भाषा

ENहिગુ
ग्रंथ पाठ

तर्कसंग्रह (टीका सहित) · भाग 261280

तादृशज्ञानपूर्वकत्वसिद्धिमादायार्थान्तरम्। कर्मन्त्वम्
आधेयतासम्बन्धेन घटविशिष्टमिति
घटत्वावच्छिन्नघटीयत्वेनाधेयतासंसर्गकज्ञानस्यैवाभिमतत्वात्।
अतःस्मारितत्वं पदार्थविशेषणम्
पदनिरूपितवृत्तिज्ञानजन्योपस्थितिविषयतावच्छेदकत्वोपलक्षितधमार्वच्छिन्न
इत्यर्थः। एवं चाम्पदार्थः
आधेयत्वसम्बन्धेन
घटपदार्थविशिष्ट इति ज्ञानस्य घटपदार्थत्वविशिष्टीयत्वेन
आधेयतासंसर्गावगाहित्वे ऽपि
निरुक्तविषयतावच्छेदकत्वोपलक्षितघटत्वाद्यवच्छिन्नीयत्वेन
आधेयत्वानवगाहित्वान्नार्थान्तरप्रसक्तिः"इति। दिनकर्यामपि -"तात्पर्यज्ञाने इतरपदार्थस्येतरपदार्थत्वेन प्रवेशात्
घटत्वादिना स्मृतस्य संसर्गोन सिध्येत् अतः समारितेति"इति
सङ्क्षिप्योक्तमत्रानुसन्धेयम्। आकाङ्क्षादिरहिते पदकदम्बक
इति। घटः कर्मत्वम् आनयनं कृतिरित्यादौ।
कार्यवैलक्ष्ण्यानुरोधेनेति। कार्यमत्रानुव्यवसयः अनुमितिस्थले
अनुमिनोमीत्याकारकः शाब्दबोधस्थपले
शब्दात्
प्रत्येमीत्येकारकः। अथ वा कार्यं अनुमितिः शाब्दबोधश्च
तयोर्विंलक्षणत्वानुसारेणेत्यर्थः।
दीपिका
अर्थापत्यादीनां
प्रमाणान्तरत्वनिरासः
ननु अर्थापत्तिरपि
प्रमाणान्तरमस्ति, ऽपीनो देवदत्तो दिवा न भुङ्क्तेऽ इति दृष्टे
श्रुते वा पीनत्वान्यथानुपपत्त्या रात्रिभोजनं अर्थापत्त्या कल्प्यत
इति चेत् - न। ऽदेवदत्तो रात्रौ भुङ्क्ते दिवाभुञ्जानत्वे सति
पीनत्वात्ऽ इत्यनुमानेनैव रात्रिभोजनस्य सिद्धत्वात्।
शतेपञ्चाशदिति सम्भवो ऽप्यनुमानमवे। ऽइह वटे यक्षस्तिष्ठतिऽ
इत्यैतिह्यमपि अज्ञातमूलवक्तृकशब्द एव। चेष्टापि शब्दानुमानद्वारा
व्यवहारहेतुरिति न प्रमाणान्तरम्। तस्मात्
प्रत्यक्षानुमानोपमानशब्दाः चत्वार्येव प्रमाणानि।
इति दीपिकायां
शब्दपरिच्छेदः
प्रकाशिका
मीमांसकः
शङ्कते - नन्विति। ऽदिवा न भुङ्क्तेऽ इत्यर्थे दृष्टे - प्रत्यक्षतो
ज्ञाते, श्रुते - शब्दादवगते। एतेन दृष्टार्थापत्तिः
श्रुतार्थापत्तिश्चेत्यर्थापत्तिद्वैविध्यं सूचितम्।
पीनत्वान्यथानुपपत्त्येति। पीनत्वस्यरात्रिभोजनं
विनानुपपत्त्येत्यर्थः। अत्रेदमवधेयम् - यद्विना यदनुपपन्नं

तत्तदुपपादकमिति रात्रिभोजनमुपपादकम्, पीनत्वमुपपाद्यम्,
उपपादकज्ञानं फलम्, उपपाद्यज्ञानं करणम्।
फलकरणयोरर्थापत्तिशब्दो वर्तते। फले ऽअर्थस्य आपत्तिः कल्पनाऽ
इति व्युत्पत्त्या। करणे तु ऽअर्थस्य आपत्तिः कल्पना यस्मात्ऽ इति
व्युत्पत्त्येति। व्यतिरेक्यनुमानेनैव गतार्थत्वात् अर्थापत्तेः
प्रमाणान्तरत्वं अनुचितमिति समाधत्तेदेवदत्त इति।
दिवामात्रभोजिनि पींने व्यभिचारवारणाय सत्यन्तम्।
अहोरात्राभोजिन्यपींने व्यभिचारवारणाय विशेष्यम्। तच्च
योगाद्यजन्यपीनत्वपरम्। तेन भोजनशून्ये योगिनि पीने न
व्यभिचारः।
सम्भवैतिह्ययोरतिरिक्तप्रमाणत्वं वदतां पौराणिकानां मतं
दूषयति - शते पञ्चाशदित्यादिना। अनुमानमेवेति। अनुमानमेव, न
तु प्रमाणान्तरमित्यर्थः। शतवानित्युक्ते पञ्चाशद्वानिति ज्ञानं
सम्भवति तस्यानुमानेनैव निर्वाहात्। शतस्य
पञ्चाशद्व्याप्यत्वादिति भावः। अज्ञातमूलेति।
विशिष्यानिश्चितप्रथमवक्तृकः शब्दः न तु प्रमाणान्तरमित्यर्थः।
तादृशशब्दस्य यथार्थत्वे शब्दप्रमाणमध्ये ऽन्तर्भावः। अन्यथा तु
अप्रमाणमेवेति हृदयम्। नन्वनया चेष्टया अयमर्थो बोद्धव्य इति
सङ्केतितचेष्टया विजातीयप्रमाजननात् चेष्टाया अपि
प्रमाणान्तरत्वं इति वदन्तं निरस्यति - चेष्टापीति।
शब्दानुमानद्वारेति। शब्दद्वारा अनुमानद्वारा वा, न तु
स्वातन्त्र्येणेत्यर्थः। चेष्टया कल्पितस्य शब्दस्य प्रमापकत्वे गौरवात्
अनुमानानुसरणम्। व्यवहारेति। प्रमात्मकज्ञानेत्यर्थंः। उपसंहरति -
तस्मादिति।
इति प्रकाशिकायां
शब्दपरिच्छदः
बालप्रिया
इत्यर्थ इति।
दिवा भोजनाभावरूपेर्ऽथे इत्यर्थः। दृष्टार्थापत्तिरिति। प्रत्यक्षतो
ज्ञातस्य दिवा अभञ्जाननिष्ठस्य पीनत्वस्य यमर्थं रात्रिभोजनाख्यं
विनानुपपत्तिः तस्य रात्रिभोजनाख्यस्यार्थस्य कल्पनं दृष्टार्थापत्तिः।
श्रुतस्य ऽपीनां देवदत्तो
दिवा न भुङ्क्तेऽ
इत्यादिवाक्यादवगतस्य पीनत्वस्य यमर्थं विनानुपपत्तिः तस्य
रात्रिभोजनस्य कल्पनं श्रुतार्थापत्तिः। नन्वर्थापत्तिप्रमितेः
अर्थापत्तिप्रमाणस्य च किं लक्षणम्। न हि तल्लक्षणमविज्ञाय
तत्प्रमाणान्तरत्वविचारः कर्तुं शक्य इत्यत आह -
अत्रेदमवधेयमित्यादि। यद्विना रात्रिभोजनं विना यदनुपपन्नं
पीनत्वमनुपपन्नम्। तत् रात्रिभोजनं तदुपपादकं
पीनत्वस्योपपादकम्। उपपाद्यज्ञानेन उपपादकज्ञानमर्थापत्तिरूपा

प्रमितिः। उपपाद्यस्य पीनत्वस्य ज्ञानेन उपपादकस्य रात्रिभोजनस्य
ज्ञानं भवति इति
समन्वयः। न च
उपपाद्यज्ञानविषयको यो ऽनुव्यवसायः पीनत्वमहं जानामीत्याकारकः
तस्यापि उपपाद्यज्ञानविषयको यो ऽनुव्यवसायः पीनत्वमहं
जानामीत्याकारकः तस्यापि उपपाद्यज्ञानजन्यत्वात् तत्रातिव्याप्तिरिति
वाच्यम्। उपपाद्यज्ञानत्वेनोपपाद्यज्ञानजन्यत्वस्य विवक्षितत्वात्।
अनुव्यवसायात्मकमानसप्रत्यक्षस्य विषयविधया उपपाद्यज्ञानजन्यत्वे ऽपि
उपपाद्यज्ञानत्वेन तज्जन्यत्वाभावात् नातिव्याप्तिः। तथा
चोपपाद्यविषयकज्ञानत्वावच्छिन्नजनकतानिरूपितजन्यताशालिज्ञानत्वमर्थापत्तिप्रमायाः
लक्षणम् इत्युक्तं भवति। तादृशज्ञानकरणत्वमर्थापत्तिप्रमाणस्य
लक्षणम्। फलकरणयोरिति। प्रमितौ प्रमाणे चेत्यर्थः।
व्यतिरेक्यनुमानेनैवेति।"देवदत्तो रात्रौ भुङ्क्ते दिवा
अभुञ्जानत्वे सति पीनत्वात् यो रात्रौ न भुङ्क्ते स दिवा
अभुञ्जानत्वे सति पीनो न भवति यथा रात्रौ दिवा चाभुञ्जानः
कृशो महर्षिः न तथा चायम् तस्मान्न तथा"इति प्रयोगो ऽत्र
विवक्षितः। केचितु - यो दिवा अभुञ्जानत्वे सति पीनः सः रात्रौ
भुङ्क्ते यथा प्रतिनक्तमात्रं भुञ्जानो यज्ञदत्तः
इत्यन्वय्यनुमानेनाप्यर्थापत्तेर्गन्तार्थतामाहुः। सत्यन्तामिति।
सत्यन्तानुपादाने रात्रिभोजनरूपसाध्याभाववति
दिवामात्रभोजनकर्तरि पीने यज्ञदत्ते पीनत्वरूपहेतुसत्वात्
व्यभिचारः। तद्वारणाय दिवा अभुञ्जानत्वे सतीति विशेषणम्। दिवा
भुञ्जानत्वमेव यज्ञदत्ते ऽस्तीति न व्यभिचारः। अहोरात्राभोजिनीति।
तथा च पीनत्वादिति विशेष्यानुपादाने देवदत्तो रात्रौ भुङ्क्ते
दिवा अभुञ्जानत्वादित्येव हेतुः स्यात्। तथा सति यस्तापसः
दिवापि न भुङ्क्ते रात्रावपि न भुङ्क्ते अत एव कृशः तस्मिन्
रात्रिभोजनरूपसादध्याभाववति दिवा अभुञ्जानत्वरूपहेतुसत्वात्
तत्र व्यभिचारः। तद्वारणाय पीनत्वादिति। तस्मिंस्तापसे च
पीनत्वाभावात् न व्यभिचारः। नन्वेवमपि यो योगी न भुङ्क्ते
अथापि योगमाहात्म्यात् पीनो भवति, तस्मिन्
रात्रिभोजनकर्तृत्वरूपसाध्याभाववति दिवा अभुञ्जानत्वे सति
पीनत्वरूपहेतुसत्वात् व्यभिचार इत्याशङ्क्याह - तच्च
योगाद्यजन्यपीनत्वपरमिति तथा च योगिनि यत् पीनत्वं तत्
योगजन्यमिति योगजन्यपीनत्वाभावात् न व्यभिचार इति भावः।
शतवानित्युक्त
इत्यादि। शतसङ्ख्याकब्राह्यणाधिकरणे अधिवेशने
पञ्चाशत्सङ्ख्याकब्राह्मणाः सन्ति न वेति सन्देहानन्तरं
शतत्वसङ्ख्यावतः समूहस्य पञ्चाशत्सङ्ख्यावद्घटितत्वेन
शतवस्त्वधिकरणे पञ्चाशद्वस्तुसम्भव इत्याकारकज्ञानरूपात्
सम्भवप्रमाणात् इह पञ्चाशत् ब्राह्मणाः सन्तीति

निर्णयात्मकप्रमित्त्युत्पत्या सम्भवो ऽपि प्रमाणान्तरमिति केचित्। तन्न
- इदमधिवेशनं पञ्चाशद्ब्राह्मणवत् शतब्राह्मणवत्वात् यत्
शतसङ्ख्याकवस्तुमत् तत् पञ्चाशत्सङ्ख्याकवस्तुमत् यथा
शतघटाधिकरणं भूतलम् इति
सामान्यमुखव्याप्तिपरामर्शजन्यानुमितिरूपैव सम्भवात्मिका
प्रमितिः, अतो न सम्भवः प्रमाणान्तरमिति भावः। शतस्य
पञ्चाशव्द्याप्यत्वादिति। यत्र शतसङ्व्याकपदार्थाः तत्र
पञ्चाशत्सङ्ख्याकपदार्था इति व्याप्तिः।
शब्दद्वारेति। यथा
लिपिदर्शनं शब्दस्मृतिं जनयित्वा शाब्दबोधं प्रयोजयतीति
परम्परया कारणत्वे ऽपि करणत्वाभावात् न प्रमाणम्, तथा चेष्टापि
द्वित्वबोधकशब्दस्मृतिद्वारा द्वित्वादिबोधप्रयोजिका न तत्करणमिति
न प्रमाणमिति भावः। अनुमानद्वारेति।
चेष्टमानस्याभिप्रायविशेषानुमानद्वारेत्यर्थः। अयं
द्वित्वबोधतात्पर्यवान्
द्वित्वबोधकत्वाविनाभूतविलक्षणचेष्टावत्वादित्यनुमानाकारो
विवक्षितः। ननु व्यवहारहेतुरित्यत्र व्यवहारपदस्य प्रवृत्तिपरत्वे
तद्धेतुत्वं द्वित्वादिज्ञान एवास्ति न तु परम्परया
ज्ञानजनकचेष्टायामित्याशङ्क्य व्यवहारपदं प्रमापरतया व्याचष्टे -
प्रमात्मकज्ञानेत्यर्थ इति। व्यवह्रियते अनेनेति व्युत्पत्या
व्यवहारपदं प्रकृते प्रमात्मकज्ञानार्थकमित्यर्थः।
इति
तर्कसङ्ग्रहदीपिकाप्रकाशिकाव्यारव्यायां बालप्रियायां
शब्दपरिच्छेदः
॥।दृ॥।
प्रामाण्यवादः
---दृ---
दीपिका
तत्र
विप्रतिपत्तिप्रदर्शनम्
ज्ञानानां तद्वति
तत्प्रकारकत्वं स्वतोग्राह्यं परतो वेति विचार्यते। तत्र विप्रतिपत्तिः
- ज्ञानप्रामाण्यं तदप्रामाण्याग्राहकयावज्ज्ञानग्राहकसामग्रीग्राह्यं न वा
इति। अत्र विधिकोटिः स्वतस्त्वम् निषेघकोटिः परतस्त्वम्।
प्रकाशिका
प्रमाणप्रसङ्गात्
प्रमात्वस्य परतो ग्राह्यत्वं व्यवस्थापयिष्यन् आह - ज्ञानानामिति।
षष्ट्यर्थ आधेयत्वम्। तस्य चान्वयः तद्वति तत्प्रकारकत्वे। तच्च
तद्वद्विशेष्यकत्वावच्छिन्नतत्प्रकारकत्वम्। तच्छब्दार्थोघटत्वादिरूपः।
स्वतोग्राह्यमिति। ज्ञानग्राहकसामग्रीजन्यग्रहविषय इत्यर्थः। परत

इति। ग्राह्यमित्यनुषज्यते। अनुमानादिजन्यग्रहविषय इत्यर्थः। तत्र
- विचारे। प्रयोजकत्वं सप्तम्यर्थः विप्रतिपत्तावन्वेति। कथं तस्याः
विचारप्रयोजकत्वमिति चेत् - अत्र वदन्ति।
विरुद्धार्थप्रतिपादकवाक्यद्वयं हि विप्रतिपत्तिः। तया
अप्रामाण्यशङ्काकबलिततत्तद्वाक्यार्थबोधद्वारा मध्यस्थस्य संशयो
जन्यत इत्येकतरकोटिनिश्चयाय न्यायप्रयोगादिरूपो विचारः।
एवं च विचारोपयोगिसंशयजनन्या
विप्रतिपत्तेर्विचारोपयोगित्वमक्षतमिति। ज्ञानप्रामाण्यमिति
पक्षनिर्देशः। अत्र तद्वति तत्प्रकारकज्ञानत्वरूपमेव प्रामाण्यं पक्षः, न
तु प्रमितिकरणत्वरूपम् इति
तात्पर्यग्राहकं
ज्ञानपदम्। वस्तुतस्तु तद्वति तत्प्रकारकत्वस्य
घटत्वपटत्वादिरूपार्थभेदेन भिन्नतया कस्यापि प्रामाण्यस्य
यावज्ज्ञानग्राहकसामग्रीग्राह्यत्वं न सम्भवति इत्यतो
यद्धर्मघटितप्रामाण्यं यदा पक्षः तदा
तद्धर्मप्रकारकज्ञानग्राहकयावद्ग्राह्यत्वमेव साधनीयम्। न तु
सामान्यतो ज्ञानग्राहकयावद्ग्राह्यत्वमिति तात्पर्यग्राहकं ज्ञानपदम्।
तदप्रामाण्येत्यादि। तदप्रामाण्याग्राहिका यावती ज्ञानग्राहिका सामग्री
तज्जन्यग्रहविषयो न वेत्यर्थः। तादृशग्रहः गुरुमते व्यवसायः।
मुरारिमिश्रमते अनुव्यवसायः। भाट्टमते च
ज्ञाततालिङ्गकानुमितिः। अत्र गुरुमते सर्वस्मिन्नेव ज्ञाने
मितिमातृ-मेय-एतत्त्रयं भासते। तन्मते ऽघटत्वेन घटं अहं
जानामिऽ इत्याकारकस्यैव व्यवसायस्य उत्पत्तेः। एवं च व्यवसायस्य
स्वप्रकाशात्मकतया स्वेनैव स्वगतप्रामाण्यस्य ग्रहणात् भवति
प्रामाण्यस्य स्वतोग्राह्यत्वम्। विशिष्टबुद्धिं प्रति विशेषणज्ञानस्य
कारणतायाः तैरनङ्गीकारात् अनुपस्थितस्यापि प्रामाण्यस्य
भानसम्भवात्। मिश्रमते ऽअयं घटःऽ इत्याकारकज्ञानानन्तरं
ऽघटत्वेन घटमहं जानामिऽ इति
ज्ञानविषयकलौकिकमानसमुत्पद्यते, तेन प्रामाण्यस्य ग्रहणम्।
भट्टमते तु ज्ञानस्यातीन्द्रियतया ज्ञाततालिङ्गकानुमितेरेव
प्राथमिकज्ञानग्रहरूपतया तया प्रामाण्यं गृह्यते। अनुमानप्रयोगस्तु -
घटः घटत्ववद्विशेष्यकघटत्वप्रकारकज्ञानविषयः
घटत्वप्रकारकज्ञाततावत्त्वात् यन्नैवं तन्नैवम् इति। ज्ञातता च
सविषयको ज्ञानजन्यः अतिरिक्त पदार्थ इति मतविवेकः।
बालप्रिया
एतावता प्रबन्धेन
चत्वारि प्रमाणानि निरूपितानि। एवं च प्रमाणे ज्ञाते 1तद्घटकस्य
प्रमात्वस्योपस्थितिः भवतीति
स्मृतस्योपेक्षानर्हत्वरूपप्रसङ्गसङ्गत्या प्रमात्वविषयकं विचारं
प्रवर्तयतीत्याह प्रमाणप्रसङ्गादिति।

प्रमाणनिरूपितप्रसङ्गसङ्गत्येत्यर्थः। व्यवस्थापयिष्यन्निति।
परमतनिराकरणपूर्वकं साधयिष्यन् इत्यर्थः। षष्ट्यर्थ
आधेयत्वमित्यादि। तथा च अयं घट इत्यादिज्ञाननिष्ठं
घटत्ववद्विशेष्यकत्वावच्छिन्नघटत्वप्रकारकत्वादिरूपप्रमात्वं
स्वतोग्राह्यं परतो वेति विचार्यत इत्यर्थः।
इच्छादिनिष्ठप्रमात्वस्य मीमांसकैरपि परतोग्राह्यत्वस्वीकाकरात्
तत्र विवादो नास्तीति तस्य विचारो ऽनावश्यक इति सूचनाय
ज्ञाननिष्ठमिति प्रमात्वे विशेषणमुपात्तम्।
1. तद्धटकस्येति।
प्रमात्वविशिष्टप्रमाजनकस्य प्रमाणशब्दार्थत्वादिति भावः।
सकलज्ञानसाधारणमेकं प्रमात्वं नास्ति, जात्यतिरिक्तस्य
घटत्वादिविषयघटितस्य तस्य प्रतिज्ञानं भिन्नत्वादिति सूचनाय
ज्ञानानां इति बहुवचनम्। ज्ञानग्राहकेति। ज्ञानविषयकज्ञानजनिका
या सामग्री तज्जन्यं यत् ज्ञानं तद्विषय इत्यर्थः। अस्य
समन्वयप्रकारः पश्चाद्भविष्यति। अनुमानादि इत्यादिपदेन
आप्तवाक्यरूपः शब्दो गृह्यते। वाक्यद्वयमिति। प्रमात्वं स्वतोग्राह्यं
इत्येकं वाक्यम्, प्रमात्वं परतो ग्राह्यम् इत्यपरं वाक्यम्। तत्र
प्रथमं मीमांसकस्य, द्वतीयं नैयायिकस्य। एतत्
परस्परविरुद्धार्थप्रतिपादकवाक्यद्वयं शृण्वतः मध्यस्थस्य प्रथमं
अप्रामाण्यशङ्काविषयभूतः तत्तद्वाक्यार्थबोधो जायते, ततः
प्रमात्वं स्वतोग्राह्यं वा
परतोग्राह्यं वेति संशयो जायते। ततः मध्यस्थस्य प्रथमं
अप्रामाण्यशङ्काविषयभूतः तत्तद्वाक्यार्थबोधो जायते, ततः प्रमात्वं
स्वतोग्राह्यं वा परतोग्राह्यं
वेति संशयो जायते।
ततः मध्यस्थस्य एकतरकोटिकनिश्चयमुत्पादयितुं न्यायप्रयोगरूपो
विचारः क्रियते। तथा च
न्यायप्रयोगरूपविचारं प्रति मध्यस्थसंशयः कारणम्।
मध्यस्थसंशयं प्रति विप्रतिपत्तिः कारणमिति विप्रतिपत्तेः
विचारप्रयोजकत्वमिति भावः। अत्र"विचारो जल्पः,
विपरीतोद्भावकपरविजिगीषया न्यायप्रयोगरूपः।
जिज्ञासासम्पादनेन तदङ्गस्य तदुपयोगिनो मध्यस्थसंशयस्य
जननीर्विप्रतिपत्तीरित्यर्थ"इति गदाधरग्रन्थो ऽनुसन्धेयः।
दीपिकायां प्रदर्शितं विप्रतिपत्तिवाक्यं तत्तन्मतानुवादरूपं
दीपिकाकारस्यैवेत्याहुः। संशयजनन्या इति। संशयजनिकाया
इत्यर्थः।
ननु ज्ञानप्रामाण्यमिति
पक्षनिर्देश इत्युक्तम्। तत्र प्रामाण्यमित्येव पक्षनिर्देशो ऽस्तु,
ज्ञानपदं किमर्थमित्याशङ्कायामाह-अत्र तद्वतीति।
करणार्थकल्युडन्तात् प्रमाणशब्दात् भावेष्वज्ञा निष्पन्नस्य

प्रामाण्यशब्दस्य प्रमाकरणत्वमर्थः। भावार्थकल्युडन्तात्
प्रमाणशब्दात् भावेष्यञा निष्पन्नस्य प्रामाण्यशब्दस्य प्रमात्वमर्थः।
प्रकृते च प्रमात्वरूपः प्रामाण्यपदार्थ एव पक्षः, न तु प्रमाकरणत्वरूप
इति सूचनाय ज्ञानपदम्। न च प्रमाकरणत्वमेव पक्षो ऽस्त्विति
वाच्यम्। तत्र स्वतोग्राह्यत्वरूपसाध्याभावेन बाधात्। न च
ज्ञानपदोपादानेन कथं प्रमाकरणत्वव्यावृत्तिः। प्रमाकरणत्वस्य
व्याप्तिज्ञानसादृश्यज्ञानादिताननिष्ठत्वात् इति वाच्यम्। ज्ञानस्यैव
प्रामाण्यं ज्ञानप्रामाण्यमित्यवधारणस्याभिप्रेतत्वात्
ज्ञानमात्रवृत्तिप्रामाण्यं पक्षतयाभिमतम्। प्रमाकरणत्वरूपं प्रामाण्यं
तु न ज्ञानमात्रवृत्ति, तस्य 1मनः प्रभृतिवृत्तित्वात्। प्रमात्वरूपं
प्रामाण्यं तु ज्ञानमात्रवृत्तीति ज्ञानपदेन प्रमितिकरणत्वव्यवच्छेद
इत्याशयात्।
ननु ज्ञानमात्रवृत्तीति
विशेषणे दत्ते ऽपि व्याप्तिज्ञानादिनिष्ठं यत्
अनुमित्यादिप्रमाकरणत्वं तत् ज्ञानमात्रवृत्तीति तद्व्यवच्छेदः
कथमिति चेत् - अत्राहुः। विशेष्यतावच्छेदकावच्छेदेन
विशेषणान्वयस्यौत्सर्गिकत्वात् प्रकृते
प्रमाकरणत्वत्वरूपविशेष्यतावच्छेदकावच्छेदेन
ज्ञानमात्रवृत्तित्वान्वयो वाच्यः। प्रमाकरणत्वत्वाक्रान्ते
प्रत्यक्षप्रमाकरणत्वे ज्ञानमात्रवृत्तित्वबाधात्। अतः प्रमात्वमेवात्र
प्रामाण्यपदार्थः। तद्वति तत्प्रकारकज्ञानत्वत्वरूपप्रमात्वत्वावच्छिन्ने तु
ज्ञानमात्रवृत्तित्वान्वयः। सभ्भवतीति तद्वलात् अत्र प्रमात्वरूपं
प्रामाण्यमेव गृह्यत इति।
ननु
प्रामाण्यपदार्थत्वेन प्रामाण्यपदार्थस्य पक्षत्वे भवेदेवं
ज्ञानपदसार्थङ्क्यम्। विशिष्य तद्वति तत्प्रकारकज्ञानत्वस्य पक्षत्वे
ज्ञानपदं व्यर्थमित्यतस्तात्पर्यग्राहकतया तत्सार्थक्यमाह - वस्तुत
इति। कस्यापि प्रामाण्यस्येति । घटत्ववति
घटत्वप्रकारकज्ञानत्वरूपप्रामाण्यस्य
तदाश्रयभूतज्ञानग्राहकसामग्रीग्रह्यत्वे ऽपि
तदनाश्रययावदन्तर्गतपटादिज्ञानग्राहकसामग्रीग्राह्यत्वं नास्तीति बाधः
स्यात्। अतो घटत्वघटितं
घटत्ववद्विशेष्यकत्वावच्छिन्नघटत्वप्रकारकज्ञानत्वरूपं प्रामाण्यं यदा
पक्षः तदा घटत्वप्रकारकज्ञानग्राहकसामग्रीगाह्यत्वमेव साध्यम्। न तु
ज्ञानत्वेन सामान्येन ज्ञानघटितं ज्ञानग्राहकसामग्रीग्राह्यत्वमिति
सूचनाय ज्ञानपदमिति भावः। न तु सामान्यत इति।
इदमुपलक्षणम्, धर्मान्तरप्रकारकज्ञानग्राहकयावत्सामाग्रीग्राह्यत्वं न
साध्यमिति लाभायेत्यपि बोध्यम्।
1. मनः प्रभृतीति।
मनसः मानसप्रत्यक्षरूपप्रमाकरणत्वादिति भावः।

तदप्रामाण्येत्यादि।
ज्ञानं यया सामग्र्या ज्ञायते तयैव सामग्र्या ज्ञानगतं प्रमात्वमपि
ज्ञायते। ज्ञानविषयकज्ञाने एव ज्ञानगतं प्रमात्वमपि विषय इत्यर्थः।
तत्र प्राभाकरमते ज्ञानं त्रिपुटीरूपमङ्गीक्रियते। त्रिपुटीत्यस्य
ज्ञातृ-ज्ञेय-ज्ञानैतत्त्रितयविषयकमित्यर्थः। तन्मते आदौ ऽअयं घटऽ
इति व्यवसायात्मकं ज्ञानं ततः ऽघटमहं जानामिऽ
इत्यनुव्यवसायात्मकं ज्ञानमिति नाङ्गीक्रियते। अपि तु प्रथमत एव
घटमहं जानामीत्याकारकमेव
ज्ञानं जायते, तदवे
व्यवसायात्मकम्। तस्मिन् ज्ञाने विषयः घटः, ज्ञाता अहमर्थः,
ज्ञाधात्वर्थज्ञानं चेति त्रयं विषयः। अत एव ज्ञानस्य स्वविषयकत्वरूपं
स्वयंप्रकाशत्वम्। तथा च ज्ञानविषयकं स्वात्मकं ज्ञानं
स्वगतप्रमात्वमपि विषयीकरोति, यथा ज्ञानगतं ज्ञानत्वमपि
विषयीकरोति तद्वत्। ज्ञानत्वविशिष्टज्ञानविषयकत्ववत्
प्रमात्वविशिष्टज्ञानविषयकत्वमपि व्यवसायस्य स्वीक्रियते। न च
विशिष्टबुद्धौ विशेषणज्ञानस्य कारणत्वात्
पूर्वमनुपस्थितस्य
प्रमात्वस्य कथं भानमिति वाच्यम्। तादृशकारणताया
अनङ्गीकारात्। तथा च
ज्ञानविषयकज्ञानविषयत्वस्यैव स्वतस्त्वरूपतया गुरुमते
ज्ञानविषयकं ज्ञानं स्वयमेव तद्विषयत्वं प्रमात्वस्यास्तीति
स्वतस्त्वोपपत्तिः।
मुरारिमिश्राणां मते
आदौ अयं घट इति व्यवसायात्मकं ज्ञानम्, ततः घटत्वेन घटमहं
जानामीत्यकारकः अनुव्यवसायः। तस्य
घटत्वप्रकारकघटविशेष्यकज्ञानवानित्यर्थः। तथा च तन्मते
ज्ञानविषयकज्ञानमनुव्यवसायः। तेन ज्ञाने विषयीक्रियमाणे
तद्विशेषणतया घटत्वप्रकारकत्वावच्छिन्नघटविशेष्यकत्वरूपं
प्रमात्वमपि विषयीक्रियते। अतः
ज्ञानविषयकज्ञानविषयत्वरूपस्वतस्त्वोपपत्तिः।
भाट्टानां मते
ज्ञानस्यातीन्द्रियतया ऐन्द्रियकं घटादिज्ञानं ज्ञानविषयकं न भवतीति
प्रथमतः अयं घट इत्येव ज्ञानमुदेति। तेन ज्ञानेन घटे
ज्ञाततारव्यः कश्चित् सविषयको धर्मो जायते। तया ज्ञाततया
ज्ञानमनुमीयते। तथा च ज्ञाततालिङ्गकानुमितिरेव तन्मते
ज्ञानविषयकज्ञानम्। तया अनुमित्या ज्ञानगतं प्रमात्वमपि
विषयीक्रियत इति ज्ञानविषयत्वरूपस्वतस्त्वोपपत्तिः।
1प्राथमिकज्ञानग्रहविषयत्वं स्वतोग्राह्यत्वमिति मतत्रयसाधारणं
निर्वाच्यम्। ज्ञानग्रहे प्राथमिकत्वविशेषणात्
नैयायिकसंमतप्रवृत्त्यादिलिङ्गकानुमित्यात्मकद्वितीयज्ञानग्रहो

व्यवच्छिद्यते।
व्यवसायस्य
स्वप्रकाशात्मकतयेति। स्वविषयकतयेत्यर्थः। ग्रहणादिति।
विषयीकरणादित्यर्थः। ज्ञानविषयकलौकिकमानसमिति।
ज्ञानविषयकमात्ममनस्संयोगरूपलौकिकसन्निकर्षजन्यं
मानसप्रत्यक्षमित्यर्थः। इदमेव मानसम् अनुव्यवसाय इत्युच्यते।
तेन प्रामाण्यस्य ग्रहणमिति। तेन मानसप्रत्यक्षेण प्रमात्वस्य
विषयीकरणमित्यर्थः। ज्ञानविषयकमानसप्रत्यक्षनिरूपिता
प्रमात्वनिष्ठविषयतेति यावत्। तया प्रमाण्यं गृह्यते - अनुमित्या
प्रामाण्यं विषयीक्रियते। घटत्ववद्विशेष्यकेति। तथा चास्यामनुमितौ
घटत्ववद्विशेष्यकघटत्वप्रकारकज्ञानं विषंयः, ज्ञानविशेषणतया
घटत्ववद्विशेष्यकघटत्वप्रकारकत्वरूपप्रमात्वमपि विषयः।
दीपिका
स्वतस्त्वघटकदलप्रयोजनम्
अनुमानादिग्राह्यत्वेन सिद्धसाधनवारणाय यावदिति। ऽइदं
ज्ञानं अप्रमाऽ इति ज्ञानेन प्रामाण्याग्रहात् बाधवारणाय
अप्रामाण्याग्राहकेति। ऽइदं ज्ञानं अप्रमाऽ
इत्यनुव्यवसायनिष्ठप्रामाण्यग्राहकस्यापि
अप्रामाण्याग्राहकत्वाभावात् स्वतस्त्वं न स्यात् अतः तदिति। तस्मिन्
ग्राह्यप्रामाण्याश्रये अप्रामाण्याग्राहकेत्यर्थः। उदाहृतस्थले
व्यवसाये ऽप्रामाण्यग्राहकस्याप्यनुव्यवसाये तदग्राहकत्वात्
स्वतस्त्वसिद्धिः।
प्रकाशिका
यावत्त्वविशेषणे
सत्येव अग्राहकान्तं सार्थकमित्यभिप्रेत्य प्रथमतस्तस्यैव प्रयोजनं
दर्शयति - अनुमानेति। प्रामाण्यस्येत्यादिः। सिद्धसाधनेति।
नैयायिकमते ऽपि ऽइदम् ज्ञानम् प्रमा समर्थप्रवृत्तिजनकत्वात्ऽ
1. प्राथमिकेति।
प्राथमिकं यत् ज्ञानविषयकज्ञानं तद्विषयत्वमित्यर्थः।
इत्यनुमानेन
ऽइदम् ज्ञानम् प्रमाऽ इत्याप्तवाक्येन च ग्राह्यत्वादिति भावः।
नैयायिकमते ऽपि निषेधे साध्ये बाधवारणायेत्यपि बोध्यम्।
यावदितीति। ननु सामग्र्यां यावत्त्वविशेषणमयुक्तम्,
यावत्सामग्रीजन्यग्रहाप्रसिद्धेः। न हि सर्वाभिः ज्ञानसामग्रीभिः एकं
ज्ञानं जन्यते। न च यावतीः सामगीः विशिष्योपादाय
तत्तज्जन्यग्रहविषयत्वं साध्यत इति वाच्यम्।
अनुव्यववायादिसामग्रीणां ताद्रूप्येण निवेशे
मतत्रयसाधारण्यानिर्वाहादिति चेत् - न। यतो यावदिति फलतो
ग्रहविशेषण्म्। तथा च ज्ञानग्राहकसामग्रीजन्ययावद्ग्रहविषयत्वमिति
फलितम्।

तत्तद्धर्मप्रकारकज्ञानग्राहकसामग्रीजन्यग्रहत्वव्यापकविषयिताप्रतियोगित्वमिति
निष्कर्ष इति सङ्क्षेपः। प्रामाण्याग्रहादिति। व्यवसायनिष्ठेत्यादिः।
प्रामाण्याविषयीकरणादित्यर्थः। अप्रामाण्याग्राहकेतीति। तथा च
तादृशज्ञानसामग्र्याः साध्यकोट्यप्रविष्टत्वात् तया
प्रामाण्यस्याग्रहणे ऽपि न बाध इति भावः। अनुव्यवसायनिष्ठेत्यादि।
तादृशानुव्यवसायनिष्ठं
यदप्रामाण्यवद्विशेष्यकत्वविशिष्टाप्रामाण्यप्रकारकत्वरूपप्रामाण्यं
तद्ग्राहकस्येत्यर्थः। ऽसामान्ये नपुंसकम्ऽ इति नपुंसकनिर्देशः।
स्वतस्त्वं न स्यादिति। यदा निरुक्तप्रामाण्यस्य
पक्षता, तदा
अप्रामाण्याग्राहकप्रामाण्यग्राहकसामाग्र्या एव साध्यकोटौ
निवेशनीयतया तादृशसामग्र्या अप्रसिद्धत्वात् तस्य स्वतोग्राह्यत्वं न
सिध्येदित्यर्थः। सप्तमीतत्पुरुषमभिप्रेत्याह - तस्मिन्निति। एतस्यैव
विवरणं ग्राह्यप्रामाण्याश्रय इति। यादृशप्रामाण्यं
प्रकृतानुमितवुद्धेश्यं
तादृशप्रामाण्याश्रयविशेष्यकाप्रामाण्यप्रकारकज्ञानाजनकेति
अग्राहकान्तार्थः। इदं ज्ञानं अप्रमा
इत्यनुव्यवसायनिष्ठप्रामाण्यग्राहकसामग्र्याः
व्यवसायविशेष्यकाप्रामाण्यग्रहजनकत्वे ऽपि
अनुव्यवसायविशेष्यकाप्रामाण्यग्रहाजनकत्वात् ज्ञानग्राहकत्वाच्च
अप्रामाण्यवद्विशेष्यकत्वादिघटितप्रामाण्यस्य स्वतोग्राह्यत्वसिद्धिरित्याह
- उदाहृतस्थल इति। इदं ज्ञानं अप्रमेत्यत्रेत्यर्थः। अधिकं
अस्मदीयमणिदीधितिव्याख्यायामनुसन्धेयम्।
बालप्रिया
तदप्रामाण्याग्राहकयावज्ज्ञानग्रहकसामग्रीग्राह्यत्वं स्वतस्त्वम्
इति दीपिकायामुक्तम्। तस्मिन् अप्रामाण्याग्राहिका यावती
ज्ञानग्राहिका सामग्री तज्जन्यग्रहविषयत्वमिति तदर्थः।
अप्रामाण्याग्राहकेत्यस्य अप्रामाण्यप्रकारकज्ञानाजनकेत्यर्थः।
तदेकदेशज्ञाने तस्मिन्निति सप्तम्यन्तार्थस्य तद्विशेष्यकत्वस्यान्वयः।
तच्छब्देन
यादृशं प्रामाण्यं
अनुमित्या ग्राह्यं तादृशप्रामाण्याश्रय उच्यते। तथा च
ग्राह्यप्रामाण्याश्रयविशेष्यकाप्रामाण्यप्राकरकज्ञानाजनकज्ञानविषयकज्ञानजनकयावत्सामग्रीजन्यज्ञानविषयत्वं
स्वतस्त्वमिति पर्यवसन्नम्। अयं घटः इत्याकारकज्ञाने इदं ज्ञानं
प्रमा समर्थप्रवृत्तिजनकत्वात् इत्यनुमित्या ग्राह्यं यत् घटत्ववति
घटत्वप्रकारकत्वरूपं प्रमात्वं अस्ति तदाश्रयः अयं घट इति ज्ञानम्,
तद्विशेष्यकं यत् अप्रमात्वप्रकारकं ज्ञानं इदं ज्ञानमप्रमेत्याकारकं
तदजनिका भवति घटज्ञानविषयकज्ञानजनिका सामग्री, न हि तया
घटज्ञानविशेष्यकाप्रमात्वज्ञानं जायत इति। तादृशसामग्रीजन्यं
ज्ञानं च ज्ञानविषयकं ज्ञानं पूर्वोक्तरीत्या

व्यवसाय-अनुव्यवसाय-अनुमित्यात्मकं मतभेदेन, तद्विषयत्वं
प्रमात्वे ऽस्तीति समन्वयः। अत्र दलप्रयोजनकथनावसरे प्रथमं
यावत्पदस्य प्रयोजनमुक्त्वा तदनन्तरं तदप्रामाण्यग्राहकेत्यस्य
प्रयोजनमुक्तं दीपिकायाम्। तत्र प्रथमोपस्थितस्य अग्राहकान्तस्य
प्रथमं प्रयोजनमुक्त्वा तदनन्तरमेवानन्तरोपस्थितस्य यावत्पदस्य
प्रयोजनकथनं न्याय्यम्। तत्परित्यज्य किमर्थं विपर्ययेण
प्रयोजनमुक्तमित्याशङ्कायामाह - यावत्वविशेषणे सत्येवेति।
इदं तु द्वयोरपि विशेषणयोः प्रयोजने ज्ञाते सत्येव
स्पष्टीकर्तुं शक्यत् इति आदौ तयोः प्रयोजनं प्रतिपाद्यते।
अप्रामाण्याग्राहकेति विशेषणानुपादाने
यावज्ज्ञानग्राहकसामग्रीग्राह्यत्वं स्वतस्त्वमिति भवेत्। तथा च ऽइदं
ज्ञानं अप्रमाऽ इत्याकारकज्ञानमपि ज्ञानविषयकयावज्ज्ञानान्तर्गतं
तद्ग्राह्यत्वभप्रमात्व एवास्ति, न तु प्रमात्व इति बाधः स्यात्।
तद्वारणाय सामाग्र्यां अप्रामाण्याग्राहकेति विशेषणमुपात्तम्। इदं
ज्ञानं अप्रमा इत्याकारको यो ज्ञानग्रहः तज्जनकसामग्री
अप्रामाण्यग्राहिकैव भवेत् तादृशग्रहस्याप्रामाण्यविषयकतया
तादृशग्रहजनकसामग्र्याः अप्रामाण्यग्राहकत्वावश्यम्भावात्। तथा च
तादृशसामग्र्याः अप्रामाण्याग्राहकत्वाभावात् अप्रामाण्याग्राहिका
ज्ञानग्राहकसामग्री अनुव्यवसायादिसामग्र्येव
तज्जन्यानुव्यवसायादिरूपज्ञानग्रहविषयत्वं प्रमात्वे अस्तीति न बाधः।
यावत्पदानुपादाने अप्रमात्वाग्राहिका या ज्ञानग्राहकसामग्री
इत्यनेन इदं ज्ञानं प्रमा समर्थप्रवृत्तिजनकत्वात्
इत्यनुमानरूपां इदं ज्ञानं प्रमा इत्याप्तवाक्यरूपां वा
सामग्रीमुपादाय तज्जन्यानुमिति-शाब्दबोधरूपयोः ऽइदं ज्ञानं
प्रमाऽ इत्याकारकयोः ज्ञानग्रहयोर्विषयत्वं प्रमात्वे
नैयायिकस्याप्यभिमतमिति तत्साधने सिद्धसाधनं स्यादिति
तद्वारणाय यावत्पदम्। तथा सति व्यवसायानुव्यवसायादीनामपि
यावज्ज्ञानग्रहान्तर्गततया तद्विषयत्वस्य प्रमात्वे ऽनङ्गीकारात् न
सिद्धसाधनमिति द्वयोः दलयोः प्रयोजनस्थितिः। तत्र यावत्त्वदले
सत्येव अप्रामाण्याग्राहकेति सार्थकम्। अन्यथा
ज्ञानग्रहकसामग्रीजन्यग्रहविषयत्वं स्वतस्त्वमित्युक्तौ न बाधप्रसक्तिः,
ज्ञानग्रहपदेन व्यवसायस्यानुव्यवसायस्य ज्ञाततालिङ्गकानुमितेर्वा
ग्रहणेन तद्विषयत्वस्य प्रमात्वे सम्भवात्। तथा च बाधाप्रसक्त्या
तद्वारणफलकमग्राहकान्तं व्यर्थं स्यात्। यावत्पदे सति तु ऽइदं
ज्ञानं अप्रामाऽ इत्याकारकग्रहस्यापि यावज्ज्ञानग्रहान्तर्गततया
तद्विषयत्वं प्रमात्वे नास्तीति बाधः प्रसज्यते, तद्वारकतया
चाग्राहकान्तं सार्थकमित्याशयेन यावत्वविशेषणे सत्येव
अग्राहकान्तं सार्थकमित्युक्तं प्रमाशिकयामिति।
निषेधे साध्ये
बाधवारणायेति।

तदप्रामाण्याग्राहकयावज्ज्ञानग्राहकसामग्रीग्राह्यत्वाभावः नैयायिकस्य
साध्यः।
तत्र यावत्यपदाभावे
समर्थप्रवृत्तिजनकत्वलिङ्गकानुमान-आप्तवाक्यग्राह्यत्वात्
तदभावरूपसाध्याभावात् बाधः
तद्वारणाय
यावत्पदमिति भावः। अभावसाध्यकस्थलेपक्षे प्रतियोगिमत्त्वमेव बाध
इत्याशयेनेदम्। ननु सामग्र्यामिति। यावत्पदस्य
सामग्रीपदविशेषणत्वे यावत्यः ज्ञानग्रहजनकसामग्र्यः
तज्जन्यग्रहविषयत्वं साध्यमिति फलति। तथा सति यावत्सामग्रीजन्यः
एकः ज्ञानग्रहः अप्रसिद्ध इति साध्याप्रसिद्धिः प्रसज्यते। यतः
अनुव्यवसायजनक-व्यवसायजनक-ज्ञाततालिङ्गकानुमितिजनक-समर्थप्रवृत्तिलिङ्गकानुमितिजनकसामग्रीणां
सर्वासामपि प्रत्येकं ज्ञानग्राहकतया तादृशयावत्सामग्रीजन्यः एको
ज्ञानग्रहो न भवतीति। सामग्रीणां यावत्वेन न निवेशः, अपि तु
विशिष्यैव। तथा च
तत्तज्ज्ञानग्रहजनकतत्तत्सामग्रीजन्यतत्तद्ग्रहविषयत्वं स्वतस्त्वमिति
परिष्कारेण
साध्याप्रसिद्धिवारणे ऽपि मतत्रयसाधारण्यं न निर्वहतीति
शङ्काग्रन्थार्थः।
समाधत्ते - यतो
यावदिति। ननु ज्ञानग्राहकसामग्रीजन्य यावद्ग्रहविषयत्वस्य
साध्यत्वे ऽपि
पटज्ञानग्राहकसामग्रीजन्ययावद्ग्रहानतर्गतपटज्ञानज्ञानेन
घटत्वघटितप्रामाण्यस्याग्रहात् बाधो दुर्वार इत्याशङ्क्य
ज्ञानग्राहकेत्यत्र ज्ञाने तद्धर्मप्रकारकत्वविशेषणात् न दोष इति
समाधानं विवक्षुः यावत्पदस्य
स्वसमभिव्याहृतपदार्थतावच्छेदकव्यापकत्वबोधकत्वव्युत्पत्तिमप्यभिसन्धाय
फलितार्थमाह - तत्तद्धर्मेति। यद्धर्मघटितप्रामाण्यं पक्षः
तद्धर्मप्रकारेत्यर्थः। तथा च
घटत्ववद्विशेष्यकत्वावच्छिन्नघटत्वप्रकारकत्वं
घटत्वप्रकारकज्ञानग्राहकसामग्रीजन्यग्रहत्वव्यापकविषयितानिरूपकमिति
प्रतिज्ञावाक्यम्। घटत्वप्रकारकज्ञानम् अयं घट इत्याकारकज्ञानं
तद्विषयकज्ञानजनकसामग्री अनुव्यवसायादिसामग्री तज्जन्यग्रहत्वं यत्र
यत्र अनुव्यवसायादौ तत्र
घटत्ववद्विशेष्यकघटत्वप्रकारकत्वरूपप्रमात्वनिरूपितविषय् इतास्ति,
तादृशविषयितानिरूपकत्वं च प्रमात्वे ऽस्तीति समन्वयः।
ननु नैयायिकमते ऽपि
प्रामाण्यनिरूपितविषयितायाः
घटत्ववद्विशेष्यकत्वावच्छिन्नघटत्वनिरूपितप्रकारितात्वेन
तादृशग्रहत्वव्यापकत्वाभावे ऽपि घटत्वनिरूपितप्राकारितात्वेन

अनुव्यवसायादिसामग्रीजन्यग्रहत्वव्यापकत्वात् सिद्धसाधनम्।
घटत्ववद्विशेष्यकत्वावच्छिन्नघटत्वनिरूपितप्रकारितात्वेन
प्रामाण्यविषयितायाः व्यापकत्वं तु न विवक्षितुं शक्यम्।
नैयायिकमते साध्याप्रसिद्धेः। ऽघटत्वेन इमं जानामिऽ
इत्याकारकानुव्यवसाये घटत्वनिरूपितप्रकारितात्वेनैव
तादृशप्रकारितायाः भानात् न तु
घटत्ववद्विशेष्यकत्वावच्छिन्नघटत्वप्रकारितात्वेनेत्य शङ्क्याह -
सङ्क्षेप इति।
अत्र घटत्ववति
घटत्वप्रकारकत्वं
घटत्वप्रकारकज्ञानग्राहकसामग्रीजन्यग्रहनिष्ठाभावप्रतियोगितानवच्छेदकधर्मवद्विषयितानिरूपकमिति
प्रतिज्ञा न विवक्षिता, येनोक्तदोषः स्यात्। अपितु
घटत्वप्रकारकज्ञानग्राहकसामग्रीजन्यग्रहनिष्ठाभावप्रतियोगिता,
घटत्ववद्बिशेष्यकत्वावच्छिन्नघटत्वप्रकारकत्वरूपप्रामाण्यविषयकत्वत्वानवच्छिन्ना
इति प्रतिज्ञा विवक्षिता। अतो न साध्याप्रसिद्ध्यादिकमिति भावः।
अधिकं प्रामाण्यवादगादाधर्यां द्रष्टव्यम्।
दीपिकायाम् इदं
ज्ञानमप्रमेति ज्ञानेनेति। तथा च अप्रामाण्याग्राहकेति
सामग्रीविशेषणानुपादाने
ज्ञानग्राहकसामग्रीजनययावद्ग्रहविषयत्वं स्वतस्त्वमिति स्यात्। तथा
सति रजते इदं रजतमिति व्यवसायानन्तरं यत् इदं
ज्ञानमप्रमेति भ्रमात्मकं ज्ञानं तस्य ज्ञानग्रहरूपतया
तज्जनकसामग्रीजन्ययावद्ग्रहान्तर्गततादृशज्ञानविषयत्वमप्रमात्व
एवास्ति न तु प्रमात्वरूपपक्ष इति बाधः स्यात्। तद्वारणाय
अप्रामाण्याग्राहकेतिविशेषणम्। अप्रमात्वग्राहाजनकेति तदर्थः।
निरुक्तज्ञानग्रहस्य अप्रमात्वविषयकत्वेन अप्रमात्वग्रहरूपतया
निरुक्तज्ञानग्रहजनकसामग्र्याः अप्रमात्वग्रहजनकत्वात् तदजनकत्वं
नास्तीति ज्ञानग्रहपदेन ऽइदं ज्ञानमप्रमाऽ इत्याकारको ज्ञानग्रहो
न ग्राह्यः, अपि तु ऽरजतत्वेन इमं जानामिऽ
इत्यनुव्यवसायादिरेव ग्राह्यः तज्जनकसामग्र्याः अप्रामाण्यग्राहकत्वात्
तज्जन्यानुव्यवसायाद्यात्मकग्रहविषयत्वं प्रमात्वे ऽस्तीति न बाध इति
भावः।
प्रकाशिकायाम्
व्यवसायनिष्ठेत्यादिरिति। इदं रजतम् इत्याकारकव्यसायनिष्ठं
यत् प्रमात्वं रजतत्ववति रजतत्वप्रकारकत्वरूपं
तदविषयकत्वादित्यर्थंः। तथा च प्रमात्वे
यावदन्तर्गततादृशज्ञानाविषयत्वात् बाध इति भावः।
तादृशज्ञानसामग्र्या इति। इदं ज्ञानं अप्रमा
इत्याकारकज्ञानजनकसामग्र्या इत्यर्थः।
साध्यकोट्यप्रविष्टत्वादिति। अप्रमात्वग्राहकत्वेन

अप्रामाण्याग्राहकत्वरूपविशेषणानाक्रान्तत्वादिति भावः।
तदप्रामाण्यग्राहकेत्यत्र
तत्पदस्य दीपिकोक्तं प्रयोजनमेवम् - इदं
रजतमितिभ्रमात्मकव्यवसायोत्तर-इदं
ज्ञानम् अप्रमा
इत्यावकारकज्ञाननिष्ठस्य अप्रमात्ववति अप्रमात्वप्रकारकज्ञानत्वरूपस्य
प्रमात्वस्य अप्रमात्वग्राहकसामग्र्यैव ग्रहणात्
अप्रामाण्याग्राहकसामग्रीग्राह्यत्वात्मकस्वतस्त्वबाधः तादृशप्रमात्वे
स्यादिति तद्वारणाय तदप्रामाण्याग्राहकेति तत्पदम्।
तस्मिन्
अप्रामाण्यग्राहकेति तदर्थः। यादृशप्रमात्वे स्वतस्त्वमिष्यते
तादृशप्रमात्वाश्रयविशेष्यकाप्रमात्वप्रकारकज्ञानाजनकेति
तदप्रामाण्याग्राहकेत्यस्यार्थः। इदं ज्ञानं अप्रमा
इत्याकारकज्ञाननिष्ठप्रमात्वग्राहकसामग्र्याः इदञ्ज्ञानपदेन
विवक्षितं यत् इदं रजतम् इत्याकारकज्ञानं
तद्विशेष्यकाप्रमात्वग्राहकत्वे ऽपि प्रकृतस्याप्रमात्ववति
अप्रमात्वप्रकारकत्वरूपप्रमात्वस्य आश्रयभूतं यत् इदं ज्ञानं
अप्रमेत्याकारकज्ञानं तद्विशेष्यकाप्रमात्वप्रकारकज्ञानजनकत्वात्
नोक्तदोष इति। इदं ज्ञानं अप्रमेत्यनुव्यवसायनिष्ठेति।
ज्ञानविषयकत्वादस्य ज्ञानस्यानुव्यवसायशब्देन व्यपदेशः। अतः
जानामीत्याद्याकारकताविरहात् कथमस्यानुव्यवसायत्वमिति
नाशङ्कनीयम्।
ननु
विशेष्यभूतसामग्रीपदानुसारेण प्रामाण्यग्राहिकाया अपीति वक्तव्ये
कथं प्रामाण्यग्राहकस्यापीत्युक्तं दीपिकायाम् इत्याशङ्क्याह -
सामान्ये नंपुसकमिति। (ग्राहकत्वरूप) सामान्यधर्माश्रयविवक्षया
तदाश्रयविशेषाविवक्षायां नपुंसकमित्यनुशासनात् अत्र
नपुंसकत्वमिति भावः। निरुक्तप्रामाण्यस्येति।
अप्रामाण्यवद्विशेष्यकत्वविशिष्टाप्रामाण्यप्रकारकत्वरूपप्रामाण्यस्येत्यर्थः।
तस्येति। निरुक्तप्रामाण्यस्येत्यर्थः। न सिध्येदिति। तथा च बाध इति
भावः। स्वतोग्राह्यत्वसिद्धिरिति। तादृशप्रामाण्याश्रयभूतः यः इदं
ज्ञानं अप्रमेत्याकारकानुव्यवसायः तद्विषयकज्ञानजनकसामग्र्याः
स्वाश्रयतादृशानुव्यवसायविशेष्यकप्रामाण्यप्रकारकज्ञानाजनकतया
तादृशसामग्र्याः प्रसिद्धत्वात्
तज्जन्यानुव्यवसायविषयकज्ञानविषयत्वस्य अनुव्यवसायनिष्ठप्रमात्वे
सत्वात् न बाध इति भावः॥
दीपिका
प्रामाण्यज्ञप्तिवादपूर्वपक्षः
ननु स्वत एव
प्रामाण्यं गृह्यते, ऽघटमहं जानामिऽ इत्यनुव्यवसायेन

घटघटत्वयोरिव तत्सम्बनधस्यापि विषयीकरणात्
व्यवसायरूपप्रत्यासत्तेस्तुल्यत्वात्। पुरोवर्तिनि प्रकारसम्बन्धस्यैव
प्रमात्वपदार्थत्वादिति चेत्---
प्रकाशिका
इत्थं
विप्रतिपत्तिमुपन्यस्य मीमांसकमतमुपन्यस्यति - नन्विति। स्वत
एवेत्यादि। घटत्वादिघटितप्रामाण्यं निरुक्तसामग्रीत एव गृह्यत
इत्यर्थः। अप्यर्थकेनैवकारेण अनुमानादिपरिग्रहः।
अनुव्यवसायेनेति। इदं च मिश्रमताभिप्रायेण। मतत्रयसाधारण्येन
तु प्राथमिकज्ञानग्रहेणेति ध्येयम्। तत्सम्बन्धस्यापीति।
घटघटत्वयोः यः सम्बन्धः तस्यापीत्यर्थः। ननु अनुव्यवसाये कथं
सम्बन्धस्य भानमित्याशङ्क्य यथा घटघटत्वयोः
व्यवसायरूपप्रत्यासत्त्या भानम् तथा तत्सम्बन्धस्यापि,
व्यवसायरूपप्रत्यासत्तेरविशेषादित्याह - व्यवसायेति। तावता कथं
प्रामाण्यस्य भानमत आह - पुरोवर्तिनि प्रकारसम्बन्धस्यैवेति।
पुरोवर्तिनि यः प्रकारसम्बन्धः तद्घटितस्यैवेत्यर्थः।
अयमाशयः - नैयायिका
अपि अनुव्यवसाये विशेष्यत्वप्रकारत्वयोर्भानमङ्गीकुर्वन्ति,
पुरोवर्तिनं घटत्वेन जानामीत्याकारकस्यैव अनुव्यवसायस्य
तैरङ्गीकारात्। परन्तु पुरोवर्तिनि घटादौ
घटत्वादिरूपप्रकारसम्बन्धभानंनाङ्गीकुर्वन्ति। अतस्तत्र
प्रकारसम्बन्धभानस्य व्यवस्थापने किमपि नावशिष्टमिति प्रामाण्यस्य
भानं सिध्यति, अनुपस्थितयोरपि विशेष्यत्वप्रकारत्वयोर्भानस्य
सर्वसंमतत्वादिति।
बालप्रिया
घटत्वादिघटितप्रामाण्यमिति।
घटत्ववद्विशेश्यकत्वावच्छिन्नघटत्वप्रकारकत्वरूपं प्रामाण्यं
तदाश्रयज्ञानग्राहकसामग्र्यैव गृह्यत इत्यर्थः। अयं घट
इत्याकारकव्यवसायविषयकं यत् ज्ञानं घटमहं जानामीत्याकारकं
तस्मिन् अहमर्थः आत्मा ज्ञानं च आत्ममनस्संयोगेन
मनस्संयुक्तसमवायेन च भासेते इति तदंशे लौकिकत्वम्।
घटघटत्वयोस्तु ज्ञानलक्षणया प्रत्यासत्त्या भानम्।
तादृशानुव्यवसायात् पूर्वं अयं घट इत्याकारकव्यवसायस्य
सत्त्वात् व्यवसायस्य घटघटत्वोभयविषयकत्वात्। तथा च
घटघटत्वविषयकव्यवसायात्मकज्ञानलक्षणसन्निकर्षेंण यथा वा ऽघटमहं
जानामिऽ इत्यनुव्यवसाये घटघटत्वयोर्भानम्,
तथैव घटघटत्वयोः
यः सम्बन्धः समवायरूपः तस्यापि भानमावश्यकम्। व्यवसाये तस्यापि
भानेन व्यवसायात्मकसन्निकर्षात् तत्सम्बन्धभानस्यावश्यम्भावात्। न
च घटघटत्वसम्बन्धो भासताम्, तावता प्रमात्वाभानात्

प्रमात्वस्य
ज्ञानविषयकग्रहविषयत्वारव्यं स्वतस्त्वं कथं सिध्येदिति वाच्यम्।
पुरोवर्तिनि प्रकारसम्बन्धस्यैव प्रमात्वपदार्थत्वात्
सम्बन्धभानस्यैव प्रमात्वभानरूपत्वात्। एतदेव कथमिति चेत् -
श्रूयताम् - ज्ञानस्य प्रामाण्ये विशोध्यमाने विषयतथात्व एव
तत्पर्यवस्यति। विषयो यादृशधर्मवत्तया व्यवसाये भासते
तादृशधर्मसम्बन्ध एव विषयस्य तथात्वम्, तदेव च प्रमात्वमिति
तस्यानुव्यवसायेन विषयीकरणात् प्रमात्वस्य स्वतोग्राह्यत्वमिति
मीमांसकाशयः। स एव दीपिकायां प्रकाशिकायां चानूदित
इति। यद्यपि
अर्थन्तथात्वस्य विषयनिष्ठस्य ज्ञानगतप्रमात्वरूपत्वं न सम्भवतीति
तद्वन्निष्ठविशेष्यतानिरूपकत्वे सति तन्निष्ठप्रकारताशालिज्ञानत्वमेव
प्रमात्वं वाच्यमिति शङ्का अवतरति, तथापि नैयायिकैः
पुरोवर्तिनिष्ठविशेष्यतानिरूपकत्वे सति
रजतत्वनिष्ठप्रकारतानिरूपकत्वमनुव्यवसाये भासत इति
स्वीक्रियते। तत्र विंशेष्यताप्रकारतयोरनुपस्थितयो ऽपि भानम्।
पुरोवर्तिरजतत्वयोः व्यवसायरूपप्रत्यासत्या भानम्, पुरोवर्तिनि
रजतत्ववत्वं न भासते इत्यङ्गीक्रियते। मीमांसकास्तु
व्यवसायरूपप्रत्यासत्तिसाम्यात् रजतत्ववत्वमपि भासत इति निरूप्य
तद्घटितप्रमात्वं अनुव्यवसायेन विषयीक्रियत इति निरूपयन्तीति
विशेषः। पुरोवर्तिनं घटत्वेन जानामीत्याकारकस्येति।
पुरोवर्तिनिष्ठविशेष्यतानिरूपकघटत्वनिष्ठप्रकारतानिरूपकज्ञानवानहमित्यर्थः।
दीपिका
प्रामाण्यज्ञप्तिवादसिद्धान्तः
स्वतःप्रामाण्यग्रहे
ऽजलज्ञानं प्रमा न वाऽ इत्यनभ्यासदशायां प्रमात्वसंशयो न स्यात्।
अनुव्यवसायेन प्रामाण्यस्य निश्चितत्वात्। तस्मात्
स्वतोग्राह्यत्वाभावात् परतो ग्राह्यत्वमेव। तथाहि - प्रथमं
जलज्ञानानन्तरं प्रवृत्तौ सत्यां जललाभे सति पूर्वोत्पन्नं जलज्ञानं
प्रमा समर्थप्रवृत्तिजनकत्वात् यन्नैवं तन्नैवं, यथा अप्रमा इति
व्यतिरेकिणा प्रमात्वं निश्चीयते। द्वितीयादिज्ञानेषु
पूर्वज्ञानदृष्टान्तेन तत्सजातीयत्वलिङ्गेन अन्वयव्यतिरेकिणापि
गृह्यते॥
प्रकाशिका
जलज्ञानमित्यादि।
जलज्ञानं प्रमा न वा इत्याकारकः। अनभ्यासदशायाम् -
प्राथमिकजलज्ञानग्रहोत्तरदशायाम्। अनुभवसिद्धः प्रमात्वसंशयो न
स्यादित्यर्थः। निश्चितत्वादिति। तद्वत्तानिश्चयस्य तदभाववत्ताज्ञानं
प्रति प्रतिबन्धकत्वादिति भावः। अत्र ऽज्ञातो घटऽ इति प्रतीतेः
ज्ञानविषयताविषयकत्वकल्पनेनैव निर्वाहे अतिरिक्तज्ञातता न

कल्पनीया गौरवात् मानाभावाच्च इति तन्निरसनप्रकारो
बोध्यः। तस्मादिति।
अनभ्यासदशायां संशयानुभवादित्यर्थः। एतस्य
स्वतोग्राह्यत्वाभावे ऽन्वयः। परतीग्राह्यत्वमिति। प्रामाण्यस्यानुमानादिति
एव ग्राह्यत्वमित्यर्थः। प्रवृत्तौ सत्यामिति।
एतेन
मीमांसकैरभ्युपगतायां प्रामाण्यनिश्चयस्य प्रवृत्तिहेतुतायां
व्यभिचारो दर्शितः। न च निष्कम्पप्रवृत्तावेव प्रामण्यनिश्चस्य
हेतुता, सकम्पप्रवृत्तौ तु प्रमाण्यसंशयस्य, निष्कम्पत्वं सकम्पत्वं च
विषयिताविशेषः एवं च तत्र सकम्पप्रवृत्त्यङ्गीकारे ऽपि
प्रामाण्यनिश्चयस्य हेतुतायां कथं व्यभिचार इति वाच्यम्, तथापि
यत्र प्रामाण्यस्याप्रामाण्यस्य वा ज्ञानं नासीत्, आसीच्च
केवलजलादिज्ञानं तत्र प्रवृत्तिप्रदर्शनेन प्रामाण्यसंशयहेतुतायां
व्यभिचारस्य दुर्वारत्वात्। न चैवं जलादिज्ञाने अप्रामाण्यनिश्चकाले
प्रवृत्तिःस्यादिति शङ्कनीयम्। अगृहीताप्रामाण्यकजलादिज्ञानत्वेन,
तद्धेतुतास्वीकारेण अदोषादिति सङ्क्षेपः। जललाभे सतीति।
एतावता वक्ष्यमाणस्य प्रामाण्यव्यवस्थापकहेतोः स्वरूपासिद्धिशङ्का
निराकृता। इदानीं पक्षस्यासत्त्वादाह - पूर्वोत्पन्नमिति। समर्थेति।
तद्वद्विशेष्यकतत्प्रकारकेत्यर्थः। अन्वय्युदाहरणासम्भवात्
व्यतिरेक्युदाहरणं सदृष्टान्तमाह - यन्नैवं तन्नैवमिति। यदप्रमा
तत्समर्थप्रवृत्यजनकमित्यर्थः। व्यतिरेकिणा - व्यतिरेकव्याप्तिमता।
निश्चीयते - अनुमीयते। द्वितीयादिज्ञानेषु - द्वितीयादिजलज्ञानेषु।
तत्सजातीयत्वलिङ्गेन - पूर्वज्ञानसजातीयत्वरूपलिङ्गेन।
समर्थप्रवृत्तिजनकत्वेनेति यावत्। गृह्यत इति। प्रामाण्यमनुमीयत
इत्यर्थः।
बालप्रिया
प्राथमिकजलज्ञानग्रहोत्तरदशायामिति। प्राथमिकं यत्
जलज्ञानं तद्विषयको यो ग्रहः जलमहं
जानामीत्याकारकः
तदुत्तरकाले इत्यर्थः। तथा च प्राथमिकजलज्ञानग्रहे यदि
जलज्ञाननिष्ठं प्रमात्वमपि गृहीतं तर्हि
जलज्ञानं प्रमा न वेति
जलज्ञानधर्मिकप्रमात्वसंशयो न स्यात्,
जलज्ञानधर्मिकप्रमात्वनिश्चयात्मकप्रतिबनधकसत्वादिति भावः। जातु
जलाशये जलमालोक्य तत्र विहितस्नानपानादेः पुंसः परदिने
मध्याह्ने दूरात् तत्र यज्जलदर्शनं तत् द्वितीयं जलज्ञानं
अभ्यासदशापन्नमित्युच्यते। तस्य
गृहीतप्रामाण्यकपूर्वज्ञानसजातीयत्वानुसन्धानेन इदं ज्ञानं प्रमा
न वा इति संशयस्य न प्रसक्तिरिति पर्यालोच्य
प्राथमिकजलज्ञानग्रहोत्तरमित्युक्तम्। तदभाववत्ताज्ञानं।

प्रमात्वसंशये प्रमात्वाभावकोटेरपि भानेन तदंशज्ञानं प्रति
प्रमात्वनिश्चयस्य प्रतिबन्धकत्वादित्यर्थः। तन्निरसनप्रकार इति।
ज्ञाततानिरासप्रकार इत्यर्थः।
एतेनेति।
प्राथमिकजलज्ञानानन्तरमेव प्रवृत्तिरिति कथनेनेत्यर्थः।
मीमांसकैरभ्युपगतायामिति। कस्मिंश्चित् विषये ज्ञाते सति जाते
ज्ञाने प्रामाण्यनिश्चयं विना विषये प्रवृत्तिः न भवतीति
तद्विषयकप्रवृत्तिं प्रति
तद्विषयकज्ञानधर्मिकप्रामाण्यनिश्चयः कारणमिति मीमांसकाः
वदन्ति। तन्न युक्तम्। जलज्ञानानन्तरं इदं ज्ञानं प्रमा
इत्याकारकजलज्ञानधर्मिकप्रामाण्यनिश्चयं विनापि प्रवृत्तेरूत्पत्त्या
व्यतिरेकव्यभिचारादिति। भावः। न च निष्कम्पेति। प्रवृत्तिर्द्विविधा -
निष्कम्पा सकम्पा चेति। उत्कटा प्रवृत्तिः निष्कम्पा, अनुत्कटा प्रवृत्तिः
सकम्पा। उत्कटत्वानुत्कटत्वे प्रवृत्तिगतौ विषयिताविशेषौ। तत्र
तद्विषयिणीं उत्कटप्रवृत्ति प्रति तद्विषयकज्ञाने प्रामाण्यनिश्चयः
कारणम्, तद्विषयकानुत्कटप्रवृत्तिं प्रति तु प्रामाण्यसंशयः कारणम्।
प्रामाण्यनिश्चयस्य निष्कम्पप्रवृत्तित्वं कार्यतावच्छेदकम्,
प्रामाण्यसंशयस्य सकम्पप्रवृत्तित्वं कार्यतावच्छेदकम्। यत्र
जलज्ञानानन्तरं तत्र प्रामाण्यनिश्चयं विनापि प्रवृत्तिः जायते तत्र सा
प्रवृत्तिः सकम्पेत्यङ्गीक्रियते। तस्यां च
निष्कम्पप्रवृत्तित्वरूपकार्यतावच्छेदकविरहात् प्रामाण्यनिश्चयं विना
निष्कम्पप्रवृत्तित्वावच्छिन्नस्यानुपत्त्या न व्यतिरेकव्यभिचार इति
प्रामाण्यनिश्चयस्य प्रवृत्तिहेतुत्वं निर्बाधमिति शङ्कितुराशयः।
तथापीति। यत्र प्रामाण्यस्य अप्रामाण्यस्य वा संशयो वा निश्चयो वा
नाभूत् जलज्ञानं परमभूत् तत्रापि प्रवृत्तेर्दर्शनेनसकम्पायाः
तादृशप्रवृत्तेः प्रामाण्यसंशयं विनाप्युत्पत्या व्यतिरेकव्यभिचारात्
प्रामाण्यसंशयस्य प्रवृत्तिहेतुता न भवतीति समाधातुराशयः। न
चैवमिति। प्रामाण्यनिश्चयस्य वा प्रामाण्यसंशयस्य वा प्रवृत्तिं प्रति
हेतुत्वानङ्गीकारे यत्र जलज्ञाने अप्रामाण्यनिश्चयः तत्काले।पि
प्रवृत्तिः स्यात्, प्रवृत्तिहेतोः जलज्ञानस्य सत्वादित्यर्थः।
अगृहीतेति। अप्रामाण्यज्ञानाभावविशिष्टजलादिज्ञानमेव
जलादिविषयकप्रवृत्तिहेतुरित्यङ्गीकारात् जलादिज्ञाने
अप्रामाण्यज्ञानकाले अप्रामाण्यज्ञानविशिष्टजलादिज्ञानमेवास्तीति न
प्रवृत्यापत्तिः, अप्रामाण्यज्ञानाभावविशिष्टजलज्ञानरूपस्य
प्रवृत्तिहेतोरभावादिति भावः।
ननु
बहुवित्तव्ययायाससाध्येषु वैदिकेषु व्यवहारेषु प्रामाण्यनिश्चयं
विना निष्कम्पप्रवृत्तिर्न दृश्यत इति
प्रामाण्यग्रहविशिष्टार्थनिश्चयस्यैव प्रवृत्तिहेतुत्वम्। युक्तं
चैतत्-अप्रामाण्यज्ञानाभावविशिष्टार्थनिश्चयस्य प्रवृत्तिहेतुत्वे

तच्छरीरे तदभाववति तत्प्रकारकत्वरूपस्य तद्वति
तत्प्रकारत्वाभावरूपस्य चाप्रामाण्यस्य निवेशापेक्षया
प्रामाण्यग्रहविशिष्टत्वनिवेशे लाघवादित्याशङ्क्याह - सङ्क्षेप
इति। प्रामाण्यग्रहस्य कथञ्चित् प्रवृत्त्युपयोगित्वे ऽपि परतः
प्रामाण्यग्रहसंभवात् स्वत एव प्रामाण्यग्रह इति
नाभिनिवेष्टव्यमिति भावः।
एतावतेति। जललाभे
सतीति कथनेनेत्यर्थः। वक्ष्यमाणस्य प्रामाण्यव्यवस्थापकहेतोरिति।
प्रामाण्यसाधकस्य
समर्थप्रवृत्तिजनकत्वरूपहेतोरित्यर्थः। स्वरूपासिद्धिशङ्का -
पक्षावृत्तित्वशङ्का। प्रवृत्तेः सामर्थ्यं हि जललाभेनैव। तथा च
जललाभकथनेन जलज्ञाने समर्थप्रवृत्तिजनकत्वरूपहेतुरस्तीति
सूचितमिति भावः। इदानीमिति। प्रामाण्यानुमितिसमय इत्यर्थः।
पूर्वज्ञानसजातीयत्वेति।
गृहीतप्रामाण्यकपूर्वज्ञानसजातीयत्वलिङ्गेनेत्यर्थः।
द्वितीयादिज्ञानस्य पूर्वज्ञानसजातीयत्वं च
सफलप्रवृत्तिजनकत्वरूपेण। तथा च सफलप्रवृत्तिजनकत्वमेव हेतुः,
पूर्वज्ञानमन्वयदृष्टान्त इति सूचनाय पूर्वज्ञानसजातीयेत्युक्तम्।
अनुमानप्रयोगस्तु - द्वितीयादिजलज्ञानं प्रमा
समर्थप्रवृत्तिजनकत्वात् यत् समर्थप्रवृत्तिजनकम् तत्प्रमा यथा
प्राथमिकजलज्ञानमिति।
अत्रेदं तत्त्वम्-अयं घट
इति ज्ञानानन्तरं इमं घटं जानामि, इमं घटत्वेन जानामि
इत्यनव्यवसायो भवति, न तु घटं घटत्वेन जानामीति। प्रमात्वं
तु न केवलं धर्मिविशेष्यकत्वविशिष्टघटत्वप्रकारकत्वम्, तस्य
प्रमाभ्रमोभयनिष्ठत्वात्। किं तु
घटत्ववद्विशेष्यकत्वविशिष्टघटत्वप्रकारकत्वम्। इदं च
नानुव्यवसाये भासते। तत्र घटत्वविशिष्टनिष्ठतया विशेष्यताया
अग्रहणात्। व्यवसाये इदन्त्वेनैव घटस्य विशेष्यत्वात्
घटत्वविशिष्टत्वेन घटस्य विशेष्यत्वाभावात्
घटत्वविशिष्टनिष्ठतया विशेष्यतायाः अनुव्यवसायने
ग्रहणासंभवात्। अतः प्रामाण्यं न स्वतोग्राह्यमिति नैयायिकानामाशयः
इति केचित्।"तथाप्यनुव्यवसायानन्तरं व्यवसायस्य
प्रामाण्ये अर्थस्य तद्वत्त्वे च संशयस्यानुभवसिद्धत्वात् नार्थतद्वत्त्वं
तद्बिषयः"इति मणिग्रन्थः तेषरमनुकूलः।
दीधितिकारा अपि-"प्रामाण्यस्य संशयान्यथानुपपत्त्या तद्धर्मविशिष्टे
तत्प्रकारकत्वस्य ग्राहकत्वे ऽनुव्यवसायस्यासामथर्यं कल्प्यते। तेन
पुरोवर्त्तिनि रजतत्वप्रकारकमिति ग्रहे ऽपि पुरोवर्तिनि रजते
रजतत्वप्रकारकमिति न ग्रहः"इति प्राहुः।
गदाधरभट्टाचार्यास्तु -"तद्वद्विशेश्यकत्वतत्प्रकारकत्वयोरवच्छेद्यावच्छेदकभावग्रहेण

प्रामाण्यसंशयस्य तदधीनस्यार्थतद्वत्त्वसंशयस्य चोपपत्तेः
अर्थतद्वत्त्वाविषयकत्वे निर्भरो नोचित"इत्याहुः1।
दीपिका
प्रामाण्योत्पत्तिपरतस्त्त्वनिरूपणम्
प्रमाया
गुणजन्यत्वमुत्पतौ परतस्त्वम्। प्रमासाधारणकारण गुणः,
अप्रमासाधारणकारणं दोषः। तत्र प्रत्यक्षे विशेषणवद्विशेष्यसन्निकर्षो
गुणः। अनुमितौ व्यापकवति व्याप्यज्ञानम्। उपमितौ
यथार्थसादृश्यज्ञानम्। शाब्दज्ञाने यथार्थयोग्यताज्ञानम्
इत्याद्यूहनीयम्।
1. इत्याहुरिति।
ज्ञाने गृहीते ऽपि ज्ञाने प्रामाण्यस्य संशयो भवतीति तदनुरोधेन
प्रामाण्यघटकः कश्चिदंशः ज्ञानज्ञाने न भासत इति वक्तव्यम्। स
चांशः पुरोवर्तिनि घटत्ववत्त्वरूप इति दीधितिकारादयः।
घटत्ववद्विशेष्यकत्वघटत्वप्रकारकत्वयोरवच्छेद्यावच्छेदकभावरूपः स
इति गदाधरभट्टाचार्थ इति विवेकः।
प्रकाशिका
एवं ज्ञप्तौ
परतस्त्वं व्यवस्थाप्य उत्पत्तौ परतस्त्वं निरूपयति प्रमाया इति।
प्रमासाधारणकारणमिति।
प्रमात्वाधिकदेशवृत्तिधर्मानवच्छिन्नप्रमानिष्ठकार्यतानिरूपितकारणताशालीत्यर्थः।
तेन ज्ञानमात्रहेतुभूतात्ममनस्संयोगादेः
भ्रमजनकपित्तादिदोषाणां च व्युदासः।
अप्रमासाधारणकारणत्वमप्येवं परिष्कर्तव्यम्। चतुर्विधप्रमायां
हेतुभूतं गुणं क्रमेणोपपादयति तत्रेति। चतुर्विधप्रमामध्य
इत्यर्थः। इत्याद्यूहनीयमिति। ऽपीतः शङ्खःऽ इत्यादिभ्रमे
पित्तादिदोषः, इदं रजतमित्यादिभ्रमे च चाकचक्यादिः इति
ऊहनीयमित्यर्थः।
बालप्रिया
प्रमात्वाधिकदेशवृत्तीति। प्रमात्वव्यापकधर्मानवच्छिन्ना या
प्रमानिष्ठा कार्यता तन्निरूपितकारणत्वं प्रमात्वप्रयोजकस्य गुणस्य
लक्षणमित्यर्थः। प्रमानिष्ठकार्यतानिरूपितकारणत्वमात्रोक्तौ
ज्ञानसामान्यं प्रति हेतुभूते आत्ममनस्संयोगादावतिव्याप्तिः।
तद्वारणाय कार्यतायां
प्रमात्वाधिकदेशवृत्तिधर्मानवच्छिन्नत्वनिवेशः। आत्ममनस्संयोगादौ
तु प्रमात्वाधिकदेशवृत्तिः यो धर्मः ज्ञानत्वं
तदवच्छिन्नकार्यन्तानिरूपितकारणत्वमेवास्ति, न
तदनवच्छिन्नकार्यतानिरूपितकारणत्वमिति नातिव्याप्तिः।
भ्रमासाधारणकारणेषु पित्तादिदोषेषु
प्रमात्वव्यापकज्ञानत्वाद्यनवच्छिन्नकार्यतानिरूपितकारणत्वसत्त्वात्

मूल पाठ: Tarkasaṃgraha with autoentary (Dīpikā), Nīlakaṇṭha's Dīpikāprakāśikā and Bālapriyā · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc