Tarkarahasya · भाग 4160
इति तद्योग्यतावाच्यः स्वभावो ऽस्य निरुच्यताम् ॥
विभागयोग्यगतिभिः कि?अन्यैर्न?नादिभिः ॥
तेषु सत्स्वपि तस्येति सम्बन्धस्य प्रसिद्धितः ।
[395]युक्तः स्वभावभेदो ऽयं तत् प्रतिक्षणजन्मनाम् । ।
__________नोतेस्__________
[395] स्ह्: 70.
यदि संयुक्तासंयुक्तयोः ना संयोगभावाभावाभ्यां विशेषः । यदि च विभक्ताविभक्तयोर्गर्ञ्छदगच्छतोर्वा विभागकर्मभावाभावाभ्याम्, कथममी व्यपदेशा न ऽकुण्डलो देवदत्तः", "छत्री वा देवदत्तः" ?
एवं विभक्तादावपि वाच्यम् । तस्मात् --- संयोगविभागक[396]र्माणि संयुक्तादिबुद्धीतां करणानि ।
__________नोतेस्__________
[396] ऽर्मणिऽमूलपाठः ।
न तुल्यपर्यनुयोगतः । तवापि तुल्यरूपस्य विभक्तादेः किं न संयोगादिसमवायः ? कर्माभावाद्यनुत्तरं कर्मापि जनकं संयोगस्य द्रव्यात् किं न जायते?
तस्माद् --- ऽदण्डकुण्डलादिद्रव्यं विभक्तमयोग्ये प्राक् पश्चादुपसर्पणप्रत्ययसमर्पितात्मभावं संयोगसमवाये योग्यमाजायतेऽ इति त्वया व[प्4अ।6।5] क्तव्यम् । यतः सततं संयोगादियोगयोग्यस्य स्वभावस्य भावस्य तद्वैकल्यं[397]विरुद्ध्यते ।
__________नोतेस्__________
[397] ऽव्यऽमूलपाठः ।
अस्माकमपि ---
तर्हि संयोगादिकमनिच्छतां तुल्यमेतत् । गण्डमण्डलसन्निकृष्टमपरापरप्रत्ययवशात् कुण्डलादिकं संयुक्तबुद्धिनिबन्धनमन्यत्कारणाभावात् तथाभूतं नोत्पन्नमितिऽ न कुण्डलीति निषिध्यते ।
सन्निकृष्टमुत्पन्नं ऽच्छत्रीति वा विधीयते ।
तस्माद् ---
योग्यताख्यः स्वभावः संयोगादिकं प्रति त्वया अभ्युपगम्यमानः केवलो ऽसंयुक्तादिबुद्धिनिबन्धनम् । किमन्यैः संयोगादिभिः ?
[398]यस्मात् सतामपि गमनादीनां स्वाश्रये वास्तवः सम्बन्धो निषिद्धःऽपारतन्त्रयमिऽत्यादिना । कुतः सम्बन्धाभावे तन्निबन्धनो व्यपदेशः ?
__________नोतेस्__________
[398] स्ह्: 71.
यथान्यगतैः कर्मादिभिरसम्बन्धादन्यो न तन्त्रादिकः, तथा तद्गतसम्मतैर् अपि ।
"तेषु सत्स्वपि तस्येति सम्बन्धस्याप्रसिद्धितः ।
युक्तः स्वभावभेदो ऽयं तत्प्रतिक्षणजन्मनां । ।"
प्रतिक्षणजन्म कैश्चिदुपसर्पणादिप्रत्ययैर्निरन्तरोत्पादः संयोगशब्दवाच्यः । दन्दशूकफूत्कारश्रुतिसाध्वसादिसामग्र्या प्रतीपापरापरप्रदेशस्थतयोत्पादो वि[399]भागव्यपदेशविषयः ।
__________नोतेस्__________
[399] ऽगा इति लिखित्वा छिन्नं मूलपाठे ।
एकदिङ्मुखतयां प्रपरापरदेशसंयोगविभागभागितयोत्पादो गमनाख्यः । पूर्वा परत्वेनोत्पन्ने च भावे पूर्वां ऽपरादिसङ्केत [प् 4 ब्।7]
सिद्धिरिति च प्रधानार्थप्रतीतिक्रियाया उपयोगः कथितः ।
अनुमानसिद्धत्वमस्य वेदितव्यम् । तच्चानुमानं मानसे दर्शितम् ।
अनुमानसिद्धत्वेन चेदं निरस्तम् ।
ऽदृष्टयोरेव सारूप्यग्रहो ऽर्थश्च[400]न दृष्टवान् ।
__________नोतेस्__________
[400] ऽञ्चऽमूलपाठः ।
प्राक् कथं दर्शनेनास्य सारूप्यं सो ऽघ्यवस्यति ?"
इत्यादि ।
भट्टस्य पुनः ---
आलोचनाज्ञानं प्रमाणम् । ततः परं जात्यादिविशिष्टवस्तुनिश्चयात्मकं फलम् । ततो ऽपि प्रवर्त्तनम् । ततः प्राप्तिः । ततः[401]सुखम्-इति पूर्वं पूर्वं ज्ञानम् प्रमाणम् । उत्तरोत्तरं फलम् --- बोधप्रमाणतापक्षे ।
__________नोतेस्__________
[401] ऽतऽइति मूलपाठः ।
[402]जडप्रमाणतापक्षे तु ---
__________नोतेस्__________
[402] स्ह्: 72.
"यद्वेन्द्रियं प्रमाणं स्यात्तस्य वार्थेन सङ्गतिः[403] ।
__________नोतेस्__________
[403] यद्वेन्द्रियं प्रमाणं.... .... सङ्गतिः । --श्लो- वा- 4।60; ध (र्मोत्तर)ऽ प्र(दोपे) दुर्वेकमिश्रः 50 पृ-; हेतुबिन्दुटीकालोके च 272-78 पृ- ।
इन्द्रियैर्मनसो योगः प्रमाणं सर्वमेव वा[404]।"
__________नोतेस्__________
[404] इन्द्रियैर्मनसो.... .... ....मेव वा ॥ श्लो- वा- 4।60; घ- प्र- दुर्वेकमिश्रः 57 पृ-, हेतु- वि- टी- आ- 272-74 पृ- ।
नैयायिकादेः पुनः ---
विशेषणज्ञानं प्रमाणम् । विशेष्यज्ञानं फलम् ।
"नागृहीतविशेषणा विशेष्ये बुद्धिः । "
-इति वचनात् ।
जडप्रमाणतायाम् ---
इन्द्रियादि पूर्ववत् । निराकारतया ज्ञानमलब्धविषयविशेषसम्बन्धम् ।
भत्तादिदर्शने ---
वस्तुमात्रग्राहकमालोचनाज्ञानं जात्यादिविशिष्टवस्तुग्राहि च । ततः परं ज्ञानं न सिध्यति ।
तथा ---
ऽविशेषणस्येदं ज्ञानमिदं विशेष्यस्ये ऽति न प्राप्नोति ।
"एकार्थत्वे द्वयं व्यर्थं न चास्ति क्रमभाविता[405] । "
__________नोतेस्__________
[405] एकार्थत्वे द्वयं... ....भाविता ॥ वा- 7 पृ- ।
चक्षुरादि तु सुतरामर्थप्रतीतेर्न नियामकम् । अनाकारतयैव [प्4अ।8] तस्य । साकारत्वे वा किमन्येन ? अर्थसारूप्यमेव प्रमाणमस्तु ---
"यदन्यभेदकं तस्यास्तत् साधकतं मतम् । "
प्रमाणम् करणम् । प्रमाणं प्रमितिः । करणां च साधकतमम् ।
साधकतमं चान्यभेदकम् । समस्त?एतत् सारूप्यस्य सम्भवति, न निकारस्य ज्ञानस्य । नापीन्द्रियादेः ।
तथा हि ---
नीलाकारं यस्माद् वेद्यते ज्ञानं तस्मान् नीलस्य वेदनम् ।
[406]एवम् --- पीताकारतया पीतस्येति भेदके सारूप्यम् । नेन्द्रियादि सर्वसामान्यहेतुत्वात् ।
__________नोतेस्__________
[406] स्ह्: 73.
"क्रियाकारकयोरैक्यविरोध इति चेद् ? असत् --- ।
धर्मभेदाभ्युपगमाद् वस्त्वभिन्न ऽमितीष्यते[407]।[408]
__________नोतेस्__________
[407] क्रियाकारकयो.... .... असद् । .... तीष्यते ॥ -प्र- वा- भा- 348 पृ-, 3।319 का- ।
[408] धर्मभेदा भ्युप.... .... ष्यते । । -प्र- वा- भा- 348 पृ-, 3।319 का- ।
एवं प्रकारा सर्वैव क्रियाकारकसंस्थितिः ।
भावेष्वभिन्नाभिमतेष्वध्यारोपणवृत्तितः[409] । ।[410]"
__________नोतेस्__________
[409] एवं प्रकारा सर्वैव.... ... स्थितिः । .... वृत्तितः ॥ प्र- वा- भा- 348 पृ-, 3।32- का- ॥ प्र- वा- 2।219 ॥
[410] भावेष्व.... .... वृत्तितः । -प्र- वा- भा- 348 पृ-, 320 का- । प्र- वा- 2।219 ॥
तदेव प्रत्यक्षं ज्ञानं प्रमाणफलमिति परमार्थापेक्षया व्यपदिष्टेनानिष्टं करोत्यर्थप्रतीतिव्यापारो हि प्रकाशमान एव नीलाद्याकारः, परमार्थतः प्रमितिः, परम् --- ग्राहकाकारपारतन्त्र्येण ।
तथा ---
परशोरुत्पतननिपतनव्यापारौ नापरापरदेशसङ्गिस्वरूपोत्पत्तेरपरौ देवदत्तायत्ततया । व्यवहारिकः पुनः क्रियाकारकयोर्भेदो यद्यभिमतः, तदा धर्मस्य व्यावृत्तिलक्षणस्य भिन्नस्याभ्युपगमादस्त्येव । अपारमार्थिकत्वप्रसङ्गो ऽपि न सङ्गतः ।
एवं विधा सर्वैव ऽदेवदत्तः पचति, काष्ठैरोद [प्4ब्।8] नमिऽ त्यादि कापि क्रियाकारकव्यवहृतिः ।
"अन्वयव्यतिरेकाभ्यामेकत्वानैक्यकल्पने ।
क्रियाकारकभेदेन व्यवहारो व्यवस्थितः[411]। ।"[412]
__________नोतेस्__________
[411] अन्वयव्यतिरेकाभ्याम्.... .... कल्पने । .... व्यवस्थितः । । -प्र- वा- भा- 348 पृ-, 3।320।624 ।
[412] क्रियाकारकभेदेन.... .... व्यवस्थितः ॥ -वा- 7 पृ-; प्र- वा- भा- 348 पृ-, 3।320। 624 ।
अदेवदत्तपरावृत्त्या देवदत्त एकप्रत्यवमर्शविषयत्वेनैकस्तावद् व्यवस्थाप्यते । तस्य च तुषवुषप्रक्षेपप्रसङ्गप्रचलत्पाणिपल्लवतालक्षणापाकक्रिया कादाचित्की यदि देवदत्तस्वभावः सान् ऽन यज्ञदत्तः पाचको भवेदिऽत्येवानादिवासनावशादन्वयव्यतिरेकाभ्यां भेदे क्रियादिव्यवस्थिति स्यात् । ततो यस्मिन्नाभिन्ने यद् भिद्यते, तत् ततो व्यतिरिच्यते ।
[413]परमार्थस्तु ---
__________नोतेस्__________
[413] स्ह्: 74.
देवदत्त एवापरापरप्रत्यययोगाद् विशिष्टस्वभावो विभाव्यते ।
लोकस्त्वेकत्वा[414]ऽध्यारोपेण वर्त्तत इति तदनुरोधादेव व्यवस्था ।
__________नोतेस्__________
[414] अत्रऽध्या इति लिखित्वा छिन्नं मूलपाठे ।
तथा ---
न नीलाकारः सकलाधिगतिव्यापकः । अधिगतिस्तु --- सकलाकारव्यापिकेति भेदव्यवहारः प्रमितिप्रमाणयोः ।
"दधानं तच्च तामात्मन्यर्थाधिगमनात्मना ।
सव्यापारमिवाभाति व्यापारेण स्वकर्मणि[415]। ।[416]
__________नोतेस्__________
[415] दधानं तच्च.... .... त्मना । .... कर्मणि ॥ -प्र- वा- भा- 343 पृ-, 3।308 का - । (ऽणोःऽ इति पाठयुक्) वा- 3 पृ- ।
[416] सव्यापारमिवा.... ....स्वकर्मणि ॥ (णोः पाठयुक्) -प्र- वा- भा- 343 पृ-, 3।309 का-; वा- 3 पृ- ।
"तद्[417]वशात् तद्व्यवस्थानादकारकमपि स्वयम्[418]।
__________नोतेस्__________
[417] अत्रऽद्ध्यऽइति लिखित्वा छिन्नं मूलपाठे ।
[418] तद् वशात्.... .... स्वयम् । सत् ॥ -प्र- वा- भा- 343 पृ-, 3।309 का । पूर्वार्धमात्रम् वा- 3 पृ- अपि ।
सव्यपारप्रतीतत्वात् प्रमाणं फलमेव सत्[419]। ।
__________नोतेस्__________
[419] सव्यापारप्रतीत.... ....सद् ॥ -तथाचोक्तम् सव्या- - वा (र्त्तिकालङ्कारे) 10 पृ-; -प्र- वा- भा- 349 पृ- 3।320 का । टीका ।
इति ।
तदेव सग्राहकाकारपरावृत्त्या ग्राहकाकारः प्रमाता, चित्तमात्मा ग्राह्याकारो ऽनुभूयमानः सारूप्यात्मनानुमितः करणम् । यत्स्वरूपो ग्राहकाकारस्तत्प्रतीति [प्4अ।9] : फलमिति स्थितम् ॥
[इति] तर्कंरहस्ये विषयादिन्यायनिर्णयश्चतुर्थः ॥
[420][421]अनुमानं द्विधा --- स्वार्थं, परार्थं च --- ज्ञानस्याभिधानरूप --- त्वात् स्वपरप्रतिपत्तिनिबन्धनेन ।
__________नोतेस्__________
[420] स्ह्: 75.
[421] अत्रऽऽअत्र ग्रन्थःऽऽइति-मूलपाठः ।
ननु ---
यो लिङ्गरूपं वेत्ति स वत्तुम् (र ?) ऽर्थक्रममपि ज्ञास्यति ।
किमर्थम्
परार्थमभिधानरूपमनुमानमुक्तम् ?
सत्यम् ।
सन्ति हि लिङ्गवस्तुप्रतिपद्यमाना अपि तद्वचने ऽनभिज्ञाः ।[422]
__________नोतेस्__________
[422] ऽज्ञा इति- मूलपाठः ।
यथा---प्रतिज्ञाद्यधि (?) च परवादिनः । तद्विप्रतिपत्तिनिरासार्थं परार्थमुक्तम् ।
तत्र ---
स्वार्थं त्रि[423]रूपाल्लिङ्गात् यदनुमेये ज्ञानम् । त्रैरूप्यम्, पुनः ---
__________नोतेस्__________
[423] अत्रऽलिऽलिखित्वा छिन्नं मूलपाठे ।
अनुमेये सत्त्वमेव । सपक्ष एव सत्त्वम् । असपक्षे चा[424]ऽसत्त्वमेव निश्चितम् । अनुमेयो ऽत्र जिज्ञासितविशेषो धर्मी । तत्र सत्त्वमेव ।
__________नोतेस्__________
[424] ऽचऽमूलपाठः ।
अयोगव्यवच्छेदेन विशेषणात् ।
"तथा साध्यस्याप्ययोगव्यवच्छेद[425]विशेषणात् । ।
__________नोतेस्__________
[425] ऽअत्रऽछेदेन वि- मूलपाठः ।
विशेषे ऽ[426]नुगमाभावः सामान्यः सिद्धसाध्यता[427] । ।
__________नोतेस्__________
[426] ऽबे अनु-ऽमूलपाठः ।
[427] विशेषेऽनुगमा.... ....साध्यता ॥ -प्र- वा- भा- 499 पृ- ।
इति निरस्तम् ।
यतः ---
[428]"सामान्यमेव तत्साध्यं न च सिद्ध प्रसाधनम् ।
__________नोतेस्__________
[428] स्ह्: 76.
विशिष्टधर्मिणा तच्च न निरन्वयदोषभाक्[429] । ।"[430]
__________नोतेस्__________
[429] विशिष्टधर्मिणा.... ....दोषभाक् ॥ -प्र- वा- भा- 499 पृ-, 3।39 का ।
[430] सामान्यमेव तत्.... .... साधनम् । .... दोषभाक् ॥ - प्र- वा- भा- 499 पृ-, 3।39 का ।
अवह्निपरावृत्तं बह्निरूपं[431]साध्यम् । अधूमपरावृत्तं च धूमरूपं साधनम् । अनयोश्च जिज्ञासितविशेषेण धर्मिणा विशिष्टत्वेन नानन्वयदोषो ऽयोगव्यवच्छेदेन विशेषणात् । अन्ययोगव्यवच्छेदस्य प्रत्यक्षबाधितत्वात् ।
__________नोतेस्__________
[431] ऽप्यंऽ- मूलपाठः ।
"अयोगं योगमपरैरत्यन्तायोगमेव [प्4ब्।9] च ।
व्यवच्छिनत्ति धमंस्य निपातो व्यतिरेकतः[432]। ।[433]
__________नोतेस्__________
[432] अयोगं योग... .... ....च । ....देकतः । । -प्र- वा- भा- 581 पृ-, 4।190 का- ।
[433] व्यवच्छिनत्ति.... ....रेकतः । ....रेचकः । । प्र- वा- भा- पृ-, 581 पृ-, 4।190 ।
विशेषणविशेषाभ्यां क्रियया च सहोदितः ।
विवक्षातो ऽप्रयोगे ऽपि तस्यार्थो ऽयं प्रतोयते[434]। ।[435]
__________नोतेस्__________
[434] विवक्षातो ऽप्रयोगे ऽपि.... .... प्रतीयते । -प्र- वा- भा- 581 पृ-, 4।191 का- ।
[435] विशेषणविशेषा.... .... सहोदितः । .... प्रतीयते । -प्र- वा- भा- 581 पृ-, 4।191 का- ।
व्यवच्छेदफलं वाक्यं य तश्चैत्रो धनुर्धरः ।
ऽपार्थो धनुर्धरोऽ ऽनीलं सरोजमिऽति वा यथा[436] । ।"[437]
__________नोतेस्__________
[436] पार्थो धनुर्धरो नीलं.... .... यथा -प्र- वा- भा- 582 पृ-, 4।192 का- ।
[437] व्यवच्छेदफलं.... .... धनुर्धरः । .... वा यथा ॥ -प्र- वा- भा- 582 पृ-, 4।192 का- ।
अप्रयोगे ऽपि निपातस्य नियमविशेषावधारणं प्रकरणविवक्षाविशेषादित्यर्थः ।
ननु ---
यथा --- ऽपार्थ एव धनुर्धरऽ इति विशे(+ष ?) स्य सन्निधाने ऽवधारणाद् विशेष्यान्तरव्यवच्छेदः, तथा --- विशेषणसन्निधाने विशेषणान्तरस्यापि[438]व्यवच्छेदः स्यात् ?
__________नोतेस्__________
[438] ऽरस्थायि-ऽमू- पठितुं शक्यते ।
न ।
"प्रतियोगिव्यवच्छेदः सर्वत्रार्थेषु गम्यते ।
तथा प्रसिद्धेः सामर्थ्याद् विवक्षानुगमाद् ध्वनेः[439]।"[440]
__________नोतेस्__________
[439] तथा प्रसिद्धेः.... .... ध्वनेः ॥ -प्र- वा- भा- 588 पृ-, 4।193 का- ।
[440] प्रतियोगिब्यवच्छेदः.... .... गम्यते ॥ .... ध्वनेः ॥ -प्र- वा- भा- 588 पृ-, 4।193 का- ।
चैत्रे धनुर्धरत्वं प्रतियोगि । पार्थो ऽपि प्रतियोगी वा धेयः । तथा विशेषणेन सह् निपातस्य वचने ऽयोगव्यवच्छेदे ऽपि यदि शङ्क्यते ---
"पूर्वं[441]किमन्यो ऽप्यस्य गुणो ऽस्ति ? " तदा, सकलगुणव्यवच्छेदो ऽव्यभिचारिवर्ज्यः (?)।
__________नोतेस्__________
[441] स्ह्: 77.
चैत्रो धनुर्धर एव, न पण्डितादिः । तथा --- पार्थे ऽपि यदि रामादिः कोदण्डपाण्डित्यं परिपिण्डयेत् कच्चित् ? तदा --- तत्रापि तदन्यसकलनिरासः ।
तदेवम् ---
प्रतियोगिव्यवच्छेदऽ--- इति सामान्यलक्षणम् ।
स च प्रतियोगी त्रिविधो ऽयोगादिप्रकारेण । धर्मान्तरक्रियान्तरविशेष्यान्तरयोगव्यवच्छेदादन्ययोगव्यवच्छेदो ऽपि [प्5अ।1] त्रिधा सम्प्रधार्यः ।
प्रस्तुते ऽपि ऽजिज्ञा सितविशेषे धर्मिणि सन्निऽत्यवधार्यम् । न तु तत्रैवेति नोक्तदोषः ।
तथा ---
साध्यस्यापि धर्मिसम्बन्धो[442] ऽयोगव्यवच्छेदेन वेद्यः ।
__________नोतेस्__________
[442] न्यो अयो- - मूलपाठः ।
यत् पुनरुच्यते ---
"पित्रोश्च ब्राह्मणत्वेन पुत्रब्राह्मणताभिधा ।
मर्वलोकप्रतीता न पक्षधर्ममपेक्षते ॥"
ऽशिशुरयं ब्राह्मणो[443], मातापित्रोर्ब्राह्मण्यात् ।ऽ तथा --- पल्वले कुमुदप्रकाशेन चन्द्रोदयानुमाने, न लक्ष्यते पक्षसङ्गतिः ।
__________नोतेस्__________
[443] ऽणा- मूलपाठः ।
आतपसद्भावात् परभागे च्छायासम्भवः । तमस्युल्मुकविलोकने दूरे धूमानुमानम् चन्द्रोदयादम्भोधि बृद्ध्यनुमानम्, ताम्बूलबल्ल्याः पत्रसङ्कोचदर्शनाद् दाहानुमानम्, विना पक्षधर्मतया ।
तस्मात् ---
[444]प्रतिवन्धो[445]लिङ्गस्य लक्षणम् । न पक्षधर्मता । सामान्ये न च व्याप्तिग्रहे पक्षधर्मस्यापि प्रविष्टत्वात्। ऽमयूरध्वनिऽरिति चानाक्षिप्तदेश कालाप्रतीतिः पक्षधर्मतानपेक्षणी ।
__________नोतेस्__________
[444] स्ह्: 78.
[445] ऽन्धो ऽपिऽइति लिखित्वापिऽछिन्नमिव मूलपाठे ।
किं वा प्रयोजनं पक्षधर्मत्वस्य रूपस्येति ? तदपि सर्वत्र पक्षसम्भवादयुक्तम् ।
तथा हि ---
यस्यैव ब्राह्मण्यं शिशोः साध्यम्, तस्यैव मातापित्रोर्ब्राह्मण्यं[446]
__________नोतेस्__________
[446] ऽण्यऽ- मूलपाठः ।
हेतुः । चन्द्रोदयानुमाने कालविशेषो धर्मी ।
एवम् --- छायासमुद्रवृद्धयोरनुमाने वेदितव्यम् ।
बल्ली पक्षः । सङ्कुचितपत्रत्वं हेतुः । ऽध्वनिः[447]श्रूयमाणो मयूर[448]मनुमापयतीऽत्यत्र मयूरध्वनि [प्5ब्।1] विशेषः पक्षो मयूरपूर्वक इति साध्यम् ।
__________नोतेस्__________
[447] ऽनिऽ- मूलपाठः ।
[448] अत्रऽमयूर्ऽइति द्विधा लिखितं- मूलपाठे ।
तथा --- भूतपूर्वानुभूतध्वनिसामान्यं हेतुः ।
अनुपलब्धेरपि पक्षधर्मत्वमस्त्येव । अन्यस्य भूतलादेर् उपलम्भजननयोग्यतैवानुपलब्धिः । सा अन्यभूतलादिधर्मः कर्मधर्मानुपलब्धिः ।
यदा तु --- कर्त्तृधर्मो ऽनुपलब्धिस्तदा ---
"स्थित एव भवत्येषा स्थित एव विनश्यति ।"
इति न्यायात् भूतलस्य मध्यावस्थाग्राह्याकारलक्षणा भूतलस्य धर्म एव ।
"नदीपूरो ऽप्यधोदेशे दृष्टः सन् उपरि स्थिताम् ।
नियम्यो गमयत्येव वृत्तां वृष्टिं नियामिकाम् । ।"
[449]तत्र ---
__________नोतेस्__________
[449] स्ह्: 79.
"इष्टं विरुद्धकार्ये ऽपि देशकालाद्यपेक्षणम् ।
अन्यथा व्यभिचारि स्याद् भस्मेवाशीतसाधने[450] । ।"
__________नोतेस्__________
[450] अन्यथा ब्यभिचारि.... ....साधने ॥ -प्र- वा- 3।6; वा (द) न्या (य) टी (कायाम्) शान्तरक्षितः 15 पृ- ।
इति न्यायात् ।
अधोदेशनदीपूर एव धर्मी । उपरिष्टाद् विशिष्टपूर्वकत्वं साध्यम् । पूरसामान्यं हेतुः । तथैव व्याप्तिग्रहणस्थानं दृष्टान्तः ।
तथा ---
भस्मविशेषो धर्मी । देशान्तरकालान्तरशीताभावसम्पादकबह्निपूर्वकत्वं साध्यम् । भस्मसामान्यं हेतुः ।
तथैव व्याप्तिग्रहणस्थानं दृष्टान्तः ।
"कष्टेन पक्षधर्मत्वे यस्तत्रापि प्रकल्पयेत् ।
न सङ्गच्छेत तस्यैतल् लक्ष्येण सह लक्षणम् ॥"
पक्षधर्मत्वमसङ्गतमपक्षधर्मस्यैव हेतुत्वेन फलितत्वात् ।
"यथा लोकप्रसिद्धं हि लक्षणैरनुगम्यते ।
लक्ष्यं च लक्षणेनैव तदपूर्वं न साध्यते ॥"
अयमपि कष्टकल्पनोपा [प्5अ।2] ऽऽलम्भो निरस्तः ।
यतः पक्षधर्मतामन्तरेण केवलसम्बन्धबोधे प्रत्यासत्तिधी[451]
__________नोतेस्__________
[451] ऽविप्रधीकर्षा-मूलपाठ ।
विप्रकर्षाभावाद् धूमाद् बह्निसम्बन्धात् क्व तदनुमानम् ? यत्रासौ दृश्यते तत्रैव ।
ननु ---
जातविशेषे ऽपि दृश्यते । किम् तत्राप्यनुमानम् ? सिद्धत्वाद् बह्नेः ।
एवं तर्हि ---
बह्निर्यत्र जिज्ञासितो यत्र च दृश्यते "धूमो बह्निसम्बन्ध" इति व्रुवता जिज्ञासितविशेषे धर्मिणि सत्त्वमेवे [+त्य ?] भ्युपेतं त्वया ।
वयमप्येवमेव प्रतिपन्नाः ऽअनुमेये सत्त्वमेवेऽति ब्रुवन्तः ।
[452]पक्षधर्मत्वस्य च महदेव प्रयोजनम् । यद्देशकालनियतं बह्निमुपदर्शयत्यनुमानमतस्तत्प्रापणयोग्यम् । अतश्च प्रमाणम् ।
__________नोतेस्__________
[452] स्ह्: 80.
[453][454] साध्यधर्मसामान्येन समानो[455]ऽर्थः सपक्षः तत्रैव च सत्त्वं द्वितीयं रूपम्.
__________नोतेस्__________
[453] तेxतेदितिओन् वोन्: यैत, हिदेओमि (1991): तर्करहस्य केन्यू (व्). जोउर्नल् ओf नरितसन् इन्स्तितुते fओर् बुद्धिस्त् स्तुदिएस् नो. 14: 145-148.[य् व्]
[454] य् व्: 145. तेxत् füर् दिएसेन् अब्स्छ्नित्त् नछ् य् व्. एन्द्नोतेन् नछ् स्हस्त्रि.
[455] म्स् सामानो.
ऽऽअनुमेये सत्त्वम् एवेऽऽत्य् उक्तम्. ऽऽसपक्ष एव च सत्त्वम्ऽऽ इत्य् अन्ययोगव्यवच्छेदेन निरस्यते चकारात्, यथानरं च नारायणम् एव चादौ स्वतः सुतौ द्वौ जनयां बभूवेऽऽति.
ननु ---
ऽऽसाध्येनानुगमो[456]हेतोः साध्याभावे[457]च नास्तिता ।
__________नोतेस्__________
[456] म्स् & स्ह् -नुगमा.
[457] म्स् साध्यभावे.
ख्याप्यते यत्र दृष्टान्तः स साधर्म्येतरो द्विधा । ।ऽऽ
इति लक्षणम्, तत् किम् उच्यते ऽऽसाध्यधर्मेऽऽ त्यादि. सत्यम्.
ऽऽतत्रैव च[458]सत्त्वम्ऽऽ इत्य् अभिधानात् तावान् एवार्थः सम्पद्यते.
__________नोतेस्__________
[458] स्ह् ओमित्स् च.
सपक्षो यो न भवति सो ऽसपक्षो ऽसमर्थसमासेन, ततो ऽन्यस् तद्विरुद्धस् तदभावश् च. तत्रासत्त्वम् एव निश्चितं[459]तृतीयं रूपम्.
__________नोतेस्__________
[459] य् व्: 146.
निश्चितग्रहणं त्रिष्व् अपि रूपेषु द्रष्टव्यम्. वह्निसम्बद्धत्वेनानुमेये[460]
__________नोतेस्__________
[460] स्ह् --सम्बन्धेनानुमेये.
निश्चीयमानो धूमो वह्निं प्रतिपादयति, नान्यथा.
प्रपद्यमानश् चान्यस् तन् नान्तरीयकम् ईप्सितैः ।
साध्यार्थैर् हेतुना तेन कथम् अप्रतिपादितः[461]। ।[462]
__________नोतेस्__________
[461] प्रपद्यमानश्चा.... .... प्सितैः .... पादितः ॥ -प्र- वा- भा- 504 पृ-, 4।59 का- ।
[462] साध्यार्थैर्हेतुना.... .... प्रतिपादितः ॥ -प्र- वा- भा- 507 पृ-, 4।56 का- ।
[463]तस्मान् नान्तरीयकतया[464]निश्चीयमानत्वम् एव परोक्षार्थप्रतिपादनव्यापारो[465]लिङ्गस्य.
__________नोतेस्__________
[463] स्ह्: 81.
[464] स्ह् नान्तरीकतया.
[465] म्स् परोक्षोर्थ-; स्ह् परोक्षो ऽर्थ-. च्f. नोते 13 अबोवे.
ज्ञानम् अप्य् आत्तम् एवात्र ज्ञापको ऽधिकृतो यतः ।
अतो[466]निश्चितत्वं न रूपान्तरम्. रूपान्तरं तद् एवेह विवक्षितम्. यत्र विवादस् तत्र पक्षधर्मे दर्शितो विवादः.
__________नोतेस्__________
[466] स्ह् स्वतो.
"कार्यकारणभावाद् वा स्वभावाद् वा नियामकात् ।
अविनाभावनियमो ऽदर्शनान् न न दर्शनात्[467]। ।[468]"
__________नोतेस्__________
[467] अविनाभाव.... ... .... दर्शनात् ॥ -प्र- वा- 3।30 ॥2।70 ॥
[468] कार्यकारण.... .... नियामकात् । .... दर्शनात् ॥ -प्र- वा- 3।30 ॥2।70; त- स- पं- 430 पृ- ।
इत्य् अन्वयव्यतिरेकयोर् विवादः.
न च लिङ्गं परोक्षप्रतिपत्त्यङ्गम् अथवा निश्चितं सद् इति मतम् अस्ति कस्यचित्.
तस्माद् अन्वयव्यतिरेकयोर् निश्चितव्याप्तिकयोर् एकम् अपि प्रयुक्तम् अर्थापत्त्या द्वितीयम् आक्षिपति रूपम् इति नियमवतोर् अन्वयव्यतिरेकयोर् निश्चितयोर् एक एव प्रयोक्तव्य इति प्रयोगशिक्षणार्थम् अन्वयव्यतिरेकोपादानम्. यस्माद् यतःऽऽसपक्ष एव च[469]सत्त्वम्ऽऽ इत्य् उक्ते ऽऽऽसपक्षे चासत्त्वम्ऽऽ इति गम्यते, किमर्थं कथ्येत्ऽऽआसपक्षे चासत्त्वम् एव निश्चितम्ऽऽ इति.[470]तद् एवं दर्शनादर्शनमात्रेण न सिध्यति सम्बन्धः.
__________नोतेस्__________
[469] स्ह् ओमित्स् च.
[470] स्ह्: 82.
[471]किं तर्हि. जन्मतन्मात्रानुबन्धप्रसाधकदर्शनादर्शनविशेषेणेति[472]
__________नोतेस्__________
[471] य् व्: 147.
[472] स्ह् जन्य-.
वक्तुन् निश्चितग्रहणं कृतम्.
एतावान् एवार्थः प्रमाणसमुच्चये ऽपि---
अनुमेये ऽथ तत्तुल्ये सद्भावो नास्तितासति[473]।
__________नोतेस्__________
[473] अनुमेये ऽर्थतः तुल्ये... .... .... ऽसति ॥ -(ऽथ तत्तुऽपा-युक्) हे (तु) वि (न्दु) टी (कायाम्) अर्चटेन उद्धृतम् 222 पृ- ।
साध्यधर्मसामान्येना तुल्य[474]एव सद्भावः. अनेन चावधारणेन लब्धो ऽतत्तुल्ये ऽसद्भावः. ततो ऽनास्तितासतीति नियमार्थम्. सिद्धे सत्य् आरम्भो नियमायेऽऽति न्यायात्.
__________नोतेस्__________
[474] म्स् & स्ह् -न्येनातुल्य एव.
ऽऽअसत्य् एवेऽऽत्यादिग्रन्थ ईश्वरसेनेन प्रक्षिप्तः.
ऽऽअनुमेये ऽथ तत्तुल्ये सद्भावो नास्तितासतीऽऽत्य् एव सूत्रं गमितम् आचार्येण नियमार्थम्. तथापि प्रक्षेपो विभज्यते. असत्य् एव नास्तिता यथा स्यान् नान्यत्र न विरुद्धे, तत्तुल्यत्वेन यः सन् न भवति सो ऽसन् तस्मिन् ऽऽनास्तितैवेऽऽत्य् असमर्थसमासफलम्. तदन्यस्[475], तद्विरुद्धस् तदभावश् चेत्य् उक्तं भवति. तस्माद् आह ऽऽनान्यत्रैव न विरुद्ध एव चेऽऽति.
__________नोतेस्__________
[475] म्स् तदन्यतविरुद्धस्; स्ह् तदन्यः तद्विरुद्धस्.
[476]अपि तु अनुमेयविपरीते[477]सर्वस्मिन् यो नास्त्य् एव स हेतुः, कुतः पुनर् अन्यविरुद्धयोः प्रसक्तिः. उच्यते. ऽऽतत्तुल्य एव यो ऽस्तीऽऽति नियमेनातत्तुल्ये[478]नास्तित्वम् आक्षिप्यते. तत्र्ऽऽआतत्तुल्यऽऽ[479]इत्य् असमर्थसमासासपक्षे[480]ऽन्यविरुद्धवाचिनञ्शब्दसमासे[481]
__________नोतेस्__________
[476] स्ह्: 83.
[477] `अनुमेयविपरीतेऽ नोत् इन्च्लुदेद् इन् म्स् & स्ह्, बुत् तेन्ततिवेल्य् इन्सेर्तेद् ब्य् थे प्रेसेन्त् wरितेर्. च्f. नोते 44 अबोवे.
[478] म्स् (अ)तन्तुल्-.
[479] म्स् (अ)तन्तुल्-.
[480] म्स् समर्थसमाससपक्षे; स्ह् समर्थसमासपक्षे.
[481] स्ह् --वाचि नञ् शब्द-.
ऽब्राह्मणवद् ऽअनृतवद्[482]अन्यो विरुद्धो वा नियतो विपक्षो गम्[483]येत.
__________नोतेस्__________
[482] स्ह् अनुभवत्.
[483] य् व्: 148.
ऽऽनास्तितासतीऽऽति वचनेन पुनस् तत्तुल्यतया[484][485]यः सन् न भवति सो ऽतुल्यो ग्राह्यः.
__________नोतेस्__________
[484] म्स् (अ)तन्तुल्-.
[485] स्ह् तत्तुल्य उपायः सन्; म्स् तन्तुल्यते(भे ?)यायः. च्f. त्र् 82, 15-16: तत्तुल्यत्वेन यः सन् न भवति सो ऽसन्...
एवं तर्हि पूर्वेणासिद्धत्वाद् अपूर्वविधानं न नियमार्थं स्यात्. न.
व्याख्यानतो--
ऽऽविशेषप्रतिपत्तिर् न हि सन्देहाद् अलक्षणम् ।ऽऽ
इति न्यायात्. असमर्थसमास एव भविष्यत्य् ऽऽअतत्तुल्यऽऽ इति. तथापि ऽऽनान्यत्र न विरुद्धऽऽ इति वचनम् अघटमानं वा घटमानं किम् असमर्थसमासेन समर्थ एवास्तु समास इति चोद्ये दोषदर्शनार्थत्वाद् इति.
ऽऽअसतो ऽधिकरणादिशक्तिशून्यत्वाद् विपक्षत्वम् अनुपपन्नम्ऽऽ इति परः.
न, स्ववचनविरोधात्. असतो ऽधिकरणशक्तिं प्रतिरुन्धानो येन वाक्येन तां प्रतिरुणद्धि, तेन तस्मिन्न् अधिकरणशक्त्यभावाधिकरणशक्तिं[486]
__________नोतेस्__________
[486] स्ह् --शक्य-.
विधत्ते.
[487]"(अर्था ?) अतद्रूपपरावृत्तमात्रप्रसाधनात् ।
__________नोतेस्__________
[487] स्ह्: 84.
सामान्यविषयं प्रोक्तं लिङ्गभेदाप्रतिष्ठितेः[488] । ।"[489]
__________नोतेस्__________
[488] अतद्रूपपरावृत्त... ... ... नात् । ... ... प्रतिष्ठितेः । । -धर्मकीर्त्तिवचः । -प्र (माण) वा (र्त्तिक) भा (ष्ये) 18 पृ -, त- स- प- 330 पृ- ।
[489] सामान्यविषयं.... ....प्रतिष्ठितेः । । -प्र- वा- भा- 18 पृ- ।
दाहपाकादिसमर्थो ह्यर्थो ज्ञातुमिष्टः पाकाद्यसमर्थव्यतिरेकी चानुमानेनार्थो ज्ञाप्यते । अतो बहवो[490]ऽर्थाः सजातीयव्यावृत्तेर् अनिश्चितत्वान्निश्चितत्वाच्च विजातीयव्यावृत्तेः ऽसामान्यमिऽति व्यपदिश्यन्ते ।
__________नोतेस्__________
[490] ऽबहवो अर्थाःऽ- मूलपाठः ।
भेदाप्रतिष्ठितेरिऽति वचनात् । ऊर्ध्वतासामान्यं सजातीयान्यव्यक्तिव्यावृत्त्या प्रत्यक्षविषयः । ततः "समानानां भावः सामान्यमिऽ
त्यन्यरूपव्यावृत्तमेव, [प्5अ।4] (वि?) परीतादिशङ्का न कार्या ।
ननु---
"विशेषे ऽनुगमाभावः सामान्ये सिद्धसाध्यता ।
अनुमाभङ्गपङ्के ऽस्मिन् निमग्ना वादिदन्तिनः[491] । ।"
__________नोतेस्__________
[491] विशेषे ऽनुगमा.... .... साध्यता । .... दन्तिनः ॥ साध्यता यावदेव प्र- वा- भा- 499 पृ - ।
इति कथं परिहार्यम् ?
अत्र भाष्यम् । ---
सामान्येनान्वये सिद्धे पक्षधर्मत्वयोगतः ।
विशेषनिष्ठता तस्य सम्बन्धग्रहणात् परा[492] । ।"[493]
__________नोतेस्__________
[492] विशेषनिष्ठता.... .... परा । । -प्र- वा- भा- 500 पृ-, 3।39।103 ॥
[493] सामान्येनान्वये.... ....योगतः । ....परा ॥ -प्र- वा- भा- 500 पृ-, 3।39।103 ॥
अयोग[494]व्यवच्छेदेन विशेषणे पक्षायोगव्यवच्छेदं साध्यमपास्यसामान्येनान्वयदर्शने तद्विशिष्टत्वसिद्धिरतद्रूपपरावृत्ततयैकत्वस्य विवक्षितत्वात् पक्षधर्मत्वयोगात् । पक्षधर्मायोगव्यवच्छेदेन सामान्यं[495]
__________नोतेस्__________
[494] ग्य- मूलपाठः ।
[495] ऽन्यविंऽ- मूलपाठः ।
निशेषीभवति । न विशेषः सामान्यम् ।
[496]यदि हि ---
__________नोतेस्__________
[496] स्ह्: 85.
पक्षायोगव्यवच्छेदपूर्वकमन्वयः प्रदर्श्यते ? भवेद् ---
"विशेषे ऽनुगमाभावः सामान्ये सिद्धसाध्यता[497] ।"
__________नोतेस्__________
[497] विशेषे ऽनुगमा.... .... साध्यता । -प्र- वा- भा- 499 पृ- ।
च (न ?) भवेत् ।
यदि ---
सामान्येनान्वयो विशेषेण पश्चान्न परिणमेत ।
अत एव ---
पक्षधर्मतारूपबलात् सामान्येन धर्मिना सम्बद्धो व्यापको विशेषणघर्मिणा सम्बन्धाद् विशेषणं[498]परिणमति । न तु यः कश्चित् ।
__________नोतेस्__________
[498] ऽण परिऽमूलपाठः ।
एवम् ---
यदापि --- पक्षधर्मतापूर्वकः प्रयोगः तदाप्ययोगव्यवच्छेदेन विशेषणात् धर्मिमात्रसम्बन्ध्येव व्यापकं सामान्यं सत् विशिष्टताप्रतिष्ठं प्रतीयते ---
धूमो ऽत्र --- ऽयत्र धूमस्तत्राग्निर्य [प्5ब्।4] था --- महानसऽ इति साध्यधर्मसामान्येन धर्मिमात्रयोगव्यवच्छेदं स्मरताधूमो ऽत्र वर्त्तमानः साध्यधर्मसामान्यनान्तरीयकऽ इति पक्षयोगव्यवच्छिन्नस्तस्य धर्मसामान्यं प्रतीयते ।
समानस्वविषयविज्ञानजननयोग्यतारूपयोरेकदृष्टिः पर्युदासदृष्ट्यानुपलम्भः ।
यथा ---
यद्यत्रोपलब्धिलक्षणप्राप्तं सत् नोपलभ्यते स तत्रासद्व्यवहारविषयः सिद्धो यथा --- तुरङ्गमोत्तमाङ्गे शृङ्गम् !
नोपलभ्यते चोपलब्धिलक्षणप्राप्तो धटः क्वचित् प्रदेशे ।
[499]तत्र ---
__________नोतेस्__________
[499] स्ह्: 86.
ऽअभावो नाम प्रमाणप्रमेयाभावरूपतया द्विविधोऽ भट्टस्य ।
ऽप्रमेयाभावो ऽभावात् पृथगेव ऽस्ति प्रत्यक्षसाध्यऽ इति न्यायमतम् ।
"नास्ति पदार्थो ऽभावो न म प्रमाणविषय" इति मतम् बौद्धानाम् ।
ननु ---
ऽघटो ऽत्र नास्तीति ऽघटवान् यन्न भवतीऽ त्यादिप्रतिषेधव्यवहारो ऽस्ति । स किंविषयो भवतु?
ऽसघटाद् भूतलादन्यभूतलविषयऽ इति ब्रूमः ।
अपरापरप्रत्यययोगेन जायमानं भूतलं ऽकिञ्चित् सघटं किञ्चित् सधटादन्यदिऽति भावरूपतया तदाकारानु कारिणा प्रत्यक्षेणानुभूतनिश्चितं ससहायतया सघटप्रत्ययनिबन्धनम् । तत्प्रतियोगितया निरूप्यमाणं सघटादन्यद् भूतलं, घटो ऽत्र नास्ति, [प्5अ।5] घटवान् वा न भवतीति प्रत्ययद्वयनिबन्धनं निरूप्यते ।
तत्र ---
अभावतत्त्वावतारणो[500]विमर्शतरः कवलयति (?) कल्पनावीजानुपपत्तेः ।
__________नोतेस्__________
[500] ऽणंऽमूलपाठः ।
तथा हि ऽघटो ऽत्र नास्तीति बुद्धिनिबन्धनतया न कल्पनामर्हति । भूतलबिशेषेण घटादन्यसंज्ञेन तस्याः बुद्धेः कृतत्वात् । नाप्यभावव्यवहारविषयतया । सघटादन्यभूतलविषयः खल्वयमभावव्यवहारऽइति प्रथममेव कीर्त्तितम् ।
नापि भावविशेषणतया, प्रतिनियतभूतलानुभवभावितत्वादन्यव्यवहारस्य । यदि पुनर्विशेषणमन्तरेण नियतरूपं न सिध्यति, न सिध्यत्येव तर्हि नियतं विशेषणं विशेष्यं च रूपमिति किं कस्य विशेषणं विशेष्यं वा ?
[501]तस्मात् ---
__________नोतेस्__________
[501] स्ह्: 87.
स्वहेतोर्नियतरूपमुत्पन्नम् ।
यथा ---
विशेषणं विशेष्यं वा प्रत्यक्षेण च तदाकारानुकारिणा तदन्येन वा प्रत्ययेनाभूतं निश्चतं विशेषणान्तरमन्तरेण ।
तथा ---
सघटादन्यो ऽपि भूप्रदेशः स्वहेतोर्नियतमुत्पन्नः, प्रत्यक्षेण तथैव दृष्ट्वा व्यवस्थापितो ऽस्तु । प्रतियोग्यन्तरापेक्षया विषयः प्रतिषेधव्यवहारस्य ।
ऽइह भूतले कलशो ऽसन्ऽ इति प्रत्ययो न भूतलमात्रप्रभवो, घटवत्यपि प्रसङ्गात् । नापि भूतलविशेषः । ततो भूतलात्तस्य तत्त्वान्यत्वा [प्5ब्।5]
भ्यां यथासङ्ख्यं घटवत्यपि प्रसङ्गस्याभावस्वीकारस्य च दुरतिक्रमत्वात् ।
तस्मादलं भणित्वाभूतलकैवल्यमेवाभावऽ इति परः ।
अयुक्तम् एतत् ।
समानसमञ्जसजातीयत्वात् प्रसङ्गस्य । अभावो ऽपि भूतलमात्रविशेषणं नोपपद्य[502]ते । घटवत्यपि प्रसङ्गात् । तद्विशेषं ऽपि स्वीकृते ऽभावादन्यत्वे तस्य किमभावेन ? घटवत्यपि प्रसङ्गात् ।
__________नोतेस्__________
[502] ऽद्येऽलिखित्वा एऽमात्रा छिन्ना मूलपाठे ।
तस्मात् ---
अपरापरप्रत्यययोगेन सघटाद् भूतलादन्यदेव भूतलं नियतप्रतिभासवशेन व्यवहृतम् ।
यथा --- घटाभावप्रतीतेर्निबन्धनम् । किमभावेन तद् (+ति)रिक्तेन ?
[503]उपलब्धिलक्षणप्राप्तिरुपलम्भप्रत्ययान्तरसाकल्यं, स्वभावविशेषश्च । ऽयः स्वभावः सत्स्वर्थेषूपलम्भप्रत्ययेषु सन् प्रत्यक्ष एव भवती ऽत्यादि विस्तरस्तु प्रसिद्ध एव ।
__________नोतेस्__________
[503] स्ह्: 88.
अत्र ---
द्वौ वस्तुसाधनावेकः प्रतिषेधहेतुः । स्वभावप्रतिबन्धे हि ---
प्रत्यर्थो ऽर्थं गमयति । स च स्वभावप्रतिबन्धः साध्ये ऽर्थे लिङ्गस्य, वस्तुतस्तादात्म्यात्तदुत्पत्तेश्च । अतत्स्वभावस्यातदुत्पत्तेश्च तद्व्यवहारनियमाभावात् । कार्यस्वभावहेतुविधेर्भिन्नाभिन्नस्वभावस्य साध कौ तेनोपेयस्य भेदादुपायो विधिसाधनौ भिन्नौ । तौ तावत् कथ साधयतः ?
उच्यते ।
यस्य यत्रायत्तं स्वरूपं स आपत्तिविषयं साधयति । एत[प्5अ।6] देव प्रतिबद्धस्वभावत्वमुच्यते । तच्चायत्तत्वं कार्ये त्वकारणेन कर्त्तव्यत्वे साध्यस्य च स्वभावत्वे विस्पष्टमुच्यमाने स्फुरति । न संयोगित्वे सति, न वा समवायित्वे सति । तेनोच्यते । ---
"तादात्म्यात्तदुत्पत्तेश्च"
इति ।
स्वभावप्रतिबद्धत्वं हि व्यापकस्य तत्र भाव एव ऽव्याप्यस्य वा तत्रैव भावऽ इत्येवं लक्षणान्वयव्यतिरेकलक्षणो ऽविनाभाव उच्यते । स चाविनाभावस्तादात्म्यतदुत्पत्तिभ्यां व्याप्तः । तयोस्तत्रावश्यम्भावत्वात् । तस्य तयोरेव भावात् । नन्वेतदेव न सहामहे महेश्वरेणाप्यनुशिष्टम् ।
सतो रूपादेरसतो गतिरकार्यकारणत्वे ऽपि । तथा --- तस्यापि हि कार्यमेवाथ च व्यभिचरति बह्निम् ।
तथा ---
कार्यत्वमन्तरेणापि जनसाधारणं[504]गमयति । गमयति च कार्यं कारणात्मानम् । न कारणात्मा कार्यम् । साधारणकार्यकारणभावः सम्बन्धः । तत्रोच्यते । ---
__________नोतेस्__________
[504] ऽणऽमूलपाठः ।
[505]"एकसामग्र्यधीनस्य रूपादेरसतो गतिः ।
__________नोतेस्__________
[505] स्ह्: 89.
हेतुधर्मानुमानेन धूमेन्धनविकारवत्[506]। ।[507]
__________नोतेस्__________
[506] एकसामग्र्यधीनस्य.... ... गतिः । .... विकारवत् ॥ -प्र- वा- 3।8 । त- स- पं- 417 पृ- ।
[507] हेतुधर्मानुमानेन.... ....वत् ॥ -प्र- वा- 3।8, त- सं- पं- 417 पृ- ।
शक्तिप्रवृत्या न विना रसः सैवान्यकारणम् ।
इत्यतीतैककालानां गतिस्तत्कार्यलिङ्गता ।"
रमो हि रसनेव पूर्वकं गमयति स्वोपादानम् । हेतुधर्मानुमानेन पुनः समानकालं रूपम् । यतो --- येनासौ रसो रसेन जनि [प्5ब्।6] तः स प्रवृत्तशक्तिरूपोपादानरूपसहकारिकारणो रसो रसं जनयति । न केवलः ।
यथोक्तरूपसहकारित्वं च हेतुधर्मो, हेतुविशेषणम् । नचानुमीयमानम् समानकालतया रूपमनुमापकस्य रसस्य कार्यहेतुतां व्याहन्ति ।
यथा ---
स्वभावहेतोः कृतकत्वस्य "हेतुप्रत्ययैरिऽऽति व्यतिरिक्तं विशेषणं न स्वभावतां निराकरोति --- तथेहापि नयो वेदितव्यः ।
तथा ---
यदि नाम भस्माङ्गारादिनिरुद्धे ऽपि कारणे ऽनुवर्त्तते । तत् किमे[508] तावता तत्पूर्वकतां व्यभिचरति ?
__________नोतेस्__________
[508] ऽवऽलिखित्वा छिन्नं मूलपाठे ।
जलस्य पुनः स्थैर्यमुपार्जितमाधारणातः स्थिरं जलमाधारं गमयति । कार्यतयैव ।
यत् पुनः कारणं कार्यस्य न गमकम्, तत्पुरुषाय बाधते ।
तथा हि---
"कुर्वता बह्निना धूमं कारणत्वमवाप्यते ।
कुर्वता यदि गम्येत गमकत्वं भवेदपि[509]। ।[510]
__________नोतेस्__________
[509] कुर्वता यदि .... ....भवेदपि ॥ -प्र- वा- भा- 605 पृ-, 4।203।488 ॥
[510] कुर्वता वह्निना.... ....विद्यते । ....भवेदपि ॥ -प्र- वा- भा- 605 पृ-, 4।203।488 ॥
यत्त्वशक्यं तथा गन्तुमिति दोषो न तस्य सः ।
तथा तत्कार्यमेव स्याद् धूमाभावादभावतः[511]। ।[512]
__________नोतेस्__________
[511] तथा तत्कार्यमेव... ....भावतः ॥ -प्र- वा- भा- 605 पृ-, 4।203।489 ।
[512] यत्त्वशक्यं तथा गन्तु.... .... सः । ....भावतः ॥ -प्र- वा- भा- 605 पृ-, 4।203।489 ।
[513]व्यापकं व्यतिरिक्तत्वे कारणं सर्वमेव हि ।
__________नोतेस्__________
[513] स्ह्: 90.
पूर्वत्वे कारणस्येष्टे ह्युपादानं तदर्थिनाम्[514]। ।
__________नोतेस्__________
[514] व्यपकं व्यतिरिक्तत्वे.... .... मेव हि । .... तदर्थिनाम् । -प्र- वा- भा- 605 पृ-, 4।302 का- ।
परत्वे ह्यनुमानं यत् सामर्थ्यात् तद् भविष्यति ।
को हि हस्तगतं द्रव्यं पादगामि करिष्यति[515]? ॥
__________नोतेस्__________
[515] को हि हस्तगतं .... .... करिष्यति ॥ (एतावदेव) प्र- वा- भा- 69 पृ- ।
भाविकारणभावेन परलोकानुमा स्थिरा । ।"
भाविना सार्धमन्वयव्यतिरेकानुविधानमपि प्रत्य[प्5अ।7] क्षानुपलम्भाभ्यामेव सम्भाव्यम् ।
अप्रतिबद्धशक्तिकं हि कारणं येन प्रत्यक्षानुपलम्भेन परिच्छिद्यते, तेन कार्यमस्यावश्यम्भावि । परिच्छिन्दता कार्यस्य भावात् । ऽबाधं न करोति कारणमिऽति परिच्छिन्नं भवति । तेन कारणस्यापि गमकत्वे कार्यत्वमेवे[516]ऽति भेदे सति गमकं नान्यदित्युक्तं भवति ।
__________नोतेस्__________
[516] कार्यमेवेति अधिकं लिखित्वा छिन्नं मूलपाठे ।
यत् पुनरुच्यते । ---
तादात्म्याविशेषे ऽपि शिंशपात्वं गमकं, न वृक्षत्वमपि । तस्माद् अव्यभिचारि गमकं न तदात्मकमिति ! तत्राचार्येणोक्तम् । ---
"यो वात्मा सो ऽविभागवान् स तेनाव्यभिचारी स्यात् ।"
य आत्मा यस्य स गमकस्तस्य । वृक्षः शिंशपामपास्याप्यस्ति पलाशादिः ।
न तु शिंशपा तथेति सैवाविभागवती ।
"तत्रापि शिंशपात्मा स्याद् वृक्षो ऽपि गमको मतः ।
तादात्म्यं सुगमं नेति गमकत्वं न विद्यते[517]। ।[518]
__________नोतेस्__________
[517] तत्रापि शिंशपात्मा.... ....मतः । ....विद्यते ॥ -प्र- वा- भा- 605 पृ-; 4।203।490 ।
[518] तादात्म्यं सुगमं.... .... विद्यते ॥ -प्र- वा- भा- 605 पृ-; 4।203।490 ।
तथा वा गमकत्वे स्यादविभागत[519]या गतिः ।
__________नोतेस्__________
[519] ऽगबत् या गतिःऽमूलपाठः ।
तस्मात् सर्वा गतिः कार्याविभागत्वेन वस्तुनः[520]। ।[521]
__________नोतेस्__________
[520] तथा वागमकत्वे.... .... गतिः । .... वस्तुनः ॥ -प्र- वा- भा- 604 पृ-, 4।203।491 ।
[521] तस्मात् सर्वा... ... वस्तुनः । - प्र- वा- भा- 605 पृ-, 4।203।491 ।
[522]अपि च ---
__________नोतेस्__________
[522] स्ह्: 91.
ऽपक्षधर्मऽ इत्यत्र धर्मशब्दो न गुणपर्यायः । किं तर्हि ? आश्रितवाची ।
प्रतितन्त्रसिद्धान्तन्यायात् ।
तेन ---
"देहाश्रितवस्त्रादावप्रसङ्गो धर्मशब्दस्य" इत्यप्रस्तुतमपि ग्राह्यमस्तु ।
तदेवम् ---
अविनाभावो व्याप्तस्तादात्म्यतदुत्पत्तिभ्याम् । ऽते च --- तादात्म्यतदु[प्5ब्।7]
(+त्प) त्ती स्वभावकार्ययोरेवेऽति ताभ्यामेव वस्तुसिद्धिः ।
तत्र प्रयोगः ।
यस्य येन सह तादात्म्यतदुत्पत्ती न स्तः, स न तदविनाभावी । यथा ---
प्रमेयत्वादिरनन्तत्वादिना, न स्तश्च तादात्म्यतदुत्पत्ती कार्यस्वभावव्यतिरेकिणाम् ।
व्यापकानुपलब्धिरेषा ।
स्वभावानुपलब्धिस्तु ---
स्वभावहेतावन्तर्भावित्वात् तत्तादात्म्यलक्षणः प्रतिबन्धव्यापककारणानुपूर्वी च तादात्म्यतदुत्पत्तिबलादेव कार्यव्याप्ययोर्निवृत्तिं साधयतः, प्रतिषेधसिद्धिरपि यथोक्ताया एवानुपलब्धेः ।
अनुपलब्धेस्तावत् तस्या उपलब्धिलक्षणप्राप्तस्य सत्त्वे सम्भवात् ।
नह्यस्ति---सम्भवस्तुल्यस्वज्ञानजननयोग्यतयोः प्रतियोगिनोः सतोरेकरूपनियतायाः प्रतीतेः ।
यस्मिन् वेद्यमाने यस्मिन् (यन् ?) नियमेन वेद्यते, तत्तस्य प्रतियोगि ।
तदेकेन्द्रियज्ञानग्राह्यं वा । यथा---भूतलघटरूपयोः ।
भिन्नेन्द्रियग्राह्यं वा ।
[523]यथा---देवकुलभेरीशव्दयोः । विकल्पज्ञानान्धकारस्य प्रतिषेध्य[524]
__________नोतेस्__________
[523] स्ह्: 92.
[524] अत्रऽप्रतऽइति लिखित्वा छिन्नमिव मूलपाठे ।
दीपयोर्वा ।
ऽदेशकालस्वभावविप्रकृष्टेषु मेरुधामपिशा चेषु चानुपलब्धिलक्षणप्राप्तेषु सत्स्वपि प्रत्यक्षनिवृत्तिलक्षणाया अदृश्यानुपलब्धेः सम्भवादनैकान्तिकत्वेन प्रतिषेधव्यवहारासिद्धेर्दृश्यानुपल [प्5अ।8] ब्धेरेव सा भवतीति प्रतिषेधसिद्धिरपि यथोक्ताया एवानुपलब्धेरिति सिद्धम् ।
यथा ---
एकज्ञानसंसर्गिणि दृश्यमाने दृश्यत्वं प्रतिषेधस्य । तथा--- अतीतकाले ऽतीतकालत्वमदृष्टस्मृतिसंस्कारे ऽदॄष्टस्मृतिसंस्कारत्वम्, वर्त्तमाने वर्त्तमानत्वम् । तेनादृष्टस्मृतिसंस्कारातीतस्य प्रतिपत्तृप्रत्यक्षस्य दृश्यप्रतिषेध्यस्य वर्त्तमानस्य चान्योपलब्धिलक्षणा प्रत्यक्षनिवृत्तिस्वभावानुपलव्धिलक्षणा प्रत्यक्षनिवृत्तिस्वभावानुपलब्धिरभावव्यवहारे हतुः ।
तेन ---
दृष्टान्तासिद्धिचोदनापि प्रच्याविता ।
ऽगौरयम्, सास्नादिसमुदायात्मकत्वादि ऽत्यादेर्दृष्टान्तत्वात् ।
परिणामेन योग्यताभाजो योगिप्रभावाद्वा स्तम्भितज्ञानशक्तेर्घटस्य घटते कथं भूतले प्रतिषेधः ? सान्धकारे, सालोके वा ?
न ।
तदानीमदृश्यत्वात् । योगिनापि इन्द्रियस्य विषयस्य वा ज्ञानजनन शक्तिस्तम्भसम्भवात् ।
सा चानुपलब्धिः व्यासेन षोडशप्रकारा ।
तस्याश्च सङ्ग्रहश्लोकः ।--
"स्वभावकारणव्यापिकार्याणां स्युः पृथक् पृथक् ।
अदृग्विरोधि दृग्वैरि कार्यादृग्वैरिव्याप्तदृक् ॥"
[525]तत्र--
__________नोतेस्__________
[525] स्ह्: 93.
(1)स्वभावा[526]नुप[527]लब्धिर्यथा--
__________नोतेस्__________
[526] ऽवनुऽमूलपाठः ।
[527] अत्रऽवऽइति लिखित्वा छिन्नमिव मूलपाठे ।
नात्र धूमः, उपलब्धिलक्षणप्राप्तानुपलब्धेः ।
(2)कारणानुपलब्धिर्यथा --
नात्र धूमो ब[प्7ब्।8] हन्यभावात् ।
(3)व्यापकानुपलब्धिर्यथा --
नात्र[528]शिंशपा, वृक्षाभावात् ।
__________नोतेस्__________
[528] ऽभ्राभ्रऽइति मूलपाठे ।
(4)कार्यानुपलब्धिर्यथा --
नेहाप्रतिबद्धसामर्थ्यानि धूमकारणानि सन्ति, धूमाभात्रात् ।
(5) स्वभावविरुद्धोपलब्धिर्यथा --
नात्र शीतस्पर्शो बह्नेः ।
(6)कारणविरुद्धोपलब्धिर्यथा --
नास्य रोमहर्षादिविशेषा सन्ति, सन्निहितदहनविशेषत्वात् ।
(7)व्यापकविरुद्धोपलब्धिर्यथा --
नात्र तुषारस्पर्शो बह्नेः ।
(8)कार्यविरुद्धोपलब्धिर्यथा --
नेहाप्रतिबद्धसामर्थ्[529]यानि शीतकारणानि सन्ति, बह्नेः ।
__________नोतेस्__________
[529] अत्रऽसामान्यार्थानिऽइति लिखित्वान्याछिन्नमिव मूलपाठे ।
(9)स्वभावविरुद्धकार्योपलब्धिर्यथा --
नात्र शीतस्पर्शो धूमात् ।
(10) कारणविरुद्धकार्योपलब्धिर्यथा --
न रोमहर्षादिविशेषयुक्तपुरुषवानयं प्रदेशो धूमात् ।
[530](11)व्यापकविरुद्धकार्योपलब्धिर्यथा --
__________नोतेस्__________
[530] स्ह्: 94.
नात्र तुषारस्पर्शो धूमात् ।
(12) कार्यविरुद्धकार्योपलब्धिर्यथा --
नेहाप्रतिबद्धसामर्थ्यानि शीतकरणानि सन्ति, धूमात् ।
(13)स्वभावविरुद्धव्याप्तोपलव्धिर्यथा --
न ध्रुवभावी, भूतस्यापि भावस्य विना हेत्वन्तरापेक्षणात् ।
(14)कारणविरुद्धब्याप्तोपलब्धिर्यथा --
नात्र धूमः, तुषारस्पर्शात् ।
(15) ब्यापकविरुद्धव्याप्तोपलब्धिर्यथा --
नायं नित्यः, कदाचित् कार्यकारित्बात् । नित्यं हि---निरतिशयत्वेन व्याप्तम् ।
तद् विरुद्धं सा [प्6अ 1] ऽतिशयत्बम् । तेन व्याप्तं कादाचित्कार्यकारित्वम् ।
(16)कार्यविरुद्धव्याप्तोपलब्धिर्यथा --
नेहाप्रतिबद्धसामर्ध्यानि बह्निकारणानि सन्ति, तुषारस्पर्शात् ।
तदेवम्---
एषा स्वभावानुपलब्धिः प्रयोगभेदाद् व्यासतः षोडशप्रकारा ।
कार्यकारणब्याप्यव्यापकभावसिद्धिः खलु ---
दृश्यतामन्तरेण न सम्भवति । ततो विरुद्धया उपलव्ध्या कारणाद्यनुपलव्ध्या च येषां प्रतिषेध उक्तस्तेषां दृश्यानामेव स्मृतानां प्रतिषेधसिद्धिः ।
सर्ववित्प्रेत्यभावादयस्तु---
न पूर्वं, न तदा नीं बा दृश्यास्ततो न विषेद्धव्याः ।
भाष्यं पुनः---
[531]"अभावेन हि शीतस्य वह्नेः प्रागुपलब्धिभाक् ।
__________नोतेस्__________
[531] स्ह्: 95.
सम्बन्धस्तेन तत्सिद्धया तदभावः प्रसिध्यति[532]। ।"[533]
__________नोतेस्__________
[532] अभावे न हि शीतस्य... .... लब्धिभाक् । .... प्रसिद्ध्यति ॥ -प्र- वा- भा- 231 पृ-, 3।88।272 ॥
[533] सम्बन्धस्तेन..... .... प्रसिद्ध्यति । -प्र- वा- भा- 231 पृ-, 3।88।272 ।
स चाभावो ऽनुपलब्धिरेव । तेनानुपलब्धिरेवानुमानसिद्धा साधयत्भावव्यवहारम्, यथा प्रत्यक्षसिद्धा । यतो - वक्ष्यति ।
"तस्मादनुपलम्भो ऽयं स्वयं प्रत्यक्षतो गतः[534]।
__________नोतेस्__________
[534] तस्मादनुपलम्भो........ गतः ॥ -प्र- वा- 4।274 का-; प्र- बा- भा 637 पृ-, 233 पृष्टे च ।
इति ।
तथानुमानतो गतऽ इत्यपि वेदितव्यम् ।
यदा तु --
रोमहर्षाभादः साध्यते । तदाग्निना शीतानुपलब्धिः । तया कारणानुपलब्ध्या रोमहर्षाभावः साध्यते । तत्र ---अग्निरूपेण स्पर्शस्योष्णात्मनः एकसामग्र्यधीनतयानुमानम् । स च शीताभावस्वभावः । तस्यानुमानेनोपल प्[6ब्।1] (+ब्धि)रेव शीतानुपलब्धिः । तेन--कार्यहेतुकारणानुपलव्ध्योरेकत्र प्रवृत्तत्वान् न विरोधी नाम पदार्थो लिङ्गान्तरम् ।
तस्यानुपलब्धिरेबानुमानसिद्धाभावं गमयति । तेनानुमितानुमानमेऽतदिति ।
मित्रमतं पुनः ---
ऽअनुपल(+ब्ध)ता स्वभावस्यापरा । स्वभाबानुपलब्धिरेवापरस्यापरा भवतिऽ कारणानुपलब्धिर्व्यापकानुपलब्धिश्चेऽत्यादि प्रकारा ।
तस्माद् ---विधिप्रतिषेधप्रकारप्रयोगे ऽप्यनुपलव्धिरेव गमिका ।
आह च । ---
"अन्यथैकस्य धर्मस्य सद्भावोक्त्त्यापरस्य तत् ।
नास्तित्व केन गम्येत ? विरोधाच्चेदसावपि[535]। ।[536]
__________नोतेस्__________
[535] अन्यथैकस्य धर्मस्य.... ....तत् । । ....सावपि । । -(स्य भावस्य पाठयुक्) प्र- वा- भा- 230 पृ-; 3।87 का ।
[536] नास्तित्वं केन.... .... वपि ॥ -प्र- वा- भा 230 पृ-, 3।87 का ।
सिद्धकेनासहस्धानादिति चेत् ? तत् कुतो गतम् ? ।
दृश्यस्य दर्शनाभावादिति चेत् ? साप्रमाणता[537] । ।"[538]
__________नोतेस्__________
[537] दृश्यस्य दर्शना... .... प्रमाणता । -प्र- वा- भा- 230 पृ-, 3।88 का- ।
[538] सिद्धः केनासह.... ....मतम् । ....ऽप्रमाणता ॥ -प्र- वा- भा- 230 पृ-, 3।88 का- ।
[539]प्रतियेध ऽपि द्विविधः --- तादात्म्यस्याधेयस्य च ।
__________नोतेस्__________
[539] स्ह्: 96.
तत्र --ऽतादात्म्ये निषेध्ये विशेषणमप्युपलब्धिलक्षणयाप्तमिऽति न वाच्यम् । सर्वस्यैव दृश्यत्वात् ।
तदेव च निषिध्यते तादात्म्येन, यद् यत्र नियताकारम् ।
यथा ---
"स्तम्भो ऽयमम्भोधरो न भवति । पिशाचो वा शशविषाणं वा न भवतीति ।
यत् पुनरनियताकारम् --- तन्न सिध्यते (ति?) । यथा---
क्षणिकत्वनीले---
"वस्तुसङ्करसिद्धिश्च प्रमाणाभावनाश्रिता ।"
इत्यप्यसत् । यतः क्वचित् प्रमाणं वृत्तं तत् प[प्6अ।2]रिच्छिनत्ति, ततो ऽन्यद् व्यवच्छिनत्ति ।
"तृतीयप्रकाराभावं च सूचयतीऽत्येकप्रमाणं व्यापार एषः ।
विरुद्धोपलब्धौ च द्विविधो विरोधः । सहानवस्थानलक्षणः ।
परस्परपरिहारस्थितलक्षणता च । लक्षणमन्योर्विकलकारणस्य भवतो ऽन्यभावे ऽभावाद् विरोधगतिः, परस्परपरित्यागस्थितस्वरूपत्वं च ।
आद्यस्य --- प्रत्यक्षानुपलम्भैर्ग्रहणम् । अत एवायम् --- दृश्ययोरेव वस्तुनोरेब विरोधः ।
द्वितीयस्तु --- वस्त्ववस्तुनोर्दुश्यादृश्ययोरपि । द्वितीयस्य ग्रहणोपायो नियतोपलम्भः ।
अत एवोच्यते । ---
ऽयस्मिन् परिच्छिद्यमाने यन्नियमेन व्यवच्छिद्यते, तत्ततो ऽन्यदिऽति ।
[540]तदुक्तम् । ---
__________नोतेस्__________
[540] स्ह्: 97.
"अन्योन्यभेदसिद्धेर्वा ध्रुबभावविनाशवत् ।
प्रमाणान्तरबाधाद्वा कदाचित्कानपेक्षवत्[541]। ।"[542]
__________नोतेस्__________
[541] अन्यो ऽन्यभेदसिद्धे.... ....वत् । .... क्षवत् । -प्र- वा- भा- 640, 4।279 का- ।
[542] प्रमाणान्तर.... .... पेक्षवत् ॥ -(सापेक्षध्रुवभाववत् इति पाठयुक्) प्र- वा- भा- 640 पृ-, 4।279 का- ।
प्रत्यक्षमेव निषेधकमनुपलम्भ उच्यते । ते न ---
कार्यकारणभावसिद्धौ --- ऽप्रत्यक्षानुपलम्भाभ्यामिऽत्यत्र यद्यनुपलम्भो ऽनुमानम्, तदा --- तत्रापि व्यतिरेकग्रहो ऽपरेणानुमानेनेत्यनवस्थिति प्रत्युक्तम् ।
कार्यहेतौ च । ---
"क्षणिकत्वे कथं भावाः क्वचिदायत्तवृत्तयः ।
प्रसिद्धकारणाभावे येषां भावस्ततो ऽन्यतः[543]। ।[544]
__________नोतेस्__________
[543] क्षणिकत्वे कथं.... .... वृत्तयः । ऽन्यतः ॥ हे- वि- टी- अर्चटेनोद्धृतम् 155 पृ- ।
[544] प्रसिद्धकारणाभावे.... ....ऽन्यतः ॥ --हे- वि- टी- अर्चटेनोद्धृतम् 155 पृ- ।
ततश्चानग्नितो ऽधूमाद् यथा धूम[प्6ब्।2] स्य सम्भवः ।
शक्रमूर्ध्नस्तथा तस्य केन वार्येत सम्भवः[545]? ॥
__________नोतेस्__________
[545] ततश्चानग्नितो .... सम्भवा । .... सम्भवः ॥ -(अतश्च- पाठयुक्) हे- वि- टी- अर्चटेनोद्धृतम् 155 पृ-; वा (द) न्याय) टी (का-) शान्तरक्षितः 15 पृ-
चित्रं चित्रकराज्जातं यतस्त्रिष्वपि दृश्यते ।
अयस्काराच्च तीक्षणत्वं वदरीबीजतो ऽपि च ॥
शालूकादपि शालूकं कथं भवति गोमयात् ? ।
जायते च शरः शृङ्गात् जायते च शरादपि । ।
वीजकन्दोद्भवा रम्भाप्यम्भो ऽस्ति मणिसम्भवम् ।
बृश्चित्कान्निश्चितं जातो बृश्चिको गो मयादपि । ।
--- एवमादिषु व्यभिचारदृष्टेरिष्टं कथं कार्यस्य हेतुत्वम् ?
उच्यते ।
अग्नीन्धनसामग्रीजन्यो यादृषो धूमो न तादृश एव धूमाद् भवति ।
कारणभेदेन कुतश्चित् साम्यात् समानरूपतयावसीयमानस्याप्यन्यादृशत्वात् । तादृशो ह्यनीन्धनादिसामग्रीक्षणान्तरजन्य एवापरः क्षणः ।
[546]त[547]था ---
__________नोतेस्__________
[546] स्ह्: 98.
[547] अत्रऽदऽलिखित्वा छिन्नमिव मूलपाठे ।
तदन्य आद्य एषापराग्नीन्धनादिसामग्रीजन्यऽ इति तादृशस्य धूमस्य धूमात् सम्भवाभावात् । न क्वचिदनाश्वासः कार्यः ।
एवम्--- अन्यादृशमेव चित्रं चित्रकरकरपल्लवोल्लसितमन्यादृशमेवमतन्त्रियन्त्रविस्फुरितम् ।
तूणीतोमरादिषु च तीक्ष्णत्वमयस्कारादन्या दृशम् ।
बदरीबीजनिर्जातमन्यादृशमेव कण्टककोटितया प्रत्यकलितम् ।
एवम् ---
शालूकादीनामपि भेदो वाच्यः । प्रत्येति च वनकन्दोद्भवां कदलीमन्यादृशी [प्6अ।3] म् बीजोद्भवायाः कदल्याः ।
उक्तं च ---
"तैक्ष्ण्यादीनां यथा नास्ति कारणं कण्टकादिषु ।
तथाकारणमेतत् स्यादिति केचित् प्रचक्षते[548]। ।[549]
__________नोतेस्__________
[548] तथा कारण.... ....प्रचक्षते ॥ -प्र- वा- भा- 133 पृ- 2।181 का ।
[549] तैक्ष्ण्यादीना.... .... कण्टकादिषु । .... प्रचक्षते ॥ -प्र- वा- भा- 133 पृ- । 2।181 का- ।
सत्येव यस्मिन् यज्जन्म विकारे वापि (+या ?) क्रिया ।
तत्तस्य कारणं प्राहुस्तत् तेषामपि विद्यते ॥"
अन्वयव्यतिरेकानुविधायिनां नापरः कार्यकारणाभावः ।
न च स्पर्शेनानेकान्तः ।
"स्पर्शस्य रूपहेतुत्वाद् दर्शने ऽस्ति निमित्तता[550]।
__________नोतेस्__________
[550] स्पर्शस्वरूपहेतुत्वाद् निमित्तता ॥ -प्र- वा- भा- 134 पृ-, 2।183 का- ।
यदि नामरूपान्वयव्यतिरेकानुविधायि रूपदर्शनं स्पर्शस्यान्वयव्यतिरेकावनुविधत्ते । तथापि स्पर्शः परम्परया हेतुः ।
एकसामग्र्यधीनत्वात् ।
[551]भदृस्यात्र चोद्यम् ---
__________नोतेस्__________
[551] स्ह्: 99.
"यः शुभाशुभकर्मणः कर्त्ता न स फलस्य भोक्ता --- अतः कृतनाशाकृताभ्यागमदोषः ।
"नैरात्म्यवादपक्षे च पूर्वमेवाववुध्यते ।
तद् विनाशात् फलं न स्यान्यसान्या (?) ऽपि वा भवेत्[552]। ।
__________नोतेस्__________
[552] नैरात्म्ययवाद.... .... .... बुध्यते । ....भवेत् । --त- सं- 167 पृ-, 481 का- ।
इति नैव प्रवर्त्तेत प्रेक्षावान् फललिप्स या ।
शुभाशुभक्रियारम्भे दूरतस्तु फलं स्थितः[553]। ।[554]
__________नोतेस्__________
[553] इति नैव प्रवर्त्तेत.... .... लिप्सया । .... स्थितः । । त- स- 167 पृ-, 481 का- ।
[554] शुभाशुभक्रिया.... .... फलं स्थितः ॥ --त- सं- 481; पृ- 167 (स्थितं पाठयुक्) ।
किञ्च ---
क्षणान्नानागतान् नातीतान् न वर्त्तमानतावन्तं कालमनवस्थितेः कार्यजन्म ।
"तस्मात् प्राक् कर्मनिष्पत्तेर्व्यापारो यस्य दृश्यते ।
तदेव कारणं तस्य न त्वानन्तर्यमात्रकम्[555]। ।"[556]
__________नोतेस्__________
[555] तदेव कारणं मात्रकम् ॥ त- स- 169 पृ-, 487 का- ।
[556] तस्मात् प्राक् कार्य.... ... दृश्यते । ... मात्रकम् । । त- सं- 169 पृ-, 487 का- ।
किञ्च ---
प्रत्यक्षानुपलम्भेन ग्रहणमपि सम्भाव्यते । एकस्यात्मनो ऽभावेन कः सन्दध्यात् क्र[प्6ब्।3]मवद्गतिम् ।
ऽयस्यादृष्टाविदं दृष्टन्नास्य दृष्टौ --- [तु लक्ष्यते] ---ऽ
"सादृश्यात् प्रत्यभिज्ञानं भिन्ने देशादिके भवेत् ।
ज्ञातुरेकस्य सद्भावाद् द्विभेदे तु कथं भवेत्[557]? ॥"
__________नोतेस्__________
[557] ज्ञातुरेकस्य.... .... कथं भवेत् ॥ त- सं- पं- 170 पृ-, 494 का- ।
ऽद्विभेदऽ इति ज्ञातुर्ज्ञेयस्य च भेदे ।
अत्रोच्यते ।---
ऽअविनष्टादेव क्षणात् कार्यमिऽति पक्षः । न च यौग[558]पद्यावद्यमनयोः ।
__________नोतेस्__________
[558] ऽयौग्यऽमूलपाठः ।
कार्यक्षणे नष्टत्वात् पूर्वक्षणस्य कारणस्य ।
[559]न च --- नष्टादेव तस्मादुत्पत्तिः । कार्यस्य द्वितीयक्षणभावित्वात् । न च कार्यकाले कारणानुवृत्त्या ? किञ्चिन्निष्पन्नत्वात् कार्यस्य ।
__________नोतेस्__________
[559] स्ह्: 100.
तस्मात्--- नियतं प्राग्भावित्वं कार्यापेक्षया कारणत्वम् --- न व्यापारकारित्वम्, अनवस्थाप्रसङ्गात् । व्यापारे ऽपि व्यापारान्तरेण प्रवर्त्तनात् ।
"दीर्घा व्यापारमालेयमेता[560]वत् कस्य जीवितम् ? ॥"
__________नोतेस्__________
[560] मेवावत् मूलपाठः ।
तस्मात् ---
ऽगर्दभानन्तरं घूमऽ इति नियमत्वेन निरस्यते । भावित्वेन शशविषाणादि ।
तच्च नियतत्वं कार्यधूमे वह्नेर्भाव एव । नियतपश्चाद्भावित्वं कार्यस्य कार्यत्वम् । अत्रापि नियतत्वं बह्नावेव सति भावकार्यस्य धूमस्य ।
अत्रापि बह्नयन्तरमुपलभ्यमानस्य गर्दभादेर्नियतपदेनापवादः । कार्यो भावित्वेनाभवतो घटादेः । स च नियमो भावो हेतुभावा भावाभ्यां कार्यभावाभावौ विशिष्टौ ।
कार्यगतभावाभावाभ्यां च कारणगत[प्6अ।4] भावाभावौ विशिष्टौ ऽसर्वत्र देशे काले च सर्वदा वह्निनान्तरीयक एव धूमऽ इत्यवधारणात् ।
तत् किं सर्वज्ञो भूत्वा विज्ञो ऽविजानीयान्नियमम् ?
न च सर्वज्ञो ऽसौ न च न गृह्लाति कार्यकारणयोर् नियमम् ? यदि हि धूमो नाग्निजन्यस्तदा सकृदपि ततो न जायेत ? किमेतत् प्रमाणान्तरम् ?
[561]न ।
__________नोतेस्__________
[561] स्ह्: 101.
तस्यैव प्रत्यक्षानुपलम्भस्यावान्तरव्यापारपरामर्शः ।
यथा ---
यदि नीलो दृश्यमानो ऽयं देशान्तरे कालान्तरे वा न नील इहापि वर्त्तमानो न नीलो दृश्येत । दृश्यते च । --- तथा ---
ऽधूमो ऽयं विवक्षितदेशकालयोः[562]पावकानन्तरं नियतभाबीति भावितो[563]देशान्तरे कालान्तरे च नान्यथा शङ्कनीयः ।
__________नोतेस्__________
[562] अत्रऽपऽलिखित्वा छिन्नम् मूलपाठे ।
[563] अत्रऽपिऽलिखित्वा छिन्नम् मूलपाठे ।
"यथा नीलस्य दृष्टस्य नाशङ्क्यानीलरूपता ।
तथा दृष्टस्य जन्यस्य नाशङ्क्याजन्यरूपता ॥
अग्निस्वभावः शक्रस्य मूर्धा यद्यग्निरेव सः ।
अथानग्नि स्वभावो ऽसौ धूमस्तत्र कथं भवेत् ? ॥
धूमहेतुस्वभावो हि बह्निस्तच्छक्तिभेदवान् ।
अधूमहेतोर्धूमस्य भावे सः[564]स्यादहेतुकः ॥
__________नोतेस्__________
[564] अत्र स इति विसर्गरहितः पाठो मूलपाठे ।
नित्यं सत्त्वमसत्त्वं वा हेतो रन्यानपेक्षणात् ।
अपेक्षातो हि भावानां कादाचित्के त्वसभ्भवः[565]। ।"
__________नोतेस्__________
[565] नित्यं सत्त्वमसत्त्बं.... .... क्षणाम् । .... त्वसम्भवः ॥ -(पूर्वार्धमात्रं) प्र- वा- भा- 133 पृ-, 180; 643 पृ- अपि ।
ऽस धूमो यो बह्निजनितः, ऽस बह्नि[566]र्यो धूमजनकऽ इति परस्परस्वभावनियम[प्6ब्।4] उक्तः । स च निष्फलः ।
__________नोतेस्__________
[566] अत्रऽबह्नियामूलपाठः ।
[567]यतः । ---
__________नोतेस्__________
[567] स्ह्: 102.
प्रज्वलत्प्रभाताडम्बरचुम्बिभास्वरत्वादिको ऽप्यपरः पावकस्य स्वभावो ऽस्ति, कण्ठक्वणाम्बु(?)काम्बुप्रक्षरणविकारादिवारित्वं धूमस्य ।
सत्यम् ।
साकारा खलु शक्तिः । कार्यतापि कार्यमेव । भेदान्तरप्रतिक्षेपाभ्यां धर्माधर्मितया व्यपभेदे (?) ऽपि तेन पावकस्य शक्रमूर्ध्नश्च यदि शक्तिरेका धूमजननं प्रति, दुग्धवारिनोरेव क्लेदं प्रति स्वात् । तदा --- ऽदुग्धवारिणोरेव नैव शक्तियोगे ऽपि पावकशक्रमूर्ध्नोरेकरूपता स्यादिऽति निराकृतम् ---
तत्र---
शक्तेः साकारतामभिसन्धाय ---
"अग्निस्वभाव........ "
इत्यादि वार्तिकमुक्तम् ।
एकस्य तु प्रतिसन्धातुरभावे ऽपि भेदे ऽपि बह्न्यादिप्रमेयस्य ---
"वस्तुधर्मतयैवार्थास्तादृग्विज्ञानकारणम् ।
भेदे ऽपि यत्र तज्ज्ञानं तंस्तथा प्रतिपद्यते[568]। ।[569]
__________नोतेस्__________
[568] भेदे ऽपि यत्र.... .... प्रतिपद्यते ॥ -प्र- वा- भा- 260 पृ, 3।161 का- ।
[569] बस्तुधर्मतयैवार्थाः.... ... कारणम् । .... प्रतिपद्यते । । -प्र- वा- भा- 260 पृ, 3।161 का- ।
ज्ञानान्यपि तथा भेदेऽभेदप्रत्यवमर्शने ।
इत्येतत् कार्यविश्लेषस्यान्वयो नैव वस्तुतः[570]। ।[571]
__________नोतेस्__________
[570] इत्येतत् कार्य... .... .... वस्तुनः ॥ -प्र- वा- भा- 260 पृ, 3।162 का- ।
[571] ज्ञानान्यपि तधा.... ...शने । .... वस्तुनः ॥ -प्र- वा- का- 260 पृ-, 3।162 का- ।
वस्तूनां विद्यते तस्मात् तन्निष्ठा वस्तुनि श्रुतिः[572]। ।"
__________नोतेस्__________
[572] वस्तूनां विद्यते.... .... श्रुति वा- भा- 361 पृ-, 3।163 का- ।
प्रत्येति भेदप्रमाणम् । सा यतः कुतश्चिदेकत्वशून्याच्छक्तादुत्पद्यतां एवम्---
[573]ग्राहकप्रत्यभिज्ञापि । यादृश्येव प्रत्यभिज्ञा घटे छिन्नोद्भिन्नक[574]दलीकाण्डे ऽपि तादृगेव । ऽलक्षणायुक्तेर् वाधासम्भवे तल्लक्षणमेव दू[प्6अ।5] षितं स्यादिऽति सर्वत्रानाश्वासः ।
__________नोतेस्__________
[573] स्ह्: 103.
मूल पाठ: Tarkarahasya · Edition: Paramanandan Shastri, Patna 1979 (Tibetan Sanskrit Work Series, 20) · Data entry Helmut Krasser · GRETIL (Göttingen) · CC BY-NC-SA 4.0