भाषा

ENहिગુ
ग्रंथ पाठ

तर्कसंग्रह (टीका सहित) · भाग 181200

एकसम्बन्धिज्ञानं अपरसम्बन्धिस्समारकं इति रीत्या दर्शनस्य
स्मृतिहेतुत्वादित्यर्थः। कथं व्याप्तिग्रह इतीति।
व्यभिचारज्ञानदशायां न कश्चिदपि व्याप्तिनिश्चयं अभ्युपैतीति
भूयोदर्शनस्य व्याप्तिनिश्चयहेतुत्वं न सम्भवतीति भावः।
इदमुपलक्षणम्-भूयोदर्शनमित्यस्य भूयसां दर्शनानां समाहार
इति, भूयसां साध्यहेतूनां दर्शनम्, इति, भूयस्सु
अधिकरणेषु दर्शनमिति वार्थंः। नाद्यः, एकत्रैव सहचारदर्शनधारया
व्याप्तिनिश्चयप्रसङ्गात्। न द्वितीयतृतीयौ, ऽएतद्रूपवान्
एतद्रसात्ऽ इत्यादौ साध्यहेत्वोरधिकरणे च 1भूयस्त्वाभावेन
व्याप्त्यनिश्चयप्रसङ्गादित्यपि बोध्यम्। मणिकारसिद्धान्तमवलम्ब्याह
- व्यभिचारज्ञानविरहेति। व्याप्तिग्राहकत्वादिति। व्याप्तिश्च
हेतुसमानाधिकरणात्यन्ताभावप्रतियोगितानवच्छेदकसाध्य-
तावच्छेदकावच्छिन्नसाध्याधिकरणवृत्तिताविशिष्टहेतुतावच्छेदकरूपैव।
सामानाधिकरण्यान्तस्य रासभादिसाधारण्यात्। धूमत्वादेः स्वरूपतो
व्याप्यतावच्छेदकत्वं तादृशधूमत्वत्वादिरूपेण च
व्याप्तित्वमित्यवच्छेद्यावच्छेदकयोरैक्ये ऽपि न क्षतिः। इत्थं च
साध्यतावच्छेदके
तथाविधप्रतियोगितावच्छेदकत्वरूपव्यभिचारग्रहाभावो
विपरीतग्रहाभावविधया हेतुः।
साध्यसमानादधिकरणवृत्तिहेतुतावच्छेदकांशग्रहे तु
विशेषणज्ञानविधया सामानाधिकरण्यज्ञानं हेतुरिति रीत्या
व्यभिचारज्ञानाभावसामानाधिकरण्यज्ञानयोः व्याप्तिग्रहहेतुतेति
ध्येयम्।
वस्तुतस्तु
हेतुव्यापकसाध्यसामानाधिकरण्यमेव व्याप्तिः। न च व्याप्तेः
रासभादिसाधारण्येन प्रमात्मकरासभलिङ्गकपरामर्शात्
भ्रमात्मकवह्न्यनुमित्यापत्तिः, प्रमात्मकपरामर्शस्य
1. भूयस्त्वाभावेनेति।
तत्र साध्यहेत्वोस्तदधिकरणस्य चैकष्यक्तित्वेन
बहुतरत्वरूपानेकत्वात्मकभूयस्त्वाभावेनेत्यर्थः।
भ्रमात्मकवह्न्यनुमित्यजनकत्वनियमसत्त्वेन
इष्टापत्तेरयोगादिति वाच्यम्। यद्धर्मांवच्छिन्नव्यापकत्वं
व्याप्तिघटकम्
तद्धर्मितावच्छेदककव्याप्तिप्रकारकनिश्चयस्यैव
अनुमितिहेतुत्वोपगमेनादोषात्। अत एव व्याप्तिशरीरे
धूमत्वाप्रवेशेन
लाघवमिति दिक्।
शङ्काचेति। व्याभिचारसंशयस्यापि
व्याप्तिग्रहप्रतिबन्धकत्वानुभवात्
तत्साधारणव्यभिचारज्ञानत्वावच्छिन्नाभावो हेतुरिति हृदयम्।

तद्विरहः - व्यभिचारशङ्काविरहः। क्वचिरिति
तर्काभावेतरनिखिलकारणसमवधानस्थल इत्यर्थः। क्वचित्
स्वतस्सिद्ध एवेति। इतरकारणविरहस्थले
तादृशकारणविरहप्रयुक्त एवेत्यर्थः। तथा च तत्र तर्कापेक्षा
नेति भावः। धूमाग्न्योरिति। धूमाग्न्योर्व्याप्तिग्रहे उत्पत्स्यमाने
व्यभिचारशङ्कानिवर्तकः कार्यकारणभावभङ्गप्रसङ्गलक्षणस्तर्क
इत्यन्वयः। स च तर्कः ऽधूमो यदि वह्निव्यभिचारी स्यात् तर्हि
वह्निजन्यो न स्यात्ऽ इत्याकारको बोध्यः।
ननु
महानसीयवह्निधूमयोः सन्निकृष्टत्वेन सहचारग्रहे ऽप्यन्येषां
वह्निधूमानामसन्निकर्षेण
सहचारप्रत्यक्षासम्भवेन निखिलधूमेषु व्याप्तिप्रत्यक्षं न
सम्भवति। तथा च पर्वतीयधूमदर्शनेन व्याप्तिस्मरणासम्भवात्
परामर्शानुपपत्तिरित्याशयेन आशङ्कते - नन्विति।
सकलवह्निधूमेषु लौकिकसन्निकर्षाभावे ऽपि
सामान्यलक्षणप्रत्यासत्त्यात्मकालौकिकसन्निकर्षसद्भावात्
वह्नित्वावच्छिन्नसामानाधिकरण्यत्वेन
निखिलवह्निधूमसहचारप्रत्यक्षसम्भवात् निखिलधूमेषु व्याप्तिग्रहः
सम्भवति। एवं च पर्वतीयधूमे ऽपि व्याप्तेर्गृहीतत्वेन धूमदर्शनेन
व्याप्तिस्मरणसम्भवात् न परामर्शानुपपत्तिरिति समाधत्ते -
वह्नित्वधूमत्वेति।
बालप्रिया
यद्यपि स्वस्यार्थः
अनुमितिरूपं प्रयोजनं यस्मात्तत् स्वार्थानुमानमिति बहुषु
ग्रन्थेष्वस्ति तथापि अनुमितेरपि प्रयोजनं साध्यसंशयनिवृत्तिरिति
मत्वा व्याचष्टे---स्वस्यार्थ इति। एकसम्बन्धिज्ञानमिति।
व्याप्त्याख्यसम्बन्धस्य सम्बन्धिनौ द्वौ हेतुः साध्यश्च। तयोः एकस्य
सम्बन्धिनो हतोः दर्शनात्मकं ज्ञानं अपरस्य सम्बन्धिनः साध्यस्य
स्मृतिं जनयति, साध्यस्य स्मृतौ च साध्यहेत्वोर्व्याप्तिः स्मर्यत
इति भावः। वस्तुतस्तु धूमदर्शनं
व्याप्तिस्मृतिहेतुसंस्कारोद्बोधनद्वारैव व्यापितस्मृतिं जनयति,
न तु एकसम्बन्धिज्ञानमिति विधयेति ध्येयम्।
व्यभिचारज्ञानाभावसहकृतसहचारज्ञानस्य
व्याप्तिग्रहकारणत्वमुपपादयितुं व्याप्तिं
परिष्करोति---व्याप्तिश्चेत्यादिना। यद्यपि पूर्वं
हेतुसमानाधिकरणात्यन्ताभावप्रतियोगितानवच्छेदकसाध्यतावच्छेदकावच्छिन्नसाध्यसामानाधिकरण्यं
व्याप्तिरित्येवोक्तम्, तथापि तावन्मात्रे उक्ते ऽपर्वतो वह्निमान्
धूमात्ऽ इत्यत्र रासभस्यापि
धूमव्यापकवह्न्यधिकरणपर्वतवृत्तितया
तादृशसामानाधिकरण्याक्रान्तत्वात् वह्निव्याप्यत्वं प्रसज्येत। अतः

हेतुसमानाधिकरणात्यन्ताभावप्रतियोगितानवच्छेदक-साध्यतावच्छेदकावच्छिन्न-
साध्यसामानाधिकरण्यविशिष्टहेतुतावच्छेदकवत्त्वं व्याप्तिरिति
परिष्कार्यम्। रासभे वह्निसामानादधिकरण्यसत्त्वे ऽपि
हेतुतावच्छेदकीभूतधूमत्ववत्त्वाभावात् नातिव्याप्तिः। न च
धूमत्वपर्यन्तं यदि व्याप्तिः तर्हि धूमत्वं व्याप्त्यवच्छेदकमिति
व्यवहारः कथमुपपद्यते अवच्छेद्यायाः व्याप्तेः धूमत्वरूपतया धूमत्वे
धूमत्वस्यावच्छेदकत्वासम्भवात्। अवच्छेद्यावच्छेदकभावस्य
भेदनियतत्वादिति वाच्यम्। धूमत्वत्वेन रूपेण धूत्वं व्याप्तिः
स्वरूपतो धूमत्वं व्याप्त्यवच्छेदकमित्यदोषात्1।
एतादृशव्याप्तिज्ञाने
व्यभिचारज्ञानाभावः कथं हेतुः? कथं च सहचारज्ञानं हेतुरिति
चेत्-श्रूयताम्। सामानाधिकरण्यविशिष्टहेतुतावच्छेदकमित्यस्य
समानादधिकरणवृत्तिहेतुतावच्छेदकमित्यर्थः। तथा
1. अदोषादिति। यद्यपि
धूमत्वमेव व्याप्तिः व्याप्यतावच्छेदकं चेति
अवच्छेद्यावच्छेदकयोरैक्यम्, तथापि धूमत्वनिष्ठा अवच्छेद्यता
धूमत्वत्वावच्छिन्ना, अवच्छेदकता तु निरवच्छिन्नेति
अवच्छेद्यतावच्छेदकतयोर्भेदात् एकस्यैवावच्छेद्यावछेदकभाव उपपन्न
एवेत्यर्थः।
च
धूमसमानादधिकरणात्यन्ताभावप्रतियोगितानवच्छेदकवह्नित्वावच्छिन्न
- वह्न्यधिकरणवृत्तिधूमवृत्तिधूमत्ववान् धूम इति व्याप्तिज्ञानस्य
आकारः।
धूमसमानाधिकरणात्यन्ताभावप्रतियोगितावच्छेदकवह्नित्वावच्छिन्नसमानाधिकरणधूमवृत्तिधूमत्ववान्
धूम इति व्यभिचारज्ञानस्य आकारः। व्याप्तिज्ञाने साध्यतावच्छेदके
प्रतियोगितानवच्छेदकत्वं भासते, व्यभिचारज्ञोन तु
साध्यतावच्छेदके
प्रतियोगितानवच्छेदकत्वं भासते, व्यभिचारज्ञाने तु
साध्यतावच्छेदके प्रतियोगितावच्छेदकत्वं भासते। तत्र
प्रतियोगितानवच्छेदकत्वावगाहिव्याप्तिज्ञानं प्रति
प्रतियोगितावच्छेदकत्वावगाहिव्यभिचारज्ञानं तद्वत्ताबुद्धौ
तदभाववत्ताज्ञानविधया प्रतिबन्धकमिति व्यभिचारज्ञानाभावः
प्रतिबन्धकाभावविधया प्रतिबन्धकमिति व्यभिचारज्ञानाभावः
प्रतिबन्धकाभावविधया व्याप्तिज्ञानं प्रति हेतुः।
साध्यसामानाधिकरण्यविशिष्टहेतुवृत्तिहेतुतावच्छेदकमित्यंशो ऽपि
व्याप्तिज्ञाने भासते। साध्यसामानाधिकरण्यग्रह एव
सहचारग्रह
इत्युच्यते। तादृशसहचारग्रहः साध्यसामानाधिकरण्यविशिष्टो
हेतुरितिज्ञानंप्रति विशिष्टबुद्धौ विशेषणज्ञानं कारणमिति रीत्या
हेतुरिति। 1अधिकमस्मदीयपञ्चलक्षणीव्याख्यायां बालबोधिन्यां

द्रष्टव्यम्। साध्याधिकरणवृत्तिताविशिष्टेति। हेतुतावच्छेदके
साध्याधिकरणवृत्तितावैशिष्ट्यं च सामानाधिकरण्यसम्बन्धेन।
धूमत्वस्य
वह्न्यधिकरणवृत्तित्वस्य च एकत्र धूमे सत्त्वात्।
साध्याधिकरणवृत्तिहेतुनिष्ठहेतुतावच्छेदकरूपेति तु
फलितोर्ऽथः। विपरीतग्रहाभावविधयेति।
तदभाववत्ताज्ञानाभावत्वेनेत्यर्थः। अत्र तद्वत्ताबुद्धिः
प्रतियोगितानवच्छेदकत्ववत् साध्यतावच्छेदकमिति बुद्धिः।
तदभाववत्ताज्ञानं प्रतियोगितानवच्छेदकत्वाभाववत् अर्थात्
प्रतियोगितावच्छेदकं साध्यतावच्छेदकमिति बुद्धिः।
1. ननु विशिष्टबुद्धौ
विशेषणविषयकज्ञानस्यैव हेतुतया साध्यसामानाधिकरण्यविशिष्टो
हेतुरिति बुद्धि प्रति साध्यसामानाधिकरण्यज्ञानमेव हेतुः, न तु
साध्यसामानाधिकरण्यविशिष्टो हेतुरित्याकारकं सहचारज्ञानमपि,
हेतुविषयकतायाः विशिष्टबुद्धिकारणतावच्छेदककोटावप्रवेशात्
इत्यत आह-अधिकमिति। अयं भावः---
साध्यसामानादधिकरण्यविशिष्टहेतुविशिष्टं
हेतुतावच्छेदकमित्याकारकं व्याप्तिज्ञानम्हेतुतावच्छदके
हेतुवैशिष्ट्यं चाधेयतासम्बन्धेन। तादृशव्याप्तिज्ञानं प्रति विशिष्ट
वैशिष्ट्यावगाहिबुद्धौ विशेषणतावच्छेदकप्रकारकज्ञानविधया
सामानादधिकरण्यरूपसहचारग्रहो हेतुरिति।
साध्यसामानादधिकरण्यं व्याप्तिः इति मूलविरोधो मा
भूदित्याशयेनाह - वस्तुनस्त्विति। न चेति।
धूमव्यापकवह्निसामानाधिकरण्यरूपायाः व्याप्तेः रासभे ऽपि
वर्तमानतया धूमव्यापकवह्निसामानाधिकरणरासभवान् पर्वत
इत्याकारकस्य परामर्शस्य प्रमात्मकतया ततो ऽपि
भ्रमात्मकरासभलिङ्गकवह्न्यनुमित्यापत्तिः इत्यर्थः। यद्यपि
ऽपर्वतो वह्निमान्ऽ
इत्यनुमितेः प्रमात्वात् कथमापाद्यमानायाः अनुमितेर्भ्रमत्वम्
इत्याशङ्का भवति, तथापि 1व्याप्यलिङ्गकानुमितेरेव प्रमात्वं
न त्वव्याप्यलिङ्गकानुमितेरित्याशयेनैवमुक्तमिति ध्येयम्।
समाधत्तेयद्धर्मावच्छिन्नेति। धूमत्वावच्छिन्नव्यापकत्वं व्याप्तिघटकम्,
अतः धतः धूमत्वधर्मितावच्छेदककः व्याप्तिप्रकारकः निश्चयः
धूमव्यापकवह्निसमानाधिकरणधूमवान् पर्वत इति निश्चय एव
पर्वतो वह्निमानित्यनुमितिहेतुः,
धूमव्यापकवह्निसमानाधिकरणरासभवानिति परामर्शस्तु
रासभत्वधर्मितावच्छेदककः व्याप्तिप्रकारक इति न
तस्यानुमितिहेतुत्वमिति भावः। अत एवेति।
व्यापकताप्रविष्टहेतुतावच्छेदकधर्मितावच्छेदककसामानाधिकरण्यप्रकारकनिश्चयस्यानुमितिहेतुत्वं
स्वीकृत्य प्रमात्मकरासभलिङ्गकपरामर्शात् भ्रमात्मकवह्न्यनुमितेः

वारणेन व्याप्ते रासभादिसाधारण्ये ऽपि क्षतिविरहादेवेत्यर्थः।
सामान्यलक्षणेत्यादि।
सामान्यं लक्षणं स्वरूपं यस्याः सा सामान्यलक्षणा प्रत्यासत्तिः
सन्निकर्षः। वह्नित्वधूमत्वात्मकसंनिकर्षेण
तदाश्रयसकलवन्हिधूमानां प्रत्यक्षे सति
वन्हित्वावच्छिन्ननिरूपितसामानाधिकरण्यत्वेन रूपेण
सकलधूमनिष्ठानां सकलवन्हिसामानाधिकरण्यानामपि ग्रहात्
पर्वतीयधूमनिष्ठं पर्वतीयवह्निसामानाधिकरण्यमपि पूर्वं
प्रत्यक्षितम्। अतः धूमदर्शनेन
पर्वतीयधूमनिष्ठपर्वतीयवह्निसामानाधिकरण्यरूपव्याप्तेः स्मरणं
भवितुमर्हतीति भावः। एतेन
1. व्याप्यलिङ्गकत्वं
च व्याप्यं यल्लिंङ्गं तद्विषयकज्ञानजन्यत्वम् अनुमितेर्भ्रमत्वं
व्याप्तिज्ञानस्य भ्रमत्वात् भवति। व्याप्ते रासभसाधारण्ये च
व्याप्तिज्ञानस्य रासभधर्मिकस्य प्रमात्वात् तज्जन्यवह्न्यनुमितेरपि
प्रमात्वमेव स्यात् न तु
भ्रमत्वमिति भावः।
वह्नित्वधूमत्वरूपसामान्यलक्षणया
सकलवह्निधूमानामुपस्थितावपि वह्निसामानादधिकरण्यरूपायाः
व्याप्तेः प्रत्येकविश्रान्ततया पूर्वं महानसे
महानसीयधूनिष्ठसामानाधिकरण्यस्य गृहीतत्वे ऽपि
पर्वतीयधूमनिष्ठसामानादधिकरण्यस्याग्रहणात् कथं
तत्स्मृतिरितिशङ्का परास्ता।
वह्नित्वावच्छिन्नसामानाधिकरण्यत्वात्मकसामान्यलक्षणप्रत्यासत्त्यापर्वतीयधूनिष्ठसामानाधिकरण्यस्यापि
ग्रहसम्भवात्।
॥।
तर्कसङ्ग्रहः
परार्थानुमाननिरूपणम्
यत्तु स्वयमेव
धूमादग्निमनुमाय परप्रतिपत्त्यर्थं पञ्चावयववाक्यं प्रयुङ्क्ते
तत्परार्थानुमानम्।
दीपिका
परार्थानुमानमाह - यत्त्विति। यच्छब्दस्य
ऽतत्परार्थानुमानम्ऽ इति तच्छब्देनान्वयः।
प्रकाशिका
यद्यपि
परार्थानुमानशब्दस्य परस्य मध्यस्थस्य अर्थः प्रयोजनं
साध्यानुमितिरूपं यस्मात् इति व्युत्पत्त्या
परसमवेतानुमितिकरणलिङ्गपरामर्शोर्ऽथः। अत एव
ऽस्वर्थानुमितिपरार्थानुमित्योः लिङ्गपरामर्श एव करणम्ऽ

इत्याद्यग्रिममूलं साधु सङ्गच्छते, तथापि परार्थानुमानप्रयोजके
पञ्चावयववाक्ये परार्थानुमानशब्दस्य औपचारिकः प्रयोग इति
मनसि कृत्वा मूलमवतारयति - परार्थानुमानमाहेति।
बालप्रिया
परस्य
मध्यस्थस्येति। यद्यपि परशब्दः अन्यपरः, तथा
चान्यसमवेतानुमितिकरणमित्येव स्वरसतः परार्थानुमानशब्दार्थः।
तथापि न्यायरूपस्य परार्थानुमानस्य वादादिकथायामेव प्रायश
उपयोगात् तत्र परशब्दस्य अन्यप्रतिवादिपरत्वे तस्य बाधज्ञानसत्त्वेन
बाद्युक्तन्यायात् अप्रामाण्यशङ्कारहिता अनुमितिर्न जायते, मध्यस्थस्य
तु पक्षद्वये ऽप्याग्रहरहितस्य अनुमितिर्भवितुमर्हतीत्याशयेनैवं
व्याख्यानं कृतम्।
परार्थानुमानप्रयोजक इति। परार्थानुमानस्य
परसमवेतानुमितिकरणस्य लिङ्गपरामर्शस्य, प्रयोजके परम्परया
कारणभूते पञ्चावयवकमहावाक्यरूपे न्याये। औपचारिकः
लाक्षणिकः। कारणे कार्योपचारः परार्थानुमानशब्द इति यावत्।
कथं लिङ्गपरामर्शरूपपरार्थानुमानप्रयोजकत्वं न्यायस्येति चेत्
- इत्थम्। प्रतिज्ञादिभिः पञ्चभिर्वाक्यैः प्रथमतः 2तत्तद्वाक्यार्थबोधः
जायते। तर्त एकवाक्यतामापन्नैः
पञ्चभिर्वाक्यैरेकमहावाक्यार्थबोधो जायते। ततः तत्सहकृतेन
मनसा लिङ्गपरामर्शों जायते, ततो ऽनुमितिः इत्येवं
अनुमितिजनकलिङ्गपरामर्शजनकमहावाक्यार्थबोधजनकतया
परार्थानुमानप्रयोजकत्वं पञ्चावयववाक्यात्मकन्यायस्येति।
महावाक्यार्थबोधस्य आकारस्तु -
3धूमज्ञानज्ञाप्यवह्निमत्पर्वताभिन्नधूमवद्धूमव्यापकवह्निमदभि न्नवह्निव्याप्यधूमवदभिन्नः
पर्वतः अबाधितासत्प्रतिपक्षितधूमज्ञानज्ञाप्यवह्निमत्पर्वताभिन्नः
इति।
॥।
1. कारणं न्यायः कार्यं
लिङ्गपरामर्शः। कार्यभूतलिङ्गपरामर्शवाचकस्य
परार्थानुमानशब्दस्य कार्ये लिङ्गिपरामर्शे लक्षणया प्रयोग
इत्यर्थः।
2. ऽपर्वतः
वह्निमदभिन्नःऽ ऽधूमनिष्ठं ज्ञापकत्वम्ऽ इत्याद्याकारकाः
प्रतिज्ञादिप्रत्येकवाक्यार्थविषयकाः पञ्च बोधाः जायन्ते।
3.
धूमज्ञानज्ञाप्येत्यादि। उपनयार्थे
हेत्वर्थान्वितप्रतिज्ञार्थोदाहरणार्थयोरुद्देश्यतावच्छेदकतया
निगमनार्थस्य व विधेयतया अन्वयात्
उदाहरणघटकयत्तत्पदयोर्दृष्टान्तबोधकस्य च

तात्पर्यग्राहकतयोपयोगस्य स्वीकारात् उक्तविधो
महावाक्यार्थबोधो
लभ्यते। तथा हि - धूमादिति पञ्चम्यन्तार्थः
धूमज्ञाननिरूपितज्ञाप्यत्वम्। तस्याश्रयतासम्बन्धेन
प्रतिज्ञाघटकवह्निपदार्थे वह्नावन्वयः। वह्निमत्पदार्थस्याभेदेन
पर्वतपदार्थे तस्याभेदसम्बन्धेन उपनयघटकेदपदार्थे पर्वते ऽन्वयः।
उदाहरणे वह्निपदस्य धूमव्यापकवह्नौ लक्षणा।
यत्पदतत्पदयथामहानसपदानां तात्पर्यग्राहकता। धूमवतः अभेदेन
धूमव्यापकवह्निमत्यन्वयः। तस्यचाभेदेन
उपनयस्थेदम्पदार्थे ऽन्वयः। अबाधितासत्प्रतिपक्षितधूमज्ञानज्ञाप्य
वहृनिमान् निगमनार्थः, तस्याभेदसम्बन्धेन
उपनयस्थेदम्पदार्थे ऽन्वयः। उपनयवाक्यर्थस्तु वह्निव्याप्यधूमवदभिन्नः
पर्वतः, तथाशब्दस्य वह्निव्याप्यधूमवदर्थकत्वात् इदम्पदस्य
पर्वतार्थकत्वाच्चेति भावः।
तर्कसङ्ग्रहः
न्यायावयवनिरूपणम्
यथा पर्वतो
वह्निमान् धूमवत्त्वात्, यो यो धूमवान् सो ऽग्निमान् यथा
महानसः, तथा च अयम्, तस्मात् तथा इति। अनेन वाक्येन
प्रतिपादितात् लिङ्गात् परो ऽप्यग्निं प्रतिपद्यते।
अन्त्स्_46 प्रतिज्ञाहेतूदाहरणोपनयनिगमानि पञ्चावयवः । पर्वतो वह्निमान् इति प्रतिज्ञा । धूमवत्त्वाद् इति हेतुः । यो यो धूमवान् स सोऽग्निमान् यथा महानस इत्य् उदाहरणम् । तथा चायम् इति उपनयः । तस्मात् तथेति निगमनम् ॥
प्रतिज्ञाहेतूदाहरणोपनयनिगमनानि पञ्चावयवाः। पर्वतो
वह्निमान् इति प्रतिज्ञा। धूमवत्त्वात् इति हेतुः। यो यो
धूमवान् सो ऽग्निमान् यथा महानस इत्युदाहरणम्। तथा चायं
इत्युपनयः। तस्मात् तथेति निगमनम्।
दीपिका
पञ्चावयववाक्यमुदाहरति - यथेति। अवयवस्वरूपमाह -
प्रतिज्ञेति। उदाहृतवाक्ये प्रतिज्ञादिविभागमाह - पर्वतो
वह्निमानिति। साध्यवत्तया पक्षवचनम् प्रतिज्ञा। पञ्चम्यन्तं
लिङ्गप्रतिपादकं हेतुः। व्याप्तिप्रतिपादकम् उदाहरणम्।
व्याप्तिविशिष्टलिङ्गप्रतिपादकं वचनं उपनयः। हेतुसाध्यवत्तया
पक्षप्रतिपादकं वचनं निगमनम्। अबाधितत्वादिकं
निगमनप्रयोजनम्।
प्रकाशिका
पञ्चावयववाक्यं
इत्यनेन पञ्च अवयवा यस्य वाक्यस्य इति व्युत्पत्त्या
प्रतिज्ञाद्यवयवपञ्चकसमुदायत्वं न्यायलक्षणं बोध्यम्। अनेन
प्रतिपादिताल्लिङ्गादिति मूलस्य
प्रतिज्ञाद्यवयवपञ्चकसमुदायप्रयोज्यलिङ्गपरामर्शादित्यर्थः।
साध्यवत्तया पक्षवचनमिति।

साध्यतावच्छेदकावच्छिन्न-साध्यप्रकारक-पक्षतावच्छेदकावच्छिन्न-पक्षविशेष्यकबोधजनकवाक्यमित्यर्थः।
उदाहरणात् हेतुविशिष्टे साध्यतावच्छेदकविशिष्टवैशिष्ट्यज्ञानम्,
न पक्षतावच्छेदकविशिष्टे, उपनयाच्च पक्षतावच्छेदकविशिष्टे
हेतुतावच्छेकविशिष्टवैशिष्ट्यज्ञानम्, न तु
साध्यतावच्छेदकविशिष्टवैशिष्ट्यावगाहिज्ञानमिति तयोर्निरासः।
वाक्यपदस्य न्यायावयववाक्यपरत्वात् न्यायबहिर्भूतवाक्यव्युदासः।
एवमग्रे ऽपि। ऽअयं न दण्डात् तद्दण्डसंयोगाजन्यद्रवयत्वात्ऽ
इत्यादौ प्रतिज्ञायां पञ्चम्यन्तत्वस्य सत्त्वात् अतिव्याप्तेर्वारणाय
लिङ्गप्रतिपादकमिति। हेतुप्रतिपादकमित्यर्थः।
व्याप्तिप्रतिपादकमिति। प्रकृतहेतुमति
प्रकृतहेतुव्यापकसाध्यबोधकवाक्यमित्यर्थः। कथमुदाहरणस्य
व्यापकत्वबोधकतेति चेत् - इत्थम्, साध्यपदस्य
हेतुव्यापकत्वविशिष्टे साध्ये निरूढलक्षणया। न च द्विरुक्तयत्पदस्य
वैयर्थ्यमिति शङ्क्यम्, तादृशतात्पर्यग्राहकतया सार्थक्यात्। अथ वा
प्रथमयत्पदार्थे महानसे द्वितीययत्पदार्थे महानसान्यस्मिन्
प्रकृतहेतुमत्वस्य, प्रथमतत्पदार्थे महानसे द्वितीयतत्पदार्थे
महानसान्यस्मिन् साध्यस्य च शाब्दबोधे जाते उत्तरकाले
व्यापकताबोधो मानसः। तथा च
व्याप्तिप्रतिपत्तिपरत्त्वमुदाहरणस्याक्षतमिति न कश्चिद्दोष इति
दिक्। व्याप्तिविशिंष्टलिङ्गप्रतिपादकमिति।
पक्षतावच्छेदकविशिष्टविशेष्यकप्रकृतसाध्यव्याप्यहेतुप्रकारकबोधजनकवाक्यमित्यर्थः।
ऽपक्षधर्मताज्ञानार्थम् उपनयःऽ इति पाठे तु ऽप्रयुज्यतऽ इति
शेषपूरणेन प्रदर्शितार्थ एव यथाकथञ्चित् सङ्गमनीयः।
हेतुसाध्यवत्तयापक्षप्रतिपादकं वचनमिति।
हेतुज्ञानज्ञाप्यत्वविशिष्टसाध्यवद्विषयकबोधजनकवाक्यमित्यर्थः।
उत्तरकालमबाधितासत्प्रतिपक्षितत्वविषयकबोधो मानसो द्रष्टव्यः।
बालप्रिया
प्रतिज्ञालक्षणं
परिष्कृतमाह - साध्यतावच्छेदकावच्छिन्नेत्यादि। पर्वतो वन्हिमान्
इत्याकारकबोधस्य
पक्षतावच्छेदकीभूतपर्वतत्वावच्छिन्नविशेष्यकत्वात्
साध्यतावच्छेदकीभूतवह्नित्वावच्छिन्नप्रकारकत्वाच्च तादृशबोधजनके
पर्वतो वह्निमानिति वाक्ये लक्षणसमन्वयः।
पक्षतावच्छेदकावच्छिन्नविशेष्यकत्वानिवेशे ऽयो यो धूमवान्
सो ऽग्निमान्ऽ इत्युदाहरणे ऽसो ऽग्निमान्ऽ इति भागात्
ऽधूमवन् वह्निमान्ऽ इत्याकारकबोधस्य जायमानतया तस्य
वह्नित्वावच्छिन्नप्रकारकत्वेन तादृशबोधजनके
उदाहरणवाक्ये ऽतिव्याप्तिः।
पक्षतावच्छेदकाविच्छिन्नविशेष्यकत्वनिवेशे तु उक्तबोधस्य
धूमवत्त्वावच्छिन्नविशेष्यकत्वे ऽपि

पर्वतत्वावच्छिन्नविशेष्यकत्वाभावात् न दोषः।
साध्यतावच्छेदकावच्छिन्नप्रकारकत्वमनिवेश्य
पक्षतावच्छेदकावच्छिन्नविशेष्यकबोधजनकत्वमित्येतावन्मात्रोक्तौ
ऽतथा चायम्ऽ इत्युपनयवाक्ये ऽतिव्याप्तिः। तज्जन्यस्य
ऽवह्निव्याप्यधूमवान् पर्वतःऽ इत्याकारकस्य
पर्वतत्वावच्छिन्नविशेष्यकत्वात्।
साध्यतावच्छेदकावच्छिन्नप्रकारकत्वनिवेशे तु तस्य
धूमत्वावच्छिन्नप्रकारकत्वेन वह्नित्वावच्छिन्नप्रकारकत्वाभावात् न
दोषः। एवं
पक्षविशेष्यकत्वमात्रोक्तौ ऽद्रव्यं वह्निमत्ऽ इति वाक्ये ऽतिव्याप्तिः।
तद्वारणाय पक्षतावच्छेदकावच्छिन्नविशेष्यकत्वनिवेशः। ऽपर्वतो
द्रव्यवान्ऽ दैति वाक्ये अतिव्याप्तिवारणाय
साध्यविशेष्यकेत्यनुकत्वा
साध्यतावच्छेदकावच्छिन्नविशेष्यकेत्युक्तम्। ऽपर्वतो द्रव्यवान्,
द्रव्यं वह्निमच्चऽ इति वाक्यजन्यसमूहालम्बनबोधस्यापि
पर्वतत्वावच्छिन्नविशेष्यकत्वात् वह्नित्वावच्छिन्नप्रकारकत्वाच्च
तादृशवाक्ये ऽतिव्याप्तिवारणाय
विशेष्यनाप्रकारतयोर्निरूप्यनिरूपकभावं निवेश्य
साध्यतावच्छेदकावच्छिन्नसाध्यनिष्ठप्रकारतानिरूपितपक्षतावच्छेदकावच्छिन्नपक्षनिष्ठविशेष्यताशालिबोधजनकं
वाक्यं प्रतिज्ञेति
वक्तव्यम्।
न्यायबहिर्भूतेति। पञ्चावयवकन्यायानन्तर्गतस्य उदासीनस्य
ऽपर्वतो वह्निमान्ऽ इति वाक्यस्य निरासः। एवमग्रे ऽपीति।
हेत्वादिलक्षणघटकवाक्यपदं
न्यायावयवरूपवाक्यपरमितिन्यायबहिर्भूते
हेत्वादिवाक्यसमानाकारे वाक्ये नातिव्याप्तिरिति ज्ञेयमित्यर्थः।
पञ्चम्यन्तं लिङ्गप्रतिपादकं हेतुरिति दीपिका। पञ्चम्यन्तत्वे सति
लिङ्गविषयकबोधजनकत्वे सति वाक्यत्वमिति तदर्थः। अस्ति च
धूमादिति भागस्य तथात्वमिति लक्षणसमन्वयः। पञ्चम्यन्तत्वे
सतीत्यनुपादाने उदाहरणादित्रिष्वतिव्याप्तिः। तेषामपि
लिङ्गबोधकत्वात्। अतः पञ्चम्यन्तत्वे सतीत्युक्तम्। ऽअयं न दण्डात्
तद्दण्डसंयोगाजन्यद्रव्यत्वात्ऽ इत्यादौ ऽअयं न दण्डात्ऽ इति
प्रतिज्ञायामपि पञ्चम्यन्तत्वसत्वात् तत्रातिव्याप्तिवारणात
लिङ्गबोधकत्वे सतीत्युक्तम्।
प्रकृतसाध्यानुमितिहेतुलिङ्गबोधकत्वं तदर्थ इति न दोषः।
वाक्यपदस्य न्यायावयवत्वपरतया निगमनावयवे तस्मादिति भागे
नातिव्याप्तिः। तस्य भागस्य न्यायावयवनिगमनावयवत्वे ऽपि
न्यायावयवत्वास्वीकारात्। न चैवं सति ऽअयं न दण्डात्ऽ इति
प्रतिज्ञान्तर्गतस्य दण्डादितिभागस्य प्रतिज्ञावयवत्वे ऽपि
न्यायावयवत्वाभावादेव नातिव्याप्तिरिति लिङ्गप्रतिपादकमिति

विशेषणं व्यर्थमिति वाच्यम्। तर्हि न्यायावयवप्रतिज्ञावयवस्यापि
न्यायावयवत्वादतिव्याप्तिप्रसक्तेः। न च तर्हि निगमनावयवे
तस्मादिति भागे ऽतिव्याप्तिरिति वाच्यम्। पञ्चम्यन्तत्वमित्यनेन
प्रकृतपक्षविशेषणतापन्नसाध्यान्वितस्वार्थबोधकपञ्चम्यन्तत्वस्य
विवक्षितत्वेनादोषादित्याशयात्। ननु
ऽव्याप्तिप्रतिपादकमुदाहरणम्ऽ इति दीपिकातः
व्याप्तिविषयकबोधजनकवाक्यत्वमुदाहरणस्य लक्षणमित्यवगम्यते।
तच्च उपनयनिगमनयोरतिव्याप्तम्। तयोरपि
व्याप्तिप्रतिपादकत्वात्। उपनयघटकतथापदस्य
वह्निव्याप्यधूमवानित्यर्थकत्वात् निगमनघटकतस्मादितिशब्दस्य
वह्निव्याप्यधूमवत्त्वात् इत्यर्थकत्वात् इत्याशङ्क्य व्याचष्टे -
प्रकृतहेतुमतीति। ऽयो यो धूमवान् स सो ऽग्निमान्ऽ
इत्युदाहरणे अग्निपदस्य धूमव्यापकवह्नौ लक्षणा, वीप्सितयत्पदं
तत्पदं च लक्षणातात्पर्यग्राहकम्। तथा च धूमवान्
धूमव्यापकवह्निमानित्यर्थः। तेन
प्रकृतहेतुमद्विशेष्यकप्रकृतहेतुव्यापकसाध्यप्रकारकबोधजनकवाक्यत्वमुदाहरणस्य
लक्षणमिति लभ्यते। उपनयनिगमनयोः ईदृशलक्षणाभावात्
नातिव्याप्तिरिति भावः। नन्वेवमपि ऽधूमवान्
धूमव्यापकवह्निमान्ऽ इत्यादिवाक्यानांमप्युदाहरणत्वापत्तिः। न
चेष्टापत्तिः। कथकसम्प्रदायविरोधात् इत्यत आह - दिगिति।
वीप्सित यत्पदोत्तरहेतुतावच्छेदकविशिष्टहेतुमद्बोधकपद -
तत्पदोत्तरसाध्यतावच्छेदकविशिष्टसाध्यवद्बोधकपदसमुदायत्वमेव
उदाहरणत्वं विवक्षितम्। अतो न दोष इति भावः। आधिकमन्यत्र।
पक्षतावच्छेदकविशिष्टेत्यादि। वह्निव्याप्यधूमवानिति
वाक्ये ऽतिव्याप्तिवारणाय पक्षतावच्छेदकविशिष्टविशेष्यकत्वनिवेशः।
पर्वतो धूमवानिति वाक्ये ऽतिव्याप्तिवारणाय
प्रकृतसाध्यव्याप्यत्वनिवेशः।
प्रकृतसाध्यनिष्ठप्रकारतानिरूपितव्याप्तिनिष्ठप्रकारतानिरूपितहेतुनिष्ठप्रकारताशालिबोधजनकवाक्यमित्यर्थः।
तेन ऽपर्वतो धूमवान्ऽ इति वाक्यस्यापि वस्तुतो वह्निव्याप्यो
यो धूमस्तत्प्रकारकत्वादतिव्याप्तिरितिशङ्कायाः नावसरः।
हेतसाध्यवत्तया पक्षप्रतिपादकमिति दीपिकाग्रन्थात् हेतुमत्तया
साध्यवत्तया च पक्षप्रतिपादकत्वं निगमनस्य लक्षणमित्यवगम्यते। तथा
सति निगमने ऽसम्भवः। ऽतस्मात् तथाऽ इति निगमनवाक्यस्य
साध्यवत्तया पक्षबोधकत्वे ऽपि हेतुमत्तया पक्षबोधकत्वाभावात्।
पञ्चम्यर्थस्य साध्ये ऽन्वयेन पक्षे ऽन्वयाभावात्। एवं ऽधूमवान्
वह्निमाश्च पर्वतःऽ इति वाक्ये ऽतिव्याप्तिश्च। अतो व्याचष्टे -
हेतुज्ञानेति। पञ्चम्याः ज्ञानज्ञाप्यत्वमर्थः। ज्ञाने
प्रकृत्यर्थस्य हेतोः
विषयतासम्बन्धेनान्वयः। तथाशब्दस्य साध्यवानित्यर्थः। साध्ये
पञ्चम्यर्थस्य ज्ञानज्ञाप्यत्वस्याश्रयतयान्वयः। तथा च

हेतुविषयकज्ञानज्ञाप्यत्वाश्रयसाध्यवान् पक्ष इत्याकारकबोधः
निगमनात् जायत इति निगमनवाक्ये लक्षणसमन्वयः।
अबाधितत्वादिकं निगमनप्रयोजनमिति कथम्? निगमनवाक्यात्
अबाधितत्वासत्प्रतिपक्षितत्वयोरप्रतिपक्षितत्वयोरप्रतिपत्तेरित्याशङ्क्याह
- उत्तरकालमिति। तथा च पूर्वोक्तरीत्या शाब्दबोधानन्तरं अयं
हेतुरबाधितः असत्प्रतिपक्षश्चेति मानसं ज्ञानमुत्पद्यत इति भावः।
तर्कसङ्ग्रहः
अन्त्स्_47 स्वार्थानुमितिपरार्थानुमित्योर् लिङ्गपरामर्श एव करणम् । तस्माल् लिङ्गपरामर्शाऽनुमानम् ॥
स्वार्थानुमितिपरार्थानुमित्योः लिङ्गपरामर्श एव करणम्।
तस्मात् लिङ्गपरामर्शो ऽनुमानम्।
दीपिका
अनुमितिकरणमाह
- स्वार्थेति।
विशिष्टपरामर्शस्यानुमितिहेतुत्वस्थापनम्
ननु
व्याप्तिस्मृतिपक्षधर्मताज्ञानाभ्यामेव अनुमितिसम्भवे
विशिष्टपरामर्शः किमर्थमङ्गीकर्तव्य इति चेत्-न।
ऽवह्निव्याप्यवानयम्ऽ
इति शाब्दपरामर्शस्थले परामर्शंस्यावश्यकतया लाघवेन सर्वत्र
परामर्शस्यैव कारणत्वात्। लिङ्गं न करणम्, अतीतादौ
व्यभिचारात्। ऽव्यापारवत् कारणं करणम्ऽ इति मते
परामर्शन्द्वारा व्याप्तिज्ञानं करणम्। तज्जन्यत्वे सति तज्जन्यजनको
व्यापारः। अनुमानमुपसंहरति - तस्मादिति।
प्रकाशिका
ननु
विशिष्टवैशिष्ट्यावगाहिपरामर्शस्य अनुमितिं प्रति हेतुत्वे
तत्रानन्यथासिद्धत्वनियतपूर्ववृत्तित्वयोर्द्वयोः कल्पनीयतया
गौरवम्। ऽवह्निव्याप्यो धूमः, धूमवान् पर्वतःऽ इति ज्ञानद्वयस्य
तव मते विशिष्टपरामर्शं प्रति कारणत्वेन कॢप्यतस्य करणत्वे तु
अनन्यथासिद्धत्वमात्रस्य कल्पनीयतया लाघवमिति प्राभाकरः शङ्कते -
नन्विति। वह्निव्याप्यवानयमिति। अत्र त्वदभिमतकारणस्य असत्त्वेन
व्यभिचारात् न ज्ञानद्वयस्य कारणत्वं सम्भवतीति भावः। कथञ्चिदपि
व्याप्यतावच्छेदकधूमत्वादेर्भानं परामर्शे न सम्भवतीति स्फोरणाय
शाब्देति। लाघवेनेति। कल्पनालाघवेनेत्यर्थः। तथा हि - ज्ञानद्वये
अनन्यथासिद्धत्वनियतपूर्ववृत्तित्वयोः कल्पनापेक्षया
विशिष्टपरामर्शे तत्कल्पनस्यैव लघीयस्त्वमिति।
वस्तुतस्तु
तद्धर्मावच्छिन्नविशेष्यकव्याप्तिप्रकारकनिश्चयविशिष्टतद्धर्मावच्छि न्नप्रकारकपक्षतावच्छेदकावच्छि-
न्नविशेष्यकनिश्चयस्यैव कारणतावच्छेदकत्वं
ज्ञानद्वयसाधारण्येनन तन्मते मन्तव्यम्। नैयायिकमते तु -

व्याप्तिविशिष्टवैशिष्ट्यावगाहिनिश्चयत्वं कारणतावच्छेदकमिति
कारणतावच्छेदकलाघवम् अवधेयम्। विनिगमनाविरहेण
ज्ञानमानलिङ्गत्वेनापि करणत्वं वदतां आचार्याणां मतं निरस्यति
- लिङ्गं न करणमिति। व्यभिचारादिति।
तत्राप्यनुमितेरनुभवसिद्धत्वेन तदव्यवहितपूर्वं
भूतभविष्यद्धूमादेरसत्त्वादिति भावः। मत इति।
ऽफलायोगव्यवच्छिन्नं कारणं करणम्ऽ इति मते परामर्श एव
करणमिति ध्येयम्। करणे अतिव्याप्तिवारणाय - तज्जन्यत्वे सतीति।
बालप्रिया
नैयायिकेनापि
आदौ धूमदर्शनम्, ततः व्याप्तिस्मरणम्, ततः
वह्निव्याप्यधूमवानयमिति विशिष्टपरामर्शः, ततो ऽनुमितिरिति
क्रमस्य स्वीकरणीयतया धूमदर्शनव्याप्तिस्मृतिभ्यामेव
अनुमितिसम्भवात् मध्ये विशिष्टपरामर्शः किमर्थ इति प्राभाकरेण
शङ्कितम्। शङ्केयं नोपपद्यते। विशिष्टपरामर्शादेव
अनुमितिसम्भवे ज्ञानद्वयस्य नानुमितिहेतुत्वम् अन्यथासिद्धत्वादिति
नैयायिकेन वक्तुं शक्यत्वात्। अतः शङ्कितुराशयमभिव्यनक्ति - ननु
विशिष्टवैशिष्ट्येत्यादिना। तथा च विशिष्टपरामर्शस्य
अनन्यथासिद्धत्वं नियतपूर्ववृत्तित्वं चेत्युभयं कल्पनीयम्।
ज्ञानद्वयस्य तु अनन्यथासिद्धत्वं नियतपूर्ववृत्तित्वं चेत्युभयं
कल्पनीयम्। ज्ञानद्वयस्य तु अनन्यथासिद्धत्वमात्रं कल्पनीयम्, न तु
नियतपूर्ववृत्तित्वमपि, कॢप्तत्वात्। अतो लाघवात्
ज्ञानद्वयमेवानुमितिहेतुः न तु विशिष्टपरामर्श इति प्राभाकरस्य
भाव इत्याशयः। यत्र ऽवह्निव्याप्यवानयम्ऽ इति शब्दश्रवणात्
ऽअयं वह्निव्याप्यवान्ऽ इति शाब्दबोधात्मको विशिष्टपरामर्शः
जातः तत्र तदुत्तरक्षणे ऽनुमितेर्जायमानतया ज्ञानद्वयस्य
व्यतिरेकव्यभिचारात्
नानुमितिहेतुत्वमिति सर्वत्रैव तस्य हेतुत्वमिति रीत्या
प्राभाकरमतं दीपिकायां खण्डितम्। ननु प्राभाकरमते
ज्ञानद्वयस्यापि व्याप्तिज्ञानत्वेन पक्षधर्मताज्ञानत्वेन च
कारणत्वमिष्यते। ऽवह्निव्याप्यवानयम्ऽ इति शब्दपरामर्शस्यापि
व्याप्तिज्ञानत्वपक्षधर्मताज्ञानत्वरूपकारणतावच्छेदकाक्रान्तत्वात्
कारणत्वमिष्यत एवेति न व्यभिचार इत्याशङ्क्याह -
कथञ्चिदपीति। यंअ भावः - व्याप्तिज्ञानपक्षधर्मताज्ञानयोः
व्याप्तिज्ञानत्वपक्षधर्मताज्ञानत्वाभ्यां कारणत्वस्वीकारे ऽआलोको
वह्निव्याप्यः धूमवान् पर्वतःऽ इति ज्ञानाभ्यामपि ऽपर्वतो
वह्निमान्ऽ इत्युनमित्यापत्तिः। अतो व्याप्यतावच्छेदकतया
गृहीतधर्मांवच्छिन्ने पक्षधर्मतावगाहि ज्ञानत्वेन कारणत्वं वक्तव्यम्।
तथा च वह्निव्याप्यवानयमिति ज्ञाने
व्याप्यतावच्छेदकधूमत्वादेरभानेन

उक्तकारणतावच्छेदकानाक्रान्ततया कारणतावच्छेदकावच्छिन्नं विनापि
कार्योत्पत्त्या व्यतिरेकव्यभिचारः प्राभाकरमते दुर्वार इति।
स्फोरणायेति। धूमत्वोपस्थापकपदाभावादित्यर्थः। तथा हात्यादि।
शाब्दपरामर्शादनुमितिः यत्र भवति तत्र ज्ञानद्वयं
विनाप्यनुमितेरनुभवसिद्धतया तत्रापि यदि
ज्ञानद्वयादेवानुमितिरिति कल्प्यते तर्हि ज्ञानद्वयस्यानन्यथासिद्धत्वं
नियतपूर्ववृत्तित्वं चेत्युभय कल्पनीयम्। तत्र विशिष्टपरामर्शस्य
नियतपूर्ववृत्तितायाः कॢप्ततया अनन्यथासिद्धत्वमात्रं कल्पनीयमिति
नैयायिकमते लाघवमिति भावः।
ननु
शाब्दपरामर्शस्थले नैयायिकस्य मते लाघवे ऽपि यत्र
ज्ञानद्वयादेवानुमितिः तत्र पूर्वोक्तरीत्या प्राभाकरमते लाघवमिति
साम्यमित्याशङ्क्याह - वस्तुतस्त्विति।
धूमत्वावच्छिन्नविशेष्यकव्याप्ति प्रकारकनिश्चयः ऽधूमो वह्निव्याप्यःऽ
इत्याकारकः एककालावच्छिन्नैकात्मवृत्तित्वसम्बन्धेन तद्विशिष्टः
धूमत्वावच्छिन्नप्रकारकपर्वतत्वावच्छिन्नविशेष्यकनिश्चयः ऽपर्वतो
धूमवान्ऽ इत्याकारकः। तथा चोक्तनिश्चयविशिष्टोक्तनिश्चयत्वं
प्राभाकरमते अनुमितिकारणतावच्छेदकम्। नैयायिकमते तु
व्याप्तिविशिष्टवैशिष्ट्यावगाहित्वम्। तत्तु धूमत्वानवगाहिनि
वह्निव्याप्यवानयमिति शाब्दपरामर्शेंऽप्यस्ति। अतः
कारणतावच्छेदकलाघवात् नैयायिकमतमेव युक्तमिति भावः।
विनिगमनाविरहेणेति। ज्ञायमानं लिङ्गं करणम् अथ वा
लिङ्गविषयकज्ञानं करणमिति पक्षयोरन्यतरस्य
साधुत्वसाधकयुक्त्यभावेनेत्यर्थः। लिङ्गस्य अनुमितिकरणत्वे
ज्ञायमानाभ्यामतीतानागताभ्यां लिङ्गाभ्यां अनुमितिः न स्यात्।
अनुमितेः अव्यवहितपूर्वं असतोस्तयोः
अव्यवहितपूर्ववृत्तित्वघटितकरणत्वासम्भवात्। लिङ्गज्ञानस्य
करणत्वे तु अतीतानागतलिङ्गयोरसत्त्वे ऽपि
तद्विषयकज्ञानसत्त्वादनुमितिरुपपद्यते। तदाह - तत्राप्यनुमितेरिति।
फलायोगव्यवच्छिन्नमिति। कार्याव्यवहितपूर्ववृत्तित्वविशिष्टं
कारणं करणमिति मते
परामर्शस्यैवानुमित्यव्यवहितपूर्वंवृत्तितया तदवे करणम्,
व्याप्तिज्ञानस्य तु परामर्शव्यवहितत्वात् न करणत्वमिति भावः।
तर्कसङ्ग्रहः
हेतुविभागः
अन्त्स्_48 लिङ्गं त्रिविधम् । अन्वयव्यतिरेकि केवलान्वयि केवलव्यतिरेकि चेति । अन्वयेन व्यतिरेकेण च व्याप्तिमद् अन्वयव्यतिरेकि । यथा वह्नौ साध्ये धूमवत्त्वम् । यत्र धूमस् तत्राग्निर् यथा महानस इत्य् अन्वयव्याप्तिः । यत्र वह्निर् नास्ति तत्र धूमोऽपि नास्ति यथा महाह्रद इति व्यतिरेकव्याप्तिः । अन्वयमात्रव्याप्तिकं केवलान्वयि यथा घटोऽभिधेयः प्रमेयत्वात् पटवत् । अत्र प्रमेयत्वाभिध्यत्वयोर् व्यतिरेकव्याप्तिर् नास्ति सर्वस्यापि प्रमेयत्वाद् अभिधेयत्वाच् च । व्यतिरेकमात्रव्याप्तिकं केवलव्यतिरेकि यथा पृथिवी तरेभ्यो भिद्यते गन्धवत्त्वात् । यद् इतरेभ्यो न भिद्यते न तद् गन्धवत् । यथा जलम् । न चेयं तथा । तस्मान् न तथेति अत्र यद् गन्धवत् तद् इतरभिन्नम् इत्य् अन्वयदृष्टन्तो नास्ति पृथिवीमात्रस्य पक्षत्वात् ॥
लिङ्गं त्रिविधम्
- अन्वयव्यतिरेकि, केवलान्वयि, केवलव्यतिरेकि चेति।
अन्वयव्यतिरेकिनिरूपणम्
अन्वयेन

व्यतिरेकेण च व्याप्तिमत् अन्वयव्यतिरेकि। यथा वह्नौ साध्ये
धूमवत्त्वम्। यत्र धूमस्तत्राग्निः यथा महानसः इत्यन्वयव्याप्तिः।
यत्र वह्निर्नास्ति, तत्र धूमो ऽपि नास्ति यथा महाह्रदः इति
व्यतिरेकव्याप्तिः।
दीपिका
लिङ्गं विभजते -
लिङ्गमिति।
अन्वयव्यतिरेकिणं
लक्षणति - अन्वयेनेति। हेतुसाध्ययोः व्याप्तिः अन्वयव्याप्तिः,
तदभावयोर्व्याप्तिः व्यतिरेकव्याप्तिः।
प्रकाशिका
यद्यप्यनुमाननिरूपणस्यैव प्रतिज्ञातत्वेन तद्विभाग एव उचितः,
तथापि लिङ्गस्य त्रैविध्ये प्रदर्शिते तज्ज्ञानस्य त्रैविध्यं फलतीति
मनसि कृत्वाह - लिङ्गं विभजत इति।
ऽअन्वयेन व्यतिरेकेण
च व्याप्तिमत्ऽ इति मूलस्य ऽअन्वयसहचारग्रहग्राह्यव्याप्तिमत्त्वे सति
व्यतिरेकसहचारग्रहग्राह्यव्याप्तिमत्ऽ इत्यर्थं मनसि कृत्वा
तादृशव्याप्तिद्वयं प्रकाशयति - हेतुसाध्ययोरिति।
बालप्रिया
ऽअन्वयेन
व्यतिरेकेण च व्याप्तिमत्ऽ इति यथाश्रुतमूलात्
अन्वयव्याप्तिमत्त्वे सति व्यतिरेकव्याप्तिमत्त्वमन्वयव्यतिरेकिणो
लक्षणमिति प्रतीयते। तथा सति केवलव्यतिरेकिण्यतिव्याप्तिः,
तत्रापि वस्तुतो ऽन्वयव्याप्तेरपि सत्त्वात् अतो व्याचष्टे -
अन्वयसहचारग्रहग्राह्येति। साध्यहेत्वोः सामानादधिकरण्यं
अन्वयसहचारः तज्ज्ञानजन्यज्ञानविषयीभूता व्याप्तिः
हेतुव्यापकसाध्यसामानाधिकरण्यरूपा अन्वयव्याप्तिः।
साध्याभावहेत्वभावयोः सामानाधिकरण्यं व्यतिरेकसहचारः
तज्ज्ञानजन्यज्ञानविषयीभूता व्याप्तिः
साध्याभावव्यापकीभूताभावप्रतियोगित्वरूपा व्यतिरेकव्याप्तिः।
अन्वयेनेत्यत्र तृतीयायाः ज्ञानज्ञाप्यत्वमर्थः, अन्वयशब्दः
अन्वयसहचारपरः, ज्ञानज्ञाप्यत्वस्य व्याप्तावन्वयः,
तेनान्वयसहचारज्ञानज्ञाप्या व्याप्तिरिति मूलाल्लभ्यते। एवं
व्यतिरेकशब्दः व्यतिरेकसहचारपरः, तृतीयार्थः ज्ञानज्ञाप्यत्वम्,
तेन व्यतिरेकसहचारज्ञानज्ञाप्याव्याप्तिरिति लभ्यत इति भावः1।
॥।
तर्कसङ्ग्रहः
केवलान्वयिनिरूपणम्
अन्वयमात्रव्याप्तिकम् केवलान्वयि। यथा घटः अभिधेयः
प्रमेयत्वात् पटवत् इति। अत्र प्रमेयत्वाभिधेयत्वयोः

व्यतिरेकव्याप्तिः नास्ति, सर्वस्यापि प्रमेयत्वात् अभिधेयत्वाच्च।
दीपिका
केवलान्वयिनो
लक्षणमाह - अन्वयेति। केवलान्वयिसाध्यकं लिङ्गं केवलान्वयि।
[वृत्तिमत्] इत्यन्ताभावाप्रतियोगित्वं
केवलान्वयित्वम्। ईश्वरप्रमाविषयत्वं सर्वपदाभिधेयत्वं च
सर्वत्र अस्तीति व्यतिरेकाभावः।
प्रकाशिका
अन्वयमात्रव्याप्तिकत्वरूपकेवलान्वयिलक्षणे मात्रपदेन
व्यतिरेकव्याप्तेर्व्यवच्छेद्यतया सिद्ध्यसिद्धिभ्यां व्याघात
इत्यालोच्य प्रकारान्तरेण परिष्करोति - केवलान्वयिसाध्यकमिति।
केवलान्वयिसाध्यकव्यतिरेकिहेतोः
1. तथा च
अन्वयसहचारज्ञानजन्यज्ञानविषयव्याप्तिमत्वे सति
व्यतिरेकसहचारज्ञानजन्यज्ञानविषयव्याप्तिमत्त्वं अन्वयव्यतिरेकिणो
लक्षणम्। तत्र सत्यन्तानुपादाने केवलव्यतिरेकिण्यतिव्याप्तिः।
विशेश्यानुपादाने केवलान्वयिन्यतिव्याप्तिः।
व्यतिरेकसहचारेणाप्यन्वयव्याप्तिरेव गृह्यत इति मते
अनवयसहचारज्ञानव्यतिरेकसहचारज्ञानोभजजन्यज्ञानविषयव्याप्तिमत्त्वं
अन्वयव्यतिरेकिणो लक्षणम्।
सङ्ग्रहाय साध्ये
केवलान्वयित्वं निवेशितम्। तदेव निर्वक्ति - अत्यन्ताभावेति।
निरवच्छिन्नवृत्तिमदत्यन्ताभावेत्यर्थः।
तेन
गगनाभावसंयोगाभावादिसाध्यकहेतोः सङ्ग्रहः।
घटपदाभिधेयत्वस्य पटादावसत्त्वेन सर्वतः सत्त्वासम्भवादाह -
सर्वपदाभिधेयत्वमिति।
बालप्रिया
ननु
ऽअन्वयमात्रव्याप्तिकं केवलान्वयीऽति मूलात्
व्यतिरेकव्याप्तिशून्यत्वे सति अन्वयव्याप्तिमत्त्वं केवलान्वयिनो
लक्षणमिति प्रतीयते। तथा सति केवलान्वयिनि व्यतिरेकव्याप्तेः
प्रसिद्धत्वे तच्छून्यत्वं न सम्भवति। तस्याः अप्रसिद्धत्वे सुतरां
तच्छून्यत्वाप्रसिद्धिरिति लक्षणमिदं नोपपद्यत इत्याशयेन
दीपिकायां केवलान्वयिसाध्यकं केवलान्वयि इत्युक्तमित्याह -
अन्वयमात्रेति। केवलान्वयिसाध्यकः केवलान्वयी हेतुः ऽइदं वाच्यं
ज्ञेयत्वात्ऽ इत्यादिः यथा केवलान्वयी, तथा केवलान्वयिसाध्यकः
व्यतिरेकी हेतुरपि ऽइदं वाच्यं घटत्वात्ऽ इत्यादिः
केवलान्वय्येव। तथा चोभयसङ्ग्रहाय हेतौ
केवलान्वयित्वमनिवेश्य केवलान्वयिसाध्यकहेतुत्वं केवलान्वयिनो

लक्षणं
कथितमित्याह -
केवलान्वयिसाध्यकेति। व्यतिरेकिहेतुः अत्यन्ताभावप्रतियोगी
हेतुः। तदेवेति। केवलान्वयित्वमेवेत्यर्थः। ननु
अत्यन्ताभावाप्रतियोगित्वं केवलान्वयित्वम्, तत्साध्यकहेतुत्वं
केवलान्वयिलिङ्गत्वमित्युक्तौ आकाशाभावसाध्यकस्य
घटत्वादिहेतोः सङ्ग्रहो न स्यात् आकाशाभावस्य
1आकाशरूप-आकाशाभावात्यन्ताभावप्रतियोगित्वेन
अत्यन्ताभावाप्रतियोगित्वाभावात्। एवं
संयोगाभावसाध्यकहेतोरपि
सङ्ग्रहो न स्यात्
संयोगाभावस्य 2संयोगात्मकात्यन्ताभावप्रतियोगित्वात् इत्यत
आह - निरवच्छिन्नेत्यादि।
1. आकाशरूपः यः
आकाशाभावात्यन्ताभावः तत्प्रतियोगित्वेनेत्यर्थः। अभावाभावस्य
प्रतियोगिस्वरूपत्वादिति भावः।
2. संयोगरूपः यः
संयोगाभावात्यन्तभावः तत्प्रतियोगित्वादित्यर्थः।
संयोगस्याव्याप्यवृत्तितया सावच्छिन्नवृत्तिकत्वात्
निरवच्छिन्नवृत्तिमान् अभावः न संयोगात्मकः अभावः, अपि तु
घटाद्यभावः तदप्रतियोगित्वं संयोगाभावे ऽस्तीति तस्य
केवलान्वयित्वोपपत्तिः। गगनरूपो ऽभावस्तु न वृत्तिमान्
तस्यावृत्तित्वात्, अपि तु वृत्तिमान् घटाद्यभावः तदप्रतियोगित्वं
गगनाभावे ऽस्तीति तस्यापि केवलान्वयित्वमुपपद्यत इति भावः। एवं
च यत् सर्वत्रास्ति, न क्वापि तदभावः तत् केवलान्वयीति लभ्यते।
नन्वभिधेयत्वस्य कथं केवलान्वयित्वम्। अभिधेयत्वं हि
पदशक्तिमत्त्वम्। तच्च घटपटादिपदभेदेन भिन्नमिति
घटपदाभिधेयत्वस्य
पटादिनिष्ठात्यन्ताभावप्रतियोगित्वादित्याशङ्कते - घटपदेति।
सर्वपदाभिधेयत्वमिति। सर्व इति यत् पदं तदभिधेयत्वं
सर्वत्रास्तीति सर्वपदाभिधेयत्वं केवलान्वयि। तथा च
ऽघटः अभिधेयः
प्रमेयत्वात्ऽ इति प्रयोगे सर्वपदाभिधेयत्वं साध्यं इति
केवलान्वयित्वमुपपद्यत इति भावः।
॥।
तर्कसङ्ग्रहः
केवलव्यतिरेकिनिरूपणम्
व्यतिरेकमात्रव्याप्तिकं केवलव्यतिरेकि। यथा पृथिवी
इतरेभ्यो भिद्यते गन्धवत्त्वात्। यत् इतरेभ्यो न भिद्यते न तत्
गन्धवत् यथा जलम्। न चेयं तथा। तस्मात् न तथा इति। अत्र यत्

गन्धवत् तत् इतरभिन्नम् इत्यन्वयदृष्टान्तः नास्ति,
पृथिवीमात्रस्य पक्षत्वात्।
दीपिका
कवेलव्यतिरेकिणो लक्षणमाह - व्यतिरेकेति। तदुदाहरति -
यथेति। ननु इतरभेदः प्रसिद्धो वा न वा। आद्ये यत्र प्रसिद्धः तत्र
हेतुसत्त्वे अन्वयित्वम्, असत्त्वे असाधारण्यम्। द्वीतीये
साध्यज्ञानाभावात् कथं तद्विशिष्टानुमितिः। विशेषणज्ञानाभावे
विशिष्टज्ञानानदयात् प्रतियोगिज्ञानाभावात्
व्यतिरेकव्याप्तिज्ञानमपि न स्यादिति चेत् - न।
जलादित्रयोदशान्योन्याभावानां त्रयोदशसु प्रत्येकं प्रसिद्धानां
मेलनं पृथिव्यां साध्यते। तत्र
त्रयोदशत्वावच्छिन्नभेदात्मकसाध्यस्यैकाधिकरणवृत्तित्वाभावात्
नान्वयित्वासाधारण्ये। प्रत्येकाधिकरणप्रसिद्ध्या
साध्यविशिष्टानुमितिः व्यतिरेकव्याप्तिनिरूपणं चेति।
प्रकाशिका
मूले
व्यतिरेकमात्रव्याप्तिकमिति। निश्चितव्यतिरेकमात्रव्याप्तिकमित्यर्थः।
तेन ऽपृथिवी इतरेभ्यो भिद्यते गन्धवत्त्वात्ऽ इत्यादौ
अन्वयव्याप्तेस्सत्त्वे ऽपि न लक्षणासङ्गतिः। इतदभेदः -
पृथिवीतरत्वावच्छिन्नप्रतियोगिताकभेदः। अन्वयित्वमिति।
अन्वयसहचारग्रहग्राह्यव्याप्तिमत्त्वं स्यादित्यर्थः। असाधारण्यमिति।
सपक्षव्यावृत्तत्वरूपासाधारणलक्षणाक्रान्तत्वादिति भावः।
अप्रसिद्धसाध्यके ऽपि साध्यविशेषणकानुमितिरेवेत्याभिप्रायेणाह -
साध्येत्यादि। व्यतिरेकव्याप्तीति।
साध्याभावव्यापकाभावप्रतियोगित्वरूपेत्यर्थः।
पृथिवीतरसामान्यभेदो न साध्यते, अपि तु जलादिभेदकृटं
साध्यते। तथा च तोक्तदोषावसर इत्याहजलादीति। जलादीनां चे
त्रयोदशान्योन्याभावास्तेषां कूटं साध्यत इत्यर्थः। समुदायस्य
प्रसिद्ध्यसम्भवादाह - प्रत्येकमिनि। त्रयोदशत्वावच्छिन्नेति।
अनुमितेः पूर्वं निश्चितसाध्यतावच्छेदकावच्छिन्नवतो धर्मिण
एवाप्रसिद्ध्या न तत्र हेतोः सत्त्वासत्त्वनिबन्धने अन्वयित्वासाधारण्ये
इति समुदितार्थः। प्रत्येकं प्रसिद्धौ
अपेक्षाबुद्धिविशेषविषयत्वरूपसमुदायत्वविशिष्टज्ञानं सम्भवति।
तथा च विशेषणतावच्छेदकप्रकारकनिर्णयस्य सद्भावात्
साध्यतावच्छेदकविशिष्टवैशिष्ट्यावगाह्यनुमितिः
व्यतिरेकव्याप्तिज्ञानं
च सम्भवतीत्याह - प्रत्येकाधिकरणेत्यादिना। यद्यपि जलादि
चतुर्दशान्योन्याभावानां चतुर्दशसु
प्रत्येक प्रसिद्धानामिति
रीत्या वक्तुमुचितम्, तथापि अर्थापत्तेः

प्रमाणान्तरत्वमङ्गीकुर्वन्तं प्राभाकरमाक्षेप्तुं
व्यतिरेकव्याप्तेरनुमित्यङ्गत्वस्य प्रदर्शनीयतया
तन्मतसाधारण्येन व्यतिरेकव्याप्तिं प्रदर्शयितुं
जलादित्रयोदशेत्यादिकथनम्। न च तन्मते चतुर्दशान्योन्याभावः
प्रसिद्धाः। अभावस्याधिकरणात्मकस्य तेनाङ्गीकारादिति ध्येयम्।
केचित्तु - जलमेवादिः
येषां त्रयोदशानामिति विग्रहेण जलादिप्रतियोगिकानां
चतुर्दशानामित्यर्थः। त्रयोदशस्विति। जलादीत्यादिः। उक्तविग्रहेण
चतुर्दशस्वित्यर्थः। अग्रे ऽप्येवं बोध्यम् इत्याहुः।
बालप्रिया
ननु
व्यतिरेकमात्रव्याप्तिकं केवलव्यतिरेकीत्यस्य अन्वयव्याप्तिशून्यत्वे
सति व्यतिरेकव्याप्तिमत्त्वं केवलव्यतिरेकिणो लक्षणमित्यर्थः। तथा
च ऽपृथिवी इतरेभ्यो भिद्यते गन्धवत्त्वात्ऽ इत्यत्र
केवलव्यतिरेकिणि वस्तुतो ऽन्वयव्याप्तेरपि सत्त्वादसम्भवः
इत्यतो व्याचष्टे - निश्चितव्यतिरेकेति। तथा चोक्तस्थले वस्तुतः
अन्वयव्याप्तेः सत्त्वे ऽपि साध्यस्याप्रसिद्ध्या (अज्ञानेन)
हेतुव्यापकसाध्यसामानाधिकरण्यरूपान्वयव्याप्तिनिश्चयो नास्ति,
व्यतिरेकव्याप्तिनिश्चयस्त्वस्तीति निश्चितव्यतिरेकमात्रव्याप्तिकत्वस्य
सत्त्वात् केवलव्यतिरेकित्वमुपपद्यत इति भावः।
यत्किञ्चिदितरभेदस्य प्रसिद्धत्वात् प्रसिद्धो न वेति विकल्पस्यैव
नावसर इत्यतः व्याचष्टे -
पृथिवीतरत्वावच्छिन्नप्रतियोगिताकभेद इति। पृथिवीतरेषां
सर्वेषां भेद इत्यर्थः। तथा च यदि पृथिवीतरेषां सर्वेषां भेदः
क्वचित् घटादौ ज्ञातः तर्हि तत्र हेतुसत्त्वे
साध्यहेत्वोस्तत्रैवान्वयसहचारग्रहात्
तद्ग्राह्यान्वयव्याप्तिमत्त्वमस्तीति
अन्वयव्यतिरेक्यनुमानमेव भवेत् न केवलव्यतिरेके। यदि
तत्र हेतुर्नास्ति तर्हि हेतोर्निश्चितसाध्यवदवृत्तित्वेन
सपक्षव्यावृत्तत्वरूपासाधारणहेत्वाभावलक्षणाक्रान्ततया
हेतोरसाधारणत्वापत्तिः। यदि
पृथिवीतरत्वावच्छिन्नप्रतियोगिताकभेदरूपं साध्यं न ज्ञातम् तर्हि
साध्यरूपविशेषणज्ञानाभावात् साध्यविशिष्टपक्षज्ञानरूपा अनुमितिर्न
स्यात् विशिष्टबुद्धौ विशेषणज्ञानस्य कारणत्वात्। एवं
साध्यस्याज्ञातत्वे साध्याभावघटितव्यतिरेकव्याप्तिज्ञानमपि न स्यात्।
अभावबुद्धौ प्रतियोगिज्ञानस्य कारणत्वादिति
दीपिकास्थशङ्काग्रन्थार्थः।
ननु
अप्रसिद्धसाध्यकस्थले साध्यविशेषणिका पक्षः साध्यवानित्याकारान
अनुमितिर्मा भूत् विशेषणज्ञानरूपकारणविरहात्।

पृथिव्यामितरभेदः इत्याकारा साध्यविशेष्यिका अनुमितिः
भवितुमर्हत्येवेत्याशङ्क्याह - अप्रसिद्धसाध्यके ऽपीति।
साध्यविशेषणकानुमितिरेवेति। साध्यविशेषणकानुमितिरेव जायत
इति पक्षे विशेषणज्ञानाभावात् सा प्रकृते न सम्भवतीति
दूषणम्। साध्यविशेष्यकानुमितिर्जायत इति पक्षे
प्रतियोगिज्ञानाभावात् व्यतिरेकव्याप्तिज्ञानरूपकारणाभावात् न सा
सम्भबतीति भावो वर्णनीयः। जलादिभेदकूटमिति। जलादीनां
पृथिव्यतिरिक्तानां चतुर्दशानां प्रत्येकं ये चतुर्दश भेदाः
तत्समूह इत्यर्थः। जलादीनां ये त्रयोदशान्योन्याभावा इति।
ननु जलाद्यष्टद्रव्याणां गुणादिषट्पदार्थानां च भेदः पृथिव्यां
साधनीयः। तथा च जलादिचतुर्दशान्योन्याभावेति वक्तव्ये
त्रयोदशेत्यभिधानमनुचितमिति चेत्-अत्र
केचित्-मीमांसकैरभावस्याधिकरणात्मकत्वस्वीकारेण
अतिरिक्तपदार्थत्वानङ्गीकारात् त्रयोदशान्योन्याभाव इति
तन्मतानुसारेण कथितम्।
अर्थापत्तेरतिरिक्तप्रमाणत्वमङ्गीकुर्वतस्तान् प्रत्येव
केवलव्यतिरेक्यनुमानस्य प्रदर्शनीयत्वात् इत्याहुः - तन्न।
तादृशत्रयोदशान्योन्याभावानां जलादिषु प्रत्येकं प्रसिद्धानां
तन्मते जलादिरूपतया जलादिरूपत्रयोदशभेदस्य पृथिव्यामसत्त्वेन
गन्धवत्त्वलिङ्गेन तत्साधनासम्भवात्। पृथिवीनिष्ठस्य
तादृशत्रयोदशभेदस्य पृथिवीरूपतया जलादिषु प्रत्येकं
प्रसिद्ध्यभावेनाप्रसिद्ध्या उक्तरीत्या व्यतिरेकव्याप्तिज्ञानासम्भवेन
तत्साधनासम्भवात्। अतः जलादित्रयोदशान्योन्याभावानामित्यस्य
जलमादिर्येषां तु जलादयः, जलादयस्त्रयोदश जलादित्रयोदश
तेषामन्योन्याभावा इति विग्रहः। जलादितयत्र
अतद्गुणसंविज्ञानो
बहुव्रीहिः। अतो
जलादीनां चतुर्दशानां ये चतुर्दश अन्योन्याभावाः तेषां लाभ
इति व्याख्यातव्यम्। उपरि प्रकाशिकायां सर्वमिदं स्पष्टीभविष्यति।
वस्तुतस्तु जलादीनां
चतुर्दशानां ये भेदाः चतुर्दश ते सर्वें जलादिषु न प्रसिद्धाः। तथा
हि - जलभेदः
तेजःप्रभृतिषु
त्रयोदशसु प्रसिद्धः, न तेजसि। एवंरीत्या त्रयोदशसु प्रसिद्धः यः
एकैकभेदः तेषां मेलनं पृथिव्यां साध्यते। अर्थात्
चतुर्दंशभेदसमुदायः पृथिव्यां साध्यते। त्रयोदशत्वावच्छेदेन
प्रसिद्धो यः एकैकभेदः तद्घटितचतुर्दशात्मकसमुदायः पृथिव्यां
साध्यत इति यावत्। एवं च चतुर्दशत्वविशिष्टभेदस्य
कुत्राप्यप्रसिद्धत्वात् नान्वयित्वं न वा असाधारण्यम्।
साध्यघटकैकाभावस्य त्रयोदशत्वावच्छेदेन प्रसिद्धतया

साध्यरूपविशेषणज्ञानसत्त्वेन साध्यविशिष्टानुमितिरुपपद्यते। एवं
साध्यात्मकप्रतियोगिज्ञानसत्त्वे साध्याभावज्ञानसम्भवात्
व्यतिरेकव्याप्तिज्ञानमपि सुलभमिति नृसिंहशास्त्रिणः प्राहुः।
निश्चितसाध्यतावच्छेदकेति। साध्यतावच्छेदकं त्रयोदशत्वं
चतुर्दशत्वं वा तदवच्छिन्नाः भेदाः तद्वत इत्यर्थः। प्रत्येकं
प्रसिद्धाविति। जलभेदादीनां प्रसिद्धत्वात् तत्र
अपेक्षाबुद्धिविशेषविषयत्वात्मकं यत् चतुर्दशत्वं तज्ज्ञानं भवति।
तेन चतुर्दशत्वात्मकं यत् विशेषणतावच्छेदकं तत्प्रकारकः
निर्णयः हमे भेदाः चतुर्दश इत्याकारकः उत्पद्यते। ततः
चतुर्दशत्वविशिष्टभेदवती पृथिवी इत्याकारिका
विशिष्टवैशिष्ट्यावगाहिनी अनुमितिः सुलभा।
चतुर्दशत्वविशिष्टभेदाभावव्यापकीभूताभावप्रतियोगि
गन्धवत्त्वमिति व्यतिरेकव्याप्तिज्ञानं च सुलभमिति भावः।
वस्तुतस्तु
केवलव्यतिरेक्यनुमानस्थले साध्यविशेष्यिकैवानुमितिः। अतः पूर्वं
साध्यस्याप्रसिद्धावपि न क्षतिः। एवं पृथिवीतरभेदाभावत्वेन रूपेण
साध्याभावस्य व्यतिरेकव्याप्तिघटकतया न प्रवेशः, येन
प्रतियोग्यप्रतिसद्ध्या अभावाप्रसिद्धेः व्यतिरेकव्याप्तिज्ञानस्य
दौर्लभ्यं भवेत्। अपि तु पृथिवीतरत्वव्यापकीभूताभावप्रतियोगि
गन्धवती पृथिवी इत्येव परामर्शः। अतः दीपिकायामाश्रितः
प्रयासो विफल इति प्राहुः। 1पक्षतादीधित्यादौ स्पष्टमेतत्।
तर्कसङ्ग्रहः
पक्षलक्षणम्
अन्त्स्_49 संदिग्धसाध्यवान् पक्षः । यथा धूमवत्त्वे हेतौ पर्वतः ॥
सन्दिग्धसाध्यवान् पक्षः। यथा धूमवत्त्वे हेतौ पर्वतः।
दीपिका
पक्षलक्षणमाह -
सन्दिग्धेति। ननु श्रवणानन्तरभाविमननस्थले अव्याप्तिः। तत्र
वेदवाक्यैरात्मनो निश्चितत्वेन सन्देहाभावात्। किं च प्रत्यक्षे ऽपि
वह्नौ यत्र इच्छया अनुमितिः तत्र अव्याप्तिरिति चेत्-न।
उक्तपक्षताश्रयत्वस्य पक्षलक्षणत्वात्।
प्रकाशिका
मूले
सन्दिग्धसाध्यवानिति। विशेष्यतासम्बन्धेन
साध्यप्रकारकसंशयविशिष्ट इत्यर्थः। सपक्षलक्षणादिकमप्येवं
परिष्कर्तव्यम्। पक्षलक्षणस्याव्याप्तिमाशङ्क्ते - दीपिकायां नन्विति।
संशयविघटकशाब्दबुद्धिस्थले ऽव्याप्तिमुक्त्वा प्रत्यक्षस्थले ऽपि तामाह -
किञ्चति। उक्तेति।
सिषाधयिषाविरहविशिष्टसिद्ध्यभावरूपपक्षताश्रयत्वस्य
पक्षलक्षणत्वादित्यर्थः।

मूल पाठ: Tarkasaṃgraha with autoentary (Dīpikā), Nīlakaṇṭha's Dīpikāprakāśikā and Bālapriyā · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc