
विशेषणविशेष्यभावभेदात् वैलक्षण्योपपत्तिः इत्युभयत्र
विशेषणताया एव सम्बन्धतास्त्विति वाच्यम्। तावतापि ऽभूतले घटो
नास्तिऽ ऽभूतलवान् घटाभावःऽ इत्यनयोः ऽभूतलं घटाभाववत्ऽ
ऽघटाभावे भूतलम्ऽ इत्यनयोश्च प्रतीत्योः वैलक्षण्यानिर्व्राहात्।
तस्मात् विशेष्यत्वविशेषणत्वनामकयोः उभयोः
स्वरूपसम्बन्धविशेषयोः संसर्गता। तथा च ऽभूतलवान् घटाभावःऽ
इत्यत्र घटाभावांशे भूतलस्य विशेषणत्वं संसर्गः, घटाभावे
भूतलम् इत्यत्र च भूतलांशे ऽभावस्य विशेष्यतासंसर्गः भासते। स
च तत्र अबाधित इति अभ्रमत्वनिर्वाह इति सङ्क्षेपः।
ध्वंसप्रागभावयोरिव
एकप्रतियोगिकयोः अत्यन्ताभावान्योन्याभावयोः किम् एकविधत्वं,
नेत्याह - प्रतियोगितेति। आरोप्येति। प्राचीनमताभिप्रायेण। अत्र
यथायोगं प्रतियोगितावच्छेदकधर्मभेदैव
संसर्गभेदो ऽप्यत्यन्ताभावबहुत्वप्रयोजकः।
प्रतियोगितावच्छेदकधर्मभेदः अन्योन्याभावबहुत्वप्रयोजक इति
द्रष्टव्यम्। तदेव दर्शयति-केवलेति। केवलदेवदत्ताभावात्
विशिष्टाभावो ऽतिरिक्त इत्यन्वयः। अन्यथा केवलदेवदत्तवति ऽदण्डी
नास्तिऽ इति प्रत्ययानापत्तेः। उभयाभावस्यातिरिक्तत्वे प्रतीतिं
प्रमाणयति - एकसत्त्वे ऽपीति। घटपटौ द्वौ न स्व इत्यादौ घटत्वं
पटत्वं उभयत्वं चैतत्त्रितयं प्रतियोगितावच्छेदकम्, केवलघटवति
केवलपटवति यत्किञ्चिदुभयवति च तथा प्रत्ययात्।
सम्बन्धभेदेनाभावस्यातिरिक्तत्वं दर्शयति - संयोगेनेति।
सामान्यविशेषाभावयोः भेदं दर्शयति - तत्तदिति। अतिरिक्त इति।
अन्यथा यत्किञ्चित् घटवति घटो नास्तीति प्रत्ययापत्तेः।
एवमन्योन्याभावो ऽपीति। अवच्छेदकभेदात् तत्तद्घटभेदः ततः
उभयभेदः घटभेदश्च अतिरिक्त इत्यर्थः।
बालप्रिया
"त्रैकालिकः संसर्गाभावः अत्यन्ताभावः"इति
मूलम्। संसर्ङ्गाभाव इत्यस्य संसर्गावच्छिन्नप्रतियोगिताकाभाव
इत्यर्थः। तत्र
त्रैकालिकत्वमात्रोक्तौ अन्योन्याभावे ऽतिव्याप्तिः, तस्यापि
नित्यत्वात्। तद्वारणाय संसर्गावच्छिन्नप्रतियोगिताक इत्युक्तम्। न
च संसर्गावच्छिन्नप्रतियोगिताकत्वनिवेशे ऽपि अन्योन्याभावस्य
तादात्म्यसम्बन्धावच्छिन्नप्रतियोगिताकत्वात्
अतिव्याप्तितादवस्थ्यमिति वाच्यम्। संसर्गाभाव इत्यनेन
तादात्म्यातिरक्तिसंबन्धावच्छिन्नप्रतियोगिताकाभावस्य

विवक्षितत्वात्। तदाह - तादात्म्यातिरिक्तसंसर्गेत्यर्थ इति।
संसर्गाभावत्वमात्रोक्तौ ध्वंसप्रागभावयोरतिव्याप्तिः, तद्वारणाय
त्रैकालिक इति। ननु समवायेन घटाधिकरणे संयोगेन
घटो नास्ति,
संयोगेन घटाधिकरणे समवायेन घटो नास्ति इति
प्रतीत्युपपत्तये संयोगसम्बन्धावच्छिन्नघटाभाव -
समवायसम्बन्धावच्छिन्नघटाभावयोर्भेदो वक्तव्यः। तदर्थं
चात्यन्ताभावीयप्रतियोगितायां सम्बन्धावच्छिन्नत्वं अङ्गीक्रियते।
ध्वंसप्रागभावयोस्तु तादृशयुक्त्यसम्भवेन तयोः
संसर्गावच्छिन्नप्रतियोगिताकत्वं अप्रामाणिकम्। तथा च संसर्गाभाव
इत्यनेनैव ध्वंसप्रागभावयोर्वारणसम्भवात् त्रैकालिकेति
विशेषणं व्यर्थं इत्यत आह - ध्वंसप्रागभावयोरपीति।
ध्वंसप्रागभावयो अत्यन्ताभावविरोधितामते ऽश्यामघटे समवायेन
रक्तो नास्तिऽ ऽरक्तघ्टे समवायेन श्यामो नास्तिऽ इति प्रतीतौ
प्रागभावध्वंसयोरेव विषयतया तयोरपि
समवायसम्बन्धावच्छिन्नप्रतियोगिताकत्वमस्तीति तन्मतानुसारेण
ध्वंसप्रागभावयोरतिव्याप्तिवारणाय त्रैकालिकेति विशेषणमिति
भावः। अन्यथेति। ध्वंसप्रागभावयोः
सम्बन्धावच्छिन्नप्रतियोगिताकत्वानङ्गीकार इत्यर्थः।
अन्योन्याभाववारकेणैवेति। अन्योन्याभावे ऽतिव्यापितवारणाय
उपात्तेन
तादात्म्यातिरिक्तसम्बन्धावच्छिन्नप्रतियोगिताकत्वविशेषणेनैवेत्यर्थः।
तयोर्वारणात् - ध्वंसप्रागभावयोरतिव्याप्तिवारणसम्भवात्।
तद्व्यर्थतापत्तेः - त्रैकालिकेति विशेषणवैयर्थ्यापत्तेः। यदीति।
तथा च संसर्गाभाव इत्यस्य अन्योन्याभावभिन्नाभाव इत्यर्थः।
ध्वंसप्रागभावयोरपि अन्योन्याभावाभिन्नाभावत्वमस्तीति
तत्रातिव्याप्तिवारणाय त्रेकालिकेति विशेषणमिति भावः।
अनित्यपदार्थेष्वपि
पूर्वदिनश्वोदिनाद्यदिनाख्यभूतभविष्यद्वर्तमानरूपकालत्रयवृत्तित्वसम्भवात्
त्रैकालिकेति विशेषणे दत्ते ऽपि ध्वंसप्रागभावयोः अतिव्याप्तिः
तदवस्थेत्यत आह - त्रैकालिकत्वमिह नित्यत्वरूपमिति। नित्यत्वं च
ध्वंसाप्रतियोगित्वे सति प्रागभावाप्रतियोगित्वम्।
ध्वंसाप्रतियोगित्वनिवेशात् प्रागभावनिरासः।
प्रागभावाप्रतियोगित्वनिवेशात् ध्वंसनिरासः।
ननु भूतले घटो
नास्ति इत्यत्र घटाभावांशे भूतलस्य विशेष्यत्वं संम्बन्धः, भूतलं
घटाभाववत् इत्यत्र भूतलांशे घटाभावस्य विशेषणत्वं सम्बन्धः
इति प्राचीनैरुक्तं न सङ्गच्छते। भूतलं घटाभाववत् इति
प्रतीतौ भूतलस्य विशेष्यतया घटाभावस्य विशेषणतया न भानात्
भूतलांशे घटाभावस्य विशेषणत्वं सम्बन्ध इत्युक्तेः

सङ्गतत्वे ऽपि भूतले घटो नास्ति इति प्रतीतौ घटाभावस्य
विशेष्यतया भूतलस्य च प्रकारतया भानेन भूतलस्य
विशेष्यत्वाभावेन भूतलस्य विशेष्यत्वं सम्बन्ध
इत्युक्तेरसङ्गतत्वात्। तथा
बाधितविशेष्यत्वरूपसंसर्गावगाहितया तादृशप्रतीतेः भ्रमत्वापत्तिः
इत्यतः प्राचीनानामाशयं वक्तुं आरभते - तत्र घटाभावांश
इत्यादिना।
विशेष्यत्वविशेषणत्वेस्वरूपसम्बन्धविशेषाविति। यथा
दण्डविशिष्टः पुरुष इत्यत्र दण्डनिरूपितं विशेष्यत्वं पुरुषगतं
दण्डविशिष्टत्वात्मकं दण्डवयावर्त्यत्वरूपं वा आधारपुरुषस्वरूपं
तथा भूतलनिष्ठं घटाभावनिरूपितं विशेष्यत्वमपि
घटाभावविशिष्टत्वात्मकं आधारभूतलस्वरूपम्, यथा वा दण्डनिष्ठं
विशेषणत्वं आधेयदण्डस्वरूपम् तथा घटाभावनिष्ठं विशेषणत्वमपि
घटाभावस्वरूपम्। सम्बन्धतयोच्यमानं विशेष्यत्वं विशेषणत्वं च न
ज्ञानीयविशेष्यताप्रकारताख्यविषयताविशेषरूपम्, किं तु
स्वरूपसम्बन्धात्मकम्। तथा च ऽभूतले घटो नास्तिऽ इत्यत्र
विशेष्यतारूपविषयतायाः भूतले ऽभावे ऽपि
स्वरूपसम्बन्धात्मकविशेष्यत्वसत्त्वात् तेन सम्बन्धेन घटाभावांशे
भूतलस्य प्रकारतया भानात् प्रतीतेः प्रमात्वमेवेति। भावः। न च
विशेषणताख्य इति। तथा च भूतलघटाभावयोः विशेषणत्वमिति
एक एव सम्बन्धः। न च एकस्यैव सम्बन्धस्य द्वयोरपि प्रतीत्योर्विषयत्वे
तयोर्वैलक्षण्यं कथमिति वाच्यम्। सम्बन्धैक्ये ऽपि ऽभूतले घटो
नास्तिऽ इति प्रतीतौ विशेषणतासम्बन्धावच्छिन्नाधेयत्वं विषयः,
ऽभूतलं घटाभाववत्ऽ इति प्रतीतौ विशेषणत्वं विषय इत्येवं
प्रतीत्योः वैलक्षण्यस्य वक्तुं शक्यत्वादिति शङ्कितुः आशयः।
समाधत्ते - तादृशप्रतीत्योरिति। प्रथमायामिति। ऽभूतले घटो
नास्तिऽ इति प्रतीतावित्यर्थः। द्वितीयायामिति। ऽभूतलं
घटाभाववत्ऽ इति प्रतीतावित्यर्थः।
पुनः शङ्कते - न च
तादृशप्रतीत्योरिति। तथा चोभयत्रापि प्रतीन्त्योः विशेषणत्वनामकः
एक एव सम्बन्धः विषयः। तथापि ऽभूतले घटो नास्तिऽ इति प्रतीतौ
विशेष्यताख्यविषयता घटाभावनिष्ठा विशेषणताख्यविषयता
भूतलनिष्ठा। ऽभूतलं घटाभाववत्ऽ इति प्रतीतौ
विशेष्यताख्यविषयता भूतलनिष्ठा विशेषणताख्यविषयता
घटाभावनिष्ठा इत्येवं विषयतावैलक्षण्यादेव
तादृप्रतीत्योर्वैलक्षण्यं न सम्बन्धवैलक्षण्यादिति शङ्कितुरभिप्रायः।
विशेषणविशेष्यभावभेदादिति।
विशेषणता -
विशेष्यताख्यविषयतावैलक्षण्यादित्यर्थः।
समाधत्ते -

तावतापीति। ऽभूतले घटो नास्तिऽ इति प्रतीतौ घटाभावे
विशेष्यताख्यविषयता भूतले विशेषणताख्यविषयता ऽभूतलवान्
घटभावःऽ इत्यत्रापि तथैवेति विषयतावैलक्षण्याभावात् तयोः
वैलक्षण्यं न स्यात्। एवं ऽभूतलं घटाभाववत्ऽ इति प्रतीतौ
भूलनिष्ठा विशेष्यताख्यविषयता, घटाभावनिष्ठा
विशेषणताख्यविषयता, ऽघटाभावे भूतलम्ऽ इति प्रतीतावपि
तथैवेति विषयतावैलक्षण्याभावात् तयोः वैलक्षण्यं
दुरुपपादमिति भावः। एवं च स्वरूपात्मकविशेषणताख्यमेकमेव
सम्बन्धमङ्गीकृत्यविषयतावैलक्षण्यात् प्रतीतिवैलक्षण्यस्य
दुरुपपादत्वात् विशेषणत्वं विशेष्यत्वं चेति
स्वरूपात्मकसम्बन्धद्वयमङ्गीकृत्य सम्बन्धवैलक्षण्यादेव
प्रतीतिवैलक्षण्य निर्वोढव्यमिति वदन् उपक्रान्तं
प्रतीतेरभ्रमत्वमुपसंहरति - तस्मादिति। तथा च ऽभूतले घटो
नास्तिऽ इत्यत्र घटाभावे भूतलस्य विशेष्यत्व संसर्गः, ऽभूतलवान्
घटाभावःऽ इत्यत्र घटाभावे भूतलस्य विशेषणत्वं सम्बन्ध
इत्यनयोर्वैलक्षण्यम्। ऽभूतलं घटाभाववत्ऽ इत्यत्र भूतलांशे
घटाभावस्य विशेषणत्वं संसर्गः। ऽघटाभावे भूतलम्ऽ इत्यत्र
भूतलांशे घटाभावस्य विशेष्यत्वं सम्बन्ध इति तयोः
वैलक्षण्यमिति भावः।
नन्वेवमपि ऽघटाभावे
भूतलम्ऽ, ऽभूतले घटो नास्तिऽ इत्यनयोः
विशेष्यताविषयकत्वात् वैलक्षण्यं न स्यात्। एवं ऽभूतलवान्
घटाभावः, ऽभूतलं घटाभाववत्ऽ इत्यनयोः वैलक्षण्यं न स्यात्,
उभयत्र विशेषणतारूपसम्बन्धस्यैव विषयत्वादित्यत आह - सङ्क्षेप
इति।
विषयताविशेषात्मकविशेष्यविशेषणभाववैलक्षण्यसहकृतस्वरूपसम्बन्धात्मकविशेष्यविशेषणभाववैलक्षण्येन
प्रतीतीनां वैलक्षण्यमुपपादनीयम्। ययोः प्रतीत्योः
विषयतावैलक्षण्यं नास्ति तयोः सम्बन्धवैलक्षण्यमस्ति। ययोः
सम्बन्धवैलक्षण्यं नास्ति, तयोः विषयतावैलक्षण्यमस्ति इत्येवं
प्रतीतीनां वैलक्षण्यम्। तत्तस्सम्बन्धस्याबाधितत्वात् प्रमात्वं
चोपपद्यत इति भावः।
अस्य सन्दर्भस्य बहुवारमालोडने
कृते ऽपि तात्पर्याज्ञानात् आचार्यचरणान् अपृच्छम्। ते ऽपि बहुधा
आलोच्य प्रकाशिकायामीषत् शोधनं कृत्वा तात्पर्यमवर्णयन्।
तथैवाहमत्रालिखम्।
प्रतियोगितावच्छेदकधर्मभेदात्
प्रतियोगितावच्छेदकसम्बन्धभेदाच्च एकप्रतियोगिको ऽप्यत्यन्ताभावः
भिद्यते। एवं प्रतियोगितावच्छे दकधर्मभेदात्
एकप्रतियोगिको ऽप्यन्योन्याभावः भिद्यत इति सोदाहरणं
दीपिकायां निरूप्यते। ध्वंसप्रागभावयोस्तु तथा भेदो न

निरूपितः, तत्र कारणमाह - ध्वंसप्रागभावयोरिति। अयं भावः -
ध्वंसप्रागभावयोः सम्बन्धावच्छिन्नप्रतियोगिताकत्वं वा
किञ्चिद्धर्मावच्छिन्नप्रतियोगिताकत्वं वा नाङ्गीक्रियते। अतः
एकप्रतियोगिकानां ध्वंसानां एकप्रतियोगिकानां प्रागभावानां
चैकविधत्वमेव। अत्यन्तान्योन्याभावयोस्तु तदङ्गीकारात्
एकप्रतियोगिकानामत्यन्ताभावानां
भिन्नभिन्नधर्मसम्बन्धावच्छिन्नप्रतियोगिताकत्वे
प्रतियोगितावच्छेदकधर्मभेदात्
प्रतियोगितावच्छेदकसम्बन्धभेदाच्च भिन्नत्वमेव। एकप्रतियोगिकानां
अन्योन्याभावानां यद्यपि सम्बन्धभेदात् भेदो वक्तुमशक्यः,
तादात्म्यस्यैव प्रतियोगितावच्छेदकसम्बन्धत्वात्। तथापि
प्रतियोगितावच्छेदकधर्मभेदात् भेदो वक्तुं शक्यत इति भावः।
अरोप्येति
प्राचीनमताभिप्रायेणेति। संसर्गारोपजन्य प्रतीतिविषयो ऽभावः
अत्यन्ताभावः। संसर्गारोपो नाम तादात्म्यातिरिक्तसम्बन्धेन
प्रतियोग्यारोप इति प्रचीना आहुः। तथा
चात्यन्ताभावबुद्धिजनकारोपविषयसंयोगसमवायादिसम्बन्धभेदात्
अत्यन्ताभावभेद इति आरोप्यसंसर्गभेदादिति दीपिकाया अर्थ
इति भावः।
नवीनास्तु -
प्रतियोग्यारोपस्याभावबुद्धिहेतुतायाः निर्युक्तिकत्वात्
तादात्म्यातिरिक्तसम्बन्धावच्छिन्नप्रतियोगिताकाभावत्वमेव
संसर्गाभावत्वम्, त्रैकालिकत्वविशेषितं
तदेवात्यन्ताभावत्वमित्याहुः। तन्मतानुसारेण तु
प्रतियोगितावच्छेदकसम्बन्धभेदादत्यन्ताभावभेद इत्यूह्मम्।
प्रतियोगितावच्छेदकधर्मभेद इति तादात्म्यरूपस्य
प्रतियोगितावच्छेदकसम्बन्धस्य एकविधत्वात्
प्रतियोगितावच्छेदकसम्बन्धभेदः नान्योन्याभावभेदप्रयोजकतया
उक्त इत्यवधेयम्। केवलदेवदत्ताभावादिति। देवदत्ताभावस्य
दण्डविशिष्टदेवदत्ताभावस्य च यद्यपि देवदत्त एक एव प्रतियोगी,
तथापि एकत्र देवदत्तत्वं प्रतियोगितावच्छेदकम्, अन्यत्र दण्ड इति
प्रतियोगितावच्छेदकधर्मभेदात् देवदत्ताभाव-दण्ड्यभावयोर्भेदः।
यदि तु तयोर्भेदो नाङ्गीक्रियते तर्हि केवलदेवदत्तवति भूतले
देवदत्तो नास्ति इति प्रतीतिः यथा न भवति, तथा दण्डी नास्तीति
प्रतीतिरपि न भवेत्। भवति तु
तादृशी प्रतीतिः। अतः
केवलदेवदत्ताभावात् दण्डविशिष्टदेवदत्ताभावो ऽतिरिक्त इति
भावः।
घटपटौ द्वौ न स्त
इति। केवलघटवति वा केवलपटवति वा प्रदेशे ऽघटपटौ द्वौ न

स्तःऽ इति प्रतीतिः भवति, ऽघटो नास्तिऽ इति वा ऽपटो नास्तिऽ
इति वा प्रतीतिः न भवति। अतः केवलघटाभावात्
केवलपटाभावाच्च अतिरिक्ततया घटपटोभयाभावः स्वीकर्तव्यः।
ऽघटपटौ न स्तऽ इत्यत्र घटत्वमात्रं वा पटत्वमात्रं वा उभयत्वमात्रं
वा
न
प्रतियोगितावच्छेदकम्, प्रतियोगितावच्छेदकविशिष्टप्रतियोगिना
साकमभावस्य विरोधात् घटमात्रवति भूतले
प्रतियोगितावच्छेदकघटत्वविशिष्टघटरूपविरोधिसत्त्वेन ऽघटपटौ
न स्तःऽ इत्याकारकोभयाभावावगाहिप्रतीत्यनुपपत्तेः। तथाकेवलपटवति घटपटातिरिक्तयत्किञ्चिदुभयवति च प्रदेशे
पटत्वविशिष्टस्य उभयत्वविशिष्टस्य च विरोधिनः सत्त्वेन
तादृशप्रतीतिः न स्यात्। अतः घटत्वं पटत्वं उभयत्वं चेति त्रितयं
प्रतियोगितावच्छेदकम्।
प्रतियोगितावच्छेदकतापर्याप्त्यधिकरणधर्मवच्छिन्नप्रतियोगिना
साकमभावस्य विरोध इति तादृशत्रितयावच्छिन्न-घटपटोभयमेव
घटपटोभयाभावस्य विरोधीति घटपटोभयवत्येव प्रदेशे
ऽघटपटौ न स्तऽ इति प्रतीतिर्न भवति, केवलघटादिमति तु
भवितुमर्हतीति भावः।
संयोगेनेतीति। तथा च
संयोगसम्बन्धावच्छिद्धघटाभावात्
समवायसम्बन्धावच्छिन्नघटाभावो ऽन्य इति स्वीकरणीयम्। अन्यथा
संयोगेन घटवति भूतले संयोगेन घटो नास्तीति प्रतीतिः यथा
न भवति तथा समवायेन घटो नास्ती ति प्रतीतिरपि न स्यात्। एवं
तत्रैव समवायेन घटो नास्तीति प्रतीतिः यथा भवति तथा
संयोगेन घटो नास्तीति प्रतीतिरपि स्यादिति भावः।
सामान्यविशेषाभायोरिति।
सामान्याभावविशेषाभावयोरित्यर्थः।
सामान्यधर्मावच्छिन्नप्रतियोगिताकाभावः सामान्याभावः।
विशेषधर्मावच्छिन्नप्रतियोगिताकाभावः विशेषाभावः। ऽघटो नास्तिऽ
इति प्रतीतिसिद्धः घटत्वावच्छिन्नप्रतियोगिताकाभावः
सामान्याभावः। ऽनीलघटो नास्तिऽ, ऽरक्तघटो नास्तिऽ
इत्यादिप्रतीतिसिद्धः नीलघटत्वाद्यवच्छिन्नप्रतियोगिताकाभावः
विशेषाभावः। यदि सामान्याभावो नातिरिक्तः तदा नीलघटवति
भूतले रक्तघटाभावस्य सत्त्वात् रक्तघटाभावरूपस्य
घटसामान्याभावस्यापि सत्त्वमावश्यकमिति ऽघटो नास्तिऽ इति
घटसामान्याभावावगाहिनी प्रतीतिः स्यात्।
सामान्याभावस्यातिरिक्तत्वे तु नीलघटवति भूतले रक्तघटाभावस्य
सत्त्वे ऽपि घटसामान्याभावस्यासत्त्वात् न तादृशी प्रतीतिरिति वक्तुं
शक्यते। अतः विशेषाभावातिरिक्तः सामान्याभावो ऽङ्गीकरणीय
इति भावः।

अवच्छेदकभेदादिति। नीलघटभेदस्य
नीलघटत्वं प्रतियोगितावच्छेदकम्, घटपटोभयभेदस्य
घटपटोभयत्वं प्रतियोगितावच्छदेदकम् घटभेदस्य घटत्वं
प्रतियोगितावच्छेदकम् इत्येवं प्रतियोगितावच्छेदकधर्मभेदात्
ऽनायं नीलघटःऽ ऽनेमौ घटपटौऽ ऽनायं घटःऽ
इत्यादिप्रतीतिसिद्धानां
नीलघटभेदघटपटोभयभेद-घटभेदादीनां भिन्नत्वं वक्तव्यमित्यर्थः।
दीपिका
व्यधिकरणधर्मावच्छिन्नाभावः
ऽघटत्वेन पटो
नास्तिऽ इति प्रतीत्या व्यधिकरणधर्मावच्छिन्नाभावो नाङ्गीक्रियते।
पटे घटत्वं नास्तीति तदर्थः। अतिरिक्तत्वे स केवलान्वयी।
प्रकाशिका
प्रसङ्गादाह -
घटत्वेनेति। नाङ्गीक्रियत इति। अभावधियः
विशिष्टवैशिष्ट्यावगाहिमर्यादोपबृंहिततया ऽघटत्वेन पटो
नास्तिऽ इत्यादिप्रत्ययस्य विशिष्टवैशिष्ट्यानवगाहिनः घटत्वादेः
प्रतियोगितावच्छेदकत्वव्यवस्थापकत्वाभावेन
व्यधिकरणधर्मावच्छिन्नाभावे मानाभावादिति भावः। ननु तर्हि
तादृशप्रत्ययस्य का गतिरिति अत आहपट इति। ननु ऽघटत्वेन पटो
नास्तिऽ इति प्रतीतेः पटाधिकरणकघटत्वाभावावगाहित्वं न
सम्भवति। असति बाधके तच्छब्दोल्लेखिप्रतीतेः
तच्छब्दप्रतिपाद्यार्थविषयकत्वपरित्यागायोगात्
पटाधिकरणकघटत्वाभावस्य ऽघटत्वेन पटो नास्तिऽ इति शब्दात्
कथमप्यप्रतीतेः। किन्तु अवच्छिन्नप्रतियोगिताकत्वसम्बन्धेन अभावांशे
स्वातन्त्र्येण घटत्वावगाहित्वमेव। ऽअभावबुद्धिः
विशिष्टवैशिष्ट्यावगाहिमर्यादां नातिशेतेऽ इति नियमस्तु न।
एवं च व्यधिकरणधर्मवच्छिन्नप्रतियोगिताकाभावः सप्रमाण इति
चेत् - अस्तु तर्हि अतिरिक्तत्वं तस्येत्याह - अतिरिक्तत्व इति। सः -
व्यधिकरणधर्मवच्छिन्नप्रतियोगिताकः। केवलान्वयीति।
प्रतियोगितावच्छेदकावच्छिन्नप्रतियोगिरूपविरोधविरहादिति
भावः।
बालप्रिया
ननु अभावानां
अनेकविधत्वनिरूपणप्रसङ्गे व्यधिकरणधर्मावच्छिन्नाभावखण्डनं
अयुक्तमित्यत आह - प्रसङ्गादिति। स्मृतस्य
उपेक्षानर्हत्वरूपप्रसङ्गसङ्गत्येत्यर्थः।
प्रतियोगितावच्छेदकधर्मसंबन्धभेदादिव
प्रतियोगितावच्छेदकधर्मगतात्
प्रतियोगितासामानाधिकरण्यतदसमानाधिकरण्यभेदादपि अभावभेदः

भवति, तथैव
व्यधिकरणसमानाधिकरणधर्मावच्छिन्नप्रतियोगिताकयोरभावयोर्भेदसिद्धेदित्याशङ्क्य
व्यधिकरणधर्मवच्छिन्नाभाव एव नास्ति, कुतस्तदर्थं
भेदकान्तरान्वेषणमित्याशयेन
व्यधिकरणधर्मावच्छिन्नाभावखण्डनमपि सङ्गतमेव इति तु
नृसिंहशास्त्रिचरणाः प्राहुः।
दीपिकायाम् घटत्वेन पटो नास्तीत्यादि।
घटत्वेन पटो नास्तीति प्रतीत्या सिद्ध्यतीत्युक्तः
व्यधिकरणधर्मावच्छिन्नाभावो नास्माभिरङ्गीक्रियते। तादृशप्रतीतेः
पटानुयोगिकघटत्वाभावविषयकत्वेन
घटत्वावच्छिन्नपटनिष्ठप्रतियोगितानिरूपकाभावविषयकत्वादित्यर्थः।
अत्र सौन्दडोपाध्यायाः - अभावः द्विविधः -
व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकः
समानाधिकरणधर्मावच्छिन्नप्रतियोगिताकश्चेति।
प्रतियोगिताश्रयावृत्तिर्धर्मः व्यधिकरणधर्मः।
प्रतियोगिताश्रयवृत्तिर्धर्मः समानाधिकरणधर्मः। ऽघटत्वेन पटो
नास्तिऽ इत्यत्र प्रतियोगिताश्रयः पटः तदवृत्तिर्धर्मः घटत्वं
तदवच्छिन्ना या पटनिष्ठा प्रतियोगिता तन्निरूपको ऽभावः
व्यधिकरणधर्मावच्छिन्नाभावः। ऽघटो नास्तिऽ इत्यत्र
प्रतियोगिताश्रयः घटः तद्वृत्तिधर्मः घटत्वम्
तदवच्छिन्नघटनिष्ठप्रतियोगिताको ऽभावः
समानाधिकरणर्ध्मवच्छिन्नाभावः इत्याहुः।
तत्खण्डनप्रकारमाह प्रकाशिकायाम् -
अभावधिय इति। अभावबुद्धिर्विशिष्टवैशिष्ट्यावगाहिमर्यादां
नातिशेतेऽ
इतिनियमात् अभावत्वप्रकारकबुद्धिः सर्वापि
प्रतियोगितावच्छेदकविशिष्टप्रतियोगिवैशिष्ट्यमभावे ऽवगाहत
इति वक्तव्यम्। प्रकृते घटत्वविशिष्टपटाप्रसिद्ध्या
तद्वैशिष्ट्यावगाहित्वं न सम्भवतीति ऽघटत्वेन पटो नास्तिऽ इति
प्रतीतिः न घटत्वावच्छिन्नपटनिष्ठप्रतियोगिताकाभावं
विषयीकरोति। अपि तु शशशृङ्गं नास्तीति प्रतीतिः यथा शृङ्गे
शशीयत्वाभावं विषयीकरोति तथा घटत्वेन पटो नास्तीति
प्रतीतिरपि पटे घटत्वाभावमवगाहते। अतः उक्तप्रतीतिः
व्यधिकरणधर्मस्य प्रतियोगितावच्छेदकत्वसाधनाय नालमिति भावः।
ननु घटत्वेनेत्यादि।
असति बाधके
तच्छब्दोल्लिखितप्रतीन्तेस्तच्छब्दप्रतिपाद्यार्थविषयकत्वमिति नियमात्
ऽघटत्वेन पटो नास्तिऽ इति शब्दात् योर्ऽथः प्रतिपाद्यते स एव
तदुल्लिखतप्रतीतावपि विषय इति वाच्यम्। तत्र तादृशशब्दात्
घटत्वावच्छिन्नपटनिष्ठप्रतियोगिताकाभावस्यैव प्रतिपत्तेः

तादृशशब्दोल्लिखितप्रतीतेरपि तद्विषयकत्वमेव युक्तमिति भावः।
किन्तु इति। घटत्वेनेत्यत्र तृतीयायाः
अवच्छिन्नप्रतियोगिताकत्वमर्थः, तस्याभावे ऽन्वय इत्यभिप्रायः।
विभक्त्यर्थरूपेण सम्बन्धेनान्वय इष्ट एव। अत एव दिनकर्याम्
ऽभूतले घटऽ इत्यादौ आधेयतासंसर्गेणापि घटभूतलयोरन्वयात्
साक्षादित्यस्यापि व्युत्पत्तौ निवेशात्"इत्युक्तम्। तत्र रामरुद्रीये
-"यद्यपि घटे भूतलवृत्तित्वप्रकारकबोधस्वीकारेणैवोपपत्तौ
आधेयतासम्बन्धेन भूतलस्यापि घटे प्रकारत्वोपगमो ऽनुचितः,
पदार्थस्य संसर्गविधया भानानङ्गीकारात्। तथापि ऽभूतले घटऽ
इति वाक्यजज्ञानानन्तरं घटो भूतलीयो न वेति
संशयानुत्पादस्याप्यनुभवसिद्धतया विभक्त्यर्थस्य संसर्गविधयापि
भानमादृतमृ"इत्युक्तम्। एतेन
अवच्छिन्नप्रतियोगिताकत्वस्य तृतीयाविभक्त्यर्थत्वात् तस्य प्रकारतया
भानस्यैवोचितत्वात्
अवच्छिन्नप्रतियोगिताकत्वसम्बन्धेनेत्युक्तिर्न युक्तेति शङ्का
अपस्ता।
ननु ऽघटत्वेन घटो नास्तिऽ
इत्यादावयुक्तन्याने घटत्वस्य
अवच्छिन्नप्रतियोगिताकत्वसम्बन्धेनाभावे ऽन्वयो वक्तव्यः। तथा च घटे
घटत्वस्यानन्वयात् घटत्वविशिष्टवैशिष्ट्यावगाहित्वं नास्तीति
ऽअभावबुद्धिर्विशिष्टवैशिष्ट्यावगाहित्वमर्यादां नातिशेतेऽ इति
नियमस्य भङ्ग इत्य आह - अभावबुद्धिरिति। ऽघटत्वेन घटो
नास्तिऽ इत्याकारकस्याभावप्रत्ययस्यानुभविकतया यत्र
प्रतियोगितावच्छेदकत्वं भासते
तद्विशिष्टवैशिष्ट्यावगाहित्वमभावबुद्धेरिति नियमासम्भवः। तथा च
तादृशनियमभङ्गैष्ट एव इति भावः।
अस्तु तर्हीति। तथा च घटत्वेन घटो
नास्तीति प्रतीत्या यथा स्वातन्त्र्येण भासमाने घटत्वादौ
प्रतियोगितावच्छेदकत्वावगाहनात् प्रतियोगिविशेषणतापन्नस्यैव
प्रतियोगितावच्छेदकत्वमिति नियमो नास्तीति
समानाधिकरणधर्मावच्छिन्नप्रतियोगिताकाभावः सिध्यति, तथैव
घटत्वेन पटो नास्तीति प्रतीत्यापि व्यधिकरणे
घटत्वे ऽवच्छेदकत्वावगाहनात्
व्यधिकरणधर्मावच्छिन्नाप्रतियोगिताकाभावो ऽपि सिध्यतीति भावः।
विरोधिविरहादिति।
प्रतियोगितावच्छेदकविशिष्टः प्रतियोगियोगिताश्रयः अभावस्य
विरोधी। घटत्वविशिष्टस्य घटस्य सत्त्वेघटत्वावच्छिन्नघटाभावः न
सम्भवति। घटशून्यस्थल एव तादृशाभाव इति स न केवलान्वयी।
घटत्वेन पटाभावस्तु घटविशिष्टपटरूपविरोध्यप्रसिद्ध्या
तदभावात् पटवति पटशून्ये च सर्वत्रास्तीति

केवलान्वयीति भावः।
दीपिका
सामयिकाभावस्यातिरिक्तत्वखण्डनम्
सामयिकाभावो ऽपि
अत्यन्ताभाव एव समयविशेषे प्रतीयमानः। घटाभाववति घटानयने
अत्यन्ताभावस्य अन्यत्र गमनाभावे ऽपि अप्रतीतेः, घटापसरणे सति
प्रतीतेः, भूतलघटसंयोगप्रागभावध्वंसयोः
घटत्यन्ताभावप्रतीतिनियामकत्वं कल्प्यते। घटवति
तत्संयोगप्रागभावध्वंसयोरसत्त्वादेव अत्यन्ताभावस्याप्रतीतिः।
घटापसरणे तु संयोगध्वंसस्य सत्त्वात् प्रतीतिरिति।
प्रकाशिका
ननु भूतलादौ
घटसत्त्वदशायां न तदभावबुद्धिः अन्यदा तु जायते। अतः
सामयिकाभावो ऽतिरिक्त एवाङ्गीकर्तव्य इति वदन्तं
निराकर्तुमाह - सामयिकेति। प्रतियोगिविरहसमये
प्रतीयमानो ऽत्यन्ताभाव एव सामयिकाभावः। न तु
उत्पादविनाशशाल्यतिरिक्त इति समुदितोर्ऽथः। नन्वेवं भूतले
घटस्य आनयनदशायामपि तदभावस्य नित्यत्वेन तत्प्रत्ययापत्तिः अत
आह - घटाभाववतीति। नियामकत्वमेव समुपपादयति - घटवतीति।
तत्तत्कालावच्छिन्नभूलादेवे घटाद्यभावसंसर्गतया घटकाले च
तच्छून्यकालविशिष्टभूतलादिरूपसंसर्गाभावेन तदा न
तदत्यन्ताभावबुद्धिरित्यपि द्रष्टव्यम्।
बालप्रिया
न तु
उत्पादविनाशशाल्यतिरिक्त इति। प्रतियोगिविरहकाले उत्पद्यमानः
प्रतियोगिकाले विनश्यंश्चात्यन्ताभावः सामयिको ऽत्यन्ताभावः। तथा
च घटाद्यत्यन्ताभावः सामयिकात्यन्ताभावः, शशशृङ्गाद्यत्यन्ताभावस्तु
त्रैकालिको ऽत्यन्ताभाव इति तेषामाशयः। दीपिकाकारास्तु
सामयिकाभावस्तु त्रैकालिकात्यन्ताभावात् नातिरिच्यते। सर्वदा
विद्यमानो ऽपि समयविशेषे प्रतीयमानत्वमात्रेण सामयिकाभाव
इत्युच्यते, न तु समयविशेषे उत्पत्तिमत्त्वेन। ननु
सामयिकाभावस्य अत्यन्ताभावादनतिरिक्तत्वे घटाभाववति भूतले
घटानयनानन्तरमपि घटात्यन्ताभावप्रतीतिप्रसङ्गः,
घटात्यन्ताभावस्य नित्यत्वात् निष्क्रियत्वेन अन्यत्र अगमनाच्च
घटानयनानन्तरं घटवति भूतले घटात्यन्ताभावरूपविषयसत्त्वात्
इति चेत् - न। यतः घटानयनानन्तरं विद्यमानो ऽपि
घटात्यन्ताभावो न प्रतीयते, घटापसरणानन्तरं प्रतीयते, अतः
घटात्यन्ताभावप्रत्यक्षं प्रति भूतलघटसंयोगप्रागभावः
भूतलघटसंयोगध्वंसश्च प्रयोजक इति कल्प्यते। घटानयनानन्तरं
तु भूतलघटसंयोगध्वंसश्च सत्त्वात् तत्प्रागभावो वा तद्ध्वंसो

वा नास्तीति कारणाभावात् न घटात्यन्ताभावप्रत्यक्षम्।
घटापसरणानन्तरं तु भूतलघटसंयोगध्वंसस्य सत्त्वात्
घटात्यन्ताभावप्रत्यक्षं भवति। एवं च नित्यस्यैवात्यन्ताभावस्य
समयविशेषे
प्रतीतितदभावयोरुपपत्त्या तदर्थं सामयिकाभावो ऽतिरिक्ततया न
स्वीकर्तव्य इति निरूपयन्तीति
प्रघट्टकार्थः।
प्रकाशिकायां
समाधानान्तरमाह - तत्तत्कालावच्छिन्नेति। यस्मिन् घटशून्यकाले
भूतले घटात्यन्ताभावबुद्धिर्भवति
तादृशघटशून्यकालावच्छिन्नभूतलस्वरूपमेव भूतलघटात्यन्ताभावयोः
सम्बन्धः, घटानयनानन्तरं च भूतलस्य घटात्यन्ताभावस्य च सत्त्वे ऽपि
घटशून्यः यः कालतदवच्छिन्नभूतलस्वरूपात्मकस्य सम्बन्धस्याभावात्
न भूतले घटात्यन्ताभावप्रतीतिरिति भावः।
दीपिका
अभावस्याधिकरणात्मकत्वखण्डनम्
केवलाधिकरणादेव नास्तीति व्यवहारोपपत्तौ अभावः न
पदार्थान्तरमिति गुरवः। तन्न-अभावानङ्गीकारे कैवल्यस्य
निर्वक्तुमशक्यत्वात्।
प्रकाशिका
नन्वभावः नास्ति
अतिरिक्तः पदार्थः, यस्मिन् अधिकरणे ऽघटो नास्तिऽ इत्यादिप्रत्ययः
तस्मिन् अधिकरणे पटाद्यभावत्वकल्पनेनैव तथा प्रतीतिनिर्वाहात्,
कॢप्तधर्मिणि धर्मकल्पनाया अकॢप्तधर्मिकल्पनातो लघीयस्त्वादिति
गुरुमतमाशङ्क्य
निराचष्टे - केवलेति। यद्यप्यनन्तेषु अधिकरणेषु
धर्मकल्पनातो ऽतिरिक्तैकधर्मिकल्पनस्यैव लघीयस्त्वात्
अत्रोक्तन्यायस्यानवतारः। किं च अभावस्याधिकरणस्वरूपत्वे जलादौ
विद्यमानस्य गन्धाद्यभावस्य
जलादिरूपत्वादितरेन्द्रियग्राह्यतापत्तिरित्यादिदूषणानि प्रस्फुरन्ति,
तथापि ऽकेवलाधिकरणादेवऽ इति तद्वचननिरासादेव
तन्निवृत्तिसम्भवे किमेतान्यपेक्षितानीत्यालोच्य तदेव निराकरोति
- अभावावङ्गीकार इति। अतिरिक्ताभावानङ्गीकार इत्यर्थः। अथ
किमिदं कैवल्यम्? भूतलस्वरूपमिति चेत् - घटवद्भूतलस्यापि
तदभावस्वरूपतापत्त्वात तदानीमपि घटाभाववत्ताबुद्धिप्रसङ्गः।
घटाभाववत्त्वमिति चेत् सिद्धमतिरिक्ताभावेन, अतः
कैवल्यनिर्वचनमशक्यमित्याह - कैवल्यस्येति।
बालप्रिया
यद्यप्यनन्तेष्विति।
येषु येषु अधिकरणेषु घटात्यन्ताभावप्रतीतिः भवति तेषु तेषु

अधिकरणेषु घटाभावत्वकल्पनापेक्षया कॢप्तेषु तावत्स्वधिकरणेषु
एकस्य घटात्यन्ताभावरूपस्य धर्मिणः कल्पनं लघुतरमिति भावः। ननु
धर्मिकल्पनापक्षे अभावरूपो धर्मी अभावत्वरूपधर्मश्च इत्युभयं
कल्पनीयम्। धर्मकल्पनापक्षे तु अभावत्वरूपधर्ममात्रं कल्पनीयम्।
धर्मिणामधिकरणानां कॢप्तत्वादिति कुतो लाघवावकाश इत्यतो
दूषणान्तरमाह - किं चेति। अभावः यद्यधिकरणस्वरूपः तर्हि जले
विद्यमानस्य गन्धाभावस्य जलस्वरूपतया ऽयो गुणो यदिन्द्रियग्राह्यः,
तन्निष्ठा जातिः तदभावश्च तदिन्द्रियग्राह्यःऽ इति न्यायात्
गन्धाभावस्य घ्राणेन्द्रियग्राह्यतया गन्धाभावात्मकस्य जलस्य
घ्राणेन्द्रियग्राह्यत्वापत्तिः, जलस्य चक्षुरादिग्राह्यतया घ्राणेन्द्रियाग्राह्यतया
च तलात्मकस्य गन्धाभावस्य चक्षुरादिग्राह्यत्वापत्तिः
घ्राणेन्द्रियाग्राह्यत्वापत्तिर्वा इति भावः।
इतरेन्द्रियग्राह्यतापत्तिरिति। घ्राणेतरचक्षुरादिग्राह्यतापत्तिरित्यर्थः।
इत्यादिदूषणानीति। अभावस्याधिकरणात्मकत्वे
भूतलघटाभावयोराधाराधेयभावानुपपत्तिः आधाराधेयतभावस्य
भेदव्याप्यत्वादिति दूषणमादिपदग्राह्यम्।
दीपिका
अभावाभावस्य
भावरूपता
अभावाभावः भाव
एव। नातिरिक्तः, अनवस्थाप्रसङ्गात्। ध्वंसप्रागभावः प्रागभावध्वंसश्च
प्रतियोग्येवेति प्राञ्चः। अभावाभावः अतिरिक्त एव तृतीयाभावस्य
प्रथमाभावरूपत्वात् न अनवस्थेति नवीनाः।
प्रकाशिका
नन्वभावस्य
अतिरिक्तत्वे तदभावो ऽप्यतिरिक्तः, तस्याप्यभावः तथेत्यनवस्था
स्यादत आह - अभावाभाव इति। ध्वंसेत्यादि। ध्वंसप्रागभावः
प्रतियोगिस्वरूपः, तत्प्रागभावरूपश्च। प्रागभावध्वंसस्तु
प्रतियोगिस्वरूपः, तद्ध्वंसरूपश्च इत्यस्यार्थः अवसेयः। तेन
प्रतियोगिप्रागभावदशायामपि ऽध्वंसो भविष्यतिऽ इति प्रत्ययस्य
प्रतियोगिध्वंसदशायामपि ऽप्रागभावो नष्टःऽ इति प्रत्ययस्य
चोपपत्तिः। ननु काले द्रव्यत्वं नास्ति इति प्रत्ययः न जायते,
द्रव्यत्वाभाव इति तु जायते इति वैषम्यनिर्वाहाय नास्तीति
प्रत्यये दैशिकसम्बन्धावच्छिन्नाधेयत्वभानं
कल्पनीयम्। इत्थं च
घटाभावाभावादेः घटादिरूपत्वेत्विह घटाभावो नास्तीति प्रत्ययस्य
भ्रमत्वमेव स्यात्। भावस्य विशेषणताविशेषेण वृत्त्यनङ्गीकारात्।
अतः अभावाभावः अतिरिक्तः न तु भावरूप इति नवीनमतं दर्शयति -
अभावेति। तर्हि अनवस्थेत्यत आह - तृतीयेति।
बालप्रिया

ननु
ध्वंसप्रागभावः प्रागभावध्वंसश्च प्रतियोग्येव इति दीपिकातः
घटध्वंसप्रागभावः घटप्रागभावध्वंसश्च घटस्वरूप इति लभ्यते।
तथा सति घटानुत्पत्तिदशायां ऽघटध्वंसो भविष्यतिऽ इति
घटध्वंसप्रागभावविषयकप्रतीतिः न स्यात् तदानीं घटाभावात्। एवं
घटध्वंसदशायां ऽघटप्रागभावो नष्टऽ इति
घटप्रागभावध्वंसविषयकप्रतीतिर्नस्यात्,
तदात्मकस्य
घटस्याभावादित्यतः तात्पर्यमाह - ध्वंसप्रागभाव इति।
घटध्वंसप्रागभावः घटस्वरूपः घटप्रागभावस्वरूपश्च। तथा च
घटानुत्पत्तिदशायां घटप्रागभावस्य सत्त्वात् तदात्मकं
घटध्वंसप्रागभावं विषयीकुर्वन् ऽघटध्वंसो भविष्यतिऽ इति
प्रतीतिः उदयते। घटोत्पत्यनन्तरं जायमाना ऽघटध्वंसो भविष्यतिऽ
इति प्रतीतिस्तु घटात्मकं घटध्वंसप्रागभावं विषयीकरोति। एवं
घटप्रागभावध्वंसः घटस्वरूपः, घटध्वंसस्वरूपश्च। अतः घटकाले
ऽघटप्रागभावो नष्टःऽ इति प्रतीतिः घटरूपं घटप्रागभावध्वंसं
विषयीकरोति। घटध्वंसकाले ऽघटप्रागभावो नष्टःऽ इति प्रतीतिः
घटध्वंसरूपं घटप्रागभावध्वंसं विषयीकरोति। तथा च न
काप्यनुपपत्तिरिति भावः।
ननु काले द्रव्यत्वं
नास्तीत्यादि। काले द्रव्यत्वं नास्तीति प्रतीतिः न जायते, काले
द्रव्यत्वाभाव इति प्रतितिस्तु जायते। तदर्थं नञपदं
दैशिकविशेषणतासम्बन्धावच्छिन्नाधेयत्वान्विताभावबोधकमिति
व्युत्पत्तिः स्वीकरणीया। घटे पटत्वं नास्तीत्यस्य
घटनिरूपितदैशिकविशेषणतासम्बन्धावच्छिन्नाधेयतावान्
पटत्वाभाव इत्यर्थः। काले कालिकसम्बन्धेन द्रव्यत्वाभावस्य
सत्त्वे ऽपि दैशिकविशेषणतासम्बान्धेन द्रव्यत्वाभावं प्रति
समवायसम्बन्धेन द्रव्यत्वस्य विरोधिततयकाले समवायेन
द्रव्यत्वसत्त्वात्
कालनिरूपितदैशिकविशेषणतासम्बन्धावच्छिन्नाधेयतावान्
द्रव्यत्वाभावो न भवतीति काले द्रव्यत्वं नास्तीति प्रतीतिः न
भवतीति वक्तव्यम्। इत्थं च भूतले घटाभावो नास्तीन्ति
प्रतीतिरपि घटाभावाभावे
भूतलनिरूपितदैशिकविशेषणतासम्बन्धावच्छिन्नाधेयत्वमवगाहत
इति वक्तव्यम्। घटाभावाभावो यदि घटस्वरूपः स्यात् तदा
भावानां दैशिकविशेषणतासम्बन्धेन वृत्तेरनङ्गीकारात्
तत्सम्बन्धावच्छिन्नाधेयत्वाभाववति घटे तदवगाहितया
तादृशप्रतीतेर्भ्रमत्वं स्यात्। इष्यते तु प्रमात्वम्। अतः अभावाभावः
न भावरूपः अपि तु अतिरिक्तः। न च अनवस्था। घटाभावाभावस्य
अतिरिक्तत्वे ऽपि घटाभावाभावाभावस्य घटाभावरूपत्वाङ्गीङ्कारात्

इति नवीनानामाशयः। नवीनतरास्तु भावानामपि
दैशिकविशेषणतासम्बन्धेन वृत्तिं अङ्गीकुर्वन्ति। तन्मते
अभावाभावः नातिरिक्तः। एतत्तत्त्वं कूटघटितलक्षणगादाधर्यां
द्रष्टव्यम्।
तर्कसङ्ग्रहः
षोडशपदार्थानां सप्तपदार्थेष्वन्तर्भावः
अन्त्स्_81 सर्वेषां पदार्थानां यथायथम् उक्तेष्व् अन्तर्भावात् सप्तैव पदार्था इति सिद्धम् ॥
सर्वेषामपि पदार्थानां उक्तेष्वेव अन्तर्भावात् सप्तैव पदार्था इति सिद्धम्।
दीपिका
ननु"प्रमाणप्रमेयसंशयप्रयोजनदृष्टान्तसिद्धान्तावयवतर्कन् इर्णयवादजल्पवितण्डाहेत्वाभासच्छलजातिनिग्रहस्थानां
तत्त्वज्ञानात् निःरेयसाधिगमः"
[न्या. सू. 1-1-1] इति
न्यायसूत्रे षोडशपदार्थानामुक्तत्वात् कथं सप्तैवेत्य आह -
सर्वेषामिति। सर्वेषां सप्तस्वेवान्तर्भाव इत्यर्थः।"आत्मशरीरेन्द्रियार्थबुद्धिमनः
प्रवृत्तिदोषप्रेत्यभावफलदुःखापवर्गास्तु प्रमेयम्"इति
द्वादशबिधं प्रमेयम्। प्रवृत्तिः-धर्माधर्मौ। रागद्वेषमोहाः दोषाः।
रागः-इच्छा। द्वेषः-मन्युः। मोहः-शरीरादौ आत्मभ्रमः।
प्रेत्यभावः-मरणम्। फलम्-भोगः। अपवर्गः-मोक्षः। स च
स्वसमानाधिकरणुदुःखप्रागभावासमानकालीनदुःखध्वंसः।
प्रयोजनम्-सुखप्रातिप्तः दुःखहानिश्च। दृष्टान्तः-महानसादिः।
प्रामाणिकत्वेन अभ्युपगतोर्ऽथः सिद्धान्तः। निर्णयः-निश्चयः। स च
प्रमाणफलम्।
प्रकाशिका
परमकारुणिकेन
मुनिना दुःखपङ्कनिमग्नं जनं उद्दिधीर्ंषुणा प्रणीतम्"प्रमाणप्रमेय"इत्यादिसूत्रं, तद्विरोधं परिहर्तुं
आक्षिपति - नन्विति। प्रत्यक्षप्रमाणस्य द्रव्ये, अनुमानादीनां च
गुणे ऽन्तर्भावस्य स्फुटत्वात् प्रमेयादीनां द्रव्यादिष्वन्तर्भावमाह -
आत्मेत्यादिना। आत्मशरीरेन्द्रियाणां द्रव्ये, अर्थस्य पृथिव्यादिरूपस्य
द्रव्यादिषु, बुद्धेः गुणे, अन्तरिन्द्रियस्य मनसः द्रव्ये ऽन्तर्भावः।
एवमग्रे ऽपि यथायथमन्तर्भावः द्रष्टव्यः। धर्माधर्मौ इति।
तज्जनिकेत्यर्थः। एतच्च स्फुटमाकरे। रागः । इच्छाविशेषः।
मरणमिति। मरणानन्तरभावि जननमित्यर्थः। तथा च पदव्युत्पत्तिः
प्रेत्य मृत्वा भावः जननमितिः। चरमप्राणशरीरसंयोगध्वंसः
मरणम्। आद्यशरीरप्राणसंयोगः जननम्। मुक्तात्मसंयोगध्वंसवतः
घटस्य मुक्तत्वापत्तिवारणाय - दुःखध्वंस इति। दुःखध्वंसवतां
अस्मदादीनामपि मुक्तत्वापत्तिवारणाय कालीनान्तम्।
अन्यदीयदुःखप्रागभावसमानकालिकदुःखध्वंसवतां
शुकाद्यात्मनामप्यमुक्तत्वप्रसङ्गात् स्वसमानाधिकरणेति
दुःखप्रागभावविशेषणम्। न च
स्वसमानाधिकरणदुःखासमानकलीनेत्यनेनैव

सुषुप्तिकालिकदुःखध्वंसस्यापि अग्रिमदुःखक्षणवृत्तेर्वारणात्
प्रागभावेति व्यर्थमिति वाच्यम्। यथासन्निवेशे वैयर्थ्याभावादिति
दिक्। संशयस्य निरूपितत्वात् प्रयोजनस्वरूपं दर्शयति -
प्रयोजनमिति।
बालप्रिया
प्रत्यक्षप्रमाणस्य
द्रव्य इति। इन्द्रियं प्रत्यक्षप्रमाकरणम्। तत्र चक्षुषः तेजसि,
रसनायाः जले, घ्राणस्य पृथिव्याम्, त्वचः वायौ, श्रोत्रस्य
आकाशे ऽन्तर्भावात् मनसः पृथक् द्रव्यत्वाच्च प्रत्यक्षप्रमाणस्य
द्रव्ये ऽन्तर्भाव इत्यर्थः। अनुमानादीनां च गुण इति।
व्याप्तिज्ञानमनुमानम्, सादृश्यज्ञानमुपमानम्, पदज्ञानं शब्द
इत्येवमनुमानादीनां ज्ञानरूपे गुणे ऽन्तर्भाव इत्यर्थः।
एवमग्रे ऽपीति।
प्रवृत्तिदोषादीनामपि यथायथं सपतस्वेवान्तर्भाव इत्यर्थः। ननु
प्रवृत्तेः प्रयत्नविशेषरूपत्वात् धर्माधर्मयोस्तु
अदृष्टविशेषरूपत्वात् ऽप्रवृत्तिः धर्माधर्मौऽ इति
दीपिकाग्रन्थो ऽसङ्गत इत्यत आह - तज्जनिकेत्यर्थ इति।
धर्माधर्मयोर्जनिका प्रवृत्तिरित्यर्थंः। कार्ये कारणोपचार इति
भावः। तथा च प्रवृत्तेः गुणे ऽन्तर्भावः। स्फुटमाकर इति।"प्रवृत्तिसाधनो धर्माधर्मौ प्रवृत्तिशब्देनोक्तौ यथा अन्नसाधनाः
प्राणाः"इति द्वितीयसूत्रे भाष्ये,"प्रवृत्तिफले धर्माधर्मौ
आस्मिन् सूत्रे प्रवृत्तिरित्युच्येते। कस्मात्, तत्साधनत्वात् अन्नं वै
प्राणिनः प्राणा इति यथा"इति सप्तदशसूत्रे वार्तिके चोक्तत्वात्
प्रवृत्तेर्धर्माधर्मजनकत्वं मूलग्रन्थेषु स्पष्टमिति भावः।
इच्छाविशेष इति। उत्कटेच्छेत्यर्थः। तथा च रागस्येच्छात्मके
गुणे ऽन्तर्भावः, द्वेषस्य गुणे, मिथ्याज्ञानरूपस्य मोहस्य च
गुणे ऽन्तर्भावः। मिथ्याज्ञानं नाम भ्रमात्मकज्ञानम्। मरणानन्तरेति।
प्रेत्य-मृत्वा भावः। जननमिति व्युत्पत्त्या मरणानन्तरकालिकजन्य
प्रेत्यभावशब्दार्थः। चरमस्य प्राणशरीरसंयोगस्य ध्वंसः मरणम्।
आद्यः शरीरप्राणसंयोगः जन्मः। तथा च प्रेत्यभावस्य संयोगरूपे
गुणे ऽन्तर्भावः। प्राणशरीरसंयोगे चरमत्वं च
स्वसजातीयशरीरवृत्तिप्राणसंयोगप्रागभावानधिकरणत्वम्। आद्यत्वं च
स्वसजातीयशरीरवृत्तिप्राणसंयोगध्वंसानधिकरणत्वम्।
दीपिकायाम् फलं
भोग इति। भोगो नाम सुखदुःखानुभवः। तथा च फलस्य
अनुभवरूपज्ञानात्मके गणे ऽन्तर्भावः। स्वसमानाधिकरणेति।
स्वसमानाधिकरणः यः दुःखप्रागभावः। तदसमानकालीन दुःखध्वंसः
मोक्ष इत्यर्थः। इदानीमस्माकं विद्यमानः यत्किञ्चिद्दुःखध्वंसः
भविष्यद्दुःखप्रागभावसमानकालिकः। मुक्तौ यः दुःखध्वंसः सः
दुखप्रागभावासमानकालिकः पुनर्दुःखस्याजनिष्यमाणत्वादिति भावः।
अपवर्गलक्षणघटकदलानां प्रयोजनमाह प्रकाशिकायाम् -

मुक्तात्मसंयोगेत्यादिना। दुःखध्वंसः इत्यत्र दुःखपदानुपादाने
स्वसमानाधिकरणदुःखप्रागभावासमानकालीनः ध्वंसः मोक्ष इति
एतावन्मात्रोक्तौ मुक्तात्मनो घटस्य च यः संयोगः तद्ध्वंसो ऽपि
दुःखप्रागभावासमानकालीन इति तादृशसंयोगध्वंसवतो
घटस्यापि मुक्तत्वं स्यात्। तद्वारणाय दुःखध्वंस इत्युक्तम्।
संयोगध्वसो न दुःखध्वंस इति तस्य न मुक्तित्वमिति भावः।
ननु मुक्तात्मनो
विभुत्वात् यावद्घटस्थिति घटे मुक्तात्मसंयोगो ऽस्त्येवेति
तद्ध्वंसवत्वं घटस्य कथं भवेत्। घटे नष्टे तु
मुक्तात्मघटसंयोगध्वंससत्त्वे ऽपि घटस्याभावात् सुतरां न घटस्य
मुक्तत्वमिति कथमियमाशङ्का? अत्रोच्यते - घटः आदौ कुत्रञ्चित्
प्रदेशे ऽस्ति, तदा तत्प्रदेशावच्छेदेन मुक्तात्मघटसंयोगो ऽस्ति। स
एव घटः प्रदेशान्तरं नीतश्चेत् पूर्वप्रदेशावच्छिन्नात्मसंयोगो
नश्यति, प्रदेशान्तरावच्छेदेन अन्यः संयोगो जायते। तथा चानष्टे
एव घटे
प्रदेशविशेषावच्छिन्नमुक्तात्मसंयोगध्वसो ऽस्तीति घटस्य
मुक्तत्वप्रसङ्ग इत्याशयात्। दुःखध्वंसवतामिति। तथा च
दुःखध्वंसो मोक्ष इत्येतावन्मात्रोक्तौ संसारिणामस्मदादीनामपि
सुषुप्तिकाले दुःखध्वंससत्त्वात् मुक्तत्वापत्तिः। तद्वारणाय
कालीनान्तम्। अद्य विद्यमानस्य अस्मदीय दुःखध्वंसस्य
श्वोभाविदुःखप्रागभावसमानकालीनत्वात्
तादृशदुःखप्रागभावासमानकालीनत्वं नास्तीति न मुक्तित्वमिति
भावः। अन्यदीयेति। तथा च दुःखप्रागभावे स्वसमानाधिकरणेति
विशेषणानुपादाने मुक्तानां शुकादीनां यो दुःखध्वंसः सः
शुकाद्यन्यसंसार्यात्मवृत्ति यत् भावि दुःखं
तत्प्रागभावसमानकालीनमेव भवतीति
तदसमानकालीनदुःखध्वंसवत्वाभावात् शुकादीनाममुक्तत्वं स्यात्।
तद्वारणाय स्वसमानाधिकरणेति विशेषणम्। तदुपादाने च स्वं
शुकात्मवृत्तिः दुःखध्वंसः तदधिकरणं शुकात्मा तद्वत्तित्वं
अन्यदीयदुःखप्रागभावे नास्तीति न तत्समानकालीनत्वमादाय
पूर्वोक्तदोष इति भावः।
ननु
स्वसमानाधिकरणदुःखासमानकालीनेत्येवास्तु, किं
तादृशदुःखप्रागभावासमानकालीनेति विशेषणेन। न च अस्माकं
सुषुप्तौ यो दुःखध्वंसः तस्य दुःखसमानकालीनत्वं नास्ति,
सुषुप्तौ दुःखाभावात्। तथा च
दुःखासमानकालीनदुःखध्वंससत्वात् अस्माकं मुक्तत्वापत्तिभवेत्
दुःखासमानकालीनेत्युक्तौ। दुःखप्रागभावासमानकालीनेत्युक्तौ तु
सुषुप्तौ अस्मासु भाविदुःखप्रागभावो ऽस्तीति तदातनदुःखध्वंसस्य
दुःखप्रागभावसमानकालीनत्वात् वारणमिति वाच्यम्। ध्वंसस्य

ध्वंसासम्भवेन सुषुपितकालिको यो दुःखध्वंसः तस्य
जाग्रत्क्षणे ऽप्यनुवर्तमानतया जाग्रत्काले यद्दुखं
तत्समानकालीनत्वमस्तीति
समानाधिकरणदुःखासमानकालीनत्वाभावात् वारणं भवतीति
दुःखप्रागभावासमानकालीनत्वपर्यन्तस्यानावश्यकत्वात् इत्याशयेन
शङ्कते - न च स्बसमानाधिकरणेति।
समाधत्ते -
यथासंनिवेश इति। यद्यपि दुःखासमानकालीनत्वविशेषणेन वारणं
भवति, तथापि दुःखप्रागभावासमानकालीनत्वेनापि वारणसम्भवात्
तस्य न वैयर्थ्यथ्मति भावः। न च लघुनादुःखासमानकालीनत्वेनैव
वारणे गुरुणः दुःखप्रागभावासमानकालीनत्वविशिषणस्य
वैयर्थ्यमेवेति वाच्यम्। यत्र गुरुधर्मघटकेन लघुधर्मेण निर्वाहः
तत्रैव गुरुधर्मस्य वैयर्थ्यम्। प्रकृते तु
दुःखासमानकालीनत्वत्वावच्छिन्नाभावः दुःखासमानकालीनत्वम्।
दुःखप्रागभावसमानकालीनत्वत्वावच्छिन्नाभावः
दुःखप्रागभावासमानकालीनत्वम्। अनयोश्चाभावयोः
प्रतियोगितावच्छेदकभेदेन भिन्नत्वात् एकस्मिन् अभावे ऽन्यस्य
घटकत्वाभावात् न वैयथ्यविकाश इत्याशयात्। ननु
स्वत्वस्याननुगततया तद्घटितमुक्तेरप्यनेकत्वेन मुक्तिपदस्य
नानार्थकत्वापत्तिः इत्यत आह - दिगिति। अत्रानुयोगिनि स्वत्वं न
विवक्षितम्, किं तु प्रतियोगिनि। तथा च
स्वसमानाधिकरणदुःखप्रागभावसमानकालीनं यद्यत्स्वं
तत्तद्व्यक्तिभेदविशिष्टदुःखध्वंसो मोक्षः। एवं च
तादृशभेदकूटविशिष्टत्वोपलक्षितदुःखध्वंसत्वस्य
सकलमुक्तिसाधारणतया न मुक्तिपदस्य नानार्थकतापत्तिरिति भावः।
इर्त्थ चापवर्गस्य मोक्षे ऽन्तर्भावः। संशयस्य
अयथार्थानुभवरूपत्वस्य पूर्वमुक्तत्वात् ज्ञानरूपे गुणे ऽन्तर्भावः उक्त
इत्याशयेन मूले संशयस्याकथनम्। तदाह - संशयस्य
निरूपितत्वादिति। सुखप्राप्तिर्नाम सुखमेव। दुःखहानिश्च
दुःखध्वंसः। तथा च प्रयोजनस्य गुणे ऽभावे चान्तर्भांवः। दृष्टान्तस्य
यथायथं द्रव्यगुणादिष्वन्तर्भावः। सिद्धान्तो ऽपि द्रव्यादिरूप एव।
प्रामाणिकत्वेन स्वीकृतार्थस्यैव सिद्धान्तत्वात्। निर्णयस्य ज्ञानरूपे
गुणे ऽन्तर्भावः। अवयवानां शब्दरूपतया प्रागुक्तत्वात्
गुणे ऽन्तर्भावः, तर्कस्यारोपरूपताया उक्तत्वात्
भ्रमात्मकज्ञाने ऽन्तर्भावः इति तयोः अत्राकथनम्।
वादजल्पवितण्डानां शब्दरूपतया गुणे ऽन्तर्भावः।
दीपिका
कथानिरूपणम्
तत्त्वबुभुत्सोः
कथा वादः। उभयसाधनवती विजिगीषुकथा जल्पः। स्वपक्षस्थापनाहीना

अपरपक्षविदलनमात्रावसाना वितण्डा। कथा नाम
नानावक्तृकपूर्वोत्तरपक्षप्रतिपादकवाक्यसन्दर्भः।
प्रकाशिका
उभयसाधनवतीति।
परपक्षनिराकरणस्वपक्षसाधनवती। इदं च वितण्डायां
अतिव्याप्तिवारणायेति ध्येयम्। स्वपक्षेति। अत्र विजिगीषु
कथेत्यनुवर्तते। नानेति। एकेन पूर्वपक्षः क्रियते, अन्येन च
समाधानम्, एवं क्रमेण
नानाकर्तृकत्वं
वाक्यसमूहस्यावसेयम्।
बालप्रिया
परपक्षेत्यादि।
विजिगीषुकथा जल्पः इत्येतावन्मात्रोक्तौ वितण्डायामतिव्याप्तिः।
अतः स्वपक्षसाधनवतीत्युक्तम्। परपक्षनिराकरणस्वपक्षसाधनवतीत्यत्र
परपक्षनिराकरणमपि जल्पे आवश्यकमिति सूचनाय अन्तर्भावितम्,
नातिव्याप्त्यादिवारणाय। विजिगीषुपदेनैव वादस्य वारणसम्भवात।
दुष्टहेतुरूपाणां हेत्वाभासानां यथायथं द्रव्यादिष्वन्तर्भावः।
दीपिका
छलनिरूपणम्
अभिप्रायान्तरेणा
प्रत्युक्तस्यार्थान्तरं परिकल्प्य दूषणं छलम्।
प्रकाशिका
छलमिति। यथा
ऽनवकम्बलो ऽयं देवदत्तःऽ इति नूतनतात्पर्येण प्रयुक्तस्य
नवत्वसङ्ख्याविशिष्टमर्थान्तरं परिकल्प्य कश्चित् दूषयति ऽनास्य
नव कम्बलाः सन्ति अति दरिद्रत्वात्ऽ इत्यादि।
बालप्रिया
छलमपि
शब्दरूपत्वात् गुणे ऽन्तर्भवति।
दीपिका
जातिनिरूपणम्
असदुत्तरं जातिः।
प्रकाशिका
असदुत्तरमिति।
उत्तरस्य असत्वं तु स्वासाधकतासाधारण्येन परासाधकतासाधकतया
स्वव्याघातकत्वम्। तथा च स्वव्याघातमुत्तरं जातिरिति लक्षणं
पर्यवस्यति।
बालप्रिया
स्वासाधकतासाधारण्येनेति। परमतासाधकत्वसाधनाय हि
जातिरूपमुत्तरमुच्यते। तच्चेत् स्वमतासाधकतामपि साधयेत् तदा

जातिरित्यर्थः। परकीयहेतोः परासाधकत्वे साध्यमाने
स्वकीयहेतोः स्वासाधकत्वमपि येन भवति तत्
जात्युत्तरमिति भावः।
परमतबाधनार्थं उच्यमानमुत्तरं स्वमतमपि विहन्ति चेत्
तादृगुत्तरविशेषो जातिरिति फलितोर्ऽथः।
दीपिका
साधर्म्य-
वैधर्म्य-उत्कर्ष-
अपकर्ष-वर्ण्य-अवर्ण्य-विकल्प-साध्य-प्राप्ति-अप्राप्ति-प्रसङ्ग-प्रति दृष्टान्त-अनुत्पत्ति
-संशय-प्रकारण-अहेतु- अर्थापत्ति-अविशेष-उपपत्ति-उपलब्धि -
अनुपलब्धि - नित्य - अनित्य - कार्यं-अकार्य-समा जातयाः।
प्रकाशिका
साधर्म्यसमालक्षणम्
तदबान्तरभेदात्
दर्शयति - साधर्म्येत्यादिना। द्वन्द्वान्ते श्रुयमाणस्य समाशब्दस्य
प्रत्येकं योगः। साधर्म्यसमा वैधर्म्यसमेत्यादयः चतुर्विशतिः
जातयः। साधर्म्येंण स्थानाहेतुदूषकमुत्तरम् साधर्म्यसमा। यथा
आत्मा
सक्रियः
क्रियाहेतुगुणवत्त्वातृ लोष्टवत्, क्रिया हेतुगुणश्चात्र
क्रियाजनकवायुसंयोगादिरेवेति स्थापनायमुत्तरम् - ऽयदि
सक्रियसाधर्म्यात् सक्रियः तदा विभुत्वरूपनिष्क्रयसाधर्म्यात् निष्क्रिय
एव किं न स्यात। न च अत्र किंञ्चित् विनिगमकमस्तिऽ इति।
बालप्रिया
साधर्म्यसमायाः
सोदाहरणं लक्षणमाह - साधर्म्येणेति। वादिना स्वसाध्यसाधनार्थं
हेतौ प्रयुक्ते सति प्रतिवादिनः दृष्टान्तसादृश्यमात्रावष्टब्धेन
हेतुना वाद्यभिमतसाध्याभावसाधनमुखेन वाद्युक्तहेतोः
स्वसाध्यासाधकत्वसाधकमुत्तरं साधर्म्यसमेत्यथैः। यथा आत्मेत्यादि।
यो यः क्रियाहेतुभूतगुणवान् स क्रियावान्;
यथा लोष्टः
क्रियाहेतुभूतवायुसंयोगरूपगुणवत्त्वात् क्रियावान् तद्वत्
आत्मापि तादृशगुणवत्त्वात् क्रियावान् इति वादिनोक्ते सति,
प्रतिवादी वदति ऽयदि क्रियाहेतुगुणवत्त्वेन रूपेण लोष्टसादृश्यात्
आत्मनः क्रियावत्त्वं तर्हि यथा परममहत्परिमाणवतः आकाशस्य
निष्क्रियत्वं तथा आत्मनो ऽपि परममहत्परिमाणवत्त्वात् निष्क्रियत्वं
किं न-स्यात्; आत्मा निष्क्रियः परममहत्परिमाणवत्त्वात्
आकाशवदित्यपि वक्तुं शक्यत्वात्ऽ इति दूषयति। एतादृशं दूषणं
साधर्म्यसमेत्यर्थः।
प्रकाशिका

मूल पाठ: Tarkasaṃgraha with autoentary (Dīpikā), Nīlakaṇṭha's Dīpikāprakāśikā and Bālapriyā · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc