तर्कसंग्रह (टीका सहित) · भाग 141160
यथार्थानुभवस्य
लक्षणमाह - तद्वतीति। ननु ऽघटे घटत्वम्ऽ इति प्रमायां अव्याप्तिः।
घटत्वे घटाभावादिति चेत् - न। यत्र यत्सम्बन्धो ऽस्ति तत्र
तत्सम्बन्धानुभवः इत्यर्थात् घटत्वे घटसम्बन्धो ऽस्तीति
नाव्याप्तिः। सैवेति। यथार्थानुभव एव शास्त्रे प्रमा इत्युच्यत
इत्यर्थः।
प्रकाशिका
मूले तद्वति
तत्प्रकारकानुभव इति। सप्तम्यर्थो विशेष्यित्वं
आश्रयतासम्बन्धेनानुभवान्वयी। तथा च तद्वद्विशेष्यक -
तत्प्रकारकानुभवत्वं यथार्थानुभवस्य लक्षणम्। तत्पदार्थः प्रकारः,
तद्वत्तवं प्रकारतावच्छेदकसम्बन्धेन ग्राह्यम्। तेन कालिकसम्बन्धेन
शुक्त्यादौ रजतत्वसत्त्वे ऽपि ऽइदम् रजतम्ऽ इति भ्रमे
नातिव्याप्तिः। न च तथापि रङ्गत्वेन रजतावगाहिनि, रजतत्वेन
च रङ्गावगाहिनि ऽहमे रङ्गरजतेऽ
इत्याकारकसमूहालम्बनभ्रमे ऽतिव्याप्तिः। तत्र
रङ्गविशेष्यकत्व-रङ्गत्वप्रकारकत्वयोः
रजतविशेष्यकत्व-रजतत्वप्रकारनकत्वयोश्च सत्त्वादिति वाच्यम्।
तद्वद्विशेष्यकत्वावच्छिन्नतत्प्रकारकत्वविशिष्टानुभवत्वरूपार्थवि वक्षणेन
अदोषात्। तथा हि - ययोः विषयतयोः निरूप्यनिरूपकभावः
तन्निरूपितविषयितयोः अवच्छेद्यावच्छेदकभाव इति सिद्धान्तः।
दर्शितभ्रमेरङ्गत्वप्रकारतायां राङ्गविशेष्यतानिरूपितत्वस्य,
रजतत्वप्रकारतायां रजतविशेष्यतानिरूपितत्वस्य च अभावेन
रङ्गविशेष्यकत्वावच्छिन्नरङ्गत्वप्रकारकत्व -
रजतविशेष्यकत्वावच्छिन्नरजतत्वप्रकारकत्वयोश्च असत्त्वात्
नातिव्याप्तिः। स्मृतिव्यावृत्तये अनुभवत्वनिवेशः। एतत्फलं
अनुपदमेव स्फटीभविष्यति।
ननु ऽतद्वतिऽ इत्यस्य
ऽअधिकरणेऽ इत्यर्थकतया ऽघटे घटत्वम्ऽ इति प्रमायामव्याप्तिः।
आधेयताया वृत्त्यनियामकतया तेन सम्बन्धेन
घटरूपप्रकाराधिकरणाप्रसिद्धेः इत्याशयेन शङ्कते - ननु घटे
घटत्वामिति इति।
ऽतद्वतिऽ इत्यस्य
तत्सम्बन्धिनीत्यर्थः। एवं च घटत्वस्यापि घटसम्बन्धितया
तादृशप्रमायां आधेयतया
घटसम्बन्धिघटत्वविशेष्यकत्वावच्छिन्नघटप्रकारकत्वस्य सत्त्वात्
नाव्याप्तिरिति समाधत्ते-यत्रेति। यथार्थानुभव एवेति। एवकारेण
यथार्थस्मृतिव्यवच्छेदः। यथार्थज्ञानभात्रस्य प्रमात्वे स्मृतिकरणस्य
प्रमाणान्तरतापत्तेः इति भावः।
बालप्रिया
सप्तम्यर्थो
विशेष्यित्वमिति। ऽतद्वतिऽ इत्यत्र तच्छब्दः प्रकारीभूतधर्मपरः।
सप्तम्यर्थो विशेष्यित्वम्। तत्र प्रकृत्यर्थस्य तद्वत्पदार्थस्य
निरूपितत्वसम्बन्धेन अन्वयः। विशेष्यित्वस्य आश्रयतासम्बन्धेन
अनुभवे अन्वयः। तथा च तद्वन्निरूपितविशेष्यित्वाश्रयः
तन्निष्ठप्रकारतानिरूपकः अनुभवः यथार्थः।
तद्वन्निष्ठविशेष्यतानिरूपकत्वे सति तन्निष्ठप्रकारतापनिरूपकत्वे
सति अनुभवत्वं यथार्थानुभवस्य लक्षणम्। ऽअयं घटऽ इति प्रमायां
घटत्ववद्घटनिष्ठविशेष्यतानिरूपकत्वं
घटत्वनिष्ठप्रकारतानिरूपकत्वम् अनुभवत्वं च अस्तीति
लक्षणसमन्वयः। स्मृतौ अतिव्याप्तिवारणाय अनुभवत्वनिवेशः।
शुक्तिरजतभ्रमे रजतत्वनिष्ठप्रकारतानिरूपकत्वे सति अनुभवत्वस्य
सत्त्वात्
अतिव्याप्तिः स्यात्
इति तद्वारणाय तद्वन्निष्ठविशेष्यतानिरूपकत्वनिवेशः।
शुक्तिरजतभ्रमे तु रजतत्वाभाववच्छुक्तिनिष्ठविशेष्यताकत्वनिवेशः।
शुक्तिरजतभ्रमे तु रजतत्वाभाववच्छक्तिनिष्ठाविशेष्यताकत्वमेवास्ति,
न तु रजतत्ववद्रजतविशेष्यकत्वमिति नातिव्याप्तिः।
तद्वद्विशेष्यकत्वे सति अनुभवत्वमात्रोक्तौ शुक्तौ ऽइदं रजतम्ऽ
इत्ययथार्थानुभवे अतिव्याप्तिः। तत्प्रकारकत्वदलाभावे तत्पदेन
प्रकार एव ग्राह्य इति नियमालाभेन तच्छब्देन शुक्तित्वे गृहीते
शुक्तित्ववद्विशेष्यकत्वानुभवत्वयोः तत्र सत्त्वात्। तद्वारणाय
तत्प्रकारकत्वपदम्। तन्निवेशे च एकत्र उच्चरितयोः तच्छब्दयोः
एकार्थबोधकत्वमिति नियमेन प्रथमगृहीततत्पदार्थस्यैव
द्वितीयतत्पदेनापि ग्राह्यतया प्रथमतत्पदगृहीतशुक्तित्वप्रकारकत्वस्य
निरुक्तानुभवे अभावात् न अतिव्याप्तिः इति केचित्। वस्तुतस्तु
रजत एव द्रव्यं इति ज्ञाने 1रजतत्वप्रमात्वापत्तिः, अतः
तत्प्रकारकत्वनिवेशः स्पष्टं चेदं दिनकर्यादौ।
ननु शुक्ते ऽपि
कालिकसम्बन्धेन रजतत्ववत्त्वात्
रजतत्ववच्छुक्तिविशष्यकत्वरजत्वप्रकारकत्वयोः ऽइदं रजतम्ऽ
इति भ्रमे ऽपि सत्त्वात् तत्रातिव्याप्तिरित्यत आह - तद्वत्त्वं
प्रकारतावच्छेदकसम्बन्धेन ग्राह्यमिति। प्रकृते समवायसम्बन्धः
प्रकारतावच्छेदकसम्बन्धः। तेन सम्बन्धेन रजतत्ववत् रजतमेव, न
तु शुक्तिः। रजतविशेष्यकत्वं च रजतभ्रमे नास्तीति
नातिव्याप्तिरिति भावः।
1.रजतत्वप्रमात्वापत्तिरिति। रजतत्ववद्विशेष्यकत्वादिति
भावः।
न च तथापीत्यादि।
पुरतः अवस्थितयोः रजतरङ्गयोः इन्द्रियसन्निकृष्टयोः सतोः
रजते रङ्गत्वं रङ्गे रजतत्वं चावगाहमानः ऽइमे
रङ्गरजतेऽ इत्याकारकः यः समूहालम्बनभ्रमः तत्रातिव्याप्तिः।
तस्मिन् भ्रमे रङ्गं रजतं च उभयं विशेष्यम्। रङ्गत्वं रजतत्वं
च उभयं प्रकारः। तथा च रङ्गत्ववद्रङ्गविशेष्यकत्वस्य
रजतत्ववद्रजतविशेष्यकत्वस्य रङ्गत्वप्रकारकत्वस्य
रजतत्वप्रकारकत्वस्य च सत्त्वात् इति शङ्कितुराशयः।
नानामुख्यविशेष्यकं ज्ञानं समूहालम्बनमित्युच्यते।
समाधत्ते -
तद्वद्विशेष्यकत्वावच्छिन्नेत्यादिना। तद्वद्विशेष्यकत्वावच्छिन्नं यत्
तत्प्रकारकत्वं तदाश्रयानुभवत्वं यथार्थानुभवत्वम्।
विशेष्यताप्रकारतयोः निरूप्यनिरूपकभावे सत्येव
विशेष्यित्वप्रकारित्वयोः अवच्छेद्यावच्छेदकभावो भवति।
उक्तसमूहालम्बनभ्रमे यद्यपि रङ्गत्वं रजतत्वं उभयं प्रकारः, यथापि
रङ्गत्वं रजतांशे प्रकारः रजतत्वं रङ्गांशे प्रकार इति
रङ्गत्वनिष्ठप्रकारता रजतनिष्ठविशेष्यतानिरूपिता न तु
रङ्गत्ववद्रङ्गनिष्ठविशेष्यतानिरूपिता। एवं रजतत्वनिष्ठप्रकारता
रङ्गनिष्ठविशेष्यतानिरूपिता न तु
रजतत्ववद्रजतनिष्ठविशेष्यतानिरूपिता। तथा च
रङ्गत्वनिष्ठप्रकारतारङ्गनिष्ठविशेष्यतयोः
निरूप्यनिरूपकाभावात्,
रजतत्वनिष्ठप्रकारतारजतनिष्ठविशेष्यतयोः तदभावाच्च
रङ्गत्वनिरूपितप्रकारित्व - रङ्गनिरूपितविशेष्यितयोः
रजतत्वनिरूपितप्रकारित्वरजतनिरूपितविशेष्यित्वयोश्च
अवच्छेद्यावच्छेदकभावाभावात्
रङ्गत्वप्रकारकत्वावच्छिन्नरङ्गविशेष्यकत्वस्य
रजतत्वप्रकारकत्वावच्छिन्नरजतविशेष्यकत्वस्य च उक्तसमूहालम्बनभ्रमे
अभावात् नातिव्याप्तिरिति भावः। अनुपदमेव स्फटीभविष्यतीति।
ऽयथार्थानुभव एव शास्त्रे प्रमा इत्युच्यतऽ इति
दीपिकाग्रन्थव्याख्यानावसर इत्यर्थः।
अधिकरणे
इत्यर्थकतयेति। तथा च प्रकारतावच्छेदकसम्बन्धेन
प्रकाराधिकरणविशेष्यकानुभवः यथार्थ इति
लभ्यते। ऽघटे
घटत्वम्ऽ इति प्रमायां घटत्वं विशेष्यम्, तत्र आधेयतासम्बन्धेन
घटः प्रकारः। प्रकारतावच्छेदकसम्बन्धः आधेयता। आधेयत्वं
वृत्त्यनियामकम् (आधेयत्वानियामकम्)। अतः आधेयतासम्बन्धेन
प्रकारीभूतघटाधिकरणाप्रसिद्ध्या प्रमालक्षणस्य
तादृशप्रमायामव्याप्तिरिति शङ्कितुराशयः।
तद्वतीत्यस्य
तत्सम्बन्धिनीत्यर्थ इति।
तत्प्रतियोगिकप्रकारतावच्छेदकसम्बन्धानुयोगिनीत्यर्थ इति
भावः। तथा च ऽतद्वतिऽ इत्यस्य यदि
तन्निष्ठप्रकारतावच्छेदकसम्बन्धावच्छिन्नाधेयतानिरूपिताधिकरणतावानित्यर्थः
स्यात्, तदा आधेयताया वृत्त्यनियामकतया
घटनिष्ठाधेयतासम्बन्धावच्छिन्नाधेयतानिरूपिताधिकरणत्वाप्रसिद्ध्या
अव्याप्तिः स्यात्। सोर्ऽथस्तु प्रकृते न विवक्षितः। आधेयतासम्बन्धेन
घटसम्बन्धि घटत्वं भवतीति
1घटसम्बन्धिघटत्वविशेष्यकत्वावच्छिन्नघटप्रकारकत्वस्य ऽघटे
घटत्वम्ऽ इति प्रमायां सत्त्वात् नाव्याप्तिरिति समाधातुराशयः।
यथार्थज्ञानमात्रस्य
प्रमात्व इति। यदि अनुभवत्वमनिवेश्य यथार्थज्ञानत्वं प्रमात्वं
इत्युच्यते तर्हि स्मृतेरपि यथार्थज्ञानत्वात् प्रकात्वं प्रसज्येत। न
चेष्टापत्तिः। प्रत्यक्षादिप्रमितिविलक्षणस्मृतिरूपप्रमाकरणस्य
विलक्षणस्य पञ्चमप्रमाणस्य आवश्यकतया प्रमाणानि चत्वारीति
सूत्रकारोक्त्यसांगत्यापत्तेरिति भावः।
तर्कसङ्ग्रहः
अयथार्थानुभवलक्षणम्
अन्त्स्_35[3] तदभाववति तत्प्रकारको ऽनुभवो ऽयथार्थः । यथा शुक्ताव् इदं रजतम् इति ज्ञानम् ॥
तदभाववति तत्प्रकारकानुभवो ऽयथार्थः।
सैव अप्रमा इत्युच्यते। (स एव भ्रम इत्युच्यते)।
दीपिका
अयथार्थानुभवं लक्षयति - तदभाववतीति।
ननु ऽइदं संयोगीऽ ति प्रमायामतिव्याप्तिरिति चेत् - न।
यदवच्छेदेन यत्सम्बन्धाभावः तदवच्छेदेन तत्सम्बन्धज्ञानस्य
विवक्षितत्वात्। संयोगाभावावच्छेदेन संयोगज्ञानस्य
1. घटसम्बन्धीति।
घटप्रत्तियोगिकाधेयतासम्बन्धानुयोगीत्यर्ःथ।
प्रकाशिका
अतिव्याप्तिरिति।
संयोगाभाववति संयोगप्रकारकत्वस्य सत्त्वादिति भावः।
यदवच्छेदेनेति। यदवच्छेदेन
यत्सम्बधावच्छिन्नप्रतियोगिताकयदभावः तदवच्छेदेन तत्सम्बन्धेन
तत्प्रकारकानुभवस्य विवक्षितत्वादित्यर्थः।
संयोगाभावावच्छेदेनेति। संयोगाभावावच्छेदकावच्छेदेनेत्यर्थः।
संयोगावच्छेदेनेति। संयोगावच्छेदकावच्छेदेनेत्यर्थः।
संयोगसम्बन्धस्येति। समवायसम्बन्धेन संयोगस्येत्यर्थः।
अत्रेदमवधेयम् -
इदं अव्याप्यवृत्तिसंयोगादिप्रकारकभ्रमानुरोधेन।
व्याप्यवृत्तिरजतत्वादिप्रकारकभ्रमलक्षणं तु -
तत्सम्बन्धावच्छिन्नप्रतियोगिताकतदभाववान् यः
तद्विशेष्यकत्वावच्छिन्न-तत्सम्बन्धावच्छिन्न -
तत्प्रकारकत्वविशिष्टानुभवत्वम्। प्रतियोगितायां प्रकारतावच्छेदक
- सम्बन्धावच्छिन्नत्वनिवेशात् ऽपर्वतो वह्निमान्ऽ इति प्रमायां
समवायावच्छिन्नवह्न्यभाववत्पर्वतविशेष्यकत्वस्य सत्त्वे ऽपि
नातिव्याप्तिः।
विशेष्यित्वप्रकारित्वयोरवच्छेद्यावच्छेदकभावविवक्षणेन ऽइमे
रङ्गरजतेऽ इत्याकारकप्रमायां
रङ्गत्वाद्यभाववद्रजतादिविशेष्यकत्वरङ्गत्वादिप्रकारकयोः
सत्त्वे ऽपि नातिव्याप्तिः इत्यलं अतिविस्तरेण॥
बालप्रिया
संयोगाभाववतीति। संयोगस्याव्याप्यवृत्तित्वात्
संयोगवत्यपि संयोगाभावस्य सत्त्वात् ऽइदं संयोगिऽ इति
प्रमायां संयोगाभाववति संयोगप्रकारकत्वसत्त्वात् तदभाववति
तत्प्रकारकत्वरूपभ्रमलक्षणातिव्याप्तिरिति भावः। यदवच्छेदेनेत्यादि।
मूलावच्छेदेन समवायसम्बन्धावच्छिन्नकपिसंयोगाभावः वृक्षे
वर्तते तदवच्छेदेन चेत् कपिसंयोगावगाहि ज्ञानं भवति तर्हि
तज्ज्ञानं भ्रमः। अग्रावच्छेदेन कपिसंयोगज्ञानं तु प्रमैव,
तदवच्छेदेन कपिसंयोगाभावविरहात्। अग्रावच्छेदेन
कपिसंयोगवति वृक्षे तदवच्छेदेनैव
समवायातिरिक्तसम्बन्धावच्छिन्नकपिसंयोगाभावसत्त्वात् अग्रे
वृक्षः कपिसंयोगीति प्रमायाः भ्रमत्वापत्तिः। तद्वारणाय
यत्सम्बन्धावच्छिन्नेति। मूलावच्छेदेन रमवायसम्बन्धावच्छिन्न -
कपिसंयोगाभाववति वृक्षे कालिकसम्बन्धेन
कपिसंयोगप्रकारकप्रमायामतिव्याप्तिवारणाय तत्सम्बन्धेनेत्युक्तम्
ननु ऽसंयोगाभावावच्छेदेन संयोगज्ञानस्यऽ इति
दीपिकोक्तिरयुक्ता; मूले वृक्षः कपिसंयोगीति भ्रमात्मकज्ञानस्य
मूलावच्छेदेन कपिसंयोगावगाहित्वे ऽपि संयोगाभावावच्छेदेन
संयोगावगाहित्वाभावात्। न हि संयोगस्य
संयोगाभावो ऽवच्छेदकः, 1तथा अप्रतीतेः इत्यतो व्याचष्टे -
संयोगाभावावच्छेदकावच्छेदेनेत्यर्थ इति।
संयोगाभावस्यावच्छेदको यः मूलादिः तदवच्छेदेनेत्यर्थः।
संयोगावच्छेदकावच्छेदेनेति। संयोगस्य अवच्छेदकः यः अग्रादिः
तदवच्छेदेनेत्यर्थः।
ननु
अव्याप्यवृत्तिपदार्थंप्रकारकभ्रमस्य सावच्छिन्नविषयकत्वे ऽपि
व्याप्यवृत्तिरजतत्वादिप्रकारकभ्रमस्य तदभावात्
यदवच्छेदेनेत्यादिनिरुक्तभ्रमलक्षणं सर्वभ्रमानुयायि न भवतीत्यत
आह - अत्रेदमवधेयमिति। तत्सम्बन्धावच्छिन्नेत्यादि। शुक्तौ
इन्द्रियसन्निकृष्टायां यः ऽइदं रजतम्ऽ इति भ्रमः तत्र समन्वयः
क्रियते। समवायसम्बन्धावच्छिन्न
प्रतियोगितकरजतत्वाभाववान् पुरोवर्तिशुक्तिरूपपदार्थः।
तद्विशेष्यकत्वे सति रजतत्वप्रकारकत्वं उक्तभ्रमे ऽस्ति इति ।
प्रकारतावच्छेदकसम्बन्धावच्छिन्नत्वं यदि प्रतियोगितायां न
निवेश्यते तदा
यत्किञ्चित्सम्बन्धावच्छिन्नप्रतियोगिताकतदभाववान् यः
तद्विशेष्यकत्वावच्छिन्न-तत्प्रकारकत्वविशिष्टानुभवत्वं भ्रमस्य लक्षणं
स्यात्। तथा सति ऽपर्वतो वह्निमान्ऽ इति प्रमायामतिव्याप्तिः।
तथा हि - तत्पदेन वह्निरूपः प्रकारः गृहीतश्चेत् तस्य संयोगेन
पर्वते सत्त्वे ऽपि समवायेन सत्ता नास्ति। अतः
समवायसम्बन्धावच्छिन्नवह्न्यभाववान् यः
1. तथा अप्रतीतेरिति।
संयोगावच्छेदकतया संयोगाभावस्याप्रतीतेरित्यर्थः।
पर्वतः तद्विशेष्यकत्वे
सति वह्निप्रकारकत्वं ऽपर्वतो वह्निमान्ऽ इति प्रमायामस्तीति।
प्रकारतावच्छेदकसम्बन्धावच्छिन्नत्वनिवेशे तु संयोगसम्बन्धस्यैव
प्रकारतावच्छेदकतया तदवच्छिन्नप्रतियोगिताकवह्न्यभाववान्
विशेष्य पर्वतो न भवतीति
प्रकारतावच्छेदकसम्बन्धावच्छिन्नप्रतियोगिताकतदभाववद्विशेष्यकत्वं
ऽपर्वतो वह्निमान्ऽ इति प्रमायां नास्तीति नातिव्याप्तिरिति
भावः।
विशेष्यित्वप्रकारित्वयोरिति। तथा च
विशेष्यित्वप्रकारित्वयो अवच्छेद्यावच्छेदकभावाविवक्षणे
तदभाववद्विशेष्यकः तत्प्रकारकानुभवः भ्रम इत्येतावन्मात्रोक्तौ
रङ्गे रङ्गत्वं रजते रजतत्वं चावगाहमानः यः ऽइमे
रङ्गरजतेऽ इति प्रमात्मकानुभवः तत्र रङ्गं रजतं च
विशेष्यम्, रङ्गत्वं रजतत्वं च प्रकार इति तत्पदेन
रङ्गत्वग्रहणे तदभाववत् रजतं उक्तप्रमायां विशेष्यं भवति
रङ्गत्वं च प्रकारो भेवतीति रङ्गत्वाभाववद्रजतविशेष्यकत्वं
रङ्गत्वप्रकारकत्वं चास्ति, एवं रजतत्वाभाववद्रङ्गविशेष्यकत्वं
रजतत्वप्रकारकत्वं चास्तीत्यतिव्याप्ति स्यात्। अतस्तयोः
अवच्छेद्यावच्छेदकाभावविवक्षा। तथा च तदभाव वद्विशेष्यकत्वावच्छिन्नं
यत् तत्प्रकारकत्वं तद्विशिष्टानुभवः भ्रम इति लक्षणं भवति।
उक्तसमूहालम्बनप्रमायां
रङ्गत्वनिष्ठप्रकारतरङ्गत्ववद्रङ्गनिष्ठविशेष्यतानिरूपिता, न
तु रङ्गत्वाभाववद्रजतनिष्ठविशेष्यतानिरूपिता, रजते
रङ्गत्वस्याप्रकारत्वात्। एवं च
रङ्गत्वनिष्ठप्रकारतारजतनिष्ठविशेष्यतयोर्निंरूप्य
निरूपकभावाभावतरङ्गत्वप्रकारकत्वरङ्गत्वाभाववद्रजतविशेष्यकत्वयोः
अवच्छेद्यावच्छेदकभावो नास्ति। ययोर्विषयतयोः निरूप्यनिरूपकभावः
तन्निरूपितविषयितयोरेव अवच्छेद्यावच्छेदकभाव इति नियमात्।
एवं च रङ्गत्वाभाववद्विशेष्यकत्वावच्छिन्नरङ्गत्वप्रकारकत्वस्य
रजतत्वाभाववद्विशेष्यकत्वावच्छिन्नरजतत्वप्रकारकत्वस्य
चोक्तसमूहालम्बनप्रमायां अभावान्नातिव्यापितरिति भावः।
प्रकारताविशिष्टविशेष्यतानिरूपकत्वे सत्यनुभवत्वं भ्रमस्य लक्षणम्।
विशेष्यतायां प्रकारतावैशिष्ट्यं च
1स्वावच्छेदकसम्बन्धावच्छिन्नप्रतियोगिताकस्वाश्रयाभाववन्निष्ठत्वस्वनिरूपितत्वोभयसम्बन्धेनेति
निष्कर्षः।
तर्कसङ्ग्रहः
यथार्थानुभवविभागः
अन्त्स्_36 यथार्थानुभवश् चतुर्विधः प्रत्यक्षानुमित्युपमितिशब्दभेदात् । तत्करणम् अपि चतुर्विधं प्रत्यक्षानुमानोपमानशब्दभेदात् ॥
यथार्थानुभवः
चतुर्विधः - प्रत्यक्ष - अनुमिति - उपमिति - शब्दभेदात्। तत्करणमपि
चतुर्विधम् - प्रत्यक्ष - अनुमान - उपमान - शब्दभेदात्।
दीपिका
यथार्थानुभवं
विभजते। यथार्थेति। प्रसङ्गात् प्रमाकरणं विभजते -
तत्करणमपीति। प्रकाकरणमित्यर्थः। प्रमायाः करणं प्रमाणम् इति
प्रमाणसामान्यलक्षणम्।
प्रकाशिका
प्रसङ्गादिति।
स्मृतस्य उपेक्षानर्हत्वं प्रसङ्गः तस्मादित्यर्थः।
सामान्यतो ऽवगतस्यैव विशेषरूपेण प्रतिपादनं संभवतीति
सामान्यलक्षणं स्फुटयति - प्रमायाः करणं प्रमाणमिति।
बालप्रिया
स्मृतस्येति।
प्रमायाः लक्षणे उक्ते तत्करणं स्मृतं भवतीति तस्य उपेक्षा न युक्तेति
भावः।
1. स्वावच्छेदकेति।
शुक्ताविदं रजतमिति भ्रमे एवं समन्वयः - स्वं रजतत्वनिष्ठप्रकारता
तदवच्छेदकसम्बन्धः समवायसम्बन्धः तदवच्छिन्नप्रतियोगिताकः
स्वाश्रयस्य प्रकारताश्रयस्य रजतत्वस्य अभावः तद्वच्छुक्तिनिष्ठत्वं
विशेष्यतायाम्; एवं स्वं रजत्वनिष्ठप्रकारता तन्निरूपितत्वं च
शुक्तिनिष्ठविशेष्यतायाम्। तथा च उक्तोभयसम्बन्धेन
रजतत्वनिष्ठप्रकारताविशिष्टा या शुक्तिनिष्ठा विशेष्यता
तन्निरूपकत्वे सति अनुभवत्वं इदं रजतमिति भ्रमे ऽस्तीति।
तर्कसङ्ग्रहः
करणलक्षणम्
अन्त्स्_37 असाधारणम् कारणं करणम् ।
(व्यापारवत्)
असाधारणकारणं करणम्।
दीपिका
करणलक्षणमाह -
असाधारणेति। साधारणकारणे दिक्कालादौ अतिव्याप्तिवारणाय
असाधारणेति।
प्रकाशिका
असाधारणेतीति।
दिक्कालादृष्टादेः कार्यत्वावच्छिन्नं प्रत्येव कारणत्वात्
अनुभवत्वव्याप्यधर्मावच्छिन्नप्रमावृत्तिकार्यतानिरूपितकारणत्वरूपासाधारणकारणत्वस्य
तत्र असत्त्वात् नातिव्याप्तिः।
प्राचीनास्तु-
ऽव्यापारवत्त्वे सतिऽ इत्यपि वक्तव्यम्। अतः चक्षुः-संयोगादौ
नातिव्याप्तिः। श्रोत्रमनस्संयोगः शब्दो वा व्यापारः संभवत्येवेति
न श्रोत्रेन्द्रियो करणलक्षणाव्याप्तिः-इति वदन्ति।
"यद्विलम्बात् प्रकृतकार्यानुत्पादः
तत्कारणत्वस्यैवासाधारणकारणत्वात्मकतया कालादिषु
तादृशकारणत्वाभावात् न अतिव्याप्तिः।
व्यापारत्वेनाभिमतेन्द्रियसंयोगादिकमेव करणम्। एतच्च
ऽलिङ्गपरामर्श एवानुमानम्ऽ इति मूले एव स्फुटीभविष्यति। अत
एव मणिकृद्भिः उक्तम् - ऽतच्च लिङ्गपरामर्शःऽ इति ग्रन्थेन"इति
तु नव्याः। अधिकम् अस्मदीयचिन्तामणिप्रभायां अनुसन्धेयम्।
बालप्रिया
दिक्कालादृष्टादेरिति। प्रमानिरूपितासाधारणकारणत्वं
प्रमाणस्यलक्षणम्। प्रमानिष्ठा या अनुभवत्वव्याप्यधर्मावच्छिन्ना
कार्यता तन्निरूपितकारणत्वमिति यावत्। अनुभवत्वव्याप्यधर्मः
प्रमात्वम्, कार्यतायां
अनुभवत्वव्याप्यधर्मावच्छिन्नत्वस्यानिवेशे कार्यसामान्यं प्रति
दिक्कालादृष्टादेः कारणत्वात् प्रमां प्रत्यपि कारणत्वमस्तीति
प्रमाणलक्षणस्य दिक्कालादावतिव्याप्तिः स्यात्। तन्निवेशे तु
प्रभानिष्ठकार्यत्वावच्छिन्नकार्यतानिरूपितकारणतायाः दिक्कालादौ
सत्त्वे ऽपि प्रमानिष्ठप्रमात्वावच्छिन्नकार्यतानिरूपितकारणत्वं नास्तीति
नातिव्याप्तिः। चक्षुरादेरिव तत्सन्निकर्षादेरपि
प्रत्यक्षप्रमाहेतुत्वात् प्रमाणलक्षणस्य व्यापारेषु सन्निकर्षादिषु
अतिव्याप्तिवारणाय व्यापारद्वारकं कारणत्वं लक्षणे
निवेशनीयम्। न च
श्रोत्रेन्द्रियो अव्याप्तिः, श्रोत्रसमवायरूपसंनिकर्षस्य नित्यत्वेन
तज्जन्यत्वघटितव्यापारलक्षणाभावात् व्यापारद्वारककारणत्वरूपस्य
प्रमाणलक्षणस्य श्रोत्रेन्द्रिये ऽभावादिति वाच्यम्।
श्रोत्रमनस्संयोगस्य
शब्दस्य वा श्रोत्रव्यापारत्वात् तद्द्वारकप्रत्यक्षकारणत्वस्य श्रोत्रे ऽपि
सत्त्वात् - इति प्राचीनमतम्।
नवीनमतमाह -
यद्विलम्बादित्यादिना। न व्यापारवत्कारणत्वमसाधारणकारणत्वम्।
अति तु यद्विलम्बात् प्रकृतकार्यानुत्पादः तत्त्वम्। कालादिषु
एतादृशासाधारणकारणत्वाभावात् नातिव्याप्तिः। व्यापारत्वेन
प्राचीनाभिमतेषु
संनिकर्षादिष्वेव
ईदृशं कारणत्वमस्तीति सन्निकर्षपरामर्शादीनामेव प्रमाणत्वमिति
नवीनमतम्।
तर्कसङ्ग्रहः
कारणलक्षणम्
अन्त्स्_38 कार्यनियतपूर्ववृत्ति कारणम् ।
(अनन्यथासिद्धत्वे सति) कार्यनियतपूर्ववृत्ति कारणम्।
दीपिका
कारणलक्षणमाह - कार्येति। ऽपूर्ववृत्ति
कारणंऽ इत्युक्ते रासभादौ अतिव्याप्तिः स्यात्, अतः नियतेति।
तावन्मात्रे कृते कार्ये अतिव्याप्तिः, अतः पूर्ववृत्ति इति।
प्रकाशिका
नियतेति।
नियतत्वं हि व्यापकत्वम्। तच्च रासभादेः न संभवतीति तत्र न
घटकारणत्वातिप्रसक्तिरिति भावः। पूर्ववृत्तीति। स्वव्यापकत्वस्य
स्वस्मिन् सत्त्वे ऽपि स्पूर्वकालवृत्तित्वस्य असत्त्वेन नातिप्रसङ्ग इति
भावः। कार्यतावच्छेदकसम्बन्धेन कार्याधिकरणे
कार्याव्यवहितप्राक्क्षणावच्छेदेन
विद्यमानात्यन्ताभावप्रतियोगितानवच्छेदकतद्धर्मवत्त्वं तेन रूपेण
कारणत्वमिति समुदितार्ऽथो बोध्यः।
बालप्रिया
कार्यनियतत्वे
सति कार्यपूर्ववृत्तित्वं कारणस्य लक्षणम्। कार्यनियतत्वं च
कार्यव्यापकत्वम्। कार्यपूर्ववृत्तित्वमात्रोक्तौ
रासभादेरपिकदाचित् घटपूर्ववर्तित्वमस्तीति घटकारणत्वापत्तिः।
तद्वारणाय कार्यव्यापकत्वनिवेशः। कार्यस्यापि कार्यव्यापकत्वात्
तत्रतिव्याप्तिवारणाय कार्यपूर्ववर्तितत्वनिवेशः। तदाह-नियतत्वं
हीत्यादीना। कार्यव्यापकत्वशरीर एव कार्यपूर्ववर्तित्वमपि निवेश्य
परिष्करोति - कार्यतावच्छेदकसम्बन्धेनेत्यादिना।
कार्यतावच्छेदकसम्बन्धेन संयोगेन कार्याधिकरणे घटाधिकरणे
प्रदेशे घटपूर्वक्षणावच्छेदेन वर्तमानो यो ऽभावः न
दण्डचक्राद्यभावः, अपि तु रासभाद्यभावः तत्प्रतियोगितावच्छेदकं
रासभत्वादि प्रतियोगितानवच्छेदकं दण्डत्वादि, तद्वत्त्वं
तण्डादिष्वस्तीति लक्षणसमन्वयः। कार्यतावच्छेदकसम्बन्धेनेत्यनुक्तौ
कालिकसम्बन्धेन घटाधिकारणं यत्र घटो नोत्पद्यते स प्रदेशो ऽपि
भवति तद्वृत्तिर्यो ऽभावः दण्डाद्यभावः,
तत्प्रतियोगितावच्छेदकधर्मवत्त्वमेव दण्डादावस्ति न
तदनवच्छेकधर्मवत्त्वमित्यसम्भवः स्यात्।
तद्वारणाय-कार्य-तावच्छेदकसम्बन्धेनेति।
कार्याधिकरणवृत्त्यभावाप्रतियोगित्वमात्रोक्तौसंयोगसम्बन्धेन
घटाधिकरणै वर्तते यो ऽभावः दण्डतन्तूभयाभावः
तत्प्रतियोगित्वमेव दण्डे अस्तीति रीत्या उभयाभावमादाय असम्भवः
स्यात्। तद्वारणाय प्रतियोगितानवच्छेदकधर्मवत्त्वनिवेशः।
यद्धर्मपुरस्कारेण कारणत्वं विवक्षितं तस्मिन् धर्मे
प्रतियोगितानवच्छेदकत्वं विवक्षितम्। दण्डत्वचक्रत्वादिना
दण्डचक्रादीनां कारणत्वं विवक्षितम्। दण्डत्वादेस्तु
तादृशप्रतियोगितानवच्छेदकत्वमस्त्त्येव इति लक्षणसमन्वयः। नातः
प्रमेयत्वमादाय रासभादावतिव्याप्तिः।
दीपिका
अन्यथासिद्धिनिरूपणम्
ननु तन्तुरूपमपि
पटं प्रति कारणं स्यात् इति चेत् - नफ ऽअनन्यथासिद्धत्वे सतिऽ
इति विशेषणात्। अनन्यथासिद्धत्वम् अन्यथासिद्धिरहितत्वम्।
अन्यथासिद्धिः त्रिविधा - येन सहैव यस्य यं प्रति
पूर्ववृत्तित्वमवगम्यते तं प्रति तेन तदन्यथासिद्धम्। यथा तन्तुना
तन्तुरूपं तन्तुत्वं च पटं प्रति। अन्यं प्रति पूर्ववृत्तित्वे ज्ञात एव
यस्य यं प्रति पूर्ववृत्तित्वमवगम्यते तं प्रति तदन्यथासिद्धम्। यथा
शब्दं प्रति पूर्ववृत्तित्वे ज्ञात एव पटं प्रति आकाशस्य।
अन्यत्र
कॢप्तनियतपूर्ववर्तिन एव कार्यसम्भवे तत्सहभूतं अन्यथासिद्धम्।
यथा पाकजस्थले गन्धं प्रति रूपप्रागभावस्य। एवं च
अनन्यथासिद्धनियतपूर्ववृत्तित्वं कारणत्वम्।
प्रकाशिका
कारणं स्यादिति।
तस्य नियतपूर्ववृत्तित्वादिति भावः। निबन्धान्तरेषु अन्यथासिद्धेः
पञ्चविधत्वे ऽपि मणिकारमताभिप्रायेणाह - त्रिविधेति। येन
सहैवेत्यादि। येन तन्तुना सहैव यस्य तत्तुरूपस्य तन्तुत्वस्य च यं
पटं प्रति पूर्ववृत्तित्वमवगम्यते तं पटं प्रति तन्तन्तुरूपं
तन्तुत्वं च तेन तन्तुना अन्यथासिद्धमित्यर्थः। अत्र सहितत्वम्
एकज्ञानविषयत्वं बोध्यम्। तन्तुरूपस्य पटपूर्ववृत्तित्वज्ञाने
अनतिप्रसक्ततन्तुरूपत्वेनैव विषयता वाच्या। तथा च तन्तुरूपं
अन्यथासिद्धमिति। एवं एन्तुत्वस्य पूर्ववृत्तित्वज्ञानमपि
तन्तुविषयकमेवेति तदप्यन्यथासिद्धमिति भावः। अत्र ऽयेनऽ इत्यस्य
ऽस्वतन्त्रान्वयव्यतिरेकशालिनाऽ इति ऽयस्यऽ इत्यस्य च
ऽस्वतन्त्रान्वयव्यतिरेकशून्यस्यऽ इति विशेषणं बोध्यम्। तेन न
अतथाभूतेन तन्तुत्वेन तन्तोरन्यथासिद्धिः, न वा तन्तुसंयोगस्य
तन्तुना अन्यथासिद्धिरिति सङ्क्षेपः।"इतरान्वयव्यतिरेकप्रयुक्तान्वयव्यतिरेकशालि यत् यत्
अन्यथासिद्धम्"इति तु परे। शब्दं प्रतीति। आकाशत्वं
हि शब्दसमवायिकारणत्वम्। तथा च शब्दकारणत्वमगृहीत्वा
आकाशस्य आकाशत्वेन घटपूर्ववृत्तित्वं ग्रहीतुम् अशक्यं
इत्याकाशो ऽन्यथासिद्ध इत्यर्थः। अन्यत्र कॢप्तेति।
अपाकजस्थले गन्धं प्रति कॢप्तनियतपूर्ववृत्तिना गन्धप्रागभावेनैव
पाकजस्थले ऽपि तत्सम्भवे रूपप्रागभावो ऽन्यथासिद्ध इत्यर्थः। अथ एवं
नियतपदं व्यर्थम्, अनियतरासमभादेः तृतीयान्यथासिद्धत्वेन
सत्यन्तेनैव वारणसम्भवात् इति चेत् - न। घटसामान्यं प्रति
अन्यथासिद्ध्यसंभवात् अन्यत्र घटाभिन्ने पटादौ कॢप्तपूर्ववर्तिनः
तन्त्वादितः घटोत्पत्त्यसम्भवादिति।
नवीनाः
पुनरेवमाहुः - लघुनियतपूर्ववर्तिन एव कार्यंसम्भवे तद्भिन्नं
अन्यथासिद्धं इत्येकविधमेव अन्यथामिद्धत्वम्। लघुत्वं च
शरीरकृतमुपस्थितिकृतं संबन्धकृतम् च। तत्र प्रथमम् -
अनेकद्रव्यसमवेतत्वापेक्षया महत्त्वे। द्वितीयम् - गन्धं प्रति
रूपप्रागभावापेक्षया गन्धप्रागभावे, गन्धस्य प्रतीयोगिन
उपस्थितत्वेन शीघ्रं तदुपस्थितेः। तृतीयम् -
दण्डत्वदण्डरूपाद्यपेक्षया दण्डादौ,
स्वाश्रयदण्डसंयोगादिरूपपरम्परया गुरुत्वात्। एवं चैतावतैव
निर्वाहे अन्यथासिद्धित्रिविध पञ्चविधा चेति प्रपञ्चो
व्युत्पत्तिवैचित्र्याय।
न च अनियतरासभादेः
तृतीयान्यथासिद्धत्वेनैव वारणात् नियतपदं व्यर्थमिति वाच्यम्।
यतः अन्यथासिद्धत्वस्य अनुगतस्य दुर्वचतया यत्र यत्र प्रामाणिकानां
अन्यथासिद्धत्वव्यवहारः तत्तद्भेदकूटं निवेशनीयम्।
लघुनियतेत्यादिकं तु भेदप्रतियोगितत्तद्व्यक्तिपरिचायकम्।
इत्थं च अनियतानन्तरासभादीनां एकेन नियतत्वविशेषणेनैव
वारणात् तत्तद्भेदकूटनिवेशे गौरवम्। नियतानां
दण्डत्वादीनां तु अनायत्या तत्तद्भेददवत्त्वे
निवेशनीयमित्यभिसन्धिः।
बालप्रिया
निबन्धान्तरेष्विति-कुसुमाञ्जलिव्याख्याने प्रकाशे
वर्धमानोपाध्यायैः पञ्चविधा अन्यथासिद्धयः प्रदर्शिताः, तदनुसादेण
मुक्तवल्पां च। मणिकारैस्तु शक्तिवादे त्रिविधा एवान्यथासिद्धयः
प्रदर्शिताः। तदनुसारेण दीपिकायामपि।
सहितत्वमेकज्ञानविषयत्वमिति। तथा च यस्य
पूर्ववृत्तित्वमवगाहमाने ज्ञाने नियमेन तदाश्रयस्यापि भानं भवति
तत् अन्यथासिद्धमिति फलति। ऽतन्तुरूपं पटपूर्ववृत्तिऽ इति ज्ञाने
तन्तुरूपाश्रयस्य तन्तोरपि विषयत्वात् ऽतन्तुत्वं पटपूर्ववृत्तिऽ
इति ज्ञाने विशेष्यतावच्छेदकतया तन्तुत्वत्वस्य भानात्
तन्तुत्वत्वस्य तन्त्वितरावृत्तित्वे सति तन्तुवृत्तित्वरूपत्वात्
तन्तूनामपि भानाच्च तन्तुरूपं तन्तुत्वं च पटं
प्रत्यन्यथासिद्धमित्यर्थः।
1तत्कार्यनिरूपितनियतपूर्ववृत्तित्वग्रहनिरूपितस्वनिष्ठवेशष्यतावच्छेदकीभूतस्वाश्रयकत्वं
प्रथमान्यथासिद्धत्वमिति यावत्।
ननु ऽरूपं
पटपूर्वंवृत्तिऽ इत्याकारकं रूपत्वेन
तन्तुरूपावगाहिज्ञानमुपगम्यते तत्र तन्तूनामविषयत्वात् तन्तुना
सहैव पूर्ववृत्तित्वं नावगम्यत इति कथं तन्तुरूपस्य
अन्यथासिद्धत्वमित्याशङ्क्याहतन्तुरूपस्येति। रूपत्वस्य
पटपूर्ववृत्तित्वातिप्रसक्ततया तदवच्छेदेन पटपूर्ववृत्तित्वग्रहो न
सम्भवति, अन्यूनानतिप्रसक्तधर्मस्यैवावच्छेदकत्वात्। अपि तु
अनतिप्रसक्ततन्तुरूपत्वावच्छिन्ने एव पटपूर्ववृत्तित्वं ज्ञायत इति
वक्तव्यम्। तस्मिन् ज्ञाने तु तन्तूनामपि
2विशेष्यतावच्छेदकतया विषयत्वमावश्यकमिति भावः।
तन्तुत्वस्य पूर्ववृत्तित्वज्ञानमपि तन्तुविषयकमेवेति। ऽतन्तुत्वं
पटपूर्ववृत्तिऽ इति ज्ञाने तन्तुत्वस्य विशेष्यत्वात् जातेः यत्र
विशेष्यतया भानं तत्र किञ्चिद्रूपेणैव भानमिति नियमात्
तन्तुत्वत्वेन तन्तुत्वभानं वक्तव्यम्। तन्तुत्वत्वं च
तन्त्वितरावृत्तित्वे सति सकलतन्तुवृत्तित्वरूपमिति
1.
तत्कार्यनिरूपितेत्यादि। तत्कार्यं पटः तन्निरूपितं यत्
नियतपूर्ववृत्तित्वं तद्विषयकग्रहः ऽतन्तुरूपं तन्तुत्वं वा
पटनियतपूर्ववृत्तिऽ इत्याकारको ग्रहः तन्निरूपिता या स्वनिष्ठा
विशेष्यता तन्तुरूपनिष्ठा तन्तुत्वनिष्ठा वा विशेष्यता
तदवच्छेदकीभूतः यः स्वाश्रयः तन्तुरूपस्य तन्तुत्वस्य वा आश्रयः
तन्तुः तत्कत्वं तन्तुरूपे तनतुत्वे चास्तीति समन्वयः।
2.
विशेष्यतावच्छेदकतयेति। तन्तुरूपमित्यस्य समवायसम्बन्धेन
तन्तुविशष्ट रूपमित्यर्थः। तथा च ऽतन्तुरूपं पटपूर्ववृत्तिऽ इति
ज्ञाने विशेष्ये रूपे तन्तूनामपि विशेषणत्वात्
विशेष्यतावच्छेदकत्वमावश्यकमिति भावः।
तन्तुत्वत्वघटकतया
तन्तूनामर्पिं भानमवर्जनीयम्। एवं च
तन्तुत्वविशेष्यकपूर्ववृत्तित्वज्ञानस्य
तन्तुविषयकत्वनैयत्यमित्याशयः। यद्वा यद्विषयकत्वव्याप्यं
पूर्ववृत्तित्वप्रकारकज्ञानीयं यद्विशेष्यकत्वं तत् अन्यथासिद्धमिति
यावत्।
ननु प्रथमयत्पदेन
तन्तुमुपादाय तद्विषयकत्वव्याप्यत्वं ऽतन्तुत्वं पटपूर्ववृत्तिऽ
इति ज्ञानीयतन्तुत्वविशेष्यकत्वे ऽस्तीति तन्तुत्वस्यान्यथा
सिद्धत्वोपपादने, प्रथमयत्पदेन तन्तुत्वमुपादाय
तद्विषयकत्वव्याप्यत्वं ऽतन्तुः पटपूर्ववर्तीऽ इति
ज्ञानीयतन्तुविशेष्यकत्वे ऽस्तीति तन्तुत्वेन
तन्तोरप्यन्यथासिद्धत्वं स्यात्। एवं ऽतन्तुसंयोगः पटपूर्ववर्तीऽ
इति ज्ञानीयतन्तुसंयोगविशेष्यकत्वे
तन्तुविषयकत्वव्याप्यत्वमस्तीति तन्तुना तन्तुसंयोगस्य
अन्यथासिद्धत्वं स्यात् इति, अत आह - अत्र येनेत्यस्येत्यादिना। तथा
च स्वतन्त्रान्वयव्यतिरेकशालि यद्विषयकत्वव्याप्यं
पूर्ववृत्तित्वज्ञानीय - स्वतन्त्रान्वयव्यतिरेकशून्ययद्विशेष्यकत्वं तेन
तदन्यथासिद्धमिति फलति। तन्तुत्वस्य स्वातन्त्र्येण पटं प्रति
अन्वयव्यतिरेकौ न स्तः। किं तु तन्तोरन्वयव्यतिरेकावनुसृत्यैव।
अतः प्रथमयत्पदेन तन्तुत्वस्य ग्रहणासम्भवात् न तन्तुत्वेन
तन्तोरन्यथासिद्धिरिति भावः। तन्तुत्वस्य ग्रहणासम्भवात् न
तन्तुत्वेन तन्तोरन्यथासिद्धिरिति भावः। तन्तुवत् तन्तुसंयोगस्य
स्वतन्त्रान्वयव्यतिरेका स्तः, असमवयिकारणत्वात्। अतः प्रथमयत्पदेन
तन्तुं गृहीत्वा तद्विषयकत्वव्याप्यत्वस्य ऽतन्तुसंयोगः
पटपूर्ववृत्तिऽ इति ज्ञानीय तन्तुसंयोगविशेष्यकत्वे सत्त्वे ऽपि
तन्तुसंयोगे स्वतन्त्रान्वयव्यतिरेकशून्यत्वाभावात् न
द्वितीययत्पदेन तस्य ग्रहणं शक्यमिति न तस्यान्यथासिद्धिरिति भावः।
तथा च प्रथमयत्पदार्थे स्वतन्त्रान्वयव्यतिरेकशालीति विशेषणस्य
प्रयोजनमाह - तेन न अतथाभूतेनेति।
स्वतन्त्रान्वयव्यतिरेकशून्येनेत्यर्थः। द्वितीययत्पदार्थे
स्वतन्त्रान्वयव्यतिरेकशून्यत्वनिवेशफलमाह न वेति।
लाघवादाहैतरन्वयव्यतिरेकप्रयुक्तेति। आकाशत्वं हीत्यादि।
आकाशस्य घटनियतपूर्ववृत्तित्वे ऽपि घटकारणत्वं नाङ्गीक्रियते,
अन्यथासिद्धत्वात्। तस्य तु अन्यं प्रतीत्यादि द्वितीयान्यथासिद्धत्वम्।
घटं प्रति आकाशस्य पूर्ववृत्तित्वं आकाशत्वेन ग्राह्यम्। आकाशत्वं च
शब्दसमवायिकारणत्वम्। तथा च शब्दं प्रति पूर्ववृत्तित्वं
गृहीत्वैव आकाशस्य घटं प्रति पूर्ववृत्तित्वं ग्राह्यमिति आकाशं
अन्यथासिद्धमिति भावः। अपाकजस्थल इत्यादि। यत्र घटादौ
विजातीयतेजस्संयोगरूपपाकवशात्
पूर्वरूपरसगन्धस्पर्शनाशपूर्वकं रूपान्तररसान्तरादीनामुत्पत्तिः
तत्र रूपान्तराद्युत्पत्तेः प्राक् चतुर्णामपि रूपरसादिप्रागभावानां
नियमेन सत्त्वात् पाकजगन्धं प्रति गन्धप्रागभाववत्
रूपप्रागभावो ऽपि कारणं भवतु इति शङ्का गन्धं प्रति
रूपप्रागभावस्यान्यथासिद्धत्वात् वारणीया। तस्य ऽ अन्यत्र कॢप्तेऽ
त्यादिनोक्तं तृतीयान्यथासिद्धत्वं भवति। अन्यत्र - पाकजादन्यस्मिन्
उपाकजे गन्धे नियतपूर्ववृत्तित्वेन कॢप्तात् गन्धप्रागभावादेव
पाकजगन्धस्यापि सम्भवेन तद्भिन्नः रूपप्रागभावः अन्यथासिद्ध इति
भावः1। अथैवमिति। ऽअन्यत्र कॢप्तेऽ त्यादिरूपेण
तृतीयान्यथासिद्धवर्णन इत्यर्थः। नियतपदं व्यर्थमिति।
ऽकार्यनियतपूर्ववृत्तिऽ इति कारणलक्षणे कार्यपूर्ववृत्ति
इत्येतावन्मात्रोक्तौ यद्घटोत्पत्तेः पूर्वं यदृच्छया रासभो ऽपि
वर्तते, तत्र रासभस्यापि तद्घटपूर्ववृत्तित्वात्
घटकारणत्वापत्तिरिति तद्वारणाय नियतपदमुपात्तम्। तदुपादाने
च
घटव्यापकत्वं रासभे
नास्तीति नातिव्याप्तिः। परं तु तद्घटादन्यस्मिन् घटान्तरे
कॢप्तनियतपूर्ववर्तिभिः दण्डचक्रादिभिरेव तदघटस्यापि सम्भवे
तद्भिन्नरासभस्यान्यथासिद्धत्वात् अनन्यथासिद्धत्वदलेनैव
रासभवावणसम्भवात् नियतपदं व्यर्थमिति शङ्कितुराशयः।
सत्यन्तेनैवेति। अनन्यथासिद्धत्वे सतीत्यनेनैवेत्यर्थः। समाधत्ते -
घटसामान्यं प्रतीति। तद्घटत्वावच्छिन्नं प्रति रासभस्य
पूर्वोक्तरीत्या अन्यथासिद्धत्वे ऽपि
1. एतत्
पीलुपाकवादिनां मतमनुसृत्य। तन्मते परमाणुगन्धस्यैव
पाकजन्यत्वात् द्व्यणुकाद्यवयविगन्धस्य
अवयवगतगन्धजन्यत्वाङ्गीकारेण अपाकजगन्धपदेन
द्व्यणुकादिगन्धस्य ग्रहीतुं शक्यत्वात्। पिठरपाकवादिनां मते तु
अवयविगन्धस्यापि पाकजन्यत्वात् अपाकजः पार्थिवगन्धः अप्रसिद्धः। जले
तु गन्धस्यैवाभावात् अपाकजगन्धपदेन
जलीयगन्धस्योपादानासंभवात्। तन्मतानुसादेण पाकजरूपं प्रति
गन्धप्रागभावस्य रसप्रागभावस्य
वा कारणत्वं भवतु
इति शङ्का, अन्यथासिद्धत्वेन समाधानं च वक्तव्यम्।
घटत्वावच्छिन्नं
प्रत्यन्यथासिद्धत्वं न सम्भवति। तदा हि ऽअन्यत्रऽ इत्यस्य
घटत्वावच्छिन्नात् अन्यस्मिन् इत्यर्थः। तथा च घटसामान्यभिन्ने
पटादौ कॢप्तनियतपूर्ववर्तिभिः तन्तवादिभिः घटस्यासंभवात्
अन्यथासिद्धलक्षणं रासभे नास्तीति अनन्यथासिद्धे
तत्रातिव्याप्तिवारणाय नियतपदमावश्यकमिति भावः।
त्रयाणामन्यथासिद्धानां
संग्राहकमेकं लक्षणं वदतां नवीनानां मतमाह - नवीनाः
पुनरिति। लघु यत् कार्यनियतपूर्ववृत्ति तत एव कार्यकम्भवे
तद्भिन्नं अन्यथासिद्धम्। लघुत्वं शरीरतः उपस्थित्या सम्बन्धेनेति
त्रिविधम्। प्रत्यक्षं प्रति अनेकद्रव्यसमवेतत्वं कारणं वा महत्त्वं
कारणं वेति सन्देहे अनेकद्रव्यसमवेतत्वापेक्षया शरीरतो लाघवं
महत्त्वे अस्तीति लघुनियतपूर्ववृत्तिना महत्त्वेनैव प्रत्यक्षसम्भवे
तद्भिन्नं अनेकसमवेतत्वं अन्यथासिद्धम्। अतो न तत्प्रत्यक्षकारणम्।
गन्धं प्रति
गन्धप्रागभावः कारणं वा रूपप्रागभावो वा इति सन्देहे
गन्धरूपप्रतियोगिन्युपस्थिते झटिति गन्धप्रागभाव एवोपस्थितो
भवति न रूपप्रागभाव इति शीघ्रोपस्थितिरूपलाघवेन गन्धप्रागभाव
एव कारणं रूपप्रागभावस्तु अन्यथासिद्धः। एवं घटं प्रति दण्डः कारणं
वा दण्डत्वदण्डरूपादिकं कारणं वा इति सन्देहे
उभयोर्नियतपूर्ववृत्तित्वे ऽपि दण्डस्य संयोगसंबन्धेन कारणत्वम्।
दण्डत्वदण्डरूपादीनां तु स्वाश्रयदण्डसंयोगरूपपरम्परासम्बन्धेन
कारणत्वमिति सम्बन्धलाघवं दण्ड एवास्तीति तत एव घटसम्बभवे
तद्भिन्नं दण्डत्वदण्डरूपादिकं अन्यथासिद्धमित्यर्थः।
व्युत्पत्तिवैचित्र्यायेति। बुद्धिवैशद्यायेत्यर्थः।
अनुगतस्य
दुर्वचतयेति। लघुत्वस्य शरीरकृतसम्बन्धकृतादिभेदेन
नानारूपतया अन्यथासिद्धत्वं एकमनुगतं न शक्यते वक्तुम्। एवं
लघुत्वविरोधिगुरुत्वस्यापि भिन्नतया तद्भिन्नमित्यस्य
गुरुभूतमित्यर्थकतया गुरुत्वमेव अन्यथासिद्धत्वमिति पर्यवसानात्।
तस्मात् यत्र यत्र प्रामाणिकानां अन्यथासिद्धत्वव्यवहारः
तावत्प्रतियोगिकभेदकूटकवत्त्वं कारणलक्षणे निवेशनीयम्। तत्र
कार्याव्यापकाः ये अनन्ताः रासभादयः तेषां
व्यापकत्वार्थकनियतपदेनैव वारणसम्भवात् तावद्भेदानां
निवेशः अनावश्यकः। कार्यव्यापकानां दण्डत्वादीनां तु भेदः
कारणलक्षणे निवेशनीय इति नियतपदं अनन्यथासिद्धत्वं च
कारणलक्षणे निवेशितवतो ग्रन्थकारस्याशय इति भावः।
तर्कसङ्ग्रहः
अन्त्स्_39 कार्यं प्रागभावप्रतियोगि ।
कार्यंप्रागभावप्रतियोगि।
दीपिका
कार्यलक्षणमाह -
कार्यमिति।
तर्कसङ्ग्रहः
कारणविभागः
अन्त्स्_40 कारणं त्रिविधं समवाय्यसमवायिनिमित्तभेदात् । यत् समवेतं कार्यम् उत्पद्यते तत् समवायिकारणम् । यथा तन्तवः पटस्य पटश् च खगतरूपादेः । कार्येण कारणेन वा सहैकस्मिन्न् अर्थे समवेतत्वे सति यत् कारणं तद् असमवायिकारणम् । यथा तन्तुसंयोगः पटस्य तन्तुरूपं पटरूपस्य । तदुभयभिन्नं कारणं निमित्तकारणम् । यथा तुरीवेमादिकं पटस्य ।
कारणं त्रिविधम् -
समवायि-असमवायि-निमित्तभेदात्। यत्समवेतं कार्यमुत्पद्यते
तत्समवायिकारणम्। यथा
तन्तवः पटस्य, पटश्च
स्वगतरूपादेः। कार्येण कारणेन वा सह एकस्मिन् अर्थे समवेतं
सत्कारणं असमवायिकारणम्। यथा तन्तुसंयोगः पटस्य, तन्तुरूपं
पटगतरूपस्य च। तदुभयभिन्नं कारणं निमित्तकारणम्। यथा
तुरीवेमादिकं पटस्य।
अन्त्स्_41 तद् एतत्त्रिविधकारणमध्ये यद् असाधारणं कारणं तद् एव करणम् ॥
तदेतत्त्रिविधकारणमध्ये यदसाधारणं कारणं तदेव कारणम्।
दीपिका
कारणं विभजते -
कारणमिति। समवायिकारणस्य लक्षणमाह - यत्समवेतमिति। यस्मिन्
समवेतमित्यर्थः। असमवायिकारणं लक्षयतिकार्येणेति। ऽकार्येणऽ
इत्येतदुदाहरति - तन्तुसंयोग इति। कार्येण पटेन सह
एकस्मिन् तन्तौ समवेतत्वात् तन्तुसंयोगः
पटस्यासमवायिकारणमित्यर्थः। ऽकारणेनऽ इत्येतत् उदाहरति -
तन्तुरूपमिति। कारणेन पटेन सह एकस्मिन् तन्तौ समवेतत्वात्
तन्तुरूपं पटरूपस्यासमवायिकारणमित्यर्थः। निमित्तकारणं लक्षयति
- तदुभयेति। समवाय्यसमवायिभिन्नकारणं निमित्तकारणमित्यर्थः।
कारणलक्षणमुपसंहरति - तदेतदिति।
प्राकाशिका
यस्मिन्
समवेतमित्यर्थ इति। यद्धर्मावच्छिन्नं यद्धर्मावच्छिन्ने
समवायेनोत्पद्यते, तद्धर्मावच्छिन्नं प्रति तद्धर्मावच्छिन्नं
समवायिकारणमिति परमार्थः। कारणेन पटेनेति।
स्वकार्य-समवायिकारणेन पटेन इत्यर्थः। स्वं तन्तुरूपम्।
पटादिकं प्रति तुरीतन्तुसंयोगादीनां असमवायिकारणत्ववारणाय
तत्तदसमवायिकारणलक्षणे तत्तद्भिन्नत्वं देयमिति दिक्।
बालप्रिया
यद्धर्मावच्छिन्नमिति। समवायसम्बन्धावच्छिन्नघटत्वावच्छिन्न -
कार्यतानिरूपित-तादात्म्यसम्बन्धावच्छिन्नकारणत्वं
घटसमवायिकारणस्य लक्षणम्। समवायेन कार्यसामान्यं प्रति
तादात्म्येन द्रव्यं कारणमिति सामान्यकार्यकारणभावो ऽप्रामाणिक
इत्यभिप्रेत्यैवमुक्तम्। तादृशकार्यङ्कारणभावस्य प्रामाणिकत्वे तु
समवायसम्बन्धावच्छिन्नकार्यतानिरूपित-तादात्म्यसम्बन्धावच्छिन्न-कारणत्वममिति
सामान्यलक्षणमपि भवितुमर्हति। कार्यतायां
समवायसम्बन्धावच्छिन्नत्वानिवेशे विषयतासम्बन्धेन घटप्रत्यक्षं प्रति
तादात्म्यसम्बन्धेन घटस्यनिमित्तकारणतया
विषयतासम्बन्धावच्छिन्न-
घटप्रत्यक्षनिष्ठकार्यन्तानिरूपित-तादात्म्यसम्बन्धावच्छिन्न-कारणतावति
घटे अतिव्याप्तिः अतः तन्निवेशः। कारणतायां
तादात्म्यसम्बन्धावच्छिंन्नत्वानिवेशे समवायसम्बन्धेन घटं प्रति
कपालसंयोगस्य समवायसम्बन्धेन कारणतया
समवायसम्बन्धावच्छिन्न-घटनिष्ठकार्यतानिरूपितसमवायसम्बन्धावच्छिन्नकारणतावति
घटासमवायिकारणे कपालद्वयसंयोगे अतिव्याप्तिः। तद्वारणाय
तन्निवेशः। एवं समवायसम्बन्धावच्छिन्न -
कार्यतानिरूपित-समवाय-स्वसमवायिसमवेतत्वान्यतरसम्बन्धवच्छिन्नकारणत्वं
असमवायिकारणत्वम्। तत्र कार्यतायां
समवायसम्बन्धावच्छिन्नत्वानिवेशे विषयतासम्बन्धावच्छिन्न -
घटप्रत्यक्षनिष्ठकार्यतानिरूपितासमवायसम्बन्धावच्छिन्न -
निमित्तकारणतावति घटरूपे अतिव्याप्तिः। कारणतायां
समवायसम्बन्धावच्छिन्नत्वानिवेशे
तादात्म्यसम्बन्धावच्छिन्नकारणतावति समवायिकारणे ऽतिव्याप्तिः।
समवायसम्बन्धावच्छिन्नत्वमात्रस्य कारणतायां निवेशे पटरूपं
प्रत्यसमवायिकारणे तन्तुरूपे ऽव्याप्तिः। समवायेन पटरूपं प्रति
तन्तुरूपस्य समवायेन अकारणत्वात्। अतः
स्वसमवायिसमवेतत्वसम्बन्धावच्छिन्नत्वनिवेशः। तावन्मात्रनिवेशे
पटं प्रति असमवायिकारणे तन्तुसंयोगे ऽव्याप्तिः। अतः
अन्यतरसम्बन्धनिवेशः। अधिकमन्यत्र।
तर्कसङ्ग्रहः
प्रत्यक्षलक्षणम्
अन्त्स्_42 तत्र प्रत्यक्षज्ञानकरणं प्रत्यक्षम् । इन्द्रियार्थसन्निकर्षजन्यं ज्ञानं प्रत्यक्षम् ।तद् द्विविधं निर्विकल्पकं सविकल्पकं चेति । तत्र निर्विकल्पकं ज्ञानं निर्विकल्पकं यथेदं किंचित् । सपरकारकं ज्ञानं सविकल्पकं यथा डित्थोऽयम् ब्रह्मणोऽयं श्यामोऽयम् इति ॥
तत्र
प्रत्यक्षज्ञानकरणं प्रत्यक्षम्। इन्द्रियार्थसन्निकर्षजन्यं ज्ञानं
प्रत्यक्षम्।
तद्विभाग
तद्द्विविधम् -
निर्वकल्पकं सविकल्पकं चेति। निष्प्रकारकं ज्ञानं निर्विकल्पकम्।
सप्रकारकं ज्ञानं सविकल्पकम्। यथा ऽडित्थः अयम्ऽ, ऽब्राह्मणः अयम्ऽ,
ऽश्यामः अयम्ऽ, ऽपाचकः अयम्ऽ इति।
दीपिका
प्रत्यक्षप्रमाणलक्षणमाह - तत्रेति। प्रमाणचतुष्टयमध्य
इत्यर्थःः। प्रत्यक्षज्ञानस्य लक्षणमाह - इन्द्रियेति। इन्द्रियं
चक्षुरादिकम्, अर्थः घटादिः, तयोस्संनिकर्षः संयोगादिः, तज्जन्यं
ज्ञानमित्यर्थः।
तद्विभजते -
तद्द्विविधमिति। निर्विकल्पकस्य लक्षणमाह - निष्प्रकारकमिति।
विशेषणविशेष्यसम्बन्धानवगाहि ज्ञानमित्यर्थः। ननु निर्विकल्पके किं
प्रमाणमिति चेत् - न। ऽगौःऽ इति विशिष्टज्ञानं
विशेषणज्ञानजन्यं, विशिष्टज्ञानत्वात् दण्डीति ज्ञानवत्
इत्यनुमानस्य प्रमाणत्वात्। विशेषणज्ञानस्यापि सविकल्पकत्वे
अनवस्थाप्रसङ्गात् निर्विकल्पकसिद्धिः। सविकल्पकं लक्षयति -
सप्रकारकमिति। नामजात्यादिविशेषणविशेष्यसम्बन्धावगाहि
ज्ञानमित्यर्थः। सविकल्पकमुदाहरति - यथेति।
प्रकाशिका
ननु
तुरीयविषयतानिरूपकस्य निर्विकल्पकज्ञानस्प निरूपकतासम्बन्धेन
प्रकारताशून्यत्वमिव विशेष्यताशून्यत्वं संसर्गताशून्यत्वमपि
लक्षणं भवति, विनिगमनाविरहात् इत्यतः लक्षणत्रयं दर्शयति
-विशेषणविशेष्येति। विशेष्यादिविध्या
विशेष्याद्यनवगाहिज्ञानमित्यर्थः। तथा च ज्ञानत्वघटितं
विशेष्यताशून्यत्वम्, विशेषणताशून्यत्वं संसर्गताशून्यत्वं चेति
लक्षणत्रयं पर्यवसितमिति भावः।
केचित्तु - ननु
निष्प्रकारकत्वं प्रकारताशून्यत्वम्। प्रकारता च
भासमानवैशिष्ट्यप्रतियोगित्वम्। संसर्गावच्छिन्नविषयतेति यावत्
तथा च संसर्गानवगाहिज्ञानत्वमेव संसर्गताशून्यज्ञानत्वेन वा
लक्षणमास्तां लाघवादित्यतः तथैव
मूलार्थमाह-विशेषणविशेष्येतीन्ति-इत्याहुः। तच्चिन्त्यम् -
सिद्धान्ते संसर्गताया इव प्रकारताया अपि
विलक्षणविषयतात्मकत्वेन निष्प्रकारकत्वरूपलक्षणे
गौरवानवकाशादिति दिक्।
निर्विकल्पकज्ञानस्य
अतीन्द्रियतया तत्र प्रत्यक्षप्रमाणासम्भवात् अनुमानं प्रमाणयति -
गौरिति। विशिष्टज्ञानत्वादिति। विशिष्टबुद्धिं प्रति विशेषणज्ञानस्य
कारणत्वात् नाप्रयोजकताशङ्केति भावः। अनवस्थाप्रसङ्गादिति।
सविकल्पकस्य विशिष्टबुद्धित्वेन विशेषणज्ञानजन्यत्वनियमादिति
भावः। विशेषणविशेश्यसम्बन्धावगाहीति। अत्राप्युक्तरीत्या लक्षणत्रयं
बोध्यम्।
बालप्रिया
तुरीयविषयतानिरूपकस्येति। प्रकारता -
विशेष्यता संसर्गतात्रयातिरिक्तचतुर्थविषयतानिरूपकस्येत्यर्थः।
विशेष्यादिविधयेति। विशेष्यत्वादिप्रकारेणेत्यर्थः। निर्विकल्पके
घटः घटत्वं सम्बन्धश्च भासते। परन्तु विशेष्यत्वं -
विशेषणत्व-संसर्गत्वैः घटादिकं न भासते। तथा च मूले
प्रकारशब्दः विशेष्यत्व-विशेषणत्व-संसर्गत्वरूपप्रकारपरः।
निष्प्रकारकमित्यस्य तादृशविशेष्यत्वादिप्रकारशून्यमित्यर्थ इति
भावाः। अत्राप्युक्तरीत्या लक्षणत्रयमिति। प्रकारतानिरूपकत्वं
विशेष्यतानिरूपकत्वं संसर्गतानिरूपकत्वमिति लक्षणत्रयमित्यर्थः।
तर्कसङ्ग्रहः
सन्निकर्षविभागः
अन्त्स्_43 प्रत्यक्षज्ञानहेतुर् इन्द्रियार्थसन्निकर्षः षड्विधः । संयोगः संयुक्तसमवायः संयुक्तसमवेतसमवायः समवायः समवेतसमवायो विशेषणविशेष्यभावश् चेति । चक्षुषा घटप्रत्यक्षजनने संयोगः सन्निकर्षः । घटरूपप्रत्यक्षजनने संयुक्तसमवायः सन्निकर्षः चक्षुःसंयुक्ते घटे रूपस्य समवायात् । रूपत्वसामान्यप्रत्यक्षे संयुक्तसमवेतसमवायः सन्निकर्षः चक्षुःसंयुक्ते घटे रूपं समवेतं तत्र रूपत्वस्य समवायात् । श्रोत्रेण शब्दस्याकाशगुणत्वात् गुणगुणिनोश् च समवायात् । शब्दत्वसाक्षात्कारे समवेतसमवायः सन्निकर्षः श्रोत्रसमवेते शब्दे शब्दत्वस्य समवायात् । अभावपरत्यक्षे विशेषणविशेष्यभावः सन्निकर्षो घटाभाववद् भृतलम् इत्य् अत्र चक्षुःसंयुक्ते भूतले घटाभावस्य विशेषणत्वात् । एवं स्न्निकर्षषट्कजन्यं ज्ञानं प्रत्यक्षम् । तत्करणम् इन्द्रियम् । तस्माद् इन्द्रियं प्रत्यक्षप्रमाणम् इति सिद्धम् ॥
प्रत्यक्षज्ञानहेतुः
इन्द्रियार्थसन्निकर्षः षड्विधः। संयोगः, संयुक्तसमवायः,
संयुक्तसमवेतसमवायः, समवायः, समवेतसमवायः,
विशेषणविशेष्यभावश्चेति। चक्षुषा घटप्रत्यक्षजनने संयोगः
सन्निकर्षः। घटरूपप्रत्यक्षे संयुक्तसमवायः। चक्षुस्संयुक्ते घटे रूपस्य
समवायात्। रूपत्वसामान्यप्रत्यक्षे संयुक्तसमवेतसमवायः।
चक्षुस्संयुक्ते घटे रूपं समवेतम्। तत्र रूपत्वस्रू समवायात्।
श्रोत्रेण शब्दसाक्षात्कारे समवायः सन्निकर्षः। कर्णविवरवृत्त्याकाशस्य
क्षोत्रत्वात्। शब्दस्य आकाशगुणत्वात्। गुणगुणिनोः समवायात्।
शब्दत्वसाक्षात्कारे समवेतसमवायः सन्निकर्षः। श्रोत्रसमवेते शब्दे
शब्दत्वस्य समवायात्। अभावप्रत्यक्षे विशेषणविशेष्यभावः सन्निकर्षः।
भूतलं घटाभाववत् इत्यत्र चक्षुस्संयुक्ते भूतले घटाभावस्य
विशेषणत्वात्।
दीपिका
इन्द्रियार्थंसन्निकर्षं विभजते -
प्रत्यक्षेति। संयोगसन्निकर्षमुदाहरति - चक्षुषेति। द्रव्यप्रत्यक्षे
सर्वत्र संयोगः सन्निकर्षः। आत्मा मनसा संयुज्यते, मन इन्द्रियेण,
इन्द्रियमर्थेन ततः प्रत्यक्षज्ञानमुत्पद्यते इत्यर्थः।
संयुक्तसमवायमुदाहरति - घटरूपेति। तत्र युक्तिमाह - चक्षुस्संयुक्त
इति। संयुक्तसमवेतसमवायमुदाहरति -
रूपत्वेति।
समवायमुदाहरति - श्रोत्रेणेति। तदुपपादयति - कर्णेति। नन
दूरस्थशब्दस्य कथं श्रोत्रसम्बन्ध इति चेत् - न।
वीचीतरङ्ग्न्यायेन कदम्बमुकुलन्यायेन वा शब्दात्
शब्दान्तरोत्पत्तिक्रमेण श्रोत्रदेशे जातस्य श्रोत्रेण सम्बन्धात्
प्रत्यक्षत्वसम्भवात्। समवेतसमपायमुदाहरति - शब्दत्वेति।
विशेषणविशेष्यभावमुदाहरति - अभावेति। तदुपपादयति -
घटाभाववदिति। भूतलं विशेष्यम्, घटाभावो विशेषणम्। भूतले
घटो नास्तीत्यत्र अभावस्य विशेष्यत्वं द्रष्टव्यम्।
प्रकाशिका
मन
इन्द्रियेणेति। संयुज्यते इत्यनेनान्वयः। एवमग्रे ऽपि।
आत्मप्रत्यक्षसङ्ग्रहस्तु आत्मा मनसा संयुज्यते, ततः प्रत्यक्षज्ञानं
उत्पद्यते इति योजनान्तरेण। कथं श्रोत्रसम्बन्ध इति। न च
श्रोत्रस्य नभोरूपत्वेन तत्समवायः दूरस्थशब्दे ऽप्यक्षत इति
शङ्क्यम्। अतिप्रसङ्गभङ्गाय
कर्णविवरावच्छिन्ननभो ऽनुयोगिकत्वविशिष्टसमवायस्यैव
प्रत्यक्षहेतुत्वाङ्गीकारेण तादृशसम्बन्धस्य दूरस्थशब्दे ऽभावादिति
भावः। प्रथमतः भेरीदण्डसंयोगेन नभसि शब्द उत्पद्यते, तेन शब्दाः,
तैश्च पुनः शब्दाः इत्येवं क्रमेण निखिलदिगवच्छेदेन
शब्दोत्पत्तेरङ्गीकरणीयतया तदंशे ऽपि साम्यनिर्वाहाय आह -
कदम्वेति। द्रष्टव्यमिति।
अत्रेदमवधेयम् -
विशेषणतानां संयुक्तविशेषणतावादिरूपेण बहुविधत्वे ऽपि
विशेषणतात्वेनैव परिगणनात् च षड्विधत्वहानिः। न चैवं
समवायत्वेनैव संयुक्तसमवायादीनामनुगमः कुतो न कृत इति
वाच्यम्; स्वतन्त्रेच्छस्येत्यादिन्यायानुसारेण अदोषादिति।
बालप्रिया
एवमग्रे ऽपीति।
ऽइन्द्रियमर्थेनऽ इत्यस्यापि ऽसंयुज्यतऽ इत्यनेनान्वय इति
भावः। अतिप्रसङ्गभङ्गातेति। सर्वेषामपि शब्दानां
प्रत्यक्षप्रसङ्गवारणायेत्यर्थः। तथा आद्यवीची समीपदेशे
तरङ्गान्तरं जनयति तत्तरङ्गः समीपदेशे तरङ्गान्तरं
जनयति, एवं भेर्याद्यसमवायिकारणकाद्यशब्दो ऽपि
समीपदेशावच्छेदेन शब्दान्तरं जनयति, सो ऽपि शब्दः
स्वसन्निहितदेशावच्छेदेन शब्दान्तरं जनयतीति रीत्या
कर्णविवरावच्छेदेन उत्पन्नशब्दो गृह्यते इति वीचीतरङ्गन्यायेन
शब्दोत्पत्तिक्रमः। यथा प्रथमतः उत्पन्नं कदम्बमुकुलं
सर्वदिगवच्छेदेन एवदैवानेकमुकुलानि जनयति एव
भेयाद्याकाशसंयागासमवायिकारणकाद्यशब्दो ऽपि
सर्वदिगवच्छेदेन अधिकशब्दान् जनयतीति। परं तु यद्दिगभिमुखो
वायुः तद्दिगवच्छेदेन अधिकशब्दान् जनयतीति कदम्बमुकुलन्यायेन
शब्दोत्पत्तिक्रम इति नृसिंहप्रकाशिकाकाराः प्राहुः।
अत्रेदमवधेयमित्यादि।
विशेषणविशेष्यभावो नाम नैकः सन्निकर्षः। अपि तु विशेषणत्वं
विशेष्यत्वं चेति सम्बन्धद्वयम्। तत्राभावविशेषणकप्रत्यक्षे
विशेषणत्वं संनिकर्षः। अभावविशेष्यकप्रत्यक्षे विशेष्यत्वं
संनिकर्षः। विशेषणत्वं पञ्चविधम् संयुक्तविशेषणत्वम्,
संयुक्तसमवेतविशेषणत्वम्, संयुक्तसमवेतसमवेतविशेषणत्वम्,
समवेतविशेषणत्वम्, समवेतसमवेतविशेषणत्वम् चेति। एवं
विशेश्यत्वमपि संयुक्तविशेष्यत्वम्, संयुक्तसमवेतविशेष्यत्वम्,
संयुक्तसमवेतसमवेतविशेष्यत्वमे, समवेतविशेष्यत्वम्,
समवेतसमवेतविशेष्यत्वम् चेति पञ्चविधम्। आहत्य
विशेषणविशेष्यभावो दशविध इति न्यायभूषणे प्रत्यपादि।
तेषां क्रमेण
उदाहरणानि - 1भूतलं घटाभाववत्, 2तोयस्पर्शः उष्णत्वाभाववान्,
3नीलत्वं शुक्लत्वाभाववत्,
4वीणाशब्दः
तीव्रत्वाभाववान्, 5शब्दत्वं भेदाभाववत्, 6भूतले घटाभावः,
7तोयस्पर्शे उष्णत्वाभावः, 8नीलत्वे शुक्लत्वाभावः, 9वीणाशब्दे
तीव्रत्वाभावः, 10शब्दत्वे भेदाभावः इति। न चैवं
विशेष्यविशेषणभावस्य बहुविधत्वे षोढा सन्निकर्ष इति कथमिति
वाच्यम्। विशेषणतात्वेन पञ्चविधविशेषणतानां विशेष्यतात्वेन
मूल पाठ: Tarkasaṃgraha with autoentary (Dīpikā), Nīlakaṇṭha's Dīpikāprakāśikā and Bālapriyā · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0