तर्कसंग्रह (टीका सहित) · भाग 221240
साधारणस्येति। भावप्रधाननिर्देशतया साधारण्यस्येत्यर्थः।
अव्यभिचाराभावरूपतया। तद्ग्रहस्येति शेषः।
व्याप्तिज्ञानप्रतिबन्धकत्वमित्यनेनान्वयः। एवमग्रे ऽपि। हेतौ
साध्याभाववद्वृत्तित्वस्येव साध्यतावच्छेदके
हेतुसमानाधिकरणात्यन्ताभावप्रतियोगितावच्छेदकत्वस्यापि
व्यभिचारतया तद्ग्रहस्य
हेतुसमानाधिकरणात्यन्ताभावप्रतियोगितावच्छेदकत्वाभावरूपो
यो ऽव्यभिचारः तद्ग्रहप्रतिबन्धकतेति भावः। हेतौ
साध्याभाववद्वृत्तित्वप्रकारकग्रहस्य व्याप्तिग्रहप्रतिबन्धकत्वं तु
मणिमन्त्रादिन्यायेन विशिष्टव्याप्त्यभावतया -
हेतुव्यापकतावच्छेदकसाध्यतावच्छेदकावच्छिन्नसामानाधिकरण्याभावरूपतया।
व्याप्तिसंशयाधायकत्वेनेति।
हेतावसाधारण्यादिज्ञानदशायां हेतुसाध्ययोः
सामानाधिकरण्यनिश्चयासंभवेन पक्षान्तर्भावेन च
साध्यसंशयसत्त्वेन व्याप्तिसंशयसम्भवात् न व्याप्तिनिर्णय इति
प्राचीनमतमभिप्रेत्येदम्। पक्षधर्मताज्ञानप्रतिबन्धकत्वमिति। पक्षे
पक्षतावच्छेदकविरहस्य हेतुविरहस्य च निश्चयदशायां हेतौ
पक्षतावच्छेदकविशिष्टपक्षवृत्तित्वग्रहासंभवादिति भावः।
ननु
पञ्चत्वोक्तिरसङ्गता, हेतौ उपाधिग्रहदशायामपि
व्याप्तिनिश्चयासंभवेन उपाधिज्ञानस्य व्याप्तिनिश्चयप्रतिबन्धकताया
अवश्यं वक्तव्यतया उपाधेरपि हेत्वाभासलक्षणाक्रान्तत्वादत आह -
उपाधिस्त्विति। व्यभिचारज्ञानद्वारेति। तथा च हेत्वाभासलक्षणे
साक्षादनुमितितत्करणान्यतरप्रतिबन्धकत्वस्यैव निवेशनीयतया
परमुखनिरीक्षकस्योपाधेर्न हेत्वाभासत्वमिति भावः। ननु तथापि
सिद्धिसत्त्वे ऽनुमित्यनुदयात् तद्विषयस्य साध्यवत्पक्षस्यापि
हेत्वाभासत्वमावश्यकमित्याशङ्कां जरन्नैयायिकानां
मतमवलम्ब्येष्टापत्त्या परिहरति - सिद्धसाधनं त्विति।
पक्षताविघटकतयेति। तन्मते पक्षतायाः साध्यसंशयरूपतया
तद्विघटकत्वं साध्यनिश्चयस्याक्षतमिति भावः। अन्तर्भवतीति। तथा च
न विभोगव्याघात इति भावः। दर्शितमतमतिशिथिलमित्यालोच्याह
- निग्रहेति। न च सिद्धान्ते ऽनुमितिं प्रति सिद्धेः प्रतिबन्धकतया
तद्विषयस्य कथं हेत्वाभासता नेति वाच्यम्। सिषाधयिषायाः
सिद्धिनिष्ठप्रतिबन्धकतायां उत्तेजकतया केवल
सिषाधयिषासहितसिद्धौ प्रतिबन्धकत्वाभावेन तद्विषये
उक्तहेत्वाभासलक्षणासंस्पर्शात्। अधिकं
अस्मदीयाभिनवदीधितिव्याख्यायां
तर्ककर्कशविचारचातुरीधुरीणैरनुसन्धेयम्॥
इति
प्रकाशिकायामनुमानपरिच्छेदः
बालप्रिया
ग्राह्याभावनिश्चयत्वेनेति। अनुमित्या ग्राह्यं यत् साध्यं
तदभावप्रकारकनिश्चयत्वेनेत्यर्थः। तद्वत्ताबुद्धिं प्रति
तदभाववत्तानिश्चयविधयेति यावत्। सत्प्रतिपक्षस्य -
साध्याभावव्याप्यप्रतिहेतुमान् पक्ष इति ज्ञानस्य।
विरोधिज्ञानसामग्रीत्वेन - साध्यवत्ताज्ञानविरोधि यत्
साध्याभाववत्ताज्ञानं तज्जनकत्वेन। तथा च सत्प्रतिपक्षज्ञानं
साध्याभाववत्ताज्ञानं जनयति तत् साध्यानुमितिं प्रतिबध्नाति
इत्येवमनुमितिप्रतिबन्धकज्ञानोत्पादकतया
सत्प्रतिपक्षस्यानुमितिप्रतिबन्धकत्वमिति। प्राचीनाः। नवीनास्तु
साध्याभावव्याप्यप्रतिहेतुमान् पक्ष इत्याकारकं सत्प्रतिपक्षज्ञानं
ऽतद्वत्ताज्ञानं प्रति तदभावव्याप्यवत्ताज्ञानं प्रतिबन्धकम्ऽ इति
रीत्या अनुमितिं प्रतिबध्नाति, न तु
अनुमितिप्रतिबन्धकज्ञानोत्पादकतया प्रतिबध्नाति, साक्षादेव
प्रतिबन्धकत्वसम्भवेन गौरवादित्याहुः।
इतरेषामित्यादि।
साध्यव्याप्यहेतुमान् पक्ष इत्याकारके परामर्शेव्याप्तिग्रहांशे
साधारण्य-विरोध-व्याप्यत्वासिद्धि-असाधारण्य-अनुपसंहारित्वज्ञानानां
प्रतिबन्धकत्वम्। ऽहेतुमान् पक्षऽ इति पक्षधर्मताज्ञनांशे
आश्रयासिद्धिस्वरूपासिद्धिज्ञानयोः प्रतिबन्धकत्वम्। तथा हि -
साध्याभाववदवृत्तित्वं हेतोर्व्यापितरिति पक्षे हेतोः
साध्याभाववद्वृत्तित्वं व्यभिचारः। तथा च ऽपर्वतो धूमवान् वह्नेःऽ
इत्यत्र ऽधूमाभाववद्वृत्तिर्वह्निःऽ इत्याकारकं
साधारण्यरूपव्यभिचाराज्ञानम् ऽधूमाभाववदवृत्तिवह्निमान् पर्वतःऽ
इत्याकारकपरामर्शे धूमाभाववदवृत्तिर्वह्निरिति व्याप्तिभानांशे
तद्वत्ताबुद्धिं प्रति तदभाववत्तानिश्चयविधया प्रतिबन्धकम्।
हेत्वधिकरणवृत्त्यत्यन्ताभावप्रतियोगितानवच्छेदकसाध्यतावच्छेदकावच्छिन्नसाध्यसामानाधिकरण्यं
व्याप्तिरिति पक्षे
साध्यतावच्छेदके
हेत्वधिकरणवृत्त्यत्यन्ताभावप्रतियोगितावच्छेदकत्वस्यैव
व्यभिचारतया ऽवह्न्यधिकरणवृत्त्यत्यन्ताभावप्रतियोगितावच्छेदकं
धूमत्वम्ऽ इत्याकारकं व्यभिचारज्ञानम्
ऽवह्न्यधिकरणवृत्त्यत्यन्ताभावप्रतियोगितावच्छेदकधूमत्वावच्छिन्नधूमसमानाधिकरणवह्निमान्
पर्वतःऽ
इत्याकारकपरामर्शें
ऽप्रतियोगितानवच्छेदकं धूमत्वम्ऽ इत्यंशभानं प्रति
प्रतिबन्धकम्। एतादृशसिद्धान्तव्याप्तिविषयकपरामर्शं प्रति
ऽसाध्याभाववद्वृत्तिः हेतुःऽ इत्याकाकव्यभिचारज्ञानस्य
ग्राह्याभावानवगाहितया नास्ति प्रतिबन्धकत्वम्।
तादृशव्यभिचारज्ञानकाले ऽपि यदि
सिद्धान्तव्याप्तिज्ञानानुत्पत्तिरनुभवसिद्धा तर्हि तस्य
मणिमन्त्रादिन्यायेनैव प्रतिबन्धकता वक्तव्या। ऽशब्दो नित्यः
कृतकत्वात्ऽ इत्यत्र ऽनित्यत्वासमानाधिकरणं कृतकत्वम्ऽ
इत्याकारकस्य साध्यासामानाधिकरण्यात्मकविरोधज्ञानस्य
ऽनित्यत्वसमानाधिकरणं कृतकत्वम्ऽ
इत्याकारकव्याप्तिघटकसाध्यसामानाधिकरण्यावगाहिबुद्धिं प्रति
प्रतिबन्धकत्वम्। ऽसाध्यव्याप्यत्वाभाववान् हेतुःऽ
इत्याकारकव्याप्यत्वासिद्धिज्ञानस्य ऽसाध्यव्याप्यहेतुमान् पक्षःऽ
इति परामर्शें हेतौ साध्यव्याप्यत्वज्ञानांशे प्रतिबन्धकत्वम्। ऽअयं
हेतुरसाधारणः इति वा अनुपसंहारी इति वाऽ ज्ञानदशायां
पक्षातिरिक्ते साध्यहेत्वोः सामानाधिकरण्यग्रहासंभवेन व्याप्तिग्रहो
न
संभवति। पक्षे च
साध्यसंशयात् हेतौ साध्यसामानाधिकरण्यसंशय एव स्यात् न तु
निश्चय इति रीत्या
व्याप्तिनिश्चयप्रतिबन्धकत्वमसाधारण्यानुपसंहारित्वज्ञानयोः।
ऽगगनारविन्दं सुरभि अरविन्दत्वात्ऽ इत्यत्र ऽअरविन्दं
गगनीयत्वाभाववत्ऽ इत्याकारकाश्रयासिद्धिज्ञानस्य
ऽसुरभित्वव्याप्यारविन्दत्ववत् गगनीयारविन्दम्ऽ
इत्याकारकपरामर्शें
पक्षतावच्छेदकगगनीयत्वप्रकारकारविन्दविशेष्यकज्ञानांशे
प्रतिबन्धकत्वम्। एवं ऽह्रदो वह्निमान् धूमात्ऽ इत्यत्र
ऽधूमाभाववान् ह्रदःऽ इत्याकारकस्य स्वरूपासिद्धिज्ञानस्य
ऽवह्न्व्याप्यध्मवान् ह्रदःऽ इति परामर्शे ऽधूमवान् ह्रदःऽ इति
पक्षधर्मताभानांशे प्रतिबन्धकत्वमिति। तदेतत्सर्वमभिसन्धायाह -
प्रकाशिकायां हेतौ साध्याभाववद्वृत्तित्वस्येत्यादिना।
ननु पञ्चैव
हेत्वाभासा इति कथनमयुक्तम्। हेतौ उपाधिज्ञानदशायां
व्यभिचारनिश्चयेन व्याप्तिनिश्चयाभावात्
अनुमितिकरणव्याप्तिनिश्चयप्रतिबन्धकज्ञानविषयतया उपाधेरपि
हेत्वाभासलक्षणाक्रान्तत्वेन हेत्वाभासत्वात् षट् हेत्वाभासा इति
वक्तव्यत्वादित्याशङ्कते -- ननु पञ्चत्वोक्तिरयुक्तेति। अनुमितौ वा
तत्करणपरामर्शें वा साक्षात् यद्विषयकज्ञानस्य प्रतिबन्धकत्वं तस्यैव
हेत्वाभासत्वम्। उपाधिज्ञानं तु व्यभिचारज्ञानोत्पादनद्वारैव
परामर्शं प्रतिबध्नाति न साक्षादिति न तस्य हेत्वाभासत्वम्। अतो न
पञ्चत्वोक्तिविरोधः।
तदाह - तथा च
हेत्वाभासलक्षण इति। साक्षादित्यस्य प्रतिबन्धकत्वे ऽन्वयः।
परमुखनिरीक्षकस्येति। परामर्शप्रतिबन्धकं व्यभिचाराज्ञानं
निरीक्षमाणस्येत्यर्थः। अनेन उपाधिज्ञानस्य साक्षात्प्रतिबन्धकत्वाभावः
सूच्यते। ननु यथा ऽह्रदो वह्निमात् धूमात्ऽ इत्यादौ
वह्न्यभाववद्ध्रदरूपबाधस्य ऽह्रदो वह्निमान्ऽ
इत्यनुमितिप्रतिबन्धकं यत् ऽह्रदो वह्न्यभाववान्ऽ
इत्याकारकज्ञानं तद्विषयतया हेत्वाभासत्वम्, तथा ऽपर्वतो
वह्निमान् धूमात्ऽ इत्यादौ ऽपर्वतो वह्निमान्ऽ
इत्याकारकसाध्यनिश्चयदशायां पर्वतो वह्निमान्नवेति
साध्यसंशयानुदयात् साध्यसंशयरूपपक्षताविरहेण ऽपर्वतो
वह्निमान्ऽ इत्यनुमित्यनुदयात् अनुमितिप्रतिबन्धकसिद्धिविषयस्य
वह्निमत्पर्वतस्यापि हेत्वाभासत्वं स्यात्,
हेत्वाभासलक्षणाक्रान्तत्वादित्याशङ्कते - ननु तथापीति।
तन्मत इत्याति। तथा
च प्रचीनमते पक्षतायाः साध्यसंशयरूपतया
अनुमितिजनकपक्षताप्रतिबन्धकज्ञानविषयतया
हेत्वाभासलक्षणाक्रान्तत्वेन साध्यवत्पक्षस्य हेत्वाभासत्वमिष्टमेव। न
च पञ्चधाविभागव्याघात इति वाच्यम्। आश्रयासिद्धे ऽन्तर्भावात्।
कथमन्तर्भाव इति चेत् -- इत्थम्। आश्रयासिद्धिर्द्विविधा
धर्मिस्वरूपाप्रसिद्धिः पक्षत्वाप्रसिद्धिश्चेति। तत्र पक्षत्वाप्रसिद्धौ
सिद्धसाधनस्यान्तर्भाव इति। तदुक्तं कुसुमाञ्जलौ --"मध्यमापि आश्रयस्वरूपाप्रतीत्या तद्विशेषणपक्षत्वाप्रतीत्या चेति
द्वयी। तत्र चरमा सिद्धसाधनमिति व्यपदिश्यते। व्याप्तिस्थितौ
पक्षत्वस्याहत्य विघटनात्"इति। दर्शितमतमतिशिथिलमिति।
पक्षतायाः स्वरूपसत्याः पृथक् कारणत्वात्
सिद्धेस्तत्प्रतिबन्धकत्वे ऽपि सिद्धसाधनस्थले
अनुमितिकरणपरामर्शविघटनं वा अनुमितिविधटनं वा नास्तीति न
सद्धिसाधनस्य हेत्वाभासत्वम्। पक्षतारूपहेत्वभावादनुमितिः परं
नोत्पद्यते। अतः सिद्धसाधनस्थले न हेत्वाभासोद्भावनम्, अपि तु
वादिनो निग्रहमात्रमिति भावः।
ननु नवीनमते ऽपि
साध्यनिश्चयदशायामनुमित्यनुदयेन मणिमन्त्रादिन्यायेन
सिद्धेरनुमितिप्रतिबन्धकत्वं वाच्यम्। तथा
चानुमितिप्रतिबन्धकसिद्धिविषयस्य साध्यवत्पक्षस्य कुतो न
हेत्वाभासत्वमिति शङ्कते - न च
सिद्धान्त इति।
यत्सत्त्वे नियमेन यन्नोत्पद्यते, यदभावे च यदुत्पद्यते तस्यैव
प्रतिबन्धकत्वम्। सिद्धिसत्त्वे ऽपि सा सिद्धिर्यदि सिषाधयिषासहिता
भवति तदा अनुमित्युत्पत्त्या सिद्धेर्नानुमितिप्रतिबन्धकत्वम्।
अतो ऽनुमितिप्रतिबन्धकज्ञानविषयत्वरूपं हेत्वाभासलक्षणं
साध्यवत्पक्षे नास्तीति समाधत्ते-सिषाधयिषाया इत्यादिना।
नन्वेवमपि सिषाधयिषाविरहविशिष्टायाः
सिद्धेरनुमितिप्रतिबन्धकतया तद्विषयस्यहेत्वाभासत्वं
दुर्वारमित्यत आह - अधिकमिति। अयं भावः - प्रत्यक्षितविषये ऽपि
संनिकर्षे सति धारावाहिकप्रत्यक्षस्य, प्रतीतार्थकशब्दश्रवणे ऽपि
पुनर्बोधस्य च संमतत्वात् तद्वदेव सिद्धिविषयस्य
परामर्शसत्त्वे ऽनुमित्युत्पत्तौ न संमतत्वात् तद्वदेव सिद्धिविषयस्य
परामर्शसत्त्वे ऽनुमित्युत्पत्तौ न किञ्चिद्बाधकम्। अतः
सिद्धेर्नानुमितिं प्रति प्रतिबन्धकत्वम्। एवं
साध्यसंशयविरहे ऽप्यनुमित्युत्पत्त्या न साध्यसंशयरूपपक्षता
अनुमितिहेतुः। तथा च सिद्धेः अनुमितिं प्रति वा अनुमितिकारणं
प्रति वा प्रतिबन्धकत्वाभावात् न सिद्धिविषयस्य साध्यवत्पक्षस्य
हेत्वाभासलक्षणाक्रान्ततेति।
इति
तर्कसङ्ग्रहदीपिकाप्रकाशिकाव्याख्यायां बालप्रियायां
अनुमानपरिच्छेदः
॥।दृ॥।
उपमानपरिच्छेदः
तर्कसङ्ग्रहः
अन्त्स्_58 उपमितिकरणम् उपमानम् । संज्ञासंज्ञिसंबन्धज्ञानम् उपमितिः । तत्करणं सादृश्यज्ञानम् । अतिदेशवाक्यार्थस्मरणम् अवान्तरव्यापारः । तथा हि कश् चिद् गवयशब्दार्थम् अजानन् कुतश् चिद् आरण्यकपुरुषाद् गोसदृशो गवय इति श्रुत्वा वनं गतो वाक्यार्थं स्मरन् गोसदृषं पिण्डं पश्यति । तदनन्तरम् असौ गवयशब्दवाच्य इत्य् उपमितिर् उत्पद्य्ते ॥
उपमितिकरणमुपमानम्। संज्ञासंज्ञिसम्बन्धज्ञानमुपमितिः।
तत्करणं सादृश्यज्ञानम्। तथा हि -कश्चित् गवयशब्दार्थमजानन्
कुतश्चित् आरण्यकपुरुषात् गोसदृशो गवय इति श्रुत्वा वनं
गतः वाक्यार्थं स्मरन् गोसदृशं पिण्डं पश्यति। तदनन्तरं अयं
गवयपदवाच्यः इत्युपमितिरुत्पद्यते। व्याख्यातमुपमानम्।
इति तर्कसङ्ग्रहे
उपमानपरिच्छेदः
दीपिका
उपमानं लक्षयति -
उपमितिकरणमिति।
इति दीपिकायां
उपमानपरिच्छेदः
प्रकाशिका
उपमानं
लक्षयतीति। अवसरसङ्गत्या उपमानं निरूपयतीत्यर्थः।
उपमितिस्वरूपं व्युत्पादयति - मूले संज्ञेति। संज्ञा - गवयपदम्।
संज्ञी - गवयः, तयोः सम्बन्धः शक्तिः, तज्ज्ञानमित्यर्थः। लक्षणं तु
उपमिनोमि इत्यनुव्यवसायगम्योपमितित्वमेव। वाक्यार्थं स्मरन्
गोसदृशं पिण्डं पश्यतीति। एतने स्मरणं सादृश्यदर्शनजन्यम्
उद्बोधकान्तरजन्यं वा। उभयमपि सादृश्यदर्शनसहकानि, न तु
सादृश्यदर्शनजन्यमेव स्मरणं सहकारीति सूचितम्।
प्राञ्चस्तु - ऽवाक्यार्थं
स्मरन्ऽ इत्यत्र वर्तमानसामीप्ये प्रत्ययः। वाक्यार्थं
स्मरिष्यन्नित्यर्थः। एवं च वाक्यार्थस्मरणस्य
सादृश्यदर्शनजन्यतालाभेन व्यापारतालाभः --- इत्याहुः।
तदनन्तरमित्यादि।
सादृश्यदर्शनानन्तरम् ऽगवयो गवयपदवाच्यऽ इत्याकारिका
गवयत्वरूपलघुधर्मधर्मितावच्छेदककोपमितिरुत्पद्यत इत्यर्थः।
इदमुपलक्षणम् - वैधर्म्यदर्शनेनाप्युपमितिरिति ध्येयम्।
वैशेषिकास्तु -
पदवाच्यत्वव्याप्यसादृश्यादिपरामर्शात् पदवाच्यत्वस्यानुमितिरेव,
अतो नोपमानं प्रमाणान्तरम् - इत्याहुः।
तच्चिन्त्यम्-व्याप्तिज्ञानमन्तरेणापि
पदवाच्यत्वप्रमितेरनुभवद्धित्वात्। इत्यन्त्र विस्तरः।
इति
प्रकाशिकायाम् उपमानपरिच्छेदः
बालप्रिया
अवसरसङ्गत्येति।
प्रतिबन्धकजिज्ञासानिवृत्तौ अवश्यवक्तव्यत्वमवसरः। अनुमानस्य
बहुवादिसंमतत्वेन निरसनीयाल्पवादिविप्रतिपत्तिकतया
प्रथममनुमान एव व्युत्पित्सोर्जिज्ञासा जायते, न तूपमाने,
तस्याल्पवादिसंमतत्वेन
निरसनीयबहुवादिविप्रतिपत्तिकत्वात्। तथा चानुमाने
प्रथममुत्पन्नायाः 1प्रतिबन्धकीभूतशिष्यजिज्ञासायाः तन्निरूपणेन
निवृत्तौ अवश्यवक्तव्यत्वरूपावसरसंगत्या अनुमानानन्तरं
उपमाननिरूपणमिति भावः। संज्ञा - वाचकः शब्दः, गवयादिपदम्।
संज्ञी - वाच्योर्ऽथः गवयादिः। तयोः यः सम्बन्धः शक्त्याख्यः
तद्विषयकज्ञानमुपमिति। ऽगवयो गवयपदवाच्यःऽ इत्याद्याकारकं
शक्तिज्ञानमुपमितिरिति यावत्। सादृश्यज्ञानकरणकं
ज्ञानमुपमितिरिति ग्रन्थान्तरेषु कथनात् सादृश्यज्ञानकरणकत्वस्य
उपमितिलक्षणत्वसम्भवे ऽपि तदपेक्षया लाघवात् उपमितित्वजातिमत्त्वं
लक्षणमुचितमित्यभिप्रेत्याह - लक्षणं त्विति।
1. प्रतिबन्धकीभूतेति।
उपमाननिरूपण इति शेषः।
ननु ऽवाक्यार्थं स्मरन्
गोसदृशं पिण्डं पश्यतिऽ इति मूलात् आदौ
1अतिदेशवाक्यार्थस्मरणं ततः 2गोसदृशपिण्डदर्शनमिति क्रमो
लभ्यते, तदयुक्तम्। गोसदृशपिण्डदर्शनानन्तरमेव
अतिदेशवाक्यार्थस्मरणात् इत्याशङ्क्याह - एतेनेति।
वर्तमानसामीप्य इति। ऽवर्तमानसामीप्ये वर्तमानवद्वाऽ
इत्यनुशासनेन भविष्यति लटि शतृप्रत्ययेन स्मरन्निति रूपम्।
स्मरन् इत्यस्य
स्मरिष्यन् इत्यर्थः। एवं चादौ सादृश्यविशिष्टगवयपिण्डदर्शनं
तत अतिदेशवाक्यार्थस्मरणं तत उपमितिरिति क्रमस्यैव मूलतो
लाभात् वाक्यार्थस्मरणव्यापारकसादृश्यदर्शनस्य उपमितिकरणत्वं
युज्यत इति भावः।
ननु ऽगोसदृशो
गवयपदवाच्यःऽ इत्याकारिकैवोपमितिरस्तु। न चेष्टापत्तिः,
गवयत्वस्य गवयपदशक्यतावच्छेदकत्वासिद्ध्यापत्तेरत्यत्राह -
गवयो गवयपदवाच्य इत्याकारिकेति। उपमितेः ऽगोसदृशो
गवयपदवाच्यःऽ इत्याकारकत्वे गोसादृश्यं धर्मितावच्छेदकं
वाच्यम्। गोसादृश्यं गवयत्वापेक्षया गुरु इति ज्ञानदशायां
गोसादृश्यावच्छेदेन गवयपदवाच्यत्वज्ञानं भवितुं नार्हतीति
ऽगवयो गवयपदवाच्यःऽ इत्याकारकतैवोपमितेर्युक्तेति भावः।
इदमुपलक्षणम्। तत्प्रकारकशाब्दबोधे तदवच्छेदेन शक्तिज्ञानस्य
हेतुत्वात् गवयपदात् गोसादृश्यप्रकारक एव गवयबोधः स्यात्, न
तु गवयत्वप्रकारकः। अनुभूयते च गवयपदात् गवयत्वप्रकारक एव
शाब्दबोधः। अतः गवयत्वावच्छेदेन गवयपदवाच्यत्वावगाही ऽगवयो
गवयपदवाच्यऽ इति ज्ञानमेव उपमितिरित्यपि बोध्यम्।
वैधर्म्यदर्शनेनाप्युपमितिरिति। यत्र केनचित् गोविधर्मा अश्व
इत्युक्तं श्रुतवान् कश्चित् कदाचित् कुत्रचित् गोविधधर्माणं
अश्वं पश्यति तत्र वैधर्म्यविशिष्टपिण्डदर्शनं करणम्, गोविधर्मा अश्व
1. अतिदेशवाक्येति।
तद्वदिदमिति वाक्यमतिदेशवाक्यम्। प्रकृते गोसदृशो गवय इति
वाक्यम् अतिदेशवाक्यम्।
2. गोसदृशपिण्डेति।
पिण्डशब्दः आकृतिविशिष्टव्यक्तिपरः।
गोसदृशाकारगवयव्यक्तिदर्शनमित्यर्थः।
इत्यतिदेशवाक्यार्थस्मरणं व्यापारः अश्वो ऽश्वपदवाच्य इति
ज्ञानमुपमितिरिति भावः।
वैशेषिकास्त्वित्यादि।
ऽगवयो गवयपदवाच्यः, गोसादृश्यात्, यो गवयपदवाच्यो न
भवति नासौ गोसदृशः, गोसदृशश्चायम्, तस्मात् गवयपदवाच्यःऽ
इत्युनमानप्रयोगो ऽत्र विवक्षितः। तथा च
गवयपदवाच्यत्वव्याप्यगोसादृश्यवानयमिति परामर्शात् जायमाना
गवयो गवयपदवाच्य इति प्रमा अनुमितिरेव न तद्विलक्षणा। अतो
नोपमानं प्रमाणान्तरमिति वैशेषिकाशयः। तन्मतं निराकरोति -
व्याप्तिज्ञानमन्तरेणापीति। अन्यत्रेति।
कुसुमाञ्जल्यादिग्रन्थेष्वित्यर्थः।
इति
तर्कसङ्ग्रहदीपिकाप्रकाशिकाव्याख्यायां बालप्रियायां
उपमानपरिच्छेदः
॥।दृ॥।
शब्दपरिच्छेदः
तर्कसङ्ग्रहः
शब्दलक्षणम्
अन्त्स्_59 आप्तवाक्यं शब्दः । आप्तस् तु यथार्थवक्ता । वाक्यं पदसमूहः । यथा गाम् आनयेति । शक्तं पदम् । अस्मात् पदाद् अयम् अर्थो बोद्धव्य इतीश्वरसंकेतः शक्तिः ॥
आप्तवाक्यं शब्दः।
आप्तस्तु यथार्थवक्ता।
दीपिका
शब्दं लक्षयति -
आप्तेति। आप्तं लक्षयति - आप्तस्त्विति।
प्रकाशिका
शब्दं लक्षयतीति।
उपजीव्योपजीवकत्वसङ्गत्या शब्दं नि - पयतीत्यर्थः। अत्र
ज्ञायमानशब्दस्य शब्दप्रमाणतया शब्दे उपमानोपजीवकत्वाभावात्
उपमितिशाब्दबोधरूफलयोः सङ्गतिर्बोध्या। तथा हि -
शक्तिपरिच्छित्तिरेवोपमितिः। तस्याश्च शाब्दबोधोपजीव्यत्वेन
फलयोरुपजीव्योपजीवकत्वसम्भवः। तादृशसङ्गतेश्च
फलनिष्ठत्वे ऽपि स्वाश्रयकरणत्वात्मकपरम्परासम्बन्धेन
करणनिष्ठत्वात् करणयोरनन्तराभिधानप्रयोजकत्वम्। शब्दज्ञानस्य
प्रमाणत्वाङ्गीकर्तृनवीनमते तु उपमितेः शक्तपदविषयकत्वेन
शब्दप्रमाणतया तत्र चोपमानजन्यत्वस्याक्षततया स्वरूपयोरपि
सङ्गतिरिति मन्तव्यम्।
मूले आप्तवाक्यं शब्द
इति। शब्द इति लक्ष्यनिर्देशः। प्रमाणशब्द इति तदर्थः।
आप्तवाक्यमिति लक्षणम्।
भवति हि पयसा
सिञ्चतीत्यादिशब्दः आप्तोक्तवाक्यम्। न तु वह्निना
सिञ्चतीत्यादिशब्दः, तदुच्चारणकर्तुः
यथार्थवक्तृत्वरूपाप्तत्वाभावात्।
प्रकृतवाक्यार्थगोचरयथार्थज्ञानजन्यवाक्यं प्रमाणशब्द इति तु
निष्कर्षः। वाक्यप्रयोगे वाक्यार्थञ्ज्ञानस्य हेतुत्वात् लक्षणसङ्गतिः।
स्फुटमेतत् शब्दमणौ।
बालप्रिया
उपजीव्योपजीवकत्वसङ्गत्येति। उपमानम् उपजीव्यं
कारणम्, शब्दः उपजीवकः कार्यः। तथा च शब्दोपमानयोः
कार्यकारणभावसद्भावात् कार्यकारणभावरूपसङ्गत्या
उपमानानन्तरं शब्दनिरूपणमिति भावः।
उपजीव्योपजीवकभावमेवोपपादयति - अत्रेत्यादिना।
अयं
भावः-प्रमाणयोरूपजीव्योजीवकभावो ऽत्र दुर्वचः। शब्दप्रमाणं हि
ज्ञायमानः वाक्यात्मकः शब्दः। उपमानप्रमाणं तु सादृश्यदर्शनम्।
तत्कार्यत्वं तु शब्दे नास्तीति। शब्दोपमानात्मकप्रमाणयोः
कार्यकारणभावो न सम्भवति।
शब्दोपमानजन्यप्रमित्योरेवात्रकार्यकारणभावः। शब्दजन्याप्रमितिः
शाब्दबोधः। उपमानजन्या प्रमितिः अयमसौ गवयपदवाच्य
इत्याद्याकारकः शक्तिग्राहः। शक्तिग्रहजन्यत्वं च शाब्दबोधे वर्तत
इति। न च कार्यकारणभावात्मकसङ्गतेः प्रमितिद्वयनिष्ठत्वे ऽपि
प्रमाणद्वयनिष्ठत्वाभावात् उपमानप्रमाणनिरूपणानन्तरं
शब्दप्रमाणनिरूपणे तादृशसङ्गतेर्नोपयोग इति वाच्यम्।
उपमितिशाब्दबोधरूपप्रमितिद्वयनिष्ठस्य कार्यकारणभावस्य
स्वाश्रयजनकत्वसम्बन्धेन प्रमाणनिष्ठत्वात्। स्वं - कार्यकारणभावः,
स्वाश्रयौ उपमितिशाब्दबोधौ, तज्जनकत्वमुपमानशब्दयोरिति। तथा
च कार्यकारणभावरूपसङ्गतेः स्वाश्रयजनकत्वसम्बन्धेंन
प्रमाणनिष्ठत्वात् उपमानानन्तरं शब्दनिरूपणं सङ्गतमिति। इदं
प्राचीनमतानुसारेण।
नवीनमते तु
शब्दज्ञानमेव शब्दप्रमाणम्। उपमितिरपि गवयो गवयपदवाच्य
इत्याकारिका गवयधर्मिका गवयपदवाच्यत्वप्रकारिका गवयपदं
गवयवाचकमित्याकारिका गवयपदधर्मिका गवयवाचकत्वप्रकारिका वा
पक्षविषयकत्वात् शब्दज्ञानरूपैव। सा च
सादृश्यज्ञानरूपोपमानप्रमाणजन्या। एवं च
शब्दप्रमाणरूपशब्दज्ञानात्मकोपमितेः
सादृश्यज्ञानात्मकोपमानप्रमाणजन्यत्वात् प्रमाणयोरपि
कार्यकारणभावरूपा सङ्गतिरस्तीति।
उपमानोपजीवकत्वाभावादिति।
उपमानप्रमाणजन्यत्वाभावादित्यर्थः। शक्तिपरिच्छित्तिरिति।
शक्तिविषयकज्ञानमित्यर्थः। तस्याश्च - शक्तिपरिच्छित्तेश्च।
शाब्दबोधोपजीव्यत्वेन - शाब्दबोधजनकत्वेन।
करणयोरनन्तराभिधानप्रयोजकत्वमिति। करणयोः प्रमाणयोः यत्
अनन्तराभिधानं पौर्वापर्येंणाभिधानं तत्प्रयोजकत्वं तद्धेतुत्वं
संगतेरित्यर्थः। आप्तोक्तवाक्यमिति। आप्तकर्तृकोच्चारणविषयभूतं
वाक्यमित्यर्थः। आप्तस्तु यथार्थवक्तेति
मूलात्
अबाधितार्थविषयकज्ञानजनकशब्दप्रयोगकर्तेत्यर्थो लभ्यते।
यथाभूतो ऽबाधितार्ऽथो यथार्थः। तस्य वक्ता इति विग्रहात्। वक्ता
तद्विषयकज्ञानजनकशब्दप्रयोगकर्ता। आप्तवाक्यं शब्द इति मूलाच्च
अबाधितार्थविषयकज्ञानजनकशब्दप्रयोगकर्तृकोच्चारणविषयशब्दत्वं
शब्दप्रमाणस्य लक्षणमिति प्रतीयते। तदपेक्षया
लाघवात्
अबाधितार्थविषयकज्ञानजन्यवाक्यत्वमेव प्रमाणशब्दस्य लक्षणं
भवितुमर्हतीत्याशयेनाह - प्रकृतवाक्यार्थेति।
ऽअर्थ बुद्ध्वा
शब्दरचनाऽ इति न्यायात् वक्तृनिष्ठेन
वाक्यार्थविषयकयथार्थज्ञानेनैव वाक्यरूपः शब्दो जायत इति
लक्षणसमन्वयः। तदाह - वाक्यप्रयोग इति। स्फुटमेतत्
शब्दमणाविति। तत्त्वचिन्तामणौ शब्दखण्डे -
ऽप्रयोगहेतुभूतार्थतत्त्वज्ञानजन्यशब्दः प्रमाणम्ऽ इति
गङ्गेशवाक्यमत्राभिसंहितम्।
॥।
तर्कसङ्ग्रहः
वाक्यं तु
पदसमूहः। शक्तं पदम्। अस्मात् पदात् अयमर्थो बोद्धव्य इति
ईश्वरसङ्गेतः शक्तिः।
दीपिका
वाक्यलक्षणमाह -
वाक्यमिति। पदलक्षणमाह - शक्तमिति।
शक्तिनिरूपणम्
अर्थस्मृत्यनुकूलपदपदार्थसम्बन्धः शक्तिः। सा च
पदार्थान्तरमिति मीमांसकाः। तन्निरासार्थमाह - अस्मादिति।
डित्थादीनामिव घटादीनामपि सङ्केत एव शक्तिः, न तु
पदार्थान्तरमित्यर्थः।
प्रकाशिका
मीमांसकमतनिरासकत्वेन
अग्रिममूलमवतारयितुं तन्मतसाधारण्येन शक्तिपदार्थमाह -
अर्थस्मृत्यनुकूलेति। शाब्दबोधजनक-अर्थस्मृत्यनुकूलः
घटादिपदघटादिरूपार्थयोः सम्बन्धः शक्तिरित्यर्थः। अनुकूलत्वम्।
इह प्रयोजकत्वम्। तच्च
कारणतावच्छेदकपदपदार्थसम्बनधे ऽप्यक्षतम्।
घटादिपदतदर्थयोरन्यसम्बन्धवारणाय अनुकूलान्तं
विवक्षितार्थकम्। अन्यसम्बन्धज्ञानस्यार्थस्मृतिजनकत्वे ऽपि
शाब्दबोधजनकस्मृतिजनकत्वाभावात्। अर्थस्मृत्यनुकूलत्वस्य
अदृष्टादिसाधारण्यात् विशेष्यमिति ध्येयम्। पदार्थान्तरमिति।
तत्तत्पदार्थतावच्छेदकाभावकूटवदित्यर्थः। तेनातिरिक्तपदार्थत्वस्य
अन्यमताप्रसिद्धत्वे ऽपि न व्याघातः। अस्मात् पदात् अयमर्थो बोद्धव्य
इति मूलस्य ऽएतत्पदजन्यबोधविषयो ऽयमर्थःऽ
इत्याकारकेश्वरेच्छा शक्तिरित्यर्थः।
न तु
पदार्थान्तरमिति। न चेश्वरीयज्ञानस्येच्छायाः कृतेर्वा
शक्तिरूपत्वमिति विनिगमनाविरहात् अतिरिक्तैव शक्तिरिति वाच्यम्।
आधुनिकसङ्केतस्य इच्छारूपतया शक्तेरपि इच्छारूपत्वे
सङ्केतज्ञानस्य अनुगतकार्यकारणभावः सम्भवति नान्यथा इत्येवं
विनिगमकसंभवेन, इच्छाया एव शक्तित्वस्वीकारात्।
न च - भगवदिच्छायाः
सकलविषयिण्याः शक्तित्वस्वीकारे
घटपदबोद्धव्यत्वप्रकारकतदिच्छायाः पटे ऽपि सत्त्वात्
घटपदवाच्यत्वस्य अतिप्रसङ्गः। एवं
गङ्गापदजन्यबोधविषयत्वप्रकारकेच्छायाः तीरे ऽपि सत्त्वेन
शक्त्यैव तद्बोधसम्भवे लक्षणोच्छेदापत्तिरिति - वाच्यम्। यतः
तत्तत्पदवाच्यत्वं
तत्तत्पदजन्यबोधविषयत्वप्रकारतानिरूपितेश्वरेच्छीयविशेष्यतावत्त्वम्।
तादृशप्रकारतानिरूपितविशेष्यतासम्बन्धेन तदिच्छावत्त्वं वा। तथा च
तादृशस्य घटपदवाच्यत्वस्य पटे ऽसत्त्वात् नातिप्रसङ्गः।
गङ्गादिपदजन्यत्वस्य बोधांशे, बोधविषयत्वस्य च तीरांशे,
स्वातन्त्र्येण भानमीश्वरेच्छायां उपेयते। इत्थं च
विशकलितभानस्थले निरूप्यनिरूपकभावापन्नविषयताया अभावेन
गङ्गापदजन्यत्वप्रकारतानिरूपितबोधविषयत्वप्रकारतानिरूपितव् इशेष्यतासम्बन्धेन
इच्छावत्त्वस्य तीरे ऽसत्त्वेन न क्षतिरिति सङ्क्षेपः।
बालप्रिया
शाब्दबोधजनकेति। अनेकपदार्थसंसर्गावगाहिज्ञानं
शाब्दबोधः। तस्य जनकं पदार्थानां स्मरणम्, तदनुकूलः
पदपदार्थसम्बन्धः शक्तिः। तदनुकूलत्वं च तज्जनकज्ञानविषयत्वम्।
तथा च यस्य पदपदार्थयोः सम्बन्धज्ञानमस्ति तस्यैव
वाक्यघटकपदज्ञानात् तत्तत्पदार्थस्मरणं भवति। पदज्ञानं हि
एकसम्बन्धिज्ञानमपरसम्बन्धिस्मारकमिति रीत्या पदार्थस्मृतिं
जनयति। यथा पूर्वं सम्बद्धतया दृष्टयोः हस्तिहस्तपकयोर्धध्ये
पश्चात् कदाचित् एकस्य हस्तिपकरूपसम्बन्धिनो दर्शनेन अपरस्य
हस्तिरूपस्य सम्बन्धिनः स्मरणं भवति तद्वत् पूर्वं पदपदार्थयोः
सम्बन्धं यः जानाति स एव एकस्य पदरूपस्य सम्बन्धिनः ज्ञाने सति
अपरमर्थरूपं सम्बन्धिनं स्मर्तुं शक्नोति। तथा च
सम्बन्धज्ञानसहकृतात् पदज्ञानात् पदार्थस्मृतिः ततः शाब्दबोध
इति क्रमो ऽत्र
विवक्षितः।
ननु
ऽअथस्मृत्यनुकूलपदपदार्थसम्बन्धः शक्तिःऽ इति दीपिकावाक्ये
अनुकूलशब्दस्य यदि कारणमित्यर्थः तदा
पदपदार्थसम्बन्धज्ञानस्यार्थस्मृतिजनकत्वे ऽपि
पदपदार्थसम्बन्धस्यार्थस्मृतिजनकत्वाभावादसम्भवः। अत आह -
अनुकूलत्वामिह प्रयोजकत्वमिति प्रयोजकत्वं च
कारणकारणतावच्छेदकोभयसाधाराणम्।
पदपदार्थसम्बन्धज्ञानमित्यस्य विषयितासम्बन्धेत
सम्बन्धविशिष्टज्ञानं इत्यर्थः। तथा च अर्थस्मृतिकारणम्
सम्बन्धविशिष्टज्ञानम्। तत्र विषयितासम्बन्धेन विद्यमानतया
पदपदार्थसम्बन्धस्य कारणतावच्छेदकत्वमक्षतम्। कारणे
विद्यमानस्यैव कारणतावच्छेदकत्वात्। तथा च पदपदार्थसम्बन्धस्य
अर्थस्मृतिप्रयोजकत्वात् तदनुकूलत्वं सम्भवतीति भावः। तथा च
शाब्दबोधजनकार्थस्मृतिप्रयोजकत्वे सति पदपदार्थसम्बन्धत्वं
शक्तेर्लक्षणमिति पर्यवसन्नम्। तत्र विशेष्यानुपादाने
अदृष्टादिष्वतिव्याप्तिः। तेषां कार्यसामान्यं प्रति कारणतया
अर्थस्मृतिं प्रत्यपि कारणत्वात्। तद्वारणाय विशेष्योपादानम्।
अदृष्टादेः पदपदार्थसम्बन्धत्वाभावात् नातिव्याप्तिः।
विशेषणानुपादाने घटपदस्य कम्बुग्रीवादिमद्रूपतदर्थस्य च यः
कालिकादिसम्बन्धः तत्रातिव्याप्तिः। तद्वारणाय विशेषणम्।
घटपदतदर्थयोः कालिकसम्बन्धस्य कथञ्चित् अर्थस्मृत्यनुकूलत्वे ऽपि
तस्याः स्मृतेः शाब्दबोधजनकत्वं नास्ति। अतः
शाब्दबोधजनकार्थस्मृत्यनुकूलत्वस्य कालिकसम्बन्धे ऽभावात्
नातिव्याप्तिः। तदाह घटादिपदेत्यादिना। विवक्षितार्थकमिति।
शाब्दबोधजनकस्मृत्यनुकूलत्वार्थकमित्यर्थः।
ऽसा च पदार्थान्तरम्ऽ
इति दीपिकातः शक्तिः कॢप्तसप्तपदार्थातिरिक्तः पदार्थः इत्यर्थो
लभ्यते। तथा सति नैयायिकमते ऽप्रसद्धिः। कॢप्तपदार्थातिरिक्तत्वस्य
अप्रसिद्धत्वात्। तथा च मीमांसकेन नैयायिकं प्रति तत्साधने
नैयायिकेनाप्रसिद्धविशेषणत्वं उद्भाव्यतेत्यालोच्य
व्याचष्टे-तत्तत्पदार्थतावच्छेदकाभावकूटवदित्यर्थ इति। प्रत्येकं
द्रव्यादौ प्रसिद्धाः ये द्रव्यत्वादीनामभावाः तद्घटित समुदायवती
शक्तिरित्यर्थः। अन्यमताप्रसिद्धत्वे ऽपीति। नैयायिकमते ऽप्रसिद्धत्वे ऽपि
इत्यर्थः। न व्याघातः - नानुपपत्तिः। अस्मात् पदादित्यत्र पञ्चम्याः
जन्यत्वमर्थः। तस्य बुधधात्वर्थबोधे ऽन्वयः। ण्यत्प्रत्ययस्य
वषियत्वमर्थः। तथा च एतत्पदजन्यबोधविषयो ऽयमर्थ इति
लभ्यते। तदाह-इति मूलस्येति। आधुनिकसङ्केतस्येत्यादि।
डित्थादिपदादयमर्थो बोद्धव्य
इत्याकारकाधुनिकेच्छारूपसङ्केतग्रहात् डित्थादिपदात्
व्यक्तिविशेषबोधो भवतीति स्वीकारणीयम्। ऽघटदिपदात् अयमर्थो
बोध्यऽ इत्याकारकेश्वरेच्छारूपसङ्केतग्रहात् घटादिपदात्
घटादिबोध इति वक्तव्यम्। सङ्केतत्वं च
तत्तत्पदबोद्धव्यत्वप्रकारकाधुनिकेच्छा - ईश्वरेच्छयोःसाधारणो
धर्मः। तथा चेश्वरेच्छायाः शक्तित्वे
उभयसाधारणस्ङ्केतत्वावच्छिन्नविषयकज्ञानत्वेन शाब्दबोधं प्रति
एकविधमेव कारणत्वम्। तत्तत्पदजन्यबोधविषयत्वप्रकारकस्य
ईश्वरज्ञानस्य ईश्वरप्रयत्नस्य वा शक्तित्वे तु डित्थादिपदस्थले
इच्छारूपसङ्केतज्ञानात् शाब्दबोधः घटादिपदस्थले तु
ईश्वरज्ञानरूपा ईश्वरप्रत्नरूप वा या शक्तिः तज्ज्ञानादपि
शाब्दबोध इत्येवं अनेके कार्यकारणभावाः कल्पनीया इति
गौरवम्। अतः ईश्वरेच्छैव शक्तिरित्यर्थः। विनिगमकं विनिगमना
इति पदयोः अन्यतरपक्षसाधकयुक्तिरित्यर्थः।
न च भगवदिच्छाया
इत्यादि। ईश्वरेच्छायाः सर्वविषयकत्वमेकत्वं चाङ्गीक्रियते।
सा चेत् शक्तिः तर्हि पटादेरपि ऽघटादिपदवाच्यत्वं प्रसज्येत। तथा
हि - विशेष्यतासम्बन्धेन
घटपदजन्यबोधविषयत्वप्रकारकभगवदिच्छावत्वं घटपदशक्यत्वमिति
वक्तव्यम्। ऽघटपदजन्यबोधविषयो घटो भवतुऽ इत्याकारिकायां
भगवदिच्छायां घटो विशेष्यः घटपदजन्यबोधविषयत्वं प्रकारः।
घटपदजन्यबोधविषयत्वप्रकारकेश्वरेच्छायाः
स्वनिरूपितविशेष्यतासम्बन्धेन घटे सत्त्वात् घटस्य
घटपदशक्यत्वम्। ईश्वरेच्छायाश्च एकत्वात् तस्याः
ऽपटपदजन्यबोधविषयः पटो भवतुऽ, ऽकुड्यपदजन्यबोधविषयः
कुड्यं भवतुऽ इत्याद्याकारकत्वमप्यङ्गीकरणीयम्। तथा
चेश्वरेच्छायां पटादेरपि विशेष्यत्वात्
घटपदजन्यबोधविषयत्वप्रकारकेश्वरेच्छायाः विशेष्यतासम्बन्धेन
पटादावपि सत्त्वात् पटादेरपि घटपदवाच्यत्वप्रसङ्गः। एवं
ऽगङ्गापदजन्यबोन्धविषयः प्रवाहो भवतुऽ,
ऽतीरपदजन्यबोधविषयः तीरं भवतुऽ इत्याकारकताया
अपीश्वरेच्छायाः वक्तव्यतया तत्र गङ्गापदजन्यबोधविषयत्वं
प्रकारःतीरं विशेष्यमिति
गङ्गापदजन्यबोधविषयत्वप्रकारकेश्वरेच्छायाः विशेष्यतासम्बन्धेन
तीरे ऽपि सत्त्वात् तीरस्यापि गङ्गापदवाच्यत्वात्
शक्त्यैव गङ्गापदात्
तीरस्य बोधसम्भवेन तीरे गङ्गापदस्य लक्षणा अनावश्यिकीति
लक्षणायाः भङ्गश्च प्रसज्येतेति शङ्कायाः आशयः।
घटपदबोद्धव्यत्वप्रकारकतदिच्छाया इति।
घटपदजन्यबोधविषयत्वप्रकारकेश्वरेच्छाया इत्यर्थंः।
यतस्तत्पदवाच्यत्वमित्यादि। विशेष्यतासम्बन्धेन
तत्पदजन्यबोधविषयत्वप्रकारकेश्वरेच्छावत्त्वं न तत्पदवाच्यत्वम्,
येन पूर्वोक्तदोषौ स्याताम्। अपि तु
तत्पदजन्यबोधविषयत्वनिष्ठप्रकारतानिरूपिता या
ईश्वरेच्छानिरूपिता विशेष्यता तद्वत्त्वम्
तत्पदजन्यबोधविषयत्वनिष्ठप्रकारतानिरूपितविशेष्यतासम्बन्धेननेश्वरेच्छावत्त्वंवा
तत्पदवाच्यत्वम्। ईश्वरेच्छाया एकत्वेन तस्यां सर्वस्य विशेष्यत्वे
प्रकारत्वे ऽपि च ईश्वरेच्छीया तत्तत्पदार्थनिष्ठा विशेष्यता
प्रकारभेदेन भिन्नभिन्ना भवति। एवं च ऽघटपदजन्यबोधविषयो
घटो भवतु,ऽ ऽपटपदजन्यबोधविषयः पटो भवतुऽ
इत्यद्याकारकेश्वरेच्छानिरूपिता घटनिष्ठा विशेष्यतैव
घटपदजन्यबोधविषयत्वनिष्ठप्रकारतानिरूपिता, न पटनिष्ठा
विशेष्यता, पटांशे घटपदजन्यबोधविषयत्वस्येश्वरेच्छाया
अनवगाहनात्। अतः
घटपदजन्यबोधविषयत्वनिष्ठप्रकारतानिरूपितविशेष्यतासम्बन्धेन
ईश्वरेच्छायाः घटे एव सत्त्वात् घटस्यैव घटपदवाच्यत्वं न
पटादेः। एवं लक्षणास्थले ऽगङ्गापदजन्यो बोधो भवतुऽ
ऽबोधविषयः तीरं भवतुऽ इत्याकारकत्वमेव
ईश्वरेच्छायामङ्गीक्रियते।
गङ्गापदजन्यत्वनिष्ठप्रकारतानिरूपित -
बोधनिष्ठप्रकारतानिरूपित -
विषयत्व-निष्ठप्रकारतानिरूपित-विशेष्यतासम्बन्धेन
ईश्वरेच्छावत्त्वमेव गङ्गापदवाच्यत्वम्।
पूर्वप्रदर्शितविशकलितभानात्मिकायामीश्वरेच्छायां
बोधनिष्ठप्रकारतायां
गङ्गापदजन्यत्वानिष्ठप्रकारतानिरूपितत्वंनास्तीति
उक्तसम्बन्धेनेश्वरेच्छावत्त्वस्य तीरे ऽभावात् गङ्गापदवाच्यत्वं
तीरस्य नास्तीति तीरे गङ्गापदलक्षणायाः स्वीकार्यतया। न
लक्षणोच्छेदापत्तिश्चेति भावः। तदृशस्य घटपदवाच्यत्वस्येति।
घटपदजन्यबोधविषश्यत्वनिष्ठप्रकारतानिरूपितविशेष्यतासम्बन्धेनेश्वरेच्छावत्त्वरूपस्य
घटपदवाच्यत्वस्येत्यर्थः। नातिप्रसङ्गः - न पटस्य
घटपदवाच्यत्वप्रसङ्गः।
ननु शक्त्या यत्र
पदार्थबोधो भवति तत्रैवेश्वरेच्छायां आवश्यकता। लक्षणता यत्र
बोधः, तत्र नेश्वरेच्छाया आवश्यकत्वम्।
शक्यसम्बन्धमात्रस्यैवापेक्षितत्वात्। तथा च ऽगङ्गापदजन्यो बोधो
भवतु, बोधविषयस्तीरं भवतुऽ, इत्यद्याकारकेच्छाकल्पनं मुधा।
तीरस्य गङ्गापदवाच्यत्वं तु प्रागुक्तप्रकारेणैव वार्यते।
वाच्यार्थंप्रवाहसम्बन्धमात्रेण तीरस्य गङ्गापदलक्ष्यत्वोपपत्तेरित्यत
आह - सङ्क्षेप इति। कार्यसामान्यं प्रति ईश्वरेच्छायाः
कारणत्वात् गङ्गापदात् तीरविषयकबोधं प्रत्यपि ईश्वरेच्छा
कारणमिति वक्तव्यम्। तत्र किमाकारा ईश्वरेच्छा कारणमिति
जिज्ञासायां तीरादौ गङ्गापदवाच्यत्वव्यवहाराभावात्
उक्तविशकलितभानवती ईश्वरेच्छैव कारणमित्यवश्यवक्तव्यत्वात्
इति भावः।
दीपिका
विशिष्टशक्तिस्थापनम्
ननु
गवादिपदानां जातावेव शक्तिः, विशेषणतया जातेः
प्रथममुपस्थितत्वात्। व्यक्तिलाभस्तु आक्षेपादिति केचित्। तन्न -
ऽगामानयऽ इत्यादौ वृद्धव्यवहारेण सर्वत्रानयनादेः व्यक्तावेव
सम्भवेन, जातिविशिष्टव्यक्तावेव शक्तिकल्पनात्।
प्रमाशिका
विशिष्टे शक्तिं
व्यवस्थापयितुं मीमांसकमतं उपन्यस्य दूषयतिगवादीति।
विशेषणीभूतजातिग्रहमन्तरा विशिष्टग्रहासम्भवेन विशिष्टे
शक्तिकल्पनं न सम्भवति। अतः जातिग्रहस्य प्रथममपेक्षितत्वेन
जातावेव शक्तिकल्पनं उचितम् लाघवात् इत्याह - विशेषणतयेति।
प्रथममुपस्थितत्वादिति। विशिष्टग्रहात् पूर्वमवगतत्वादित्यर्थः।
कथं तर्हि व्यक्तिलाभ इत्यत आह - व्यक्तीति। आक्षेपादिति।
अर्थापत्तिप्रमाणादित्यर्थः। व्यक्तावेव सम्भवेनेति।
अनुपपत्तिप्रतिसन्धानशून्यतादशायामपि व्यक्तिभानस्य
अनुभवसिद्धत्वेन चेत्यपि बोध्यम्। विशिष्टव्यक्तावेवेति। एवकारेण
केवलजातिकल्पनव्यवच्छेदः।
अत्रेदं
बोध्यम्-जाति-तद्वैशिष्ट्य-तदाश्रयेषु त्रिषु शक्तिः कल्पनीया।
पदार्थद्वयसम्बन्धस्यैव पदद्वयसमभिव्याहारलभ्यत्वेनान्यस्याशक्यस्य
शाब्दबोधे भानासम्भवादिति।
नव्यास्तु -
लक्ष्यतावच्छेदकत्वग्रहमात्रेण लक्ष्यतावच्छेदकस्य यथा शाब्दबोधे
भानं तथा शक्यतावच्छेदकत्वग्रहमात्रेण शक्यतावच्छेदकस्यापि
शाब्दबोधे भानं सम्भवतीति शक्यतावच्छेदके च शक्तिः न
कल्पनीयेति वदन्ति।
बालप्रिया
विशिष्टे शक्तिं
व्यवस्थापयितुमिति। गवादिपदानां गोत्वादिजातिविशिष्टव्यक्तौ
शक्तिं निर्धारयितुमित्यर्थः। विशिष्टग्रहासम्भवेनेति।
विशिष्टविषयकबुद्धौ विशेषणविषयकज्ञानस्य कारणत्वेन
गोत्वविशिष्टव्यक्तिज्ञानात् पूर्वं गोत्वरूपविशेषणज्ञानं आवश्यकम्।
तथा च प्रथमोपस्थितत्वात् लाघवाच्च जातावेव
शक्तिकल्पनमुचितम्, न तु तद्विशिष्टव्यक्ताविति भावः। जातावेवेति।
एवकारेण व्यक्तिषु शक्तिव्यवच्छेदः। लाघवादिति। व्यक्तीनामानन्त्यात्
जातेश्चैकत्वादिति भावः। ननु जातौ शक्तिस्वीकारे गवादिपदात्
गोत्वादिजातेरेव बोधः स्यात् न तु व्यक्तेः। गोपदशक्यत्वात्।
गोपदाशक्यस्यापि गोपदात् बोधाङ्गीकारे गोपदात्
घटादेरपि बोधः स्यादित्यशयेन शङ्कते - कथं तर्हीति।
अर्थापत्तिप्रमाणादित्यर्थ इति। जातिविषयकज्ञानस्य
व्यक्तिविषयकतानियमात् व्यक्तिभानं विना
जातिभानमनुपपन्नमित्यनुपपत्तिप्रतिसन्धानरूपार्थापत्तिप्रमाणजन्यव्यक्त्युपस्थित्या
गोपदजन्यशाब्दबोधे व्यक्तेर्भानमिति भावः। इदमुपलक्षणम्।
गोपदस्य गोव्यक्तौ शक्त्यभावे ऽपि लक्षणा अङ्गीक्रियते। अतो
लक्षणया शाब्दबोधे व्यक्तिभानमित्यपि द्रष्टव्यम्। एतेन
गोव्यक्तिवाचकपदाभावे ऽपि अर्थापत्तिप्रमाणोपस्थितगोव्यक्तेः
शाब्दबोधे भानाङ्गीकारे पदादनुपस्थितस्य
प्रत्यक्षादिनोपस्थितस्यापि घटादेः शाब्दबोधे
भानापत्तिरित्यपास्तम्। अनुपपत्तिप्रतिसन्धानेति। व्यक्तिभानं विना
जातिभानमनुपपन्नमित्याकारकानुपपत्तिप्रतिसन्धानशून्यकाले ऽपि
व्यक्तिभानस्यानुभवसिद्धतया नार्थापत्तिप्रमाणात् व्यक्तिभानम्।
अन्वयानुपपत्तिप्रतिसन्धानशून्यकाले ऽपि व्यक्तिभानस्यानुभवसिद्धतया
न लक्षणया व्यक्तिभानमित्यर्थः। केवलजातिकल्पनव्यच्छेद इति।
केवलजातौ शक्तिकल्पनस्य व्यवच्छेद इत्यर्थः।
ननु
जातिविशिष्टव्यक्त्तौ शक्तिकल्पने जातौ, जातिव्यक्त्योः यः
समवायरूपः सम्बन्धः तत्र च शक्त्यभावात् कथं गोपदजन्यबोधे
गोत्वजातेः गोत्वसमवायस्य च भानोपपत्तिः। शक्यतावच्छेदकत्वात्
कथञ्चित् गोत्वभानोपपत्तावपि
शक्यतानवच्छेदकस्य
समवायस्य कथं भानम्। न चाकाङ्क्षया भानमिति वाच्यम्। द्वाभ्यां
पदाभ्यां उपस्थितयोरर्थयोः यः सम्बन्धः तस्य द्वाभ्यां शक्तिभ्यां
उपस्थितयोरर्थयोर्यः सम्बन्धः तस्य वा
समभिव्याहाररूपाकाङ्क्षाभास्यत्वात् पदार्थतदवच्छेदकयोः
सम्बन्धस्याकाङ्क्षाभास्यत्वानुपपत्तेः इत्याशङ्क्याह - अत्रेदं
बोध्यमित्यादिना। तथा च घटत्व-समवाय-घटेषु त्रिषु घटपदस्यैका
शक्तिः, तथा च शक्यत्वात् त्रयाणामपि घटपदजन्यबोधे भानं
सम्भवतीति भावः। पदार्थद्वयसम्बन्धस्यैवेति।
पदद्वयोपस्थप्यार्थद्वयसम्बन्धो वा भिन्नाभ्यां
वृत्तिभ्यामेकपदोपस्थाप्यार्थद्वयसम्बन्धो वा पदार्थद्वयसम्बन्ध
इत्यनेन विवक्षितः। एवकारेण शक्य-शक्यतावच्छेदकयोः सम्बन्धो
व्यवच्छिद्यते। पदद्वयसमभिव्याहारलभ्यत्वेनेति।
आवकाङ्क्षाभास्यत्वेनेत्यर्थः। अन्यस्याशक्यस्येति। अकाङ्क्षया अलभ्यस्य
संसर्गस्य शक्यत्वरहितस्य शक्यतावच्छेदकस्य
घटत्वादिजातेश्चेत्यर्थः।
नव्यास्त्विति। यथा
गङ्गायां घोष इत्यादौ तीरे गङ्गापदस्य लक्षणास्वीकारे ऽपि
तीरत्वे लक्षणाविरहे ऽपि तीरत्वस्य लक्ष्यतावच्छेदकत्वात् तीरत्वं
लक्ष्यतावच्छेदकमित्याकारकलक्ष्यतावच्छेदकत्वप्रकारकज्ञानमात्रेण
अलक्ष्यस्यापि तीरत्वस्य शाब्दबोधे भानम्, तथा घटत्वे
शक्तिविरहे ऽपि घटत्वं
शक्यतावच्छेदकमित्याकारकशक्यतावच्छेदकत्वप्रकारकज्ञानमात्रेण
घटपदात् घटत्वस्य भानं सम्भवतीति शक्यतावच्छेदके घटादौ
शक्तिः न कल्पनीयेति भावः।
अत्र केचित् -
शक्यतावच्छेदके शक्त्यस्वीकारे पृथिवीपदात् कदाचित्
अष्टद्रव्यातिरिक्तद्रव्यत्वेन कदाचिद्गन्धवत्त्वेन कदाचित्पृथिवीत्वेन
च शाब्दबोधापत्तिः। पृथिवी पृथिवीपदशक्या इतिवत्
अष्टद्रव्यातिरिक्तद्रव्यं
गन्धवान् वा
पृथिवीपदशक्यमित्याकारस्य शक्तिग्रहस्य सम्भवात्। तीरत्वावच्छिन्ने
गङ्गापदशक्यसम्बन्धरूपलक्षणाज्ञानात् तीरत्वेन तीरबोधः,
गङ्गातीरत्वावच्छिन्ने गङ्गापदलक्षणाज्ञानात् गङ्गातीरत्वेन
तीरबोध इतिवत्। तथा च लक्षणया
यत्किञ्चिदेकधर्मावच्छिन्नविषयक एव शाब्दबोध इति यथा न
नियमः तथा
शक्यार्थबोधे ऽपि नियमो न स्यात्। शक्यतावच्छेदके शक्तिस्वीकारे
तु पृथिवीपदात् पृथिवीत्वेनैव शाब्दबोध इति नियम उपपद्यते।
अतः शक्यतावच्छेदके ऽपि शक्तिः स्वीकरणीयेत्याहुः।
तच्चिन्त्यम्।
यद्धर्मप्रकारकशाब्दबोध इष्यते
तद्धर्मधर्मिकशक्यतावच्छेदकत्वप्रकारकशक्तिज्ञानमेव
तादृशशाब्दबोधहेतुः। शक्यतावच्छेदकश्च सर्वत्र
शक्यत्वान्यूनानतिप्रसक्तः लघुरेव धर्मः, सम्भवति
लघुधर्मस्यावच्छेदकत्वे गुरुधर्मस्य
स्वरूपसम्बन्धरूपावच्छेदकत्वानङ्गीकारात्। तथा च
पृथिवीत्वापेक्षया अष्टद्रव्यातिरिक्तद्रव्यत्वादेर्गुरुत्वात् न
शक्यतावच्छेदकत्वम्। अतस्तत्र शक्यतावच्छेदकत्वज्ञानं प्रमात्मकं न
सम्भवतीति न तस्य प्रमात्मकशाब्दबोधहेतुत्वम्। लक्षणास्थले तु
ऽतीरं प्रवाहसम्बन्धवत्ऽ इत्याकारकस्येव ऽगङ्गातीरं
प्रवाहसम्बन्धवत्ऽ इत्याकारकस्यापि लक्षणाज्ञानस्यानुभवसिद्धतया
गुरावपि स्वरूपसम्बन्धरूपलक्ष्यतावच्छेदकत्वज्ञानं
शाब्दबोधहेतुरुपेयते। तथा च शक्तिस्थले पृथिवीत्वेनैव शक्त्या
पृथिवीपदात् पृथिवीबोधः, न तु अष्टद्रव्यातिरिक्तद्रव्यत्वादिनेति
नियमः, लक्षणास्थले कदाचित् तीरत्वेन कदाचित् गङ्गातीरत्वेन
बोध इत्यनियमश्चोपपद्यत इति लक्ष्यतावच्छेदके यथा न लक्षणा
तथा शक्यतावच्छेदके ऽपि न शक्तिरिति नवीनानामाशयः। तदेतत्सर्वं
लक्ष्यतावच्छेदकत्वग्रहमात्रेण शक्यतावच्छेदकत्वग्रहमात्रेण इति
पदाभ्यां सूचितमिति ध्येयम्।
दीपिका
शक्तिग्रहोपायप्रतिपादनम्
शक्तिग्रहश्च
वृद्धव्यवहारेण। व्युत्पित्सुर्बालः ऽगामानयऽ इति
उत्तमवृद्धवाक्यश्रवणानन्तरं मध्यमवृद्धस्य प्रवृत्तिमुपलभ्य गवानयनं
च दृष्ट्वा मध्यमवृद्धप्रवृत्तिजनकज्ञानस्य अन्वयव्यतिरेकाभ्यां
वाक्यजन्यत्वं निश्चित्य ऽअश्वमानय, गां बधानऽ इति वाक्यान्तरे
आवापोद्वापाभ्यां गोपदस्य गोत्वविशिष्टे शक्तिः, अश्वपदस्य
अश्वत्वविशिष्टे शक्तिरिति व्युत्पद्यते।
प्रकाशिका
शक्तिग्रहश्च
वृद्धव्यवहारेणेति। शक्तिग्रहस्तु वृद्धव्यवहारादिना सम्भवतीत्यर्थः।
आदिना व्याकरणादिपरिग्रहः। अत एव
"शक्तिग्रहं
व्याकरणोपमानकोशाप्तवाक्याद्व्यवहारतश्च।
वाक्यस्य
शेषाद्विवृतेर्वदन्ति सान्निध्यतः सिद्धपदस्य वृद्धाः॥
इत्यभियुक्तोक्तिः
सङ्गच्छते। व्याकरणात् प्रकृतिप्रत्ययादीनां शक्तिग्रहः। उपमानात्
शक्तिग्रहस्तु अधस्ताद्दर्शितः।
ऽअप्येकदन्तहेरम्बलम्बोदरगजाननाःऽ इति
कोशादेकदन्तादिशब्दाः गणेशत्वविशिष्टे शक्ता इत्यर्थकात्
गणेशत्वविशिष्टे शक्तिग्रहः। तत्रैकदन्तादिशब्दानामेव पदार्थतया
तेषां विभिन्नत्वेन द्वन्द्वोपपत्तिः। ऽकोकिलः पिकशब्दवाच्यःऽ
इत्याप्तवाक्यात् पिकपदस्य कोकिले शक्तिग्रहः।
व्यवहारतः शक्तिग्रहं
उपपादयति - व्युत्पित्सुरिति। शक्तिग्रहेच्छावानित्यर्थः। उत्तमवृद्वेति।
प्रयोजकवृद्धेत्यर्थः। मध्यमवृद्धस्येति। प्रयोज्यवृद्धस्येत्यर्थः।
गवानयनं दृष्ट्वा प्रवृत्तिमुपलभ्य चेत्यन्वयः।
उपलभ्येत्यस्यानुमायेत्यर्थः। ऽइयं क्रिया प्रयत्नपूर्विका
विलक्षणक्रियात्वात् स्वीयक्रियावत्ऽ इत्यनुमानप्रयोगो बोध्यः।
प्रवृत्तिजनकज्ञानस्य - गवानयनगोचरप्रयत्नजनकगवानयनज्ञानस्य।
वाक्यस्य विशिष्टेर्ऽथे शक्तिर्न कल्पनीया, तादृशार्थस्य
समभिव्याहारलभ्यत्वात्। ऽअनन्यलभ्यो हि शब्दार्थऽ इति
न्यायादित्यभिसन्धिमाह - अश्वमानयेत्यादि। आवापोद्वापाभ्यामिति।
आवापः - सङ्ग्रहः। उद्वापः - त्यागः। व्युत्पद्यत इति। व्युत्पत्त्याश्रयो
भवतीत्यर्थः।
वाक्यशेषात् यथा -
ऽयवमयश्चरुर्भवतिऽ इत्यत्र यवशब्दः आर्यव्यवहारात्
दीर्घशूकविशिष्टस्य वाचकः, म्लेच्छव्यवहारात् प्रियङ्गोर्वाचको
वेति संन्देहे -
ऽवसन्ते सर्वसस्यानां
जायते पत्रशातनम्।
मोदमानाश्च तिष्ठन्ति
यवाः कणिशशालिनः॥ऽ
इति वाक्यशेषात्
दीर्घशूकविशिष्टे शक्तिनिर्णयः। प्रियङ्गौ तु शक्तिभ्रमात् प्रयोगः।
विवरणात् यथा-
ऽपयति पाकं करोतिऽ इत्यत्र यत्नार्थककरोतिना
सर्वाख्यातव्याख्यानात् आख्यातस्य
यत्नत्वविशिष्टे
शक्तिग्रहः। प्रसिद्धपदसान्निध्यात् शक्तिग्रहस्तु ऽविकसितपद्मे
मधुकरःऽ इत्याद्यग्रिमग्रन्थेन स्फुटीभविष्यति इत्यलं पल्लवितेन।
बालप्रिया
वृद्धव्यवहारेणेति। वद्धयोः ज्ञानवतोः व्यवहारः प्रवृत्तिः
शब्दप्रयोगश्च वृद्धव्यवहारः। प्रकृतिप्रत्यपादीनामिति। ऽभू
सत्तायाम्ऽ इत्यादिव्याकरणात् भूप्रभृतीनां प्रकृतीनां
सत्तादिरूपार्थे शक्तिग्रहः। ऽलः कर्मणि च भावे चाकर्मकेभ्यःऽ
इत्यादिव्याकरणात् प्रत्ययस्यार्थंविशेषे शक्तिग्रहः। अधस्ताद्दर्शित
इति। पूर्वमुपमानपरिच्छेद दर्शितः। ननु ऽअप्येकदन्तहेरम्बऽ
इत्यादिकोशे एकदन्तहेरम्बादिशब्दानां पर्यायत्वेन
एकार्थवाचकतया कथं द्वन्द्वसमासः। पदार्थभेद एव
द्वन्द्वसमासाङ्गीकारादित्यत्राह - तत्रैकदन्तादीति। एते शब्दाः
एतादृशार्थबोधका इति ज्ञापनार्थं हि कोशः। तत्रैकदन्तादयः
शब्दाः तत्तदानुपूर्वीकशब्दर्थका एवेति भावः।
दीपिकायाम्
व्युत्पित्सुर्बाल इत्यादि। कश्चित् बालकः गवादिपदानां कस्मिन्नर्थे
शक्तिरिति जिज्ञासते। स कदाचित् केनचित् प्रेरकेण आचार्यादिनां
शिष्यं प्रति उक्तं ऽगामानयऽ इति वाक्यं शृण्वतः शिष्यस्य गवानयनं
पश्यति। ततः गवानयनरूपक्रियां प्रति कारणभूतं
प्रयत्नमनुमिनोति। ततः किञ्चित्क्रियाविषयकप्रयत्नं प्रति
तत्क्रियाविषयकज्ञानस्य कारणत्वात् तादृशज्ञानं प्रति
प्रयोजकवृद्धप्रयुक्तं वाक्यमेव कारणमित्यन्वयव्यतिरेकाभ्यां
निश्चिनोति। ततश्च प्रयोज्यवृद्धस्य गोकर्मकानयनविषयकं ज्ञानं
ऽगामानयऽ इति वाक्यजन्यमिति निश्चिनोति। तत्र
गोपदस्य
गोत्वविशिष्टे शक्तिं विना गोपदार्थस्य कर्मत्वे ऽन्वयासम्भवात्
गोपदस्य गोत्वविशिष्टे शक्तिरित्यपि निश्चिनोति इत्यनया रीत्या
व्यवहारस्य शक्तिग्राहकत्वमिति भावः। प्रवृत्तिशब्दः प्रयत्नपरः।
ननु प्रवृत्तिजनकस्य
गवानयनविषयकज्ञानस्य वाक्यजन्यत्वात् वाक्यस्यैव गोकर्मकानयने
शक्तिः कल्प्यतामित्यत्राह - प्रकाशिकायाम् वाक्यस्येति। विशिष्टेर्ऽथे
इति। गोकर्मकत्वविशिष्टानयनरूपे वाक्यार्थे इत्यर्थः। तथा च
पदशक्त्या उपस्थितानामर्थानां अन्वयरूपस्य वाक्यार्थस्य
समभिव्याहाररूपाकाङ्क्षयैव भानोपपत्त्या वाक्यार्थे न शक्तिरिति
भावः। अपि च गोपदस्यानयनान्वितगवि शक्तिस्वीकारे ऽगां बधानऽ
इत्यत्रापि तादृशगोबोधोपपत्तिः। एवमानयपदस्य गोकर्मकानयने
शक्तिस्वीकारे ऽअश्वमानयऽ इत्यत्रापि तद्बोधापत्तिः। अतः गोपदस्य
गोत्वविशिष्टे आनयपदस्य आनयनत्वविशिष्टे च शक्तिर्निश्चीयते।
क्रियाकारकयोरन्वितत्वं तु समभिव्याहारलभ्यमित्यावापोद्वापाभ्यां
सुनिश्चयम्। एतदभिप्रायेणैव आवापोद्वापोपन्यास इति भावः।
व्युत्पत्याश्रयो भवतीति। शक्तिनिश्चयवान् भवतीत्यर्थः।
विवरणाद्यथेति।
तत्समानार्थकपदान्तरेण तदर्थकथनं विवरणम्। ऽशक्तिग्रहं
व्याकरणोपमानऽ इत्यादिश्लोकानुक्तानां
अङ्गुलिनिर्देशपूर्वकशब्दप्रयोगादीनामपि शक्तिग्राहकत्वं
मनसिकृत्योक्तम् - अलं पल्लवितेनेति।
दीपिका
शब्दानां
सिद्धपरत्वमपीति निरूपणम्
ननु सर्वत्र
कार्यपरत्वात् व्यवहारस्य कार्यपरवाक्य एव व्युत्पत्तिः न सिद्धपर
इति चेत् - न। ऽकाश्यां त्रिभुवनतिलको भूपतिरास्तेऽ इत्यादौ
सिद्धे ऽपि व्यवहारात् ऽविकसितपद्मे मधुकरः तिष्ठतिऽ इत्यादौ
प्रसिद्धपदसमभिव्याहारात् सिद्धे ऽपि मधुकरादिव्युत्पत्तिदर्शनात्
च।
प्रकाशिका
व्यवहारस्य।
कार्यपरत्वादिति योजना। कार्यपरत्वं च
कृतिसाध्यानयनादिरूपक्रियातात्पर्यकत्वम्। व्युत्पत्तिः - शक्तिग्रहः।
व्यवच्छेद्यं स्फुटयति - न सिद्धेति। सिद्धे ऽपि व्यवहारादिति। तथा च
सिद्धे ऽपि शक्तिग्रहस्त्वावश्यकः। अन्यथा तत्रानुभवसिद्धस्य शब्दबोधस्य
अपलापापत्तेरिति भावः।
बालप्रिया
सिद्धे ऽपि शक्तिग्रह
इत्यत्र सिद्धशब्दः क्रियाव्यतिरिक्तपरः।
दीपिका
लक्षणानिरूपणम्
लक्षणापि
शब्दवृत्तिः। शक्यसम्बन्धो लक्षणा। गङ्गायां घोष इत्यत्र
गङ्गापदवाच्यप्रवाहसम्बन्धादेव तीरोपस्थितौ तीरे ऽपि शक्तिर्न
कल्प्यते। सैन्धवादौ लवणाश्वयोः परस्परसम्बन्धाभावात्
नानाशक्तिकल्पनम्।
लक्षणा त्रिविधा -
जहल्लक्षणा, अजहल्लक्षणा, जहदजहल्लक्षणा चेति। यत्र
वाच्यार्थस्यान्वयाभावः तत्र जहल्लक्षणा। यथा मञ्चाः क्रोशन्तीति। यत्र
मूल पाठ: Tarkasaṃgraha with autoentary (Dīpikā), Nīlakaṇṭha's Dīpikāprakāśikā and Bālapriyā · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0