तर्कसंग्रह (टीका सहित) · भाग 241260
वाच्यार्थस्याप्यन्वयः तत्र अजहदिति। यथा छत्रिणो गच्छन्तीति। यत्र
वाच्यैकदेशत्यागेन
एकदेशान्वयः तत्र जहदजहदिति। यथा तत्त्वमसीति।
प्रकाशिका
तीरे ऽपि शक्तिर्न
कल्प्यत इति। गङ्गापदस्येति शेषः। ननु एवं सैन्धवादिपदानां
नानार्थकत्वानुपपत्तिः, एकत्र शक्तिः अन्यत्र लक्षणेत्येव निर्वाहादत
आह - सैन्धवादाविति। आदिना हर्यादिपरिग्रहः। सम्बन्धाभावादिति।
संयोगादिरूपसम्बन्धाभावादित्यर्थः।
इदमुपलक्षणम्-प्रसिद्धयोरर्थयोः कुत्र लक्षणेत्यत्र
विनिगमकाभावेन उभयत्र शक्तिकल्पनस्यावश्यकतेति।
मञ्चा इति। मञ्चपदं
मञ्चस्थपुरुषे लाक्षणिकम्। वाच्यार्यस्य
क्रोशनकर्तृत्वान्वयाभावादित्यर्थः। वाच्यार्थस्यापीति। अपिना
लक्ष्यसमुच्चयः। छत्रिण इति। एकसार्थवाहित्वेन छत्र्यच्छत्रिषु
गमनकर्तृत्वान्वयः। तात्पर्यानुपपत्तिरेव लक्षणाबीजम्। न च
छत्रीत्यस्य मतुबर्थकेनिप्रत्ययान्तस्य पदसमूहरूपत्वेन
तच्छक्याप्रसिद्ध्या तत्सम्बन्धरूपलक्षणाया अभावेन
कथमिदमुदाहरणमिति वाच्यम्। ऽप्रतिपाद्यसम्बन्ध एव लक्षणाऽ
इत्येतदभिप्रायेण तदुदाहरणदानात्। अन्यथा ऽकाकेभ्यो दधि
रक्ष्यताम्ऽ इत्याद्युदाहर्तव्यम्। तत्र काकपदस्य
काकतदितरसाधारणदध्युपवातकत्वावच्छिन्नपरत्वात्।
केचित्तु - छत्रपदस्य
एकसार्थे लक्षणा। तद्धितार्थः सम्बन्धी। तथा चैकसार्थंसम्बन्धिनो
गच्छन्तीत्यन्वयबोधः इत्याहुः।
तत्त्वमसीति।
तत्पदवाच्ये सर्वज्ञत्वादिविशिष्टे
त्वंपदवाच्यस्यान्तः-करणादिविशिष्टस्याभेदान्वयानुपपत्त्या उभयत्र
विशेषणांशपरित्यागः। तथा च तत्पदलक्ष्यस्य शुद्धस्य त्वंपदलक्ष्येण
सह अभेदान्वयोपपत्तिरित्यभिप्रायः। इदमुदाहरणं तु
जीवब्रह्मणोरैक्यं ब्रुवतां ब्रह्मवादिनां मताभिप्रायेण। नैयायिकमते
तस्यासंमतत्वात्। नैयायिकमतरीत्या तु ऽसायम् देवदत्तऽ
इत्यादौ तत्तांशस्य इदानीमसम्भवाद्धानम्, इदन्त्वांशस्य
सम्भवादहानमिति जहदजहल्लक्षणामाचक्षते।
परे तु - ऽघटो
नित्यःऽ इत्यादौ घटत्वस्येव ऽसो ऽयम् देवदत्तऽ इत्यादौ
तत्तांशस्योपलक्षणतया भाने न किञ्चित् बाधकमिति किं
जहदजहल्लक्षणयेति वदन्ति।
बालप्रिया
संयोगादिरूपसम्बन्धाभावादिति। तथा च
शक्यसम्बन्धरूपलक्षणाया असम्भवात् लवणाश्वयोरूभयोरेव
सैन्धवपदस्य शक्तिरित्यर्थः।
मञ्चस्थपुरुष इति।
मञ्चस्थशिशाविति युक्तम्, रोदनादिरूपक्रोशनकर्तृत्वस्य तत्रैव
स्वारसिकत्वादित्याहुः। वाच्यार्थस्येति। मञ्चपदशक्यार्थस्य मञ्चस्य
समभिव्याहृतक्रोशतिपदार्थक्रोशनकर्तृत्वान्वयविरहात्
अन्वयानुपपत्तिरूपलक्षणाबीजसत्त्वात् - मञ्चपदस्य मञ्चस्थे पुरुषे
लक्षणेति भावः। तथा च यादृशपदे
वाच्यार्थविशेष्यकेतरपदार्थान्वयविषयकशाब्दबोधजनकत्वं न
सम्भवति तत्र पदे जहल्लक्षणा, या लक्षणा वाच्यार्थं त्यजति सा
जहल्लक्षणा, जहती च सा लक्षणा चेति कर्मधारयात्। अथवा शक्यार्थं
जहतः त्यजतः पदस्य लक्षणा जहल्लक्षणेति षष्ठीतत्पुरुषः। यत्र
शक्यार्थो न परित्यज्यते शक्यार्थापरित्यागेन लक्ष्यार्थबोधः तत्र
अजहल्लक्षणा। ऽयथा छत्रिणो गच्छन्तिऽ इति। अत्र छत्रिपदस्य
छत्र्यच्छत्रिघटितसमुदाये लक्षणा। एकसार्थवाहित्वेनेति।
एकसमुदायघटकत्वेनेत्यर्थः। तृतीयायाः वैशिष्ट्यमर्थः। तस्य
छत्र्यच्छत्रिष्वन्वयः। छत्रिपदलक्ष्येषु एकसमुदायघटकत्वविशिष्टेषु
छत्र्यच्छत्रिषु गमनकर्तृत्वान्वय इति भावः।
नन्वन्वयानुपपत्तिर्न
लक्षणाया बीजम्। ऽयष्टीः प्रवेशयऽ इत्यादौ यष्टिपदवाच्यानां
यष्टीनामपि
प्रवेशनकर्मत्वान्वयसम्भवेनान्वयानुपपत्तिरूपबीजाभावात्
यष्टिपदस्य यष्टिधरे लक्षणाया अयोगादित्यत आह -
तात्पर्यानुपपत्तिरेव लक्षणाबीजमिति। यष्टिधरतात्पर्येणैव ऽयष्टीः
प्रवेशयऽ इति वाक्यप्रयोगात् लक्षणानङ्गीकारे
तादृशतात्पर्यं
नोपपद्येतेति लक्षणाबीजं तत्राप्यस्तीति भावः।
एककारेणान्वयानुपपत्तिव्यवच्छेदः।
ननु तार्किकमते शक्तं
पदमिति पदलक्षणात् छत्रिन् इति वाक्यमेव। छत्रपदस्य छत्रे
शक्तत्वात् इनिप्रत्ययस्य सम्बन्धे शक्तत्वात्
प्रकृतिप्रत्ययरूपपदद्वयसमूहरूपत्वात् छत्रिपदस्य। वाक्ये च
शक्त्यभावात् वाक्यशक्यार्थाप्रसिद्ध्या शक्यसम्बन्धरूपा लक्षणा न
सम्भवति। तथा च छत्रिन्नित्यस्य अजहल्लक्षणोदाहरणत्वं न सम्भवतीति
शङ्कते-न च छत्रीत्यस्येति। मतुबर्थकेति। सम्बन्धार्थकेत्यर्थः।
प्रतिपाद्यसम्बन्ध इति। बोध्यार्थसम्बन्ध
इत्यर्थः। तथा च
छत्रिन्निति वाक्यशक्यार्थाप्रसिद्धावपि तादृशवाक्यजन्यबोधविषयो
योर्ऽथः छत्रवानिति तत्सम्बन्धस्य समुदाये सत्त्वात् वाक्ये ऽपि
लक्षणोपपद्यत इति भावः। अन्यथेति। शक्यसम्बन्ध एव लक्षणेति
स्वीकार इत्यर्थः। काकतदितरेति। काकतदितरबिडालादिसाधारणं
यत् दधिनाशकत्वं तदवच्छिन्ने काकपदस्य लक्षणेत्यर्थः।
दधिनाशकत्वेन रूपेण काकस्यापि बोधात् अजहल्लक्षणात्वम्।
पदलक्षणयैव निर्वाहं
वदतां मतमाह - केचित्त्विति। एकसार्थ इति। एकसमुदायत्व
इत्यर्थः। छत्रिणो गच्छन्तीत्यस्य एकसमुदायत्वववन्तो
गच्छन्तीत्यर्थः। समुदायत्वं चापेक्षाबुद्धिविशेषविषयत्वम्। अथ वा
छत्रपदस्य एकसमुदायोर्ऽथः, इनि प्रत्ययस्य
घटकत्वरूपसम्बन्धविशिष्टोर्ऽथः। आहुः इत्यस्वरसोद्भावनम्।
तद्बीजं तु छत्रपदस्य छत्रिघटितसमुदायत्वार्थकत्वे
छत्रपदजन्यशाब्दबोधे छत्रपदमुख्यार्थस्श्य छत्रस्य मुख्यविशेष्यतया
भानाभावात् अत्रत्यलक्षणाया अजहत्स्वार्थत्वानुपपत्तिरिति।
अत्र तत्पदवाच्य
इत्यादि। तत्त्वमसीत्यत्र तत्पदस्य सर्वज्ञत्वादिविशिष्टचैतन्यं
वाच्योर्ऽथः। त्वंपदस्य अन्तःकरणविशिष्टचैतन्यं वाच्योर्ऽथः।
समानविभक्तेरभेदोर्ऽथः। स च विशिष्टयोर्बाधितः। अतः
वाच्यार्थैकदेशयोः सर्वज्ञत्व-अन्तःकरणरूपविशेषणयोः त्यागेन
चैतन्यमात्रं द्वाभ्यां पदाभ्यां लक्ष्यते। सो ऽयं देवदत्त
इत्यादाविति। तत्पदस्य तद्देशतत्कालवृत्तित्वविशिष्टोर्ऽथः।
इदंपदस्य एतद्देशैतत्कालविशिष्टोर्ऽथंः। विशिष्टयोरैक्यं च
बाधितम्। अतः तत्पदशक्यार्थविशिष्टैकदेशस्य
तत्तद्देशतत्तत्कालवृत्तित्वरूपविशेषणस्य त्यागेन विशेष्ये देवदत्ते
तत्पदस्य लक्षणा। एवं च यत्र विशेषणस्य शक्यैकदेशस्य त्यागेन
विशेष्यस्य शक्यैकदेशस्य बोधस्तत्र जहदजहल्लक्षणेत्युक्तं भवति।
परे त्विति। यथा
घटो ऽनित्य इत्यत्र घटत्वविशिष्टे अनित्यत्वविशिष्टाभेदो न
सम्भवति, घटत्वे ऽनित्यत्वाभावादिति
घटत्वोपलक्षिते ऽनित्यत्वान्वयस्वीकारेणोपपत्तिः, तथा सो ऽयं
देवदत्त इत्यादावपि तत्तोपलक्षिते इदन्त्वान्वयेनोपपत्त्या
जहदजहल्लक्षणा मास्त्विति भावः।
दीपिका
गौणीव्यञ्जनयोर्वृत्यन्तरत्वखण्डनम्
गौण्यपि लक्षणैव
लक्ष्यमाणगुणसम्बन्धस्वरूपा। यथा अग्निर्माणवक इति। व्यञ्जनापि
शक्तिलक्षणान्तर्भूता, शब्दशक्तिमूला, अर्थशक्तिमूला च अनुमानादिना
अन्यथासिद्धा।
प्रकाशिका
गौण्या
वृत्त्यन्तरत्वं निराचष्टे - गौण्यपीति। ननु ऽगङ्गायां घोषऽ
इत्यत्र तीरे शक्यस्य प्रवाहस्येव ऽअग्निर्माणवकऽ इत्यादौ
माणवके शक्यस्य अग्नेः साक्षात्सम्बन्धो न संभवति इति कथं
लक्षणया निर्वाह इत्यत आह - लक्ष्यमाणेति। लक्ष्यमाणो यो गुणः
शुचित्वादिः तत्सम्बन्धरूपां इत्यर्थः। अयमभिप्रायः - शक्यसम्बन्धो
हि लक्षणा। स च क्वचित्साक्षात्सम्बन्धः, क्वचित्परम्परासम्बन्धः। एवं च
शक्यस्याग्नेः स्वनिष्ठशुचित्ववत्त्वसम्बन्ध एव लक्षणेति।
आलङ्कारिकाः
पुनरेवमाहुः - ऽतीरे घोषऽ इति शब्दप्रयोगे स्वायत्ते
ऽगङ्गायां घोषःऽ इत्यनन्विताभिधानं
शैत्यपावनत्वादिप्रतीत्यर्थम्। न च सा प्रतीतिर्लक्षणया उपपद्यते
केवलतीरलक्षणयैव अन्वयानुपपत्तिपरिहारे
शैत्यपावनत्वादिविशिष्टलक्षणायां मानाभावात्। तस्मात्
व्यञ्जनावृत्तिरङ्गीकर्तव्येति। तन्मतं निरस्यति -
व्यञ्जनापीति।
शक्तिलक्षणान्तर्भूतेति। अयम्भावः - नानार्थकस्थले ऽदूरस्था भूधरा
रम्याःऽ इत्यादौ भूधरशब्देन पर्वतानामिव राज्ञामपि शक्त्यैव
प्रतीतिः सम्भवति। ऽगङ्गायां घोषऽ इत्यादौ तु
शैत्यपावनत्वादिविशिष्टतीरप्रतीतिरपि लक्षणासाम्राज्यादेव। तत्र
लक्षणाकल्पिकायाः तात्पर्यानुपपत्तेरेव सद्भावात्
किं व्यञ्जनयेति।
ननु शब्दशक्तिमूलाया
व्यञ्जनाया अन्यथासिद्धत्वे ऽपि अर्थशक्तिमूलायास्तस्या नान्यथासिद्धिः।
तथा हि -
"गच्छ गच्छसि चेत्कान्त पन्थानः सन्तु ते
शिवाः।
ममापि जन्म तत्रैव
भूयात् यत्र गतो भवान्॥"
इत्यादौ ऽहे प्रिय
तव गमनोत्तरं मम प्राणनाशो भविष्यति। अतो न गन्तव्यम्ऽ
इत्याद्यर्थो व्यज्यते। न ह्यत्र शक्तिलक्षणाभ्यां निर्वाहः। इत्थं च
व्यञ्जनाया आवश्यकतेत्यत आह - अर्थशक्तिमूला चेति। चस्त्वर्थः।
अनुमानादिनेति। अनुमानप्रयोगस्तु - ऽइयं
मदीयगमनोत्तरकालिकप्राणवियोगवती विलक्षणशब्दप्रयोक्तृत्वात्ऽ
इत्यादिरूपः। आदिना संभावनादि परिग्रहः।
उत्कटैकतरकोटिकसंशयस्सम्भावना। औत्कट्यं च विषयताविशेषः।
यदि पुनरानुभविको लोकानां स्वरसवाही ऽशब्दात् अमुमर्थं
प्रत्येमिऽ इत्यनुभवः तदा वैयञ्जनिकी प्रतीतिः
गीर्वाणगुरुणाप्यशक्यवारणेति व्यञ्जनासिद्धि निष्प्रत्यूहैवेति
मन्तव्यम्।
बालप्रिया
लक्ष्यमाणो यो
गुण इत्यादि। लक्ष्यमाणः शक्यार्थवृत्तिर्यो गुणः
तत्सजातीयगुणवत्त्वं गौणीवृत्तिरित्यर्थः। अग्निर्माणवक इत्यत्र
अग्निपदशक्यार्थवह्निवृत्तिर्यो गुणः शुचित्वं
तत्सजातीयशुचित्ववान् माणवक इति बोधः। नन्वेतादृश्याः
गौण्या वृत्तेः कथं शक्यसम्बन्धरूपलक्षणायामन्तर्भाव इत्यत्राह -
अयमभिप्राय इति। शक्यार्थप्रतियोगिकः सम्बन्धो लक्षणा। सम्बन्धश्च
साक्षात्परम्परासाधारणः। गङ्गायां घोष इत्यादौ
गङ्गापदशक्यार्थस्य संयोगरूपः साक्षात्सम्बन्धस्तीरे ऽस्ति।
अग्निर्माणवक इत्यत्र तु शक्यार्थस्याग्नेः
स्ववृत्तिगुणसजातीयगुणवत्त्वरूपः परम्परासम्बन्धः माणवके ऽस्ति।
उभयोरपि सम्बन्धयोर्लक्षणात्वमेवेति भावः।
व्यञ्जनाख्यामतिरिक्तां
वृत्तिं वदतामालङ्कारिकाणां मतमनुवदति - आलङ्कारिकाः
पुनरिति। यदि ऽगङ्गायां घोषऽ इत्यादौ तीरवृत्तिर्घोष
इत्याकारकबोधो विवक्षितः, तर्हि तीरवाचकं शब्दमेव प्रयुञ्जीत
तीरे घोष इति। घोषानन्वितार्थवाचकं गङ्गापदं च प्रयुञ्जीत।
अतो ऽत्र शक्यार्थवृत्तिशैत्यपावनत्वादिरूपोर्ऽथो ऽपि घोषे विवक्षितः।
स च ऽतीरे घोषऽ इत्यतो न बुध्येत। गङ्गापदप्रयोगे तु
तत्सामर्थ्यात् गङ्गाप्रवाहगतशैत्यपावनत्वादिर्व्यज्यत इति वक्तुं
शक्यते। न च गङ्गापदस्यैव शैत्यपावनत्वादिविशिष्टतीरे
लक्षणास्तु, तथा च लक्षणयैव शैत्यपावनत्वादिप्रतीत्युपपत्तेः
व्यञ्जनया न प्रयोजनमिति वाच्यम्। अन्वयानुपपत्तिर्हि लक्षणाबीजम्।
सा च तीरलक्षणयैव परिहर्तुं शक्येति शैत्यपावनत्वादिलक्षणायां
प्रमाणाभावात्। तस्मात् व्यञ्जनाख्या अतिरिक्ता वृत्तिः स्वीकरणीया,
या शक्तिलक्षणाभ्यामनवगम्यमर्थं प्रत्याययतीत्यालङ्कारिकाणां
भावः।
अयं भाव इत्यादि।
ऽदूरस्थो भूधरो रम्यऽ इत्यत्र भूधरशब्दवाच्यस्य पर्वतस्य
दूरस्थितस्य रम्यत्वं प्रकृतोर्ऽथः। अस्थिरचित्तत्वात् राजानो ऽपि
दूरस्था एव रम्या इत्यप्रकृतोर्ऽथो ऽप्यत्र प्रतीयते। सा च प्रतीतिः
भूधरशब्दशक्तिमूला। तथा च नानार्थस्थले अर्थप्रकरणादिना
निवारितस्याप्रकृतार्थस्य प्रतीतिः यद्बलात् भवति सा
शब्दशक्तिमूलाव्यञ्जना इत्यालङ्कारिकाः। तत्र भूधरशब्देन
पर्वतानामिव राज्ञामपि शब्दशक्त्यैव प्रतीतिसम्भवात् नास्ति
व्यञ्जनायाः
आवश्यकतेति
नैयायिकाः। एवं गङ्गायां घोष इत्यादौ गङ्गापदस्य
शैत्यपावनत्वादिविशिष्टतीरे लक्षणाङ्गीकारेणैव
शैत्यादिप्रतीतिरुपपद्यते। यद्यप्यत्रान्वयानुपपत्तिर्नास्ति, तथापि
तात्पर्यानुपपत्तिरस्ति, शैत्यपावनत्वादिबोधतात्पर्येणैव तीरपदं
परित्यज्य गङ्गापदप्रयोगात् तस्य तात्पर्यस्य लक्षणां
विनानुपपत्तेः। तात्पर्यानुपपत्तिरेव लक्षणाबीजम्
नान्वयानुपपत्तिरिति पूर्वमेवोक्तं वक्ष्यति च दीपिकायाम्। तथा च
कृतं व्यञ्जनयेति भावः।
शङ्कते - नन्विति।
अन्यथासिद्धत्वे ऽपि - शक्त्या लक्षणया वा गतार्थत्वे ऽपि। अर्थसामर्थ्यात्
यत्रार्थान्तरं प्रतीयते तत्रार्थशक्तिमूला व्यञ्जना। यथा ऽगच्छ गच्छसि
चेत्ऽ इत्यत्र भर्ता यत्र गच्छति तत्र देशे नायिकायाः जन्मकथनेन
जन्मनश्च मरणानन्तरकालिकत्वेन जन्मरूपपदार्थसामर्थ्यात्
प्रवासोत्तरकालिकमरणरूपोर्ऽथो ऽभिव्यज्यते। तेन च गमनाभावो
व्यज्यते। अस्यार्थस्य पदवृत्त्या शक्त्या लक्षणया वा प्रतीत्यसम्भवात्
व्यञ्जनाख्या वृत्तिः स्वीकार्येत्याशयः शङ्कितुः। शिष्टं स्पष्टम्।
दीपिका
लक्षणाबीजनिरूपणम्
तात्पर्यानुपपत्तिः
लक्षणाबीजम्। तत्प्रतीतीच्छयोच्चरितत्वं तात्पर्यम्। तात्पर्यज्ञानं च
वाक्यार्थज्ञाने हेतुः नानार्थानु रोधात्। प्रकरणादिकं
तात्पर्यग्राहकम्।
प्रकाशिका
अन्वयानुपपत्तेः
लक्षणाबीजत्वे यष्टीः प्रवेशय इत्यादौ लक्षणानुपपत्तिः।
तात्पर्यानुपपत्तेः तथात्वे तु तस्यास्तत्रापि सत्त्वेन यष्टिपदस्य
यष्टिधरे लक्षणा सम्भवतीत्याशयेनाह - तात्पर्यानुपपत्तिरिति।
तत्प्रतीतीति। तीरादिरूपार्थप्रतीतीत्यर्थः। नानार्थेति।
ऽसैन्धवमानयऽ इत्यादिनानार्थकस्थले सैन्धवपदस्य अश्वे लवणे च
शक्तेः तुल्यतया शाब्दबोधे तात्पर्यग्रहस्य कारणत्वमन्तरा
नियतकाले तत्तद्बोधोपपत्तिः नास्तीति तत्र
तत्कारणत्वस्यावश्यकत्वे तदनुरोधेन सर्वत्र तदावश्यकतेति भावः।
न चं मौनिश्लोकादौ शाब्दबोधानुपपत्तिः। तत्र निरुक्ततात्पर्यस्य
असत्त्वादिति वाच्यम्, तात्पर्यस्य तत्प्रतीतीच्छारूपत्वपर्यवसानेन तत्र
तादृशतात्पर्यस्य सत्त्वेनादोषात्। न च तथापि
तत्प्रतीतीच्छारहितशुकाद्युच्चरितवाक्यादपि
शाब्दबोधस्यानुभविकतया तत्रानुपपत्तेः परिहारासम्भव इति
शङ्क्यम्। तत्रेश्वरेच्छामादायैवानुपपत्तेः परिहारसम्भवात् इति
शङ्क्यम्। तत्रेश्वरेच्छामादायैवानुपपत्तेः परिहारसम्भवात्
परिहारसम्भवात् इत्यलमधिकजल्पनेन। प्रकरणादिकमिति। आदिना
ऽसशङ्खचक्रो हरिः पूज्यःऽ इत्यादौ हरिशब्दस्य भगवति
तात्पर्यनिर्णायकस्य ऽसशङ्खचक्रऽ इति विशेषणादेः परिग्रहः।
कथं प्रकरणादेः तात्पर्यग्राहकत्वमिति चेत् - इत्थम्। ऽइदं
सैन्धवपदं लवणबोधेच्छया उच्चरितम् भोजनप्रकरणे उक्तत्वात्ऽ
इति रीत्या गृहाण।
बालप्रिया
नियतकाल इति।
कदाचित् लवणविषयकः कदाचित् अश्वविषयक इत्येवं
कालव्यवस्थेत्यर्थः। तदनुरोधेनेति। नानार्थकस्थले शाब्दबोधे
तात्पर्यज्ञानस्य कारणत्वानुसारेणेत्यर्थः। तदावश्यकतेति।
तात्पर्यज्ञानस्यावश्वकतेत्यर्थः। ननु
तत्प्रतीतीच्छयोच्चरितत्वरूपतात्पर्यज्ञानस्य
शाब्दबोधहेतुत्वस्वीकारे मौनिकर्तृकेण वाक्यबोधकलिप्यादिना
यत्र शाब्दबोधस्तत्र तत्प्रतीतीच्छयोच्चरितत्वरूपतात्पर्याभावात्
तात्पर्यज्ञानमसम्भवीति शङ्कते - न च मौनिश्लोकादाविति।
मौनिकर्तृकवाक्यबोधकलिप्यादावित्यर्थः। निरूक्ततात्पर्यस्य -
तत्प्रतीतीच्छया उच्चरितत्वरूपतात्पर्यस्य। तात्पर्यं
तत्प्रतीतीच्छामात्रम्। तत्तु मौनिनामप्यस्ति। तज्ज्ञानाच्च लिप्यादितः
शाब्दबोध उपपद्यत इत्याशयेन समाधत्ते - तात्पर्यस्येति। ननु
तत्प्रतीतीच्छापि न तात्पर्यम्। शुकादेः तादृशेच्छाविरहे ऽपि
शुकाद्युच्चारितवाक्यात् शाब्दबोधस्यानुभवसिद्धत्वादित्याशङ्कते -
न च तथापीति। ईश्वरेच्छामिति। शुकोच्चारितादस्माद्वाक्यात्
एतादृशार्थबोधो भवतु इत्याकारकेश्वरेच्छैव तत्र तात्पर्यम्।
तज्ज्ञानाच्च शाब्दबोध इति भावः।
ननु
प्रमाजनकशुकवाक्यादौ ईश्वरेच्छायास्तात्पर्यत्वे ऽपि भ्रमजनके
ऽवह्निना सिञ्चतिऽ इत्यादिशुकवाक्ये ईश्वरेच्छायास्तात्पर्यत्वं न
सम्भवति, तथा सजीश्वरेच्छायाः विसंवादित्वापत्तेरित्यत्राह -
अलमधिकजल्पनेनेति। विसंवादिशुकवाक्ये शिक्षकस्येच्छैव
तात्पर्यम्, अतो न दोष इति भावः।
एकार्थवाचकशब्दघटितवाक्यात् शाब्दबोधो यत्र, तत्र
तात्पर्यज्ञानस्यानुपयोगे ऽपि नानार्थकसैन्धवादिपदघटितात्
ऽसैन्धवमानयऽ इत्यादिवाक्यात् कदाचिदश्वानयनबोधः
कदाचिल्लवणानयनबोधः इति व्यवस्थायाः तात्पर्यज्ञानेनैव
निर्वाहात् तात्पर्यज्ञानस्य शाब्दबोधहेतुत्वमावश्यकम्।
सैन्धवपदस्य अस्मिन्नर्थे तात्पर्यमिति ज्ञानं च प्रकरणादिना भवतीति
दीपिकायाम्
उक्तम्।
तत्रादिपदग्राह्यमाह - आदिनेति। प्रकरणं नाम
भोजनगमनादिप्रस्तावः। विशेषणादैः इत्यादिपदने
आभिमुख्यादिपरिग्रहः। भोजनप्रकरणे उक्तत्वादिति। यन्नैवं तन्नैवं
यथा प्रमाणप्रकरणे प्रयुक्तं सैन्धवपदमिति शेषः पूरणीयः। इति
रीत्येति। इत्यनुमानविधयेत्यर्थः।
दीपिका
अर्थाध्याहारखण्डनम्
ऽद्वारम्ऽ
इत्यादौ ऽपिधेहिऽ इति शब्दाध्याहारः। ननु अर्थज्ञानार्थत्वात्
शब्दस्यार्थमविज्ञाय
शब्दाध्याहारासम्भवात् अर्थाध्याहार एव युक्त इति चेत्-न।
पदविशेषजन्यपदार्थोपस्थितेः शाब्दज्ञाने हेतुत्वात्। अन्यथा ऽघटः
कर्मत्वमानयनं कृतिःऽ इत्यत्रापि शाब्दज्ञानप्रसङ्गात्।
प्रकाशिका
प्राभाकरमतं
निराकरिष्यमाणः स्वसिद्धान्तं दर्शयति - द्वारमिति।
अर्थज्ञानार्थत्वाच्छब्दस्येति। शब्दज्ञानस्य अर्थज्ञानफलकत्वादित्यर्थः।
एतावता प्रथमत एवार्थानुसन्धाने लाघवमिति सूचितम्। किं च ऽअर्थं
बुद्ध्वा शब्दरचनाऽ इति न्यायेनार्थज्ञानमन्तरा
आकाङ्क्षादिमच्छब्दानुसन्धानरूपशब्दाध्याहारस्यैवासम्भवेन प्रथमतः
अर्थान्ध्याहारस्यैवावश्यकतेत्याह-अर्थमविज्ञायेति।
यथाकथञ्चिदुपस्थितपदार्थानां शाब्दबोधानुदयेन
पदजन्यतत्वस्योपस्थितिविशेषणताया आवश्यकतया
तादृशोपस्थितिसम्पत्तये शब्दाध्याहार एव अनायत्त्या अनुसर्तव्य
इत्याह - पदविशेषेति। विशेषपदस्यापि प्रयोजनं दर्शयितुं
ऽघटः कर्मत्वम्ऽ इत्याद्यनुधावनम्। तत्र
कर्मत्वादिपदजन्यकर्मत्वाद्युपस्थितेः सत्त्वे ऽपि
घटपदोत्तराम्पदजन्यकर्मत्वाद्युपस्थितेरसत्त्वेन न सिद्धान्तिमते
शाब्दबोधप्रसङ्ग इति भावः। पदविशेषजन्येत्यत्र वृत्त्या
पदविशेषजन्येत्यपि बोध्यम्। तेन ऽघटमानयऽ इत्यादौ
घटादिपदादाकाशादेरुपस्थितावपि न शाब्दबोध इति दिक्।
बालप्रिया
अर्थज्ञानफलकत्वादिति।
शाब्दबोधात्मकार्थज्ञानहेतुत्वादित्यर्थः। इति न्यायेनेति। यथा
शब्दप्रयोगात्मकशब्दरचनां प्रति अर्थज्ञानं कारणम्, तथा
शब्दानुसन्धानरूपशब्दाध्याहारं प्रत्यपि अर्थज्ञानं कारणम्। ततश्च
शब्दाध्याहारात् पूर्वभाविना अर्थज्ञानात्मकेन अर्थाध्यहारेणैव
शाब्दबोधनिर्वोहे किं शब्दाध्याहारेणेति भावः। यथाकथञ्चिदिति।
शाब्दबोधं प्रति पदार्थस्मरणं कारणम्। पदार्थस्मरणे
पदज्ञानजन्यत्वं विशेषणं देयम्। अन्यथा यत्र पदात् न
पदार्थस्मरणम्, अपि तूद्बोधकादिना,
तत्रोद्बोधकादिजन्यपदार्थस्मरणस्य शाब्दबोधहेतुत्वापत्तेः। एवं
च द्वारमित्यादौ पदज्ञानजन्यपिधानोपस्थितिसम्पत्तये
पदज्ञानरूपशब्दाध्याहार एवावश्यक इति भावः। यथाकथञ्चिदित्यस्य
पदज्ञानातिरिक्तेनोद्बोधकादिरूपोपायेनेत्यर्थः।
तादृशोपस्थितिसम्पत्तय इति। पदजन्यपदार्थोपस्थितिनिष्पत्तय
इत्यर्थः। अनायत्या - अगत्या। घटादिपदादिति। घटादिपदस्य
शब्दरूपस्याकाशे समवायसम्बन्धेन विद्यमानतया समवायस्य
घटादिशब्दः आकाशश्चेति द्वौ सम्बन्धिनौ। तत्रैकस्य घटादिपदस्य
ज्ञानात् अपरस्य आकाशस्य स्मरणं भवति,
एकसम्बन्धिज्ञानमपरसम्बन्धिस्मारकमिति न्यायात्। तथा च
तादृशस्मरणविषयस्याकाशस्य शाब्दबोधवारणाय वृत्त्या
पदज्ञानजन्यपदार्थस्मरणं शाब्दबोधहेतुरिति वाच्यम्। वृत्तिश्च
शक्तिलक्षणान्यतररूपः सम्बन्धः। घटपदादाकाशस्मरणस्य
घटपदवृत्तिप्रयोज्यत्वाभावात् न तस्य शाब्दबोधहेतुत्वमिति
भावः। वृत्त्या पदज्ञानजन्यत्वं च वृत्तिज्ञानसहकृतपदज्ञानजन्यत्वम्।
दीपिका
पदविभागः
पङ्कजादिपदेषु
योगरूढिः। अवयवशक्तिर्योगः। समुदायशक्ती रूढिः।
नियतपद्मत्वादिज्ञानार्थं समुदायशक्तिः। अन्यथा कुकुदे ऽपि
प्रयोगप्रसङ्गात्।
प्रकाशिका
यद्यपि, पदम्
तावत् चतुर्विधम् - यौगिकम्, रूढम्, योगरूढम्, यौगिकरूढम्
चेति। योगो ऽवयवशक्तिः। तन्मात्रेणार्थप्रतिपादकमाद्यम्। यथा
पाचकादिपदम्। रूढिः समुदायशक्तिः। तन्मात्रेणार्थप्रतिपादकं
द्वितीयम्। यथा गवादिपदम्। योगरूढिभ्यां
परस्परसहकारेणार्थप्रतिपादकं तृतीयम्। यथा पङ्कजादिपदम्।
योगशक्त्या समुदायशक्त्या च परस्परसहायेन विभिन्नार्थप्रतिपादकं
चतुर्थम्। यथा उद्भित्पदम् योगेन तरुगुल्मादेः रूढ्या तु
यागविशेषस्य च वाचकम्। तथापि योगरूढं
प्रदर्श्य तत्र
योगरूढ्योः स्वरूपप्रदर्शनेन तद्रीत्या अन्यत्रापि बोद्धुं
शक्यमित्यभिप्रायेण पङ्कजादिपदे योगरूढिं प्रदर्शंयति -
पङ्कजादीति। योगरूढिरिति।
योगसहिता
रूढिरित्यर्थः। ननु पङ्कजादिशब्देष्वपि योग एवास्तु तावतैव
निर्वाहात् इत्याशङ्क्य पङ्कजशब्दस्य पद्मत्वावच्छिन्ने
वृत्तिमन्तरा नियमेन पद्मत्वावच्छिन्नभानमनुभवसिद्धं न
निर्वहतीति
पद्मत्वावच्छिन्ने
रूढिरावश्यिकीत्याह - नियतेति। नियतपद्मत्वावच्छिन्नभानानुभवे
विप्रतिपन्नंन प्रत्याह - अन्यथेति।
नियतपद्मत्वावच्छिन्नभानोपयोगिसमुदायशक्त्यनङ्कीकार
इत्यर्थः। प्रयोगेति। पङ्कजपदप्रयोगेत्यर्थः।
बालप्रिया
योगो ऽवयवशक्तिरित्यादि। अवयवशक्तिमात्रेणार्थबोधकं पदं
यौगिकम्। पाचकपदे पच् अक इत्यवयद्वयमस्ति। तत्र पच्धातोः
पाकोर्ऽथः, अकप्रत्ययस्य कर्ता अर्थः। पाचकपदेन पाककर्ता बुध्यते।
अवयवार्थमात्रस्यैव बोधात् पाचकपदं यौगिकम्। मात्रपदेन
योगरूढपदव्यवच्छेदः। समुदायशक्तिमात्रेणार्थबोधकं रूढम्,
मात्रपदेनावयवशक्तिव्यवच्छेदद्वारा योगरूढपदव्यावृत्तिः। यथा
गवादिपदे समुदायगता शक्तिरेव वर्तते। शक्तपदघटितत्वे सति
समासभिन्नत्वे सति शक्तिनिरूपकत्वं यौगिकत्वम्। यथा पाचकपदे
पाकशक्तपचधातुकर्तृशक्त-अकपदघटितत्वे सति
पाककर्तृत्वरूपैकधर्मावच्छिन्नशक्तिकत्वमस्तीति समन्वयः।
रूढे ऽतिव्याप्तिवारणाय शक्तपदघटितत्वे सतीति।
1समासे ऽतिव्याप्तिवारणाय समासभिन्नत्वे सतीति। यद्यप्येवमपि
योगरूढे पङ्कजादिपदे ऽतिव्याप्तिः प्रसजति, तथापि
अवयवार्थघटितधर्मावच्छिन्नशक्तिकत्वं
1.
समासे ऽतिव्याप्तिवारणायेति। न च समासे शक्त्यनङ्गीकारात्
शक्तिनिरूपकत्वाभावात् कथमतिव्याप्तिप्रसक्तिरिति वाच्यम्।
पाचकपदस्य यथा पाककर्तृत्वरूपैकधर्मावच्छिन्नशक्तत्वं तथा
राजपुरुषादिसमासस्यापि
राजविशिष्टपुरुषत्वरूपैकधर्मावच्छिन्नशक्तिकत्वमस्तीत्याशयात्।
शक्तिनिरूपकत्वमित्यनेन विवक्षितम्।
पाककर्तृत्वरूपतादृशधर्मावच्छिन्नशक्तिकत्वात् पाचकपदे समन्वयः।
पङ्कजपदं तु अवयवार्थाघटितपद्मत्वावच्छिन्नशक्तिकमिति न
तत्रातिव्याप्तिः। रूढत्वं तु पदाघटितत्वे सति शक्तिनिरूपकत्वम्।
गवादिपदे न शक्तं पदं घटकमिति पदाघटितत्वमस्ति,
गोत्वावच्छिन्नशक्तत्वाच्च शक्तिनिरूपकत्वमस्तीति समन्वयः।
यौगिके ऽतिव्याप्तिवारणाय सत्यन्तम्। अपभ्रंशे ऽतिव्याप्तिवारणाय
विशेष्यम्। शक्तपदघटितत्वे सति
अवयवार्थाघटितधर्मावच्छिन्नशक्तिकत्व्र योगरूढत्वम्। पङ्कजपदे
ऽपङ्कऽ ऽजऽ इति शक्तपदद्वयघटितत्वमस्ति,
अवयवार्थाघटितपद्मत्वावच्छिन्नशक्तिकत्वं चास्तीति समन्वयः।
1रूढिनिरूपकतावच्छेदकरूढ्यर्थतावच्छेदकासमानाधिकरणधर्मावच्छ् इन्नशक्तपदघटितसमुदायत्ववत्त्वं
यौगिकरूढत्वम्। उद्भिदादिपदे
रूढ्यर्थतावच्छेदकयागत्वासमानाधिकरणोर्ध्वभेदनत्वावच्छिन्नशक्त -
भिद् - धातु - घटितं यागनिरूपितरूढिनिरूपकतावच्छेदकं यत्
उद् - भिद् - समुदायत्वं तद्वत्त्वसत्त्वात् समन्वयः। यौगिके
पाचकादिपदे ऽतिव्याप्तिवारणाय समुदायत्वे
रूढिनिरूपकताचछेदकत्वं विशेषणम्। रूढे
गवादिपदे ऽतिव्याप्तिवारणाय शक्तपदघटितत्वनिवेशः। योगरूढे
पङ्कजादिपदे ऽतिव्याप्तिवारणाय
रूढ्यर्थतावच्छेदकासमानाधिकरणधर्मांविच्छन्नशक्तत्वं
पदविशेषणमिति नृसिंहशास्त्रिप्रदर्शितः पन्थाः। योगरूढिभ्यां
परस्परसहकारेणेति। योगशक्त्या पङ्कजनिकर्तृ उच्यते, रूढ्या
पद्ममुच्यते। ताभ्यां परस्परसहकारेण पङ्काज्जायमानं
पद्ममुच्यते।
दीपिका
अन्वितशक्तिखण्डनम्
ऽइतरान्विते
शक्तिःऽ इति प्राभाकराः। अन्वयस्य वाक्यार्थतया भानसम्भवात्
अन्वयांशे ऽपि शक्तिर्न कल्पनीयेति गौतमीयाः।
1.
रूढिनिरूपकतावच्छेदकं इति समुदायत्वे ऽन्वेति।
रूढ्यर्थतावच्छेदकासमानाधिकरणेति धर्मविशेषणम्।
प्रकाशिका
यद्यपि ऽकार्यान्विते
शक्तिःऽ इति प्राभाकरमतम्, तथापि सिद्धार्थपरवाक्ये
व्युत्पत्तेर्व्यवस्थापितत्वेन तत्साधारण्याय तन्मतं परिष्कृत्य
दर्शयति - इतरान्वित इति। अन्विते शक्तिः इति तु निष्कर्षः।
अयमभिप्रायः -
कथञ्चिदुपस्थितानां
पदार्थानां शाब्दबोधवारणाय तद्विषयकशाब्दबोधं प्रति
वृत्तिज्ञानजन्यतदुपस्थितित्वेन हेतुतायाः कल्पनीयतया
अन्वयांशे ऽपि शक्तिरपेक्षिता। अन्यथा
तादृशसामान्यकार्यकारणभावभङ्गप्रसङ्गात्। न च
संसर्गविषयताभिन्नतत्तद्विषयताशालिशाब्दबोधं प्रति
वृत्तिज्ञानाधीनतत्तदुपस्थितित्वेन हेतुत्वमास्ताम्, तथा चान्वयांशे
शक्त्यनङ्गीकारे ऽपि न क्षतिरिति वाच्यम्। तथा सति
कार्यतावच्छेदकगौरवापत्तेः। एवं च ऽअन्वितो घटो घटपदवाच्यःऽ
इत्याकारकशक्तिज्ञानमेव शाब्दबोधप्रयोजकमिति।
केचित्तु-इतरान्विते शक्तिरित्यस्य कार्यान्विते शक्तिरित्यर्थं आहुः।
सयुक्तिकं
नैयायिकमतं दर्शयति - अन्वयस्येति। पदार्थसंसर्गस्य
पदसमभिव्याहारबलादेव शाब्दबोधे भानसम्भवात्
तादृशसंसर्गांशे ऽपि शक्तिर्न कल्पनीयेति समुदितार्थनिष्कर्षः।
अयमाशयःतत्तद्विषयकशाब्दबुद्धिं प्रति
वृत्तिज्ञानाधीनतत्तदुपस्थितित्वेन अनुगतकार्यकारणभावो न
सम्भवति, शक्तिलक्षणोभयसाधारणस्य वृत्तित्वस्य दुर्वचत्वात्। अपि
तु तच्छक्तपदज्ञानजन्यतदुपस्थितित्वेनैका कारणता।
तल्लाक्षणिकपदज्ञानजन्यतदुपस्थितित्वेन च अपरा कारणता
स्वीकर्तव्या। परस्परतत्तदुपस्थितिजन्यशाब्दबोधे व्यभिचारवारणाय
च तत्तत्कारणाव्यवहितोत्तरत्वं तत्तत्कार्यतावच्छेदककोटौ
निवेशनीयम्। एवं च वृत्त्यनुपस्थितस्यापि पदार्थद्वयसंसर्गस्य
शाब्दबोधोपगमे
व्यभिचारप्रसक्त्या दर्शितद्विविधकार्यकारणभावस्य निष्प्रत्यूहतेति
किमन्वयांशे शक्तिकल्पनेन।
बालप्रिया
ननु
ऽइतरान्विते शक्तिः इति प्राभाकराःऽ इत्ययुक्तम्। ऽकार्यान्विते
शक्तिःऽ इत्येव तत्सिद्धान्तात् इत्याशङ्क्याह - यद्यपि कार्यान्वित
इति। तथापीति। ऽकाश्यां त्रिभुवनतिकलो भूपतिरास्तेऽ
इत्यादौ सिद्धे ऽप्यर्थे शब्दप्रयोगात् सिद्धे ऽप्यर्थे पदानां शक्तिग्रह
इति पूर्वंमेव निरूपितत्वात् कृतिसाध्यक्रियान्विते शक्तिरिति न
युक्तमित्यालोच्य ऽइतरान्विते शक्तिःऽ इति प्राभाकरैकदेशिनः
परिष्कृतवन्त इति तन्मतमनूद्यत इति भावः। सिद्धपरवाक्ये ऽपि
पदार्थस्य इतरान्वितत्वमस्तीति इतरान्विते शक्तिरित्युक्तौ
सर्वत्रोपपत्तिरिति। इतरः स्वसमभिव्याहृतपदार्थः तदन्विते शक्तिः
समभिव्याहृतपदार्थश्च कार्यरूपो वा सिद्धरूपो वा। इतरांशस्यापि
पदान्तरेण लाभात् अन्विते शक्तिरित्येव परिष्करणीयमित्याशयेनाह
- अन्विते शक्तिरिति। ननु अन्वयांशस्य
समभिव्याहाररूपाकाङ्क्षालभ्यत्वात् तदंशे शक्तिकल्पनमयुक्तमित्यतः
अन्वयांशे शक्तिं वदतां प्राभाकराणामाशयमुद्घाटयति - अयमभिप्रय
इति। कथञ्चिदुपस्थितानामिति।
पदवृत्तिज्ञानातिरिक्तकारणजन्योपस्थितिविषयाणामित्यर्थः।
पदार्थानामन्वयः शाब्दबोधे भाषते। अन्वयांशे शक्त्यस्वीकारे
अन्वयविषयकपदशक्तिज्ञानरूपकारणाभावात् अन्वयविषयकः
शाब्दबोधः न स्यादिति भावः। न चेति। घटमानय इत्यत्र
संसर्गताख्यविषयताभिन्ना या घटनिष्ठविषयता तच्छालिशाब्दबोधं
प्रति ऽघटः घटपदशक्यःऽ इत्याकारकवृत्तिज्ञानजन्यघटोपस्थितिः
कारणम्। अन्वयनिष्ठा या संसर्गता तच्छालिशाब्दबोधं प्रति तु
शक्तिज्ञानजन्या अन्वयोपस्थितिर्नापेक्षिता। अन्वयविषयकशाब्दबोधस्य
संसर्गताभिन्नविषयताशालिशाब्दबोधत्वरूपकार्यतावच्छेदकानाक्रान्तत्वादिति
भावः। कार्यतावच्छेदकगौरवापत्तेरिति।
तद्विषयकशाब्दबोधत्वापेक्षया
संसर्गताभिन्नतद्विषयताशालिशाब्दबोधत्वस्य गुरुत्वादिति भावः।
एतन्मते शक्तिग्रहस्याकारमाह - एवञ्चेति। तथा च घटमानयेत्यत्र
घटकर्मत्वयोः कर्मत्वानयनयोः आनयनलोडर्थयोश्चान्वयः
शाब्दबोधे भासते। घटनिष्ठकर्मतानिरूपकमानयनं कार्यमिति
शाब्दबोधात्। तत्र घटपदस्य घटरूपार्थमात्रे शक्तिस्वीकारे
घटकर्मत्वयोर्यः आधेयत्वरूपः संसर्गः तद्वाचकपदाभावात् तस्य
शाब्दबोधे भानं न स्यात्। अतः घटपदस्य
स्वसमभिव्याहृताम्पदार्थकर्मत्वानुयोगिकाधेयत्वरूपसंसर्गविशिष्टघटे
शक्तिः। संसर्गंविशिष्टत्वं च घटस्य संसर्गप्रतियोगित्वरूपम्। तत्र च
कर्मत्वरूपस्येतरपदार्थस्य अम्पदेनैव लाभात् अनन्यलभ्यस्यैव
शब्दार्थत्वात् कर्मत्वांशे न
घटपदस्य शक्तिः। एवं
अम्पदस्यापि घटप्रतियोगिकत्वोपलक्षितान्वयविशिष्टे कर्मत्वे शक्तिः।
एवं च घटकर्मत्वयोः संसर्गः घटपद-अम्पदशक्तिभ्यां लभ्य इति
अन्वयांशः पदशक्त्यैव भासते। एवं अम्पदार्थकर्मत्वधात्वर्थानयनयोः
संसर्गो ऽपि पदद्वयशक्तिलभ्य इति प्राभाकराशयः।
नैयायिकाशयमाविष्करोति - पदार्थसंसर्गस्येत्यादिना।
प्राभाकरमते ऽपि अम् घट इत्यतः शाब्दबोधवारणाय
घटपदाव्यवहितोत्तरवर्त्यम्पदत्वज्ञानं शाब्दबोधकारणमित्यवश्यं
वाच्यम्। तथा च तादृशकारणबलादेव संसर्गांशस्य शाब्दबाधे
भानसम्भवे संसर्गें शक्तिकल्पनं नोचितम्। अनन्यलभ्यस्यैव
शब्दार्थत्वादिति भावः। पदसमभिव्याहारेति। पदसमभिव्याहारो
नाम अव्यवहितोत्तरत्वसम्बन्धेन पदविशिष्टपद - त्वम्। ननु
तद्विषयकशाब्दबोधं प्रति वृत्तिज्ञानजन्यतद्विषयकोपस्थितिः
कारणमिति कार्यकारणभावस्य यथाकथञ्चिदुपस्थितपदार्थांनां
शाब्दबोधे भानवारणाय स्वीकार्यतया वृत्त्यानुपस्थितस्य संसर्गस्य
शाब्दबोधे कथं भानम्। तथा सति उक्तकार्यकारणभावे
व्यतिरेकव्यभिचारप्रसङ्गात् इत्यतो नैयायिकानां भावं
स्पष्टीकरोति - अयमाशय इत्यादिना। तथा च पूर्वोक्तः
सामान्यकार्यकारणभावः न सम्भवति, शक्तिलक्षणोभयसाधारणस्य
वृत्तित्वस्य दुर्वचत्वात्।
अतस्तदर्थविषयकशक्तिज्ञानजन्यतदर्थोपस्थितिः
तदर्थविषयकशाब्दबोधे कारणम्।
तदर्थिविषयकलक्षणाज्ञानजन्यतदर्थोपस्थितिः
तदर्थविषयकशाब्दबोधे कारणमिति कार्यकारणभावद्वयं
कल्पनीयम्। एवमपि यत्र घटविषयकशक्तिज्ञानजन्यघटोपस्थित्या
घटविषयकशाब्दबोधः तत्र
घटविषयकलक्षणाज्ञानजन्यघटोपस्थितिरूपकारणाभावात् यत्र
लक्षणाज्ञानजन्यघटोपस्थित्या शाब्दबोधः तत्र
शक्तिज्ञानजन्यतदुपस्थितिरूपकारणाभावाच्च कारणाभावे ऽपि
कार्योत्पत्तिरूपः व्यतिरेकव्यभिचारो भवतीति तद्वारणाय
कार्यतावच्छेदककोटावव्यवहितोत्तरत्वं निवेश्य
तद्विषयकशक्तिज्ञानजन्यतदुपस्थित्यव्यवहितोत्तरशाब्दबोधं
प्रति
तद्विषयकलक्षणाज्ञानजन्यतदुपस्थितिः कारणमिति कार्यकारणभावो
वक्तव्यः। लक्षणाज्ञानाधीनशाब्दबोधस्य
शक्तिज्ञानजन्योपस्थित्यव्यवहितोत्तरत्वरूपकार्यतावच्छेदकानाक्रान्ततया
तत्र शक्तिज्ञानजन्योपस्थित्यभावे ऽपि न व्यतिरेकव्यभिवारः।
कारणाभावे ऽपि तत्कार्यतावच्छेदकविशिष्टस्योत्पत्तावेव
व्यतिरेकव्यभिचारदोषात्। तथा च अन्वयविषयकशाब्दबोधस्य
शक्तिलक्षणाज्ञानजन्योपस्थित्युत्तरत्वाभावेन
द्विविधकार्यतावच्छेदकानाक्रान्ततया तत्र द्विविधकारणाभावे ऽपि न
व्यतिरेकव्यभिचारप्रसङ्गः। अतः कार्यकारणभावे व्यभिचारभिया
नान्वयांशे शक्ति कल्पनीयेति भावः।
वृत्तित्वस्य
दुवचत्वादिति। न च शक्तिलक्षणान्यतरत्वमेव वृत्तित्वं सुवचमिति
वाच्यम्। तद्भिन्नभिन्नत्वं ह्यन्यतरत्वम्। तथा च
भेदद्वयावच्छिन्नभेदवत्वं तत्। भेदद्वयत्वं च
एकभेदविशिष्टापरभेदत्वम्। तथा च भेदयोर्विशेष्यविशेषणभावे
विनिगमनाविरहात्
शक्तिभेदविशिष्टलक्षणाभेदावच्छिन्नप्रतियोगिकभेदवत्त्वं वा
लक्षणाभेदविशिष्टशक्तिभेदावच्छिन्नप्रतियोगिताकभेदवत्त्वं वा
लक्षणाभेदविशिष्टशक्तिभेदावच्छिन्नप्रतियोगिताकभेदवत्त्वं वा
अन्यतरत्वमित्यत्र विनिगमनाविरहेण तदुभयावच्छिन्नवृत्तिज्ञानस्य
कारणताद्वयं कल्पनीयमिति एककार्यकारणभावो न सम्भवति
इत्याशयात्। तथा च अन्वयांशः आकाङ्क्षालभ्य एवेति स्थितम्।
तर्कसङ्ग्रहः
आकाङ्क्षादिनिरूपणम्
अन्त्स्_60 आकाङ्क्षा योग्यता संनिधिश् च वाक्यार्थज्ञानहेतुः । पदस्य पदान्तरव्यतिरेकप्रयुक्तान्वयाननुभावकत्वम् आकाङ्क्षा । अर्थाबाधो योग्यता । पदानामविलम्बेनोच्चारणं संनिधिः ॥
अन्त्स्_61 आकाङ्क्षादिरहितं वाक्यम् अप्रमाणम् । यथा गौर् अश्वः पुरुषो हस्तीति न प्रमाणम् आकाङ्क्षाविरहात् । अग्निना सिञ्चेद् इति न प्रमाणं योग्यताविरहात् । प्रहरे प्रेहरेऽसहोच्चारितानि गाम् आनयेत्यादिपदानि न प्रमाणं संनिध्यभावात् ॥
आकाङ्क्षा योग्यता
सन्निधिश्च वाक्यार्थज्ञानहेतुः। पदस्य
पदान्तरव्यतिरेकप्रयुक्तान्वयाननुभावकत्वमाकाङ्क्षा। अर्थाबाधो
योग्यता। पदानामविलम्बेनोच्छारणं सन्निधिः। आकाङ्क्षादिरहितं
वाक्यं न प्रमाणम्। यथा गौरश्वः पुरुषो हस्ती इति वाक्यं न
प्रमाणम्। आकाङ्क्षाविरहात्। अग्निना सिञ्चतीति वाक्यं न प्रमाणम्।
योग्यताविरहात्। प्रहरे प्रहरे ऽसहोच्चरितानि गामानय
इत्यादिपदानि न प्रमाणं सान्निध्याभावात्।
दीपिका
आकाङ्क्षेति।
आकाङ्क्षादिज्ञानमित्यर्थंः। अन्यथा आकाङ्क्षादिभ्रमात् शाब्दभ्रमो न
स्यात्। आकाङ्क्षां लक्षयति - पदस्येति। योग्यतालक्षणमाह - अर्थेति।
सन्निधिलक्षणमाह - पदानामिति। अविलम्बेन पदार्थोपस्थितिः
सन्निधिः। उच्चारणं तु तदुपयोगितयोक्तम्। गौरश्व इति। घटः
कर्मत्वमित्यपि अनाकाङ्क्षोदाहरणं द्रष्टव्यम्।
प्रकाशिका
आकाङ्क्षादिरहितपदसमुदायात् शाब्दबोधवारणाय
आकाङ्क्षादेः शाब्दबोधहेतुत्वं अभिहितं मूलकृता। तच्च
नवीनमते न सम्भवतीति तज्ज्ञानस्य हेतुतामाह -
आकाङ्क्षादिज्ञानमिति। आदिना योग्यतापरिग्रहः। अन्यथा
- आकाङ्क्षादे
शाब्दबोधहेतुत्वे। मूले मदस्येत्यादि। यत्पदस्य
यत्पदाभावपप्रयुक्तमन्वयबोधाजनकत्वं तत्पदसमभिव्याहृततत्पदत्वं
आकाङ्क्षेत्यर्थः। प्रयुक्तत्वं च ऽकारणाभावात्कार्याभावःऽ इति
प्रतीतिसाक्षिकः स्वरूपसम्बन्धविशेषः। अजनकत्वान्तं परिचारकम्।
एकपदार्थे ऽपरपदार्थवत्त्वं योग्यतेति मते
संशयनिश्चयसाधारणतत्तज्ञानत्वावच्छिन्नं शाब्दधीहेतुः।
बाधनिश्चयाभाबो योग्यतेति नवीनमते तु स्वरूपसत्येव योग्यता
तद्धेतुरिति दिक्।
बालप्रिया
तच्च नवीनमते न सम्भवतीति।
आकाङ्क्षायाः शाब्दबोधहेतुत्वे यत्र आकाङ्क्षा नास्ति, परं तु
आकाङ्क्षा अस्तीति भ्रमो ऽस्ति तत्र शाब्दबोध इष्यमाणो न स्यात्।
आकाङ्क्षाज्ञानस्य हेतुत्वे तु आकाङ्क्षाविरहे ऽपि
तद्विषयकभ्रमात्मकज्ञानात् शाब्दबोध उपपद्यत इति भावः। एवं
योग्यतायाः शाब्दबोधहेतुत्वे योग्यताविरहे ऽपि
योग्यताभ्रमाच्छाब्दबोधो न स्यात्। अतो यौगयताज्ञानस्य
शाब्दबोधहेतुत्वु वक्तव्यमिति भावः। यत्पदस्येति। यत्पदस्य
घटपदस्य अम्पदाभावप्रयुक्तं घटनिष्ठं कर्मत्वं
इत्याकारकशाब्दबोधाजनकत्वमिति घटपदस्य
अम्पदसमभिव्याहृतत्वं आकाङ्क्षा। कारणाभावात् कार्याभाव इति।
अम्पदरूपकारणाभावात् शाब्दबोधरूपकार्याभाव इत्यर्थः।
अजनकत्वान्त परिचायकमिति। तथा च
तत्पदसमभिव्याहृततत्पदत्वमेवाकाङ्क्षा।
कीदृशपदसमभिव्याहृतकीदृशपदत्वमिति जिज्ञासायां यत्पदे ऽसति
यत्पदं न बोधजनकं तत्समभिव्याहृतत्वमिति
ज्ञापनाय
अजनकान्तमुक्तम् न तु तदपि लक्षणघटकम्, प्रयोजनाभावादिति
भावः। परिचायकत्वं च लक्षणाघटकत्वे सति
लक्षणघटकपदार्थज्ञापकत्वम्। एकपदार्थ इत्यादि।
स्वघटकैकपदप्रतिपाद्यर्थविशिष्टापरपदार्थप्रतिपादकत्वं योग्यता।
स्वं पयसा सिञ्चतीति वाक्यम् तद्घटकमेकपदं पयसेति पदं
तत्प्रतिपाद्योर्ऽथः पयः करणकत्वं तद्विशिष्टे ऽपरपदार्थः सेकः
तत्प्रतिपादकत्वं पयसा सिञ्चतीति वाक्ये ऽस्तीति तादृशवाक्यस्य
योग्यता। एतादृशयोग्यताविषयकं संशयात्मकं निश्चयात्मकं वा
ज्ञानं शाब्दबोधहेतुः। एकपदार्थे
अपरपदार्थवत्त्वाभावरूपबाधविषयकनिश्चयाभावो योग्यतेति
नव्यमते तु बाधिनिश्चयाभावरूपयोग्यता प्रतिबन्धकाभावविधया
स्वरूपतः सती हेतुः न तु तादृशयोग्यताज्ञानं कारणमिति भावः।
नन्वेकपदार्थे ऽपरपदार्थवत्त्वं योग्यतेति पक्षे यत्र
वाक्यार्थो ऽपूर्वः तत्र पूर्वं तादृशयोग्यताज्ञानस्यासंभवः।
बाधनिश्चयाभावो योग्यतेति मते तस्य शाब्दबुद्धिं प्रति
कारणत्वकल्पनमनावश्यकम्। तद्वत्तबुद्धिं प्रति तदभाववत्तानिश्चयः
प्रतिबन्धक इति सामान्यप्रतिबध्यप्रतिबन्धकभावेनैव निर्वाहात्
इत्यत आह - दिगिति। ततद्वाक्यघटकतत्तत्पदार्थस्मरणे सति
क्वचिन्निश्चयरूपं क्वचित्संशयरूपं वा योग्यताज्ञानं सम्भवति।
भूतले घट इति प्रात्यक्षिकनिश्चयोत्तरं जायमाने शाब्दबोधे
तादृशप्रात्यक्षिकनिश्चयात्मकं योग्यताज्ञानं कारणम्। यत्र तु
वाक्यार्थो ऽपूर्वः ऽनद्यास्तीरे पञ्च फलानि सन्तिऽ इतयादौ तत्र
संशयात्मकं योग्यताज्ञानं कारणम्। अतःप्रथमपक्षे न दोषः।
तद्वत्ताज्ञानसामान्ये तदभावनिश्चयत्वेन सामान्यप्रतिबन्धकता न
सम्भवति। घटाभाववत् भूतलमिति निश्चयोत्तरमपि
ऽघटप्रकारकभूतलविशेष्यकचाक्षुषं मे जायताम्ऽ इति
इच्छाबलात् घटवद्भूतलमिति चाक्षुषज्ञानोत्पत्त्या
व्यभिचारप्रसङ्गात्। अपि तु
तद्विषयकचाक्षुषेच्छाविरहविशिष्टतदभावनिश्चयत्वेन विशिष्यैव
प्रतिबध्यप्रतिबन्धकभावो वक्तव्यः। आहार्यानुमितेरनङ्गीकारात्
अनुमितिं प्रति तदभावनिश्चयप्रतिबन्धकतायां इच्छाविरहो न
निवेश्यत इति तत्प्रकारकानुमितिं प्रति
तदभावनिश्चयप्रतिबन्धकतायां इच्छाविरहो न निवेश्यत इति
तत्प्रकारकानुमितिं प्रति तदभावप्रकारकनिश्चत्वेन पृथगेव
प्रतिबन्धकता। एवमेव शाब्दबोधे ऽपि पृथगेव प्रतिबन्धकत्वं
कल्पनीयमिति बाधनिश्चयाभावरूपयोग्यतायाः
शाब्दबोधकारणत्वमवश्यकल्पनीयमिति। द्वितीयपक्षे ऽपि न दोष
इति भावः।
तर्कसङ्ग्रहः
अन्त्स्_62 वाक्यं द्विविधम् । वैदिकं लौकिकं च । वैदिकम् ईश्वरोक्तत्वात् सर्वम् एव प्रमाणम् । लौकिकं त्व् आप्तोक्तं प्रमाणम् । अन्यद् अप्रमाणम् ॥
अन्त्स्_63 वाक्यार्थज्ञानं शब्दज्ञानम् । तत्करणं शब्दः ॥
वाक्यं द्विविधम् -
वैदिकं लौकिकं चेति। वैदिकं ईश्वरोक्तत्वात् सर्वमपि
प्रमाणम्। लौकिकं तु आप्तवाक्यं प्रमाणम्। अन्यदप्रमाणम्।
वाक्यार्थज्ञानं शाब्दज्ञानम्। तत्करणं शब्दः। एवं यथार्थानुभवो
निरूपितः।
इति तर्कसङ्ग्रहे
शब्दपरिच्छेदः
दीपिका
वाक्यं विभजते -
वाक्यमिति। वैदिकस्य विशेषमाह - वैदिकमीश्वरोक्तत्वातदिति।
वेदपौरुषेयत्वम्
ननु वेदस्य
अनादित्वात् कथमीश्वरोक्तत्वमिति चेत् - न। ऽवेदः पौरुषेयः
वाक्यसम्हत्वात् भारतादिवत्ऽ इत्यनुमानेन पौरुषेयत्वसिद्धेः।
न च स्मर्यमाणकर्तृकत्वमुपाधिः, गौतमादिभिः शिष्यपरम्परया
वेदे ऽपि सकर्तृकत्वस्मरणेन साधनव्यापकत्वात्।
ऽतस्मात्तेपानात्त्रयो वेदा अजायन्तऽ इति श्रुतेश्च।
ननु वर्णाः नित्याः, स
एवायं गकार इति प्रत्यभिज्ञाबलात्। तथा च कथ वेदस्य
अनित्यत्वम् इति चेत् - न। ऽउत्पन्नो गकारः, विनष्टो गकारःऽ
इत्यादिप्रतीत्या वर्णानामनित्यत्वात्, ऽसो ऽयं गकारःऽ इति
प्रत्यभिज्ञायाः ऽसेयं दीपज्वालाऽ इतिवत् साजात्यावलम्बनत्वात्।
वर्णानां नित्यत्वे ऽप्यानुपूर्वीविशिष्टवाक्यस्य अतित्यत्वाच्च। तस्मात्
ईश्वरोक्ताः वेदाः।
प्रकाशिका
मीमांसकः शङ्कते - नन्विति। वेदस्य
ईश्वरोक्तत्वं अनुमानेन व्यवस्थापयति - वेद इति। ननु
ऽअष्टादशपुराणानां कर्ता सत्यवतीसुतःऽ इत्यादि प्रमाणबलेन
भारतादौ कर्ता उपलभ्यते। न हि तथा वेदे। तथा च
स्मर्यमाणकर्तृकत्वस्य भारतादौ साध्यव्यापकत्वेन पक्षे
साधनाव्यपकत्वेन च उपाधित्वात् कथमिदमनुमानं
साधकं
भेवदित्याशङ्कते - न चेति। गौतमादिभिःशिष्यपरम्परया वेदे
कर्तुंरूपदेशे विवदन्तं प्रत्याह - तस्मादिति।
स एवाय गकार इति।
अत्र एतत्कालिकगकारे पूर्वकालिकगकाराभेदो भासते। स च
वर्णानामनित्यत्वे न सम्भवतीति भावः। अनित्यत्वादिति। तर्हि
प्रत्यभिज्ञाविरोध इत्यत आह - सो ऽयमिति।
उत्पत्तिविनाशप्रत्यययोरन्यार्थकत्वकल्पनापेक्षया तत्प्रत्ययस्य
तथात्वकल्पने लाघवमिति हदयम्। ऽअग्निमीलेऽ इत्यादौ आनुपूर्वीं
- आकारोत्तरगकारोत्तरनत्वादिरूपा।
तत्रोत्तरत्वमव्यवहितोत्तरक्षणवृत्तित्वं वाच्यम्। इत्थं च वर्णनां
अतित्यत्वानङ्गीकारे ऽप्यनित्यक्षणघटिताया आनुपूर्व्या अनित्यत्वात्
तद्विशिष्टवाक्यसमुदायत्मकवेदस्य त्वदभिमतमनित्यत्वं न
सिध्यतीति वर्णानामनित्यत्वमेवोचितमित्याह-वर्णानामिति।
बालप्रिया
मीमांसक इति।
वेदापौरुषेयत्ववादीति शेषः। व्यवस्थापयतीति। साधयतीत्यर्थः।
दीपिकायाम् पौरुषेयत्वसिद्धेरिति। तथा चोक्तानुमानेन वेदानां
पुरुषनिर्मितत्वसिद्ध्या अनादित्वमसिद्धम्। अतो ऽनादित्वात्
कथमीश्वरोक्तत्वमिति शङ्काया नावसर इति भावः।
उपाधित्वादिति। यत्रयत्र पौरुषेयत्वं भारतादौ तत्र
स्मर्यमाणकर्तृकत्वमस्तीति स्मर्यमाणकर्तृकत्वस्य
पौरुषेयत्वरूपसाध्यव्यापकत्वम् - यत्र साधनं वाक्यसमूहत्वमस्ति
पक्षे वेदे तत्र स्मर्यमाणकर्तृकत्वं नास्तीति तस्य
साधनाव्यापकत्वम्। अतः स्मर्यभाणकर्तृकत्वमुपाधिरिति उक्तानुमानं
सोपाधिकत्वात् दुष्टमिति कथं पौरुषेयत्वसाधकमित्यर्थः।
गोतमादिभिरिति। गोतमः स्वशिष्याय वेदाः सकर्तृका
इत्युपदिदेश, सो ऽपि स्वशिष्याय तथोपदिदेशेत्येवं
शिष्यपरम्परया गौतमीयाः वेदानां सकर्तृकत्वं स्मरन्ति। तथा च
स्मर्यमाणकर्तृकत्वस्य पक्षवृत्तितया साधनाव्यापकत्वाभावात्
नोपाधित्वमिति दीपिकोक्तं न सङ्गच्छते। गोतमादयः
तथोपदिदिशुरित्यत्र प्रमाणाभावात् इति शङ्काया अर्थः।
तस्मादितीति। तेपानात् तपः कुर्वत ईश्वरात् त्रयो वेदा
अजायन्तेति श्रुत्यर्थः। तथा च अनया श्रुत्यैव
वेदानामीश्वरसृष्टत्वरूपं पौरुषैयत्वं प्रमितमिति अनुमानस्य
नापेक्षेति भावः।
अनित्यत्वे न
सम्भवतीति। यदि वर्णाः उत्पत्तिविनाशवन्तः तर्हि
पूर्वकालिकगकारस्य नष्टत्वात् एतत्कालिकगकारे तदभेदावगाहिनी
प्रत्यभिज्ञा न सङ्गच्छेतेति भावः। ननु
वर्णानामुत्पत्तिविनाशावगाहिप्रतीतिबलात् उत्पत्तिविनाशवत्त्वे सिद्धे
पूर्वोत्तरकालिकगकारयोरभेदासम्भवात् ऽसो ऽयं गकारःऽ इति
प्रत्यभिज्ञा नाभेदमवगाहते। अपि तु तज्जातीयत्वम्।
पूर्वकालिकगकारवृत्तिगत्वजातिमान् एतत्कालिकगकार इति
प्रतिज्ञाया अर्थः इति दीपिकोक्तं न युज्यते। ऽसो ऽयं गकारऽ इति
प्रत्यभिज्ञया गकारयोरभेदे सिद्धे तद्विरोधात् ऽउत्पन्नो गकारः,
विनष्टो गकारऽ इति प्रतीतिः न गकारे उत्पत्तिं विनाशं वा
अवगाहते, अपि तु वर्णव्यञ्जकवायुविशेषसंयोगादिगतस्य
उत्पत्तेर्विनाशस्य च वर्णे आरोपमात्रमित्यपि वक्तुं शक्यत्वात्। अथ वा
उत्पन्न इत्यस्य अभिव्यक्त इति विनष्ट इत्यस्य नाभिव्यक्त इति
चार्थ इत्यपि वक्तुं शक्यत्वात्। तथा च वर्णनित्यत्वं
निर्बाधमित्याशङ्क्याह - उत्पत्तिविनाशप्रत्यययोरिति। उत्पन्नो
गकारः विनष्टो गकारः इति प्रतीत्योरित्यर्थः।
अन्यार्थकत्वकल्पनेति। अभिव्यक्त्याद्यर्थकत्वकल्पनमपेक्ष्येत्यर्थः।
दीपिका
स्मृत्याचारयोः
प्रामाण्यम्
मन्वादिस्मृतीनां
आचाराणां च वेदमूलकतया प्रामाण्यम्। स्मृतिमूलवाक्यानां
इदानीमनध्ययनात् तन्मूलभूता काचित् शाखा उत्सन्नेति कल्प्यते।
ननु पठ्यमानवेदवाक्योत्सादनस्य कल्पयितुमशक्यतया
विप्रकीर्णवादस्यायुक्तत्वात् नित्यानुमेयो वेदो मूलमिति चेत् -
न। तथा सति कदापि वर्णानुपूर्वीज्ञानाभावेन बोधकत्वासम्भवात्।
प्रकाशिका
यद्यपि स्मृत्यादीनां
आप्तोक्तत्वादेव प्रमाणत्वं सिध्यति तत्कर्तृमन्वादीनामाप्तत्वात्,
तथापि तेषामाप्तत्वे विप्रतिपन्नं प्रत्याह - मन्वादीति।
आचाराणामिति। आचारप्रतिपादकशिष्टवाक्यानामित्यर्थः। एतेन
प्रमाणविभागव्याघातशङ्का निरस्ता। वेदार्थं ज्ञात्वैव मन्वादिभिः
तदर्थकस्मृत्यादीनि विरचितानि। अतस्तेषां प्रामाण्यमिति मन सि
कृत्वाह - वेदमूलकतयेति। ननु तर्हि स वेदः कुतो नोपलभ्यत
इत्यत आह - स्मृतिमूलेति।
तन्मूलेत्यादि।
स्मृत्यादिमूलभूता काचित् शाखा पाठतः परिभ्रष्टेत्यनुमीयत
इत्यर्थः। वाक्योत्सादनस्य - वाक्योच्छेदस्य। ननु
समानानुपूर्वीकवेदपाठस्य संप्रदायसिद्धत्वात् तादृशवेदे
कतिपयवाक्योच्छेदस्य कल्पयितुमशक्यत्वे ऽपि पठ्यमानवेद एव
विशकलिततया विद्यमानवाक्यानां स्मृतिमूलत्वमस्तीत्यताह -
विप्रकीर्णेति। अयुक्तत्वादिति। स्मृत्यादिसमानार्थकवाक्यानां
पठ्यमानवेदे ऽनुपलम्भादिति भावः। नित्यानुमेय इति।
नित्यो ऽनुमेयरूप इत्यर्थः। वर्णानुपूर्वीज्ञानाभावेनेति।
तादृशज्ञानस्यापिशाब्दबोधहेतुत्वात्। अन्यथा नदीदीनादिशब्दैः
अर्थविशेषबोधानापत्तिरिति भावः।
बालप्रिया
ननु आचारस्य
वेदमूलकतया प्रमाणत्वाङ्गीकारं कृतिरूपस्याचारस्य विभक्तेषु
प्रत्यक्षादिषु चतुर्षु प्रमाणेष्वनन्तर्गततया अतिरिक्तप्रमाणत्वापत्तौ
चतुर्धा प्रमाणविभजनमसङ्गतमित्यतो व्याचष्टै -
आचारप्रतिपादकेति। आचारस्य अनुष्ठानस्य बोधकानि यानि
शिष्टानां वाक्यानि तेषामित्यर्थः। एतेनेति।
आचारपदस्योक्तवाक्यपरतयाव्याख्यानेनेत्यर्थः। वेदार्थं ज्ञात्वैवेति।
तथा च वेदार्थज्ञानपूर्वकं विरचितत्वं वेदार्थज्ञानजन्यत्वं वा
वेदमूलकत्वमित्युक्तं भवति।
दीपिका
शब्दस्यानुमानान्तर्भावरवण्डनम्।
ननु ऽएतानि
पदानि स्मारितार्थसंसर्गवन्ति आकाङ्क्षादिमत्पदकदम्बकत्वात्
गामानय दण्डेनेति मद्वाक्यवत्ऽ इत्यनुमानादेव
संसर्गज्ञानसम्भवात् शब्दो न प्रमाणान्तरमिति चेत् - न।
अनुमित्यपेक्षया विलक्षणस्य शाब्दज्ञानस्य ऽशब्दात्प्रत्येमिऽ
इत्यनुव्यवसायसाक्षिकस्य सर्वसंमतत्वात्।
प्रकाशिका
शब्दस्य पृथक्
प्रमाणत्वमनङ्गीकुर्वतां वैशेषिकाणां मतं दूषयितुमुपन्यस्यति
- नन्वेतानीत्यादिना। एतानि पदानि - घटमानय इत्यादिपदानि।
स्मारितार्थसंसर्गवन्तीति। स्मारितार्थसंसर्गज्ञानपूर्वकाणीत्यर्थः।
संसर्गे तात्पर्यविषयत्वं निवेशनीयम्। तेन संसर्गान्तरमादाय
नार्थान्तरता। आकाङ्क्षादीत्यादिना योग्यतासत्योः परिग्रहः।
आकाङ्क्षादिरहिते पदकदम्बके व्यभिचारवारणाय आकाङ्क्षादीति।
सर्वसंमतत्वादिति। तथा च कार्यवैलक्षण्यानुरोधेन शब्दः
प्रमाणान्तरं इति भावः।
बालप्रिया
स्मारितार्थसंसर्गज्ञानपूर्वकाणीत्यर्थ इति।
घटमानयेत्यादिवाक्यघटकघटादिपदैः स्मारिताः
तादृशपदजन्यस्मृतिविषयभूताः ये पदार्थाः तेषां यः संसर्गः
तद्बिषयकज्ञानपूर्वकाणीत्यर्थः। तथा च स्मारितार्थज्ञानपूर्वकत्वं
साध्यम्। साध्यघटकं यत् ज्ञानं तत् ऽअर्थं बुद्ध्वा शब्दरचनाऽ
इति न्यायसिद्धं शब्दरचनाहेतुभूतं वक्तृगतं ज्ञानं,
तज्जन्यत्वात्मकं तत्पूर्वकत्वं घटमानयेत्यादिवाक्यघटकपदेषु
वर्तते। न चैवमपि वाक्यार्थज्ञानपूर्वकत्वस्य वाक्यार्थज्ञानस्य वा
साध्यत्वे ऽपि संसर्गरूपस्य वाक्यार्थस्यासाध्यत्वात् वाक्यार्थज्ञानस्य
कथमनुमितिरूपत्वम्, तदभावे कथं तज्जनकवाक्यस्यानुमानविधया
प्रमाणत्वमिति वाच्यम्। संसर्गविषयकत्वविशिष्टज्ञानस्य साध्यत्वेन
विधेयकोटिप्रविष्टस्य संसर्गस्यापि साध्यत्वात्।
संसर्गान्तरमादायेति। घटमानयेत्यादौ घटकर्मत्वयोः
कर्मत्वानयनयोश्च
तात्पर्याविषयकालीकसंसर्गज्ञानपूर्वकत्वसिद्धिप्रयुक्तस्यार्थान्तरस्य
वारणाय संसर्गे तात्पर्यविषयत्वं विशेषणमिति भावः। पदार्थे
स्मारितत्वविशेषणस्य
प्रयोजनमित्थमुक्तम् मुक्तावलीप्रभायाम्-"नैयायिकमते
घटमित्यादिवाक्यजन्ये आधेयतासम्बन्धेन
घटप्रकारककर्मत्वविशिष्यकशाब्दबोधे ऽघटमिति वाक्यम्
घटपदार्थंप्रकारकाधेयत्वसंसर्गकाम्पदार्थविशेष्यकप्रतीतीच्छया
उच्चरितम्ऽ इत्याकारकं पदार्थत्वेन
पदार्थावगाहितात्पर्यज्ञानमेव कारणम्। तथा
चाम्पदार्थविशेष्यकाधेयतासंसर्गकघटपदार्थप्रकारकज्ञानस्यापि
तात्पर्यविषयपदार्थसंसर्गज्ञानरूपतया
मूल पाठ: Tarkasaṃgraha with autoentary (Dīpikā), Nīlakaṇṭha's Dīpikāprakāśikā and Bālapriyā · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0