तर्कसंग्रह (टीका सहित) · भाग 201220
बालप्रिया
विशेष्यतासम्बन्धेनेति। ऽपर्वतो वह्निमान् न वाऽ
इत्याकारके संशये वह्निः प्रकारः पर्वतो विशेष्य इति
1. अत एव
प्रसिद्धसाध्यकस्थले पक्षविशेष्यिकैवानुमितिरनुभूयतेऽ इति
पक्षतायां दीधितिग्रन्थः। अत्र प्रसिद्धसाध्यकस्थले
पक्षविशेष्यकानुमितिरिति कथनात् अप्रसिद्धसाध्यकस्थले
साध्यविशेष्यकानुमितिरिति सूच्यते। तत्र गदाधरीयव्याख्यानं ऽकिं
तु अप्रसिद्धसाध्यकस्थले विशेषणज्ञानादिविरहेण
साध्यविशेषणकानुमितेरनुपपत्त्या साध्यविशेष्यकानुमितिरूपेयतेऽ
इत्याद्युक्तं द्रष्टव्यम्।
साध्यप्रकारकतादृशसंशयस्य विशेष्यतासम्बन्धेन पर्वते
सत्त्वात् पर्वतस्य पक्षता। प्रकारतासम्बन्धेन तादृशसंशयस्य वह्नौ
सत्त्वात् वह्नेः पक्षत्ववारणाय विशेष्यतासम्बन्धेनेत्युक्तम्।
सपक्षलक्षणादिकमप्येवं परिष्कर्तव्यमिति। विशेष्यतासम्बन्धेन
साध्यप्रकारकनिर्णयविशिष्टः सपक्षः, विशेष्यतासम्बन्धेन
साध्याभावप्रकारकनिर्णयविशिष्टः
विपक्षः इति रीत्या
परिष्कर्तव्यमित्यर्थः। संशयविघटकेति। आत्मा
देहेन्द्रियादिविलक्षणो न वेति सन्देहस्य प्रतिबन्धकः यः
वेदवाक्यजन्यः शाब्दबोधः आत्मा देहेन्द्रियादिविलक्षणः
इत्याकारकः तत्र तादृशशाब्दबोधात्मकश्रवणानन्तरं आत्मा
देहेन्द्रियादिविलक्षण इत्याकारकानुमितिरूपं मननं न स्यात्।
आत्मनः विशेष्यतासम्बन्धेन
सादध्यप्रकारकसन्देहवत्त्वरूपपक्षत्वाभावादिति भावः।
तर्कसङ्ग्रहः
सपक्षलक्षणम्
अन्त्स्_50 निश्चितसाध्यवान् सपक्षः । यथा तत्रैव महानसः ॥
निश्चितसाध्यवान्
सपक्षः। यथा तत्रैव महानसः।
विपक्षलक्षणम्
अन्त्स्_51 निश्चितसाध्याभाववान् विपक्षः । यथा तत्रैव महाह्रदः ॥
निश्चितसाध्याभाववान विपक्षः। यथा तत्रैव महाह्रदः।
हेत्वाभासनिरूपणम्
अन्त्स्_52 सव्यभिचारविरुद्धसत्पक्षासिद्धबाधिताः पञ्च हेत्वाभासाः ॥
सव्यभिचार-विरुद्ध-सत्प्रतिपक्ष-असिद्ध-बाधिताः पञ्च
हेत्वाभासाः।
दीपिका
सपक्षलक्षणमाह -
निश्चितेति।
विपक्षलक्षणमाह -
निश्चितेति।
एवं सद्धेतून्निरूप्य
असद्धेतून्निरूपयितुं विभजते - सव्यभिचारेति।
अनुमितिप्रतिबन्धकयथार्थज्ञानविषयत्वं हेत्वाभासत्वम्।
प्रकाशिका
सद्धेतून्निरूप्य -
व्याप्त्यादिविशिष्टहेतून्निरूप्येत्यर्थः। सद्धेतुनिरूपणे
असद्धेतुस्मरणात प्रसङ्गसङ्गत्या तन्निरूपणमिति भावः। मूले
हेत्वाभासा इति। हेतुवदाभासन्त इति हेत्वाभासाः।
दुष्टहेतवो निरूप्यन्त इत्यर्थः। ननु
सामान्यधर्मप्रकारकज्ञानमन्तरा विशेषजिज्ञासानुदयेन
सव्यभिचारेत्यादिना विभागो ऽनुचित इत्याशङ्कां परिजिहीर्षुः
दोषलक्षणे ऽभिहिते दोषवत्त्वरूपदुष्टलक्षणस्यातिस्फटत्वात् लाभो
भवतीत्याशयेन दोषसामान्यलक्षणमाह - अनुमितीति।
हेत्वाभासत्वमिति। हेतोराभासाः हेत्वाभासाः हेतुनिष्ठाः दोषाः,
तेषां भावः तत्त्वमित्यर्थः। ऽह्रदो वह्निमान्ऽ इत्याद्यनुमितिं प्रति
ऽवह्न्यभाववान् ह्रदऽ इत्यादिबाधनिश्चयः प्रतिबन्धकः।
प्रमात्मकतादृशनिश्चयविषयत्वं वह्न्यभाववद्ध्रदादौ अक्षतमिति
लक्षणसमन्वयः। अत्रानुमितिपदं अजहल्लक्षणया
अनुमितितत्करणान्यतरपरम्। तेन व्यभिचारादिज्ञानस्य
परामर्शप्रतिबन्धकतयैव निर्वाहात् अनुमित्यप्रतिबन्धकत्वे ऽपि
व्यभिचारादिषु नाव्याप्तिः। ऽपर्वतो निर्वह्निःऽ इति बाधभ्रमस्य
ऽपर्वतो वह्निमान्ऽ इत्यनुमितिप्रतिबन्धकत्वात्
तद्विषयवह्न्यभावादौ अतिव्याप्तिः अतः यथार्थेति। भ्रमाभिन्नेत्यर्थः।
अथैवमपि
वह्न्यभाववद्ध्रदात्मकबाधैकदेशे वह्न्यभावादौ अतिव्याप्तिः।
ऽवह्न्यभाववान् ह्रदःऽ इत्याकारकयर्थार्थज्ञानविषयत्वस्य तत्र
सत्त्वादिति चेत्-न। यद्रूपावच्छिन्नविषयकज्ञानसामान्यं
अनुमितिप्रतिबन्धकं तद्रूपावच्छिन्नत्वं
दोषत्वमित्यर्थपर्यवसानेनादोषात्।
वह्न्यभावत्वावच्छिन्नविषयकस्य ऽवह्न्यभाववान् ह्रदःऽ इति
ज्ञानस्यानुमितिप्रतिबन्धकत्वे ऽपि तादृशज्ञानसामान्यान्तर्गतस्य
ऽवह्न्यभावऽ इत्याकारकज्ञानस्य अप्रतिबन्धकत्वेन वह्न्यभावत्वादेः
यद्रूपपदेनोपादानासम्भवात्। न च तर्हि यथार्थपदं व्यर्थम्।
ऽपर्वतो निर्वह्निःऽ इति भ्रमविषये ऽपि वह्न्यभावादावतिव्याप्तेः
उक्तरीत्यैव वारणादिति वाच्यम्। ज्ञानपदस्य
ज्ञानविशेषतात्पर्यग्राहकतया यथार्थपदसार्थक्यात्। एवं च
यद्रूपावच्छिन्नविषयकानाहार्याप्रामाण्यज्ञानानास्कन्दितनिश्चयसामान्यं
प्रकृतानुमितिप्रतिबन्धकं तद्रूपावच्छिन्नत्वं दोषत्वमित्यर्थः
पर्यवसितः। तेन वह्न्यभाववद्ध्रदविषयकस्य आहार्यस्य
अप्रामाण्यज्ञानविशिष्टस्य संशयस्य च अनुमित्यप्रतिबन्धकत्वे ऽपि
नासम्भव इत्यलं पल्लवितेन।
परे तु - इदं
दुष्टानामेव लक्षणम्। परन्तु ज्ञायमानव्यभिचारादेः
प्रतिबन्धकत्वमभ्युपेत्य। तदर्थस्तु अनुमितिप्रतिबन्धका ये
व्यभिचारादयः एकज्ञानविषयप्रकृतहेतुतावच्छेदकवत्त्वसम्बन्धेन
तत्प्रकारकयथार्थज्ञानविशेष्यत्वम्। ऽधूमवान् वह्नेःऽ इत्यादौ
धूमाभाववद्वृत्तित्वविशिष्टवह्निः व्यभिचारः,
उक्तसम्बन्धेन ऽतद्वान्
वह्निःऽ इत्याकारकयथार्थञ्ज्ञानविशेष्यत्वमस्तीति लक्षणसमन्वयः।
अनुमितिपदस्य प्रकृतानुमितिपरतया सद्धेतौ
अनुमितिप्रतिबन्धकीभूतव्यभिचारादीनामप्रसिद्धत्वात् नातिव्याप्तिः।
यथार्थपदानुपादाने दर्शितसम्बन्धेन
व्यभिचारप्रकारकभ्रमविशेष्यत्वस्य सद्धेतावपि सत्त्वेनातिव्याप्तिः
स्यादिति तन्निवेश इत्याहुः।
बालप्रिया
व्याप्त्यादिविशिष्टहेतूनिति। आदिपदेन पक्षधर्मता गृह्यते।
तथा च व्याप्ति-पक्षधर्मताविशिष्टहेतुत्वं सद्धेतोर्लक्षणमिति भावः।
हेतुवदाभासन्त इति। हेतुत्वप्रकारकभ्रमविषयाः इत्यर्थः।
हेतुत्वं च व्याप्तिपक्षधर्मताविशिष्टत्वम्। तथा च
व्याप्तिपक्षधर्मताविशिष्टत्वप्रकारकभ्रमविषयत्वं हेत्वाभासत्वम्।
तत्तु दुष्टहेतूनामेव भवति, सद्धेतूनां तत्प्रमाविषयत्वादिति
हेत्वाभासशब्दः दुष्टहेतुपर इति भावः। लक्षणसमन्वय इति।
तथा च ऽह्रदो वह्निमान् धूमात्ऽ इत्यत्र वह्न्यभाववद्ध्रदात्मकः
बाधः दोषः। तादृशदोषवत्त्वं च हेतोः धूमस्य
एकज्ञानविषयप्रकृतहेतुतावच्छेदकवत्त्वसम्बन्धेनास्तीति दुष्टत्वम्।
ऽवह्न्यभाववद्ध्रदः धूमत्वं चऽ इत्येकज्ञाने बाधस्य धूमत्वस्य च
विषयत्वादित्यादिकमूहनीयम्।
नन्वनुमितिप्रतिबन्धकयथार्थज्ञानविषयत्वं यदि दोषलक्षणं
तदा बाधसत्प्रतिपक्षयोरेवेदं लक्षणं समन्वियात्। बाधनिश्चयस्य
सत्प्रतिपक्षनिश्चयस्य च ऽह्रदो वह्न्यभाववान्ऽ इत्याकारकस्य ऽह्रदो
वह्न्यभावव्याप्यशैवालवान्ऽ इत्याकारकस्य च तद्वत्ताबुद्धिं प्रति
तदभाववत्तानिश्चयविधया तदभावव्याप्यवत्तानिश्चयविधया च
प्रतिबन्धकत्वात्, तद्विषयत्वरूपलक्षणसत्त्वात्।
व्यभिचारविरोधस्वरूपासिद्धिप्रभृतिषु लक्षणमिदं न समन्वेति।
तज्ज्ञानानामनुमितिप्रतिबन्धकत्वाभावात्,
अनुमितिकरणपरामर्शप्रतिबन्धकत्वस्यैव व्यभिचारादिज्ञानेषु
सत्त्वादित्यत आह - अत्रानुमितिपदमिति। तथा च
अनुमितितत्करणान्यतरप्रतिबन्धकयथार्थज्ञानविषयत्वं
हेत्वाभासलक्षणम्। परामर्शप्रतिबन्धकतयैवेति। व्यभिचारज्ञानं
परामर्शे व्याप्तिभानांशे प्रतिबन्धकम्। विरोधज्ञानं
साध्यसामानाधिकरण्यांशभाने प्रतिबन्धकम्। स्वरूपासिद्धिज्ञानं
पक्षधर्मत्वभाने प्रतिबन्धकमिति सर्वेषां
अनुमितिकरणपरामर्शप्रतिबन्धकसत्त्वात् नाव्याप्तिरिति भावः।
निर्वाहादिति। लक्षणोपपत्तेरित्यर्थः। यथार्थपदप्रयोजनमाह -
पर्वतो निर्वह्निरिति। तथा च यथार्थपदानुपादाने पर्वते
वह्न्यभाववानित्याकारकभ्रमस्य ऽपर्वतो वह्निमान्ऽ
इत्यनुमितिप्रतिबन्धकत्वात् तादृशभ्रमविषयस्य वह्न्यभावस्य
दोषत्वं स्यात्। तद्वारणाय यथार्थपदम्। उक्तभ्रमस्य
यथार्थत्वाभावात् नातिव्याप्तिरिति भावः। ननु
यथार्थपदोपादाने ऽपि ऽपर्वतो वह्न्यभाववान्ऽ इति
भ्रमवारणमशक्यम्। तस्यापि पर्वतत्ववति पर्वतत्वप्रकारकत्वेन
वह्न्यभावत्ववति वह्नभावत्वप्रकारकत्वेन च तद्वति
तत्प्रकारकत्वरूपयथार्थलक्षणाक्रान्तत्वेन यथार्थत्वादित्यत आह -
भ्रमभिन्नेत्यर्थ इति। तथा चप्रकृतलक्षणघटकं यथार्थपदं
तदभाववति तत्प्रकारकभिन्नार्थकम्। ऽपर्वतो वह्न्यभाववान्ऽ इति
ज्ञानं तु वह्न्यभावाभाववति वह्न्यभावप्रकारकतया भ्रमात्मकम्,
तद्भिन्नं न भवतीति न दोष इति भावः। भ्रमभिन्नत्वमेव सर्वांशे
प्रमात्वमित्युच्यते। तच्च 1स्वव्यधिकरणप्रकारावच्छिन्न या या
विशेष्यता तत्तदनिरूपकत्वम्।
1. स्वव्यधिकरणेति।
स्वव्यधिकरणेत्यस्य स्वाधिकरणावृत्तीत्यर्थः। शुक्तौ इदं रजतमिति
भ्रमीयशुक्तिनिष्ठविशष्यताया स्वपदेन उपादाने स्वाधिकरणं शुक्तिः
तदवृत्तिः यः प्रकारः रजतत्वं तदवच्छिन्ना या विशेष्यता
शुक्तिनिष्ठविशेष्यता तन्निरूपकत्वम् इदं रजतमिति भ्रमे
तदनिरूपकत्वं इदं रजतमिति प्रमायामिति लक्षणसमन्वयः।
1स्वानिरूपितत्वस्वाश्रयाभाववद्वृत्तित्वोभयसम्बन्धेन
प्रकारताविशिष्टा या विशेष्यता तदनिरूपकत्वमिति यावत्।
अधिकमुद्ग्रन्थेषु।
शङ्कते -
अथैवमपीति। भ्रमभिन्नार्थकयथार्थपदनिवेशे ऽपीत्यर्थः। ऽह्रदो
वह्निमान् धूमात्ऽ इत्यत्र ऽह्रदो वह्न्यभाववान्ऽ इति निश्चयस्य
प्रतिबन्धकतया तद्विषयत्वं वह्न्यभाववद्ध्र इव वह्न्यभावे ऽप्यस्ति।
तथा च अनुमितिप्रतिबन्धकयथार्थज्ञानविषयत्वरूपस्य
हेत्वाभासलक्षणस्य बाधानात्मके वह्न्यभावे ऽतिव्याप्तिरित्यर्थः।
समाधत्ते --- यद्रूपावच्छिन्नेति। तथा च यद्रूपपदेन
वह्न्यभावत्वस्योपादाने तदवच्छिन्नविषयकस्य ऽवह्न्यभाववान्
ह्रदःऽ इति
ज्ञानस्यानुमितिप्रतिबन्धकत्वे ऽपि
वह्न्यभावत्वावच्छिन्नविषयकज्ञानसामान्यान्तर्गतस्य ऽवह्न्यभावःऽ
इत्याकारकज्ञानस्य ऽह्रदो वह्निमान्ऽ
इत्याकारकानुमितिप्रतिबन्धकत्वं नास्ति। अतः
वह्न्यभाववद्ध्रदत्वमेव यद्रूपपदेन धर्तव्यम्।
तदवच्छिन्नविषयकज्ञानसामान्यस्यानुमितिप्रतिबन्धकत्वात्।
तद्रूपावच्छिन्नत्वं च वह्न्यभाववद्ध्रद एवास्ति न वन्ह्यभाव इति
नातिव्याप्तिरिति भावः। न च तर्हीति। ऽपर्वतो वन्ह्यभाववान्ऽ इति
भ्रमविषये वन्ह्यभावे ऽतिव्याप्तिवारणाय हि यथार्थपदमुपात्तम्।
निरुक्तपरिष्कारे तु यद्रूपपदेन न वन्ह्यभावत्वमुपादातुं
शक्यते।
तदवच्छिन्नविषयकज्ञानसामान्यान्तर्गतस्य वन्ह्यभावः इति ज्ञानस्य
ऽपर्वतो वन्हिमान्ऽ इत्यनुमितिप्रतिबन्धकत्वाभावात्। तथा च
वन्ह्यभावे ऽतिव्याप्त्यप्रसक्त्या यथार्थपदं व्यर्थमिति भावः।
ज्ञानविशेषतात्पर्यग्राहकतयेति।द्य ज्ञानपदेन
अनाहार्यमप्रमाण्यज्ञानानास्कन्दितं निश्चयात्मकं च ज्ञानमत्र
1. स्वनिरूपितत्वेति।
स्वं इदं रजतमितिभ्रमीया रजतत्वनिष्ठा प्रकारता तन्निरूपितत्वं
शुक्तिनिष्ठविशेष्यतायामस्ति।
एवं स्वं
रजतत्वनिष्ठप्रकारता तदाश्रयः रजतत्वं तदभाववच्छक्तिवृत्तित्वं च
विशेष्यतायामस्ति। तादृशविशेष्यतानिरूपकत्वं भ्रमे अनिरूपकत्वं
प्रमायामिति समन्वयो बोध्यः।
विवक्षितमिति
सूचनाय यथार्थपदमिति भावः। अनाहार्यत्वं
बाधकालीनेच्छाजन्यत्वाभाववत्त्वम्। तदनुपादाने ऽह्रदो वन्हिमान्ऽ
इति बाधकज्ञानकाले ऽह्रदे वन्ह्यभावज्ञानं भवतुऽ इतीच्छया
जायमानस्य ऽह्रदो वन्ह्यभाववान्ऽ इति ज्ञानस्यापि
वन्ह्यभाववद्ध्रदत्वावच्छिन्नविषयकज्ञानसामान्यान्तर्गततया तस्य
चानुमितिप्रतिबन्धकत्वाभावादव्याप्तिस्यात् बाधे। तद्वारणाय
प्रतिबनधकज्ञाने ऽनाहार्यत्वं निवेशनीयम्। एवं
अप्रामाण्यज्ञानानास्कन्दितत्वं सामानाधिकरण्यसम्बन्धेन
अप्रामाण्यज्ञानाभावविशिष्टत्वम्। तदनिवेशे ऽयत्र ह्रदो वन्ह्यभाववान्ऽ
इति ज्ञानानन्तरं ऽइदं ज्ञानं अप्रमाऽ इति ज्ञानं तत्र
बाधज्ञानस्यानुमित्यप्रतिबन्धकतया बाधे ऽव्याप्तिः। अतः तन्निवेशः।
एवं निश्चयात्मकत्वानिवेशे ऽह्रदो वन्हिमान् न वाऽ इति
संशयात्मकज्ञानस्य ज्ञानसामान्यान्तर्गतस्य अप्रतिबन्धकतया अव्याप्तिः
स्यात्। अतः तन्निवेशः। तथा च
यद्धर्मावच्छिन्नविषयकानाहार्याप्रामाण्यज्ञानानास्कन्दितनिश्चयसामान्यं
प्रकृतानुमितिप्रतिबन्धकं तद्धर्मावच्छिन्नत्वं हेतुदोषस्य लक्षणमिति
पर्यवसन्नम्।
परे त्वित्यादि।
पूर्वस्मिन् कल्पे अनुमितिप्रतिबन्धकं यथार्थः ज्ञानमिति
कर्मधारयः। अस्मिन् कल्पे अनुमितिप्रतिबन्धकानां यथार्थज्ञानमिति
षष्ठीतत्पुरुषः। ऽह्रदो वह्निमान् धूमात्ऽ इत्यत्र ऽह्रदो वन्हिमान्ऽ
इत्यनुमितिप्रतिबन्धकः वन्ह्यभाववद्ध्रदात्मको बाधः
तत्प्रकारकयथार्थज्ञानं
एकज्ञानविषयप्रकृतहेतुतावच्छेदकवत्त्वसम्बन्धेन
ऽवन्ह्यभाववद्ध्रदवान् धूमःऽ इत्याकारकं तद्विशेष्यत्वं
धूमे ऽस्तीति धूमस्य दुष्टत्वम्। ऽपर्वतो धूमवान् वन्हेःऽ इत्यत्र
व्यभिचारिणि अनुमितिप्रतिबन्धकः
धूमाभाववद्वृत्तित्वविशिष्टवन्हिरूपो व्यभिचारः
तत्प्रकारकयथार्थज्ञानं उक्तसम्बन्धेन तादृशव्यभिचारवान् वन्हिः
इत्याकारकं, तद्विशेष्यत्वं वन्हावस्तीति लक्षणसमन्वयः। ननु
ऽपर्वतो वन्हिमान् धूमात्ऽ इत्यत्रातिव्याप्तिः। अनुमितिपदेन
ऽपर्वतो धूमवान्ऽ इत्यनुमितिमुपादाय तत्प्रतिबन्धको यो
व्यभिचारः धूमाभाववद्वृत्तिवविशिष्टवन्हिरूप
एकज्ञानविषयप्रकृतहेतुतावच्छेदकवत्त्वसम्बन्धेन तत्प्रकारकं यत्
यथार्थज्ञानं तादृशवन्हिमान् धूम इत्याकारकं तद्विशेष्यत्वस्य
धूमे सत्त्वात् इत्यत आह - अनुमितिपदस्य
प्रकृतानुमितिपरतयेति।
प्रकृतपक्षतावच्छेदकावच्छिन्नोद्देश्यक-प्रकृतसाध्यतावच्छेदकावच्छ् इन्नविधेयकानुमितिपरतयेत्यर्थः।
तथा च ऽपर्वतो वन्हिमान्ऽ इत्यनुमितिरेवोपादेयतया
तत्प्रतिबन्धकदोषाप्रसिद्ध्या नातिव्याप्तिरिति भावः।
दर्शितसम्बन्धेनेति।
एकज्ञानविषयप्रकृतहेतुतावच्छेदकवत्त्वसम्बनधेनेत्यर्थः।
तर्कसङ्ग्रहः
सव्यभिचारनिरूपणम्
अन्त्स्_53 सव्यभिचारोऽनैकान्तिकः । स त्रिविधः । साधारणासाधारणानुपसंहारिभेदात् । तत्र साध्याभाववद्वृत्तिः साधारणो अनैकान्तिकः । यथा पर्वतो वह्निमान् प्रमेयत्वाद् इति प्रमेयत्वस्य वह्न्यभाववति ह्रदे विद्यमानत्वात् । सर्वसपक्षविपक्षव्यावृत्तोऽसाधारणः । यथा शब्दो नित्यः शब्दत्वाद् इति । शब्दत्वं सर्वेभ्यो नित्येभ्योऽन्त्येभ्यश् च व्यावृत्तं शब्दमात्रवृत्ति । अन्वयव्यतिरेकदृष्टान्तरहितोऽनुपसंहारी । यथा सर्वम् अनित्यं प्रमेयत्वाद् इति । अत्र सर्वस्यापि पक्षत्वाद् दृष्टान्तो नास्ति ॥
सव्यभिचारो ऽनैकान्तिकः। सः
त्रिविधः-साधारण-असाधारण-अनुपसंहारिभेदात्।
तत्र साध्याभाववद्वृत्तिः
साधारणः। यथा पर्वतो वन्हिमान् प्रमेयत्वात्। अत्र प्रमेयत्वस्य
वन्ह्यभाववति (साध्याभाववति) ह्रदे विद्यमानत्वात्।
सर्वसपक्षविपक्षव्यावृत्तो ऽसाधारणः। यथा शब्दो नित्यः
शब्दत्वात्। अत्र शब्दत्वं सर्वेभ्यः नित्येभ्यः अनित्येभ्यो व्यावृत्तम्
शब्दमात्रवृत्ति।
अन्वयव्यतिरेकदृष्टान्तरहितो ऽनुपसंहारी। यथा सर्वमनित्यं
प्रमेयत्वात्। अत्र सर्वस्यापि पक्षत्वात् दृष्टान्तो नास्ति।
दीपिका
सव्यभिचारं
विभजते---स त्रिविध इति।
साधारणं
लक्षयति---तत्रेति। उदाहरति - यथेति।
असाधारणं
लक्षयति---सर्वेति।
अनुपसंहारिणो
लक्षणमाह---अन्वयेति।
प्रकाशिका
स त्रिविध
इतीति। सामान्यलक्षणन्तु साधारणाद्यन्यतमत्वं स्फटम्।
मूले तत्रेति।
साधारणादिमध्य इत्यर्थः। साध्याभाववद्वृत्तिरिति।
साध्यतावच्छेदकधर्मसम्बन्धावच्छिन्नप्रतियोगिताकाभाववन्निरूपितहेतुतावच्छेदकसम्बन्धावच्छिन्नाधेयतावानित्यर्थः।
तेन ऽवन्हिमान् धूमात्ऽ इत्यादौ हेतुमति पर्वतादौ
तत्तत्साध्याभावस्य सम्बन्धान्तरावच्छिन्नसाध्यसामान्याभावस्य च
सत्त्वे ऽपि साध्याभाववति धूमावयवादौ समवायादिना
धूमादेर्वृत्तित्वे ऽपि च नातिव्याप्तिः। अत्र च साध्याभाववत्तायां
सम्बन्धविशेषावच्छिन्नत्वानिवेशे ऽवन्हिमान् धूमात्ऽ इत्यादौ
वन्ह्याद्यभावस्य कालिकसम्बन्धेन पर्वतादौ वृत्तेरतिव्याप्तिः।
दैशिकविशेषणताविशेषावच्छिन्नत्वनिवेशे
घटत्वाभावादिसाध्यकव्यभिचारिणि साध्याभावस्य घटत्वादेः
विशेषणताविशेषणाधिकरणाप्रसिद्ध्याव्याप्तिः। अतः
साध्यतावच्छेदकसंबन्धेन साध्यवत्ताग्रहं प्रतियेय सम्बन्धेन
साध्याभाववत्तानिश्चयः प्रतिबन्धकः तेन सम्बन्धेन साध्याभाववत्त्वं
विवक्षणीयम्। वन्ह्यादौ साध्ये तादृशसम्बन्धो दैशिकाविशेषणता,
घटत्वाभावादौ च साध्ये समवायस्तथेति न दोषः। ऽकपिसंयोगी
एतद्वृक्षत्वात्ऽ इत्यादौ तादृशसम्बन्धो
निरवच्छिन्नदैशिकविशेषणतेति दिक्।
न च
विरुद्धे ऽतिव्याप्तिरिति भ्रमितव्यम्।
उपधेयसङ्करे ऽप्युपाधेरसङ्कर इति न्यायात्, तस्य
विरुद्धसाधारण्ये ऽपि क्षतिविरहात्। मूले सर्वसपक्षव्यावृत्त इति।
सपक्षवत्तित्वसामान्याभाववानित्यर्थः। सर्वपदं
सपक्षवृत्तित्वसामान्याभावनिवेशस्फोरकम्। सपक्षपदं
निश्चितसाध्यवदर्थवदर्थकम्।
शब्दे ऽनित्यत्वसाधकशब्दत्वादिसद्धेतावपि पक्षे
साध्यसन्देहदशायामसाधारण्यस्येष्टत्वात् इति संप्रदायविदः।
नवीनास्तु ---
सद्धेतावपि पक्षे साध्यसन्देहदशायामसाधारण्यस्य
प्रकृतपरामर्शकालिकविरुद्धपरामर्शदशायां सत्प्रतिपक्षस्य च
स्वीकारे बाधभ्रमदशायां बाधस्याप्यङ्गीकारापत्तेः। न हि वैषम्ये
युक्तिं पश्यामः। एवं चात्र सपक्षपदं केवलसाध्यवत्परम्। ऽशब्दो
नित्यः शब्दत्वात्ऽ इत्यादिसाध्यवदवृत्तिहेतोरेव लक्ष्यतेति न
को ऽपि दोष इति प्राहुः।
अन्वयेति।
अन्वयव्यतिरेकदृष्टान्तरहितत्वं च
किञ्चिद्विशेष्यकनिश्चयाविषयसाध्यकत्वे सति
किञ्चिद्विशेष्यकनिश्चाविषयसाध्याभावकत्वम्। नवीनमते तु -
अत्यन्ताभावाप्रतियोगित्वविशिष्टसाध्यादिकत्वमेवानुपसंहारत्विम्।
तज्ज्ञानस्य व्यतिरेकव्याप्तिज्ञानप्रतिबन्धकता।
बालप्रिया
सामान्यलक्षणं
त्विति। सव्यभिचारसामान्यलक्षणं त्वित्यर्थः।
साध्यतावच्छेदकसम्बन्धेत्यादि। साध्यनिष्ठप्रतियोगितायां
साध्यतावच्छेदकधर्मांवच्छिन्नत्वानिवेशे ऽपर्वतो वन्हिमान्,
धूमात्ऽ इत्यत्र धूमस्यापि साधारणहेत्वाभासत्वापत्तिः। तथा हि -
साध्यो वन्हिः तन्निष्ठप्रतियोगितानिरूपको ऽभावः
महानसीयवन्ह्यभावो ऽपि तद्वान् पर्वतः तन्निरूपितवृत्तित्वस्य धूमे
सत्त्वादिति। साध्यतावच्छेदकधर्मावच्छिन्नत्वस्य प्रतियोगितायां
निवेशे तु महानसीयवन्ह्यभावो ग्रहीतुं न शक्यते, तस्य
महानसीयत्वसहितवन्हित्वावच्छिन्नप्रतियोगिताकत्वे ऽपि
केवलवन्हित्वावच्छिन्नप्रतियोगिताकत्वाभावात्। अपि तु
वन्हिर्नास्तीति प्रतीतिसिद्धः वन्हिसामान्याभाव एव
वन्हित्वावच्छिन्नप्रतियोगिताकः तद्वान् ह्रदादिः तन्निरूपिताधेयत्वं
धूमे नास्तीति नातिव्याप्तिः। एवं साध्यनिष्ठप्रतियोगितायां
साध्यतावच्छेदकसम्बन्धावच्छिन्नत्वानिवेशे ऽपर्वतो वन्हिमान्
धूमात्ऽ इत्यत्रैव समवायेन वन्हिर्नास्तीति प्रतीतिसिद्धस्य
समवायसम्बन्धावच्छिन्नवन्हित्वावच्छिन्नप्रतियोगिताकाभावस्यापि
लक्षणघटकतया तद्वान् पर्वतो ऽपि तत्र संयोगेन वन्हेः सत्वे ऽपि
समवायेन वन्हेरभावात्, पर्वतनिरूपितवृत्तित्वस्य च धूमे
सत्त्वादतिव्याप्तिः। साध्यतावच्छेदकसम्बन्धावच्छिन्नत्वनिवेशे तु
संयोगसम्बन्धावच्छिन्नवन्ह्यभावस्यैव ग्राह्यतया तद्वान् ह्रदादिरेव
तन्नियपिताधेयत्वं धूमे नास्तीति नातिव्याप्तिः। आधेयतायां
हेतुतावच्छेदकसम्बन्धावच्छिन्नत्वानिवेशे
संयोगसम्बन्धावच्छिन्नवन्ह्यभाववान् धूमावयवो ऽपिऽ
तन्निरूपिताधेयत्वं धूमे ऽस्तीत्यतिव्याप्तिः स्यात्। तन्निवेशे तु
धूमावयवनिरूपितसमवायसम्बन्धावच्छिन्नाधेयत्वस्य धूमे सत्त्वे ऽपि
संयोगसम्बन्धावच्छिन्नाधेयत्वं नास्तीति नातिव्याप्तिः। हेतुमति
पर्वतादाविति। एतच्च हेतोः
साध्याभाववन्निरूपिताधेयत्वमेवास्तीति सूचनार्थमुक्तम्।
तत्तत्साध्याभावस्येति। महानसीयवन्ह्याद्यभावस्येत्यर्थः।
सम्बन्धान्तरावच्छिन्नासाध्यसामान्याभावस्येति।
साध्यतावच्छेदकसंयोगसम्बन्धातिरिक्तसमवायसम्बन्धावच्छिन्नप्रतियोगिताकवन्हित्वावच्छिन्नाभावस्येत्यर्थः।
तत्र च
साध्याभाववत्तायामित्यादि। साध्याभाववत्तायां यदि
सम्बन्धविशेषावच्छिन्नत्वं न निवेश्यते तर्हि
संयोगसम्बन्धावच्छिन्नवन्हित्वावच्छिन्नप्रतियोगिताकाभावस्य
कालिकसंबन्धेनाधिकरणं पर्वतो ऽपि भवतीति तन्निरूपिताधेयत्वस्य
धूमे सत्त्वात् सद्धेतावतिव्याप्तिः।
साध्याभावनिष्ठस्वरूपसम्बन्धावच्छिन्नाधेयतानिरूपिताधिकरणत्वं
साध्याभाववत्त्वमिति विवक्षणे च यद्यपि वह्न्यभावस्य
स्वरूपसम्बन्धेनाधिकरणं न पर्वतः, अपि तु ह्रदादिरेव
तन्निरूपिताधेयत्वं धूमे नास्तीति अतिव्याप्तिर्वारयितुं शक्यते,
तथापि ऽपटः घटत्वाभाववान् द्रव्यत्वात्ऽ इत्यत्र
व्यभिचारिण्यतिव्याप्तिः। तथा हि- साध्याभाववति
घटत्वाभावाभाववति घटत्ववति घटे द्रव्यत्वसत्त्वात् अयं
साधारणव्यभिचारी हेतुः। अत्र साध्याभावः घटत्वाभावाभावः
घटत्वरूपः तस्य स्वरूपसम्बन्धेनाधिकरणमप्रसिद्धम्। भावानां
स्वरूपसम्बन्धेन क्वाप्यवृत्तेरित्यव्याप्तिः। अतः
साध्यवत्ताग्रहविरोधितानियामकसम्बन्धेन साध्याभाववत्त्वं
विवक्षणीयम्।
1साध्यतावच्छेदकसम्बन्धावच्छिन्न-साध्यतावच्छेदक-धर्माविच्छिन्न-साध्यनिष्ठप्रकारतानिरूपित-
पक्षतावच्छेदकावच्छिन्न-पक्षनिष्ठविशेष्यताशालिबुद्धित्वावच्छिन्नं प्रति
यत्सम्बन्धावच्छिसादध्याभावनिष्ठप्रकारताशालिनिश्चयः प्रतिबन्धकः स
सम्बन्धः साध्यवत्ताग्रहविरोधितानियामक इति कथ्यते। ऽपर्वन्तो
धूमवान् वन्हेःऽ इत्यत्र ऽपर्वतः संयोगेन धूमवान्ऽ इति
बुद्धिं प्रति ऽपर्वतः स्वरूपसम्बन्धेन धूमाभाववान्ऽ इति निश्चयः
प्रतिबन्धकः इति स्वरूपसम्बन्ध एव
साध्यवत्ताग्रहविरोधितानियामकः तेन सम्बन्धेन धूमाभाववान्
अयोगोलकः तन्निरूपिताधेयत्वं वन्हावस्तीति लक्षणसमन्वयः।
ऽपर्वतो वन्हिमान् धूमात्ऽ इत्यत्र ऽपर्वतः संयोगसम्बन्धेन
वन्हिमान्ऽ इति बुद्धिं प्रति वन्ह्यभावस्य स्वरूपसंबन्धेनाधिकरणं
पर्वत इति निश्चय एव प्रतिबन्धकः, न तु कालिकसम्बन्धेन
वह्न्यभावाधिकरणं पर्वत इति निश्चयो ऽपि तादृशनिश्चयसत्त्वे ऽपि
ऽपर्वतः संयोगेन वह्निमान्ऽ इति बुद्धेरुत्पत्तेः। तथा च
स्वरूपसम्बन्धस्यैव
साध्यवत्ताग्रहविरोधतानियामकतया तेन सम्बन्धेन
वह्न्यभावाधिकरणं ह्रदादिरेव तन्निरूपिताधेयत्वं धूमे नास्तीति
नातिव्याप्तिः। ऽघटत्वाभाववान् द्रव्यत्वात्ऽ
इत्यत्र ऽपटो
घटत्वाभाववान्ऽ इति साध्यवत्ताबुद्धिं प्रति पटः
घटत्वाभावाभाववान् (समवायेन घटत्ववान्) इत्याकारकः
निश्चयः प्रतिबन्धक इति समवायः
साध्यवत्ताग्रहविरोधितानियामकसम्बन्धः तेन सम्बन्धेन
साध्याभावाधिकरणं घटः तन्निरूपितादधेयत्वं द्रव्यत्वे ऽस्तीति
नाव्याप्तिः। ऽअयं वृक्षः कपिसंयोगी एतद्वृक्षत्वात्ऽ इत्यत्र ऽवृक्षः
कपिसंयोगीऽति बुद्धिं प्रति ऽवृक्षः
निरवच्छिन्नदैशिकविशेषणतासम्बन्धेन कपिसंयोगाभाववान्ऽ
इति
1.
साध्यतावच्छेदकसम्बन्धेन साध्यतावच्छेदकधर्मेण च
साध्यप्रकारकज्ञानं प्रति येन सम्बन्धेन साध्याभावप्रकारकनिश्चयः
प्रतिबन्धकः स साध्यवत्ताग्रहविरोधितानियामक इति कथ्यते।
तदेव परिष्कृत्याह - साध्यतावच्छेदकसम्बन्धावच्छिन्नेत्यादिना।
निश्चय एव प्रतिबन्धकः
न तु सावच्छिन्नविशेषणतासम्बन्धेन कपिसंयोगाभाववानिति
निश्चयः वृक्षः मूलावच्छेदेन कपिसंयोगाभाववानिति निश्चये
सत्यपि वृक्षः अग्रे कपिसंयोगवानिति बुद्ध्युत्पत्तेः। तथा च
साध्यवत्ताग्रहविरोधितानियामकेन निरवच्छिन्नविशेषणतासम्बन्धेन
कपिसंयोगाभाववान् 1गुणादिरेव तन्निरूपिताधेयत्वं
एतद्वृक्षत्वे नास्तीति
नातिव्याप्तिः। तथा च
साध्यतावच्छेदकावच्छिन्नसाध्यतावच्छेदकसम्बन्धावच्छिन्नसाध्यनिष्ठ-
प्रतियोगितानिरूपकाभावनिष्ठसाध्यवत्ताग्रहविरोधितानियामकसम्बनधावच्छिन्नादधेयतानिरूपिताधिकरणतावन्निरूपित-
हेतुतावच्छेदकसम्बन्धावच्छिन्नाधेयतावान् साधारण इति
फलितम्।
नन्वेवमपि ऽघटः
द्रव्यं गुणकर्मान्यत्वविशिष्टसत्त्वात्ऽ इत्यत्र सद्धेतावतिव्याप्तिः,
द्रव्यत्वरूपसाध्याभाववति गुणे सत्तायाः सत्त्वेन
विशिष्टशुद्धयोरनतिरेकात् गुणकर्मान्यत्वविशिष्टसत्तायामपि
साध्याभाववन्निरूपिताधयतायाः सत्त्वात् इत्यत आह - दिगिति।
साध्याभाववन्निरूपिताधेयतावच्छेदकहेतुतावच्छेदकवत्त्वं
साधारणत्वमितिविवक्षितम्। विशिष्टसत्तायाः सत्तात्वेनैव रूपेण
गुणवृत्तितया साध्याभाववद्गुणनिरूपिताधेयतावच्छेदकं
सत्तात्वमेव न तु गुणकर्मान्यत्वविशिष्टसत्तात्वरूपं
हेतुतावच्छेदकमिति नातिव्याप्तिरिति भावः।
ननु ऽशब्दो नित्यः
कृतकत्वात्ऽ इत्यत्र विरुद्धे ऽपि
नित्यत्वरूपसाध्याभाववद्घटवृत्तित्वं कृतकत्वे ऽस्तीति
साधारणलक्षणस्यातिव्याप्तिरिति शङ्कते - न च विरुद्ध इति।
उपधेयसङ्करे ऽपीति। एकस्मिन् अनेके दोषाः संभवन्तीति भावः।
उपधेयसङ्करे ऽपि - दुष्टस्य एकत्वे ऽपि उपाधेरसङ्करः -
दोषस्यभिन्नता।
1. गुणादिरेवेति। न
तु वृक्षः, तत्र मूलाद्यवच्छिन्नविशेषणतासम्बनधनैव
कपिसंयोगाभावसत्त्वादिति भावः।
असाधारणलक्षणे
सपक्षशब्दस्य निश्चितसाध्यवानित्यर्थः। विशेष्यतासम्बन्धेन
साध्यप्रकारकनिश्चयवानिति यावत्। सपक्षवृत्तित्वसामान्याभाववान्
सपक्षवृत्तित्वत्वावच्छिन्नप्रतियोगिताकाभाववान् असाधारण इति
फलितम्। ते 1सद्धेतोरपि यत्किञ्चित्सपक्षवृत्तित्वाभावसत्त्वात्
असाधारणत्वं स्यादित्याक्षेपस्य नावसरः। शब्दो ऽनित्यः शब्दत्वात्
इत्यत्र सद्धेतौ पक्षे शब्दे ऽनित्यत्वरूपसाध्यसन्देहदशायां
साध्यप्रकारकनिश्चयवान् शब्दो न भवति अपि तु घटादिरेव,
तदवृत्तित्वं शब्दत्वे अस्तीति शब्दत्वस्य असाधारणत्वम्। यदा तु
शब्दे ऽनित्यत्वनिश्चयो ऽस्ति तदा शब्दो ऽपि
साध्यप्रकारकनिश्चयवत्त्वात् सपक्षः तदवृत्तित्वं शब्दत्वे नास्तीति
नासाधारण्यम्। तथा चासाधारण्यमनित्यदोष इति प्राचीनाः।
नवीनास्तु - सद्धेतोः कादाचित्कमसाधारण्यं नेच्छन्ति। तन्मते
सपक्षपदं साध्यवन्मात्रपरम्। साध्यवद्वृत्तित्वसामान्याभावः
असाधारण्यम्। सद्धेतौ पक्षे साध्यसन्देहदशायामपि पक्षः साध्यवान्
भवतीति तदवृत्तित्वं
हेतौ नास्तीति नासाधारण्यम्।
किञ्चिद्विशेष्यकेति।
यत्र कुत्रापि साध्यं निश्चितं चेत् तद्विशेष्यकनिश्चयप्रकारीभूतं
साध्यं भवेत्। सर्वमभिधेयं प्रमेयत्वादित्यत्र तु सर्वस्य पक्षत्वात्
अभिधेयत्वं न क्वापि निश्चितम्। अतः
किञ्चिद्विशेष्यकनिश्चयाप्रकारीभूतं साध्यं भवति तादृशसाध्यकश्च
हेतुर्भवति। परं तु अत्र साध्याभावस्याप्रतिद्धतया
किञ्चिद्विशेष्यकनिश्चयाविषयसाध्याभावकत्वमिति दलं न समन्वेति।
अतो नवीनाः अत्यन्ताभावाप्रतियोगिसाध्यादिकत्वमनुपसंहारित्वम्
इत्याहः। ननु घटो ऽभिधेयः प्रमेयत्वात् इत्यत्र
सद्धेतावपि
1. सद्धेतोरपीति।
शब्दो ऽनित्यः शब्दत्वादित्यत्र घटादिरूपसपक्षवृत्तित्वाभावस्य शब्दत्वे
सत्त्वादित्यर्थः। शब्दे ऽनित्यत्वनिश्चयदशायामस्य सद्धेतुत्वात्
यत्किञ्चिन्निश्चितसाध्यवत्पदेन घटादिकमुपादाय तदवृत्तित्वसत्त्वात्
अतिव्याप्तिः प्रसक्ता। सामान्याभावनिवेशे च
सपक्षभूतशब्दवृत्तित्वसत्वेन सपक्षवृत्तित्वत्वावच्छिन्नाभावो नास्तीति
नातिव्याप्तिरिति भावः।
अत्यन्ताभावाप्रतियोगिसाध्यकत्वसत्त्वादनुपसंहारित्वापत्तिरिति
चेत् - न। इष्टापत्तेः। तत्र अनुपसंहारित्वज्ञानेन
व्यतिरेकव्याप्तिज्ञानस्य प्रतिबन्धेन
व्यतिरेकव्याप्तिज्ञानहेतुकानुमितिर्न जायते।
अन्वयव्याप्तिज्ञानमूला अनुमितिस्तु निराबाधैव।
कथमनुपसंहारित्वज्ञानस्य व्यतिरेकव्याप्तिज्ञानप्रतिबन्धकत्वमिति
चेत्-इत्थम्। साध्यम् अत्यन्ताभावाप्रतियोगि इति ज्ञानकाले
साध्यम् अत्यन्ताभावप्रतियोगि इति ज्ञानं यथा न भवति, तथा
साध्यप्रतियोगिकः अत्यन्ताभावः इति ज्ञानं च न भवति। तथा च
साध्यप्रतियोगिकात्यन्ताभावघटितव्यतिरेकव्याप्तिज्ञानमपि न
भवतीति।
तर्कसङ्ग्रहः
विरुद्धनिरूपणम्
अन्त्स्_54 साध्याभावव्याप्तो हेतुर् विरुद्धः । यत्र शब्दो नित्यः कृतकत्वाद् इति । कृतकत्वं हि नित्यत्वाभावेनानित्यत्वेन व्याप्तम् ॥
साध्याभावव्याप्तो
हेतुर्विरुद्धः। यथा शब्दो नित्यः कार्यत्वात् (कृतकत्वात्) घटवत्।
(अत्र कृतकत्वम् हि नित्यत्वाभावेनानित्यत्वेन व्याप्तम्)।
सत्प्रतिपक्षनिरूपणम्
अन्त्स्_55 यस्य साध्यभावसाधकं हेत्वन्तरं विद्यते स सत्प्रतिपक्षः । यथा शब्दो नित्यः श्रावणत्वाच् छब्दत्ववद् इति । शब्दोऽनित्यः कार्यत्वाद् घटवद् इति ॥
यस्य साध्याभावसाधकं हेत्वन्तरं विद्यते स सत्प्रतिपक्षः। यथा शब्दः नित्यः
श्रावणत्वात्, शब्दः अनित्यः कार्यत्वात् घटवत्।
असिद्धनिरूपणम्
अन्त्स्_56 असिद्धस् त्रिविधः । आश्रयासिद्धः स्वरूपासिद्धो व्याप्यत्वासिद्धश् चेति । आश्रयासिद्धो यथा गगनारविन्दं सुरभ्य् अरविन्दत्वात् सरोजारविन्दवत् । अत्र गगनारविन्दम् आश्रयः । स च नास्त्य् एव । स्वरूपासिद्धो यथा शब्दो गुणश् चाक्षुषत्वात् । अत्र चाक्षुषत्वं शब्दे नास्ति शब्दस्य श्रावणत्वात् । सोपाधिको व्याप्यत्वासिद्धः । साध्यव्यापकत्वे सति साधनाव्यापक उपाधिः । साध्यसमानाधिकरणात्यन्ताभावाप्रतियोगित्वं साध्यव्यापकत्वम् । साधनवन्न् इष्टात्यन्ताभावप्रतियोगित्वं साधारणाव्यपकत्वम् । पर्वतो धूमवान् वह्निमत्त्वाद् इत्य् अत्रार्द्रेन्धसंयोग उपाधिः । तथा हि । यत्र धूमस् तत्रार्द्रेन्ध्नसंयोग इति साध्यव्यापकता । यत्र वह्निस् तत्रार्द्रेन्धनसंयोगाभावाद् इति साधनाव्यापकता । एवं साध्यव्यापकत्वे सति साधनाव्यापकत्वाद् अर्द्रेन्धनसंयोग उपाधिः । सोपाधिकत्वाद् वह्निमत्त्वं व्याप्यत्वासिद्धम् ॥
असिद्धः त्रिविधः -
आश्रयासिद्धः स्वरूपासिद्धः व्याप्यत्वासिद्धश्चेति।
आश्रयासिद्धो यथा -
गगनारविन्दं सुरभि अरविन्दत्वात् सरोजारविन्दवत्। अत्र
गगनारविन्दमाश्रयः। स च नास्त्येव।
स्वरूपासिद्धो यथा -
शब्दः गुणः चाक्षुषत्वात्। अत्र चाक्षषत्वं शब्दे नास्ति, शब्दस्य
श्रावणत्वात्।
सोपाधिकः
व्याप्यत्वासिद्धः।
दीपिका
विरुद्धं लक्षयति -
साध्येति।
सत्प्रतिपक्षं लक्षयति -
यस्येति।
असिद्धं विभजते -
असिद्ध इति।
आश्रयासिद्धमुदाहरति
- गगनेति।
स्वरूपासिद्धमुदाहरति
- यथेति।
व्याप्यत्वासिद्धस्य
लक्षणमाह - सोपाधिक इति।
प्रकाशिका
साध्याभावव्याप्त
इति। साध्याभावव्याप्तिः साध्यवदवृत्तित्वम्। असाधारण्यस्य तु
निश्चितसाध्यवदवृत्तित्वरूपतया नाभेदः। नवीनमते तु -
साध्याभावस्य व्यतिरेकव्याप्तिः साध्यव्यापकाभावप्रतियोगित्वरूपेति
नासाधारण्याभेदः। एतादृशव्याप्तिविशिष्टहेतुमत्ताज्ञानं
साक्षादनुमितिप्रतिबन्धकमिति ध्येयम्।
यस्य
साध्याभावेत्यादि। यत्सम्बन्धि यत्साध्यं तदभावव्याप्यहेत्वन्तरस्य
ज्ञानं पक्षे ऽस्ति स सत्प्रतिपक्ष इत्यर्थः। प्रकृतसाध्यव्याप्यत्वेन
ज्ञायमानो यः प्रकृतहेतुः ततो ऽन्यस्मिन् हेतौ
सांध्याभावव्याप्यत्वज्ञानदशायामेव तस्य सत्प्रतिपक्षतेति सूचनाय
हेत्वन्तरमिति इति प्राञ्चः। नवीनाः पुनरेवं वर्णयन्ति -
यत्सम्बन्धिसाध्याभावव्याप्यहेत्वन्तरस्य पक्षे सत्त्वं स तथाविध
इत्यर्थ इति।
आश्रयासिद्धो यथेति।
आश्रयासिद्धिश्च पक्षे पक्षतावच्छेदकविरहः, पक्षतावच्छेदकविरहवान्
पक्षो वा। स च
नास्त्येवेति।
अरविन्दस्य प्रसिद्धत्वात् ऽसविशेषणेहिऽ इति न्यायेन अरविन्दे
गगनीयत्वं नास्तीति पर्यवसितोर्ऽथः।
स्वरूपासिद्धिश्च पक्षे
हेत्वभावः हेत्वभाववान् पक्षो वा।
ननु सोपाधिकस्य
अतिरिक्तस्य सद्भावात् कथ पञ्चहेत्वाभासा इत्यत आह -
सोपाधिक इति। व्याप्यत्वासिद्धिः व्याप्त्यभावः, तस्याः
सोपाधिकहेतौ नियमेन सत्त्वात् सोपाधिको व्याप्यत्वासिद्ध एव न
त्वतिरिक्तो
हेत्वाभास इति
भावः। उपाधेर्देषत्वमसम्भवीति दीपिकायां व्यक्तीभविष्यत्यग्रे।
अत्रेदमवधेयम् -
साध्ये साध्यतावच्छेदकाभावः साध्याप्रसिद्धिः। हेतौ
हेतुतावच्छेदकाभावः साधनाप्रसिद्धिः। यथा काञ्चनमयवह्रिमान्
काञ्चनमयधूमात् इत्यादौ। तद्ग्रहदशायां
हेतुतावच्छेदकविशिष्टे
साध्यतावच्छेदकविशिष्टव्याप्तिग्रहप्रतिबन्धः फलम्।
तयोर्व्याप्यत्वासिद्धावन्तर्भावात् न हेत्वाभासाधिक्यमिति।
बालप्रिया
साध्याभावव्याप्तिः
साध्यवदवृत्तित्वमिति। साध्याभावव्याप्तिः,
साध्याभावाभाववदवृत्तित्वम्। तच्च साध्यवदवृत्तित्वमेव,
साध्याभावाभावस्य साध्यात्मकत्वादिति भावः। असाधारण्यं
निश्चितसाध्यवदवृत्तित्वम्, विरुध्दत्वं तु साध्यवदवृत्तित्वमिति
तयोर्भेद इति भावः। नवीनमते साध्यवदवृत्तित्वमेव
असाधारण्यम्, अतः तन्मतानुसारेण असाधारण्यविलक्षणं
विरोधपदार्थमाह - नवीनमते त्विति। साध्याभावस्य
व्यतिरेकव्याप्तिः साध्याभावाभावव्यापकीभूताभावप्रतियोगित्वम्
साध्यव्यापकीभूताभावप्रतियोगित्वपर्यवसितम्। शब्दः नित्यः
कृतकत्वात् इत्यत्र साध्यं नित्यत्वम्, तद्व्यापकीभूतः अभावः
कृतकत्वाभावः तत्प्रतियोगित्वं कृतकत्वे ऽस्तीति लक्षणसमन्वयः।
साक्षादनुमितिप्रतिबन्धकमिति। तद्वत्ताबुद्धिं प्रति
तदभावव्याप्यवत्ताज्ञानस्य प्रतिबन्धकत्वात् शब्दः नित्यः
इत्यनुमितिं प्रति
नित्यत्वाभावनिरूपितव्यतिरेकव्याप्तिमद्धेतुमत्ताज्ञानस्य
नित्यत्वव्यापकीभूताभावप्रतियोगिकृतकत्ववान् शब्द इति
विरोधज्ञानस्य तदभावव्याप्यवत्ताज्ञानरूपतया प्रतिबन्धकत्वमिति
भावः।
विरोधिपरामर्शद्वयकाल एव सत्प्रतिपक्षत्वमिति प्राञ्चः।
परामर्शाभावकाले ऽपि प्रकृतहेतोर्यत्साध्यं
तदभावव्याप्यहेत्वन्तरं पक्षे ऽस्ति चेत् सत्प्रतिपक्षत्वं भवत्येवेति
नवीनाः। तदाह - यत्सम्बन्धि-यत्साध्यमित्यादि। यत्सम्बन्धीत्यस्य
यद्धेतुसम्बनधीत्यर्थः। तथा च यद्धेतुसम्बन्धि यत्साध्यं
तदभावव्याप्यहेत्वन्तरस्य ज्ञानं तत्पक्षे ऽस्ति स सत्प्रतिपक्षः। यथा
शब्दो ऽनित्यः कृतकत्वात् इत्यत्र कृतकत्वसम्बन्धि अनित्यत्वरूपं
साध्यम्, तादृशानित्यत्वाभावव्याप्यश्रावणत्वरूपं हेत्वन्तर् तज्ज्ञानं
शब्दरूपे पक्षे ऽस्तीति सः कृतकत्वहेतुः सत्प्रतिपक्षः।
यादृशहेतुसाध्यत्वेनाभिमतधर्माभावव्याप्यहेत्वन्तरवत्ताज्ञानविषयः
पक्षो भवति तादृशहेतुः सत्प्रतिपक्ष इति यावत्।
हेत्वन्तरविशेष्यकप्रकृतसाध्याभावव्याप्यत्वप्रकारकज्ञानकालीनप्रकृतसाध्यव्याप्यत्वप्रकारकज्ञानविशेष्यभूतो
हेतुः सत्प्रतिपक्ष इति फलितोर्ऽथः। यत्सम्बन्धिसाध्येत्यादि।
यादृशहेतुसम्बन्धि यत् साध्यं तदभावव्याप्यहेत्वन्तरसत्त्वं पक्षे
तादृशो हेतुः सत्प्रतिपक्षः। कृतकत्वसम्बन्धि अनित्यत्वं तदभावः
नित्यत्वमं तद्व्याप्यं हेत्वन्तरम् श्रावणत्वम् तत् पक्षे
शब्दे ऽसतीति कृतकत्वं सत्प्रतिपक्षम्।
आश्रयासिद्धिश्च पक्षे
पक्षतावच्छेदकविरह इति। गगनारविन्दं सुरभीत्यत्र
गगनीयत्वविशिष्टमरविन्दं पक्षः। तत्र पक्षे अरविन्दे गगनीयत्वं
पक्षतावच्छेदकं नास्तीति अरविन्दनिष्ठः गगनीयत्वाभावो वा
गगनीयत्वाभावविशिष्टमरविन्दं वा आश्रयासिद्धिरित्यर्थः।
सविशेषणे हीति न्यायेनेति। ऽसविशेषणे हि विधिनिषेधौ सति
विशेष्ये बाधे विशेषणमुपसंक्रामतःऽ इति न्यायः।
विशेषणविशिष्ठे विधिर्वा निषेधो क्रियमाणः विशेष्ये
विधेर्निषेधस्य वा बाधे सति विशेषणे विधिर्वा निषेधो वा
संक्रामतीति न्यायस्यार्थः। यथा शिखी ध्वस्त इत्यत्र
शिखाविशिष्टपुरुषे विधीयमानः ध्वंसः पुरुषे बाधात्
विशेषणभूतां शिखामास्कन्दतीति शिखी ध्वस्त इति वाक्यात्
शिखायां ध्वस्तत्वं पर्यवस्यति, तथा गगनारविन्दं नास्तीत्युक्ते
अभावरूपो निषेधः अरविन्दे बाधितत्वात्
गगनीयत्वरूपविशेषणमास्कन्दतीति 1गगनीयत्वाभावो पर्यवस्यतीति
भावः।
ननु सोपाधिके
हेतौ उपाधेरेव दोषत्वमस्तु, किं व्याप्यत्वासिद्धेः
दोषत्वेनेत्यत्राह - उपाधेर्देषत्वमसम्भवीति। व्यक्तीभविष्यतीति।
ऽउपाधिस्तु व्यभिचारज्ञानद्वारा व्याप्तिज्ञानप्रतिबन्धकःऽ इति
ग्रन्थेनेति शेषः।
ननु
साध्याप्रसिद्धिसाधनाप्रतिद्ध्योरपि हेत्वाभासत्वात् तयोरकथनेन
न्यूनतेत्याशङ्क्य तयोर्व्याप्यत्वासिद्धावन्तर्भावमाह - अत्रे
दमवधेयमिति। काञ्चनमयत्वाभाववान् वह्निः
इत्याकारकसाध्याप्रसिद्धिज्ञानदशायां
काञ्चनमयत्वविशिष्टवह्निज्ञानासम्भवात्
ऽकाञ्चनमयत्वविशिष्टवह्निव्याप्यधूमवान्ऽ इति परामर्शे
काञ्चनमयत्वविशिष्टवह्निभानं प्रति साध्याप्रसिद्धिज्ञानं
प्रतिबन्धकम्। एवं
काञ्चनमयत्वाभाववान् धूम इत्याकरकसाधनाप्रसिद्धिज्ञानदशायां
ऽवह्निव्याप्यकाञ्चनमयधूमवान् पर्वतऽ इति परामर्शो न
सम्भवति। धूमविशेष्यककाञ्चनमयत्वप्रकारकज्ञानं प्रति
धूमविशेष्यककाञ्चनमयत्वाभावप्रकारकज्ञानस्य प्रतिबन्धकत्वात्।
तथा च अनुमितिजनकपरामर्शप्रतिबन्धकज्ञानविषयतया
साध्याप्रसिद्धिसाधनाप्रसिद्ध्योर्हेत्वाभासत्वम्। कथं
व्याप्यत्वासिद्धावनयोरन्तर्भाव इति चेत्-श्रूयताम्।
हेतुतावच्छेदकविशिष्टहेतुव्यापकसाध्यतावच्छेदकविशिष्टसाध्यसामानाध् इकरण्यं
हि व्याप्तिः। साधनाप्रसिद्धिस्थले
हेतुतावच्छेदकविशिष्टहेत्वभावात्
तादृशहेतुघटितव्याप्त्यभावरूपं व्याप्यत्वासिद्धिः, साध्याप्रसिद्धिस्थले
साध्यतावच्छेदकविशिष्टसाध्याभावात्
तादृशसाध्यघटितव्याप्त्यभाववात् व्याप्यत्वासिद्धिः इत्येवं
तयोर्व्याप्यत्वासिद्धावन्तर्भाव इति।
॥।
----------------------------------------
1. गगनीयत्वाभावे
पर्यवस्यतीति। एतेन परममूले ऽगगनारविन्दमाश्रयः, स च
नासत्येवऽ इति वाक्यमसंगतम्। गगनारविन्दमित्यस्य हि
गगनीयत्वविशिष्टमरविन्दमित्यर्थः। तत्रारविन्दस्य सत्त्वात् तत्र
नास्तित्वबाधात् - इति शङ्का निराकृता अरविन्दे
गगनीयत्वाभाव इत्येव ऽस च नास्त्येवऽ इति वाक्यस्थार्थः
पर्यवसितः, तत्र चानुपपत्यभावादिति।
तर्कसङ्ग्रहः
उपाधिनिरूपणम्
साध्यव्यापकत्वे
सति साधनाव्यापकत्वं उपाधित्वम्।
साध्यसमानाधिकरणात्यन्ताभावाप्रतियोगित्वं साध्यव्यापकत्वम्।
साधनवन्निष्ठात्यन्ताभावप्रतियोगित्वं साधनाव्यापकत्वम्। (यथा)
पर्वतः धूमवान् वह्नेः इत्यत्र आर्द्रेन्धनसंयोगः उपाधिः। यत्र
धूमः तत्र आर्द्रेन्धनसंयोग इति साध्यव्यापकतया। यत्र वह्निः तत्र
आर्द्रेन्धनसंयोग इति नास्ति। अयोगोलके
आर्द्रेनधनसंयोगाभावात्। एवं साध्यव्यापकत्वे सति
साधनाव्यापकत्वात् आर्द्रेन्धनसंयोग उपाधिः। सोपाधिकत्वात्
वह्निमत्त्वं व्याप्यत्वासिद्धम्।
दीपिका
उपाधेर्लक्षणमाह -
साध्येति। उपाधिश्चतुर्विधः - केवल - साध्यव्यापकः,
पक्षधर्मावच्छिन्नसाध्यव्यापकः, साधनावच्छिन्नसाध्यव्यापकः,
उदासीनधर्मावच्छिन्नसाध्यव्यापकश्चेति। आद्यः आर्द्रेन्धनसंयोगः।
द्वितीयो यथा - वायुः प्रत्यक्षः प्रत्यक्षस्पर्शाश्रयत्वात् इत्यत्र
बहिर्द्रव्यत्वावच्छिन्नप्रत्यक्षत्वव्यापकं उद्भूतरूपवत्त्वम्। तृतीयो
यथा - प्रागभावो विनाशी जन्यत्वात् इत्यत्र
जन्यत्वावच्छिन्नानित्यत्वव्यापकं भावत्वम्। चतुर्थो यथा - प्रागभावो
विनाशी प्रमेयत्वात् इत्यत्र जनयत्वावच्छिन्नानित्यत्वव्यापकं
भावत्वम्।
प्रकाशिका
साध्यव्यापकत्व
इति। साध्यव्यापकत्वसाधनाव्यापकत्वे एकरूपेण एकसम्बन्धेन च
ग्राह्ये। तेन ऽवह्निमान् धूमात्ऽ इत्यादौ तत्तद्वह्नौ वह्नित्वेन
साध्यव्यापकत्वस्य तत्तद्वन्हित्वेन साधनाव्यापकत्वस्य च सत्त्वे ऽपि
नातिव्याप्तिः, न वा संयोगेन साध्यव्यापकस्य वह्नेः समवायेन
साधनाव्यापकत्वे ऽपि तत्रातिव्याप्तिः। मूलोक्तोपाधि लक्षणे ऽव्याप्तिं
वारयितुं लक्ष्यभेदेन लक्षणभेदं प्रदर्शयति - उपाधिश्चतुर्विध
इति। यद्धर्मविशिष्टसाध्यव्यापकत्वं तद्धर्मविशिष्टसाधनाव्यापकत्वं
लक्षणे निवेशनीयम्। अन्यथा
पर्वतत्वात्मकपक्षधर्मावच्छिन्नसाध्यव्यापकस्य कस्यचित्
धूमत्वावच्छिन्नाव्यापकत्वात् अतिव्याप्तिः स्यादिति ध्येयम्।
उदासीनेति। पक्षधर्मसाधनधर्माभ्यां भिन्नेत्यर्थः। बहिर्द्रव्यत्वम् -
आत्मान्यद्रव्यत्वम्। इदं केवलप्रत्यक्षत्वस्यैव साध्यत्वानुसारेण।
प्रागभावो विनाशी जन्यत्वादिति। अत्र जन्यत्वं पक्षधर्मो न भवतीति
साधनावच्छिन्नसाध्यव्यापकत्वघटितलक्षणम्। अनित्यत्वव्यापकतिति।
विनाशित्वव्यापकमित्यर्थः। जन्यत्वस्योदासीनत्वं सम्पादयितुं
प्रमेयत्वादिति।
बालप्रिया
ननु
साध्यव्यापकत्वे सति साधनाव्यापकत्वरूपं मूलोक्तमुपाधिलक्षणम्
ऽपर्वतो वह्निमान् धूमात्ऽ इत्यादिसद्धेतौ तत्तद्वह्नौ
(महानसीयादिवह्नौ) अतिव्याप्तम्। महानसीयवह्नेरपि वह्नित्वेन
रूपेण वह्निसामान्यरूपसाध्यव्यापकत्वात् महानसीयवह्नित्वेन
रूपेण साधनाव्यापकत्वाच्च। साधनवति धूमवति वर्तते
महानसीयवह्नित्वेन रूपेण महानसीयवह्नेरभावात्। एवं तत्रैव
आलोकस्योपाधित्वापत्तिः। वह्निमति सर्वत्र संयोगसम्बन्धेन
आलोकस्य विद्यमानयता संयोगसम्बन्धेन साध्यव्यापकत्वात्। एवं
साधनधूमवति पर्वते समवायसम्बन्धेन आलोकस्याविद्यमानतया
समवायसम्बन्धेन साधनाव्यापकत्वाच्चेत्याशङ्क्याह -
साध्यव्यापकत्वसाधनाव्यापकत्वे इति। तथा च ये सम्बन्धेन येन
रूपेणचोपाधेः साध्यव्यापकत्वम्, तेनैव सम्बन्धेन तेनैव रूपेण
च तस्य साधनाव्यापकत्वं विवक्षितम्। अतो वह्नित्वेन
वह्निव्यापकस्य महानसीयादिवह्नेः महानसीयवह्नित्वेन
धूमाव्यापकत्वे ऽपि वह्नित्वेन धूमाव्यापकत्वं नास्तीति
नातिव्याप्तिः। एवं संयोगेन वह्निव्यापकस्य आलोकस्य समवायेन
धूमाव्यापकत्वे ऽपि तेनैव संयोगसम्बन्धेन धूमाव्यापकत्वं
नास्तीति नातिव्याप्तिरिति भावः। वह्नित्वेन साध्यव्यापकत्वस्येति।
साध्यवन्निष्ठात्यन्ताभावप्रतियोगितानवच्छेदकवह्नित्ववत्त्वस्येत्यर्थः।
तत्तद्वह्नित्वेन साधनाव्यापकत्वस्येति।
साधनवन्निष्ठात्यन्ताभावप्रतियोगितावच्छेदकतत्तद्वह्नित्ववत्त्वस्येत्यर्थः।
एवं संयोगेन साध्यव्यापकत्वं
साध्यवन्निष्ठात्यन्ताभावनिरूपितसंयोगसम्बन्धावच्छिन्नप्रतियोगितानवच्छेदकधर्मवत्त्वम्।
समवायेन साधनाव्यापकत्वं
साधनवन्निष्ठात्यन्ताभावनिरूपितसमवायसम्बन्धावच्छिन्नप्रतियोगितावच्छेदकधर्मवत्त्वमिति
बोध्यम्। अव्याप्तिं वारयितुमिति। ऽवायुः प्रत्यक्षः
प्रत्यक्षस्पर्शाश्रयत्वात्ऽ इत्यत्र उद्भूतरूपवत्त्वमुपाधिः। तत्र
मूलोक्तं साध्यव्यापकत्वघटितं लक्षणं नास्ति। प्रत्यक्षत्वरूपसाध्यवति
आत्मनि उद्भूतरूपाभावादित्यव्याप्तिः प्रसज्यते। तां वारयितुं
लक्ष्यभेदेन लक्षणभेदो वक्तव्य इति उपाधिः चतुर्विन्ध
इत्यादिदीपिकाया आशय इति भावः। तथा च
केवलसाध्यव्यापकस्योपाधेः केवलसाध्यव्यापकत्वे सति
साधनाव्यापकत्वं लक्षणम्। पक्षधर्मावच्छिन्नसाध्यव्यापकस्योपाधेः
पक्षधर्मावच्छिन्नसाध्यव्यापकत्वे सति तदवच्छिन्नसाधनाव्यापकत्वं
लक्षणम्। साधनावच्छिन्नसाध्यव्यापकस्योपाधेः
साधनावच्छिन्नसाध्यव्यापकत्वे सति साधनाव्यापकत्वं लक्षणम्।
उदासीनधर्मावच्छिन्नसाध्यव्यापकस्योपाधेः
उदासीनधर्मावच्छिन्नसाध्यव्यापकत्वे सति तदवच्छिन्नसाधनाव्यापकत्वं
लक्षणमिति रीत्या लक्षणभेदो विवक्षित इति भावः।
तदाह-यद्धर्मविशिष्टसाध्येत्यादि। वैशिष्ट्यं
सामानाधिकरण्यसम्बन्धेन। धर्मैक्यविवक्षायाः प्रयोजनमाह -
अन्यथेति। ऽपर्वतो वह्निमान् धूमात्ऽ इत्यत्र पर्वतीयवह्नेः
पर्वतत्वात्मको यः पक्षधर्मः तद्विशिष्टवह्निव्यापकत्वमस्ति
साधनाव्यापकत्वं चास्ति। धूमवति महानसे पर्वतीयवह्नेरभावात्
इति पर्वतीयवह्निरुपाधिः स्यात्। धर्मैक्यविवक्षणे तु
पर्वतत्वविशिष्टवह्निव्यापकस्य पर्वतीयवह्नेः पर्वतत्वविशिष्ट
धूमाव्यापकत्वं नास्ति। पर्वतत्वविशिष्टधूमवति पर्वते
पर्वतीयवह्नेः सत्त्वात्। अतो नातिव्याप्तिरिति भावः।
दीपिकायां आद्यः
आर्द्रेन्धनसंयोग इति। ऽपर्वतो धूमवान् वह्नेःऽ इत्यत्र
आद्रेन्धनसंयोग उपाधिः। स च धूमरूपसाध्यव्यापकः
वह्निरूपसाधनाव्यापकश्चेति केवलसाध्यव्यापको ऽयमुपाधिरित्यर्थः।
द्वितीयो यथेति। पक्षधर्मावच्छिन्नसाध्यव्यापक उपाधिरित्यर्थः।
ऽवायुः प्रत्यक्षविषयः प्रत्यक्षविषयस्पर्शाश्रयत्वात्ऽ इत्यत्र
उद्भूतरूपवत्त्वमुपाधिः। स च केवलसाध्यव्यापको न भवति
प्रत्यक्षविषयत्वरूपसाध्यवत्यात्मनि उद्भूतरूपवत्त्वाभावात्। अतः
पक्षधर्मावच्छिन्नसाध्यव्यापको ऽयमुपाधिः। पक्षस्य धर्मः पक्षधर्मः
तदवच्छिन्नः तद्विशिष्टः तत्समानाधिकरणः य साध्यः तद्व्यापकः।
प्रकृते पक्षः वायुः तद्वृत्तिधर्मः बहिर्द्रव्यत्वं तद्विशिष्टं
यत्प्रत्यक्षविषयत्वं तत् आत्मनि नास्ति, आत्मनो
बहिर्द्रव्यत्वरूपविशेषणाभावात्। अतो
बहिर्द्रव्यत्वविशिष्टप्रत्यक्षविषयत्वं यत्र यत्रास्ति पृथिव्यादौ तत्र
सर्वत्र उद्भूतरूपवत्त्वसत्त्वात् उद्भूतरूपवत्त्वं
पक्षधर्मावच्छिन्नसाध्यव्यापकम्। तथा
बहिर्द्रव्यत्वविशिष्टप्रत्यक्षस्पर्शाश्रयत्वरूपं पक्षधर्मावच्छिन्नं साधनं
यत्रास्तिवायौ
तत्र उद्भूतरूपं
नास्तीति पक्षधर्मावच्छिन्नसाधनाव्यापकं चोद्भूतरूपवत्त्वं भवतीति
लक्षणसमन्वयः। तृतीयो यथेति।
साधनावच्छिन्नसाध्यव्यापक उपाधिरित्यर्थः। साधनावच्छिन्नत्वं
च सामानाधिकरण्यसम्बन्धेन साधनविशिष्टत्वम्। ऽप्रागभावो
विनाशी जन्यत्वात्ऽ इत्यत्र भावत्वमुपाधिरिष्यते। स
केवलसाध्यव्यापको न भवति,
विनाशित्वरूपसाध्यवति प्रागभावे भावत्वाभावात्। अतः
साधनावच्छिन्नसाध्यव्यापको ऽयमुपाधिः। जन्यत्वरूपसाधनविशिष्टं
विनाशित्वं यत्र यत्रास्ति घटादौ तत्र भावत्वसद्भावादिति भावः।
चतुर्थो यथेति। उदासीनधर्मावच्छिन्नसाध्यव्यापक इत्यर्थः।
ऽप्रागभावो विनाशी प्रमेवयत्वात्ऽ इत्यत्र भावत्वमुपाधिः।
पक्षधर्मात् साधनाच्चान्यो धर्म उदासीनधर्मः। जन्यत्वं हि पक्षे
प्रागभावे नास्तीति न
पक्षधर्मः। एवं साधनात् प्रमेयत्वाच्चान्यत् इति उदासीनधर्मः।
तदवच्छिन्नं जन्यत्वविशिष्टं विनाशित्वं यत्रास्ति घटादौ तत्र
भावत्वसत्त्वात् जन्यत्वविशिष्टप्रमेयत्ववति प्रागभावे
भावत्वस्याभावाच्च भावत्वं उदासीनधर्मावच्छिन्नसाध्यव्यापकः
उदासीनधर्मावच्छिन्नसाधनाव्यापकश्चोपाधिरिति भावः।
प्रकाशिकायाम् पक्षधर्मसाधनधर्माभ्यामिति। पक्षवृत्तिर्धर्मः पक्षधर्मः
साधनरूपो धर्मंः साधनधर्मः। बहिर्द्रव्यत्वम् इत्यस्य विवरणं
आत्मान्यद्रव्यत्वमिति। वायुः प्रत्यक्ष इत्यत्र प्रत्यक्षपदस्य
बहिरिन्द्रियजन्यप्रत्यक्षविषय इति यद्यर्थः तदोद्भूतरूपवत्त्वं
1केवलसाध्यव्यापक एवोपाधिः। यदा तु प्रत्यक्षविषयत्वमात्रं साध्यं
2तदैव पक्षधर्मावच्छिन्नसाध्यव्यापक इत्याशयेनाह - इदं
केवलप्रत्यक्षत्वस्यैवेति
बहिरिन्द्रियजन्यत्वाघटितप्रत्यक्षविषयत्वमात्रस्येत्यर्थः। उदासीनत्वं
सम्पादयितुमिति। यदि जन्यत्वमेव हेतुः स्यात् तदा
साधनावच्छिन्नसाध्यव्यापकत्वमेवोपाधेर्भवेत्
नोदासीनधर्मावच्छिन्नसाध्यव्यापकत्वम्।
साधनादन्यस्यैवोदासीनशब्दार्थत्वात्। अतः प्रमेयत्वस्य
हेतुत्वानुसरणम्। अधुना तु जन्यत्वं साधनात् प्रमेयत्वादन्यदिति
जन्यत्वविशिष्टविनाशित्वं उदासीनधर्मावच्छिन्नसाध्यमिति भावः।
तर्कसङ्ग्रहः
बाधितनिरूपणम्
अन्त्स्_57 यस्य साध्याभावः प्रमाणान्तरेण निश्चितः स बाधितः । यथा वह्निर् अनुष्णो द्रव्यत्वाद् इति । अत्रानुष्णत्वं साध्यं तदभाव उष्णत्वं स्पार्शनप्रत्यक्षेण गृह्यत इति बाधितत्वम् ॥
यस्य साध्याभावः
प्रमाणान्तरेण निश्चितः सः बाधितः। यथा वह्निः अनुष्णः
पदार्थत्वात्। अत्र अनुष्णत्वं साध्यम्, तदभाव उष्णत्वं त्वाचप्रत्यक्षेण
गृह्यत इति बोध्यम्। व्याख्यातमनुमानम्।
इति तर्कसङ्ग्रहे
अनुमानपरिच्छेदः
1. केवलसाध्यव्यापक
इति। बहिरिन्द्रयजन्यप्रत्यक्षविषयत्वं यत्र यत्र घटादौ तत्र
उद्भूतरूपवत्त्वसत्त्वादिति भावः।
2. तदैव पक्षधर्मेति।
यत्र यत्र प्रत्यक्षविषयत्वम् आत्मन्यपि, तत्रोद्भूतरूपाभावात्
उद्भूतरूपस्य केवलसाध्यव्यापकत्वं न सम्भवति। अतः
बहिर्द्रव्यत्वरूपपक्षधर्मविशिष्टप्रत्यक्षविषयत्वरूपसाध्यव्यापकत्वमपाधेः
उद्भूतरूपस्योपपादनीयमिति भावः।
दीपिका
बाधितस्य
लक्षणमाह - यस्येति।
दोषाणामनुमितिप्रतिबन्धकत्वप्रकारशोधनम्
अत्र बाधस्य
ग्राह्याभावनिश्चयत्वेन, सत्प्रतिपक्षस्य विरोधिज्ञानसामग्रीत्वेन
साक्षादनुमितिप्रतिबन्धकत्वम्। इतरेषां तु
परामर्शप्रतिबन्धकत्वम्। तत्रापि साधारणस्याव्यभिचाराभावरूपतया,
विरुद्धस्य सामानाधिकरण्याभावतया
व्याप्यत्वासिद्धस्य
विशिष्टव्याप्त्यभावतया, असाधारणानुपसंहारिणोः
व्याप्तिसंशयाधायकत्वेन व्याप्तिज्ञानप्रतिबन्धकत्वम्।
आछयासिद्धिस्वरूपासिद्ध्योः पक्षधर्मताज्ञानप्रतिबन्धकत्वम्।
उपाधिस्तु व्यभिचारज्ञानद्वारा व्याप्तिज्ञानप्रतिबन्धकः। सिद्धसाधनं तु
पक्षताविघटकतया आश्रयासिद्धावन्तर्भवतीति प्राञ्चः।
निग्रहस्थानान्तरमिति नवीनाः।
इति
दीपिकायामनुमानपरिच्छेदः
प्रकाशिका
बाधस्य
- साध्याभाववत्तानिश्चयस्य।
ग्राह्याभावनिश्चयत्वेनेति।
अनुमितिप्रतिबन्धकत्वमित्यनेनान्वयि। विरोधिज्ञानसामग्रीत्वेनेति।
इदं प्राचीनमते। वस्तुतस्तु विरोधिपरामर्शस्य
साध्याभावव्याप्यवत्तनिश्चयत्वेनैव प्रतिबन्धकत्वं लाघवादिति
ध्येयम्।
इतरेषाम् -
व्यभिचारादिग्रहाणाम्। तत्रापि - व्यभिचारादिग्रहेष्वपि।
मूल पाठ: Tarkasaṃgraha with autoentary (Dīpikā), Nīlakaṇṭha's Dīpikāprakāśikā and Bālapriyā · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0