तर्कसंग्रह (टीका सहित) · भाग 161180
पञ्चविधविशेष्यतानामनुगमं कृत्वा
विशेषणताविशेष्यतान्यतरत्वेन दशानामपि परिगणनात्
षड्विधत्वस्याहानेः। न च समवायरूपाणां संयुक्तसमवाय -
संयुक्तसमवेतसमवाय - समवाय - समवेतसमवायानां चतुर्णामपि
समवायत्वेन एकवर्गीकरणं विधाय संयोगः, समवायः,
विशेष्यविशेषणभावश्चेति त्रिधैव सन्निकर्षः कुतो न व्यभातीते
वाच्यम्। स्वतन्त्रेच्छेन मुनिना कृते षोढा विभागे
नियोगपर्यनुयोगयोः कर्तुमशक्यत्वात्। नियोगः आज्ञा,
पर्यनुयोगः प्रश्नः।
1. चक्षुस्संयुक्तं
भूतलं तद्विशेषणत्वं घटाभावस्य।
2. चक्षुस्संयुक्तं तोयं
तत्समवेतः स्पर्शः तद्विशेषणत्वम् उष्णत्वाभावस्य।
3. चक्षुस्संयुक्तो घटः
तत्समवेतो नील तत्समवेतं नीलत्वं तद्विशेषणत्वं
शुक्लत्वाभावस्य।
4. श्रोत्रसमवेतः
वीणाशब्दः तद्विशेषणत्वं तीव्रत्वाभावस्य।
5. श्रोत्रसमवेतः शब्दः
तत्समवेतं शब्दत्वं तद्विशेषणत्वं भेदाभावस्य।
6. चक्षुस्संयुक्तं
भूतलं तिन्नरूपितविशेष्यता घटाभावस्य।
7. चक्षुस्संयुक्तं तोयं
तत्समवेतः स्पर्शः तन्निरूपितविशेष्यता उष्णत्वाभावस्य।
8. चक्षुस्संयुक्तो घटः
तत्समवेतो नीलः तत्समवेतं नीलत्वं तन्निरूपितविशेष्यता
शुक्लत्वाभावस्य।
9. श्रोत्रसमवेतो
वीणाशब्दः तन्निरूपितविशेष्यता तीव्रत्वाभावस्य।
10. श्रोत्रसमवेतः
शब्दः तत्समवेतं शब्दत्वं तन्निरूपितविशेष्यता भेदाभावस्य।
मणिकारास्तु -
केवलविशेषणता इन्द्रियसम्बद्धविशेषणता चेति विशेषणता
द्विविधा। इन्द्रियसम्बद्धविशेषणता, पूर्वोक्तरीत्या पञ्चविधा।
केवलविशेषणतायाः उदाहरणं आकाशं शब्दाभाववत् इति
शब्दाभावप्रत्यक्षम् - इत्यभिप्रयन्ति। ऽविशेषणतया शब्दाभावस्य,
इन्द्रियसम्बद्धविशेषणतया समवायघटाभावादेर्ग्रहःऽ इति
संनिकर्षवादे तैः कथनात्॥
॥।
तर्कसङ्ग्रहः
एवं
सन्निकर्षजन्यज्ञानम् प्रत्यक्षम्। तत्करणं इन्द्रियम्। तस्मादिन्द्रियं
प्रत्यक्षप्रमाणम् इति सिद्धम्॥
इति तर्कसङ्ग्रहे
प्रत्यक्षपरिच्छेदः।
दीपिका
अनुपलब्धेः
प्रमाणान्तरत्वनिराकरणम्।
एतेन अनुपलब्धेः
प्रमाणान्तरत्वं निरस्तम्। यदि अत्र घटः अभविष्यत् तर्हि भूतलमिव
अद्रक्ष्यत, दर्शनाभावात् नास्तीति
तर्कितप्रतियोगिसत्त्वविरोध्यनुपलब्धिसहकृतेन्द्रियेणैव
अभावज्ञानोपपत्तौ अनुपलब्धैः प्रमाणान्तरत्वासम्भवात्।
अधिकरणज्ञानार्थमपेक्षणीयेन्द्रियस्यैव करणत्वोपपत्तौ अनुपलब्धेः
करणत्वायोगात्। विशेषणविशेष्यभावः
विशेषणविशेष्यस्वरूपमेव, नातिरिक्तः सम्बन्धः।
प्रत्यक्षज्ञानमुपसंहरन् तस्य करणमाह - एवमिति।
असाधारणकारणत्वात् इन्द्रियं प्रत्यक्षज्ञानकरणमित्यर्थः।
प्रत्यक्षप्रमाणमुपसंहरति - तस्मादिति॥
इति दीपिकायां
प्रत्यक्षपरिच्छेदः
प्रकाशिका
एतेन -
अभावप्रमाया विशेषणविशेष्यभावसंनिकर्षजन्यत्वप्रदर्शनेन।
प्रमाणान्तरत्वम् - प्रत्यक्षाद्यतिरिक्तप्रमाणत्वम्। ननु अनुपलब्धेः
प्रमाणान्तरत्वानङ्गीकारे घटोपलब्धिदशायां तदभावप्रत्यक्षापत्तिः,
मम मते तु - अनुपलब्ध्यात्मकप्रमाणान्तराभावात् नापत्तिरिति
भाट्टशङ्कां परिजिहीर्षुः योग्यानुपलब्धेः
इन्द्रियसहकारित्वमात्रेणैव निर्वाहे अतिरिक्तप्रमाणत्वं न
संभवतीत्याह - यद्यत्रेत्यादिना। अत्र - चक्षुस्संयोगादिमद्भूतले
तर्कस्यापादकाभावसाधकविपर्ययप्रतियोग्यापाद्यकत्वरूपविपर्यये
तत्कोटिपर्यवसायित्वं दर्शयति - दर्शनाभावात् नास्तीति।
तद्दर्शनाभावात् तन्नास्तीत्यर्थः। तर्कितेत्यादि। तर्किता आपादिता
प्रतियोगिनो घटादेः सत्त्वस्य सत्त्वप्रसक्तेः विरोधिनी य उपलब्धिः
तत्प्रतियोगिकः अभावः अनुपलब्धिः तत्सहकृतेनेत्यर्थः।
विरोधित्वविशेषणं
उपलब्धेः अनाहार्यत्वसूचनाय।
प्रतियोगिसत्तापादनापादितोपलम्भप्रतियोगिकत्वरूपयोग्यताविशिष्टानुपलब्धिसहकृतेनेति
तु परमार्थः। आलोकसंयोगाद्यसत्त्वदशायां यद्यत्र घटः स्यात् तर्हि
उपलभ्येत इत्यापादनासम्भवेन योग्यानुपलब्ध्यभावात् न तत्र
घटाभावप्रत्यक्षमिति संक्षेपः।
केचित्तु -
तर्कितेत्यादि। तर्कितं आरोपितं यत् प्रतियोगिसत्त्वम्,
तद्विरोधिनी या अनुपलब्धिः
तत्सहकृतेनेत्यर्थः।
एतावता प्रतियोगिसत्त्वरूप-कारणाभाव-प्रयोज्योपलब्ध्यभावः
अभावप्रत्यक्षे कारणम्, न तु
इतरकारणविरहप्रयोज्योपलब्ध्यभावः इति सूचितम्। अत
एवान्धकारे उपलम्भाभावसत्त्वे ऽपि न घटाभावप्रत्यक्षम् - इत्याहुः।
ननु अभावप्रमायां
इन्द्रियस्य करणत्वं अनुपलब्धेः सहकारित्वं च त्वया कल्पनीयम्।
तदपेक्षया अनुपलब्धेरेव करणत्वकल्पनं वरम् इत्याशङ्क्य
अभावाधिकरणभूतलप्रत्यक्षे इन्द्रियस्य अवश्यमपेक्षणीयतया
कॢप्तेनैव इन्द्रियकरणत्वेनाभावप्रत्यक्षोपपत्तौ
अनुपलब्धेर्विञ्जातीयप्रमितिकरणत्वकल्पनमयुक्तमित्याह -
अधिकरणेति। ननु विशेषणविशेष्यभावाख्यः अतिरिक्तसम्बन्धः
कल्पनीयः त्वयेत्यत आह - विशेषणविशेष्यभाव इति।
अत्रेदं बोध्यम् -
प्रत्यक्षं द्विविधम् लौकिकम् अलौकिकं चेति। लौकिकत्वं च
विषयिताविशेषः। लौकिके षोढा संनिकर्षः कारणम्। अलौकिके
तु सामान्यलक्षणा, ज्ञानलक्षणा, योगजधर्मश्चेति त्रिविधा प्रत्यासत्तिः।
तत्र सामान्यलक्षणा धूमत्वादिरूपा तज्ज्ञानरूपा वा। सामान्यं लक्षणं
स्वरूपं विषयो वा यस्या इति व्युत्पत्तेः। सा चाश्रयाणां
निखिलधूमादीनां अलौकिकप्रत्यक्षे उपयुज्यते।
अतीतानागतधूतादिषु चक्षुस्संयोगादेरसम्भवात् इन्द्रियाणां
असन्निकृष्टानां प्रत्यक्षाजनकत्वात्। ज्ञानलक्षणा तु सुरभि चन्दनमिति
चाक्षुषोपनीतभाने सौरभेण चक्षुषो योग्यसन्निकर्षाभावात्। एवं
योगिनां देशकालविप्रकृष्टपदार्थप्रत्यक्षे योगजधर्मः प्रत्यासत्तिः
कारणम् इति संक्षेपः॥
इति प्रकाशिकायां
प्रत्यक्षपरिच्छेदः
बालप्रिया
नन्वनुपलब्धेरित्यादि। अनुपलब्धिर्नाम
प्रतियोगिविषयकप्रत्यक्षाभवः। ऽभूतलं घटाभाववत्ऽ
इत्याकारकघटाद्यभावविषयकप्रमां प्रति घटोपलब्ध्यभावः कारणम्।
ऽभूतलं घटवत्ऽ इति घटोपलम्भकाले घटाभावप्रमित्यनुदयात्।
यदि अभावप्रमां प्रति अनुपलब्धिः न कारणम् तर्हि प्रतियोगिनो
घटादेरुपलम्भकाले ऽपि घटाद्यभावप्रमायाः आपत्तिः अतः अनुपलब्धिः
अभावप्रमां प्रति कारणतया पृथक्प्रमाणमिति भाट्टाः। नैयायिकास्तु
अनुपलब्धिसहकृतेन्द्रियलिङ्गादिभिरेव
अभावविषयकप्रत्यक्षानुमित्यादेरुपपत्त्या अभावविषयकप्रमा न
प्रत्यक्षादिप्रमितिविलक्षणा, तथा तत्साधनमपि न
प्रत्यक्षादिप्रमाणविलक्षणम्, अपि तु अभावप्रमाजनकेन्द्रियादेः
अनुपलब्धिः सहकारि कारणमात्रमित्याशेरते। तर्कस्येत्यादि।
ऽव्याप्तिस्तर्काप्रतिहतिरवसानं विपर्यये।
अनिष्टाननुकूलत्वे
इति तर्काङ्गपञ्चकम्॥ऽ
इत्युक्तरीत्या तर्कस्य
पञ्च अङ्गानि अपेक्षितानि। व्याप्तिः आपादकस्य अग्न्यभावादेः आपाद्यस्य
धूमाभावादेश्च व्याप्यव्यापकभावः। तर्काप्रतिहतिः -
प्रतिकूलतर्काभावः। विपर्यये पर्यवसानम् - यदि वह्न्यभावः स्यात्
तर्हिं धूमाभावः स्यात् इत्यापादनस्य हि धूमसत्त्वाद्वह्निरेव युक्त
इत्येवरूपे तद्विपर्यये पर्यवसानं भवति। अनिष्टत्वम् - आपाद्यस्य
धूमाभावादेः अनिष्टत्वं प्रष्टुः। अननुकूलत्वं
प्रतिवादिपक्षसाधकत्वाभावः। तत्र विपर्यये पर्यवसानं परिष्कृत्याह
- आपादकाभावेति। आपादकः वह्न्यभावः तस्याभावः वह्न्यभावाभावः
वह्निरूपः तस्य साधकः य विपर्ययः आपाद्यस्य धूमाभावस्याभावः
धूमरूपः तस्य प्रतियोगी धूमाभावः आपाद्यः यस्य तर्कस्य तत्त्वं
विपर्यये पर्यवसानमित्यर्थः। प्रकृते ऽयद्यत्र घटः स्यात् तर्हि
भूतलमिव घटो ऽद्रक्ष्यतऽ इत्याकारके तर्के आपादको घटः
तस्याभावः घटाभावः तस्य साधको विपर्ययः दर्शनाभावः तस्य
प्रतियोगि दर्शनमेव आपाद्यमिति
आपादकाभावसाधकविपर्यंयप्रतियोग्यापाद्यकत्वं तर्कस्य। तथा च
यस्मिंस्तर्के आपादकाभावसाधकाभावप्रतियोगि आपाद्यं भवति
तादृशस्थले आपाद्याभावेन हेतुना आपादकाभावे एव पर्यवसानं
भवति इति दर्शनाभावात्
नास्तीत्यनेन
दर्शितम्। दर्शनाभावादित्यस्य घटदर्शनाभावादित्यर्थः, नास्तीत्यस्य
घटाभाव इत्यर्थः। केवलानुपलब्धेः अभावप्रत्यक्षकारणत्वे
आलोकसंयोगाद्यसत्त्वदशायां घटानुपलब्धेः सत्त्वेन
घटाभावप्रत्यक्षापत्तिः। अतः योग्यताविशिष्टानुपलब्धेः कारणत्वं
वक्तव्यम्। योग्यता च
तर्कितप्रतियोगिसत्त्वविरोध्युपलब्धिप्रतियोगिकत्वरूपा।
तद्घटकतर्कस्य विपर्यये पर्यवसानं ऽयद्यत्रऽ इत्यादिग्रन्थेन
प्रदर्शितमिति भावः। तर्कितेत्यादिमुलं व्याचष्टेतर्किता आपादिता
इत्यादिना। यथाश्रुते प्रतियोगिसत्त्वस्य
प्रतियोग्युपलब्धिः
विरोधिनीति प्रतीयते। तदसङ्गतम् - घटोपलब्धेः
घटसत्त्वविरोधित्वाभावात्। अतः सत्त्वस्य सत्त्वप्रसक्तेरिति
व्याख्यातम्। घटसत्त्वारोपरूपप्रसक्तेः घटोपलब्धि विरोधिनी। न हि
घटे उपलभ्यमाने ऽयद्यत्र घटः स्यात्ऽ इति घटसत्तां कश्चित्
प्रसञ्जयेदिति भावः। अनाहार्यत्वसूचनायेति। अनाहार्यज्ञानस्यैव
विरोधित्वादिति भावः। सत्त्वस्य सत्त्वप्रसक्तेरिति व्याख्याने ऽपि
आपादितत्वरूपं तर्कितत्वं प्रतियोगिसत्त्वस्यैव न तु तत्प्रसक्तेः। किं
च यत्र आपादकं आपाद्यं उभयमपि प्रसज्यते तत्रैव विपर्यये
पर्यवसानं दृश्यते। मूलात्तु प्रतियोगिसत्त्वरूपापादकस्यैव
प्रसञ्जितत्वं लभ्यते, न त्वापाद्याया उपलब्धेः। अतः तात्पर्यार्थमाह -
प्रतियोगिसत्तापादनेति। प्रतियोगिनः घटादेः सत्त्वस्य आपादनेन
प्रसञ्जनेन ऽयद्यत्र घटः स्यात्ऽ इत्येवंरूपेण आपादितः प्रसञ्जितः
यः उपलम्भः ऽतर्ह्युपलभ्येतऽ इत्येवंरूपप्रसञ्जनविषयः उपलम्भः स
प्रतियोगी यस्या अनुपलब्धेः तत्कत्वरूपयोग्यताविशिष्टा
अनुपलब्धिरित्यर्थः। योग्यताविशेषणप्रयोजनमाह -
आलोकसंयोगेति। आपादनासम्भवेनेति। तथा च
प्रतियोगिसत्त्वप्रसञ्जनप्रसञ्जितप्रतियोगिकत्वरूपयोग्यताविरहात्
अनुपलब्धेः योग्यानुपलब्धिस्तत्र नास्ति। अतो न घटाभावप्रत्यक्षमिति
भावः। ननु यत्र प्रतियोगिसत्त्वस्य उपलब्धेश्चापादानं विनैव
भूतचलक्षुस्संयोगानन्तरं घटो नास्तीति प्रत्यक्षं
तत्रापादनघटितयोग्यताविरहात् तत्प्रत्यक्षानुपपत्तिरित्याशङ्क्याह
- संक्षेप इति। प्रतियोगिसत्तापादनापादितत्वं च
प्रतियोगिसत्तापादककापत्तियोग्यत्वम्। अतो नानुपपत्तिरिति भावः।
अत एवान्धकार इति।
अन्धकारे यो घटोपलम्भाभावः स न घटसत्त्वाभावप्रयोज्यः अपि तु
आलोकसंयोगरूपकारणान्तराभावप्रयोज्यः। तथा च
प्रतियोगिसत्त्वाभावप्रयोज्योपलब्ध्यभावरूपायाः योग्यानुपलब्धेः
तत्राभावात् न घटाभावप्रत्यक्षमिति भावः।
धूमत्वादिरूपेत्यादि।
आदौ लक्षणशब्द स्वरूपबोधकः। द्वितीये तु विषयबोधकः। प्रथमपक्षे
धूमत्वाद्यविदुषो ऽपि स्वरूपसद्धूमत्वप्रत्यासत्त्या धूमा इत्येवं
यावद्धूमप्रत्यक्षापत्तिरित्यस्वारस्यात् द्वितीयपक्षानुधावनम्।
चाक्षुषोपनीतभावे इति। चाक्षुषं यत् स्मृतसौरभविषयकं
ज्ञानमित्यर्थः॥
इति
तर्कसङ्ग्रहदीपिकाप्रकाशिकाव्याख्यायां
बालप्रियायां
प्रत्यक्षपरिच्छेदः
अनुमानपरिच्छेदः
तर्कसङ्ग्रहः
अनुमानलक्षणम्
अन्त्स्_44 अनुमितिकरणम् अनुमानम् । परामर्शजन्यं ज्ञानम् अनुमितिः । व्याप्तिविशिष्टपक्षधर्मताज्ञानं परामर्शः । यथा वह्निव्याप्यधूमवान् अयं पर्वत इति ज्ञानं परामर्शः । तज् जन्यं पर्वतो वह्निमान् इति ज्ञानम् अनुमितिः । यत्र यत्र धूमस् तत्राग्निर् इति साहचर्यनियमो व्याप्तिः । व्याप्यस्य पर्वतादिवृत्तित्वं पक्षधर्मता ॥
अनुमितिकरणम्
अनुमानम्।
दीपिका
अनुमानं लक्षयति -
अनुमितिकरणमिति।
प्रकाशिका
अनुमानं
लक्षयतीति। प्रत्यक्षोपजीवकसङ्गत्या अनुमानं निरूपयतीत्यर्थः।
बालप्रिया
प्रत्यक्षोपजीवकसङ्गत्येति। प्रत्यक्षकार्यत्वरूपया सङ्गत्या
इत्यर्थः। इन्द्रियेण महानसादौ व्याप्तिप्रत्यक्षादेव अनुमानं
भवति। व्याप्तिस्मरणरूपानुमानं प्रति व्याप्तिप्रत्यक्षस्य अनुभवविधया
कारणत्वात्। तथा च कार्यकारणभावरूपसङ्गत्या
प्रत्यक्षानन्तरमनुमाननिरूपणमिति भावः। अनेन प्रमाणयो
कार्यकारणभाव उक्तः। अनुमित्यात्मकप्रमितेः।
परामर्शात्मकमानसप्रत्यक्षकार्यत्वात् प्रमित्योः कार्यकारणभावः
ज्ञेयः।
॥।
तर्कसङ्ग्रहः
अनुमितिलक्षणम्
परामर्शजन्यं
ज्ञानं अनुमितिः।
दीपिका
अनुमितिं लक्षयति - परामेर्शेति। ननु
संशयोत्तरप्रत्यक्षे अतिव्याप्तिः स्थाणुपुरुषसंशयानन्तरं
ऽपुरुषत्वव्याप्यकरादिमान् अयम्ऽ इति परामर्शे सति ऽपुरुष एवऽ
इति प्रत्यक्षजननात्। न च तत्रानुमितिरेव इति वाच्यम्।
ऽपुरुषं साक्षात्करोमिऽ इत्यनुव्यवसायविरोधादिति चेत्,
न-पक्षतासहकृतपरामर्शजन्यत्वस्य विवक्षितत्वात्।
प्रकाशिका
परामर्शेतीति।
तथा च प्रत्यक्षप्रमित्यपेक्षया अनुमितेः विलक्षणप्रमात्वात् अनुमानस्य
प्रमाणान्तरत्वं सिध्यतीति भावः। विपरीतज्ञानोत्तरप्रत्यक्षं प्रति
विशेषदर्शनस्य हेतुत्वमङ्गीकुर्वतां मतमवलम्ब्य शङ्कते -
नन्विति। स्थाणुपुरुषसंशयेति। इदं
विरुद्धभावद्वयकोटिकसंशयाङ्गीकारेण। परे तु - स्थाणुपुरुषेति।
स्थाणुत्वतदभावपुरुषत्वतदभावकोटिकेत्यर्थः - इत्याहुः। पुरुष
ऐवति निर्णयसूचनाय। तत्र - संशयोत्तरप्रत्यक्षस्थले।
अनुव्यवसायविरोधादिति। इदमुपलक्षणम् - ऽपुरुषं अनुमिनोमिऽ
इत्यनुव्यवसायाभावेन प्रमाणाभावादित्यपि द्रष्टव्यम्।
संशयोत्तरप्रत्यक्षे
जननीये पक्षतायाः परामर्शसहकारित्वे प्रयोजनाभावेन
पक्षतासहकृतपरामर्शजन्यत्वविवक्षणात् नातिव्याप्तिः इत्याह -
पक्षतेति। ऐतेन ऽवह्निव्याप्यधूमवत्पर्वतवानयं देशःऽ इति
विशिष्टवैशिष्ट्यावगाहिबुद्धिं प्रति
विशेषणतावच्छेदकप्रकारकनिर्णयविधया ऽवह्निव्याप्यधूमवान्
पर्वतःऽ इति परामर्शस्य कारणत्वे ऽपि न तत्रातिव्याप्तिः।
पक्षतासहकृतपरामर्शजन्यत्वस्य असत्त्वेन अतिव्याप्तेरभावात् इति
सङ्क्षेपः।
बालप्रिया
विलक्षणप्रमात्वादिति। प्रत्यक्षप्रमितेः यत् करणं इन्द्रियं
तदपेक्षया विलक्षणेन परामर्शात्मकेन कारणेन जन्यत्वात्
अनुमितेर्विलक्षणप्रमात्वमिति भावः। प्रमाणान्तरत्वमिति।
प्रत्यक्षापेक्षया अतिरिक्तप्रमाणत्वमित्यर्थः। दीपिकायाम् नन्वित्यादिना
ग्रन्थेन यत्र दूरे ऊर्ध्वव्यक्तिदर्शनानन्तरं ऽस्थाणुर्वा पुरुषो वा
ऽ इति संशयः ततः ऽपुरुषत्वव्याप्यकरादिमान्ऽ इति
व्याप्यधर्मवत्ताज्ञानरूपः परामर्शः ततः ऽअयं पुरुषऽ इति प्रत्यक्षम्,
तस्मिन् प्रत्यक्षे
परामर्शजन्यत्वविशिष्टज्ञानत्वरूपस्यानुमितिलक्षणस्यातिव्याप्तिः
आशङ्किता। तदिदं न सङ्गच्छते। संशयरूपविपरीतज्ञानानन्तरं
ऽअयं पुरुषःऽ इति प्रत्यक्षस्यैव असंभवात्। तद्वत्ताबुद्धिं प्रति
तदभाववत्ताज्ञानस्य प्रतिबन्धकत्वादिति शङ्कायां सत्यपि
विपरीतज्ञाने यदि विशेषदर्शनं स्यात् तर्हि तस्य विशेषदर्शनस्य
प्रत्यक्षजनकत्वं भवतीति 1विशेषदर्शनस्येति।
व्याप्यधर्मदर्शनस्येत्यर्थः। प्रकृते ऽपुरुषत्वव्याप्यकरादिमान्
अयम्ऽ इति परामर्शो विवक्षितः।
भावद्वयकोटिकेति।
स्थाणुत्वपुरुषत्वाश्यं यत् भावरूपं धर्मद्वयं
तत्प्रकारकसंशयेत्यर्थः। स्थाणुत्वतदभावेति। स्थाणुत्वं तदभावः
पुरुषत्वं तदभावश्चेति चतुष्प्रकारकसंशयेत्यर्थः। ऽस्थाणुर्वा न
वा, पुरुषो वा न वाऽ इति संशयस्याकारः। 2द्विकोटिकसंशयद्वयं
वात्र विवक्षितम्। प्रमाणाभावादिति। तत्रानुमितिरेव जायत इत्यत्र
प्रमाणाभावादित्यर्थः। तथा च ऽअयं पुरुषःऽ इति
निश्चयस्यानुमितित्वे ऽपुरुषं साक्षात्करोमिऽ इति
साक्षात्कारत्वावगाही अनुव्यवसायो नोपपद्यते। अनुमितित्वावगाही
ऽपुरुषमनुमिनोमिऽ इति अनुव्यवसाय एव स्यात्। अतो
नानुमितित्वं तस्य निश्चयस्य, अपि तु प्रत्यक्षत्वमेवेति अलक्ष्ये तत्र
लक्षणसत्त्वात् अनुमितिलक्षणस्यातिव्याप्तिरिति भावः। दीपिकायां
पक्षतासहकृतेति। तथा च परामर्शजन्यत्वमात्रं नानुमितेर्लक्षणम्।
अपि तु पक्षतासहकृतो यः परामर्शः तज्जन्यत्वम्।
संशयोत्तरप्रत्यक्षे तु परामर्शस्य जनकत्वे ऽपि
1. अनेन
मतान्तरमप्यस्तीति दर्शितम्। तथा हि - संशयोत्तरप्रत्यक्षमात्रे
विशेषदर्शनं न हेतुः, अन्धकारे घटसंशयोत्तरप्रत्यक्षस्य
विशेषदर्शनं विनापि आलोकसमवधानमात्रेणैवोपपत्तेः। तथापि
यत्र विशेषादर्शनादिदोषाधीनः संशयः तदुत्तरप्रत्यक्षे तस्य
हेतुत्वम्। उक्तस्थले च व्यञ्जकाभावाधीनः संशय इति। अधिकं
तत्त्वचिन्तामणौ प्रामाण्योत्पत्तिवादे तद्व्याख्याने प्रकाशे च
द्रष्टव्यम्।
2. द्विकोटिकेति।
स्थाणुर्वा न वेत्याकारकः एकः संशयः, पुरुषो न वेत्याकारकः
अपरः संशय इति संशयद्वयमित्यर्थः।
पक्षतायाः
नोपयोगित्वम्, प्रमाणाभावात्; सिद्धिसत्त्वे ऽपि
धारावाहिकप्रत्यक्षोत्पत्त्या सिद्ध्यभावरूपायाः पक्षतायाः
प्रत्यक्षहेतुत्वासम्भवाच्च। तथा च
पक्षतासहकृतपरामर्शजनयत्वाभावात् नातिव्याप्तिरिति भावः।
तदाह प्रकाशिकायाम् संशयोत्तरप्रत्यक्षे जननीय इति।
प्रयोजनाभावेनेति। पक्षतायाः सहकारित्वानङ्गीकारे
अनुपपत्त्यभावेनेत्यर्थः। एतेनेति। वक्ष्यमाणहेतुना इत्यर्थः। यदि
परामर्शजन्यत्वमात्रम् अनुमितेर्लक्षणं स्यात् तदा
ऽवह्निव्याप्यधूमवत्पर्वतवानयं देशःऽ इत्याकारकं
वन्हिव्याप्यधूमविशिष्टपर्वतवैशिष्ट्यावगाहिप्रत्यक्षं प्रति
ऽवह्निव्याप्यधूमवानयं पर्वतःऽ इत्याकारकपरामर्शस्य
विशेषणतावच्छेदकीभूतः यः धूमः तत्प्रकारकनिश्चयत्वेन हेतुतया
तादृशविशिष्टवैशिष्ट्यावगाहिप्रत्यक्षे ऽपि परामर्शजन्यत्वरूपस्य
अनुमितिलक्षणस्य सत्त्वात् अतिव्याप्तिः प्रसक्ता। सापि
पक्षतासहकृतपरामर्शजन्यत्वस्य अनुमितिलक्षणतवात् वारयितुं
शक्यत इति भावः। तादृशप्रत्यक्षस्य 1पक्षताजन्यत्वाभावात्।
दीपिका
पक्षतालक्षणम्
सिषाधयिषाविरहविशिष्टसिद्ध्यभावः पक्षता। साध्यसिद्धिः
अनुमितिप्रतिबन्धिका। सिद्धिसत्त्वे ऽपि ऽअनुमिनुयाम्ऽ
इतीच्छायामनुमितिदर्शनात् सिषाधयिषा उत्तेजिका। ततश्च
उत्तजकाभावविशिष्टमण्यभावस्य
1. यद्यपि
ध्याप्यपक्षोभयवैशिष्ट्यावगाहिज्ञानत्वरूपं यत् परामर्शत्व
तदवच्छिन्नजनकतानिरूपितजन्यताशालिज्ञानत्वमनुमितेर्लक्षणमि त्यक्तावपि
उक्तविशिष्टवैशिष्ट्यावगाहिप्रत्यक्षे ऽतिव्याप्तिवारणं सम्भवति
तादृशबुद्धौ परामर्शस्य विशेषणतावच्छेदकप्रकारकनिर्णयत्वेनैव
हेतुत्वेन उक्तपरामर्शत्वेन हेतुत्वाभावात्। तथापि
संशयोत्तरप्रत्यक्षे व्याप्यपक्षवैशिष्ठ्यावगाहिज्ञानत्वेन
व्याप्यदर्शनजन्यत्वसत्त्वात् अतिव्याप्तेः
पक्षतासहकृतपरामर्शजन्यत्वविवक्षणनैव बारणीयता तेनैव
विशिष्टवैशिष्ट्यावगाहिप्रत्यक्षवारणसम्भवात्
उक्तपरामर्शत्वावच्छिन्नजनकता न निवेश्येति भावः।
दाहकारणत्ववत्
सिषाधयिषाविरहविशिष्टसिद्ध्यभावस्याप्यनुमितिकारणत्वम्।
यद्यपि साध्यसंशयस्य
पक्षतात्वे ऽपि साध्यनिश्चयकाले अनुमितिवारणं सम्भवति, तथापि
घनगर्जितेन मेघानुमितौ व्यभिचारः। अतः अन्यादृशीं पक्षतामाह -
सिषाधयिषेति। र्सिषाधयिषायाः साध्यानुमितीच्छायाः समवायेन यः
अभावः स्वरूपसमवायोभवघटितसामानाधिकरण्यसम्बन्धेन
तद्विशिष्टायाः सिद्धेः समवायेन अभाव इत्यर्थः। साध्यसिद्धिः -
पक्षतावच्छेदकविशिष्टे
साध्यतावच्छेदकविशिष्टसाध्यवैशिष्ट्यावगाहिनिश्चयः। सिद्धौ
सिषाधयिषाविरहवैशिष्ट्यनिवेशनस्य
प्रयोजनं दर्शयति -
सिद्धिसत्त्वे ऽपीति। अत्र सिद्धिश्च ऽपर्वतो वह्निमान्
वह्निव्याप्यधूमवांश्चऽ इति समूहालम्बनरूपा। अतः
परामर्शसम्पत्तिरिति ध्येयम्।
बालप्रिया
ऽसाध्यसंशयः
पक्षताऽ इति प्राचीनोक्त्युपेक्षायाः बीजमाह - यद्यपीत्यादिना।
साध्यनिश्चयरूपसिद्धिकाले ऽनुमितिवारणं हि पक्षतायाः
अनुमितिहेतुत्वाङ्गीकारस्य उद्देश्यम्। तत्तु साध्यसंशयस्य
पक्षतात्वे ऽपि निर्वहति। साध्यनिश्चयकाले साध्यसंशयरूपपक्षतायाः
अभावादेव नानुमितिः इत्येवंरीत्या अनुमितिवारणसम्भवात् तथा
च साध्यसंशय एव पक्षता अस्तु इति शङ्कितुर्भावः। तथापीति।
साध्यसंशयरूपपक्षतायाः नानुमितिहेतुत्वम्। विनापि साध्यसंशयं
घनगर्जनश्रवणेन 1मेघानुमित्तेः व्यतिरेकव्यभिचारादिति
समाधातुराशयः। व्यभिचार इति। कारणाभावे ऽपि कार्योत्पत्तिरूपो
व्यतिरेकव्यभिचारो ऽत्र
विवक्षितः।
अन्यादृशीमिति। साध्यसंशयादन्यविधामित्यर्थः।
--------------------------------------------------
1. अयं प्रदेशः
मेघवान् धनगर्जजवत्त्वादित्यनुमानमत्र विवक्षितम्।
--------------------------------------------------
दीपिकायाम्
सिषाधयिषाविरहविशिष्टेत्यादि। यत्र साध्यनिश्चयरूपा सिद्धिरस्ति
तत्रापि यदि ऽपक्षे साध्यं अनुमिनुयाम्ऽ इत्याकारा सिषाधयिषा
अस्ति तदानुमितिर्भवति। सिद्ध्यभावमात्रस्य पक्षतात्वे सा न स्यात्,
सिद्धेरेव
तत्र सत्त्वात्। अतस्तत्र
पक्षतासम्पत्तये सिषाधयिषाविरहविशिष्टेति सिद्धेर्विशेषणं दत्तम्।
उक्तस्थले सिषाधयिषायाः सत्त्वेन
सिषाधयिषाविरहरूपविशेषणाभावात्
सिषाधयिषाविरहविशिष्टसिद्ध्यभावस्याक्षततया पक्षता निर्वहति।
एवं च सिषाधयिषा उत्तेजिकेति फलितम्। उत्तेजकत्वं च
प्रतिबन्धकसमवधानकालीनकार्योत्पादकप्रयोजक्त्वम्।
सिद्धिरूपप्रतिबन्धकसत्ताकाले ऽपि सिषाधयिषायाः
अनुमितिरूपकार्योत्पादप्रयोजकत्वात् उत्तेजकत्वम्, यथा
मणिरूपप्रतिबन्धकाले दाहोत्पत्तिप्रयोजकत्वात् उत्तेजकत्वम्, यथा
मणिरूपप्रतिबन्धकाले दाहोत्पत्तिप्रयोजकत्वात्
मन्त्रादेरुत्तेजकत्वम्। उत्तेजकाभावविशिष्टप्रतिबन्धकाभावस्य
कार्योत्पत्तिं प्रति हेतुत्वात्।
सिषाधयिषाविरहविशिष्टसिद्ध्यभावस्य अनुमितिहेतुत्वमिति
भावः। सिषाधयिषा नाम साध्यानुमितिविषयकेच्छा।
सिषाधयिषाविरहः
सिषाधयिषानिष्ठप्रतियोगितानिरूपको ऽभावः। तत्र प्रतियोगितायां
समवायसम्बन्धावच्छिन्नत्वं निवेशनीयम्। अन्यथा यत्र सिद्धिः
सिषाधयिषा चास्ति तत्र सिषाधयिषायाः संयोगसम्बन्धेनाभावात्
सिषाधयिषानिष्ठसंयोगसम्बन्धावच्छिन्नप्रतियोगिताकाभावविशिष्टसिद्धेदेव
सत्त्वेन तदभावरूपपक्षता न स्यात्। तन्निवेशे च तत्र
समवायसम्बन्धेन सिषाधयिषायाः सत्त्वेन
तत्सम्बन्धावच्छिन्नसिषाधयिषानिष्ठप्रतियोगिताकाभावरूपविशेषणाभावात्
विशिष्टाभावरूपा पक्षता निर्वहतीति। एवं
सिषाधयिषाविरहवैशिष्ट्यं ससिद्धौ सामानाधिकरण्यसम्बनधेन।
अन्यथा स्वरूपसम्बन्धेन सिषाधयिषाविरहवैशिष्ट्यनिवेशे
सिषाधयिषासत्त्वे ऽपि सिद्धौ सिषाधयिषाभावस्य स्वरूपसम्बन्धेन
सत्त्वात् सिषाधयिषाविरहविशिष्टसद्धेरेव सत्त्वेन
तदभावरूपपक्षतायाः अनुपपत्तिः अतः सामानाधि करण्यसम्बन्धेन
वैशिष्ट्यं निवेशनीयम्। सामानाधिकरण्यं च स्वाधिकरणवृत्तित्वम्।
स्वाधिकरणत्वं स्वरूपसंबन्धेन, स्वाधिकरणनिरूपितवृत्तित्वं
समवायसम्बन्धेन। तथा च
स्वनिष्ठस्वरूपसम्बन्धावच्छिन्नाधेयतानिरूपिताधिकरणतावन्निरूपितसमवायसम्बन्धावच्छिन्नाधेयतासम्बन्धेन
सिषाधयिषाविरहविशिष्टा या सिद्धिः तदभावः पक्षता। स्वं -
सिषाधयिषाविरह तस्य स्वरूपसंबन्धेन अधिकरणम् आत्मा तत्र
समवायसम्बनधेन वृत्तिमती य सिद्धिः तदभाव इति यावत्। तत्र
स्वरूपसम्बन्धानिवेशे सिषाधयिषाकाले ऽपि
एकज्ञानविषयत्वसम्बनधेन सिषाधयिषाविरहाधिकरणे आत्मनि
समवायेन वृत्तित्वं सिद्धेरस्तीति तादृशवृत्तित्वसम्बनधेन
सिषाधयिषाविरहविशिष्टसिद्धेरेव सत्त्वेन पक्षता नोपपद्येत।
स्वरूपसम्बन्धनिवेशे तु तेन सिषाधयिषाभावाधिकरणं
सिषाधयिषावानात्मा न भवति, अपि तु अन्य आत्मा तद्वृत्तित्वं
एतदात्मगतसिद्धेर्नास्तीति
तादृशवृत्तित्वरूपसामानाधिकरण्यसम्बन्धेन
सिषाधयिषाविरहविशिष्टायाः सिद्धेरभावस्य सत्त्वात् न
पक्षतानुपपत्तिः। एवं वृत्तित्वे समवायसम्बनधावच्छिन्नत्वानिवेशे
सिषाधयिषाविरहाधिकरणे आत्मनि सिद्धेः समवायेन सत्त्वे ऽपि
संयोगादिसम्बन्धेनासत्त्वात्
समवायातिरिक्तसम्बन्धावच्छिन्नवृत्तित्वरूपसामानाधिकरण्यं
सिद्धेर्नास्तीति विशिष्टाभावरूपा
पक्षता प्रसज्येत। अतः
समवायसम्बन्धावच्छिन्नत्वस्य सामानाधिकरण्यघटकवृत्तित्वे निवेशः।
एवं सिद्ध्यभावः सिद्धिनिष्ठप्रतियोगितानिरूपको ऽभावः। तत्र
प्रतियोगितायां समवायसम्बन्धावच्छिन्नत्वं निवेश्यम्। अन्यथा
सिद्धिकाले ऽपि सम्बन्धान्तरावच्छिन्नसिद्ध्यभावमादाय पक्षता
प्रसज्येत। तदेतत्सर्वमभिसन्धायाह - प्रकाशिकायाम् -
सिषाधयिषायाः सादध्यानुमितीच्छाया इत्यादि।
स्वरूपसमवाययोभयघटितेति। सामानाधिकरण्यघटकाधिकरणतायां
स्वरूपसम्बन्धावच्छिन्नत्वं, वृत्तितायां समवायसम्बन्धावच्छिन्नत्वं च
निवेशनीयमिति भावः। सिंद्धेः समवायेनाभाव इति।
सिद्धिनिष्ठसमवायसम्बन्धावच्छिन्नप्रतियोगिताकाभाव इत्यर्थः।
पक्षतावच्छेदकविशिष्ट इत्यादि।
पक्षतावच्छेदकावच्छिन्नपक्षनिष्ठविशेष्यतानिरूपितसाध्यतावच्छेदकावच्छिन्नसाध्यनिष्ठप्रकारताशालिनिश्चय
इत्यर्थः। द्रव्यत्वेन पर्वतावगाहि ऽद्रव्यं वह्निमत्ऽ
इत्याकारकनिश्चयदशायां ऽपर्वतो वह्निमान्ऽ
इत्यनुमित्युत्पत्तेः ऽद्रव्यं वह्निमत्ऽ इत्याकारकनिश्चयस्य
ऽपर्वतो वह्निमान्ऽ इत्यनुमितिप्रतिबन्धकत्ववारणाय
पक्षनिष्ठविशेष्यतायां
पक्षतावच्छेदकावच्छिन्नत्वनिवेशः। एवं ऽपर्वतो द्रव्यवान्ऽ
इत्याकारकनिश्चयस्य तादृशानुमितिप्रतिबन्धकत्ववारणाय
प्रकारतायां साध्यतावच्छेदकावच्छिन्नत्वनिवेशः। एवं प्रकारतायां
साध्यतावच्छेदकसम्बन्धावच्छिन्नत्वमपि निवेशनीयम्। अन्यथा ऽपर्वतः
समवायेन वह्निमान्ऽ इति निश्चयस्यापि ऽपर्वतः संयोगेन
वह्निमान्ऽ
इत्यनुमितिप्रतिबन्धकत्वापत्तेः।
ननु सिद्धिकाले यदि
सिषाधयिषा वर्तते तदानीमपि अनुमितेः उपपादनार्थं हि सिद्धौ
सिषाधयिषाविरहविशिष्टेति विशेषणं दत्तम्। तच्च तदैव
सार्थकं भवति यदि सिद्धि-सिषाधयिषा-परामर्शानामेककाले
समवधानं स्यात्।
तच्च दुर्घटम्। तथा हि- यत्र प्रथमं सिद्धिः अनन्तरं सिषाधयिषा,
ततः परामर्शः, ततः अनुमितिः, तत्र परामर्शक्षणे सिद्धेर्नाशादेव
प्रतिबन्धकाभावात् अनुमित्युपपत्तेः व्यर्थं
सिषाषयिषाविरहविशिष्टत्वविशेषणम्। यत्र क्रमेण
सिषाधयिषा-सिद्धि-परामर्शाः तत्र परामर्शक्षणे सिषाधयिषायाः
नाशात् सिषाधयिषाविरहविशिष्टसिद्धेरेव सत्त्वात्
सिषाधयिषाविरहविशिष्टत्वनिवेशे ऽपि पक्षता न निर्वहति। यत्र तु
परामर्शंसिद्धिसिषाधयिषाः क्रमेण भवन्ति तत्र सिषाधयिषाक्षणे
परामर्शनाशात् परामर्शरूपकारणवैकल्यात् नानुमितिः।
ज्ञानयोर्वा ज्ञानेच्छयोर्वा एकक्षणोत्पत्तिकत्वं तु नाङ्गीक्रियते।
तथा च कथं सिषाधयिषाविरहविशिष्टत्वस्य
सार्थकत्वमित्याशङ्क्याह - अत्र सिद्धिश्चेत्यादिना। पक्षताघटकीभूता
सिद्धिश्च वह्निवह्निव्याप्यधूमोभयावगाहिनी समूहालम्बनरूपा
ऽपर्वतो वह्निमान् वह्निव्याप्यधूमवांश्चऽ इत्याकारिका
विवक्षिता। अयमेव साध्यनिश्चयरूपत्वात् साध्यव्याप्यनिश्चयरूपत्वाच्च
सिद्ध्यात्मकपरामर्श इति व्यवह्रियते। तथा च यत्र आदौ उक्ताकारः
सिद्ध्यात्मकपरामर्शः ततः सिषाधयिषा ततो ऽनुमितिः तत्र
द्वितीयक्षणे सिद्धेः सत्त्वात् सिद्ध्यभावमात्रस्य पक्षतात्वे पक्षता न
निर्वहति। अतः सिषाधयिषाविरहविशिष्टत्वं सिद्धेः विशेषणम्। तत्र
तु सिषाधयिषासत्त्वेन सिषाधयिषाविरहरूपविशेषणाभावात्
विशिष्टाभावरूपा पक्षता निर्वहतीत्येवं तद्विशेषणस्य
सार्थक्यमुपपादनीयमिति भावः। अतः परामर्शसम्पत्तिरिति।
अनुमित्यव्यवहितपूर्वक्षणे सिद्धिसिषाधयिषापरामर्शानां
मेलनमित्यर्थः।
॥।
तर्कसङ्ग्रहः
परामर्शलक्षणम्
व्याप्तिविशिष्टपक्षधर्मताज्ञानं परामर्शः। यथा
ऽवह्निव्याप्यधूमवान् अयं पर्वतःऽ इति ज्ञानं परामर्शः। तज्जन्यं
ऽपर्वतो वह्निमान्ऽ इति ज्ञानमनुमितिः।
दीपिका
परामर्शं लक्षयति -
व्याप्तीति। व्याप्तिविषयकं यत् पक्षधर्मताज्ञानं स परामर्श
इत्यर्थः। परामर्शमभिनीय दर्शयति - यथेति। अनुमितिमभिनीय
दर्शयति - तज्जन्यमिति। परामर्शजन्यमित्यर्थः।
प्रकाशिका
ऽव्याप्तिविशिष्टपक्षधर्मताज्ञानम्ऽ इत्यत्र व्याप्तिविशिष्टे
पक्षधर्मता व्याप्तिविशिष्टपक्षधर्मता तज्ज्ञानमिति
सप्तमीतत्पुरुषाङ्गीकारे व्यभिचारिलिङ्गकानुमितौ
व्याप्तिविशिष्टपक्षधर्मताज्ञानजन्यत्वाभावेन अव्याप्तिः; अतः
व्याप्तिविशिष्टपदस्य
व्याप्तिविषयकेत्यर्थमवलम्ब्य ज्ञानान्तपदेन
कर्मधारयमङ्गीकरोति - व्याप्तिविषयकमिति।
व्याप्त्यवच्छिन्न-प्रकारतानिरूपित -
पक्षतावच्छेदकावच्छिन्न-विशेष्यताशालिनिश्चयः परामर्श इति तु
निर्गलितार्थः। अभिनीय - अभिलापकशब्दमुच्चार्य।
बालप्रिया
व्याप्तिविशिष्टपक्षधर्मताज्ञानमित्यत्रेत्यादि। यत्र लिङ्गं
साध्यव्यभिचारि भवति तत्रापि व्याप्त्यशे भ्रमात्मकात्
ऽधूमव्याप्यवह्निमानयं पर्वतःऽ इति परामर्शात् ऽपर्वतो
धूमवान्ऽ इत्यनुमितिः जायते। यदि तु वस्तुतो व्याप्तिविशिष्टे
पक्षधर्मत्वावगाहि ज्ञानं परामर्शः तज्जन्यत्वं अनुमितेर्लक्षणमुच्येत
तर्हि उक्तपरामर्शस्य व्याप्तिविशिष्टे तदवगाहित्वाभावे
परामर्शत्वाभावात् तज्जन्यज्ञानस्य अनुमितित्वं न स्यात्। अतः
व्याप्तिविषयकं यत् पक्षधर्मत्वावगाहि ज्ञानं तत् परामर्शः।
उक्तभ्रमात्मकज्ञानस्य व्याप्तिविषयकत्वमक्षतमिति परामर्शरूपता, अत
एव तज्जन्यज्ञानस्य
परामर्शजन्यत्वरूपानुमितिलक्षणाक्रान्ततया अनुमितित्वमप्युपपद्यत
इति भावः।
ननु व्याप्तिविषयकं
पक्षसम्बन्धावगाहि च ज्ञानं परामर्श इति परामर्शलक्षणकथने ऽपि
ऽधूमो वह्निव्याप्यः धूमवांश्च पर्वतःऽ
इत्याकारकसमूहालम्बनज्ञानस्यापि व्याप्तिविषयकत्वात्
पक्षसम्बन्धविषयकत्वाच्च परामर्शत्वापत्तिरित्यत आह -
व्याप्त्यवच्छिन्नेति। व्याप्त्यवच्छिन्न या हेतुनिष्ठा प्रकारता
तन्निरूपिता या पक्षतावच्छेदकावच्छिन्ना पक्षनिष्ठा विशेष्यता
तन्निरूपको निश्चयः परामर्श इत्यर्थः। भवति च
ऽवह्निव्याप्यधूमवान् पर्वतऽ इति निश्चयः तादृशः।
पर्वतनिष्ठविशेष्यतानिरूपितायाः धूमनिष्ठायाः प्रकारतायाः
व्याप्त्यवच्छिन्नत्वात्। व्याप्त्यवच्छिन्नत्वं च
साध्यनिष्ठप्रकारतानिरूपितव्याप्तिनिष्ठप्रकारतानिरूपितत्वम्। तेन
ऽव्याप्यधूमवान् पर्वतःऽ इति ज्ञाने नातिव्याप्तिः। ऽधूमो
वह्निव्याप्यः धूमवांश्च पर्वतःऽ इति
समूहालम्बनज्ञानीयधूमनिष्ठप्रकारतायां
व्याप्तिनिष्ठप्रकारतानिरूपितत्वं नास्ति, धूमांशे व्याप्तेः
प्रकारतया अभानात्। अतो न तत्रातिव्याप्तिरिति भावः। तथा च
साध्यतावच्छेदकावच्छिन्नसाध्यनिष्ठप्रकारतानिरूपितव्याप्तिनिष्ठप्रकारतानिरूपितहेतुतावच्छेदकावच्छिन्न-
हेतुनिष्ठप्रकारतानिरूपितपक्षतावच्छेदकावच्छिन्नपक्षनिष्ठविशेष्यताशालिनिश्चयः
परामर्श इति निष्कर्षः। तेन ऽद्रव्यव्याप्यध्मवान् पर्वतःऽ,
ऽवह्निव्याप्यद्रव्यवान् पर्वतःऽ ऽवह्निव्याप्यधूमवद्द्रव्यम्ऽ
इत्यादिनिश्चयानां ऽपर्वतो वह्निमान्ऽ
इत्यनुमितिहेतुभूतपरामर्शत्वं न प्रसज्यत इत्यवधेयम्।
निर्गलितार्थ इति। निष्कृष्टार्थ इत्यर्थः।
अभिलापकशब्दमुच्चार्येति। आकारप्रदर्शकशब्दमुच्चार्येत्यर्थः।
कायिकचेष्टारूपस्याभिनयस्यात्रासम्भवात्।
॥
तर्कसङ्ग्रहः
व्याप्तिलक्षणम्
यत्र धूमः तत्र
अग्निः इति साहचर्यनियमः व्याप्तिः।
दीपिका
व्याप्तिलक्षणमाह -
यत्रेति। यत्र धूमस्तत्राग्निरिति व्याप्तेरभिनयः। साहचर्यनियमः
इति लक्षणम्। साहचर्यं सामानाधिङ्करण्यम्, तस्य नियमः।
हेतुसमानाधिकरणात्यन्ताभावाप्रतियोगिसाध्यसामानाधिकरण्यं
व्याप्तिरित्यर्थः।
प्रकाशिका
नियतसामानाधिकरण्यं साध्याभाववदवृत्तित्वादिरूपं न
सम्भवति; ऽइदं वाच्यम् ज्ञेयत्वात्ऽ इत्यादौ अव्याप्तेः।
साध्याभावाप्रसिद्धेरित्यालोच्याह - हेतुसमानाधिकरणेति।
ऽवह्निमान् धूमात्ऽ इत्यादौ धूमसमानाधिकरणे यो ऽत्यन्ताभावः
घटात्यन्ताभावः, तदप्रतियोगी वह्निः तत्सामानाधिकरण्यं धूमे
अस्तीति लक्षणसमन्वयः। ऽधूमवान् वह्नेःऽ इत्यादौ तु
धूमसामान्याभावस्यापि हेतुसमानाधिकरणतया तत्प्रतियोग्येव
धूम इति नातिव्याप्तिः। न च ऽवह्निमान् धूमात्ऽ इत्यादौ
तत्तद्वह्न्यभावस्य चालिनीन्यायेन धूमसमानाधिकरणतया
तादृशाभावाप्रतियोगित्वं न कस्यापि वह्नेरित्यतिव्याप्तिरिति
वाच्यम्, अप्रतियोगिसाध्येत्यस्य
प्रतियोगितानवच्छेदक-साध्यतावच्छेदकावच्छिन्नेत्यर्थतात्पर्यङ्कतयादोषात्।
प्रतियोगितायां साध्यतावच्छेदकसम्बन्धावच्छिन्नत्वं निवेशनीयम्।
तेन ऽवह्निमान् धूमात्ऽ इत्यादौ समवायेन
वह्नित्वावच्छिन्न-प्रतियोगिताकाभावस्य धूमसमानाधिकरणत्वे ऽपि न
क्षतिः। हेतुपदं हेतुतावच्छेदकावच्छिन्नपरम्। अतः ऽद्रव्यम्
विशिष्टसत्त्वात्ऽ इत्यादौ विशिष्टस्य शुद्धानतिरेकितया
हेत्वधिकरणगुणादिनिष्ठत्वे ऽपि द्रव्यत्वाभावस्य नाव्याप्तिः।
हेत्वधिकरणता
हेतुतावच्छेदकसम्बन्धावच्छिन्ना ग्राह्या। तेन ऽवह्निमान् धूमात्ऽ
इत्यादौ वह्निसामान्याभावस्य धूमसमवायिनिष्ठत्वे ऽपि
नाव्याप्तिः। न चैवमपि ऽकपिसंयोगी एवद्वृक्षत्वात्ऽ इत्यादौ
अव्याप्तिः, साध्यस्य
हेतुसमानाधिकरणात्यन्ताभावप्रतियोगितावच्छेदकावच्छिन्नत्वादिति
वाच्यम्। हेतुसमानाधिकरणात्यन्ताभावे प्रतियोगिवैयधिकरण्यस्य
निवेशनीयत्वात्। केवलान्वयिसाध्यके तादृशस्य घटाभावादेः
प्रसिद्धत्वात् नाव्याप्तिरिति। अधिकं अस्मदीय-मणिदीधितिव्याख्याया
बुद्धिकुशलैरनुसन्धेयम्।
बालप्रिया
साध्याभावाप्रसिद्धेरिति। साध्यस्य वाच्यत्वस्य केवलान्वयित्वेन
सर्वत्र विद्यमानतया तदभावस्याप्रसिद्धेः
साध्याभाववदवृत्तित्वरूप1व्याप्तलक्षणस्य
केवलान्वयिसाध्यकसद्धेतावव्याप्तिरित्यर्थः।
इत्यर्थतात्पर्यकतयादोषादिति। तथा च
हेत्वधिकरणवृत्त्यत्यन्ताभावप्रतियोगितानवच्छेदकसादध्यतावच्छेदका-
वच्छिन्नसाध्यसामानाधिकरण्यं व्याप्तिः। ऽपर्वतो वह्निमान्
धूमात्ऽ इत्यादौ हेतुः धूमः, तदधिकरणं पर्वतः,
तद्वृत्तिर्यो ऽत्यन्ताभावः
घटाद्यभाव महानसीयवह्न्यभावश्च तत्प्रतियोगितावच्छेदकं
घटत्व-महानसीयवह्नित्वादिकम्। तत्प्रतियोगितानवच्छेदकं
वह्नित्वरूपं साध्यतावच्छेदकम्, तदवच्छिन्न-वह्निसामानाधिकरण्यस्य
तादृशवह्न्यधिकरणपर्वतादिवृत्तित्वरूपस्य धूमे सत्त्वात्
लक्षणसमन्वयः। पर्वतो धूमवान् वह्नेः इत्यादौ हेतुः वह्निः
तदधिकरणम् अयोगालकम् तद्वृत्तिर्यो ऽत्यन्ताभावः धूमाभावः
तत्प्रतियोगितावच्छेदकमेव धूमत्वरूपं
1. व्याप्तेः स्वरूपं
व्याप्तस्य लक्षणमिति भावः।
साध्यतावच्छेदकमिति
साध्यतावच्छेदके
हेतुसमानाधिकरणात्यन्ताभावप्रतियोगितानवच्छेदकत्वाभावात्
नातिव्याप्तिरिति भावः। प्रतियोगितायां
साध्यतावच्छेदकसम्बन्धावच्छिन्नत्वं निवेशनीयमित्यादि। ऽपर्वन्तो
वह्निमान् धूमात्ऽ इत्यत्र धूताधिकरणे पर्वते वर्तते
यो ऽत्यन्ताभावः समवायेन वह्निर्नास्तीत्याकारकप्रतीतिसिद्धः
समवायसम्बन्धावच्छिन्नवह्नित्वावच्छिन्नप्रतियोगिताको ऽभावः।
तत्प्रतियोगितायां अवच्छेदकमेव वह्नित्वं इत्यव्याप्तिः स्यात्।
तद्वारणाय हेत्वधिकरणवृत्त्यभावीयप्रतियोगितायां
साध्यतावच्छेदकसम्बन्धावच्छिन्नत्वं निवेशनीयम्। निवेशे च
हेत्वधिकरणवृत्त्यभाव इत्यनेन यस्याभावस्योपादाने
तदीयप्रतियोगितायाः साध्यतावच्छेदकसंयोगसम्बन्धावच्छिन्नत्वं
भवेत् स एवोपादेयः इति संयोगसम्बन्धेन घटाद्यभाव एव
तादृशः, न तु समवायेन वह्न्यभावः तदीयप्रतियोगितायाः
संयोगसम्बन्धावच्छिन्नत्वासम्भवात्। तथा च
हेत्वधिकरणवृत्तिघटाद्यभावीयसंयोगसम्बन्धावच्छिन्नप्रतियोगितायामवच्छेदकं
घटत्वादि अनवच्छेदकं च वह्नित्वं भवतीति नाव्याप्तिरिति भावः। न
क्षतिरिति। नाव्याप्तिरित्यर्थः। तथा च
हेत्वधिकरणवृत्त्यत्यन्ताभावनिरूपितसाध्यतावच्छेदकसम्बन्धावच्छि न्नप्रतियोगितानवच्छेदक
- साध्यतावच्छेदकावच्छिन्नसाध्यसामानाधि - करण्यं
व्याप्तिरित्येतावता फलितम्। हेतुपदं
हेतुतावच्छेदकावच्छिन्नपरमित्यादि। ऽघटो द्रव्यम्
गुणकर्मान्यत्वविशिष्टसत्त्वात्ऽ इत्यत्र सद्धेतौ हेतुः शुद्धसत्तापि
विशिष्टशुद्धयोरनतिरेकात्। हेतोरदधिकरणं गुणकर्मणी अपि;
तत्र वर्तते यो ऽत्यन्ताभावः द्रव्यत्वाभावो ऽपि
तत्प्रतियोगितावच्छेदकमेव द्रव्यत्वत्वमिति साध्यतावच्छेदके
द्रव्यत्वत्वे प्रतियोगितानवच्छेदकत्वाभावात् अव्याप्तिः। तद्वारणाय
हेतुतावच्छेदकावच्छिन्नहेत्वधिकरणत्वं निवेशनीयम्। गुणे
कर्मणि व सत्तात्वावच्छिन्नसत्ताधिकरणत्वसद्भावे ऽपि
हेतुतावच्छेदकं यत् गुणकर्मान्यत्वविशिष्टसत्तात्वं
तदवच्छिन्नाधिकरणत्वं न सम्बभवति। गुणः कर्म च
गुणकर्मान्यत्वविशिष्टसत्तावदिति प्रतीत्यभावात्। अतः
गुणकर्मान्यत्वविशिष्टसत्तात्वावच्छिन्नाधिकरणं द्रव्यमेव
तद्वृत्तिर्यो ऽभावः न द्रव्यत्वाभावः अति तु गुणत्वाद्यभावः
तत्प्रतियोगितावच्छेदकं गुणत्वत्वादि अननवच्छेदकं द्रव्यत्वत्वमिति
नाव्याप्तिरिति भावः। तथा च
1हेतुतावच्छेदकावच्छिन्नहेत्वधिकरणवृत्त्यत्यन्ताभावनिरूपित-साध्यतावच्छेदकसम्बन्धावच्छिन्नप्रतियोगितानवच्छेदक-
सादध्यतावच्छेदकावच्छिन्नसाध्यसामानाधिकरण्यं व्याप्तिः।
हेत्वधिकरणता
हेतुतावच्छदेदकसम्बन्धावच्छिन्ना ग्राह्येति। ऽवह्निमान् धूमात्ऽ
इत्यादौ हेतोः धूमस्य समवायसम्बन्धेनाधिकरणं धूमावयवः
तद्वृत्तिर्यो ऽत्यन्ताभावः संयोगेन वह्न्यभावः
तत्प्रतियोगितावच्छेदकमेव साध्यतावच्छेदकं वह्नित्वमित्यव्याप्तिः।
तद्वारणाय हेतुनिष्ठाधेयतायां हेतुतावच्छेदकसम्बन्धावच्छिन्नत्वं
निवेशनीयम्। प्रकृते
च
हेतुतावच्छेदकसम्बन्धः संयोगः
तदवच्छिन्नधूमनिष्ठाधेयतानिरूपिताधिकरणतवान् धूमावयवो न
भवति,
समवायसम्बन्धावच्छिन्नधूमनिष्ठाधेयतानिरूपिताधिकरणताया 2एव
तत्र सत्त्वात्। अपि तु पर्वतादिरेव
तन्निष्ठो ऽभावः न
वह्न्यभावः अपि तु घटाद्यभावः तत्प्रतियोगितवच्छेदकं वह्नित्वं
भवतीति नाव्याप्तिरिति भावः। वह्निसामान्याभावस्य -
वह्नित्वावच्छिन्नप्रतियोगिताकाभावस्य। धूसमवायिनिष्ठत्वे ऽपि -
समवायसम्बन्धेय धूताधिकरणधूमावयववृत्तित्वे ऽपि। तथा च
हेतुतावच्छेदकधर्मावच्छिन्नहेतुतावच्छेदकसम्बन्धावच्छिन्नहेतुनिष्ठाधेयता-
धेयतानिरूपिताधिकरणतावन्निष्ठात्यन्ताभावनिरूपितसाध्यतावच्छेदकसम्बन्धावच्छिन्नप्रतियोगितानवच्छेदकसाध्य-
तावच्छेदकावच्छिन्नसाध्यसामानाधिकरण्यं व्याप्तिः।
1.
हेतुतावच्छेदकावच्छिन्नहेत्वधिकरणेत्यस्य
हेतुतावच्छेदकावच्छिन्नहेतुनिष्ठाधेयतानिरूपिताधिकरणतावदित्यर्थः।
2. एवकारेण
संयोगसम्बन्धावच्छिन्नधूतनिष्ठाधेयतानिरूपिताधिकरणता
ध्यवच्छिद्यते।
न चैवमपीत। ऽअयं
वृक्षः कपिसंयोगी एतद्वृक्षत्वात्ऽ इत्यत्र हेतुः एतद्वृक्षत्वं
तदघिकरणमेतद्वृक्षः तत्र वर्तते यो ऽभावः कपिसंयोगाभावो ऽपि,
तद्वृक्षे अग्रभागावच्छेदेन कपिसंयोगस्य सत्त्वे ऽपि
मूलभागावच्छेदेन कपिसंयोगस्याभावात्। तथा च
हेत्वधिकरणवृत्तेः कपिसंयोगाभावस्य प्रतियोगितावच्छेदकमेव
कपिसंयोगत्वरूपं साध्यतावच्छेदकमित्यव्याप्तिरिति भावः।
प्रतियोगिवैयधिकरण्यस्य निवेशनीयत्वादिति। तथा च वृक्षवृत्तिः
कपिसंयोगाभावः प्रतियोगिनः कपिसंयोगस्याधिकरणे वृक्षे
वर्तमानतया प्रतियोगिसमानाधिकरणो न प्रतियोगिव्यधिकरणः।
घटाद्यभाव एव 1तादृशः तत्प्रतियोगितानवच्छेदकं कपिसंयोगत्वं
भवतीति नाव्याप्तिरिति भावः। साध्याभाववदवृत्तित्वस्य व्याप्तित्वे
ऽइदं वाच्यं ज्ञेयत्वात्ऽ इत्यत्रोक्ता अव्याप्तिः,
प्रकृतसिद्धान्तव्याप्तिलक्षणे न प्रसजतीत्याह - केवलान्वयिसाध्यक
इति। तथा च हेतोः ज्ञेयत्वस्याधिकरणं भूतलादिः
तद्वृत्तिर्यो ऽभावः घटाद्यभावः तत्प्रतियोगितावच्छेदकं घटत्वादि
अनवच्छेदकं वाच्यत्वत्वरूपं साध्यतावच्छेदकं
तदवच्छिन्नवाच्यत्वरूपसाध्यसामानाधिकरण्यं ज्ञेयत्वे ऽस्तीति
नाव्याप्तिरिति भावः।
एवं
प्रतियोगिव्यधिकरणत्वं प्रतियोग्यनधिकरणवृत्तित्वम्, न तु
प्रतियोग्यधिकरणावृत्तित्वम्, ऽसंयोगी सत्त्वादित्ऽ
इत्यत्रातिव्याप्त्यापत्तेः2
1. तादृश इति।
प्रतियोगिव्यधिकरण इत्यर्थः।
2.
अतिव्याप्त्यापत्तेरिति। संयोगाभाववति गुणादौ सत्तायाः सत्त्वात्
अयं हेतुर्व्यभिचारी। अत्र हेत्वधिकरणं सत्ताधिकरणं गुणादि
तन्निष्ठो यो ऽभावः संयोगाभावः तत्प्रतियोगितावच्छेदकमेव
संयोगत्वरूपं साध्यतावच्छेदकमित्यतिव्याप्तिर्वारणीया। दि तु
प्रतियोगिव्यधिकरणत्वं प्रतियोग्यधिकरणावृत्तित्वं तदा
संयोगाभावस्याव्याप्यवृत्तित्वेन संयोगाधिकरणे द्रव्ये
वर्तमानतया प्रतियोग्यधिकरणावृत्तिः संयोगाभावो न भवति, अपि
तु घटाद्यभाव एव, तत्प्रतियोगितानवच्छेदकत्वं
संयोगत्वे ऽरतीत्यतिव्याप्तिः प्रसज्यते। प्रतियोगिव्यधिकरणत्वं
प्रतियोग्यनधिकरणवृत्तित्वमित्युक्तौ तु संयोगाभावस्यापि
संयोगानधिकरणगुणवृत्तित्वेन लक्षणघटकतया
तत्प्रतियोगितावच्छेदकत्वमेव संयोगत्वे ऽस्तीति नातिव्याप्तिरिति
भावः।
1प्रतियोग्यनधिकरणींभूतहेत्वधिकरणवृत्त्यत्यन्ताभावेत्यादिलक्षणं
विवक्षितम्। प्रतियोग्यनधिकरणत्वं च
प्रतियोगितावच्छेदकावच्छिन्नानधिकरणत्वम्। यथाश्रुते ऽघटः
गुणकर्मान्यत्वविशिष्टसत्तावान् जातेःऽ इत्यत्रातिव्याप्तेः।
गुणकर्मान्यत्वविशिष्टसत्ताभाववति गुणे कर्मणि च जातिसत्त्वात्
अयं व्यभिचारी हेतुः। अत्र जातेरधिकरणे गुणे वर्तमानस्य
गुणकर्मान्यत्वविशिष्टसत्ताभावस्य
प्रतियोगिशुद्धसत्ताधिकरणहेत्वधिकरणगुणवृत्तितया
प्रतियोग्यनधिकरणहेत्वधिकरणवृत्तित्वाभावात् तादृशमभावान्तरं
घटाद्यभावमादाय तत्प्रतियोगितानवच्छेदकत्वस्य विशिष्टसत्तात्वे
सत्त्वात् अतिव्याप्तिः प्रसजति। प्रतियोगितावच्छेदकावच्छिन्नेति
निवेशे तु
विशिष्टसत्तात्वरूपप्रतियोगितावच्छेदकाविच्छिन्नानधिकरणं
गुणः तद्वृत्तितया विशिष्टसत्ताभावो ऽपि लक्षणघटकः,
तत्प्रतियोगितावच्छेदकमेव साध्यतावच्छेदकम् विशिष्टसत्तात्वमिति
नातिव्याप्तिः। एवं प्रतियोगितावच्छेदकसम्बन्धेन
प्रतियोग्यनधिकरणमित्यपि वक्तव्यम्। अन्यथा ऽआत्मा ज्ञानवान्
द्रव्यत्वात्ऽ इत्यत्रातिव्याप्तेः। ज्ञानाभाववति घटादौ
द्रव्यत्वसत्त्वात् अयं
व्यभिचारी। अत्र हेतोः द्रव्यत्वस्याधिकरणं घटादि तन्निष्ठः अभावः
ज्ञानाभावः, यद्यपि, तथापि स
प्रतियोग्यनधिकरणहेत्वधिकरणवृत्तिर्न भवति
ज्ञानाभावप्रतियोगिनः ज्ञानस्य विषयतासम्बन्धेनाधिकरणमेव
1. ननु
प्रतियोगिव्यधिकरणत्वं प्रतियोग्यनधिकरणवृत्तिवमिति
विवक्षायामपि सद्धेतौ ऽकपिसंयोगी एतद्वृक्षत्वात्ऽ,
इत्यादावव्याप्तिः।
ऽकपिसंयोगाभावो ह्यव्याप्यवृत्तित्वात् हेतोरधिकरणे वृक्षे
वर्तते, तथा प्रतियोगिनः कपिसंयोगस्यानधिकरणे गुणे च वर्तत
इति प्रतियोगिव्यधिकरणः हेत्वधिकरणवृत्तिश्च यो ऽभावः
कपिसंयोगाभावः तत्प्रतियोगितावच्छेदकत्वमेव साध्यतावच्छेदके
कपिसंयोगत्वे ऽस्तीति। अतो निष्कृष्टार्थमाह - प्रतियोग्यनधिकरणी
भूतेति। प्रतियोगिव्यधिकरणहेत्वधिकरणवृत्तीत्यन्तस्य
प्रतियोग्यनधिकरणीभूतहेत्वधिकरणवृत्तीत्यर्थः। संयोगी
सत्त्वादित्यत्र प्रतियोगिनः संयोगस्यानधिकरणं हेतोः
सत्तायाश्चाधिकरणं गुणः तद्वृत्तिर्यो ऽभावः संयोगाभावः
तत्प्रतियोगितावच्छेदकमेव संयोगत्वमिति नातिव्याप्तिः।
कपिसंयोगी एतद्वृक्षत्वात् इत्यत्र हेतोः अधिकरणं वृक्षः
प्रतियोगिनः संयोगस्याधिकरणमेव भवति इति
प्रतियोग्यनधिकरणहेत्वधिकरणवृत्तिरभावः न कपिसंयोगाभावः
अपि तु घटाद्यभावः तत्प्रतियोगितानवच्छेदकत्वं
कपिसंयोगत्वे ऽस्तीति नाव्याप्तिरिति भावः।
घटादिरिति। अतः
प्रतियोग्यनधिकरणहेत्वधिकरणवृत्तिरभावः पटाद्यभाव एव
तत्प्रतियोगितानवच्छेदकत्वं साध्यतावच्छेदके
ज्ञानत्वे ऽस्तीत्यतिव्याप्तिः प्रसज्यते।
प्रतियोगितावच्छेदकसम्बन्धनिवेशे तु
समवायसम्बन्धावच्छिन्नज्ञानाभावस्यैव हेत्वधिकरणवृत्तितया
समवायसम्बन्ध एव प्रतियोगितावच्छेदकसम्बन्धः तेन सम्बन्धेन
ज्ञानस्य अनधिकरणं घटादि तद्वृत्तिः यो ज्ञानाभावः
तत्प्रतियोगितावच्छेदकत्वमेव ज्ञानत्वस्येति नातिव्याप्तिः। तथा च
1प्रतियोगितावच्छेदकसम्बन्धावच्छिन्नप्रतियोगितावच्छेदकधर्मावच्छि न्नप्रतियोगिनिष्ठाधेयता-
निरूपिताधिकरणतावद्भिन्न -
हेतुतावच्छेदकसम्बन्धावच्छिन्नहेतुतावच्छेदकधर्मावच्छिन्नहेतुनिष्ठाधेयतानिरूपिता-
धिकारणतावन्निष्ठात्यन्ताभावनिरूपितसाध्यतावच्छेदकसम्बन्धावच्छिन्नप्रतियोगितानवच्छेदकसाध्यतावच्छेदका-
वच्छिन्नसाध्यसामानाधिकरण्यं व्याप्तिरिति फलितम्।
तदिदमभिसन्धायाह - अधिकं अस्मदीयमणिदीधितिव्याख्यायामिति।
तर्कसङ्ग्रहः
पक्षधर्मतानिरूपणम्
व्याप्यस्य
पर्वतादिवृत्तित्वं पक्षधर्मता।
अनुमानविभागः
अन्त्स्_45 अनुमानं द्विविधं स्वार्थं परार्थं च । तत्र स्वार्थं स्वानुमितिहेतुः । तथा हि स्वयम् एव भूयो दर्शनेन यत्र धूमस् तत्र अग्निर् इति महानसादौ व्याप्तिं गृहीत्वा पर्वतसमीपं गतस् तद्गते चाग्नौ सन्दिहानः पर्वते धूमं पश्यन् व्याप्तिं स्मरति यत्र धूमस् तत्राग्निर् इति । तदन्तरं वह्निव्याप्यधूमवान् अयं पर्वत इति ज्ञानम् उत्पद्यते । अयम् एव लिङ्गपरामर्षं इत्य् उच्यते । तस्मात् पर्वतो वह्निमान् इति ज्ञानम् अनुमितिर् उत्पद्यते । तद् एतत् स्वार्थानुमानम् । यत् तु स्वयं धूमाद् अग्निम् अनुमाय परप्रतिपत्त्यर्थं पञ्चावयववाक्यं प्रयुक्ते तत् परार्थानुमानम् । यथा पर्वतो वह्निमान् धूमवत्त्वात् । यो यो धूमवान् स वह्निमान् यथा महानसः । तथा चायम् । तस्मात् तथेति । अनेन प्रतिपादिताल् लिन्गात् परोऽप्य् अग्निं प्रतिपद्यते ॥
अनुमानं
द्विविधम्-स्वार्थम्, परार्थम् चेति।
1.
प्रतियोगितावच्छेदकसम्बन्धावच्छिन्ना
प्रतियोगितावच्छेदकधर्मावच्छिन्ना च या प्रतियोगिनिष्ठा आधेयता
तन्निरूपिताधिकरणतावद्भिन्नं अथ च
हेतुतावच्छेदकसम्बन्धावच्छिन्ना हेतुतावच्छेदकधर्मावच्छिन्ना च या
हेतुनिष्ठाधेयता तन्निरूपिताधिकरणतावत् यत् तन्निष्ठो
यो ऽत्यन्ताभावः तन्निरूपिता या साध्यतावच्छेदकसम्बन्धावच्छिन्ना
प्रतियोगिता तदनवच्छेदकं यत् साध्यतावच्छेदकं तदवच्छिन्नं यत्
साध्यं तदधिकरणवृत्तित्वं ध्याप्तिरित्यर्थः।
दीपिका
पक्षधर्मतास्वरूपमाह - व्याप्यस्येति।
अनुमानं विभजते -
अनुमानमिति।
000
तर्कसङ्ग्रहः
स्वार्थानुमाननिरूपणम्
स्वार्थं स्वानुमितिहेतुः। तथा हि -
स्वयमेव भूयोदर्शनेन यत्र धूमः तत्राग्निरिति महानसादौ व्याप्तिं
गृहीत्वा पर्वतसमीपं गतः, तद्गते च पर्वते धूमं पश्यन् अग्नौ
सन्दिहानः व्याप्तिं स्मरति ऽयत्र धूमस्तत्राग्निःऽ इति। तदनन्तरं
ऽवह्निव्याप्यधूमवान् अयं पर्वतःऽ इति ज्ञानमुत्पद्यते। अयमेव
लिङ्गपरामर्श इत्युच्यते। तस्मात् ऽपर्वतो
वह्निमान्ऽ
इत्यनुमितिरुत्पद्यते। तदेतत् स्वार्थानुमानम्।
दीपिका
स्वार्थानुमानं
दर्शयति - स्वमेवेति।
व्याप्तिग्रहोपायनिरूपणम्
ननु
पार्थिवत्वलोहलेख्यत्वादौ शतशः रहचारदर्शने ऽपि वज्रमणौ
व्यभिचारोपलब्धेः भूयोदर्शनेन कथं व्याप्तिग्रह इति चेत्-न।
व्यभिचारज्ञानविरहसहकृतसहचारज्ञानस्य व्याप्तिग्राहकत्वात्।
व्यभिचारज्ञानं निश्चयः शङ्का च। तद्विरहः क्वचित् तर्कात्,
क्वचित् स्वतस्सिद्ध एव। धूमाग्न्योर्व्याप्तिग्रहे
कार्यकारणभावभङ्गप्रसङ्गलक्षणः तर्को व्यभिचारशङ्कानिवर्तकः।
ननु
सकलवह्निधूमयोरसन्निकर्षात् कथं व्याप्तिग्रह इति चेत् - न।
वह्नित्वधूमत्वरूपसामान्यप्रत्यासत्त्या सकलवह्निधूमज्ञानसम्भवात्।
तस्मादिति। लिङ्गपरामर्शादित्यर्थः।
प्रकाशिका
स्वार्थानुमानमिति। स्वस्यार्थः प्रयोजनं
साध्यसंशयनिवृत्तिरूपं यस्मादिति व्युत्पत्त्या
स्वीयसंशयनिवृत्तिप्रयोजकानुमानमित्यर्थः। पश्यन् इति।
मूल पाठ: Tarkasaṃgraha with autoentary (Dīpikā), Nīlakaṇṭha's Dīpikāprakāśikā and Bālapriyā · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0