तर्कसंग्रह (टीका सहित) · भाग 121140
सूर्यपरिस्पन्दस्तु अनेकः। अतः कालघटनयैव अतीतत्वादिकं
निर्वाच्यं इति भावः।
अपि च सूर्यपरिस्पन्दः
अतीतादिविषयेषु साक्षात्सम्बन्धेन नास्ति। अतः
1स्वाश्रयतपनसंयोगिसंयोगादिरूपपरम्परासम्बन्धेनैव
सूर्यपरिस्पन्दवृत्तित्वं घटादेर्वक्तव्यम्। तदपेक्षता लाघवात्
साक्षात्सम्बन्धशालिकालस्वीकरणमेवोचितमित्याशयेनाह - दिगिति।
विषयतासम्बन्धेन सर्वाधारत्वं ज्ञानस्याप्यस्ति इत्याशङ्क्य
कालिकसम्बन्धेनेत्यादिरिति कथितम्।
सर्वपदार्थनिष्ठकालिकसम्बन्धावच्छिन्नाधेयतानिरूपिताधिकरणत्वं
सर्वाधारत्वमत्र विवक्षितमिति भावः।
1. स्वाश्रयेति। स्वं
सूर्यपरिस्पन्दः तदाश्रयः सूर्यः तत्संयोगी कालः तत्संयोगी
घटस्य।
ननु क्रियामात्रं
कालोपाधिरिति सिद्धान्तात् क्रियायाः कालिकसम्बन्धेन
सर्वाधारत्वसत्त्वात् तत्रातिव्याप्तिरित्यत आह - अत्र
विभिन्नकालिकयोरिति। क्रियायाः
तत्समकालवर्तिसकलपदार्थाधारत्वे ऽपि
तदसमकालवर्तिपदार्थाधारत्वं न संभवति,
भिन्नकालिकयोराधाराधेयभावविरहात्। सर्वाधारत्वमित्यत्र
सर्वपदं तु सकलकालवर्तिसर्वपदार्थपरम्, अतो न
क्रियायामतिव्याप्तिरिति भावः।
तर्कसङ्ग्रहः
दिङ्निरूपणम्
अन्त्स्_16 प्राच्यादिव्यवहारहेतुर् दिक् । सा चैका विभ्वी नित्या च ॥
प्राच्यादिव्यवहारहेतुः दिक्। सा च एका विभ्वी नित्या च।
दीपिका
दिशो लक्षणमाह -
प्राचीति। दिगपि कार्यमात्रनिमित्तकारणम्।
प्रकाशिका
प्राच्यादिव्यवहारहेतुः इति मूले आदिना
प्रतीच्यादिपरिग्रहः। उदयाचलसन्निहितमूर्तावच्छिन्ना दिक् प्राची।
अस्ताचलसन्निहितमूर्तावच्छिन्न दिक् प्रतीची।
मेरुसन्निहितमूर्तावच्छिन्न दिक् उदीची। तद्व्यवहितमूर्तावच्छिन्ना
तु दक्षिणा।
तर्कसङ्ग्रहः
आत्मनिरूपणम्
अन्त्स्_17[1] ज्ञानाधिकरणम् आत्मा । स द्विविधः परमात्मा जीवात्मा च । तत्रेश्वरः सर्वज्ञः परमात्मैक एव । जीवात्मा प्रतिशरीरं भिन्नो विभुर् नित्यश् च ॥
ज्ञानाधिकरणम् आत्मा। सः द्विविधः जीवात्मा परमात्मा चेति।
ईश्वरसाधनम्
तत्रेश्वरः सर्वज्ञः
परमात्मा एक एव।
जीवात्मनिरूपणम्
जीवस्तु
प्रतिशरीरं भिन्नः। विभुः नित्यश्च।
दीपिका
आत्मनो लक्षणमाह
- ज्ञानेति। आत्मानं विभजते - स द्विविध इति।
परमात्मनो लक्षणमाह
- तत्रेति। नित्यज्ञानाधिकरणत्वम् ईश्वरत्वम्। ननु
ईश्वरसद्भावे किं प्रमाणम्? न तावत् प्रत्यक्षम्। तद्धि बाह्यं
आन्तरं वा। नाद्यः, अरूपिद्रव्यत्वात्। न द्वितीयः,
आत्मसुखदुःखादिव्यतिरिक्तत्वात्। नाप्यनुमानम्, लिङ्गाभावात्।
नाप्यागमः, तथाविधागमाभावात् इति चेत् - न। ऽअङ्कुरादिकं
सकर्तृकं कार्यत्वाते घटवत्ऽ इत्यनुमानस्यैव प्रमाणत्वात्।
उपादानगोचरापरोक्षज्ञानचिकीर्षाकृतिमत्त्वं कर्तृत्वम्। उपादानं
समवायिकारणम्। सकलपरमाण्वादिसूक्ष्मदर्शित्वात् सर्वज्ञत्वम्। ऽयः
सर्वज्ञः सर्वंवित्ऽ इत्याद्यागमो ऽपि तत्र प्रमाणम्।
जीवस्य लक्षणमाह -
जीव इति। सुखाद्याश्रयत्वं जीवलक्षणम्। ननु ऽमनुष्यो ऽहम्ऽ,
ऽब्राह्मणो ऽहम्ऽ इत्यादौ सर्वत्र अहंप्रत्यये शरीरस्यैव विषयत्वात्
शरीरमेव आत्मा इति चेत् - न। शरीरस्य आत्मत्वे
करपादादिनाशे शरीरनाशात् आत्मनो ऽपि नाशप्रसङ्गात्। नापि
इन्द्रियाणां आत्मत्वम् ऽयो ऽहं घटं अद्राक्षम् सो ऽहं इदानीं
स्पृशामिऽ इत्यनुसन्धानाभावप्रसङ्गात्। अन्यानुभूतेर्ऽथे
अन्यस्यानुसन्धानायोगात्। तस्मात् देहेन्द्रियव्यतिरिक्तः जीवः
सुखदुःखादिवैचित्र्यात् प्रतिशरीरं भिन्नः। स च न परमाणुः।
सर्वशरीरव्यापिसुखाद्यनुपलब्धिप्रसङ्गात्। न मध्यमपरिमाणवान्।
तथा सति अनित्यत्वप्रसङ्गेन कृतहान - अकृताभ्यागमप्रसङ्गात्।
तस्मात् नित्यः विभुः जीवः।
प्रकाशिका
मूले ज्ञानाधिकरणमिति। समवायेन
ज्ञानवदित्यर्थः। तत्र - तयोर्मध्ये। दीपिकायाम्
नित्यज्ञानाधिकरणत्वमिति। न च ऽ(नित्यं) विज्ञानं आनन्दं ब्रह्मऽ इति
श्रुत्वा विरोध इति वाच्यम्। आनन्दपदस्य आनन्दवदर्थकताया
इव विज्ञानपदस्यापि
विज्ञानवदर्थकतास्वीकारेण अविरोधात्। न च आनन्दपदस्यैव
तादृशार्थकत्वमसिद्धमिति वाच्यम्। अर्श आद्यजन्तत्वाङ्गीकारेण
तादृशार्थसिद्धेः। अन्यथा नपुंसकत्वानुपपत्तेः। अत्र आनन्दः
ऽभारापगमे सुखी संवृत्तो ऽहम्ऽ इतिवत् दुःखाभावे उपचर्यते।
नवीनास्तु नित्यसुखमीश्वरस्याङ्गीकुर्वन्ति इत्यलमधिकजल्पनेन।
अरूपिद्रव्यत्वादिति। बाह्यप्रत्यक्षं प्रति उद्भूतरूपस्य हेतुत्वादिति
भावः। आत्मसुखदुःखादीति। विजातीयात्ममनस्संयोगस्य
मानसप्रत्यक्षहेतोः ईश्वरे ऽभावादिति भावः। प्रमाणत्वादिति। न
चेदं अप्रयोजकमिति शङ्यम्। अप्रयोजकमिति शङ्क्यम्।
कार्यत्वावच्छिन्नं प्रति कृतित्वावच्छिन्नस्य हेतुत्वेन
अप्रयोजकत्वाभावादिति दिक्। उपादानेति। यद्यपि कर्तृत्वं
कृतिमत्त्वमेव संभवति तथापि अपरोक्षज्ञानादेः चिकीर्षादिकं प्रति
कारणत्वप्रदर्शनाय तथोक्तिरिति ध्येयम्। सर्वविदिति।
विदधात्वर्थो विशेषरूपेण ज्ञानम्।
लक्षणमाहेति।
स्वरूपमाहेत्यर्थः। मूले प्रतिशरीरं भिन्न इति। न
चावयवोपचयाभ्यां तत्तच्चैत्रादिशरीराणां विभिन्नत्वे ऽपि
जीवभेदाभावात् इदमसङ्गतम्। एवं कायव्यूहस्थले ऽपीति
वाच्यम्। समानकालिकायोगजधर्माजन्यशरीरभेदेन जीवभेदस्यैव
विवक्षिततया अदोषात्। एवं च एतच्छरीरावच्छिन्नभोगवान्
समानकालिकयोगजधर्माजन्यतच्छरीरावच्छिन्नभोगवद्भिन्न इति
रीत्या प्रतिशरीरं जीवभेदः साध्य इत्यलम्।
शरीरस्यैवेति। अन्यथा
मनुष्यत्वादीनां शरीरधर्मत्वेन तथा प्रत्ययस्यैव
असङ्गतिरित्यभिमानः नाशप्रसङ्गादिति। समवायिकारणनाशस्य
द्रव्यनाशकत्वादिति भावः। यो ऽहमिति। भूतकालिकदर्शनवति
वर्तमानकालिकस्पार्शनवत्त्वं प्रत्याय्यते तच्च भवतां मते न
सम्भवति चाक्षुषस्पार्शनवतोर्भेदादिति भावः।
अनुसन्धानायोगादिति। अन्यथा चैत्रेणानुभूतस्य वस्तुनः मैत्रेण
स्मरणापत्तेरिति भावः।
ननु
सर्वशरीरावच्छेदेन आत्मनि सुखादिसाक्षात्कारोपपत्तये
सर्वशरीरव्यापित्वं आत्मनो ऽस्तु। तथापि विभुत्वाङ्गीकारे
प्रयोजनाभाव इत्यत आह - न मध्यमेति। अनित्यत्वप्रसङ्गेनेति।
यन्मध्यमपरिमाणं तदनित्यम् इति व्याप्तेरिति भावः। कृतेति।
कृतस्य यागादिना सम्पादितस्य धर्मादेर्हानं नाशः,
अकृतस्याभ्यागमः प्राप्तिः तत्प्रसङ्गादित्यर्थः। कर्तुः आत्मन
उत्तरजन्मनि असत्त्वात्, अकर्तुश्च सत्त्वादिति भावः।
ननु जीवस्य
अणुत्वमेव आस्ताम्, तावता नोक्तदोषः। सूक्ष्मदीपस्य
सर्वगृहावच्छेदेनेव अणुरूपस्यापि जीवस्य प्रभाप्रसरणङ्गीकारात्
इति चेत् - न। तथा सति कायव्यूहस्थले
सुखादिसाक्षात्कारानुपपत्तेरिति दिक्।
बालप्रिया
समवायेन
ज्ञानवदिति। कालिकसम्बन्धेन ज्ञानवति काले ऽतिव्याप्तिवारणाय
समवायेनेति। सम्बन्धविशेषावच्छिन्नाधारतासूचनायैव
अधिकरणपदम्। अन्यथा ज्ञानवान् आत्मा इत्येव वदेत् इति
भावः। दीपिकायाम् - बाह्मम् - बहिरिन्द्रियजन्यम्। आन्तरम् -
मनोजन्यम्। अरूपिद्रव्यत्वादिति। रूपवतो द्रव्यस्यैव
बहिरिन्द्रियजन्यप्रत्यक्षविषयत्वादिति भावः।
आत्मसुखदुःखादिव्यतिरिक्तत्वादिति। यस्य जीवात्मनः स्वीयमनसा
संयोगो ऽस्ति स तस्यैव जीवात्मनः तत्समवेतसुखादेर्वा
मानसप्रत्यक्षं जनयेत्। तज्जीवात्मतदीयसुखादिव्यतिरिक्तं
तदीयमनस्संयोगजन्यप्रत्यक्षविषयो न भवति। अतः ईश्वरः
जीवात्मतत्सुखातिरिक्तः तदीयमानसप्रत्यक्षविषयो न भवतीत्याशयः
लिङ्गाभावादिति। ईश्वरव्याप्यस्य लिङ्गस्याभावादीश्वरे
नानुमानं प्रमाणमिति भावः।
ननु ऽ(नित्यं)
विज्ञानमानन्दं ब्रह्मऽ इति श्रुत्या आत्मनः ज्ञानस्वरूपत्वमात्रावगमात्
ज्ञानाधिकरणत्वं न सम्भवतीति शङ्कते - न च नित्यमिति। समाधत्ते
- आनन्दपदस्येति। आनन्दार्थकस्य आनन्दशब्दस्य
नित्यपुंल्लिङ्गत्वात् आनन्दमिति नपुंसकत्वानुपपत्तेः
आनन्दो ऽस्यास्तीत्यर्थे आनन्दशब्दात् ऽअर्श आदिभ्यो ऽच्ऽ इत्यच्प्रत्यये
नपुंसक आनन्दशब्दः सम्पद्यते। तथा च आनन्दमित्यस्य आनन्दवदित्यर्थ
एव वक्तव्यः। तत्समभिव्याहृतः विज्ञानशब्दः विज्ञानवदर्थक एव युक्तः।
तथा च ज्ञानाधिकरणत्वमेव तया श्रुत्या ईश्वरस्य बोध्यत
इति भावः।
उपचर्यते - लक्षणया प्रयुज्यते।
विजातीयात्ममनस्संयोगस्येति। परात्मव्यावृत्तस्य
स्वात्ममात्रवृत्तेः मनस्संयोगस्येत्यर्थः। न चेदमप्रयोजकमिति।
कार्यत्वमस्तु कर्तृजन्यत्वं मास्तु इति शङ्कायाः निवर्तकस्तर्को
नास्तीति भावः। न चेदमप्रयोजकमिति। कार्यत्वरूपहेतुरस्तु
सकर्तृकत्वरूपसाध्यं मास्तु इति शङ्काया निवारको यस्तर्कः
तच्छून्यमित्यर्थः। कार्यत्वावच्छिन्नं प्रतीति। ननु सकर्तृकत्वं हि
कर्तृजन्यत्वम्। पक्षे तदभावो ऽस्तु इति शङ्कायां यदि
कर्तृजन्यत्वं न स्यात् तर्हि कार्यत्वमपि न स्यात्, कार्यसामान्यं
प्रति
कर्तुः
कारणत्वादित्येवं कार्यत्वावच्छिन्नं प्रति कर्ता कारणमिति
कार्यकारणभावाख्यो ऽनुकूलतर्क एव वक्तव्यः न तु कार्यत्वावच्छिन्नस्य
कृतित्वावच्छिन्नं कारणं इत्येतादृश इति कथमेतदिति चेत् -
न। साध्यं सकर्तृकत्वं न कर्तृजयत्वरूपम्। तथा सति कर्तृत्वस्यैव
जनकतावच्छेदकत्वं स्यात्। कर्तृत्वं च कृतिमत्त्वरूपं
कृत्यात्मकमिति अनन्तानां कृतीनां कारणतावच्छेदकत्वे गौरवं
स्यात्। अतः कृतिजन्यत्वमेव सकर्तृकत्वम्। कृतित्वमेव
जनकतावच्छेदकम् कृतित्वं तु जातिरूपतया एकमित्याशयेन
कार्यत्वावच्छिन्ने कृतित्वावच्छिन्नं कारणम्
इत्येतादृशकार्यकारणभावाश्यतर्काभिधानात्।
ननु घटत्वावच्छिन्नं
प्रति कुलालकृतित्वावच्छिन्ना हेतुः इति विशिष्यैव
कार्यकारणभावादेतादृशसामान्यकार्यकारणभावे प्रमाणाभावे
इत्यत्राह - दिगिति।
घटत्वपटत्वादिभेदेनानन्तकार्यकारणभावकल्पनापेक्षया
कार्यत्वावच्छिन्नं प्रति कृतित्वेन एकहेतुहेतुमद्भावकल्पनमेव
उचितमिति भावः। दीपिकायाम् उपादानगोचरेति। उपादानं
समवायिकारणं कपालादि तद्विषयकं यत् अपरोक्षज्ञानं, एवं
समवायिकारणविषयिणी या चिकीर्षा कपालेन घटं कुर्याम्
इत्याकारिका इच्छा, एवं समवायिकारणविषयिणी या कृतिः
तद्वत्त्वं कर्तृत्वमित्यर्थः। उपादानगोचरेत्यस्य त्रिष्वप्यन्वयात्।
यद्यपीत्यादि। ऽजानातिऽ, ऽइच्छतिऽ, ऽयततेऽ, ऽकरोतिऽ इति
क्रमात् कार्यसामान्यं प्रति यत्नः कारणम्, यत्ने चिकीर्षा कारणम्,
चिकीर्षां प्रति ज्ञानं कारणमिति ज्ञापनाय दीपिकायां त्रितयमुक्तम्।
साध्यं तु कृतिजन्यत्वमेवेति भावः। ननु ऽयः सर्वज्ञः सर्ववित्ऽ
इति श्रुतौ सर्वज्ञशब्दसमानार्थकत्वात् सर्ववित्पदस्य
पुनरुक्तिरित्याशङ्क्याह - विदधात्वर्थ इति। तथा च सर्वज्ञशब्देन
सामान्यतः प्रमेयत्वादिना सर्वविषयकज्ञानमुच्यते। सर्ववित्पदेन
घटत्वपटत्वादिना विशेषरूपेण सर्वविषयकज्ञानमुच्यते। अतो न
पुनरुक्तिरिति भावः।
ननु जीवस्तु
ऽप्रतिशरीरं भिन्नऽ इति मूले जीवस्य प्रतिशरीरं भेद एवोच्यते न
लक्षणम्। तथा च तस्य म्लस्य ऽजीवस्य लक्षणमाहऽ इत्यवतरणं न
युक्तम् इत्यत आह - स्वरूपमाहेत्यर्थ इति। शङ्कते - न चेति।
चैत्रशरीरस्य अवयवोपचयाभ्यां भेदस्यावश्यकतया
चैत्रीयबालशरीरापेक्षया तदीययुवशरीरवृद्धशरीरादीनां भेदो
वक्तव्यः। तथा च बालयुवादिशरीरभेदे सत्यपि तदवच्छिन्न आत्मा एक
एव। एवं सौभरिप्रभृतीनां आत्मन एकत्वे ऽपि
शरीरासमूहाङ्गीकारात् प्रतिशरीरं जीवभेदाभावात् प्रतिशरीरं
जीवो भिन्न इति कथं सङ्गच्छत इति शङ्काग्रन्थस्यार्थः।
कायव्यूहस्थल इति। एकेन जीवेन अनेकशरीराधिष्ठानस्थल
इत्यर्थः।
समाधत्ते -
समानकालिकेति। समानकालिकानां योगजधर्माजन्यानां शरीराणां
भेदो यत्र तत्र जीवभेद इत्येव मूले विवक्षितम्।
चैत्रीयबालयुवादिशरीराणां समानकालिकत्वाभावात्
सौभरिप्रभृतिभिः एककाले अधिष्ठितानां
शरीराणां
योगजधर्मजन्यत्वेन तदजन्यत्वाभावात् तादृशशरीराणां भेदः
नात्मभेदव्याप्यतया मूलाभिप्रेत इति नानुपपत्तिः। तथा च
समानकालिकयोगजधर्माजन्यशरीरभेदव्यापकभेदप्रतियोगी जीव
इति ऽजीवस्तु प्रतिशरीरं भिन्नःऽ इति मूलार्थः। तादृशः
शरीरभेदः चैत्रमैत्रादिशरीरेषु तत्रात्मभेदो ऽस्तीति भावः।
एवं चेत्यादि।
अवच्छेद्यतासम्बन्धेन तच्छरीरभिन्नशरीरवत्त्वादिति हेतुः पूरणीयः।
अन्यथेत्यादि। ऽअहं मनुष्यऽ इत्यादिप्रतीत्या अहमर्थे आत्मनि
मुनष्यत्वादिधर्माः प्रकारतया भासन्ते। शरीर एव मनुष्यत्वादयः
भवन्ति। तस्मात्
अहमर्थात्मविशेष्यकमनुष्यत्वादिदेहधर्मप्रकारकप्रतीतिरियं
शरीरमेवात्मा इत्यवगमयति। यदि तु शरीरातिरिक्तः आत्मा तर्हि
मनुष्यत्वादिरहिते आत्मनि मनुष्यत्वादिप्रकारिका इयं प्रतीतिः
भ्रमरूपा स्यात् न प्रमात्मिकेति भावः। अन्यथा -
शरीरातिरिक्तस्यात्मनः अहमर्थत्वे। प्रत्ययस्यैवासङ्गतिरिति। तथा
प्रतीतेः प्रमात्वानुपपत्तिरित्यर्थः। मनुष्यशब्दस्य
मनुष्यशरीरावच्छिन्न इत्यर्थात् ऽअहं मनुष्यऽ इति प्रतीतिः
अहमर्थे मनुष्यशरीरावच्छिन्नत्वमवगाहते। अतः शरीरात्मत्वसाधिका
इयं प्रतीतिर्न भवतीति सिद्धान्तं मनसिकृत्य ऽइत्यभिमानऽ
इत्युक्तम्।
भूतकालिकेति।
ऽयो ऽहमद्राक्षं सो ऽहमिदानीं स्पृशामिऽ इति प्रतीत्या
भूतकालिकचाक्षुषप्रत्यक्षाश्रयवर्तमानकालिकस्पार्शनप्रत्यक्षाश्रययोरैक्यमवगम्यते।
इन्द्रियात्मवादे चाक्षुषप्रत्यक्षाश्रयः चक्षुः स्पार्शनप्रत्यक्षाश्रयः त्वक्
इति तयोर्भेदात् तयोरैक्यावगाहिनी प्रत्यभिज्ञाप्रतितिर्न घटत
इति भावः। दीपिकायाम् अन्यानुभूत इति। ननु
चक्षुस्त्वचोर्भेदात् तयोरभेदावगाही प्रत्यभिज्ञाप्रत्ययो नोपपद्यत
इत्येव वक्तव्यम्। न त्वेवमिति कथमेष ग्रन्थो योजनीय इति
चेत् - श्रूयताम्। उक्तप्रत्यभिज्ञा यथा वा
चाक्षुषस्पार्शनप्रत्यक्षाश्रययोरैक्यमवगाहते तथा
चाक्षुषप्रत्यक्षविषयस्यैव स्पार्शनप्रत्यक्षविषयत्वमप्यवगाहते। तत्र
चक्षुःकर्तृकचाक्षुषप्रत्यक्षविषयस्य घटस्य
त्वक्कर्तृकस्मरणविषयत्वासम्भवात् तत्स्मरणपूर्वकं तत्र
स्पार्शनप्रत्यक्षविषयत्वावगाहिनीत्वक्कर्तृकप्रत्यभिज्ञा न स्यात्। अत
इन्द्रियातिरिक्तः
चाक्षुषस्पार्शनप्रत्यक्षयोराश्रयः एको ऽङ्गीकार्यः। स च स्वात्मनः
अभेद स्वानुभूतमर्थं च अनुसन्धातुमर्हतीत्याशयेन दीपिकायाः
प्रवृत्तेरिति। प्रकाशिकायां हानं नाश इति। कृत्स कर्मणो नाशो
नाम निष्फलत्वम्। कर्मकर्तुः फलानुभवं विनैव नाशात्।
अकृतस्य कर्मणः -
कर्मण्यकृतऽपि अभ्यागमः - फलप्राप्तिः। फलानुभविता कर्मकर्तुरन्य
एवेति तस्य कर्मानुष्ठानं विनैव तत्फप्राप्तिरिति भावः। तदाह -
कर्तुःआ मन इति। प्रभाप्रसरणाङ्गीकारादिति। ज्ञानरूपप्रभायाः
सर्वशरीरव्याप्त्यङ्गीकारात् इत्यर्थः। कायव्यूहस्थले इति।
एकेन जीवेन युगपदधिष्ठितानेक शरीस्थले यस्मिन्
शरीरे ऽणुर्जीवः वर्तते तच्छरीरे जीवप्रभायाः ज्ञानस्य प्रसरे ऽपि
शरीरान्तरेषु ततप्रसराभावात् तदवच्छेद्यसुखाद्यनुसन्धानमात्मनो
न स्यादिति भावः।
ननु
कायव्यूहस्थले ऽपि यावन्ति शरीराणि जीवेनाधिष्ठितानि तावत्सु
तत्प्रभाप्रसरो ऽङ्गीक्रियते। अतो नाक्तानुपपत्ति
रित्यशङ्क्याहदिगिति। यथा एकगृहान्तरारोपितदीपस्य प्रभा
गृहान्तरे न प्रसरति, तथा एकशरीरान्तःस्थजीवस्य प्रभा शरीरान्तरे
न प्रसरेदिति भावः।
तर्कसङ्ग्रहः
मनोनिरूपणम्
अन्त्स्_18 सुखाद्युपलब्धिसाधनम् इन्द्रियं मनः । तच् च प्रत्यात्मनियतत्वाद् अनन्तं परमाणुरूपं नित्यं च ॥
सुखाद्युपलब्धिसाधनम् इन्द्रियं मनः। तच्च
प्रत्यात्मनियतत्वात् अनन्तं परमाणुरूपं नित्यं च।
दिपिका
मनसो लक्षणमाह -
सुखेति। स्पर्शरहितत्वे सति क्रियायत्त्वं मनसो लक्षणम्। तद्विभजते
- तच्चेति। एकैकस्यात्मन एकैकं मन आवश्यकम् इत्यात्मनां
अनेकत्वात् मनसो ऽप्यनेकत्वमित्यर्थः। परमाणुरूपमिति।
मध्यमपरिमाणवत्त्वे अनित्यत्वप्रसङ्गादित्यर्थः।
ननु ऽमनो विभु
स्पर्शरहितत्वे सति द्रव्यत्वात्, आकाशादिवत्ऽ इति चेत् - न।
मनसो विभुत्वे आत्ममनस्संयोगस्य असमवायिकारणस्य अभावात्
ज्ञानानुत्पत्तिप्रसङ्गः। न च विभुद्वयसंयोगः अस्त्त्विति वाच्यम्।
तत्संयोगस्य नित्यत्वेन सुषुप्त्यभावप्रसङ्गात्,
पुरीतद्व्यतिरिक्तस्थले आत्ममनस्संयोगस्य सर्वदा विद्यमानत्वात्।
अणुत्वे तु यदा मनः पुरीतति प्रविशति तदा सुषुप्तिः, यदा
निस्सरति तदा ज्ञानोत्पत्तिरित्यणुत्वसिद्धिः।
प्रकाशिका
मनस्संयोगाद्यतिव्याप्तिवारकेन्द्रियत्वघटितमूलोक्तलक्षणापेक्षया
लघुलक्षणमाह - स्पर्शरहितत्वे सतीति। एकैकं मन इति।
सर्वात्मनां एकस्य मनसः स्वीकारे एकस्य ज्ञानदशायां अपरस्य
तदनुपपत्तिः, तस्याणुत्वेन सकलेन्द्रियैरेकदा संयोगाभावादिति
भावः। विभ्विति। तथा च तस्य परममहत्परिमाणवत्त्वेन
पूर्वोक्तदोषानवकाश इति भावः। अभावादिति।
विभुद्वयसंयोगानभ्युपगमादिति भावः। विभ्विति। तथा च तस्य
परममहत्परिमाणवत्त्वेन पूर्वोक्तदोषानवकाश इति भावः।
अभावादिति। विभुद्वयसंयोगानभ्युपगमादिति भावः।
ज्ञानानुत्पत्तीति। भावकार्यस्यासमवायिकारणजन्यत्वनियमादिति
भावः। विभुद्वयसंयोगो ऽस्त्विति। तस्य नित्यत्वेन
असमवायिकारणक्रियाद्यसत्त्वे ऽपि न क्षतिरिति भावः।
बालप्रिया
तर्कसङ्ग्रहोक्तं
मनोलक्षण परित्यज्य दीपिकायां अन्यस्य मनोलक्षणस्य कथने
बीजमाह - मनस्संयोगादीति। ऽसुखादिसाक्षात्कारसाधनत्वं मनसो
लक्षणम्ऽ इत्येतावन्मात्रोक्तौ आत्ममनस्संयोगे ऽतिव्याप्तिः,
तस्यापि सुखादिसाक्षात्कारसाधनत्वात्। तद्वारणाय इन्द्रियत्वं
निवेशितम्। इन्द्रियत्वं व ऽशब्देतरेऽ त्यादिरूपमिति तद्घटितं
मनोलक्षणं अतिगुरु इति पर्यालोच्य लघुलक्षणं दीपिकायां
उक्तमिति भावः।
"साधनमित्यस्य करणमित्यर्थः।
एतल्लाभायैव इन्द्रियपदमुपात्तम्, न तु तेन रूपेण प्रवेशः
गौरवात्"इति तु नृसिंहशास्त्रिणः प्राहुः। तेषां
पक्षे सभ्भवतो लक्षणान्तरस्याकथने न्यूनता स्यादिति तद्वारणायैव
दीपिकायां लक्षणान्तरकरणम्। उक्तं च तैरेव -"न्यूनतापरिहाराय स्वयं मनोलक्षणमाह"इति। ननु विभद्वयसंयोगः कथ भवेत्? संयोगं प्रति
क्रियायाः संयोगस्य च हेतुत्वात्। विभुनोश्च क्रियाशून्यत्वात्
क्रियाजन्यः संयोगो न सम्भवति। अवयवशून्यत्वात्
हस्तपुसतकसांयोगात् कायपुस्तकसंयोगवत्
संयोगजसंयोगो ऽपि न संभवतीत्यत्राह - तस्य नित्यत्वेनति।
क्रियादीत्यत्र आदिशब्देन संयोगो गृह्यते। तथा च जन्यसंयोगं
प्रत्येव क्रियादेः हेतुत्वं न त्वसंयोगे अजत्वविरोधादिति भावः।
तर्कसङ्ग्रहः
रूपनिरूपणम्
अन्त्स्_19 चक्षुर्मात्रग्राह्यो गुणो रूपम् । तच् च शुक्लनीलपीतरक्तहरितकपिशचित्रभेदात् सप्तविधं पृथिवीजलतेजोवृत्ति । तत्र पृथिव्यां सप्तविधम् । अभास्वरशुक्लं जले । भास्वरशुक्लं तेजसि ॥
चक्षुर्मात्रग्राह्यो
गुणो रूपम्। तच्च शुक्ल - नील-पीत - रक्तहिरत - कपिश -
चित्रभेदात् सप्तविधम्। पृथिवीजलतेजावृत्ति। तत्र पृथिव्यां
सप्तविधम्। अभास्वरशुक्लं जले। भास्वरशुक्लं तेजसि।
दीपिका
रूपं लक्षयति -
चक्षुरिति। सङ्ख्यादावतिव्याप्तिवारणाय मात्रपदम्। रूपत्वे
अतिव्याप्तिवारणाय गुणपदम्। रूपं विभजते - तच्चेति।
ननु
अव्याप्यवृत्तिनीलादिसमुदाय एव चित्ररूपम् इति चेत् - न। रूपस्य
व्याप्यवृत्तित्वनियमात्। ननु चित्रपटे अवयवरूपस्यैव
प्रतीतिरस्त्विति चेत् - न। रूपरहितत्वेन
पटस्याप्रत्यक्षत्वप्रसङ्गात्। न च रूपवत्समवेतत्वं
प्रत्यक्षत्वप्रयोजकम्, गौरवात्। तस्मात् पटस्य प्रत्यक्षत्वानुपपत्त्या
चित्ररूपसिद्धिः। रूपस्याश्रयमाह - पृथिवीति। आश्रयं विभज्य दर्शयति
- तत्रेति।
प्रकाशिका
मात्रपदमिति।
यद्यपि चक्षुर्मात्रग्राह्यत्वं चक्षुरितराग्राह्यत्वे सति चक्षुर्ग्राह्यत्वम्, तच्च
न रूपे संभवति; तथापि त्वगिन्द्रियाग्राह्यत्वे सति चक्षुर्ग्राह्यत्वं
तदिति ध्येयम्। गुणपदमिति। न चैवमपि
प्रभाभित्तिसंयोगे ऽतिव्याप्तिरिति वाच्यम्,
त्वगग्राह्यचक्षुर्ग्राह्यगुणविभाजकधर्मवत्त्वे पर्यवसानेन अदोषात्। अत
एव परमाणुरूपादौ नावयाप्तिरिति बोध्यम्। समुदाय एवेति।
एवकारेणातिरिक्तचित्ररूपव्यवच्छेदः। व्याप्यवृत्तिवेति।
दैशिकव्याप्यवृत्तित्वेत्यर्थः।
इदमुपलक्षणम् -
एकैकचित्ररूपस्थले अनेकरूपाणां एकैकतत्तत्प्रागभावादिस्थले च
अनेकप्रागभावादीनां कल्पनेन अनेकरूपेषु चित्रः
इत्याकारकप्रतीतिविषयत्वकल्पनेन च गौरवमिति।
रूपरहितत्वेनेति। समवायेनेत्यादिः। प्रसङ्गादिति। द्रव्यचाक्षुषं
प्रति समवायेन रूपस्य कारणत्वादिति भावः। रूपवत्समवेतत्वमिति।
स्पाश्रयसमवेतत्वसम्बन्धेन रूपम्। प्रत्यक्षत्वप्रयोजकमिति।
प्रत्यक्षविषयत्वप्रयोजकमस्तु इत्यर्थः। गौरवादिति।
साक्षात्सम्बन्धेन कारणत्वापेक्षया गौरवादित्यर्थः।
चित्रावयवकावयवकपालैः आरब्धपटस्य चाक्षुषत्वानुरोधेन
स्वसमवायिसमवेतसमवेतसमवेतत्वसम्बन्धेन रूपस्य
तत्प्रयोजकत्वमङ्गीकर्तव्यम्। एवं च त्रुटेः चाक्षुषत्वानुपपत्तिरपि
द्रष्टव्या। प्रत्यक्षत्वानुपपत्त्येति। एतेन चित्ररूपवत् चित्ररसो ऽपि
सिध्येदिति शङ्कानिरस्तार्। दवयलौकिकरासनस्य अप्रसिद्ध्या
तदनुपपत्त्यभावेन न चित्ररसाङ्गीकार इति सङ्क्षेपः।
बालप्रिया
ननु
चक्षुर्मात्रग्राह्यत्वं रूपे असम्भवि। चक्षुरितराग्राह्यत्वे सति चक्षुर्ग्राह्यत्वं
हि चक्षुर्मात्रग्राह्यत्वम्। ज्ञानसामान्ये मनसः कारणत्वात्
चक्षुरितरमनोजन्यप्रत्यक्षविषयत्वस्यैव रूपे सत्त्वेन
चक्षुरितराग्राह्यत्वस्य रूपे अभावादिति शङ्कते - यद्यपीति।
चक्षुरितराग्राह्यत्वं चक्षुरितरजन्यप्रत्यक्षाविषयत्वम्। चक्षुर्ग्राह्यत्वं
चक्षुरिन्द्रियजन्यप्रत्यक्षविषयत्वम्। समाधत्ते - तथापीति।
चक्षुरितरपदेन त्वगिन्द्रियं विवक्षितम्। तथा च
त्वगिन्द्रियजन्यप्रत्यक्षाविषयत्वे सति चक्षुरिन्द्रियजन्यप्रत्यक्षविषयत्वं
चक्षुर्मात्रग्राह्यत्वम्। अस्ति चेदं रूपे इति नासम्भव इति भावः।
सत्यन्तानुपादाने एकत्वादिसङ्ख्यायामतिव्याप्तिः, तस्या अपि
चक्षुरिन्द्रियजन्यप्रत्यक्षविषयत्वात्। तदुपादाने तु सङ्ख्यायाः
त्वगिन्द्रियोणापि ग्राह्यतया त्वगिन्द्रियजन्यप्रत्यक्षाविषयत्वं नास्तीति
नातिव्याप्तिः। अतीन्द्रिये धर्मादावतिव्याप्तिवारणाय विशेष्यम्। न
चैवमपीति। प्रभाभित्तिसंयोगस्य त्वगिन्द्रियाग्राह्यत्वात्
चक्षुर्ग्राह्यत्वाच्चेति भावः। त्वगग्राह्येति। त्वगिन्द्रियजन्यप्रत्यक्षाविषयः
चक्षुरिन्द्रियजन्यप्रत्यक्षविषयश्च यः गुणविभाजकधर्मः तद्वत्त्वं रूपस्य
लक्षणम्। गुणविभाजकधर्मः रूपत्वजातिः। सा च त्वगग्राह्या चक्षुर्ग्राह्या
च, यो गुणः यदिन्द्रियग्राह्यः तन्निष्ठा जातिः तदभावश्च
तदिन्द्रियग्राह्यौ इति न्यायात्। रूपत्ववत्त्वं च रूपे अस्तीति
लक्षणसमन्वयः। प्रभाभित्तिसंयोगे विघमानः
गुणविभाजकधर्मः
संयोगत्वम्। स च न त्वगग्राह्यो भवति घटपटसंयोगादौ
संयोगत्वस्य त्वगिन्द्रियेण ग्रहणात् इति
प्रभाभित्तिसंयोगे
नातिव्याप्तिरिति भावः। एतादृशजातिघटितलक्षणकरणे
प्रभाभित्तिसंयोगे अतिव्यापितवारणवत्
परमाणुरूपे ऽव्याप्तिवारणमिति प्रयोजनमित्सयाह - अत एवेति।
परमाणुगतरूपस्य अतीन्द्रियतया तत्र चक्षूर्ग्राह्यत्वाभावात्।
यथाश्रुतलक्षणे
अव्याप्तिः। यथोक्तजातिघटितलक्षणे तु परमाणुरूपे विद्यमानः
गुणविभाजकधर्मः रूपत्वम्। स तु घटरूपे चक्षुर्ग्राह्य एव। तथा च
चक्षर्ग्राह्यरूपत्ववत्तया परमाणुरूपे लक्षणसमन्वयात् नाव्याप्तिरिति
भावः। ननु उत्पत्तिक्षणे घटादौ रूपाभावेन रूपस्य
कालिकाव्याप्यवृत्तितया ऽरूपस्य व्याप्यवृत्तित्वनियमात्ऽ
इत्यसङ्गतमित्यत आह - दैशिकव्याप्यवृत्तित्वेति।
ननु
स्वाश्रयसमवेतत्वसम्बन्धेन पटे तन्तुगतरूपाणां सत्त्वात्
रूपरहितत्वेन इत्यसङ्गतम् इत्यत आह - समवायेनेतयादिति।
विषयतासम्बन्धेन प्रत्यक्षं प्रति समवायसम्बन्धेन रूपस्य कारणत्वात्
पटे समवायेन रूपं नास्ति चेत् पटस्य प्रत्यक्षविषयत्वं न स्यादिति
भावः। ननु प्रत्यक्षत्वं प्रत्यक्षज्ञानवृत्ति। प्रत्यक्षज्ञाने च
रूपवत्समवेतत्वाभावात् ऽरूपवत्समवेतत्वं प्रत्यक्षत्वप्रयोजकम्ऽ
इति ग्रन्थः असङ्गत इत्याशङ्क्याह -
प्रत्यक्षविषयत्वप्रयोजकमिति। प्रत्यक्षत्वपदमत्र
प्रत्यक्षविषयत्वार्थकमिति भावः। विषयतासम्बन्धेन द्रव्यप्रत्यक्षं प्रति
स्वाश्रयसमवेतत्वसम्बन्धेन रूपं कारणम्। पटे समवायेन
रूपाभावे ऽपि 1स्वाश्रयसमवेतत्वसम्बन्धेन तन्तुरूपं तत्र वर्तते। अतः
तस्य प्रत्यक्षविषयत्वं भवति। तस्मात् चित्ररूपं मास्तु इत्याशयः।
स्वसमवायिसमवेतसमेवतसमवतत्वसम्बन्धेनेति। स्वं चित्ररूपम्।
स्वसमवायिनः ये अवयवाः कपालावयवावयवाः, तत्र समवेताः
कपालावयवाः, तत्समवेतत्वं कपाले तत्समवेतत्वं घटे। त्रुटेः
चाक्षुषत्वानुपपत्तिरिति। परमाणुगतरूपस्य त्र्यणुके
स्वसमवायिपरमाणुसमवेतद्व्यणुकसमवेतत्वसम्बन्धेन सत्त्वे ऽपि
स्वसमवायिसमवेतसमवेतसमवेतत्वसम्बन्धेन असत्त्वात्,
परमाणोरवयवे सत्येव तद्रूपस्य उक्तसम्बन्धेन त्र्यणुके सम्भवात्।
तथा चोक्तसम्बन्धेन त्र्यणुके रूपाभावेन त्र्यणुकस्य
चाक्षुषप्रत्यक्षविषयत्वं न स्यादिति भावः। ननु चित्रो रस इति
प्रतीत्या अतिरिक्तचित्ररसिद्धिरित्यत आह - सङ्क्षेप इति।
तादृशप्रतीतेः अवयवगतनानासैरुपपत्तेः
अतिरिक्तचित्ररसतत्प्रागभावध्वंसादिकल्पने गौरवादिति भावः।
तर्कसङ्ग्रहः
रसनिरूपणम्
अन्त्स्_20 रसनग्राह्यो गुणो रसः । स च मधुराम्ललवणकटुकषायतिक्तभेदात् षड्विधः । पृथिव्यां षड्विधः । जले मधुर एव ॥
रसनग्राह्यो गुणो
रसः। स च मधुर - अम्ल - लवण - कटु - कषाय - तिक्तभेदात्
षड्विधः। पृथिवीजलवृत्तिः। तत्र पृथिव्यां षड्विधः। जले मधुर
एव।
1. स्वाश्रयेति। स्वं
तन्तुरूपं तस्याश्रयः तन्तुः तत्समवेतत्वं पटस्य।
दीपिका
रसं लक्षयति -
रसनेति। रसत्वे ऽतिव्याप्तिवारणाय गुणपदम्। रसस्याश्रयमाह
पृथिवीति। आश्रयं विभज्य दर्शयति - तत्रेति।
प्रकाशिका
रसत्व इति।
रसनग्राह्यगुणविभाजकोपाधिमत्त्वे तात्पर्यम्। एवं गन्धलक्षणे ऽपि।
बालप्रिया
ननु रसनाग्राह्यत्वे
सति गुणत्वं रसस्य लक्षणम् इत्युक्तावपि परमाणुरसे अव्याप्तिः,
तस्य रसनेन्द्रियजन्यप्रत्यक्षविषयत्वाभावात् इत्याशङ्क्याह -
रसनग्राह्येति। रसनेन्द्रियजन्यप्रत्यक्षविषयो यः गुणविभाजको धर्मः
तद्वत्त्वं रसलक्षणम्। फलादिरसे रसत्वजातिः ऽयो गुणःऽ
इत्यादिन्यायेन रसनेन्द्रियजन्यप्रत्यक्षविषयो भवति
तादृशरसत्वजातिमत्त्वस्य परमाणुरसे ऽपि सत्त्वात् नाव्याप्तिरिति
भावः। एवं गन्धलक्षणे ऽपीति। घ्राणग्राह्यगुणविभाजकोपाधिमत्त्वं
गन्धलक्षणमिति भावः।
तर्कसङ्ग्रहः
गन्धनिरूपणम्
अन्त्स्_21 घ्राणग्राह्यो गुणो गन्धः । स च द्विविधः सुरभिरसुरभिश् च । पृथिवीमात्रवृत्तिः ।
घ्राणग्राह्यो गुणो
गन्धः। स द्विविधः - सुरभिः असुरभिश्चेति। पृथिवीमात्रवृत्ति।
दीपिका
गन्धं लक्षयति -
घ्राणेति। गन्धत्वे अतिव्याप्तिवारणाय गुणपदम्।
तर्कसङ्ग्रहः
स्पर्शनिरूपणम्
अन्त्स्_22 त्वगिन्द्रियमात्रग्राह्यो गुणो सपर्शः । स च त्रिविधः शितोष्णानुष्णाशीतभेदात् । पृथिव्यप्तेजोवायुवृत्तिः । तत्र शीतो जले । उष्णस् तेजसि । अनुष्णाशीतः पृथिवीवाय्वोः ॥
त्वगिन्द्रियमात्रग्राह्यो गुणः स्पर्शः। सः त्रिविधः -
शीत-उष्ण-अनुष्णाशीतभेदात्। पृथिव्यप्तेजोवायुवृत्तिः। तत्र शीतलं
जले। उष्णः तेजसि। अनुष्णाशीतः पृथिवीवाय्योः।
दीपिका
स्पर्शं लक्षयति -
त्वगिति। स्पर्शत्वे अतिव्याप्तिवारणाय गुणपदम्।
संयोगादावतिव्याप्तिवारणाय मात्रपदम्।
प्रकाशिका
मात्रपदमिति।
चक्षुरग्राह्यत्वगिन्द्रियग्राह्यगुणविभाजकोपाधिमत्त्वमिति फलितोर्ऽथः।
बालप्रिया
ननु
त्वगिन्द्रियमात्रग्राह्यत्वे सति गुणत्वं स्पर्शस्य लक्षणमित्युक्तावपि
परमाणुगतस्पर्शे ऽव्याप्तिः। तस्यातीन्द्रियतया
त्वगिन्द्रियग्राह्यत्वाभावादित्याशङ्क्याह - चक्षुरग्राह्येति।
चक्षुरिन्द्रियजन्यप्रत्यक्षाविषयः त्वगिन्द्रियजन्यप्रत्यक्षविषयश्च यो
गुणविभाजको धर्मः तद्वत्त्वं स्पर्शस्य लक्षणम्। घटादिस्पर्शेषु
स्पर्शत्वजातिः चक्षुरग्राह्या त्वग्ग्राह्य च भवति तद्वत्त्वं
परमाणुगतस्पर्शे ऽप्यस्तीति समन्वयः। त्वगिन्द्रियग्राह्यं
सङ्ख्यात्वमादाय सङ्ख्यायां अतिव्याप्तिवारणाय चक्षुरग्राह्येत्युक्तम्।
चक्षुरग्राह्यं अतीन्द्रियं धर्मत्वाधर्मत्वादिकमादाय
धर्माधर्मादिष्वतिव्याप्तिवारणाय त्वगिन्द्रियग्राह्येत्युक्तम्।
स्पर्शनिष्ठतया गृह्यमाणं गुणत्वं चक्षुरग्राह्यं त्वग्ग्रह्यं च भवतीति
तद्बत्त्वमादाय सड्ख्यादौ अतिव्याप्तिवारणाय
गुणविभाजकेत्युपाधिविशेषणम्। गुणत्वं तु न गुणविभाजकमिति
भावः।
तर्कसङ्ग्रहः
पाकप्रक्रियानिरूपणम्
अन्त्स्_23 रूपादिचतुष्टयं पृथिव्यां पाकजम् अनित्यं च । अन्यत्रापाकजं नित्यम् अन्त्यं च । नित्यगतं नित्यम् । अनित्यगतम् अनित्यम् ॥
रूपादिचतुष्टयं
पृथिव्यां पाकजं अनित्यम्। अन्यत्र अपाकजं नित्यमनित्यं च।
नित्यगतं नित्यम्। अनित्यगतमनित्यम्।
दीपिका
पाकजमिति। पाकः
तेजस्संयोगः। तेन पूर्वयपं नश्यति रूपान्तरमुत्पद्यत इत्यर्थः।
तत्र परमाणुष्वेव पाकः न द्व्यणुकादौ। आमनिक्षिप्ते धटे
परमाणुषु रूपान्तरोत्पत्तौ श्यामघटनाशे पुनः द्व्यणुकादिक्रमेण
रक्तघटोत्पत्तिः। तत्र परमाणवः समवायिकारणम्। तेजस्संयोगः
असमवायिकारणम्। अदृष्टादिकं निमित्तकारणम्। द्व्यणुकादिरूपे
कारणरूपं
असमवायिकारणमिति पीलुपाकवादिनो वैशेषिकाः। पूर्वघटस्य
नाशं विनैव अवयविनि अवयवेषु च परमाणुपर्यन्तेषु युगपत्
रूपान्तरोत्पत्तिः इति पिठरपाकवादिनो नैयायिकाः। अत एव
पार्थिवपरमाणुरूपादिकं अनित्यमित्यर्थः। अन्यत्रेति। जलादावित्यर्थः।
नित्यगतमिति। परमाणुगतमित्यर्थः। अनित्यगतमिति।
द्व्यणुकादिगतमित्यर्थः। रूपादिचतुष्टयं उद्भूतं प्रत्यक्षम्।
अनुद्भूतमप्रत्यक्षम्। उद्भूतत्वं प्रत्यक्षत्वप्रयोजको धर्मः।
तदभावः अनुद्भूतत्वम्।
प्रकाशिका
परमाणुष्वेव पाक
इति। परमाणुष्वेव पूर्वरूपपरावृत्त्यादिजनकतेजस्संयोग
इत्यर्थः। एवकारव्यवच्छेद्यं
स्पष्टयति - न
व्द्यणुकादाविति। आमनिक्षिप्ते घट इति। घटे आमनिक्षिप्ते सति
श्यामघटनाशे परमाणुषु रूपान्तरोत्पत्तावित्यन्वयः। तत्र
परमाणुरूपे। अवयविनिपाकानङ्गीकारादाह - कारणरूपमिति।
परमाणुष्वेव पाकं वदतां वैशेषिकाणामयमाशयः -
वेगातिशयवता तेजसा परमाणूनामभिघातसंयोगे सति अवश्यं
तेषु क्रिया जायते। ततयो विभागः, तत आरम्भकसंयोगनाशे सति
अवश्यं यावदवयविनाशः ततः स्वतन्त्रेषु परमाणुषु
रूपान्तरोत्पत्तौ
पुनरदृष्टादिधटितसामग्रीवशात् परमाणुषु
क्रियाविभागादिक्रमेण यथास्थितं अपरावयविपर्यन्तमुत्पत्तिरिति।
अवयविन्यपि पाकं
वदतां नैयायिकानां तु अवमाशयः - तेजसा
परमाणूनामभिघातसंयोगे ऽपि तस्य नियमत
आरम्भकसंयोगप्रतिद्वन्द्विविभागजनकक्रियाजनकत्वे मानाभावेन
अवयविन्यपि पाकस्वीकार उचितः। अत एव ऽसो ऽयं घटःऽ इति
प्रत्याभिज्ञापि सङ्गच्छते। अनन्तावयविनाशाद्यकल्पनेन लाघवं चेति।
न चावयविरूपं प्रति अवयवरूपस्य, तन्नाशं प्रति आश्रयनाशस्य च
हेतुतायां व्यभिचार इति वाच्यम्। कार्यतावच्छेदककोटौ
वैजात्यनिवेशनेन व्यभिचारवारणसम्भवात्। अन्यत्रेति -
जलादावित्यर्थ इति। यद्यपि रूपादिचतुष्टयं जलादौ बाधितम्,
तथापि यथायोग्यमन्वये तात्पर्यम्। उद्भूतत्वमिति। उद्भूतत्वं
जातिः। न च शुक्लत्वादिना साङ्कर्यम्। गुणसाङ्कर्यं न दोष
इति नवीनमताभिप्रायको ऽयं ग्रन्थ इति न दोषः।
केचित्तु -
शुक्लत्वादिव्याप्यमनुद्भूतत्वं नाना। तदभावकूटवत्त्वमेव
उद्भूतत्वमित्याहुः।
बालप्रिया
पूर्वरूपपरावृत्त्यादीति। परावृत्तिः - नाशः। आदिपदेन
रूपान्तरोत्पत्तिः गृह्यते। तत्रेति व्याख्येयं पदम्। तस्य व्याख्यानं
परमाणुरूप इति। परमाणुगते रूपे इत्यर्थः। ननु
द्व्यणुकादिगतरूपे विजातीयतेजस्संयोगात्मकपाकस्यैव
असमवायिकारणत्वसम्भवात् कारणरूपं
असमवायिकारणमित्यसङ्गतमित्याशङ्क्याह - अवयविनि
पाकानङ्गीकारादिति। पीलुपाकवादिवैशेषिकमते अवयविनि
पाकवशात् पूर्वरूपादिपरावृत्तियपान्तरोत्पत्त्योः अनङ्गीकारात्
तत्र रूपान्तरं प्रति पाकस्यासमवायिकारणत्वं न सम्भवतीति भावः।
यावदवयविनाश इति। अन्त्यावयविपर्यन्तं नाश इत्यर्थः।
आरम्भकसंयोगेत्यादि। द्व्यणुकाद्यारम्भको यः परमाणुसंयोगः
तत्प्रतिद्वन्द्वी तस्य संयोगस्य विनाशको यो विभागः तज्जनिका या
क्रिया तज्जनकत्व इत्यर्थः। वैजात्यनिवेशनेनेति।
पाकजन्यरूपतद्विनाशयोरवृत्ति यद्वैजात्यं तदवच्छिन्नं प्रति
अवयवरूपं आश्रयनाशश्च हेतुरिति भावः।
ऽअन्यत्र अपाकजं
नित्यमनित्यं चऽ इति परममूलम्। अन्यत्र इत्यस्य
जलादावित्यर्थः। पूर्ववाक्यात् रूपादिचतुष्टयमित्यनुवर्तने। तथा
च जलादौ विद्यमानं रूपादिचतुष्टयं अपाकजमित्यर्थो लभ्यते।
तदेतदसङ्गतम्। जलादौ रूपादिचतुष्टयाभावात्। जले
गन्धरहितस्य रूपादित्रयस्यैव, तेजसि गन्धरसरहितस्य
रूपस्पर्शद्विकस्यैव वायौ स्पर्शस्यैव सत्त्वात् इत्यत आह -
यद्यपीत्यादिना। यथायोग्यमन्वय इति। रूपादिचतुष्टयमित्यस्य
रूपादिचतुष्टयघटकमित्यर्थः। तद्घटकं च त्रिकं द्वयं एकं च
भवतीति नानुपपत्तिरिति भावः।
तर्कसङ्ग्रहः
सङ्ख्यानिरूपणम्
अन्त्स्_24 एकत्वादिव्यवहारहेतुः संख्या । नवद्रव्यवृत्तिर् एकत्वादिपरार्धपर्यन्ता । एकत्वं नित्यम् अनित्यं च । नित्यगतं नित्यम् अनित्यगतम् अनित्यम् । द्वित्वादिकं तु सर्वत्रानित्यम् एव ॥
एकत्वादिव्यवहारहेतुः सङ्ख्या। नवद्रव्यवृत्तिः।
एकत्वादिपरार्धपर्यन्ता। एकत्वं नित्यगतं नित्यम्।
अनित्यगतमनित्यम्। द्वित्वादिकं तु सर्वत्रानित्यमेव।
दीपिका
सङ्ख्यां लक्षयति -
एकेति।
प्रकाशिका
मूले द्वित्वादिकं
तु सर्वत्रानित्यमेवेति। हेतुभूतापेक्षाबुद्धिनाशेन
द्वित्वादिनाशादिति भावः।
तर्कसङ्ग्रहः
परिमाणनिरूपणम्
अन्त्स्_25 मानव्यवहारकारणं परिमाणं । नवद्रव्यवृत्ति । तच् चतुर्विधम् । अणु महद् दीर्घं ह्रस्वं चेति ॥
मानव्यवहारासाधारणं कारणं परिमाणम्। नवद्रव्यवृत्ति।
तच्चतुर्विधम् - अणु-महत्-दीर्घं-ह्रस्वं चेति।
दीपिका
परिमाणं लक्षयति
- मानेति। परिमाणं विभजते - तच्चेति। भावप्रधानो निर्देशः।
अणुत्वं महत्वं दीर्घत्वं ह्रस्वत्वं चेत्यर्थः।
प्रकाशिका
परिमाणस्य गुणिबोधकशब्दैः
विभजनमसङ्गतम्। अतः दीपिकायाम् भावप्रधान इति।
बालप्रिया
ननु परिमाणस्य
गुणत्वात् तद्विभागो ऽपि गुणबोधकैः अणुत्वमहत्वादिशब्दैरेव
कर्तव्यः, न तु परिमाणविशेषरूपगुणविशिष्टवाचकैः
अणुमहदादिशब्दैः इति शङ्कायां समाधानं उक्तम् - दीपिकायां
भावप्रधानो निर्देश इति। अणुमहदादयः शब्दाः मूले
धर्मप्रधानकाः। तथा च तेषां शब्दानां अणुत्वं
महत्त्वमित्यादिपरिमाणरूपगुणा एवार्थ इति नानुपपत्तिः। तदाह -
परिमाणस्येति।
तर्कसङ्ग्रहः
पृथक्त्वनिरूपणम्
अन्त्स्_26 पृथग्व्यवहारकारणं पृथग्त्वं । सर्वद्रव्यवृत्ति ॥
पृथग्व्यवहारासाधारणं कारणं पृथक्त्वम्। सर्वद्रव्यवृत्ति।
दीपिका
पृथक्त्वं लक्षयति -
पृथगिति। ऽइदं अस्मात् पृथक्ऽ इति व्यवहारकारणं
पृथक्त्वमित्यर्थः।
तर्कसङ्ग्रहः
संयोगनिरूपणम्
अन्त्स्_27 संयुक्तव्यवहारहेतुः संयोगः । सर्वद्रव्यवृत्तिः ॥
संयुक्तव्यवहारहेतुः संयोगः। सर्वद्रव्यवृत्तिः।
दीपिका
संयोगं लक्षयति -
संयुक्तेति। ऽइमौ संयुक्तौऽ इति व्यवहारहेतुरित्यर्थः।
सङ्ख्यादिलक्षणे सर्वत्र। दिक्कालादौ अतिव्याप्तिवारणाय
असाधारणेति विशेषणीयम्।
संयोगो द्विविधः -
कर्मजः संयोगजश्चेति। आद्यो हस्तक्रियया हस्तपुस्तकसंयोगः।
द्वितीयो हस्तपुस्तक संयोगात् कायपुसतकसंयोगः। अव्याप्यवृत्तिः
संयोगः। स्वात्यन्ताभावसमानाधिकरणत्वं अव्याप्यवृत्तित्वम्।
प्रकाशिका
असाधारणेतीति।
कालादेः साधारणकारणत्वेन तत्र नातिव्याप्तिरिति भावः।
स्वात्यन्ताभावेति। स्वप्रतियोगित्व -
स्वसामानाधिकरण्योभयसम्बन्धेन अभाववत्त्वमिति निष्कर्षः।
बालप्रिया
स्वप्रतियोगित्वेति। स्वं कपिसंयोगाभावः, तत्प्रतियोगित्वं
कपिसंयोगे, तथा स्वं कपिसंयोगाभावः, तदधिकरणवृक्षवृत्तित्वं
च कपिसंयोगे। तथा च
स्वप्रतियोगित्वस्वाधिकरणवृत्तित्वोभयसम्बन्धेन
कपिसंयोगाभावविशिष्टत्वं कपिसंयोगे अस्तीति
तस्याव्याप्यवृत्तित्वम्। स्वप्रतियोगित्वसम्बन्धेन घटाभावविशिष्टस्य
घटस्याव्याप्यवृत्तित्ववारणाय स्वसामानाधिकरण्यनिवेशः। घटस्य
घटात्यन्ताभाव सामानाधिकरण्यं नास्तीति न दोषः।
स्वाधिकरणवृत्तित्वसम्बन्धेन घटात्यन्ताभावविशिष्टस्य
पटस्याव्याप्यवृत्तित्ववारणाय स्वप्रतियोगित्वनिवेशः। पटस्य
घटाभावप्रतियोगित्वात् न दोषः।
तर्कसङ्ग्रहः
विभागनिरूपणम्
अन्त्स्_28 संयोगनाशको गुणो विभागः । सर्वद्रव्यवृत्तिः ॥
संयोगनाशको
गुणः विभागः। सर्वद्रव्यवृत्तिः।
दीपिका
विभागं लक्षयति -
संयोगेति। कालादौ अतिव्याप्तिवारणाय गुण इति। रूपादौ
अतिव्याप्तिवारणाय संयोगनाशक इति।
विभागो ऽति द्विविधः -
कर्मजः, विभागजश्चेति। आद्यः हस्तक्रियता हस्तपुस्तकाविभागः।
द्वितीयः हस्तपुसतकविभागात् कायपुस्तकविभगाः।
प्रकाशिका
संयोगनाशक
इतीति। न च तथापि संयोगे अतिव्याप्तिः। तस्य प्रतियोगिविधया
नाशं प्रति कारणत्वादिति वाच्यम्।
प्रतियोगितासम्बन्धानवच्छिन्ननाशनिष्ठजन्यतानिरूपितजनकत्वविवक्षणेनादोषादिति
केचित्।
परे तु
संयोगनाशत्वावच्छिन्नकार्यतानिरूपितसमवायसम्बन्धावच्छिन्नकारणत्वम्
इति निष्कर्षः। एतत्तत्पर्यग्राहकं गुणपदमित्याहुः।
विभाग इति।
अयमप्यव्याप्यवृत्तिरिति बोध्यम्। आद्येति। आद्यत्वमिह
स्वसमानाधिकरणपतनप्रतियोगिकध्वंसासमानकालिकत्वम्।
द्वितीयपतनादीनां प्राथमिकपतनध्वंससमानकालिकत्वात्
निरास इति भावः।
बालप्रिया
न च तथापि
संयाग इति। संयोगनाशकत्वं हि संयोगनाशजनकत्वम्। ध्वंसं
प्रति प्रतियोगिनः कारणत्वात् संयोगनाशं प्रति संयोगो ऽपि
कारणम्। तथा च संयोगनाशजनकत्वं संयोगे ऽस्तीति
अतिव्याप्तिरित्यर्थः। प्रतियोगिविधयेति। प्रतियोगित्वेनेत्यर्थः।
प्रतियोगितासम्बन्धानवच्छिन्नेति। प्रतियोगितासम्बन्धेन नाशं प्रति
तादात्म्यसम्बन्धेन प्रतियोगी कारणमिति कार्यकारणभावात्
संयोगनाशनिष्ठा या प्रतियोगितासम्बन्धावच्छिन्न कार्यता
तन्निरूपिततादात्म्यसम्बन्धावच्छिन्नकारणतायाः संयोगे सत्त्वे ऽपि
प्रतियोगितासम्बन्धानवच्छिन्नसंयोगनाशनिष्ठजन्यतानिरूपितजनकता
नास्तीति न संयोगे ऽतिव्याप्तिरिति भावः।
परे त्विति।
स्वरूपसम्बन्धेन संयोगनाशं प्रति समवायसम्बन्धेन विभागः
कारणमिति कार्यकारणभावात् तदनुसादेण स्वरूपसम्बन्धावच्छिन्न -
संयोगनाशत्वावच्छिन्न -
कार्यतानिरूपितसमवायसम्बन्धावच्छिन्नकारणत्वं विभागलक्षणं अत्र
विवक्षितम्। संयोगे तु
संयोगनाशनिष्ठप्रतियोगितासम्बन्धावच्छिन्नकार्यतानिरूपिततादात्म्यसम्बन्धावच्छिन्नकारणतायाः
सत्त्वे ऽपि उक्तविधकारणत्वाभावात् नातिव्याप्तिरिति भावः।
एतत्तात्पर्यग्राहकमिति।
समवायसम्बन्धावच्छिन्नकारणतातात्पर्यद्योतकमित्यर्थः।
आद्यत्वमिहेति।
स्वसमानाधिकरणपतनप्रतियोगिकध्वंससमानकालिकं यत् यत्
तद्भिन्नत्वं आद्यत्वमित्यर्थः।
स्वं द्वितीयपतनादि
तत्समानाधिकरणं यत् आद्यपतनं तद्ध्वंससमानकालिकमेव
द्वितीयपतनादि तद्भिन्नत्वं चाद्यपतने अस्तीति लक्षणसमन्वयः।
तर्कसङ्ग्रहः
परत्वापरत्वनिरूपणम्
अन्त्स्_29 परापरव्यवहारासाधारणकारणे परत्वापरत्वे । पृथिव्यादिचतुष्टयमनोवृत्तीति । ते द्विविधे दिक्कृते कालकृते च । दूरस्थे दिक्कृतं परत्वम् । समीपस्थे दिक्कृतम् अपरत्वम् । ज्येष्ठे कालकृथं परत्वम् । कनिष्ठे कालकृतम् अपरत्वम् ॥
परापरव्यवहारासाधारणकारणे परत्वापरत्वे। ते द्विविधे -
दिक्कृते कालकृते चेति। दूरस्थे दिक्कृतं परत्वम्। समीपस्थे
दिक्कृतं अपरत्वम्। ज्येष्ठे कालकृतं परत्वम्। कनिष्ठे कालकृतं
अपरत्वम्।
दीपिका
परत्वापरत्वयोः
लक्षणमाह - परापरेति। परव्यवहारासाधारणकारणं परत्वम्।
अपरव्यवहारासाधारणकारणं अपनरत्वम् इत्यर्थः। ते विभजते -
ते द्विविधे इति। दिक्कृतयोरुदाहरणमाह - दूरस्थ इति।
कालकृते उदाहरति - ज्येष्ठ इति।
तर्कसङ्ग्रहः
गुरुत्वनिरूपणम्
अन्त्स्_30 आद्यपतनासमवायिकारणं गुरुत्वं । पृथिवीजलवृत्ति ॥
आद्यपतनासमवायिकारणं गुरुत्वम्। पृथिवीजलवृत्ति।
द्रवत्वनिरूपणम्
अन्त्स्_31 आद्यस्यन्दनासमवायिकारणं द्रवत्वं पृथिव्यप्तेजोवृत्ति । तद् द्विविधं सांसिद्धिकं नैमित्तिकं च । सांसिद्धिकं जले नैमित्तिकं पृथिवीतेजसोः । पृथिव्यां घृतादावग्निसंयोगजन्यं दरवत्वम् । तेजसि सुवर्णादौ ॥
आद्यस्यन्दनासमवायिकारणं द्रवत्वम्। पृथिवीजलतेजोवृत्ति।
तत् द्विविधम् - सांसिद्धिकं नैमित्तिकं चेति। सांसिद्विकं जले।
नैकित्तिकं पृथिवीतेजसोः। पृथिव्यां घृतादौ अग्निसंयोगजं
द्रवत्वम्। तेजसि सुवर्णादौ।
स्नेहनिरूपणम्
अन्त्स्_32 चूर्णादिपिण्डीभावहेतुर् गुणः स्नेहः । जलमात्रवृत्तिः ॥
चूर्णादिपिण्डीभावहेतुः गुणः स्नेहः। जलमात्रवृत्तिः।
दीपिका
गुरुत्वं लक्षयति -
आद्येति। द्वितीयादिपतनस्य वेगासमवायिकारणत्वात् वेगे
अतिव्याप्तिवारणाय आद्येति।
द्रवत्वं लक्षयति -
आद्येति। स्यन्दनम् - प्रस्रवणम्। तेजःसंयोगजं नैमित्तिकम्।
तद्भिन्नं सांसिद्धिकम्। पृथिव्यां नैमित्तिकमुदाहरति -
घृतादाविति। तेजसि तदाह - सुवर्णादाविति।
स्नेहं लक्षयति -
चूर्णेति। कालादौ अतिव्याप्तिवारणाय गुणपदम्।
रूपादावतिव्याप्तिवारणाय चूर्णादिपिण्डीभावेति।
प्रकाशिका
तदाहेति -
नैमित्तिकमाह इत्यर्थः।
पिण्डीभावेति -
पिण्डीभावः संयोगविशेषः।
तर्कसङ्ग्रहः
शब्दनिरूपणम्
अन्त्स्_33 श्रोत्रग्राह्यो गुणः शब्दः । आकाशमात्रवृत्तिः । स द्विविधो द्वन्यात्मको वर्णात्मकश् चेति । द्वन्यात्मको भेर्यादौ । वर्णात्मकः संस्कृतभाषादिरूपः ॥
श्रोत्रग्राह्यो गुणः
शब्दः। आकाशमात्रवृत्तिः। सः द्विविधः ध्वन्यात्मकः वर्णात्मकश्चेति।
ध्वन्यात्मको भेर्यादौ। वर्णात्मकः संस्कृतभाषादिरूपः।
दीपिका
शब्दं लक्षयति -
श्रोत्रेति। शब्दत्वे अतिव्याप्तिवारणाय गुणपदम्।
रूपादावतिव्याप्तिवारणाय श्रोत्रेति। शब्दः त्रिविधः - संयोगजः
विभागजः शब्दजश्चेति। तत्र आद्यः भेरीदण्डसंयोगजन्यः। द्वितीयो
वंशे पाट्यमाने दलद्वयविभागजन्यः चटचटशब्दः।
भेर्यादिदेशमारभ्य श्रोत्रदेशपर्यन्तं द्वितीयादिशब्दाः शब्दजाः।
प्रकाशिका
भेरीदण्डसंयोगजन्य इति। आद्ये असमवायिकारणं
भेर्याकाशसंयोगः, निमित्तकारणं भेरीदण्डसंयोगः। द्वितीये
वंशदलाकाशविभागो ऽसमवायिकारणम्, दलद्वयविभागो
निमित्तकारणम्। तृतीये तु पूर्वपर्वृशब्दः असमवायिकारणम्।
पवनादि निमित्तकारणमिति विवेकः।
तर्कसङ्ग्रहः
बुद्धिनिरूपणम्
अन्त्स्_34 सर्वव्यवहारहेतुर् बुद्धिर् ज्ञानम् । सा द्विविधा स्मृतिरनुभवश् च । संस्कारमात्रजन्यं ज्ञानं स्मृतिः । तद्भिन्नं ज्ञानम् अनुभवः ॥
सर्वव्यवहारहेतुः
गुणः ज्ञानं बुद्धिः।
बुद्धिविभागः
सा द्विविधा -
स्मृतिः अनुभवश्चेति। संस्कारमात्रजन्यं ज्ञानं स्मृतिः। तद्भिन्नं
ज्ञानं अनुभवः।
अन्त्स्_35[1] स द्विविधो यथार्थो ऽयथार्थश् च ।
सः द्विविधः - यथार्थः अयथार्थश्चेति
दीपिका
बुद्धेः लक्षणमाह -
सर्वव्यवहारेति। कालादौ अतिव्याप्तिवारणाय गुण इति। रूपादौ
अतिव्याप्तिवारणाय सर्वव्यवहार इति। ऽजानामिऽ
इत्यनुव्यवसायगम्यं ज्ञानत्वमेव लक्षणं इति भावः।
बुद्धिं विभजते -
सेति। स्मृतेः लक्षणमाह - संस्कारेति। भावनाख्यः संस्कारः।
संस्कारध्वंसे अतिव्याप्तिवारणाय ज्ञानमिति। अनुभवे
अतिव्याप्तिवारणाय संस्कारजन्यमिति। प्रत्यभिज्ञायां
अतिव्याप्तिवारणाय मात्रपदम्। अनुभवं लक्षयति। तद्भिन्नमिति।
स्मृतिभिन्नं ज्ञानं अनुभव इत्यर्थः। अनुभवं विभजते - स द्विविध
इति।
प्रकाशिका
जानामीतीति। ज्ञानत्वमात्रं लक्षणम्।
ऽजानामिऽ इत्यनुव्यवसायगम्यत्वं तु ज्ञानत्वस्य
प्रमाणसिद्धत्वसूचनाय। तथा हि - ऽघटं जानामिऽ
इत्याद्यनुगतानुव्यवसायस्यानुगतधर्ममन्तरानुपपन्नेत्वेन तस्य
स्वीकर्तव्यत्वेन लाघवात् जातित्वसिद्धिः। इत्थं च मूले
सर्वव्यवहारहेतुः इति बुद्धेः स्वरूपकथनमिति भावः।
संस्कारस्य
त्रिविधत्वादाह - भावनाख्य इति। प्रत्यभिज्ञायां अतिव्याप्तीति।
ऽसो ऽयं देवदत्तःऽ इति प्रत्यभिज्ञायां
तद्देशकालवृत्तित्वरूपतत्तासंस्कारजन्यत्वस्य सत्त्वेन
तत्रातिव्यप्तिरिति भावः। मात्रीतीति। यद्यपि संस्कारमात्रजन्यत्वं
संस्कारेतराजन्यत्वे सति संस्कारजन्यत्वम्। तच्च स्मृतौ असम्भवि।
तत्र संस्कारेतरात्मादिजन्यत्वस्य सत्त्वात्। तथापि चक्षुराद्यजन्यत्वे
सति संस्कारजन्यत्वे तात्पर्यमवसेयम्।
बालप्रिया
ननु
ज्ञानत्वजातिमत्त्वस्यैव ज्ञानलक्षण्त्वे मूले सर्वव्यवहारहेतुः इति
गुरुलक्षणं कुतः प्रोक्तमित्याशङ्क्य मूलं न लक्षणपरम्, किं तु
स्वरूपपरम्। अतो नानुपपत्तिरित्याह - इत्थं चेति। ज्ञानत्वस्यैव
ज्ञानलक्षणत्व इत्यर्थः।
तद्देशकालवृत्तित्वेति।
तद्देशकालवृत्तित्वरूपा या तत्ता तद्विषयकसंस्कारजन्यत्वस्येत्यर्थः।
तथापि चक्षुराद्यजन्यत्वं इति। प्रत्यभिज्ञा तु
संस्कारसहकृतचक्षुरदिजन्येति चक्षुराद्यजन्यत्वाभावात् न तत्र
अतिव्याप्तिरिति भावः।
तर्कसङ्ग्रहः
यथार्थानुभवलक्षणम्
अन्त्स्_35[2] तद्वति तत्प्रकारको ऽनुभवो यथार्थः । यथा रजत इदं रजतम् इति ज्ञानम् । स एव प्रमेत्य् उच्यते ।
तद्वति
तत्प्रकारकानुभवो यथार्थः। सैव प्रमेत्युच्यते।
दीपिका
मूल पाठ: Tarkasaṃgraha with autoentary (Dīpikā), Nīlakaṇṭha's Dīpikāprakāśikā and Bālapriyā · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0