तर्कसंग्रह (टीका सहित) · भाग 281300
तत्रानिव्याप्तिवारणाय कार्यतायां प्रमानिष्ठत्वनिवेशः। पित्तादेः
भ्रमनिष्टकार्यतानिरूपिताकारणताशालित्वे ऽपि
प्रमानिष्ठकार्यतानिरूपितकारणताशालित्वाभावात् नातिव्याप्तिः।
तदाह - तेनेति। एवं परिष्कर्तव्यमिति।
अप्रमात्वाधिकदेशवृत्तिधर्मानवच्छिन्नाप्रमानिष्ठकार्यपरिष्कर्तव्यमि ति।
अप्रमात्वाधिकदेशवृत्तिधर्मानवच्छिन्नाप्रमानिष्ठकार्यतानिरूपितकारणताशालित्वं
दोषस्य लक्षणमित्यर्थः।
दीपिका
अप्रामाण्यस्य
परतस्त्वनिरूपणम्
पुरोवर्तिनि
प्रकाराभावस्य अनुव्यवसायेन अनुपस्थितत्वात् अप्रमात्वं परत एव
गृह्यते।
पित्तादिदोषजन्यत्वमुत्पत्तौ परतस्त्वम्।
प्रकाशिका
अप्रमात्वस्य
परतस्त्वं सयुक्तिकं दर्शयति - पुरोवर्तिनीति। अनुपस्थितत्वादिति।
अविषयीकरणादित्यर्थः। तथा च प्रत्यासत्तेरभावात्
अप्रमात्वस्यानुव्यवसायेन ग्रहणं न सम्भवतीति भावः। अप्रमात्वम् -
तदभाववद्विशेष्यकत्वविशिष्टतत्प्रकारकत्वम्। परत एव गृह्यत इति।
अनुमानादित एव गृह्यत इत्यर्थः। अनुमानप्रयोगस्तु - इदं ज्ञानं
अप्रमा विसंवादिप्रवृत्तिजनकत्वात् यन्नैवं तन्नैवं यथा प्रमा इति।
बालप्रिया
प्रत्यासत्तेरभावादिति। संनिकर्षाभावादित्यर्थः। विशेष्ये
प्रकारसम्बन्धस्य व्यवसायविषयत्वात्
व्यवसायरूपज्ञानलक्षणप्रत्यासत्त्या अनुव्यवसायेन
प्रकारसंबन्धघटितप्रमात्वग्रहणं कथञ्चित् प्रसक्तं पूर्वं निराकृतम्।
पुरोवर्तिनि प्रकाराभावसम्बन्धस्य व्यवसायविषयत्वात्
तद्घटितस्याप्रमात्वस्य कथमपि भ्रमानुव्यवसायेन ग्रहणं न
सम्भवतीति अप्रमात्वं न प्राथमिकज्ञानग्रहविषयत्वरूपस्वतस्त्ववत्।
अपि तु अनुमानवेद्यत्वाख्यपरतस्त्ववदिति भावः।
विसंवादिप्रवृत्तीति।
विफलप्रवृत्तीत्यर्थः।
दीपिका
अन्यथाख्यातिसमर्थनम्।
ननु सर्वेषां
ज्ञानानां यथार्थत्वात् अयथार्थज्ञानमेव नास्तीति। न च ऽशुक्तौ
इदं रजतमृऽ इति ज्ञानात् प्रवृत्तिदर्शनात्
अन्यथाख्यातिसिद्धिरिति वाच्यम्। रजतस्मृतिपुरोवर्तिज्ञानाभ्यामेव
प्रवृत्तिसम्भवात्। स्वतन्त्रोपस्थितेष्टभेदाग्रहस्यैव सर्वत्र
प्रवर्तकत्वेन ऽनेदम् रजतमृऽ इत्यादौ अतिप्रसङ्गाभावादिति
चेत् - न। सत्यरजतस्थले पुरोवर्तिविशेष्यकरजतत्वप्रकारकज्ञानस्य
लाघवेन प्रवृत्तिजनकतया शुक्तावपि रजतार्थिप्रवृत्तिजनकतवेन
विशिष्टज्ञानस्यैव कल्पनात्।
प्रकाशिका
गुरुमतं निरस्य
अन्यथाख्यातिं व्यवस्थापयति - नन्वित्यादिना। यथार्थत्वात् -
प्रमात्वात्। अयथार्थज्ञानमेव नास्तीति।
तदभाववद्विशेष्यकतत्प्रकारकत्वरूपायथार्थत्वं ज्ञानवृत्ति नेत्यर्थः।
तेन न सिद्ध्यसिद्धिभ्यां व्याघातः। अयथार्थत्वस्य तु
प्रसिद्धिरिच्छादौ बोध्या। अन्यथाख्यातीति। तदनङ्गीकारे
पुरोवर्त्तिविशेष्यकरजतत्वादिरूपेष्टतावच्छेदकप्रकारकज्ञानस्य
संवादिविसंवादिसाधारणप्रवृत्तिजनकतया तत्र प्रवृत्तिरेव न
स्यादिति भावः। रजतस्मृतीति। क्ल्प्तनियतपूर्ववर्तिभ्यामित्यादिः।
सम्भवादिति। तथा च प्रवृत्तिं प्रति विशिष्टज्ञानत्वेन कारणतैव
नास्तीति तदनुरोधेन अन्यथाख्यातिकल्पनं न सम्भवतीति भावः।
नन्वेवं यत्र ऽनेदम् रजतम्ऽ इत्यादिबाधग्रहः तत्रापि प्रवृत्तिः
स्यादित्यत आह - उपस्थितेति। एतावता स्मृतिरूपकारणापेक्षा
स्फुटीकृता। इष्टभेदाग्रहस्यैव -
रजतादिरूपेष्टभेदग्रहाभावस्यैव। एवकारेण विशिष्टज्ञानस्य
प्रवर्तकत्वव्यवच्छेदः। सर्वत्रेति। रजते शुक्तौ चेत्यर्थः।
सत्यरजतस्थले विशिष्टज्ञानत्वेनैव प्रवृत्तिं प्रति कारणत्वमेष्टव्यम्।
अन्यथा धर्मधर्मिज्ञानयोः इष्टभेदाग्रहत्वरूपगुरुधर्मावच्छिन्नस्य च
कारणतापत्तेः। एवं च तत्र प्रवृत्तिं प्रत्यन्वयव्यतिरेकाभ्यां
विशिष्टज्ञानस्य कारणतायां लाघवात् सामान्यतः प्रवृत्तित्वावच्छिन्नं
प्रति विशिष्टज्ञानत्वेन अनुगतकार्यकारणभावस्यैव कल्पनीयतया
विसंवादिप्रवृत्तेरपि तत्कार्यतावच्छेदकावलीढतया तत्पूर्वं
विशिष्टज्ञानस्य कल्पनीयत्वात् अन्यथाख्यातिर्निराबाधैवेति समाधत्ते
- सत्यरजतेति। रजतत्वप्रकारकज्ञानस्येति।
तादृशज्ञानत्वावच्छिन्नस्येत्यर्थः। प्रवृत्तिजनकतया -
प्रवृत्तित्वावच्छिन्नजनकतया। विशिष्टज्ञानस्यैव -
पुरोवर्तिविशेष्यकेष्टतावच्छेदकप्रकारकज्ञानस्यैव। एतेन
इष्टभेदाग्रहस्य व्यवच्छेदः। कल्पनात् - अनुमानात्। तत्प्रयोगस्तु
- ऽइयम् पुरोवर्तिविशेष्यकेष्टतावच्छेदकप्रकारकज्ञानजन्या,
प्रवृत्तित्वात्, रजतस्थलीयप्रवृत्तिवत्ऽ इति। स्यादेतत् - प्रत्यक्षे
सन्निकर्षस्य कारणतया रजतत्वांशे तदभावेन कथं शुक्तौ ऽइदम्
रजतम्ऽ इति प्रत्यक्षमिति चेत्,
मैवम्।
अलौकिकसन्निकर्षस्यापि प्रत्यक्षजनकताया व्यवस्थापितत्वेन
ज्ञानलक्षणप्रत्यासत्तेरेव प्रकृते सम्भवात्।
बालप्रिया
गुरुमतमिति।
सर्वाणि ज्ञानानि तद्वति तत्प्रकारकत्वरूपप्रमात्ववन्ति। तदभाववति
तत्प्रकारकत्वरूपाप्रमात्ववत् किमपि जानं न भवतीति
प्राभाकरमतमित्यर्थः। ननु दीपिकायाम् अयथार्थज्ञानमेव नास्तीति
गुरुमतानुवादो न युक्तः। अयथार्थज्ञानस्य प्रसद्धित्वे तनिनषेधो न
युक्तः। अयथार्थज्ञानस्याप्रसिद्धत्वे च प्रतियोग्यप्रसिद्ध्या तन्निषेधो
न युक्त इति सिद्ध्यसिद्धिभ्यां व्याघातादित्यत आह -
तदभाववदिति। अयथार्थत्वं पक्षः, ज्ञानवृत्तित्वाभावः साध्यः,
ज्ञानत्वव्यापकप्रमात्वविरुद्धत्वात् इति हेतुः। तदनङ्गीकार
इति। तदभाववद्विशेष्यकतत्प्रकारकज्ञानरूपान्यथाख्यात्यनङ्गीकार
इत्यर्थः। पुरोवर्तिविशेष्यकेति। पुरोवर्तिविशेष्यकप्रवृत्तिं प्रति
पुरोवर्तिविशेष्यकेष्टतावच्छेदकप्रकारकज्ञानं हेतुः। रजतार्थिनः
पुरुषस्य पुरोवर्तिनि इदङ्कारास्पदे वस्तुनि
इष्टतावच्छेदकरजतत्वज्ञाने विना प्रवृत्तेरनुदयात्। तथा च
शुक्तिविशेष्यकरजतत्वप्रकारकज्ञानात्मकान्यथाख्यातिमन्तरेण
प्रवृत्तिर्न घटते। अतः प्रवृत्त्यनुसारेण तद्धेतुभूता
अन्यथाख्यातिरङ्गीकार्येति शङ्कितुराशयः। संवादिप्रवृत्तिः
सफलप्रवृत्तिः। विसंवादिप्रवृत्तिः। विफलप्रवृत्तिः।
ननु विशिष्टज्ञानं
प्रवृत्तिकारणं वा ज्ञानद्वयं तत्कारणं वेत्यत्र विनिगमनाविरहात्
ऽरजतस्मृतिपुरोवर्तिज्ञानाभ्यामेव प्रवृत्तिसम्भवात्ऽ
इत्युक्तमित्यत्राह - कॢप्तनियतपूर्ववर्तिभ्यामित्यादिरिति।
विशिष्टज्ञानस्य प्रवृत्तिकारणत्वं वदता नैयायिकेनापि
विशिष्टज्ञानात्पूर्वं इदमित्याकारकं पुरोवर्तिविषयकं प्रत्यक्षं
रजतस्मरणं चेति ज्ञानद्वयं भवतीत्यङ्गीक्रियते।
तथा च
कॢप्तनियतपूर्ववर्तिभ्यां इदञ्ज्ञानरजतस्मरणाभ्यामेव प्रवृत्तेः
सम्भवे
विशिष्टज्ञानमनावश्यकमिति भावः। विशिष्टज्ञानत्वेनेति।
पुरोवर्तिविशेष्यकरजतत्वादिप्रकारकज्ञानत्वेनेत्यर्थः।
नन्वेवमिति। रजतस्मृतिपुरोवर्तिज्ञाने एव प्रवृत्तिकारणे;
विशिष्टज्ञानं तु न प्रवृत्तिकारणमित्यङ्गीकार इत्यर्थः। प्रवृत्तिः
स्यादिति। रजतस्मृतिपुरोवर्तिज्ञानयोः सत्त्वादिति भावः।
रजतादिरूपेति। रजतादिरूपं यत् इष्टं
तत्प्रतियोगिकभेदज्ञानाभावस्येत्यर्थः। तथा च
पुरोवर्तिविशेष्यकरजतादिरूपेष्टप्रतियोगिकभेदप्रकारकज्ञानाभावव् इ
- शिष्टे पुरोवर्तिज्ञानरजतस्मरणे पुरोवर्तिनि
रजतार्थिप्रवृत्तिहेतुरिति ऽनेदम् रजतम्ऽ इति बाधज्ञानकाले न
प्रवृत्त्यापत्तिरिति भावः। इदमिति
धर्मिज्ञान-रजतत्वज्ञानभेदाग्रहाणां त्रयाणां कारणत्वापेक्षया
विशिष्टज्ञानस्यैकस्य कारणत्वे लाघवमिति मूले ऽभिप्रेतम्। तदाह -
सत्यरजतस्थल इत्यादिना। यद्यपि धर्मधर्मिज्ञानयोः कारणत्वं
विशिष्टज्ञानकारणतावाद्यपि
अङ्गीकरोति, तथापि
ऽनेदं रजतम्ऽ इति बाधग्रहकाले प्रवृत्तिवारणाय
इष्टभेदग्रहाभावत्वावच्छिन्नस्य कारणत्वं प्राभाकरेणोच्यते
नैयायिकेन विशिष्टज्ञानत्वावच्छिन्नस्य कारणत्वमुच्यते। तत्र
कारणतावच्छेदकलाघवं नैयायिकस्यैवेति भावः। सामान्यतः
प्रवृत्तित्वावच्छिन्नं प्रतीति।
संवादिविसंवादिप्रवृत्तिसाधारणप्रवृत्तित्वावच्छिन्नं प्रतीत्यर्थः।
तत्कार्यतावच्छेदकावलीढतयेति। तस्य विशिष्टज्ञानस्य यत्
कार्यतावच्छेदकं प्रवृत्तित्वं तदाश्रयतयेत्यर्थः। तत्पूर्वमिति।
विसंवादिप्रवृत्तेःपूर्वमित्यर्थः। रजतत्वांशे तदभावेनेति।
सन्निकर्षाभावेन चक्षुस्संयुक्तशक्तिसमवायाभावेनेत्यर्थः।
ज्ञानलक्षणेति। रजतस्मरणात्मकं यत् रजतत्वप्रकारकज्ञानं स एव
रजतत्वभानप्रयोजकः संनिकर्ष इति भावः।
तर्कसङ्ग्रहः
अयथार्थानुभवनिरूपणम्
अन्त्स्_64 अयथार्थानुभवस् त्रिविधः संशयविपर्ययतर्कभेदात् । एकस्मिन् धर्मिनि विरुद्धनानाधर्मवैशिष्ट्यावगाहि ज्ञानं संशयः । यथा स्थाणुर् वा पुर्षो वेति । मिथ्याज्ञानं विपर्ययः । यथा शुक्ताव् इदं रजतम् इति । व्याप्यारोपेण व्यापकारोपस् तर्कः यथा यदि वह्निर् न स्यात् तर्हि धूमोऽपि न स्याद् इति ॥
अयथार्थानुभवस्त्रिविधः - संशय-विपर्यय-तर्कंभेदात्।
एकस्मिन् धर्मिणि विरुद्धनानाधर्मवैशिष्ट्यज्ञानं संशयः। यथा
स्थाणुर्वा पुरुषो वेति। मिथ्याज्ञानं विपर्ययः। यथा शुक्तौ इदं
रजतम् इति। व्याप्यारोपेण व्यापकारोपस्तर्कः। यथा यदि
वह्निर्नस्यात् तर्हि धूमो ऽपि न स्यात् इति।
दीपिका
अयथार्थानुभावं विभजते - अयथार्थ
इति। स्वप्नस्य मानसविपर्ययरूपत्वात् न त्रैविध्यविरोधः।
संशयलक्षणमाह - एकेति। घटपटाविति
समूहालम्बने ऽतिव्याप्तिवारणाय एकेति। ऽघटः द्रव्यम्ऽ
इत्यादावतिव्याप्तिवारणाय विरुद्धेति। ऽघटत्वविरुद्धपटत्ववान्ऽ
इत्यत्र अतिव्यापितवारणाय नानेति। विपर्ययलक्षणमाह - मिथ्येति।
तदभाववति तत्प्रकारकनिर्णय इत्यर्थः। तर्कं लक्षयति - व्याप्येति।
यद्यपि तर्कः विपर्यये ऽन्तर्भवति, तथापि प्रमाणानुग्राहकत्वात्
भेदेन सङ्कीर्तनम्।
प्रकाशिका
ननु
अयथार्थानुभवस्य त्रैविध्यकथनम् मूले ऽसङ्गतम्, स्वप्नज्ञानस्य
अनुभूतपदार्थस्मरणकफपित्तादिरूपदोषशुभाशुभादृष्टैर्जायमानस्य
बाधितार्थविषयकस्य अनुभवसिद्धत्वादत आह - स्वप्नस्येति। यद्यपि
प्रदेशविशेषावस्थितमनस्संयोगः स्वप्नः। तथापि
तदसमवायिकारणकज्ञाने स्वप्नशब्दो भाक्त इत्यवधेयम्।
चाक्षुषादिरूपत्वासम्भवादाह - मानसेति। यत्तु स्मृमिरूपं
स्वप्नज्ञानमिति तत् भाष्यादिविरुद्धमित्युपेक्षितम्।
कोट्योरव्याप्यवृत्तित्वज्ञानोत्तरं जायमाने एकस्मिन् धर्मिणि
घटतदभावोभयप्रकारकसमुच्चये ऽतिव्याप्तिवारणाय
विरोधविषयकत्वस्य निवेशे ऽपि नानेत्यस्यावश्यकतेति
दर्शयितुमाह - घ्टत्वविरुद्धेति। नानेतीति।
एकधर्मिनिष्ठविशेष्यतानिरूपितविरुद्धनानाधर्मनिष्ठप्रकारताकत्वाभावात्
नातिव्याप्तिरिति भावः। न च
विभिन्नरूपेणैकधर्मिविशेष्यकविरुद्धानेकधर्मप्रकारकज्ञाने ऽतिव्याप्तिरिति
शङ्क्यम्। एकधर्मावच्छिन्नविशेष्यताघटितपरिष्कारकारणेन
अदोषादिति दिक्। तन्त्रान्तरे ब्रह्मभिन्ने सर्वस्मिन्नेवमिथ्याशब्दस्य
प्रयोगदर्शनादाह -
तदभाववतीति। प्रमावारणाय इदम्।
तदभाववद्विशेष्यकत्वावच्छिन्नतत्प्रकारकत्वेत्याद्यर्थविवक्षणात् न
समूहालम्बने ऽतिप्रसङ्गः। संशयस्य इच्छायाश्च वारणाय
संशयान्यज्ञानार्थकं निश्चययदमिति सङ्क्षेपः।
मूले
व्याप्यारोपेणेति। आहार्यव्याप्यवत्ताभ्रमजन्य -
आहार्यव्यापकवत्ताभ्रमस्तर्क इत्यर्थः।
आहार्यज्ञानमात्रे ऽतिप्रसङ्गवारणाय जन्यान्तम्। यत्र नायम् पुरुष
इति निश्चयसत्त्वे शाखादौ करादिभ्रमात् ऽअयं पुरुषःऽ
इत्याद्याहार्यारोपः तत्रातिव्याप्तिवारणाय प्रथममाहार्यपदम्।
रजतत्वव्याप्याभाववत्ताग्रहकाले आहार्यं
यद्रजतत्वव्याप्यवत्ताज्ञानमृ तज्जन्ये ऽइदम् रजतम्ऽ
इत्यनाहार्यज्ञाने ऽतिव्याप्तिवारणाय द्वितीयमाहर्यपदम्। तर्के
आपाद्यव्यतिरेकनिश्चय आपाद्यापादकयोर्व्याप्तिनिश्चयश्च कारणमिति
ध्येयम्। तर्कस्तु मानसविपर्ययरूप एवेति कथमयथार्थस्य
त्रैविध्यकथनमित्याह - यद्यपीति। प्रमाणानुग्राहकत्वम् - प्रमाणेन
प्रमायां जननीयायां प्रतिबनधकविघटनद्वारोपयोगित्वम्।
भेदेनेति। तर्कत्वरूपवैलक्षण्येनेत्यर्थः। तर्कस्य
प्रामाणानुग्राहकत्वज्ञापनाय तथा कथनमिति भावः।
बालप्रिया
भाक्त इति।
लाक्षणिकः कार्ये कारणोपचार इत्यर्थः। तथा च स्वाप्नं विज्ञानं
विपर्यये ऽन्तर्भूतमिति भावः। भाष्यादिविरुद्धमिति।"उपरतेन्द्रियग्रामस्य प्रलीनमनस्कस्य इन्द्रियद्वारेणैव
यदनुभवनं मानसम्, तत् स्वप्नज्ञानम्"इति प्रशस्तपादभाष्ये
तद्व्याख्यानकन्दल्यादिग्रन्थे च स्वप्नस्यानुभवरूपताप्रतिपादनादिति
भावः। एकधर्मिविशेष्यकविरुद्धनानाधर्मप्रकारकज्ञानं संशयः।
घटपटाविति ज्ञानस्य विरुद्धघटत्वपटत्वरूपानेकधर्मप्रकारकत्वात्
तत्रातिव्याप्तिः। तद्वारणाय एकधर्मिविशेष्यकेत्युक्तम्।
घटपटरूपानेकधर्मिविशेष्यकं घटपटाविति ज्ञानमिमिति
नातिव्याप्तिः। घटो द्रव्यमिति ज्ञानस्य घटरूपैकधर्मिविशेष्यकत्वात्
घटत्व-द्रव्यत्वरूपानेकधर्मप्रकारकत्वाच्च तत्रातिव्याप्तिः। तद्वारणाय
विरुद्धेति धर्मविशेषणम्। घटत्वद्रव्यत्वयोपरेकत्र घटे
वर्तमानयोरेकत्रावर्तमानत्वरूपविरुद्धत्वाभावात् नातिव्याप्तिः।
घटत्वविरुद्धपटत्ववान् इति ज्ञानस्यापि
एकधर्मिपटविशेष्यकविरुद्धपटत्वरूपधर्मप्रकारकत्वात्
तत्रातिव्याप्तिः। तद्वारणाय नानाधर्मप्रकारकेत्युक्तम्। यद्यपि
घटत्वविरुद्धपटत्ववानिति ज्ञानस्यापि
घटत्वपटत्वरूपनानाधर्मप्रकारकत्वमस्ति, तथापि तस्मिन् ज्ञाने
घटत्वं विरोधांशे प्रकारः पटत्वं तु पटांशे प्रकार इति
एकस्मिन् धर्मिणि तयोः प्रकारकत्वं नास्तीति नातिव्याप्तिः।
ननु अयं
पटत्ववानिति ज्ञानस्यापि वस्तुतो घटत्वविरुद्वं यत् पटत्वं
तत्प्रकारकत्वेन तत्रातिव्याप्तिवारणमेव नानेत्यस्य प्रयोजनं
भवितुमर्हतीति ऽघटत्वविरुद्धपटत्ववान्ऽ इति
ज्ञानपर्यन्तानुधावनं दीपिकायामयुक्तमित्यत्राह - कोट्योरिति।
घटः तदभावश्चाव्याप्यंवृत्तिः इति ज्ञानानन्तरं जायमाने ऽअयं
घटवान् घटाभाववांश्चऽ इत्याकारके समुच्चयसंज्ञके ज्ञाने
वस्तुतः घटविरुद्धः यो घटाभावः तत्प्रकारकत्वात्
तत्रातिव्याप्तिवारणाय कोटिद्वयविरोधविषयकत्वमपि
निवेशनीयम्। कोट्योरव्याप्यवृत्तित्वज्ञानशून्यकालीने समुच्चये
एव कोट्योर्विंरोधो विषयः। तयोरव्याप्यवृत्तित्वज्ञानकालीने
समुच्चये तु कोट्योर्विरोधो न भासते। तथा चोक्तसमुच्चयस्य
विरोधविषयकत्वाभावात् नातिव्याप्तिः। तथा चायं
पटत्ववानिति ज्ञानस्य वस्तुतः घटत्वविरुद्धं यत् पटत्वं
तद्विषयकत्वे ऽपि विरोधविषयकत्वाभावात् न तत्रातिव्याप्तिः वक्तुं
शक्यत इत्याशयेन ऽअयं घटत्वविरुद्धपटत्ववान् इति
ज्ञानपर्यन्तानुधावनम्। तस्य ज्ञानस्य विरोधविषयकत्वात् प्रसक्ताया
अतिव्याप्तेर्वारणाय नानेति विशेषणमिति भावः।
एकधर्मिनिष्ठविशेष्यतेत्यादि। अयं घटत्वविरुद्धपटत्ववान्
इति ज्ञाने घटत्वमपि प्रकारः पटत्वमपि प्रकारः।
परन्तु
घटत्वनिष्ठप्रकारता विरोधनिष्ठविशेष्यतानिरूपिता,
पटत्वनिष्ठप्रकारता पटनिष्ठविशेष्यतानिरूपिता। द्वयोः
घटत्वपटत्वनिष्ठप्रकारतयोः एकधर्मिनिष्ठविशेष्यतानिरूपितत्वं
नास्तीति तादृशज्ञाने
एकधर्मिनिष्ठविशेष्यतानिरूपितनानाधर्मनिष्ठप्रकारतानिरूपकत्वाभावात्
नातिव्याप्तिरिति भावः। विभिन्नरूपेणेति। ऽपर्वतो वह्निमान् द्रव्यं
वह्न्यभाववत्ऽ इत्याकारके समूहालम्बने पर्वतत्वद्रव्यत्वाभ्यां
पर्वतरूपैकधर्मिविशेष्यके ऽतिव्याप्तिः।
पर्वतनिष्ठविशेष्यतानिरूपितवह्नितदभावरूपनानाधर्मनिष्ठप्रकारतानिरूपकत्वादिति
भावः। एकधर्मावच्छिन्नेति। तथा च
एकधर्मावच्छिन्नविशेष्यतानिरूपितनानाधर्मनिष्ठप्रकारतानिरूपकज्ञानत्वं
संशयस्य लक्षणम्। ऽपर्वतो वह्निमान्, द्रव्यं वह्न्यभाववत्ऽ इति
ज्ञाने वह्निनिष्ठप्रकारता पर्वतत्वावच्छिन्नविशेष्यतानिरूपिता
वह्न्यभावनिष्ठप्रकारता द्रव्यत्वावच्छिन्नविशेष्यतानिरूपितेति द्वयोः
प्रकारतयोः एकधर्मावच्छिन्नविशेष्यतानिरूपितत्वं नास्तीति
नातिव्यापितरिति भावः।
नन्वेवमपि
घटतदभावयोरव्याप्यवृत्तित्वज्ञानकालीने ऽभूतलं घटवत्
घटाभाववच्चऽ इत्याकारके समुच्चये ऽतिव्याप्तिः। तस्यापि
भूतलत्वरूपैकधर्मावच्छिन्नविशेष्यतानिरूपितघटतदभावरूपनानाधर्म
- निष्ठप्रकारतानिरूपकत्वादित्यत आह-दिगिति।
1स्वघटितधर्मावच्छिन्नप्रतिबन्धकतानिरूपितप्रतिबध्यतावच्छेदकीभूता
या
स्वनिरूपकतावच्छेदकधर्मावच्छिन्ननिरूपितविरोधविषयितानिरूपिता
प्रकारिता समानाधिकरण्यसम्बन्धेन तद्विशिष्टप्रकारितैव
संशयत्वम्। तच्च
समुच्चयव्यावृत्तम्। समुच्चये विरोधाभानेन
कोटिद्वयविषयितयोः विरोधविषयित्वानिरूपितत्वात्। संशये
चान्ततः कोट्योः संसर्गतया परस्परविरोधभानोपगमेन
लक्षणसमन्वय इति भावः। एतेन समुच्चये ऽतिव्याप्तिवारणाय ज्ञाने
विरोधविषयकत्वविशेषणदाने तत एव घटपटाविति ज्ञानस्य द्रव्यम्
इति ज्ञानस्य च वारणसम्भवात् एकधर्मिविशेष्यकत्वविशेषणं धर्मे
विरुद्धत्वविशेषणं च व्यर्थम्। तयोर्ज्ञानयोः
विरोधविषयकत्वाभावेनैव वारणादिति शङ्कायाः नावसरः।
उक्तपरिष्कार एव प्रकृतग्रन्थतात्पर्यादिति।
1. स्वघटितेत्यादि।
स्वं भूतलं घटवन्न वेति संशयनिष्ठा घटनिरूपिता प्रकारिता
तद्घटितो धर्मः
घटनिरूपितप्रकारित्वावच्छिन्नभूतलनिरूपितविशेष्यिताशालिज्ञानत्वं
तदवच्छिन्ना भूतलं घटवदित्याकारकज्ञाननिष्ठा प्रतिबन्धकता
तन्निरूपिता या प्रतिबध्यता भूतलं घटाभाववदिति ज्ञाननिष्ठा
तदवच्छेदकीभूता घटाभावनिरूपिता प्रकारिता, एवं स्वं
घटनिरूपितप्रकारिता तन्निरूपकता घटनिष्ठा तदवच्छेदकधर्मः
धटत्वं तदवच्छिन्ननिरूपितो यो विरोधः तन्निष्ठविषयतानिरूपिता
सा घटाभावनिरूपिता प्रकारिता भवति एकाधिकरणवृत्तित्वसम्बन्धेन
तद्विशिष्टप्रकारिता घटनिरूपितप्रकारिता भूतलं घटवत् न वेति
संशये ऽस्तीति समन्वयः।
तन्त्रान्तरे -
अद्वैतवेदान्ते। तथा च मिथ्याविषयकं ज्ञानं विपर्यय इत्युक्तौ
ब्रह्मातिरिक्तविषयकस्य सर्वस्यापि
ज्ञानस्य अद्वैतिमते
मिथ्याविषयकत्वात् विपर्ययत्वापत्तिः, अतः मिथ्याज्ञानमित्यस्य
तदभाववति तत्प्रकारकनिर्णय इति व्याख्यानं कृतमिति भावः।
प्रमावारणायेदमिति। तत्प्रकारकनिर्णयः विपर्ययः
इत्येतावन्मात्रोक्तौ अयं घट इत्यादिप्रमायामतिव्याप्तिः तस्या
अपि घटत्वादिप्रकारकत्वात्। तद्वारणाय तदभाववतीति विशेषणम्।
अयं घट इत्यादिप्रमायाः घटत्ववद्विशेष्यकत्वेन
घटत्वाभाववद्विष्यकत्वाभावात् नातिव्याप्तिरिति भावः। न
समूहालम्बने ऽतिप्रसङ्ग इति। रङ्गरजतयोः ऽइमे
रङ्गरजतेऽ इति प्रमायां नातिव्यापितरित्यर्थः। तस्याः प्रमायाः
रजतत्वाभाववद्रङ्गविशेष्यकत्वे रजतत्वप्रकारकत्वे च
सत्यपि रङ्गत्वाभाववद्विशेष्यकत्वावच्छिन्नरजतत्वप्रकारकत्वं
नास्ति,
रजतत्वनिष्ठप्रकारतायाः
रजतत्ववद्रजतनिष्ठविशेष्यतानिरूपितत्वेन
रजतत्वाभाववद्रङ्गनिष्ठविशेष्यतानिरूपितत्वाभावात् रङ्गांशे
रजतत्वस्याप्रकारत्वादिति भावः। अवशिष्टं सर्वं प्रत्यक्षपरिच्छेद
एवोक्तमित्याशयेनोक्तम् सङ्क्षेप इति।
व्याप्यारोपेण
व्यापकारोपस्तर्कः। आरोपशब्दस्य आहार्यभ्रमैत्यर्थः। आहार्यत्वं
च बाधकालीनेच्छाजन्यत्वम्। तृतीयायाः जन्यत्वमर्थः। तस्य
व्यापकारोपे ऽन्वयः। व्याप्यस्यारोपः व्याप्यारोपः। षष्ठ्याः
विषयत्वमर्थः। तथा च बाधकालीनेच्छाजन्यव्याप्यविषयकभ्रमजन्यः
बाधकालीनेच्छाजन्यव्यापकविषयको भ्रमस्तर्क इति फलति। यदि
पर्वतो वह्न्यभाववान् स्यात् तर्हि धूमाभाववान् स्यात्
इत्याकारकस्तर्कः। तत्र व्याप्यः वह्न्यभावः तद्विषयकः आरोपः
पर्वतो वह्न्यमानिति बाधकालीनया इच्छया जन्यः भ्रमः यदि
पर्वतो वह्न्य भाववान् स्यात् इत्याकारकः, तज्जन्यः व्यापकस्य
धूमाभावस्य आरोपः तर्हि धूताभाववान् स्यादित्याकारकः। स एव
तर्कः। व्याप्यविषयकभ्रमे आहार्यत्वविशेषणादाने शाखायां
पुरुषत्वव्याप्यकरभ्रमात् यत्र अयं पुरुष इत्याहार्यारोपः
तत्रातिव्याप्तिः तद्वारणाय आहार्यत्वविशेषणम्। शाखायां करभ्रमः न
आहार्य इति नातिव्याप्तिः। व्यापकारोपे आहार्यत्वविशेषणादाने
आहार्यात् रजतत्वव्याप्यवत् इदमिति ज्ञानात् जायमाने इदं
रजतं इत्याकारके अनाहार्यभ्रमे ऽतिव्याप्तिः। तद्वारणाय तत्।
तदाह - आहार्यव्याप्यवत्तेत्यादि। नायं पुरुष इति निश्चयसत्व
इति। ऽअयं पुरुषऽ इति भ्रमस्य आहार्यत्वसम्पादनायैतदुक्त्म्।
रजतत्वव्याप्यवत्ताज्ञानस्य आहार्यत्वसम्पादनाय
रजतत्वव्याप्याभाववत्ताग्रहकाले इति।
आपाद्यव्यतिरेकनिश्चय
इति। आपाद्यः प्रसञ्जनीयः, धूमाभावः तद्व्यतिरेकः
धूमाभावाभावः धूमरूपः तन्निश्चयः, आपाद्यस्य धूमाभावस्य आपादकस्य
वह्न्यभावस्य च या व्याप्तिः तन्निश्चयश्च तर्के कारणमित्यर्थः।
कथमयथार्थस्य त्रैविध्यकथनमिति। संशयो विपर्ययश्चेति
द्वैविध्यकथनस्यैव युक्तत्वादित्यर्थः। प्रतिबन्धकविघटनद्वारेति।
प्रतिबन्धकीभूतव्यभिचारशङ्कानिवर्तनद्वारेत्यर्थः।
तर्कातिरिक्तविपर्ययाणां तु नास्ति प्रमाणानुग्राहकत्वम्, तर्कस्य तु
तदस्तीति वैलक्षण्यसूचनाय विपर्यययान्तर्भूतस्यापि तर्कस्य
पृथङ्निर्देश इत्यर्थः। तथा च विपर्यये तर्कत्वाकारः
प्रमाणानुग्राहकतावच्छेदकः, विपर्ययत्वं तु न तथेति
विशेषज्ञापनाय विपर्ययत्वतर्कत्वाभ्यां विभाग इति भावः।
तर्कसङ्ग्रहः
स्मृतिनिरूपणम्
अन्त्स्_65 स्मृतिर् अपि द्विविधा । यथार्थायथार्था च प्रमाजन्या यथार्था । अप्रमाजन्यायथार्था ॥
स्मृतिरपि द्बिविधा - यथार्था अयथार्था
चेति। प्रमाजनया यथार्था। अप्रमाजन्या अयथार्था।
सुखादिनिरूपणम्
अन्त्स्_66 सर्वेशाम् अनुकूलतया वेदनीयं सुखम् ॥
अन्त्स्_67 सर्वेशां प्रतिकूलतया वेदनीयं दुःखम् ॥
अन्त्स्_68 इच्छा कामः ॥
अन्त्स्_69 क्रोधो द्वेषः ॥
अन्त्स्_70 कृतिः प्रयत्नः ॥
अन्त्स्_71 विहितकर्मजन्यो धर्मः ॥
अन्त्स्_72 निषिद्धकर्मजन्यस् त्व् अधर्मः ॥
अन्त्स्_73 बुद्ध्यादयोऽष्टाव् आत्ममात्रविशेषगुणाः ॥
अन्त्स्_74 बुद्धीच्छाप्रयत्ना द्विविधाः । नित्या अनित्याश् च । नित्या ईश्वरस्य । अनित्या जीवस्य ॥
सर्वेषां
अनुकूलतया वेदनीयं सुखम्। प्रतिकूलतया वेदनीयं दुःखम्।
इच्छा कामः। क्रोधो द्वेषः। कृतिः प्रयत्नः। विहितकर्मजन्यो धर्मः।
निषिद्धकर्मजन्यो ऽधर्मः। बुद्ध्यादयः अष्टौ आत्ममात्रविशेषगुणाः।
बुद्धीच्छाप्रयत्ना
नित्या अनित्यश्च।
नित्या ईश्वरस्य। अनित्या जीवस्य।
दीपिका
स्मृतिं विभजते -
स्मृतिरिति। सुखं लक्षयति - सर्वेषामिति। ऽसुखी अहम्ऽ
इत्याद्यनुव्यसायगम्यं सुखत्वादिकमेव लक्षणम्। यथाश्रुतं तु
स्वरूपकथनमिति द्रष्टव्यम्।
प्रकाशिका
ननु ऽसर्वेषां
अनुकूलतया वेदनीयम्ऽ इत्यादि मूलं सुखादिलक्षणपरं न
सम्भवति, पदद्रव्नयोपभोगादिजन्यसखे साधूनां द्वेषदर्शनात्
अव्याप्तेरित्याशङ्कायां ऽसुख्यहम्ऽ इत्यादिप्रत्यक्षसिद्धं
सुखत्वादिकमेव लक्षणमित्याह - सुखी अहमित्याद्यनुव्यवसायेति।
सुखत्वादीत्यादिना दुखत्वपरिग्रहः। यथाश्रुतं त्विति।
सर्वेषामनुकूलतया इत्यादिकमित्यर्थः।
बालप्रिया
सर्वेषां
अनुकूलतया वेदनीयं सुखम् इति मूलात्
अनुकूलत्वप्रकारकज्ञानविषयत्वं सुखस्य लक्षणमिति प्रतीयते। तथा
सति परकीयद्रव्योपभोगजन्ये सुखे साधूनां द्वेषदर्शनेन
साधुवृत्तिप्रतिकूलत्वप्रकारकज्ञानविषयत्वस्यैव
तत्र सत्त्वेन सर्वेषां
अनुकूलतया वेदनीयत्वस्य तादृशसुखे ऽभावेनाव्याप्त्यापत्तेः इदं
लक्षणं अयुक्तमिति शङ्कानिवारणार्थः सुख्यहमित्यादिदीपिकाग्रन्थ
इत्याह - ननु सर्वेषामित्यादिना।
तर्कसङ्ग्रहः
संस्कारनिरूपणम्
अन्त्स्_75 संस्कारस् त्रिविधः । वेगो भावना स्थितिस्थापकश् चेति । वेगः पृथिव्यादिचतुष्टयमनोवृत्तिः । अनुभवजन्या स्मृतिहेतुर् भावनात्ममात्रवृत्तिः । अन्यथा कृतस्य पुनस् तदवस्थापादकः स्थितिस्थापकः कटादिपृथिवीवृत्तिः ॥
संस्कारः त्रिविधः -
वेगः भावना स्थितस्थापकश्चेति। वेगः
पृथिव्यादिचतुष्टयमनोवृत्तिः। अनुभवजन्या स्मृतिहेतुः भावना।
आत्ममात्रवृत्तिः। अन्यथा कृतस्य (स्थितस्य) पुनः तादवस्थ्यापादकः
स्थितस्थापकः। कटादिपृथिवीमात्रवृत्तिः।
दीपिका
संस्कारं विभजते
- संस्कार इति। संस्कारत्वजातिमान् संस्कार। वेगस्याश्रयमाह -
वेग इति। वेगत्वजातिमान् वेगः। भावनां लक्षयति - अनुभवेति।
अनुभवध्वंसे ऽतिव्याप्तिवारणाय स्मृतीति।
आत्मादावतिव्याप्तिवारणाय अनुभवेति। स्मृतेरपि संस्कारजनकत्वं
नवीनैरुक्तम्। स्थितस्थापकं लक्षयति - अन्यथेति। सङ्ख्यादयः अष्टौ
नैमित्तिकद्रवत्ववेगस्थितस्थापकाः सामान्यगुणाः।
प्रकाशिका
अनुभवेतीति।
स्मृतिं संस्कारं प्रति च अनुभवत्वेनैव कारणत्वं वदतां प्राचां
अयमभिप्रायः - तत्तद्विषयकस्मृतिं प्रति तत्तद्विषयकसंस्कारं प्रति च
तत्तद्विषयकानुभवत्वेनैव हेतुता न तु तत्तद्बिषयकज्ञानत्वेन,
अनुभवत्वस्यापि जातित्वेन ज्ञानत्वापेक्षया गौरवासंभवात्। न च
विनिगमनाविरह इति शङ्क्यम्, व्याप्यधर्मपुरस्कारेण
कारणत्वसम्भवे व्यापकधर्मस्यान्यथासिद्धिनिरूपकत्वादिति।
नवीनाः पुनः -
अनुभवानां तत्तद्विषयकस्मृतिं तादृशसंस्कारं प्रति च
तत्तद्विषयकज्ञानत्वेनैव हेतुता, न तु अनुभवत्वेन, संस्कारस्य
फलनाश्यतया प्रथमस्मरणेनैव अनुभवजन्यसंस्कारस्य नाशेन
सकृतदनुभूतस्य स्मरणोत्तरं अस्मरणप्रसङ्गात्। न च
स्वजन्यस्मरणस्य संस्कारनाशकत्वे स्मृतिसाधारणेन ज्ञानत्वेन
हेतुत्वे ऽपि घटपटादिरूपनानाविषयावगाहिना अनुभवेन जनितस्य
तावद्विषयकसंस्कारस्य घटाद्येकैकगोचरस्मरणेनापि विनाशात्
तदुत्तरं पटादिस्मरणानुपपत्तिः, तत्तद्विषयकसंस्काराभावात्।
स्मृतिजन्यपटादिगोचरसंस्कारस्य च भिन्नर्विषयकतया
पटादिस्मारकत्वायोगात्। अतः स्वजन्यचरमस्मृतेरेवानायत्या
तत्तद्व्यक्तित्वेन तत्तत्संस्कारनाशकताया अङ्गीकर्तव्यतया
अनुभवत्वेन
जनकतायामपि न दोष इति वाच्यम्।, अन्यूनविषयकस्यैव फलस्य
नाशकत्वाङ्गीकारेण अदोषात्। जायते च पुनः पुनः स्मरणात्
दृढतरः संस्कारः। दार्ढ्यं च संस्कारगतः जातिविशेषः झटिति
स्मृत्युत्पादप्रयोजकः। न च दैववशसम्पन्नात् झटिति
उद्बोधकसमवधानादेव झटिति स्मृतिनियमोपपत्तौ न
तत्प्रयोजकतया संस्कारगतः जातिविशेषः सिद्ध्यतीति वाच्यम्।
झटिति स्मृतेः
दैवाधीनझटित्युद्बोधकसमवधानाधीनत्वमभ्युपगम्य
संस्कारातिशयखण्डने शास्त्रादावभ्यासस्यैवानापत्तेः। किं च परित्यज्य
च निश्चिताव्यभिचारकं रूपं गृह्यमाणव्यभिचारकेण कारणत्वकल्पनं
स सम्भवतीति नानुभवत्वेन स्मृतिसंस्कारहेतुतासम्भवः - इति
प्राहुः। तन्मतं दर्शयति - स्मृतेरपीति। अपिना अनुभवपरिग्रहः।
एतन्मते लक्षणे च अनुभवजन्या इति स्थाने ज्ञानजन्येति
निवेशनीयम्।
बालप्रिया
व्याप्यधर्मपुरस्कारेणेति। व्याप्यधर्मः अनुभवत्वम्,
व्यापकधर्मः ज्ञानत्वम्। अन्यथासिद्धिनिरूपकत्वादिति। न हि दण्डस्य
द्रव्यत्वेन रूपेण घटकाकरणत्वमिति भावः। संस्कारस्य
फलनाश्यतयेति। स्मरणरूपेण फलेन नाश्यतयेत्यर्थः। तथा च
संस्कारं प्रति अनुभवत्वेन हेतुत्वे यत्र
घटविषयकानुभवजन्यसंस्कारेण घटस्मरणं जातम्, तत्र पुनः
कालान्तरे घटस्मरणं न स्यात् घटसंस्कारस्य प्राथमिकघटस्मरणेन
नष्टत्वात्। न च घटस्मरणात् पुनः। संस्कारो जायते तेन
पुनर्घटस्मरणमिति भवता वक्तुं शक्यते। अनुभवत्वेन कारणत्वपक्षे
घटस्मरणे संस्कारकारणतावच्छेदकानुभवत्वाभावेन तस्य
संस्कारोत्पादकत्वायोगात्। ज्ञानत्वेन कारणत्वे तु स्मरणे ऽपि
ज्ञानत्वसत्त्वेन तस्यापि संस्कारकारणतया प्रथमोत्पन्नघटस्मरणात्
पुनः संस्कारः ततः स्मरणमिति स्मरणोत्तरं
स्मरणमुपपद्यत इति
भावः।
न च स्वजन्येत्यादि।
संस्कारजन्यस्मरणेन संस्कारो नश्यतीति स्वीकारे तद्विषयकज्ञानं
तद्विषयकस्मृतिहेतुरिति ज्ञानत्वेन रूपेण कारणत्वाङ्गीकारे ऽपि
तत्र समूहालम्बनात्मकघटपटादिनानापदार्थविषयकानुभवानन्तरं
घटपटादीनां प्रत्येकशः स्मरणमजनिष्ट, न तु
अनुभूतसकलपदार्थविषयकैस्मरणम् तत्र घटस्मरणेन
समूहालम्बनानुभवजन्यस्य घटपटादिनानापदार्थविषयकसंस्कारस्य
नाशात् पटादिस्मरणानुपपत्तिः पटादिविषयकसंस्कारस्य
नष्टत्वात्। न च तत्र घटस्मरणजन्यसंस्कारः पटादिस्मृतिं जनयतीति
वाच्यम्। घटस्मरणजन्यसंस्कारस्य घटविषयकतया तस्य
पटादिस्मृतिजनकत्वायोगात्। तद्विषयकस्मृतिं प्रति
तद्विषयकसंस्कारस्य हेतुत्वात्
अन्यविषयकसंस्कारेणान्याविषयकस्मरणासम्भवात्। तथा च
अन्तिमस्मृतिरेव संस्कारेणान्यविषयकस्मरणासम्भवात्। तथा च
अन्तिमस्मृतिरेव तद्व्यक्तित्वेन संस्कारनाशं प्रति हेतुरिति
वाच्यम्। इत्थं च अनुभवत्वावच्छिन्नं संस्कारस्मृत्योर्हेतुरिति
पक्षे ऽपि प्राथमिकघटस्मरणेन घटानुभवजन्यसंस्कारो न नश्यतीति
तद्बलात् पुनः घटस्मरणं भवितुमर्हतीति अनुभवत्वेनैव
स्मृतिहेतुत्वमस्तु इति शङ्काग्रन्थाभिप्रायः।
अन्यूतविषयकस्यैवेत्यादि। संस्कारे यावन्तः पदार्थाः
विषयाः तावत्पदार्थविषयकसमरणमेव संस्कारनाशकम्। तथा-च
घटपटादि
नानापदार्थविषयकसमूहालम्बनानुभवजन्यतावद्विषयकसंस्कारस्य
घटमात्रस्मरणेन तत्संस्कारन्यूनविषयकेण नाशो न भवतीति क्रमशः
पटादिस्मरणमुपपद्यत इति भावः। स्मरणे संस्कारन्यूनविषयकत्वं
च संस्कारविषयताव्यापकविषयताकत्वम्। संस्कारं प्रति
ज्ञानत्वेनैव हेतुत्वे युक्त्यनतरमाह - जायते चेति। पुनः पुनः
घटस्मरणात् झटिति
घटस्मृतिप्रयोजकदार्ढ्यरूपजातिविशेषविशष्टसंस्कारो जायत
इत्यनुभवसिद्धम्। तच्च ज्ञानत्वेन संस्कारहेतुत्व एव सङ्गच्छते,
स्मरणस्यापि ज्ञानत्वेन ततः संस्कारोत्पत्तिसम्भवात् इति भावः।
उद्बोधकसमवधानादिति। उद्बोधकं सम्बन्धिदर्शनादि।
संस्कारातिशयख्ण्डन इति। संस्कारगतदार्ढ्याख्यजातिविशेषखण्डन
इत्यर्थः। अभ्यासस्यैवानापत्तेरिति।
संस्कारगतदार्ढ्याख्यजातिविशेषखण्डन इत्यर्थः।
अभ्यासस्यैवानापत्तेरिति। संस्कारदार्ढ्यार्थमेव अभ्यासकरणादिति
भावः। ननु झटिति स्मृत्यर्थं झटिति
स्मृतिप्रयोजकोद्बोधकसमवाधानार्थं वा शास्त्राभ्यासः, न
संस्कारदार्ढ्यार्थं इत्यतः दोषान्तरमाह - किं चेति।
निश्चिताव्यभिचारकं रूपमिति। यद्धर्मावच्छिन्नै
कार्याव्यवहितपूर्ववृत्त्यभावाप्रतियोगित्वरूपाव्यभिचारनिश्चयो ऽस्ति
तादृशं धर्ममित्यर्थः।
कार्याव्यवहितपूर्ववृत्त्यभावप्रतियोगितानवच्छेदकतया निश्चितं
धर्ममिति यावत्। गृह्यमाणव्यभिचारकेणेति। यद्धर्मावच्छिन्ने
व्यभिचारो गृह्यते तेन धर्मेणेत्यर्थः। प्रकृते
स्मरणात्पूर्वमनुभवत्वावच्छिन्नं न नियमेनास्ति
द्वितीयस्मरणात्पूर्वमनुभवाभावात्। तथा चानुभवत्वावच्छिन्नं
गृह्यमाणव्यभिचारकम्। द्वितीयस्मरणात्पूर्वमपि ज्ञानत्वावच्छिन्नस्य
प्रथमस्मरणस्य सत्त्वात् ज्ञानत्वं
निश्चिताव्यभिचारकम्। अतः निश्चिताव्यभिचारेण ज्ञानत्वेनैव
स्मृतिहेतुत्वम्, न गृहीतव्यभिचारोणानुभवत्वेनेति भावः। ननु
नवीनमते अनुभवस्येव स्मृतेरपि संस्कारं प्रति हेतुतया
स्मृतिजन्ये संस्कारे ऽनुभवजन्यत्वाभावात् ऽअनुभवजन्यास्मृतिहेतुः
भावनाऽ इति लक्षणं तत्राव्याप्तमित्यत आह - एतन्मत इति। तथा च
एतन्मते ज्ञानजन्यत्वे सति स्मृतिहेतुत्वमेव संस्कारस्य लक्षणम्।
स्मृतिजन्यसंस्कारे ऽपि स्मृतिरूपज्ञानजन्यत्वमस्तीति नाव्याप्तिरिति
भावः।
दीपिका
विशेषगुणलक्षणम्
अन्ये रूपादयो
विशेषगुणाः।
द्रव्यविभाजकोपाधिद्वयसमानाधिकरणावृत्तिजातिमद्गुणत्वं
विशेषगुणत्वम्।
प्रकाशिका
द्रव्यविभाजकोपाधीति। पृथिवीत्वजलत्वादिरूपं
यद्द्रव्यविभाजकोपाधिद्वयं प्रत्येकं तत्समानाधिकरणाः
द्वित्वपृथक्त्वसंयोगादयः तदवृत्तिजातिमद्गुंणत्वमित्यर्थः।
रूपाद्विषु चतुर्षु नीलत्वादिकम्, [रूपत्वादिकम्?] सांसिद्धिकद्रवत्वे च द्रवत्वावान्तरजातिम्, स्नेहादिषु दशसु
स्नेहत्वादिकम्, भावनायां संस्कारत्वावान्तरजातिं चादाय
लक्षणसमन्वयः। ननु इदं लक्षण एकत्वादिष्वतिव्याप्तम् एकत्वत्वादि
जातेरपि तादृशत्वात्। न च
तादृशोपाधिद्वयसमानाधिकरणवृत्तिगुणत्वन्यूनवृत्तिजातिशून्यगुणत्वम् इति
तदर्थः। एवं चैकत्वादिषु सङ्ख्यात्वादेः सत्त्वात्
तादृशजातिशून्यत्वस्यासत्त्वेन नातिव्याप्तिरिति वाच्यम्। एवमपि
परिमाणादिष्वतिव्याप्तेः। परिमाणत्वादेः तादृशजातित्वासम्भवात्
इति चेत् -
अत्र
प्रवदन्त्यभिज्ञाः -
यद्यद्रूपावच्छिन्नसमानाधिकरणं यत्किञ्चिद्द्रव्यविभाजकोपाधिद्वयं
तत्तद्भिन्ना स्थितस्थापकवृत्तिभिन्ना च या जातिः तद्वत्त्वे सति
गुणत्वमिति तदर्थः। यद्रूपावच्छिन्नसामानाधिकरण्यस्य
समवायसम्बन्धघटितस्यैव निवेशनीयतया यद्रूपपदेन
घटत्वादेर्धर्तुमशक्यत्वात् घटादौ अतिव्याप्तिः, अतो विशेष्यम्।
स्थितस्थापके ऽतिव्याप्तिवारणाय स्थितस्थापकवृत्तिभिन्नेति।
स्थितस्थापकस्य पृथिव्यादिचतुष्टयवृत्तित्वमते तु न देयम्।
रूपत्वादेः यद्रूपपदेन धर्तुं अशक्यत्वे ऽप्यवान्तरजातिमादाय
रूपादिषु लक्षणसमन्वयः। पार्थिवानुष्णाशीतस्पर्शस्य वायवीयापेक्षया
विजातीयस्यैव अनुभवसिद्धत्वात्। सङ्ख्यादयस्तु सामान्यगुणा
इति न तत्र वैजात्यं जलपृथिव्यादिभेदेन सिद्धान्तसिद्धम्, अतः
तत्र नातिव्याप्तिः। तादृशजातिमद्भिन्नगुणत्वमेव सामान्यगुणानां
लक्षणमवसेयम्।
बालप्रिया
ननु
द्रव्यविभाजकोपाधिद्वयसमानाधिकरणावृत्तिजातिमद्गुणत्वं
विशेषगुणस्य दीपिकायां लक्षणमुक्तम्। तत्र द्रव्यविभाजकोपाधिद्वयं
पृथिवीत्वजलत्वादि तदधिकरणमप्रसिद्धम्,
पृथिवीत्वजलत्वयोरेकत्रासत्त्वात्, तथा च लक्षणमिदमसम्भवीत्यतो
व्याचष्टे - पृथिवीत्वजलत्वादिरूपमिति। पृथिवीत्वजलत्वयोरुभयोः
अधिकरणस्याप्रसिद्धत्वे ऽपि प्रत्येकं तयोरधिकरणं पृथिवी जलं च
प्रसिद्धम्। तद्वृत्तयः द्वित्वपृथक्त्वसंयोगादयः तदवृत्तिर्जातिः
रूपत्वरसत्वादिः तद्वान् गुणः रूपरसादिरिति
तादृशजातिमद्गुणत्वस्य रूपरसादौ सत्त्वात् लक्षणसमन्वयः।
रूपादिकं तु द्रव्यविभाजकोपाधिद्वयसमानाधिकरणं न भवति,
द्रव्यविभाजकपृथिवीत्वजलत्वद्वयाधिकरणपृथिवीजलयोः एकस्य
रूपस्य रसादेः वा अवृत्तेः। अतो द्विनिष्ठं द्वित्वादिकमेव तादृशं
तदवृत्तित्वं रूपत्वादिजातावस्तीति भावः। अत्र प्रत्येकमित्यस्य
तत्समानाधिकरणेत्यत्राधिकरण एवान्वयः न तु
तदधिकरणवृत्तित्वे ऽपीत्यवधेयम्। नीलत्वादिकमिति। आदिपदेन
रसत्वव्याप्यं मधुरत्वादि स्पर्शत्वव्याप्यं अनुष्णाशीतत्वादि च
गृह्यते। न च रूपत्वरसत्वादिजातिमादायैव समन्वयसम्भवे
तद्व्याप्यनीलत्वादिजातिमादाय समन्वयकरणं किमर्थमिति
वाच्यम्।"अत्र प्रवदन्ती"त्यादिना वक्ष्यमाणपरिष्कार एव
लक्षणस्यास्य तात्पर्यात् तत्र रूपत्वादिव्याप्यजातिमादायैव
समन्वयस्य कर्तव्यत्वात्। द्रवत्वावान्तरजातिमिति। द्रवत्वत्वव्याप्यां
सांसिद्धिकद्रवत्वत्वरूपां जातिमित्यर्थः। स्नेहादिषु दशस्विति।
स्नेहशब्दबुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मेष्वित्यर्थः।
संस्कारत्वावान्तरजातिमिति। संस्कारत्वव्याप्यां
भावनात्वजातिमित्यर्थः।
शङ्कते - नन्विदमिति।
पृथिवीत्वजलत्वरूपयोः द्रव्यविभाजकयोर्द्वयोरुपाध्योः
प्रत्येकमधिकरणे पृथिव्यां जले च एकत्वं नास्ति।
पृथिवीवृत्त्येकत्वस्य जलवृत्त्येकत्वस्य च भिन्नत्वेन एकस्य एकत्वस्य
उभयत्रावृत्तेः। तथा च तादृशोपाधिद्वयसमानाधिकरणाः
द्वित्वसंयोगादय एव, तदवृत्तिः या जातिः एकत्वत्वरूपा जातिः
तद्वद्गुणत्वंस्यैकत्वे सत्त्वात्
विशेषगुणलक्षणस्य
सामान्यगुणे एकत्वे ऽतिव्याप्तिरिति भावः। तादृशत्वादिति।
द्रव्यविभाजकोपाधिद्वयसमानाधिकरणावृत्तित्वादित्यर्थः। न च
तादृशेति। तादृशेत्यस्य द्रव्यविभाजकेत्यर्थः। तथा च
द्रव्यविभाजकोपाधिद्वयं पृथिवीत्वजलत्वादि प्रत्येकं
तदधिकरणपृथिवीजलवृत्तिः द्वित्वपृथक्त्वादिः तद्वृत्तिः
गुणत्वव्याप्यजातिः सङ्ख्यात्व-पृथक्त्वत्वादिः तच्छून्यगुणत्वं
रूपादावस्ति। एकत्वे तु नास्ति, सङ्ख्यात्वरूपतादृशजातिमत्त्वस्यैव
सत्त्वात्। अतो नातिव्याप्तिरिति भावः। गुणत्वन्यूनवृत्तीति।
गुणत्वव्याप्येत्यर्थः। एवमपीति।
द्रव्यविभाजकोपाधिद्वयसमानाधिकरणवृत्तिगुणत्वव्याप्यजातिशून्यगुणत्वस्य
विशेषगुणलक्षणत्वे ऽपीत्यर्थः। परिमाणादिष्वतिव्याप्तेरिति।
अणुत्वमहत्त्वादिरूपं परिमाणं प्रत्येकवृत्ति न व्यासज्यवृत्ति। अतः
द्रव्यविभाजकोपाधिद्वयसमानाधिकरणं न परिमाणम्, अपि तु
द्वित्वादिकमेव तद्वृत्तिर्या गुणत्वव्याष्यजातिः सङ्ख्यात्वादिः
तच्छून्यत्वे सति गुणत्वस्य परिमाणे सत्त्वात् तत्रातिव्याप्तिरिति
भावः। तादृशजातित्वासम्भवादिति।
द्रव्यविभाजकोपाधिद्वयसमानाधिकरणवृत्तिगुणत्वव्याप्यजातित्वासम्भवादित्यर्थः।
यद्यद्रूपेति। यद्यद्रूपं
संयोगत्वपृथक्त्वत्वादिकं तदवच्छिन्नसंयोगपृथक्त्वादेरधिकरणे
जले पृथिव्यां च प्रत्येकं
वर्तमानं
द्रव्यविभाजकोपाधिद्वयं जलत्वपृथिवीत्वरूपम्, तत्तद्भिन्ना
संयोगत्वपृथक्त्वत्वादिभिन्ना या जातिः नीलत्वादिः तद्वत्त्वे सति
गुणत्वं नीलादिष्वस्तीति समन्वयः। अत्र गुणत्वरूपविशेष्यदलस्य
प्रयोजनमाह - यद्रूपावच्छिन्नेति। तथा च यद्रूपपदेन घटत्वं
नोपादातुं शक्यम्। तदवच्छिन्नस्य घटस्याधिकरणे कपाले
द्रव्यविभाजकोपाधिद्वयस्य जलत्वपृथिवीत्वद्वयस्यासत्त्वात्। अतः
संयोगत्वादिकमेव यद्रूपपदेनोपादेयम्, तद्भिन्न या
घटत्वजातिः तद्वत्त्वस्य घटे सत्त्वात् तत्रातिव्याप्तिः, तद्वारणाय
गुणपदम्। न च यद्रूपपदेन घटत्वमप्युपादातुं शक्यते
तदवच्छिन्नस्य घटस्य कालिकसम्बन्धेनाधिकरणे काले
कालिकसम्बन्धेन जलत्वपृथिवीत्वात्मकोपाधिद्वयसत्त्वात्
तद्भिन्नत्वं च घटत्वे नास्तीति कथं अतिव्याप्तिप्रसक्तिरिति वाच्यम्।
शुक्लत्वावच्छिन्नस्य कालिकसम्बन्धेनाधिकरणे जले पृथिव्यां च
जलत्वपृथिवीत्वद्वयसत्त्वात् तदृभिन्नत्वं शुक्लत्वादिजातौ
नास्तीत्यसम्भववारणाय समवायसम्बन्धेन यद्रूपावच्छिन्नाधिकरणे
समवायसम्बन्धेन वर्तमानमित्यर्थस्यैव
यद्रूपावच्छिन्नसमानाधिकरणमित्यनेन विवक्षितत्वात् काले
घटत्वावच्छिन्नस्य समवायेनासत्त्वात् कालो न समवायेन
घटत्वावच्छिन्नाधिकरणम्, अपि तु कपाल एवेति तद्वृत्तित्वस्य
जलत्वपृथिवीत्वद्वये ऽभावात् यद्रूपपदेन
घटत्वस्योपादातुमशक्यतया संयोगत्वादिकमुपादाय तद्भिन्ना य
घटत्वजातिः तद्वत्त्वात् घटे ऽतिव्याप्तिप्रसक्तिरित्याशयात्।
स्थितस्थापक इति।
स्थितस्थापकत्वावच्छिन्नाधिकरणकटादौ जलत्वपृथिवीत्वोभयाभावेन
यद्रूपपदेन स्थितस्थापकत्वं नोपादातुं शक्यते, अपि तु
संयोगत्वादिकमेव तद्भिन्ना या जातिः स्थितस्थापकत्वरूपा जातिः
तद्वद्गुणत्वस्य स्थितस्थापके सत्त्वात् तत्रातिव्याप्तिः। तद्वारणाय
जातौ स्थितस्थापकवृत्तिभिन्नेति विशेषणम्। स्थितस्थापकत्वं तु
स्थितस्थापकवृत्ति, न तदृभिन्नमिति न दोष इति भावः। न
देयमिति। तन्मते स्थितस्थापकाधिकरणं जलं पृथिवी च तद्वृत्तित्वं
जलत्वपृथिवीत्वयोरस्तीति यद्रूपपदेन स्थितस्थापकत्वमपि ग्रहीतुं
शक्यते तद्भिन्नत्वं नास्ति तस्येत्यत एव अतिव्याप्तिवारणसम्भवात्
स्थितस्थापकवृत्तिभिन्नेति विशेषणं न देयमिति भावः।
ननु यद्रूपपदेन रूपत्वमपि ग्रहतुं
शक्यम्, रूपत्वावच्छिन्नरूपाधिकरणे जले पृथिव्यां च
जलत्वपृथिवीत्वद्वयसत्त्वात् तद्भिन्ना रूपत्वभिन्ना रूपत्वजातिः न
भवतीति कथं रूपे लक्षणसमन्वय इत्यत आह - रूपत्वादेरिति। तथा
च रूपत्वभिन्नां नीलत्वादिजातिमादाय नीलादौ समन्वय इति
भावः। ननु स्पर्शे कथं लक्षणसमन्वयः। न तावत् स्पर्शत्वमादाय।
तस्यापि यद्रूपपदेनोपादातुं शक्यत्वात्। तथा हि-यद्रूपं
स्पर्शत्वम् तदवच्छिन्नाधिकरणं जलं पृथिवी च, तद्वृत्ति
जलत्वपृथिवीत्वद्वयं भवति, अतः स्पशब्त्वभिन्ना स्पर्शत्वजातिः न
भवति इति स्पर्शत्वमादाय समन्वयः कर्तुमशक्यः। नापि
अनुष्णाशीतस्पर्शत्वादिकमादाय, तत्र शीतोष्णत्वे आदाय
शीतोष्णस्पर्शयोः समन्वयसम्भवे ऽपि अनुष्णाशीतत्वमादाय
अनुष्णाशीते समन्वयो न सम्भवति, यद्रूपपदेन
अनुष्णाशीतत्वमप्युपादातुं शक्यते तदवच्छिन्नाधिकरणे पृथिव्यां
वायौ च द्रव्यविभाजकोपाधिद्वयस्य वायुत्वपृथिवीत्वरूपस्य सत्त्वात्
तद्रूपभिन्नत्वं अनुष्णाशीतत्वे नास्तीत्याशङ्क्याह -
पार्थिवानुष्णाशीतर्स्पशस्येति। तथा च अनुष्णाशीतत्वव्याप्या
पार्थिवानुष्णाशीतस्पर्शे, वायवीयस्पर्शे ऽविद्यमाना काचन
विलक्षणजातिरस्ति, एवं वाचवीयानुष्णाशीतस्पर्शे च
पार्थिवस्पर्शे ऽविद्यमाना काचन जातिरस्ति। तां तामादाय पाथिवस्पर्शे
वाचवीयस्पर्शे च समन्वयः। तथा हि - यद्रूपपदेन सा जातिः न
ग्रहणयोग्या तादृशजात्यवच्छिन्नाधिकरणे पृथिव्यां
वायुत्वपृथिवीत्वरूपोपाधिद्वयासत्त्वात् अपि तु संयोगत्वादिरेव
ग्राह्या, तद्भिन्नत्वं च पार्थिंवस्पर्शगतविजातौ वर्तते तद्वत्वात्
पार्थिंवस्पर्शें समन्वयः।
एवं वायवीयस्पर्शे ऽपि समन्वयो बोध्य इति भावः।
नन्वेवं पृथिवीगतैकत्वे
जलीयैकत्वे ऽविद्यमाना काचन जातिरस्तीति स्वीकृत्य
एकत्वे ऽतिव्याप्तिप्रसक्तिरित्यत आह - सङ्ख्यादयस्तु सामान्यगुणा
इति। तथा चैकत्वे वैजात्याभावात् सकलैकत्वसाधारणमेकत्वत्वं
यद्रूपपदेनोपादेयम् तदवच्छिन्नाधिकरणं जलं पृथिवी च तद्वृत्ति
जलत्वपृथिवीत्वरूपोपाधिद्वयम्। अतस्तद्भिन्ना एकत्वत्वभिन्ना
एकत्वत्वजातिः न भवतीति नैकत्वे ऽतिव्याप्तिरित्याशयः।
तादृशजातिमद्भिन्नगुणत्वमिति।
द्रव्यविभाजकोपाधिद्वयसमानाधिकरणावृत्तिजातिमद्भिन्नगुणत्वमित्यर्थः।
तर्कसङ्ग्रहः
कर्मनिरूपणम्
अन्त्स्_76 चलनात्मकं कर्म । ऊर्ध्वदेशसंयोगहेतुर् उत्क्षेपणम् । अधोदेशसंयोगहेतुर् अपक्षेपणम् । शरीरसंनिकृष्टसंयोगहेतुर् आकुञ्चनम् । विप्रकृष्टसंयोगहेतुः प्रसारणम् । अन्यत् सर्वं गमनम् । पृथिव्यादिचतुष्टयमनोमात्रवृत्ति ॥
चलनात्मकं कर्म।
ऊर्ध्वदेशसंयोगहेतुः उत्क्षेपणम्। अधोदेशसंयोगहेतुः
अपक्षेपणम्। शरीरसन्निकृष्टसंयोगहेतुः आकुञ्चनम्।
शरीरविप्रकृष्टसंयोगहेतुः प्रसारणम्। अन्यत्सर्वं गमनम्।
सामान्यनिरूपणम्
अन्त्स्_77 नित्यम् एकम् अनेकानुगतं सामान्यम् । द्रव्यगुणकर्मवृत्ति । तद् द्विविधं परापरभेदात् । परं सत्ता । अपरं द्रव्यत्वादिः ॥
नित्यमेकं
अनेकानुगतं सामान्यम्। द्रव्यगुणकर्मवृत्ति। परं सत्ता। अपरं
द्रव्यत्वादि।
विशेषनिरूपणम्
अन्त्स्_78 नित्यद्रव्यवृत्तयो व्यावर्तका विशेषाः ॥
नित्यद्रव्यवृत्तयो
व्यावर्तका विशेषाः।
दीपिका
कर्मणो लक्षणमाह
- चलनेति। उत्क्षेपणादीनां कार्यभदमाह - ऊर्वेति। शरीरेति।
वक्रतासंपादकं आकुञ्चनम्। ऋजुतासम्पादकं प्रसारणमित्यर्थः।
सामान्यं लक्षयति -
नित्यमिति। संयोगे ऽतिव्याप्तिवारणाय नित्यमिति।
जलपरमाणुगतरूपे ऽतिव्याप्तिवारणाय एकेति।
परमाणुपरिमाणादावतिव्याप्तिवारणाय अनेकेति अनुगतत्वं
समवेतत्वम् तेन नाभावादौ अतिव्याप्तिः।
विशेषं लक्षयति -
नित्येति।
प्रकाशिका
मूलोक्तं
सर्वसङ्ग्राहकं न भवतीत्याह - वक्रतेति।
नित्यमितीति। अत्र
नित्यत्वं प्रागभावाप्रतियोगित्वं ध्वंसाप्रतियोगित्वं वा,
एकतरनिवेशेनापि संयोगादेर्वारणात्। एकपदं
स्वरूपकीर्तनमात्रपरमिति द्रष्टव्यम्।
मूले व्यावर्तका
इति। नित्यद्रव्याणां परस्पर भेदसाधका इत्यर्थः अथ
विशेषपदार्थे किं प्रमाणम्। न च अत्यन्तसङ्कीर्णानां परमाणूनां
भेदकधर्मं विना भेदासिद्धिरतः विशेषा अङ्गीकर्तव्या इति
वाच्यम्, एकत्वादिव्यक्तेरेव भेदकत्वसंम्भवात् इति चेत् - न।
यतः एतत्परमाणैं तत्परमाणुभेदसाधने एकत्वादेः व्यभिचारितया
एतदेकत्वादेरेव हेतुता वाच्या। न च तयोः परमाण्वोः
भेदासिद्धौ एकत्वादौ एतत्वं सुग्रहम्। एतत्परमाणुसमवेतत्वं हि
तस्यैतत्वम्। तस्मात् प्रतिनित्यद्रव्यमेष्टव्यो विशेषपदार्थः। स एव
स्वसजातीयानां परस्परं भेदसाधक इति तत्रापि
विशेषान्तरापेक्षा नास्ति। अतो नानवस्था इति सम्प्रदायः।
बालप्रिया
ननु
नित्यद्रव्यवृत्तयः व्यावर्तकाः विशेषाः इति परममूलात्
नित्यद्रव्यवृत्तित्वे सति भेदसाधकत्वं विशेषस्य लक्षणमिति लभ्यते।
तथा च सति गगनपरिमाणादीनामपि नित्यद्रव्यवृत्तित्वात्
इतरभेदसाधकत्वाच्च तत्रातिव्याप्तिः इत्यतो व्याचष्टे -
नित्यद्रव्याणां परस्परभेदसाधका इत्यर्थ इति।
अत्यन्तसङ्कीर्णानामिति। अत्यन्तं मिश्रितानामित्यर्थः।
एकत्वादिव्यक्तेरेवेति। अयं परमाणुः तत्परमाणोः भिद्यते एकत्वात्
इत्यनुमानमत्र विवक्षितम्। यत एतत्परमाणाविति।
तत्परमाणुभेदरूपसाध्याभाववति
तत्परमाणावप्येकत्वरूपहेतुसत्वाद् व्यभिचारः, तद्वारणाय
एतदेकत्वादिति हेतुः प्रयोक्तव्यः। एतदेकत्वं नाम
एतत्परमाणुमात्रसमवेतमेकत्वम्। एकत्वे
एतत्परमाणुमात्रसमवेतत्वं च एतत्परमाणुभिन्नासमवेतत्वे सति
एतत्परमाणुसमवेतत्वरूपं एतत्परमाणौ तत्परमाण्वपेक्षया
भेदे ऽज्ञाते दुर्ग्रहम्। तथा च हेतुज्ञानाभावात् नानुमिति।
पूर्वमेव भेदे ज्ञाते चानुमानवैयर्थ्यम्। अनुमानस्य
भेदसिद्ध्यर्थत्वादिति भावः। ननु एतत्परमाणुः तत्परमाणोः भिन्नः
एतद्विशेषात् इति
हेतुना
परमाणुभेदस्साधनीयः। तत्र एतत्परमाणुगतविशेषे
परमाण्वन्तरगतात् विशेषात् भेदसिद्धिं विना एतद्विशेषस्य
परमाण्वन्तरभेदसाधकत्वं न भवति। तदर्थं विशेषे
विशेषान्तरस्वीकारे अनवस्थेत्यत आह - स एव स्वसजातीयानामिति।
विशेषः यथा परमाणूनां भेदं साधयति तथा
सजातीयविशेषान्तरभेदमपि साधयति,
स्वपरनिर्वाहकत्वाङ्गीकारात्, अतो नानवस्थेति भावः।
तर्कसङ्ग्रहः
समवायनिरूपणम्
अन्त्स्_79 नित्यसंबन्धः समवायः । अयुतसिद्धवृत्तिः । ययोर् द्वयोर् मध्य एकम् अविनश्यदपराश्रितम् एवावतिष्टते ताव् अयुतसिद्दौ । यथावयवावयविनौ गुणगुणिनौ क्रियाक्रियावन्तौ जातिव्यक्ती विशेषनित्यद्रव्ये चेति ॥
नित्यसम्बन्धः
समवायः। अयुतसिद्धवृत्तिः। ययोर्मध्ये एकममविनश्यदवस्थं
अपराश्रितमेवावतिष्ठते तौ अयुतसिद्धौ। यथा अवयवावयविनौ,
गुणगुणिनौ, क्रियाक्रियावन्तौ, जातिव्यक्ती, विशेषनित्यद्रव्ये चेति।
दीपिका
समवायं लक्षयति -
नित्येति। संयोगे अतिव्याप्तिवारणाय नित्येति।
आकाशादावतिव्याप्तिवारणाय सम्बन्धेति। अयुतसिद्धलक्षणमाह -
ययोरिति। नीलो घट इति
विशिष्टप्रतीतिर्विशेषणविशेष्यसम्बन्धविषया, विशिष्टबुद्धित्वात्,
दण्डीति विशिष्टबुद्धिवत् इति समवायसिद्धिः।
अवयवावयविनाविति। द्रव्यसमवायिकारणमवयवः, तज्जन्यं द्रव्यं
अवयवि।
प्रकाशिका
वैशेषिकमतसाधारण्येन समवाये अनुमानं प्रमाणयति - नील
इति। समवायिकारणत्वस्य अन्त्यावयविनि सत्त्वात् द्रव्येति।
परमाणुवारणाय जन्येति। अविनश्यदवस्थमपरारितमेवावतिष्ठते
विनश्यदवस्थं त्वनाश्रितं क्षणमवतिष्ठते यथा तन्त्वादिनाशे
पटादिरिति मनसिकृत्य मूले अविनश्यदित्युक्तम्।
बालप्रिया
ऽद्रव्यसमवायिकारणम् अवयवःऽ इति दीपिकातः
द्रव्यनिरूपितसमवायिकारणत्वं अवयवस्य लक्षणमिति लभ्यते।
घटरूपद्रव्यसमवायिकारणत्वस्य कपाले सत्त्वात् लक्षणसमन्वयः। तत्र
समवायिकारणत्वमात्रोक्तौ अवयविनि घटे ऽपि
तत्समवेतरूपादिसमवायिकारणत्वसत्त्वात् तत्रातिव्याप्तिः।
तद्वारणाय समवायिकारणत्वे द्रव्यनिरूपितेति विशेषणम्।
अवयविनः घटस्य गुणादिनिरूपितसमवायिकारणत्वसत्त्वे ऽपि
द्रव्यनिरूपितसमवायिकारणत्वाभावात् नातिव्याप्तिः। तदाह -
समवायिकारणत्वस्येति। कपालरूपे ऽवयविनि अवयवत्वस्येष्टतया
तत्रातिव्याप्तिर्नेति सूचनाय अन्त्यावयविनीत्युक्तम्। जन्यं
द्रव्यमवयवीति ग्रन्थेन जन्यत्वे सति द्रव्यत्वम् अवयविनो
लक्षणमुक्तम्। तत्र जन्यत्वमात्रोक्तौ जन्यगुणदावतिव्याप्तिः।
तद्वारणाय द्रव्यत्वमुपात्तम्। द्रव्यत्वमात्रोक्तौ अवयवे
परमाणावतिव्याप्तिः। तद्वारणाय जन्यत्वमुपात्त्म्। तदाह -
परमाणुवारणायेति। परममूले ऽययोर्मध्ये
एकमविनश्यदवस्थमपराश्रितमेवावतिष्ठते तावयुतसिद्धौऽ इति
ग्रन्थेन अयुतसिद्धयोर्लक्षणमुक्तम्। ययोर्मध्ये तन्तुपटयोर्मध्ये
एकः पटः तन्त्वाश्रित एवावतिष्ठते इति तौ तन्तुपटावयुतसिद्धौ।
तत्र विनश्यदवस्थ इत्यस्य नाशपूर्वक्षणस्य इत्यर्थः। अविनश्यदवस्थ
इत्यस्य नाशाव्यवहितपूर्वक्षणात् पूर्वक्षणेषु विद्यमान इत्यर्थः।
स्वाव्यवहितपूर्वक्षणवृत्तित्व-स्वप्रतियोगित्वोभयसम्बन्धेन
नाशविशिष्टत्वं विनश्यदवस्थत्वमिति यावत्। तत्र
अविनश्यदवस्थमिति विशेषणस्य प्रयोजनमाह -
अविनश्यदवस्थमित्यादिना। अयमत्राशयः-यदि एकमित्यस्य
अविनश्यदवस्थमिति विशेषणं न दीयते, तर्हि ययोर्मध्ये
एकमपराश्रितमेवावतिष्ठते तावयुतसिद्धाविति अयुतसिद्धलक्षणं
स्यात्। तथा सति तन्तुपटयोरव्याप्तिः। तन्तुपटयोर्मध्ये एकस्य
पटस्य तन्त्वाश्रिततयैवावस्थानमिति नियमाभावात्, यदा
तन्तुनाशात् पटनाशः तदा तन्तुनाशक्षणे पटस्य
तन्त्वनाश्रितस्यैवावस्थानात्। अतः पटस्य अविनश्यदवस्थेतिं
विशेषणम्। तन्तुनाशक्षणस्थः पटः विनश्यदवस्थः, उत्तरक्षणे पटस्य
नाशात्,
नाशाव्यवहितपूर्वक्षणस्थत्वरूपविनश्यदवस्थलक्षणाक्रान्तत्वात्। अतः
अविनश्यदवस्थः पटः तन्तुनाशपूर्वक्षणावच्छिन्नपटः तस्य तु
तन्त्वाश्रिततयैवावस्थानात् नाव्याप्तिरिति। तन्त्वादिनाश इति।
तन्त्वादिनाशक्षणे इत्यर्थः।
तर्कसङ्ग्रहः
अभावनिरूपणम्
अन्त्स्_80 अनादिः सान्तः प्रागभावः । उत्पत्तेः पूर्वं कार्यस्य । सादिर् अनन्तः प्रध्वंसः । उत्पत्त्यनन्तरं कार्यस्य । त्रैकालिकसंसर्गावच्छिन्नप्रतियोगिताकोऽत्यन्ताभावः । यथा भूतले घटो नास्तीति । तादात्म्यसंबन्धावच्छिन्नप्रतियोगिताकोऽन्योन्याभावः यथा घटः पटो न भवतीति ॥
अनादिः सान्तः
प्रागभावः। उत्पत्तेः पूर्वं कार्यस्य। सादिरनन्तः प्रध्वंसाभावः।
मूल पाठ: Tarkasaṃgraha with autoentary (Dīpikā), Nīlakaṇṭha's Dīpikāprakāśikā and Bālapriyā · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0