तर्कसंग्रह (टीका सहित) · भाग 120
ओं
तर्कसंग्रहदीपिकाप्रकाशिका
नावल्पाक्कम् श्रीरामानुजताताचार्यविरचितया
बालप्रियाख्यव्याख्यया
तिरुप्पुक्कुलि श्रीकृष्णताताचार्यविरचितया
प्रसारणाख्यव्याख्यया च समुल्लसिता
श्रीः
प्रस्तावना
तत्र भवता
अन्नम्भट्टेन विरचितः तर्कसंग्रहः तत्कृतदीपिकाख्यव्याख्यानसहितः
न्यायशास्त्रमधिजिगांसमानैः सर्वैरपि आदौ पठ्यत इति
विश्वप्रसिद्धम्। तर्कसंग्रहस्य दीपिकाव्यतिरिक्तानि पदकृत्यम्,
न्यायबोधिनी, वाक्यवृत्तिः, निरुक्तिः, पट्टाभिरामटिप्पणी
इत्यादीनि बहूनि व्याख्यानानि मुद्रितान्यमुद्रितानि च उपलभ्यन्ते।
तथा दीपिकायाः रामरुद्री, नीलकण्ठकृता प्रकाशिका,
नृसिंहशास्त्रिकृता प्रकाशिका, पट्टाभिरामकृता प्रकाशिका,
इत्यादयः अनेका व्याख्याः मुद्रिता अमुद्रिताश्च वर्तन्ते।
तर्कसंग्रहव्याख्यासु न्यायबोधिन्याः दीपिकाव्यख्यासु
नीलकण्ठीयप्रकाशिकायाश्च पठनपाठनप्रचारो ऽस्ति। संक्षिप्तशैल्या
अपेक्षितसकलार्थप्रतिपादकत्वरूपो विशेष एव
पठनपाठनगोचरतायां मुख्यो हेतुः। तत्रापि नीलकण्ठप्रकाशिका
लघुगादाधरीति व्यपदेशयोग्या छात्राणां विदुषां च
चित्तरञ्जकतमा चकास्ति। येषां गादाधर्यादिषु ग्रन्थेषु गाढः
परिचयो वर्तते त एव प्रकाशिकायाः तात्पर्यं रसं च
ज्ञातुमनुभवितुं च शक्नुवन्ति।
तस्याः
नीलकण्ठप्रकाशिकायाः प्रतिवाक्यं भावार्थस्पष्टीकरणचणा काचन
व्याख्या चिरात् नावतीर्णा। यद्यपि नीलकण्ठपुत्रेण कृता
भास्कारोदयनाम्नी व्याख्या बहोः कालात् पूर्वं
निर्णयसागरयन्त्रालयेन मुद्रापिता उपलभ्यते, तथापि अपेक्षितस्थले
समुचितरीत्या अव्याख्यानात अनपेक्षितविस्तरकरणाच्च
बालतार्किकाणां नोपकारिणी सा। प्रत्युत बहुषु स्थलेषु
प्रकाशिकायाः हृदयमनवगच्छन्ती विपरीततया व्याख्यान्ती
व्यामोहमेव जनयति। इयं नीलकण्ठपुत्रेण न कृता स्यादित्यपि
तादृशस्थलानां दर्शनेन मतिः समुपजायते। अत एव मादृशानां
बालतार्किकाणां विदुषां चोपकाराय समीचीना काचन व्याख्या
कर्तव्येति बहोः कालात् पूर्वं नावल्पाकाभिजनान् पण्डितप्रवरान्
एन्. एस्. रामानुजताताचार्यान् प्रार्थयम्। तेषां सविधे
न्यायशास्त्रं मयाधीतमितीमं सम्बन्धं पुरस्कृत्य प्रार्थनामकरवम्।
ते ऽपि सद्यः प्रार्थनां स्वीकृत्य एकवर्षाभ्यन्तरे बालप्रियानाम्नीं
प्रकाशिकायाः व्याख्यां निर्माय अदुः। तस्याः प्रकाशनसमयो ऽधुना
समुपनत इति नितरां मोमुद्यते चेतः। अनया व्याख्यया
बालतार्किकाः सर्वे ऽपि महान्तमुपकारं प्राप्यस्यन्तीति निश्चप्रचम्।
अथ भास्करोदयायां विद्यमानान्यसांगत्यानि
स्थालीपुलाकन्यायेन प्रदर्शयामः---
[ 1 ]
प्रकाशिकायां ऽतर्कस्यापादकाभावसाधकविपर्ययप्रतियोग्यापाद्यकत्वरूपविपर्यये
तत्कोटिपर्यवसायित्वं दर्शयति - दर्शनाभावान्नास्तीतिऽ इति
पङ्क्तिः (पृ. 142) दृश्यते। अस्याः पङ्क्तेर्वास्तवार्थः अयम् - ऽयद्यत्र
घटः स्यात्तर्हि भूतलमिव घटो ऽद्रक्ष्यतऽ इत्याकारके तर्के आपादको
घटः तस्याभावः घटाभावस्तस्य साधको विपर्ययदर्शनाभावः तस्य
प्रतियोगि दर्शनमेव आपाद्यमिति आपादकाभावः
साधकविपर्ययप्रतियोग्यापाद्यकत्वं तर्कस्येति।
[ 2 ]
भास्करोदयाकारस्तु इममाशयमगृहीत्वा किमपि लिखति।
तथा हि भास्कारोदया पङ्क्तिः- ऽआपादकस्य
दर्शनापत्तिसंपादकघटास्तित्वस्य अभावसाधको दर्शनाभावो
नास्तीति यो विपर्ययः
तत्प्रतियोगिदर्शनाभावरूपविपर्ययप्रतियोगि यद्दर्शनं
तस्यापाद्यत्वरूपं विपर्यये दर्शनाभावान्नास्तीति व्यत्यासरूपे
तत्कोटिपर्यवसायित्वं नास्तीत्यभावकोटिपर्यवसायित्वं तर्कस्य
दर्शयतीति समुदितार्थः" (पृ. 80) इति।
ऽतर्किता आपादिता
प्रतियोगिनो घटादेः सत्त्वस्य सत्त्वप्रसक्तेःऽ इति प्रकाशिका (पृ.142)। अत्र तर्किता
इत्यस्य
आपादनविषयभूतेत्यर्थः। आपादनाश्रयभूतेति भास्करोदया (पृ.80)।
[ 3 ]
सत्प्रतिपक्षप्रकरणे
प्रकाशिकायां ऽयत्संबन्धि यत् साध्यं
तदभावव्याप्यहेत्वन्तरस्य ज्ञानं पक्षे ऽस्ति स सत्प्रतिपक्ष इत्यर्थःऽ
इति पङ्क्तिर्दृश्यते (पृ. 203)। तस्या अयमर्थः- यत्संबन्धीत्यस्य
यद्धेतुसंबन्धीत्यर्थः। तथा च यद्धेतुसंबन्धि यत् साध्यं
तदभावव्याप्यहेत्वन्तरस्य ज्ञानं तत्पक्षे ऽस्ति स सत्प्रतिपक्षः। स
सत्प्रतिपक्ष इत्यत्र
तत्पदेन
यत्संबन्धीत्यत्र यत्पदेन गृहीतो हेतुर्ग्राह्य इति।
भास्कारोदयायां तु - ऽयत्पदेन प्रकृताभिप्रेतपक्षपरिग्रहः।
पक्षेत्यत्र तदित्यादिः। तथा च यत्पक्षकं यत्साध्यं
तदभावव्याप्यहेत्वन्तरस्य ज्ञानं तत्पक्षे स इत्यन्वयःऽ इति
व्याख्यानं दृश्यते (पृ. 116)। अत्रानन्वयादिकं विदुषां स्पष्टम्।
[ 4 ]
प्रामाण्यवादे प्रकाशिकायां - ऽभट्टमते तु ज्ञानस्यातीन्द्रियतया
ज्ञाततालिङ्गकानुमितेरेव प्राथमिकज्ञानग्रहरूपतया तया प्रामाण्यं
गृह्यतेऽ इति पङ्क्तिर्दृश्यते (पृ. 239)। अत्र ज्ञानस्य ग्रहः ज्ञानग्रहः
प्राथमिकश्चासौ ज्ञानग्रहश्चेति कर्मधारयः। तेन प्राथमिकत्वं
ज्ञानग्रहविशेषणम्। ज्ञानग्रहे प्राथमिकत्वविशेषणात्
नैयायिकसंमतप्रवृत्त्यादिलिङ्गकानुमित्यात्मकः द्वितीयो
ज्ञानग्रहः व्यवच्छिद्यत इति प्रकाशिकाशयः।
भास्कारोदयायां तु एतत्तत्त्वाज्ञानात् ऽप्रथमे भवं प्राथमिकं
तच्च ज्ञानं व्यवसायात्मकं, तस्य ग्रहरूपतया
तद्ग्राहकानुमित्यात्मकज्ञानस्वरूपतयेति यावत्ऽ इति यत्किमपि
व्याख्यातम् (पृ. 137)।
[ 5 ]
तथा तत्रैव - ऽअनुमानप्रयोगस्तु इदं ज्ञानमप्रमा
विसंवादिप्रवृत्तिजनकत्वात् यन्नैवं तन्नैवम्ऽ इति दृश्यते (पृ.288)। अत्र विसंवादिप्रवृत्तीत्यत्र विसंवादिनी या प्रवृत्तिः
तज्जनकत्वादित्यर्थः। विसंवादिनीत्यस्य विफलेत्यर्थः। भास्कारोदयायां तु ऽविपरीतज्ञान
वत्प्रवृत्तिजनकत्वादित्यर्थःऽ इत्युक्तम्। अनेन विसंवादिनः
प्रवृत्तिरिति विग्रहो ऽभिप्रेतः। अत्रानौचित्यं स्पष्टमेव।
उदाहरणार्थं
कानिचित् स्थलानि प्रदर्शितानि। एतादृशस्थलेषु बालप्रियायां प्रामाणिकरीत्या व्याख्यानं कृतम्।
अथैतन्मुद्रणसमाप्तिसमये तिरुप्पुक्कुलिस्वामीति विख्यातैः
सार्धशतसंवत्सरेभ्यः पूर्वं काञ्चीमध्युषितवद्भिः
चतुस्तन्त्रनिष्णातैविरचितानेकन्यायग्रन्थक्रोडपत्रैः
श्रीकृष्णताताचार्यैः कृतायाः प्रसारणाः ख्यायाः प्रकाशिकाव्याख्यायाः
एका तालपत्रमयी ग्रन्थलिपिमातृका संप्रति काञ्चीमधिवसतां
विल्लियंपाक्कं श्रीसम्पत्कुमारताताचार्याणां सकाशात् लब्धा।
व्याख्येयं श्रीकृष्णताताचार्यैंः मातृकारूपेण विलिखितेति
तालपत्राग्रन्थपुष्पिकातः अवगम्यते। अपि चात्रत्यप्रमा त्वानुगमः
तथैव न्यायसिद्धाञ्जनव्याख्यायां
रत्नपेटिकायां दृश्यत। किं च
तदीयग्रन्थान्तरशैलीमनुकरोतीयं प्रसारणा। अतो व्याख्येयं
श्रीकृष्णताताचार्यैः कृतेत्यत्र न को ऽपि संदेहः। अस्यां प्रसारणायां
प्रायः सर्वेषां लक्षणानामनुगमाः वर्तन्ते। तस्मादियं व्याख्या
अनुगममार्गजिज्ञासूनां महते उपकाराय कल्पेतेति मत्वा अस्या अपि
प्रकाशनं युक्तरूपं मन्वानेन मया अनुबन्धरूपेण व्याख्येयं
मुद्रापिता। यदि पूर्वमेवेयं समुपलब्धा अभविष्यत् तदा इयमपि
तत्तत्स्थलस्याधस्यात् बालप्रियया साकं मुद्रापिता अभविष्यत्। अथापि
अनुबन्धरूपेण वा मुद्रणार्थमियं लब्धेति अलभ्यलाभेनेव
संतुष्यत्यन्तरङ्गम्।
ग्रन्थस्यास्य
तर्कसंङ्ग्रह-दीपिका-प्रकाशिका-बालप्रिया-प्रसारणा-गुञ्जरूपस्य
प्रकाशनम् -
ऽसिद्ध्यन्ति कर्मसु
महत्स्वपि यन्नियोज्याः
सम्भावना गुणमवेहि
तमीश्वरणाम्।ऽ
इति नीत्या -
बाल्यात् प्रभृति निरवग्रहानुग्रहगर्भेण कटाक्षविशेषेण
मामुज्जीवयतां वेदादिशास्त्रसंरक्षणार्थं कृतावताराणां
आजन्मशुद्धानां महर्षिप्रवराणां आचार्यतल्लजानां भक्तजनबृन्दैः
सेव्यमानानां श्रीकाञ्चीकामकोटिपीठाधीश्वराणां
श्रीमच्चन्द्रशेखरेन्द्रसरस्वतीश्रीचरणानां मद्गुरुवर्याणां
करुणाविलासविजृम्भितम्।
मम मातुलपादानां
श्रीकाञ्ची-आचार्यचरणपादपद्मभक्ताग्रगण्यानां
धर्मरक्षणधुरन्धराणां सत्कर्मनिरतानां शमदमाद्यात्मगुणसंपन्नानां
समधिगतन्यायादिशास्त्रसाराणां श्रीवाञ्छिनाथार्यवर्याणां
षष्ट्यब्दपूर्तिमहोत्सवस्मारकचिह्नतया ग्रन्थमेनं
श्रीदक्षिणामूर्तिव्यासशङ्करशब्दितं सत्यज्ञानपदोदितं च यज्ज्योतिः
तत्स्वरूपाणां श्रीकामकोष्ठवरपीठजुषां गुरूणां चरणनलिनयोः
प्रणामशतानि विधाय न्यायवेदान्तादिशास्त्रेषु व्युत्पत्त्यतिशयं
प्रार्थयमानः सभक्तिश्रद्धं समर्पयामि।
समुचितसरलव्याख्यानविरहेण तर्कशास्त्राध्ययनात् बिभ्यतां
बालतार्किकाणां ग्रन्थो ऽयं महान्तमुपकारमाधास्यति। सत्स्वपि
बहुषु कार्येषु मत्प्रार्थनामङ्गीकृत्य महोपकारकरीं बालप्रियां
निर्माय मादृशान्
बालतार्किङ्कान्
अनुगृहीतवद्भ्यः मम तर्कशास्त्रगुरुभ्यः न्यायमीमांसा - व्याकरण -
वेदान्तशिरोमणिभ्यः विरचितानेकग्रन्थेभ्यः
श्रीकाञ्चीकामकोटिपीठा धीश्वराणां परमानुग्रहपात्रभूतेभ्यः
तिरुपतिस्थकेन्द्रीयसंस्कृतविद्यापीठे
प्राध्यापकपदमलङ्कुर्वद्भ्यः विद्वद्वरेभ्यः श्री. एन्. एस्.
रामानुजताताचार्येभ्यः परां कृतज्ञतां प्रकटयामि।
अस्य ग्रन्थस्य
आमुखलेखनेन माम् अनुगृहीतवतां प्राच्यप्रतीच्यविद्याविशारदानां
विख्यातविदुषां मद्रपुरीविश्वविद्यालये संस्कृतविभागस्य
प्राध्यापकानामध्यक्षाणां च डा0 के. कुञ्जुण्णिराजामहोदयानां हार्दं
कार्तज्ञ्यमाविष्करोमि।
प्रसारणाख्यव्याख्यायाः
तालकोशरूपां प्रतिं दत्त्वा उपकृतवद्भ्यः काञ्चीपुरनिवासिभ्यः,
विद्वद्भ्यः श्रीविल्लियम्पाक्कं सम्पत्कुमारताताचार्येभ्यः, तस्या एव
काकदमयप्रतितः छायाचित्ररूपां प्रतिं सम्पाद्यदत्त्वा उपकृतवद्भ्य
अडयार्कोशालयाधिकारिभ्यश्च हार्दिकीं कृतज्ञतां प्रकाशयामि।
एतद्ग्रन्थस्य
मुद्रणोपयोगितया सुस्पष्टरीत्या देवनागरलिप्या मातृकां
विलिखितवद्भ्यः न्यायशिरोमणिभ्यः डा0 ई. गोविन्दन्
महाशयेभ्यः कृतज्ञतां निवेदयामि।
समीचीनपक्किकया
निर्दिष्टसमये मुद्रणं कृतवते इळङ्गो मुद्रणालयाधिकारिणो
एम्. एस्. मणियवन् महाशयाय मङ्गलाशासनपूर्वकं कृतज्ञता
निवेद्यते।
अपि च उपोद्धाते
दीपिकादिषु विवेचितविषयाणां मध्येमुख्यतमतया प्रतिभातान्
पञ्चदशविषयान् अधिकृत्य
प्राचीननवीनन्यायवैशेषिकग्रन्थादिपरामर्शपूर्वकं विवेचनं
अकरवम्। अनुसन्धानमार्गानुसारेण लिखितो ऽयमुपोद्धातः
अनुसन्धानकुतूहलिनामुपकाराय कल्पते। अनवधानतः मुद्रणादौ
जाताः अशुद्धयः विद्वद्भिः क्षन्तव्याः शोधनीयाश्चेति प्रार्थये।
इति
श्रीकामकोष्ठवरपीठजुषां गुरूणां
वैशाखशुद्धपूर्णिमा
पादारविन्दमकरन्दरसैकजीवी
(21-5-1980) एन्. वीलिनाथः
॥।
। श्रीः।
[ 1 ] मङ्गलवादः
इह खलु प्रायः
सर्वे ऽपि गन्थकाराः ग्रन्थारम्भसमये मङ्गलमाचरन्तीति
सर्वसंप्रतिपन्नम्। तत्र मङ्गलाचरणे किं प्रमाणम्? किं वा
प्रयोजनमिति मङ्गलवादे निरूप्यते। न्यायभाष्यकारः
मङ्गलाचरणमधिकृत्य न किमप्यवादीत्। न्यायवार्तिककारो ऽपि
मङ्गलाचरणं विनैव प्रबन्धमारेभे। टीकाकारस्तु वाचस्पतिमिश्रः
मङ्गलाचरणपूर्वकमेव टीकामारभत। तत्र परमशिष्टो ऽपि
वार्तिककारः कुतो वा ग्रन्थारम्भे मङ्गलं नाचचारेत्याशङ्क्य
इष्टदेवतानमस्काररूपं मङ्गलं कृतवानेव। अथापि ग्रन्थे तन्न
न्यवेशयत्। न हि मङ्गलकरं यद्यत्क्रियते तत्सर्वं ग्रन्थे
निवेशनीयमिति निर्बन्धो ऽस्तीति समाधानं प्रोवाच टीकाकारः।
तत्सन्दर्भे ---
ऽअविगीतशिष्टाचारपरम्पराप्राप्तो वार्तिककारेण
परमशिष्टेन
कृतो ऽपीष्टदेवतानमस्कारो न शास्त्रे
निवेशेतिःऽ1
इति वदन्
मङ्गलाचरणे शिष्टाचारः प्रमाणमिति सूचयति।
तात्पर्यटीकापरिशुद्धौ उदयनाचार्याः- कार्यारम्भे
प्रारब्धस्यान्तरायविरहेण परिसमाप्तिं कामयमानाः
अभीष्टदेवतानमस्कारपूर्वकं प्रेक्षावन्तः प्रवर्तन्ते। परं तु दृश्यते
तत्र तत्र बहुशो व्यभिचारः, कृतनमस्कारस्यापि समीहितासिद्धेः,
अकृतनमस्कारस्यापि समीहितसिद्धेश्च। न चात्र ऽवृष्टिकामः कारीरीं
निर्वपेत्ऽ इतिवत् ऽप्रारब्धपरिसमाप्तिकामो देवतां
नमस्कुर्यात्ऽ इति श्रुतिरस्ति येन व्यभिचारे ऽपि
कर्मकर्तृसाधनवैगुण्यं कल्पयामः। तस्मात् ऽअर्थकाम इह वटे
प्रतिवसन्तं वक्षं पूजयेत्ऽ इतिवत्
अप्रामाणिकप्रसिद्धिविजृम्भितमेतन्मङ्गलाचरणमित्यभिसन्धाय
किमु वार्तिककृता मङ्गलं न कृतम्? इत्याकाङ्क्षासमाधानार्थंः
पूर्वोक्तटीकागन्थ इत्यवतारिकां कृत्वा, प्रत्यक्षमिव
अविगीतशिष्टाचारो ऽपि श्रुतिसद्भावे प्रमाणमेव, निर्मूलस्य
शिष्टाचारस्यासंभवात्। तथा च क्वचिन्मङ्गले समाप्त्यभावः
कर्मकर्तृसाधनवैगुण्यप्रयुक्तः। इह जन्मनि असत्यपि मङ्गले
समाप्तिस्तु जन्मान्तरीयमङ्गलाधीनेति समवर्णयन्। एतेन
शिष्टाचारानुमिता श्रुतिः ग्रन्थारम्भे मङ्गलकर्तव्यतायां
प्रमाणमिति उदयनाचार्याशयो ऽवगम्यते, मङ्गलं समाप्तिफलकमिति
च।
तत्न भूषणकाराशयः
न्यायभूषणकाराः -
प्रणामकृतेन हि मङ्लेनं अधर्मप्रतिबन्धकेन अधर्मंमूला
विघ्नविनायकाः प्रोत्सार्यन्ते। ततः शास्त्रपरिसमाप्तिरित्यर्थवान्
प्रणामः। यत्र तु न समाप्तिस्तत्र प्रणामस्यासम्यकत्वमनुमेयं
कर्तुरधर्मबाहुल्यं वा। यत्राप्यन्तरेण प्रणामं
शास्त्रपरिसमाप्तिर्दृश्यते, तत्रापि मानसः कायिको वा
प्रणामो ऽनुमेयः, साधनान्तरसाध्यो वा धर्मः। वाचिकप्रणामे
त्वन्येषामप्युपदेशसिद्धिरिति विशेषः। यस्य तु विघ्नहेतुरधर्म एव
नास्ति, तेनापि तदाशङ्क्या कर्तव्य एव प्रणामः। शत्र्वाद्याशङ्क्या
अस्त्रादिसंग्रहवदिति निरूपयन्तः मङ्गलस्यावश्यकर्तव्यतां
बोधयन्ति। मङ्गलकर्तव्यतायां प्रमाणं तु ते न प्रत्यपादयन्।
मङ्गलस्य समाप्तिफलकत्वमेव भासर्वञ्ज्ञाभिमतम्।
वैशेषिकदर्शनरीति ः
वैशेषिकदर्शने
ऽअथातो धर्मं व्याख्यास्यामःऽ इति प्रथमसूत्रे आदौ अथशब्दं
प्रयुञ्जानः कणादो मङ्गलमाचरति स्मेति उपस्कारकारो व्याचष्टे।
भाष्यकारः प्रशस्तपादाचार्यः ऽप्रणम्य हेतुमीश्वरम्ऽ
इतीश्वरप्रणामात्मकं
मङ्गलमन्वतिष्ठत्। तत्र किरणावल्याम्1 - कृतमङ्गलेन चारब्धं
कर्म परिसमाप्यते प्रचीयते च। (प्रचयो नाम प्रारिप्सितस्य ग्रन्थस्य
गुरूणा शिष्याय दानस्याविच्छेदः।) न चान्वयव्यतिरेकाभ्यां
व्यभिचारात् मङ्गलस्य निर्विघ्नपरिसमाप्तिहेतुत्वं न भवतीति
वाच्यम्। आगममूलकस्य कार्यकारणभावस्याबाध्यत्वात्। सत्यपि
मङ्गले समाप्त्यभावस्तु कर्मकर्तृसाधनवैगुण्यादिति प्रत्यपादि।
न्यायकन्दलीकारो ऽपि
ऽप्रणम्य हेतुमीश्वरम्ऽ इति श्लोकं व्याचक्षाण आह2 - कर्मारम्भे हि
देवता गुरुश्च नमस्क्रियते इति शिष्टाचारो ऽयम्। फलं च
नमस्कारस्य विघ्नध्वंसः। ननु किं नमस्कारादेव विघ्नोपशमः
उतान्यस्मादपि। न तावन्नमस्कारादेवेत्यस्ति नियमः। असत्यपि
नमस्कारे न्यायमीमांसाभाष्ययोः परिसमाप्तत्वात्। यदा
चान्यस्मादपि तदा नियमेन मङ्गलाचरणम् व्यर्थम्। अत्रोच्यते।
नमस्कारादेव विघ्नोपशमो भवति, शिष्टैः नियमेन ग्रन्थारम्भे
तदनुष्ठानात्। न च न्यायमीमांसाभाष्यकाराभ्यां न कृतो
नमस्कारः। किं तु कृतो ऽपि ग्रन्थे न न्यबन्धि। कथमिदं ज्ञायत इति
चेत् - कर्तुः शिष्टतयैव। म्लेच्छो ऽपि तावत् गुर्वारम्भे कर्मणि न
प्रवर्तते यावदिष्टान् न नमस्यति। तथा च परमास्तिकौ
वात्स्यायनशबरस्वामिनौ मङ्गलं
नान्वतिष्ठतामित्येतदसंभावितम्
मङ्गलाचारे स्मृतिसंमतिः
मङ्गलाचारे
स्मृतिरपि प्रमाणम्। तथा हि मनुः3---
"मङ्गलाचारयुक्तः स्यात् प्रयतात्मा
जितेन्द्रिय।
जपेच्च जुहुयाच्चैव
नित्यमग्निमतन्द्रितः॥
मङ्गलाचारयुक्तानां
नित्यं च प्रयतात्मनाम्।
जपतां जुह्वतां चैव
विनिपातो न विद्यते ॥"
इति। विनिपात
इत्यस्य विघ्न इत्यर्थः। अत्र द्वितीयश्लोकः मणिकारैः
मङ्गलवादान्ते प्रमाणतया उदाहृतः।
तत्र इतिहाससंमतिः
इतिहासश्रेष्ठे
महाभारते1 व्याससंहितां श्रोतुमिच्छद्भिः महर्षिभिः प्रार्थितः
सौतिः पौराणिकः कथारम्भात् प्राक्---
"आद्यं पुरुषमीशानं पुरुहूतं पुरुष्टुतम्।
ऋतमेकाक्षरं ब्रह्म
व्यक्ताव्यक्तं सनातनम्॥
असच्च सदसच्चैव
यद्विश्वं सदसत्परम्।
परावराणां स्रष्टारं
पुराणं परमव्ययम्॥
मङ्गल्यं मङ्गलं
विष्णुं वरेण्यमनघं शुचिम्।
नमस्कृत्य हृषीकेशं
चराचरगुरुं हरिम्॥
महर्षेः पूजितस्येह
सर्वलोकैर्महात्मनः।
प्रवक्ष्यामि मतं पुण्यं
व्यासस्याद्भुतकर्मणः॥"
इतीष्टदेवतानमस्कारपूर्वकं कथामारभमाणः ग्रन्थारम्भे
मङ्गलाचरणस्यावश्यकर्तव्यतां निवेदयति। एवं विष्णुपुराणे ऽपि
पराशर2ः---
"विष्णुं ग्रसिष्णुं विश्वस्य स्थितौ सर्गे तथा
प्रभुम्।
प्रणम्य
जगतामीशमजमक्षयमव्ययम्॥
कथयामि
यथापूर्वम्.......ऽ
इति
विष्णुनमस्कारपूर्वकं ग्रन्थमारभते स्म।
मणिकृन्मतम्
मणिकाराः आदौ
संप्रदायमतमनुसृत्य विस्तरेण मङ्गलस्य समाप्तिफलकत्वं
साधयामासुः। शिष्टाचारानुमितश्रुतिरेव मङ्गलकर्तव्यतायां
प्रमाणमित्यपि न्यरूपयन्। ततो मङ्गलस्य विघ्नध्वंसः फलमिति
स्वसिद्धान्तं विस्तरेण समवर्णयन्।
अन्नम्भट्टस्याशयः
दीपिकाकारा
अन्नम्भट्टाः शिष्टाचारेणानुमिता ऽसमाप्तिकामो मङ्गलमाचरेत्ऽ
इति श्रुतिः ग्रन्थारम्भे मङ्गलकर्तव्यतायां प्रमाणम्। मङ्गलस्य
समाप्तिः फलम्। विघ्नध्वंसो द्वारम्। विघ्नसमसंख्याकस्य मङ्गलस्य
कारणत्वात् नान्वयव्यभिचारः। जन्मान्तरीयमङ्गलमादाय न
व्यतिरेकव्यभिचार इति निरूपयन्ति। प्रकाशिकायाम् मङ्गलस्य
विघ्नध्वंसः फलमिति मणिकृन्मतमपि संगृहीतम्। न केवलं श्रुतिः
मङ्गलकर्तव्यतायां प्रमाणम्, अपि तु
ऽमङ्गलं कर्तव्यं
समाप्तिफलकत्वात्ऽ इत्यनुमानमपि तत्र प्रमाणमिति
प्रतिपादयाम्बभूवुः प्रकाशिकाकृतः।
[ 2 ] तमोवादः
नवैव द्रव्याणीति
द्रव्यविभजनमसंगतम्। पृथिव्यादिनवद्रव्यव्यतिरिक्तस्य
तमोनामकस्य द्रव्यस्य सद्भावादिति मीमांसकमतरीत्या आक्षिप्य
तमसः तेजो ऽभावे ऽन्तर्भावात् न तदतिरिक्तं द्रव्यमिति द्रव्यमिति
दीपिकायां न्यरूप्यत। तत्र मीमांसकानामयमाशयः- तमसो द्रव्यत्वं
तावदवश्यमङ्गीकरणीयम्। ऽनीलं तमःऽ इति प्रतीत्या रूपवत्त्वस्य
ऽचलति तमःऽ इति प्रतीत्या क्रियावत्त्वस्य चावगमेन
रूपवत्त्वक्रियावत्त्वाभ्यां द्रव्यत्वव्याप्याभ्यां द्रव्यत्वसिद्धेः। तथा च
तमो द्रव्यं नीलादिप्रकारकाबाधितप्रतीतिविषयत्वात् घटवत्
इत्यनुमानं तमसो द्रव्यत्वे प्रमाणम्। न च यत्र यत्रालोकाभावः
तत्र
चाक्षुषप्रमाविषयत्वाभावः इति वा यत्र
यत्रालोकाभाववद्विषयकज्ञानत्वं तत्र चाक्षुषप्रमात्वाभाव इति वा
व्याप्तिसत्त्वात् ऽनीलं तमःऽ इति प्रत्ययस्य प्रमात्वासंभवात्
उक्तहेतुः स्वरूपासिद्ध इति वाच्यम्। आलोकाद्यात्मके तेजसि
संयोगसंबन्धावच्छिन्नालोकाभावसत्त्वेन तत्र
चाक्षषुप्रमाविषयत्वस्यैव सत्त्वेन व्यभिचारात् उक्तव्याप्तेरसंभवात्।
न च तेजोभिन्नत्वं निवेश्य व्याप्तिर्वक्तव्या। तथा च यत्र यत्र
तेजोभिन्नत्वे सति आलोकाभावः तत्र तत्र चाक्षुषप्रमाविषयत्वाभाव
इति व्याप्तेर्न व्यभिचार इति वाच्यम्। तथापि तमस्त्वेन
भवदभिमते आलोकाभावे आलोकसंयोगरूपकारणाभावे ऽपि
चाक्षुषप्रमाविषयत्वस्यैव सत्त्वेन व्यभिचारस्य दुर्वारत्वात्। एवं
आलोकाभावः तमः, रूपप्रतीत्यभावः तमः, वियद्व्याप्तं
पार्थिवपरमाणुगतनैल्यमेव तम इति पक्षाः न संगच्छन्ते।
विधिरूपेण नञुल्लेखरहिततया प्रतीयमानस्य तमसः
अभावरूपत्वासंभवात्। नैल्याश्रयतया प्रतीयमानस्य तमसः
नैल्यरूपत्वासंभवाच्च। न च विधिरूपेण प्रतीयमानत्वस्य
भावत्वसाधकत्वे प्रलयविनाशादिपदोल्लिखितप्रतीतिविषयस्य
प्रध्वंसस्याभावत्वानुपपत्तिरिति वाच्यम्।
नैल्यचलनादिगुणक्रियाश्रयस्य इतरविविक्तस्य वस्तुनः
स्फुटोपलम्भवत् भूतले घटप्रलय इत्यादौ विविक्ततया
भावरूपवस्त्वन्तरानुपलम्भात् प्रलयस्याभावरूपत्वात्। अपि च घटस्य
प्रलयः घटस्य विनाश इत्येवं सप्रतियोगिकतया उपलम्भात्
प्रलयस्याभावरूपत्वम्। तमसस्तु निष्प्रतियोगिकतया उपलम्भात्
नाभावरूपत्वम्। न
चोद्भूतयपवत्पार्थिवस्योद्भूतस्पर्शवत्त्वनियमात् तमसः
पार्थिवत्वे तत्र स्पर्शोपलम्भप्रसङ्गं इति वाच्यम्।
इन्द्रनीलमण्यालोकादीनां नीलरूपवत्तया पार्थिवत्वावश्यंभावात्
तत्र व्यभिचारेण उक्तनियमासंभवात्।
ननु ऽतमो न द्रव्यम्,
आलोकाभाववत्वे सति चाक्षुषप्रत्यक्षविषयत्वात् आलोकाभाववत्ऽ
इत्यनुमानेन तमसो द्रव्यत्वाभावसिद्धेः कथं तस्य द्रव्यत्वम्।
घटादौ व्यभिचारवारणाय आलोकाभाववत्त्वे सतीति विशेषणमिति
चेत् - किमिदमनुमानं प्राभाकरैः प्रयुज्यते, उत नैतायिकैः,
आहोस्वित् रूपमात्रं तम इति वादिभिः। नाद्यः, तन्मते
अतिरिक्ताभावानङ्गीकारेण आलोकाभावरूपदृष्टान्तस्य
तद्घटितहेतोश्चासिद्धेः। न द्वितीयः, नैयायिकमते
आलोकाभावस्यैव तमस्त्वात् पक्षदृष्टान्तभेदाभावात्। तथा च
आलोकाभाव एव द्रव्यभेदसाधनमिति पर्यवसानात् सिद्धसाधनं
दोषः इति। न तृतीयः।
दिवाभीतादिदृश्यमानैर्द्रव्यैर्व्यभिचारात्।
मानुषचाक्षुषविषयत्वादित्युक्तावपि
योगिदृश्यमानैर्द्रव्यैर्व्यभिचारात्।
तथा च तमसो
द्रव्यत्वे सिद्धे गन्धशून्यत्वात् पृथिवीत्वाभावे नीलरूपवत्त्वात्
जलादित्वाभावे च सिद्धे अतिरिक्तद्रव्यत्वं सिध्यतीति।
नैयायिकमतम्
प्रौढं प्रकाशकं च
यत्तेजः तत्सामान्याभावस्तम इत्येतावतैवोपपत्तौ
अतिरिक्तद्रव्यत्वकल्पने प्रमाणाभावः। तमो न द्रव्यं
आलोकासहकृतचक्षुर्ग्राह्यत्वात् आलोकाभाववत् इत्यनुमानं
तमसो द्रव्यत्वाभावे प्रमाणम्। तेजस्सामान्याभावरूपं तमः पक्ष.,
तेजोविशेषाभावो दृष्टान्त इति पक्षदृष्टान्तभेदाभाव इति
दूषणस्य नावकाशः। अथ वा तमश्शब्दवाच्यं पक्षः आलोकाभावो
दृष्टान्त इति न दोषः। ऽनीलं तमःऽ ऽचलति तमःऽ इति
प्रतीत्योर्भ्रमत्वात् न ताभ्यां रूपवत्त्वं क्रियावत्त्वं वा तमसः
सिध्यतीति नैयायिकमतम्।
अत्राहुः -
रूपादिमत्ताप्रतीतेर्भ्रमत्वं न वक्तुं शक्यम्। ऽनीलं तमःऽ ऽचलति
तमःऽ इति प्रतीत्यनन्तरं ऽनेदं तमो नीलम्ऽ ऽनेदं तमश्चलतिऽ
इति बाधकप्रतीत्यनुदयेन तस्याः भ्रमत्वायोगात्। किं च
तमसस्तेजोभावरूपत्वे किञ्जिन्निष्ठनीलरूपारोपेण नीलं तम इति
प्रतीतिरूपपादनीया। तथा सति किञ्चिन्निष्ठपीतरूपारोपेण कदाचित्
पीतं तम इति प्रतीतिरपि स्यात्।
मणिमयमेरुशिखरादिरूपाद्यारोपेण नीलं नभः पीतं नभः
इत्यादिप्रतीतिवत्। तस्मादन्यदीयनीलरूपादरारोपासम्भवेन
रूपवत्ताप्रतीतेर्भ्रमत्वायोगेन प्रमात्वस्यैवावश्यकतया
नीलरूपवत्त्वादिना
तमसो ऽतिरिक्तद्रव्यत्वं
सिद्धमेव।
ननु
निरुक्तयुक्तिभिस्तमसो ऽतिरिक्तरूपवद्द्रव्यत्वाङ्गीकारे आलो
कसहकृतचक्षुर्ग्राह्यत्वं स्यात्। द्रव्यवृत्तिलौकिकविषयतासंबन्धेन
चाक्षुषत्वावच्छिन्नं प्रति आलोकसहकृतचक्षुषः कारणत्वावश्यंभावात्
तमोविषयकचाक्षुषस्य आलोकविरहे ऽपि जायमानत्वान्न
तमसो ऽतिरिक्तद्रव्यत्वसिद्धिः। न च तमोभिन्नद्रव्यचाक्षुषत्वावच्छिन्नं
प्रत्येवालोकस्य कारणत्वाङ्गीकारात् नानुपपत्तिरिति वाच्यम्।
कार्यतावच्छेदके तमोभिन्नत्वनिवेशेन गौरवापत्तेरिति चेत् - न।
भवन्मते ऽपि तेजोविषयक प्रत्यक्षे तेजो ऽन्तरसंनिकर्षानपेक्षणेन
आलोकसहकृतचक्षुषः कारणत्वे अलोकात्मकद्रव्यचाक्षुषानुपपत्त्या
तेजोभिन्नद्रव्यचाक्षुषत्वावच्छिन्नं प्रत्येव
आलोकसहकृतचक्षुषः कारणत्वं वाच्यम्। तथा च
तेजोविषयकचाक्षुषं प्रति आलोकसहकृतचक्षुषः कारणत्वाभावेन
अन्धकारे सूवर्णात्मकतेजश्चाक्षुषापत्त्या तद्वारणाय सुवर्णभिन्नं
यत्तेजः तद्भिन्नद्रव्यचाक्षुषं प्रति आलोकसहकृतचक्षुषः
कारणत्वं वाच्यमिति
कार्यतावच्छेदकगौरवस्य दुष्परिहरत्वात्। अतः तमोभिन्नं
सुवर्णभिन्नतेजोभिन्नं च यद्द्रव्यं तद्विषयकचाक्षुषं प्रत्येव
आलोकसहकृतचक्षुर्ग्राह्यत्वाभावे ऽपि क्षतिविरहात्
तमसो ऽतिरिक्तद्रव्यत्वसिद्धिर्निष्प्रत्यूहैवेति।
[ 3 ] सुवर्णविचारः
तत्र
प्राचीनमतम्
न्यायसूत्रतद्भाष्यवैशेषिकसूत्रेषु सुवर्णस्य
तैजसत्वप्रस्तावो न दृश्यते। परं तु
ऽत्रपुसीसलोहरजतसुवर्णानामग्निसंयोगाद्द्रवत्वमद्भिः
सामान्यम्ऽ (वै. सू. 2-1-7) इति सूत्रं सुवर्णस्य नैमित्तिकद्रवत्वं
बोधयति। तत्र सूत्रे ऽतैजसानाम्ऽ इति पदमधिकमासीदिति
ज्ञायते। यतो वेदान्तदेशिकैः सर्वार्थंसिद्धौ1 --
ऽत्रपुसीसलोहसुवर्णानां तैजसानामग्निसंयोगात् द्रवत्वमद्भिः
सामान्यम्ऽ इति
वैशेषिकसूत्रमुद्धृतमस्ति। तेन च सुवर्णस्य तैजसत्वं
कणादस्यापि संमतमिति ज्ञायते। प्रशस्तपादभाष्ये1
तेजोनिरूपणप्रकरणे
विषयरूपं तेजः भौमदिव्योदर्याकरजभेदात् चतुर्धा विभज्य
ऽआकरजं सुवर्णादिऽ इत्येतावन्मात्रमुक्तम्। तत्र कन्दलीकारः2 --
ऽआकरः स्थानविशेषः। तस्मिन् सुवर्णरजतादि तैजसं द्रव्यं जायते।
सुवर्णादीनां तैजसत्वे तावदागमः प्रमाणम्। न्यायश्चाभिहितः।
भोगिनामदृष्टवशेन भूयसां पार्थिवावयवानामुपष्टम्भात्
अनुद्भूतरूपस्पर्शं पिण्डीभावयोग्यं सुवर्णादिकमारभ्यते। तत्र
पार्थिवद्रव्यसमवेता रसादय उपलभ्यन्तेऽ इत्याह। अत्र आगमपदेन
ऽअग्नेरपत्यं प्रथमं हिरण्यम्ऽ इति श्रुतिवाक्यं विवक्षितम्।
ऽक्षितितेजसोर्नैमित्तिकद्रवत्वयोगःऽ3
इति
भाष्यव्याख्यावसरे कन्दल्यां सुवर्णस्य तैजसत्वसाधको
न्यायो ऽभिहितः। स च - सूवर्णे द्रवत्वं नास्ति। गुरुत्वमिव
पृथिव्यामेव विद्यमानं द्रवत्वं दह्यमानेषु सुवर्णेषु
संयुक्तसमवायात् प्रतीयत इति चेत् - न।
पार्थिवद्रवत्वस्यात्यन्ताग्निसंयोगेन भस्मीभावदर्शनात्
सुवर्णद्रवत्वस्य चात्यन्ताग्निसंयोगे ऽपि भस्मीभावविरहात् सुवर्णं
न पार्थिवम् इति।
किरणावल्यामपि4 --
ऽसुवर्णादिकं न पार्थिवम्
अत्यनतानलसंयोगे ऽप्यपरावर्तमानरूपवत्त्वात् जलवत्ऽ
इत्यनुमानेन सुवर्णस्य पृथिवीभिन्नत्वं प्रसाध्य
सांसिद्धिकद्रवत्वशैत्ययोरभावात्
स्नेहाविनाभूतद्रव्यान्तरसंग्रहानुपलम्भाच्च जलभिन्नत्वं संसाध्य,
रूपवत्त्वात् वायुप्रभृत्यन्यत्वं साधयित्वा परिशेषात् तैजसत्वं
प्रसाधितम्।
मणिकाराशयः
मणिकारा अपि
कन्दलीकिरणावल्यादृतं पन्थानमेवानुसृत्यानुमानेन सुवर्णस्य
तैजसत्वं साधितवन्तः। तत्रानुक्तानि अन्यान्यपि कानिचिदनुमानानि
मणौ प्रदर्शितानीति विशेषः।
तानि यथा ---
( 1 )
अत्यन्ताग्निसंयोगि पीतरूपवद्द्रव्यं
विजातीयरूपप्रतिबन्धकद्रवर्द्रव्यसंयुक्तम्, नक्तन्दिवमग्निसंयोगे ऽपि
पीतरूपातिरिक्तरूपानाश्रयत्वात्,
तावत्पर्यन्तमग्निसंयुक्तजलमध्यस्थपीतटवत्।
( 2 )
अत्यन्ताग्निसंयोगेनानुच्छिद्यमानद्रवत्वाधिकरणं तैजसम्
जलपृथिवीभ्यामन्यत्वे सति रूपवत्त्वात्
वह्निवत्।
( 3 ) पीतं
द्रवत्वाधिकरणं द्रवत्वोच्छेदप्रतिबन्धकद्रवद्रव्यसंयुक्तम्
अत्यन्ताग्निसंयोगे ऽप्यनुच्छिद्यमानद्रवत्वाधारपार्थिवत्वात्
क्वथ्यमानजलमध्यस्थितघृतवत्।
( 4 ) विवादाध्यासितं
द्रवत्वाधिकरणं तैजसं असति द्रवद्रव्यसंयोगे
अत्यन्ताग्निसंयोगे ऽप्यनुच्छिद्यमानद्रवत्वाधारत्वात् यन्नैवं
तन्नैवं यथा जलं घृतं वा।
( 5 ) तेजस्त्वं
नाद्रवरूपवन्मात्रवृत्ति रूपवद्वृत्तिद्रव्यत्वसाक्षाद्व्याप्यजातित्वात्
पृथिवीत्ववत्।
यद्वा
तेजस्त्वं द्रुतवृत्ति
रूपवद्वृत्तिद्रव्यत्वसाक्षाद्व्याप्यजातित्वात् जलत्ववत्।
( 6 ) सुवर्णारम्भकाः
परमाणवः न पार्थिवाः
अत्यन्ताग्निसंयोगेनानुच्छिद्यमानद्रवत्वाधिकरणत्वात्
जलपरमाणुवत्।
तैजसा वा तत एव, यन्नैवं तन्नैवं यथा घृतपरमाणुः।
( 7 ) पार्थिवारब्धं
तैजसारब्धं वा सुवर्णमपार्थिवं तैजसं वा
अत्यन्ताग्निसंयोगे ऽप्यनुच्छिद्यमानद्रवत्वाधिकरणपरमाण्वारब्धत्वात्
इति वा।
दीपिकायामप्यन्नम्भट्टः इमामेव रीतिमवलम्ब्य सुवर्णस्य
तैजसत्वं साधयति।
एकदेशिमतेन सुवर्णस्य
पार्थिवत्वम्
मुक्तावलीव्याख्याने
दिनकरीये1 --- ऽनवीनास्तुऽ इत्यादिना सुवर्णस्य पार्थिवत्वसाधकं
मतान्तरमुपन्यस्तम्। तेषामाशयस्तु ऽपीतं सुवर्णं द्रुतम्ऽ इति
प्रतीत्या पीतरूपवति सुवर्णे अत एव पार्थिवे द्रवत्ववत्त्वमवगम्यते।
तथा प्रतीयमानस्य पार्थिवद्रवत्वस्य अतितापे ऽप्यनुच्छेदात् तत्र
व्यभिचारो दुर्वारः। न च तादृशप्रतीतिर्भ्रमरूपेति वाच्यम्।
बाधकाभावात्। न च तस्य पार्थिवत्वे अग्निसंयोगात्तदीयरूपनाशः
कुतो न भवतीति वाच्यम्। अनुभवबलेन रूपनाशं प्रति तादात्म्येन
सुवर्णस्य प्रतिबन्धकत्वाङ्गीकारादिति।
अत्रेदं विचारणीयम्
--- प्रतिबन्धकाभावविशिष्टः अत्यन्ताग्निसंयोगः पार्थिवद्रवत्वनाशं
प्रति हेतुरिति
कार्यकारणभावः
आवश्यकः। तत्र सुवर्णस्थपार्थिवभागमतद्रवत्वनाशरूपकार्यस्य अभावः
प्रतिबन्धकाभावविशिष्टात्यन्ताग्निसंयोगरूपकारणाभावप्रयुक्तः
इति निर्विवादम्। तत्र तादृशविशिष्टाभावरूपः कारणाभावः न
विशेष्याभावात्, अत्यन्ताग्निसंयोगरूपस्य विशेष्यस्य यत्र सत्त्वात्।
किं तु प्रतिबन्धकाभावरूपस्य विशेषणस्या भावादेव वक्तव्य इति
प्रतिबन्धक किञ्चित् द्रवद्रव्यान्तरं तत्रास्तीति वक्तव्यम्। तस्यापि
पृथिवीत्वे तद्द्रवत्वनाशप्रतिबन्धकं द्रव्यान्तरं तस्यापि
तथेत्यनवस्था स्यात्। अतः प्रतिबन्धकान्तरं विना
अविनश्यद्द्रवत्वादेव तन्न पृथिवी इति।
दीपिकाकाराः
पार्थिवभागस्यापि द्रवत्वं तेजोभागस्यापि द्रवत्वमङ्गीकुर्वन्ति।
ऽपीतद्रव्यद्रवत्वनाशऽ ऽद्रवद्रव्यान्तरऽ इति पदयोः स्वारस्यात्।
मुक्तावल्यां तु ऽजलमध्यस्थमषीक्षोदवत्तस्याद्रुतत्वात्ऽ इति ग्रन्थेन
पार्थिवभागस्य द्रवत्वाभाव एव प्रतिपादितः। अत एव तदनुसारेण
सुवर्णस्य तैजसत्वसाधकमनुमानान्तरं मुक्तावल्यामुपन्यस्तमिति
बालप्रियाकाराः
विस्तरेण निरूपयन्ति।
[ 4 ] वायुप्रत्यक्षविचारः
दीपिकाकाराः
स्पर्शानुमेयो वायुरित्यादिना स्पर्शलिङ्गकानुमानवेद्यत्वं वायोः
प्रसाध्य रूपरहितत्वात् वायुः न प्रत्यक्षवेद्य इति न्यरूपयन्।
एतत्तत्त्वमधुना परीक्ष्यते।
बहिदिन्द्रियजन्यद्रव्यप्रत्यक्षसामान्यं प्रति उद्भूतरूपं
कारणम्। तथा च वायोरुद्भूतरूपविरहात् न प्रत्यक्षगोचरत्वम्,
किं त्वनुमानैकवेद्यता। तथा च वैशेषिकं सूत्रम् --- ऽस्पर्शश्च
वायोःऽ [वै. सू. 2-1-9] इति। चशब्देन शब्दधृतिकम्पा गृह्यन्त।
अतः स्पर्शादिभिर्वायुरनुमेयः, न तु प्रत्यक्ष इति सूत्रार्थः।
तथा च
प्रशस्तपादभाष्यम्1 ---
ऽविषयस्तूपलभ्यमानस्पर्शाधिष्ठानभूतः
स्पर्शंशब्दधृतिकम्पलिङ्गःऽ
इति। तत्र
कन्दलीकारः2 --- न तावद्वायोरस्तित्वे प्रत्यक्षं प्रमाणम्,
स्पर्शादन्यस्य त्वचा अग्रहणात्। न च वायुर्वातीति ज्ञानात् वायुः
प्रत्यक्ष इति वाच्यम्। तस्य ज्ञानस्य स्पर्शलिङ्गकानुमितिरूपत्वात्।
यत्र यत्र स्पार्शनप्रत्यक्षविषयत्वं तत्र तत्र चाक्षुषप्रत्यक्षविषयत्वमिति
व्याप्तेः घटादौ दर्शनात् रूपाभावेन वायौ चाक्षषत्वरूपस्य
व्यापकस्य
निवृत्तौ तद्व्याप्यं
स्पार्शनत्वमपि निवर्तते। अतो वायुर्न प्रत्यक्षविषयः, अपि त्वनुमेय
इति न्यरूपयत्।
मणिकारमतम्
द्रव्यविषयकस्पार्शनं प्रति नोद्भूतस्पर्शमात्रं प्रयोजकम्।
तथा सति उद्भूतस्पर्शाश्रयस्य निदाघोष्मणः प्रत्यक्षतया
तद्वृत्तिसंख्यादेरपि प्रत्यक्षता स्यात्। योग्यव्यक्तिवृत्तेः संख्यायाः
योग्यत्वमिति नियमात्। न खलूष्मणि करेण परामृष्टे ऽपि
तद्गतां संख्यां को ऽप्यध्यक्षयति। नापि द्रव्यप्रत्यक्षं प्रति
उद्भूतरूपमात्रं प्रयोजकम्, तथा सति
उद्भूतरूपवतः
चन्द्राद्युद्योतस्यापि प्रत्यक्षतया तद्गतसंख्याया अपि प्रत्यक्षता
प्रसज्येत। न हि निपुणमवलोकयन्नपि चन्द्रप्रभादिगतं संख्यादिकं
कश्चित् पश्यति। अतः प्रत्येकं व्यभिचारात् उद्भूतस्पर्शः
उद्भूतरूपं चेत्युभयमपि द्रव्यप्रत्यक्षत्वे प्रयोजकमिति वक्तव्यम्।
चन्द्राद्यालोकः उद्भूतरूपवानपि उद्भूतस्पर्शवान्न भवति।
निदाघोष्मा उद्भूतस्पर्शवानपि नोद्भूतरूपवान्।
अतस्तयोरप्रत्यक्षत्वात् तद्गतसंख्यायाः प्रत्यक्षता आपादयितुं न
शक्यते। तथा च वायुरुद्भूतस्पर्शवानपि नोद्भूतरूपवानिति न
प्रत्यक्षः।
अपि च द्रव्यप्रत्यक्षं
प्रति नोद्भूतस्पर्शः कारणम्। तथा सति पक्षिकाण्डे चलति
पूर्वदेशविभागोत्तरदेशसंयोगयोः प्रत्यक्षता न स्यात्।
प्रभामण्डलात्मकयोः पूर्वोत्तरदेशयोः उद्भूतस्पर्शशून्यत्वात्। अत
उद्भूतरूपमेव द्रव्यप्रत्यक्षतायां तन्त्रमिति संप्रदायविदः।
तन्मते ऽपि उद्भूतरूपशून्यो वायुरप्रत्यक्ष एवेति मणिकाराः
प्रत्यपीपदन्।
एवं च
बहिरिन्द्रियजन्यद्रव्यप्रत्यक्षं प्रति उद्भूतरूपस्य कारणत्वे निश्चिते
ऽवायुः बहिरिन्द्रियजन्यप्रत्यक्षविषयः प्रत्यक्षस्पर्शाश्रयत्वाऽ
दित्यनुमाने
पक्षधर्मद्रव्यत्वावच्छिन्नसाध्यव्यापकमुदभूतरूपवत्त्वमुपाधिः। तथा च
वायुः बहिरिन्द्रियजन्यप्रत्यक्षाविषयः
रूपशून्यद्रव्यत्वात्
आकाशवदित्यनुमानेन वायोरप्रत्यक्षत्वं सिध्यतीति
मणिकारनिरूपणस्य सारांशः। दीपिकाकारो ऽप्यमुमेव
पन्थानमवललम्बे।
मुक्तावल्यां वायोः
प्रत्यक्षत्वोपपादनम्।
मुक्तावल्यां1नवीनास्तु इत्यादिना वायोः प्रत्यक्षत्त्वं
व्यवास्थापि। तथा हि - बहिरिन्द्रियजन्यद्रव्यप्रत्यक्षत्वावच्छिन्नं प्रति न
रूपं कारणं, प्रमाणाभावात्। अपि तु चाक्षुषप्रत्यक्षे रूपं,
स्पार्शनप्रत्यक्षे स्पर्शः
कारणम्। तथा च स्पर्शाश्रयस्य वायोः त्वाचप्रत्यक्षविषयत्वे न
किमपि बाधकम्। यथा हि उद्भूतस्पर्शशून्याया अपि प्रभायाः ऽप्रभां
पश्यामिऽ इत्यनुभवबलात् चाक्षुषप्रत्यक्षविषयत्वमुपेयते, तथा
ऽवायुं स्पृशामिऽ इत्यनुभवात् उद्भूतरूपशून्यस्यापि वायोः
स्पार्शनप्रत्यक्षविषयत्वे को विरोधः? तर्हि योग्यवायुवृत्तिः
संख्यापि गृह्येतेति मण्युक्तदोषस्य कः परिहार इति चेत् - अयम्।
सजातीयसंवलनरूपाद्दोषात् क्वचित् वायोः संख्या न गृह्यते।
दोषाभावे तु संख्याग्रहणमिष्टमेवेति।
वस्तुतस्तु पक्षिकाण्डे
गच्छति पूर्वोत्तरसंयोगविभागौ प्रत्यक्षौ। तत्राश्रयस्य
प्रभात्मकदेशस्याप्रत्यक्षत्वे तदाश्रित संयोगविभागयोरप्रत्यक्षता
स्यादिति युक्त्या प्रभायाः प्रत्यक्षत्वे ऽपि वायोर्न तथात्वमिति
मणिकारैरुक्तत्वात् प्रभादृष्टान्तेन वायोः प्रत्यक्षता साधयितुं न
शक्यते। वायौ तु नैतादृशी युक्तिरस्ति। अतो वायुरप्रत्यक्ष एवेति
दिनकर्यादौ2 स्पष्टम्।
चिन्तामणिप्रकाशकारः
रुचिदत्तमिश्रः वायोः प्रत्यक्षत्वमेव समर्थंयते। उद्भूतरूपस्पर्शवति
सौरतेजसि प्रत्यक्षे ऽपि संख्यादिकं न प्रत्यक्षम्। तथा वायावप्यस्तु।
यदि च सौरतेजसि संख्यादिकं प्रत्यक्षमेवेत्यङ्गीक्रियते, तथा
वायावपि
स्वीक्रियताम्। यद्वा
संख्याप्रत्यक्षं प्रति आश्रये उद्भूतस्पर्शवत्त्वे सति
उद्भूतरूपवत्त्वमेव प्रयोजकम्।
अतो वायौ संख्या न
गृह्यते। तथापि वायोः स्पार्शनत्वे उद्भूतस्पर्शमात्रं प्रयोजकमिति
वायोः स्पार्शंनत्वं निराबाधमिति तेन न्यरूपि।
[ 5 ] प्रमालक्षणविचारः
दीपिकायां ऽतद्वति
तत्प्रकारको ऽनुभवो यथार्थःऽ, ऽतदभाववति
तत्प्रकारको ऽनुभवो ऽयथार्थःऽ इति मणिकारनिष्कृष्टं
पन्थानमवलम्ब्य प्रमायाः अप्रमायाश्च लक्षणे अभिहिते। अत्र विषये
प्राक्तनानामाशयं नूतनलक्षणाभिधाने कारणं च विमृशामः।
ऽतत्त्वज्ञानान्निः- श्रेयसाधिगमःऽ (न्या. सू. 1-1-1) इति प्रथमसूत्रे
तत्त्वज्ञानस्यापवर्गोपायत्वमुक्त्वा तत्प्रकारप्रतिपादनपरे ऽदुःखजन्मऽ
इत्यादिद्वितीयसूत्रे तत्त्वज्ञानं मिथ्याज्ञानस्य निवर्तकमित्यवदत्।
तेन तत्त्वज्ञानं प्रमेति सूत्रकारो मन्यते। प्रमाया एव
भ्रमरूपमिथ्याज्ञाननिवर्तकत्वात्। तस्य भावः तत्त्वं -
विशेष्यवृत्तिधर्मः तस्य ज्ञानं तत्त्वज्ञानम्। विशेष्यवृत्तिधर्मप्रकारकं
ज्ञानं तत्त्वज्ञानमिति यावत्। अनेन विशेष्यवृत्तिधर्मप्रकारकज्ञानत्वं
प्रमायाः लक्षणमिति पर्यवस्यति। अत्र पक्षे यथार्थस्मृतावतिव्याप्तिः
प्रसजति, तस्या अपि विशेष्यवृत्तिधर्मप्रकारकज्ञानत्वात्।
तृतीयसूत्रे भाष्ये1
--- ऽउपलब्धिसाधनानि प्रमाणानीति समाख्यानिर्वचनसामर्थ्यात्
बोद्धव्यमिति वदन् भाष्यकारः ऽउपलब्धि प्रमाऽ इति सूचयति।
ऽबुद्धिरूपलब्धिर्ज्ञानमित्यनर्थान्तरम्ऽ इति (न्या. सू. 1-1-15)
सूत्रानुसारेण उपलब्धिपदस्य ज्ञानम् इत्यथः।
निर्विषयकज्ञानस्यासंभवात् अर्थंविषयकज्ञानत्वं प्रमात्वमिति लभ्यते।
अत एव ऽयत्तत् अर्थविज्ञानं सा प्रमितिःऽ इति प्रथमसूत्रे भाष्यम्।
परं त्वत्र लक्षणे स्मृतौ भ्रमे चातिव्याप्तिः, तयोरपि
अर्थविषयकत्वात् ज्ञानत्वाच्च।
उक्तानुपपत्तिमालोच्यैव टीकाकाराः वाचस्पतिमिश्राः1 --
ऽलोकाधीनावधारणो
हि शब्दार्थसंबन्धः। लोकश्च
स्मृतेरन्यामुपलब्धिमर्थाव्यभिचारिणीं प्रमामाचष्टेऽ
इत्याहुः।
अर्थाव्यभिचारि स्मृतिभिन्नं ज्ञानं प्रमेति तदर्थः।
ज्ञानस्यार्थाव्यभिचरितत्वं यथावस्थितार्थविषयकत्वम्। अत्र पक्षे ऽपि
यथार्थस्मृतावतिव्याप्तिदोषो वर्तते।
अत एव न्यायसारे2
ज्ञानपदस्य स्थाने अनुभवपदं निवेश्य ऽसम्यगनुभवः प्रमाऽ इति
प्रमायाः लक्षणमुक्तम्। अनुभवे सम्यक्त्वं च
तथाभूतार्थनिश्चयस्वभावत्वमिति न्यायभूषणे3।
सूत्रस्थस्य तत्त्वज्ञानस्य
प्रमात्त्वे स्मृतावतिव्याप्तिरिति पर्यालोच्यैव ऽतत्त्वानुभूतिः प्रमाऽ
इति लक्षणावल्यामुदमनाचार्यैः सप्तपदार्थ्यां
शिवादित्यमिश्रैश्चाभ्यधायि। इदं लक्षणं बहुधा विकल्प्य खण्डन
खण्डखाद्ये
अदूष्यत।
न्यायकुसुमाञ्जलौ
उदयनाचार्याः---
ऽयथार्थानुभवो
मानमनपेक्षतयेष्यतेऽ4
इति कारिकाभागेन
यथार्थानुभवत्वं प्रमायाः लक्षणमिति अवदन्। अनुभवपदसंयोजनेन
स्मृतावतिव्याप्तिर्निराकृता भवति। अनुभवे यथार्थत्वं यत्र यदस्ति
तत्र तद्विषयकत्वमेव। तथा हि भ्रान्तिनिर्वचनावसरे कुसुमाञ्जलौ5
ऽयन्नास्ति तत्र
तस्यावगतिरिति भ्रान्त्यर्थत्वात्ऽ इत्यभाणि।
तद्व्याख्याने प्रकाशे
वर्धमानोपाध्यायैः6---
ऽएतेन यद् यत्रास्ति
तत्र तज्ज्ञानं प्रमेत्यपि निरूक्तम्ऽ
इत्यवादि। एवं च
तद्वति तत्प्रकारकानुभवत्वं प्रमात्वमिति उदयनाचार्याणां निष्कृष्टं
प्रमालक्षणम्। मणिकारैरप्येतल्लक्षणं सिद्धान्तत्वेन स्वीकृतमिति
दीपिकाकारो ऽपि तदेव लक्षणं प्रोवाच।
स्मृतिसाधारणं प्रमात्वम्
विश्वनाथपञ्चाननेन कारिकावल्यां प्रमायाः लक्षणद्वयमुक्तम्
ऽभ्रमभिन्नं तु
ज्ञानमत्रोच्यते प्रमाऽ (कारिका. 134)
ऽअथवा तत्प्रकारं
यज्ज्ञानं तद्विशेष्यकम्। तत्प्रमाऽ
(कारिका 135)
इति। तत्र प्रथमं
लक्षणं भ्रमभिन्नत्वे सति ज्ञानत्वमिति। अत्र लक्षणे शुक्तिरजतयोः ऽहमे
रजतेऽ इति ज्ञानं रजते रजतविषयकत्वांशे प्रमा इतीष्यते।
तत्र भ्रमभिन्नत्वं नास्तीति अव्याप्तिं पर्यालोच्य द्वितीयं
लक्षणमनुसृतम्। तच्च तद्वद्विशेष्यकत्वे सति तत्प्रकारकं ज्ञानं
प्रमेति।
अत्र लक्षणद्वये ऽपि
अनुभवपदमनिवेश्व ज्ञानपदस्यैव निवेशात् स्मृतावतिव्याप्तिः
प्रमालक्षणस्येति शङ्कायाः इत्थं समाधानमुक्तं मुक्तावल्याम् -
स्मृतेः प्रमात्वमिष्यत एव। अतस्तस्या अपि
प्रमालक्षणलक्ष्यत्वान्नातिव्याप्तिः। यदि स्मृतेः प्रमात्वमभ्युपगम्यते
तर्हितत्कारणस्य पञ्चमप्रमाणत्वमापद्यत इति चेत् - मैवम्।
प्रमाणलक्षणस्यानुभवघटितत्वात्। यथार्थानुभवकरणं प्रमाणमिति
प्रमाणलक्षणम्। स्मृतिकरणस्यानुभवकरणत्वे नास्ति,
स्मृतेरनुभवत्वाभावात् इति न प्रमाणत्वप्रसक्तिः इति।
विश्वनाथस्येदमुपपादनं युक्तरूपं प्रतिभाति।
न्यायसूत्रकारेण मिथ्याज्ञानविरोधिनि प्रमाज्ञाने ऽतत्त्वज्ञानम्ऽ
इति स्मृतिसाधारणज्ञानपदस्यैव प्रयोगात् स्मृतेरपि प्रमात्वं
तदभिमतम्। तेनैव ऽप्रत्यक्षानुमानोपमानशब्दाः प्रमाणानिऽ (न्या.
सू. 1-1-3) इति सूत्रे स्मृतिकरणस्य प्रमाणमध्ये ऽपरिगणनात्
अनुभवघटितमेव प्रमाणलक्षणं कर्तव्यमिति सूचितमिति।
प्रकाशिकाकारनिष्कर्षः
ऽतद्वति
तत्प्रकारकानुभवो यथार्थःऽ इत्युक्तावपि रङ्गरजतयोः ऽइमे
रजतरङ्गेऽ इति भ्रमे ऽतिव्याप्तिः। तस्यापि
रजतत्ववद्रजतविशेष्यकत्वे सति रजतत्वप्रकारकत्वात्
रङ्गत्ववद्रङ्गविशेष्यकत्वे सति रङ्गत्वप्रकारकत्वाच्च। अतो
विशेष्यताप्रकारतयोर्निरूप्यनिरूपकभावं निवेश्य
तद्वन्निष्ठाविशेष्यतानिरूपिततन्निष्ठप्रकारताशाल्यनुभवत्वं
प्रमालक्षणं वाच्यमिति प्रकाशिकायां निष्कर्षः कृतः।
अयमत्रानुगमः ---
प्रकारताविशिष्टविशेष्यतानिरूपकानुभवः प्रमा। वैशिष्ट्यं च
स्वावच्छेदकसम्बन्धेन स्वाश्रयवन्निष्ठत्वसवनिरूपितत्वोभयसम्बन्धेन।
यद्वा प्रकारिताविशिष्टविशेष्यितावदनुभवः प्रमा। वैशिष्ट्यं च
स्वावच्छिन्नत्वस्वनिरूपितप्रकारताविशिष्टविशेष्यतानिरूपितत्वोभयसंबन्धेन।
प्रकारतावैशिष्ट्यं च स्वावच्छेदकसम्बन्धेन
स्वाश्रयवन्निष्ठत्वसम्बन्धेनेति। अधिकं प्रसारणाख्यव्याख्यायां
द्रष्टव्यम्।
परं त्वेवं
निष्कृष्टलक्षणस्यापि निर्विकल्पकाव्याप्तिः। निष्प्रकारके
निर्विकल्पकपदाभिधेयज्ञाने तत्प्रकारकत्वघटितप्रमालक्षणविरहात्।
अतः तदभाववति तत्प्रकारकानुभवः अप्रमा, तद्भिन्नो ऽनुभवः प्रमा
इति लक्षणं वाच्यम्। मुक्तावलीकृतस्तु निर्विकल्पकं
भ्रमप्रमाबहिर्भून्तमिति मन्यन्ते।
[ 6 ] कारणत्रैविध्यविचारः
तर्कसंग्रह-दीपिका-कारिकावली-मुक्तावलीप्रभृतिषु
न्यायवैशेषिकानुसारिषु प्रकरणग्रन्थेषु समवायिकारणम्
असमवायिकारणं निमित्तकारणं चेति कारणं त्रेधा विभज्य तस्य
प्रत्येकं लक्षणमपि निष्कृष्य प्रतिपादितमस्ति। परं
त्वाधुनिकविमर्शकाः केचन इत्थं कारणस्य त्रेधा विभागः न
सूत्रादिषु प्राचीनेषु ग्रन्थेषूल्लिखितः केवलं नवीननैयायिकैः
प्रतिपादित इति मन्यन्ते। एतत्तत्त्वमधुना पर्यालोच्यते।
ऽक्रियागुणवत्
समवायिकारणमिति द्रव्यलक्षणम्ऽ (वै.सू. 1-1-15), ऽ कारणं
त्वसमवायिनो गुणाःऽ (वै.सू.5-2-24) ऽकारणेन कालःऽ (वै.सू.5-2-26)
इत्यादिवैशेषिकसूत्राणामवलोकनेन कारणत्रयमपि
सूत्राकारसंमतमिति ज्ञायते। प्रशस्तपादभाष्ये ऽपि कारणत्रयं
स्वीकृतम्। ऽयुगपत् त्रयाणां समवाय्यसमवायिनिमित्तकारणानां
विनाशात् परत्वस्य विनाशःऽ इत्यादयो भाष्यग्रन्थाः द्रष्टव्याः।
यद्यपि न्याससूत्रेषु
कारणत्रयप्रस्तावो न दृश्यते, तथापि वात्स्यायनभाष्ये तत्सूचनं
वर्तते। तथा हि न्यायदर्शंने चतुर्थाध्याने प्रथमाह्निके अष्टादशं
सूत्रम् --- ऽक्रमनिर्देशादप्रतिषेधःऽ इति। सूत्रमिदं शून्यमेव
जगदुपादानकारणमिति मतनिराकरणसंदर्भे। विद्यते। तत्र च
भाष्यम् ---
ऽबीजावयवाः
कुतश्चिन्निमित्तात् प्रादुर्भूतक्रियाः
पूर्वव्यूहं जहति
व्यूहान्तरं चापद्यन्ते।
व्यूहान्तरात् अङ्कुर
उत्पद्यते। दृश्यन्ते
खल्ववयवाः
तत्संयोगाश्च अङ्कुरोत्पत्तिहेतवःऽ
इति। अत्र
ऽकुतश्चिन्निमित्तात्ऽ इत्यनेन अदृष्टादिरूपं निमित्तकारणं
सूचितम्। ऽअवयवास्तत्संयोगाश्चाङ्कुरोत्पत्तिहेतवःऽ इत्यनेन
अवयवरूपं समवायिकारणम् अवयवसंयोगरूपमसमवायिकारणं च
सूचितम्। न्यायवार्तिककारो ऽपि त्रीणि कारणानि तत्र तत्र कण्ठरवेण
निर्दिशति। ऽतत्कारितत्वादहेतुःऽ (न्या.सू.4-1-21) इति सूत्रस्थं
ऽतत्कारितत्वादित्येवं ब्रुवता निमित्तकारणमीश्वरः इत्युपगतं
भवति। यच्च निमित्तं तत् इतरयोः
समवायिकारणासमवायिकारणयोरनुग्राहकं यथा तुर्यादि तन्तूनां
तत्संयोगानां चऽ इति वार्तिकम्,
ऽघ्राणरसनचक्षुस्त्वक्श्रोत्राणीन्द्रियाणि भूतेभ्यःऽ (न्या.सू. 1-1-12)
इति सूत्रस्थं ऽन किञ्चिदप्येककारणकं कार्यं दृष्टम्। सर्वं हि कार्यं
प्रादुर्भवत् समवाय्यसमवायिनिमित्तकारणेभ्यो भवतिऽ इति
वार्तिकं चात्रानुसन्धानमर्हतः। तथा
च
समवायिकारणासमवायिकारणनिमित्तकारणरूपेण कारणं
त्रिविधमिति विभागः प्राचीनग्रन्थारूढ इति सिद्धम्। नव्यग्रन्थेषु
तेषां कारणानां लक्षणान्येव परिष्कृत्य प्रतिपादितानि।
कारणत्रयस्वीकारे उपपत्तयः
अत्र काचिदाशङ्का
--- यथा वेदान्तिप्रभृतयः उपादानकारणं निमित्तकारणं चेति
कारणं द्विविधमङ्गीकुर्वन्ति, तथा कुतो नैयायिका
नाङ्गीकुर्वन्तीति। तत्रोच्यते। नैयायिका अवयवातिरिक्तमवयविनं
स्वीकुर्वन्ति। वेदान्तिनस्तु तन्तूनां संयोगविशेष एव पटो न
तदतिरिक्त इति प्राहुः। वेदान्तिनां मते तन्तुसेयाङ्गः
कार्यकोटौ
निविशते। नैयायिकानां मते तु पटनामको ऽवयवी कार्यभूतः। स
च तन्तुसंयोगविशेषादुत्पद्यते। अतस्तन्तुसंयोगो ऽपि कारणमिति
स्वीकर्तव्यम्। तस्य समवायिकारणत्वासंभवेन असमवायिकारणत्वं
प्रतिपादितमिति।
तर्हि समवायिकारणं
निमित्तकारणं चेति द्वेधा विभागो ऽस्तु, तन्तुसंयोगस्यापि
निमित्तकारणत्वमेवास्तु इति चेत् --- अत्रोच्यते।
निमित्तकारणभूततन्तुवायनाशे ऽपि पटरूपं कार्यं तिष्ठति।
मूल पाठ: Tarkasaṃgraha with autoentary (Dīpikā), Nīlakaṇṭha's Dīpikāprakāśikā and Bālapriyā · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0