भाषा

ENहिગુ
ग्रंथ पाठ

Tarkarahasya · भाग 2140

__________नोतेस्__________
[207] प्रत्यक्षादेरनु.... .... इष्यते । ....वस्तुनि ॥ --श्लो- वा- अभाव- 1, 2, 11; हे- वि- टी- अर्चटेन उद्धृतम् 190 पृ- ॥ त- सं- पं- 471 पृ-, 1649 का- ।
[208] सात्मनः परि.... ....वस्तुनि । । -श्लो- वा- अभाव-, 1, 2, 11, अर्चटेन ऽपि 190 पृ-, उद्धृतम्, त- सं- पं- 471 पृ-, 1649 का- ।473 पृ- अपि ।
प्रमाभावात्तु वस्तूनामभावः सम्प्रतीयते ।
चतुर्धा च विभिन्नो ऽसौ प्राग[209]भावादिभेदतः[210] । ।[211]
__________नोतेस्__________
[209] प्राग्भा- मू- पा- ।
[210] चतुर्द्धा च विभिन्नो ऽसौ भेदतः । -त- सं- पं- 401 पृ-, 1650 का- ।
[211] प्रमाभावात्तु.... .... तीयते । .... भेदतः । । -त- सं- पं- 481 पृ-, 1650 का- ।
[212]क्शीरे दध्यादि यन्नास्ति प्रागभावः स कथ्यते ।
__________नोतेस्__________
[212] स्ह्: 26.
नास्तिता पयसो दघ्नि प्रघ्वंसाभाव लक्षणम्[213] । ।
__________नोतेस्__________
[213] क्षीरे दध्यादि.... .... कथ्यते । .... लक्षणम् ॥ -श्लो- वा- 473 । -त- स- पं- 292 पृ- । त- सं- पं- 471 पृ-, 16451 का- ।
गवि यो ऽश्वाद्यभावस्तु सो ऽन्यो ऽन्याभाव उच्यते ।
पररूपं न तस्यास्ति नास्ति ते नात्मना ततः[214] । ।[215]
__________नोतेस्__________
[214] गवि यो ऽश्वा ........ उच्यते । .... ततः ॥ त- सं- पं- 292 पृ- । त- सं- पं- 471 पृ-, 1652 का- । श्लो- वा- पं- 473 ।
[215] पररूपं न.... .... ....ततः ॥ -त- सं- पं- 471 पृ-, 1652 का- ।
शिरसो ऽवयवा निम्ना वृद्धिकाठिन्यवर्जिताः ।
शशशृङ्गादिरूपेण सो ऽत्यन्ताभाव उच्यते[216]। ।[217]
__________नोतेस्__________
[216] शशशृङ्गादिरूपेण.... .... उच्यते ॥ -त- सं- पं- 292 पृ- ।, -त- सं- पं- 481 पृ-, 1653 का- ।
[217] शिरसो ऽवयवा.... ....वर्जिताः । ....उच्यते -त- सं- पं- 392 पृ-; -त- सं- पं- 472 पृ-, 1652 का- ।
न च स्याद् व्यवहारो ऽयं कारणादिविभागतः ।
प्रागाभावादिभेदेन नाभावो विद्यते यदि[218] । ।[219]
__________नोतेस्__________
[218] न च स्याद्.... .... भागतः । .... यदि ॥ --त- सं- पं-, 482 पृ-, 1654 का- ।
[219] प्रागभावादि.... ....यदि ॥ --त- सं- पं-, 472 पृ-, 1654 का- ।
न चावस्तुन एते स्युर्भेदास्तेनास्य वस्तुता ।
कार्यादीनामभावः को भावो यः कारणादि नः[220]। ।[221]
__________नोतेस्__________
[220] न चावस्तुन.... .... .... वस्तुता । ....तः । । श्लो- वा अभाव, 18; त- सं- पं- 292 पृ-, हे- वि- टी- अर्चटेनोद्धृतम् 188 पृ-, त- सं- पं- 472 पृ-, 1655 का- ।
[221] कार्यादीनामभावः.... .... नः ॥ -त- सं- पं- 472 पृ-, 1655 का- ।
यद्वानुवृत्तिव्यावृत्तिबुद्धिग्राह्यो (?) यतस्त्वयम् ।
तस्माद् गवादिवद् वस्तु प्रमेयत्वाच्च गम्यताम्[222]। ।
__________नोतेस्__________
[222] तस्माद् भावादि... ...गम्यताम् ॥ -त- सं- पं- 472 पृ-, 1656 का- ।
एतदयुक्तम् । भिन्नविषयत्वात् । लक्षण[223]भेदाद्धि भवन्तः प्रमाणानां नानात्वं प्रतिपन्नाः । वयं पुनर् द्वैविध्यात् प्रमेयस्य प्रमाणद्वैविध्यमवबुद्ध्यामहे ।

__________नोतेस्__________
[223] ऽणेऽलिखित्वा एऽमात्रा छिन्ना मूलपाठ ।
तद् यदि लक्षणभेदान् नानात्वम् । षोढा न स्यात् प्रौढानाम् अपि प्रमाणाभ्यां [प्2अ।4 6] व्यवस्था । आद्यमध्यान्ततया सम्मतस्वभावेषु भावेषु प्रथमं दृष्ट्बा द्वितीयदर्शनादाद्यम्; प्रथमान्तयोर् विलोकनान् मध्यम् ; प्रथमम् अध्ययोरवधारणादनन्तरं तृतीयदर्शनाद् अन्त्यव्यवस्था । एष्वपि च यत ज्ञानमुत्पद्यते, तत्राप्येवमभिधातुंशक्यतेः---
"तत्रापूर्वार्थविज्ञानं निश्चितं बाधवर्त्तितम् ।
अदृष्टं कारणारब्धं प्रमाणं लोकसम्मतं[224] । ।[225]
__________नोतेस्__________
[224] अदृष्टं कारणारब्धं... ... संमतम् ॥ प्र- वा- भा- 21 पृ- ।
[225] तत्रापूर्वार्थ.... .... वर्त्तितम् । .. सम्मतम् ॥ -प्र- वा- भा- 21 पृ- ।
उक्तञ्च--- युक्तिमता ।---
[226]"दृश्यात् परोक्षे सादृश्य-धीः प्रमाणान्तरं यदि ।
__________नोतेस्__________
[226] स्ह्: 27.
वैधर्म्यमतिरप्येवं प्रमाणं किं न सप्तमम्?"
तस्मा ... ... लक्षणभेदग्रहः । प्रमेयभेदे तात्पर्ये ... ... ... ...।
अर्थक्रियार्थिनां हि व्यवहर्तृणाम् उपयुज्यमाने न मानेन प्रवृत्तिविषयःशक्यप्रापणो नियतो ऽर्थक्रियासमर्थः प्रत्यक्षो ऽप्रत्यक्षश्च प्रमातव्यो विषयः । ततश्च प्रत्ययितप्रदिष्टात् कर्तृविधुरिताच्च वाक्यात् त्रिप्रमाणकशक्तिलक्षणसम्बन्धाद् बृद्धान्तरेण सामान्यात्मना ।
प्रतिपद्यमानः परोक्षो ऽर्थः त्रिरूपलिङ्गप्रत्यक्षो विषये स[227]त्यमन्तर्भवति ।
__________नोतेस्__________
[227] स + त्यमध्येऽप्रऽलिखित्वा छिन्नमिव मूलपाठे ।
परम्, कर्त्तुराप्तत्वमकर्तृकत्वं त्रिप्रमाणकशक्तिलक्षणसम्बन्धश्च तीर्थसार्थप्रार्थनासहस्राणामप्यविषयः ।
तथा हि ---
आप्त (प्2ब् 4।6) त्वं दुर्वधानम् । नावधानार्हञ्चाकर्त्तृकत्वम् ।
सकर्त्तृकत्वसाधनसम्भवात् । ऽशक्तिवादमयो ... ... ... च कार्यमर्जयितुम् ऊर्जस्वी यः कश्चिद्भावऽ इति प्रतिपादयिष्यते । इत्येवम् आप्तत्वादिविशेषणगणो गुणिभिरवगणिते यथायथमर्थैर् अनान्तरीयकशब्दराशिरवशिष्यते ।
तस्मात् -- तदुत्थः प्रत्ययः प्रतिभाज्ञानवद्यौक्तप्रत्यवमर्शस्वभावन्न भ्रश्यति । तद् उपदर्शितो ऽप्यर्थो भावाभावयोरनिय-(+त?) त्वादशक्यप्रापणो न प्रीणाति व्यवहर्त्तॄन् ।
उपमानस्यापि विषयः परोक्षस्य गोः सादृश्यम्, तदुपाधिर्वा गौः ।
उभयथापि पूर्वप्रत्यक्षदृष्टस्य गोः सादृश्यं विशेष्यं, विशेषणं वा नार्थक्रियासमर्थो विषयः, सामान्यस्य दूषयिष्यमाणत्वात् । कामिन्याः[228]
__________नोतेस्__________
[228] ऽण्याःऽ- मू- पा- ।
षण्ढरूपवैरूप्यवत् ।[229]पाकाद्य[230]र्थक्रियार्थिनां न प्रार्थनीयः ।
__________नोतेस्__________
[229] अत्रऽक्तऽलिखित्वा छिन्नम् ।
[230] अत्रऽर्थऽलिखित्वा छिन्नम् ।
ततश्च सो ऽपि न प्रवृत्तिविषयभेदः सन् प्रमाणमेदमुपकल्प्यति वैलक्षण्या[231]दिज्ञानवत् ।
__________नोतेस्__________
[231] ऽणा- मू- पा- ।
[232]नैयायिकोपमानं तु ---
__________नोतेस्__________
[232] स्ह्: 28.
स्वभावहेतावन्तर्याति । तथा हि -- ऽयः शब्दो यत्र वृद्धैः प्रयुज्यते सो ऽसति वृत्त्य[233]न्तरे तस्य वाचकः । यथा-गोशब्दो गोरर्थस्य । [प्2अ 5।5]
__________नोतेस्__________
[233] वृत्यान्तर- मू- पा- ।

प्रयुज्यते चै[234]ष गवयशब्दो गोसदृशे प्राणिनीति तस्यैव वाचक इति ज्ञानमनुमानमेव ।
__________नोतेस्__________
[234] ऽवैषऽ- मू- पा- ।
षट्प्रकाराप्यर्थापत्तिः सम्बन्धमनादृत्य प्रतिपाद्यानुबन्ध[235]नीति वर्णितम् । कथं चासम्बद्धो ऽर्थो ऽर्थापत्त्या बोद्धव्य इति लब्धवर्णैरैवसुचिरं चिन्तनीयम् ।
__________नोतेस्__________
[235] ऽधऽ- मू- पा- ।
पीनो देवदत्तो ऽकृतरसायनो दिवा न भुङ्क्ते --इति वाक्यं विवक्षायां[236]
__________नोतेस्__________
[236] ऽया- मू- पा- ।
जायते, सा च क्षपाभक्षणविवक्षासध्रीचीना सती पीनादिवाक्यं प्रकल्पयति करणगणप्रेरणया ।
अन्यथा --- ऽपीनो ऽकृतरसायनो दिवेति पदद्वयमनादेयं स्वात् । स्वसन्ताने चैष विवर्त्तो व्युत्पत्तिसमये सम्प्रधारितः । --- अतः, शब्दाद् विवक्षाविशेषानुमितौ ऽनक्तं ऽभुङ्क्तऽ इति वाक्यान्तरे स्थिरमेव विकल्पबुद्धिस्थमर्थान्तरं प्रथयदास्ते ।
प्रयोगदर्शनाभ्यासात् स्वयमप्येवं व्यवच्छेदप्रतीतिर्भवतीति न्यायात् ।
एतेन --- अन्वयवाक्याद् व्यतिरेकवर्णनं व्याख्यातम् ।
तेन ---
"सामर्थ्यमिच्छतः कीत्तेर्नष्टं द्वित्वावधारणम् ।"
इत्यनवधारणाद् गलितम् ।
एवम् ---
[237]जीवन् गृहऽ--- इति पदद्वयोपादानात् ऽजीवन् देवदत्तो गृहे नास्तीऽ ति विवृतम् ।
__________नोतेस्__________
[237] स्ह्: 29.
शेषाप्रशक्त्त्यादौ विवादः ।
अभावः पुनारनुपलबधिः । तद्भावभावानुपल [प्2ब् 5।5]
ब्धीप्रभवाभाव (?) साधनेनानुमानमनन्वयादित्यादिनापि युक्तानुपलब्धीतरकर्चचिते व्यवहारसाधनादनुमानम् इति ।
तदेवम् ---
समर्थनियतशक्यप्रापणप्रमेय --- प्रतिबन्धमात्रेण प्रामाण्यमात्रमत्रव्याप्तम् । तद्भेदेन च तद्भेदः । ततो यः प्रत्ययः समर्थनियतशक्यप्रापणप्रमेयप्रतिबद्धो न भवति, न स प्रमाणम् ।
तद् यथा । ---
शरदिन्दुकुन्दकमनीयकान्तौ कम्बुबिम्बे जाम्बूनदद्रवदिग्धद्रव्यप्रतिस्पर्द्धी पीतप्रतिभासप्रत्ययः । न भवन्ति च विवादाध्यासिताः[238]
__________नोतेस्__________
[238] ऽतःऽ- मू- पा- ।
समर्थनियतशक्यप्रापणप्रमेयप्रतिबद्धाः शब्दोपमाना[239]
__________नोतेस्__________
[239] ऽनो ऽर्था- मू- पा- ।
ऽर्थापत्तिप्रत्ययाः ।
न चायं व्यापकानुपलव्धो (!) हेतुः ।
पूर्वप्रतिबन्धप्रति[240]पादितप्रमाणवृत्त्यासिद्धाध्यासितः । नापि प्रचण्डनक्तञ्चरचक्र-चक्रने (?)वानैकान्तिकत्वेनाक्रान्तपौरुषः ।
__________नोतेस्__________
[240] ऽप्रदिऽ- मू- पा- ।
प्रामाण्यस्य प्रमेयसम्बद्धत्वं व्यापकमन्वयव्यतिरेकाभ्यां निर्णीतम् । अतस् तदधीनं तद्द्वयात्मकत्वं शङ्क्येत ? नापि विरुद्धतया सार्धमयमर्हरूपो (?) वस्तुम् । सपक्षे वीक्षणात् ।
ननु भवानर्हति द्रव्यदेशी यो विद्यावैदग्घ्यप्रसादः !
ऽशाब्दोपमानादि न प्रमाणमिऽति चार्वाकचर्वितमेवार्चिष्मता चर्वितम् !

इदं तु निरोधबोधसर्वस्वम् । स्वप्रत्यक्षो ऽर्थः सम्बन्धाद [प्2अ।4 6]
न्यस्यात्मस्वस्वानुबन्धिना स्वभावेन प्रमेयतामलमात्मसात कर्त्तुम् ।
[241]सकलकालकलाकलापव्यापिना च स्वभावेन सम्बन्धावबोधः कार्त्स्न्यं[242]च देशानामधिगम्य प्रसञ्जमानो मनोरथानामप्यविषयः ।
__________नोतेस्__________
[241] स्ह्: 30.
[242] ऽत्स्न्यं, - मू- पा- ।
"अवस्थादेशकालानां भेदाद् भिन्नसु शक्तिषु ।
भावानामनुमानेन प्रसिद्धिरतिदुर्ल्लभा[243] । ।[244]
__________नोतेस्__________
[243] अवस्थादेश .... .... .... शक्तिसु । । .... दुर्लभा ॥ --वा (क्य) प(दीये) 1।32; हे- वि- टी- अर्चटेनोद्धृतम् 154 पृ-, त- स- 146- का- ।
[244] भावानामनु.... ....दुर्लभा ॥ हे- वि- टी- अर्चटेनोद्धृतम् 154 पृ-; वा- प- 1।32; त- सं- पं- 426 पृ-, 1460 का- ।
निर्ज्ञातशक्तेरर्थस्य तां तामर्थक्रियां प्रति ।
विशिष्टद्रव्यसम्बन्धे सा शक्तिः प्रतिबध्यते[245] । ।[246]
__________नोतेस्__________
[245] निर्ज्ञातशक्ते.... ..... ..... प्रति । .... प्रतिबध्यते ॥ (विज्ञातऽ पाठयुक्) त- सं- प 426 पृ, 1461 का- । वा- प 1।32 ।
[246] विशिष्टद्रब्य.... ....प्रतिबध्यते । --त- सं- पं- 426 पृ, 1461 का- , वा- प 1।63 ।
यत्नेनानुमितो ऽप्यर्थः कुशलैरनुमातृभिः[247] ।
__________नोतेस्__________
[247] यत्नेनानु.... ....मातृभिः ॥ वा- प 136; त- सं- पं 426 पृ, 1462 का- ।
अभियुक्तरैरन्यैरन्यथैवो पपाद्यते[248]। ।
__________नोतेस्__________
[248] अमियुक्तरै.... .... .... पाद्यते । - वा- प- 1।34, त- स- पं 426 पृ-, 1462 का- ।
हस्तस्पर्शादिवार्थेन विषमे पथि धायता ।
अनुमानप्रमाणेन विनिपातो न दुर्ल्लभः ॥
अहो ! विद्यप्रसादं ददता त्वया दानातिरा गादात्मवत्ति-विडम्बो ऽपि न संवृतः ?
तथा हि ---
ऽप्रत्यक्षमेवैकं प्रमाणमिऽति ब्रुवता कस्याञ्चिद् ज्ञानव्यक्तौ संवादमुपलभ्य सर्वैव तादृग्विधा प्रमाणमिति परिच्छिन्नापरिच्छिन्न संवादबुद्धिसामान्यविषयो ऽयमुपदेशः कृतः । न चानुमेयतां ताद्रूप्येण नातिक्रमति !
अपि च । ---
ऽयस्मै प्रसादो देयः सो ऽनुमेयः । ततो ऽपि न प्रत्यक्षमेवैकमिऽति नियमः । तथा हि ---
ऽविसंवादा न प्रमाणमिऽति प्रतिषेधनभिदधानो ऽनुपलम्भमेव सम्भावयसि ! प्रामाण्येन त [प्2ब्।4 6] देवम् ---
[249]"प्रमाणेतरसामान्यस्थितेरन्यधियो मतेः ।
__________नोतेस्__________
[249] स्ह्: 31.
प्रमाणान्तरसद्भावप्रतिषेधाच्च कस्यचित् ।"
इति सुभाषितम् ।
यत् पुनरुक्तम् । ---
ऽनिर्ज्ञातशक्तेरिऽत्यादि । तत् किम् असति विधुरप्रत्ययोपनिपात इति विशेषणं सुभगश्रवण ! नाश्रौषीः ? तस्माज् जन्मतन्मात्रानुबन्धाभ्यां स्वभावप्रतिबद्धत्वात् बोधे ऽनाश्वासः परिहार्यः ।
इदं तु बोधसर्वस्वं स्वीकुरु!
ऽअर्थस्यासम्भवे ऽभावात् प्रत्यक्षे ऽपि प्रमाणता ।
प्रतिबद्धस्वभावस्य तद्धेतुत्वं समं द्वयम्[250] । ।[251]"

__________नोतेस्__________
[250] अर्थस्यासम्भवे.... .... प्रमाणता । ....द्वयम् ॥ -प्र- वा- भा- 537 पृ-, 4।417। 204 ॥ त- सं- पं- 775-6 पृ- ।
[251] प्रतिबद्धस्वभाव.... .... द्वयम् ॥ -प्र- वा- भा- 537 पृ-, 4।417। 204 ॥
इति ।
तत्र --- प्रत्यक्षादनुमानस्य भिन्नप्रमाणत्वे प्रयोगः ।
ऽयत् प्रत्यक्षविषयविलक्षणविषयम् न तत् प्रत्यक्षम् ।
यथा --- उत्सूत्रच्छात्रवाञ्छाविकल्पः । प्रत्यक्षविषयविलक्षणविषयं चानुमानम् ।
नेदं साध्यसाधनसौधशिरः शेख[252]रीकृतं कृतास्पदमसिद्धिपद्धत्या । स्वतः स्वविषयविज्ञानजननाशक्तेः परतो गमकानुगसामान्यरूपेण निरूपणात् ।
__________नोतेस्__________
[252] ऽषऽ- मू- पा- ।
[253]अनैकान्तिकत्वेनापि नान्तिकम् उपसर्पता सर्वेणेव निर्दलितदर्पमुक्तलक्षणप्रमेयसम्बन्धमात्रेण प्रमाणत्वसामान्यो व्याप्तिव(म ?)त् । तद्भेदसम्बन्धेन तद्भेदव्याप्तेः ।
__________नोतेस्__________
[253] स्ह्: 32.
विरोधो ऽपि नेदमध्यवस्यत्यवगाहितुम् । सपक्षे वीक्षणादिति ।
[इति] तर्करहस्ये स्वपरप्रमाणसंख्यान्यायनि [प्2अ।3 7][254]र्णयः[प्रथमः] ।
__________नोतेस्__________
[254] ऽस्थवऽ- मू- पा- ।
________________ _________ प्रत्यक्षलक्ष... ________________
[255]तच्चतुर्विधम इन्द्रियज्ञानम् । तदुक्तमनन्तरम् ।
__________नोतेस्__________
[255] स्ह्: 45.
स्वविषयानन्तरविषयसहकारिणेन्द्रियज्ञानेन समनन्तरप्रत्ययेन जनितं मनोविज्ञानम् ।
"इदमित्यादि यज् ज्ञानमभ्यासात् पुरतः स्थिते ।
साक्षत्करणतो भाय्वे प्रत्यक्षं मानसं मतम्[256] । ।[257]
__________नोतेस्__________
[256] इदमित्यादि.... .... .... स्थिते । .... मतम्। । प्र- वा- भा- 305 पृ-, 3।244।443 का- ।
[257] साक्षात्करणतो.... .... मतम् ॥ - (णतस्तत्तु पाठयुक्) --प्र- वा- भा- 505 पृ-, - 3।244।443 ।
सुखात्मीयो विषयो मनसः । तस्यानन्तरो निरन्तरो विषयो मनस एव । अनेन पुनः पुनराबर्त्तनम् । विषयस्याभ्यास उक्तः ।
तत्सहकारिणेन्द्रियज्ञानेन समनन्तरप्रत्ययेनेति पुरतः स्थितत्वमुक्तं ततो यदुच्यते ---
अभ्यासात् परितो निरस्तविभ्रमातङ्कमनङ्कितमाशङ्काकालुष्येणार्थाविनाभावित्वमध्यक्ष[258]स्य । तन् मानसप्रत्यक्षस्य फलम् ।
__________नोतेस्__________
[258] यत्रऽयालिखित्वा छिन्नं मूलपाठे ।
अन्यदपि षरत्वादि यदुन्मिषति, तदपि मानसस्य गम्यम् ।
सव्यापारे ऽपि चक्षुणि समुत्पद्यमानमपि नेन्द्रियप्रत्यक्षान्तर्भूतम् ।
स्वसंवेदनवत् । स्वसंवेदनवदेन अभ्यासान्वयव्यतिरेकानुकारि नियतस[259]त्वाकारसंसृष्टरूपाकारम्[प्3अ।4] अपि चक्षुर्विज्ञानं प्रत्यक्षान्तरमेव ।
__________नोतेस्__________
[259] ऽशऽलिखित्वा दन्त्यीकरणसङ्केतो मूलपाठे ।
ऽइन्द्रियज्ञानादुत्पद्यतऽ इत्यन्धवधिराद्यभावप्रसङ्गासङ्गतिः ।
स्वविषयान्तरविषयसहकारित्वेनापूर्वार्थग्रहणम् । परस्परोपकारित्वे न च सहकारित्वम् ।
ऽयो हि ज्ञानप्रतिभासात्मनो ऽन्वयव्यतिरेकानुकारयति स प्रत्यक्षऽ इति न्यायात् ।

ज्ञानाकारहेतुरर्थो ग्राह्यः ।
[260]"यस्मिन् स्थिते यदुत्पन्नं स्थित एव विनश्यति ।
__________नोतेस्__________
[260] स्ह्: 46.
तस्मात् तदन्यदेवास्तु भेदलक्षणसम्भवात्[261] । ।[262]
__________नोतेस्__________
[261] तस्मात्तदन्य... ....सम्भवात् ॥ -प्र- वा- भा- 306 पृ-, 3।248।445 ।
[262] यस्मिन् स्थिते यदु.... ....नश्यति । .... सम्भवात् ॥ -प्र- वा- भा- 306 पृ-, 3।248।445 ॥
वदनप्रतिविम्बं हि वदने सति सम्भवत् ।
पश्चाद् वदन्तो भिन्नं प्रतिभासस्तथात्मनः[263]। ।[264]
__________नोतेस्__________
[263] पश्चाद बद?तो.... .... ....नः ॥ -प्र- वा- भा- 306 पृ-, 3।248।446 ।
[264] वदनप्रतिबिम्वं.... .... सम्भवत् । .... नः ॥ -प्र- वा- भा- 306 पृ-, 3।248।446 ॥
भिन्नदेशत्वतो भिन्नं प्रतिबिम्बं भवेद् यदि ।
प्रमाणप्रतिपन्नश्च स भेदो मुखबिम्बयोः[265] । ।[266]
__________नोतेस्__________
[265] प्रमाणप्रतिपन्नश्च.... ....बिम्बयोः ॥ -प्र- वा- भा- 306 पृ-, 3।248।447 ॥
[266] भिन्नदेशत्वतो.... .... यदि । .... बिम्बयोः । । -प्र- वा- भा- 306 पृ-, 3।248।447 ॥
प्रतिभासस्य भेदस्य नार्थात् साधनमीक्ष्यते[267]।
__________नोतेस्__________
[267] प्रतिभासस्य.... ....मीक्ष्यते ॥ -प्र- वा- भा- 307 पृ-, 3।248।450
तेनैकतार्थतः सिद्धा नीलादि प्रतिभास[268]योः[269]। ।[270]
__________नोतेस्__________
[268] ऽषऽमू- पा- ।
[269] तेनैकतार्थतः.... ....ययोः। । -प्र- वा- भा- 306 पृ-, 3।248।448 ।
[270] प्रतिभासस्य भेदस्य.... ....मीक्ष्यते । ....भासयोः। । -प्र- वा- भा- 307 पृ-, 3।248।448 ॥
यथैव चक्षुरादिभ्य इदानीं प्रतिभासभूः ॥
नीलादेरपि तद्वत् स्याद् योगक्षेमसमत्वतः[271]। ।[272]
__________नोतेस्__________
[271] नीलादेरपि.... ....त्वतः ॥ -प्र- वा- भा- 207 पृ-, 3।248।446 ।
[272] यथैव चक्षुरादि..... .... भूः । .... मत्वतः ॥ -प्र- वा- भा- 307 पृ-, 3।248।449 ।
यथैव चक्षुरादिभ्यो ऽर्थस्य प्रागेव सम्भवः ।
प्रति भासस्य तद्वत् स्यादिति नैबेदमीक्षते" ॥[273]
__________नोतेस्__________
[273] यथैव चक्षुरादि..... .... सम्भवः । .... मीक्षते ॥ -प्र- वा- भा- 307 पृ-, 3।248।450 ।
तस्माद् यदीष्यते भिन्नो नीलादिः प्रतिभासतः ।
प्राक् सत्त्वं तस्य नीलादेः प्रतिभासादितीष्यताम्[274]। ।[275]
__________नोतेस्__________
[274] तस्माद् यदीष्यते... .... सतः । .... तीष्यताम् ॥ -प्र- वा- भा- 307 पृ-, 3।248।451 ।
[275] प्राक् सत्त्वं तस्य.... ....तीष्यताम् ॥ -प्र- बा- भा- 307 पृ-, 3।248।451 ।

तदनन्तरमुत्पन्ननीलादि प्रतिभासवत् ।
विज्ञानं ग्राहकं तस्यामित्ररूपग्रहो यथा[276] । ।[277]
__________नोतेस्__________
[276] तदनन्तरमुत्प... ....वत् । ...यथा ॥ -प्र- वा- भा- 307 पृ-, 3।248।452 ।
[277] विज्ञानं ग्राहकं.... .... ... यथा । -प्र- वा- भा- 307 पृ-, 3।248।453 । (किञ्चित् पाठान्तरेण)
निष्पादितक्रिये किञ्चिद् विशेषमसमादधत् । ?
कार्यानीन्द्रियमन्यद्वा न साधनम् ... ... ... ।
इति साधनन्यायमतिप[प्3ब्।4]तति ॥
सर्वचितचैत्तानामात्मसंवेदनमपि प्रत्यक्षम् । चित्तमर्थमात्रग्राहि ।
चैत्ताः तद्विशेषावस्थाग्राहिणः सुखादयः । सर्वशव्देन विकल्पो ऽपि सङ्गृह्यते ।
शब्दार्थग्राहि यद् यत्रज्ञानं तत् तत्र कल्पना ।
स्वरूपं च न शब्दार्थस्तत्रा...(?)क्षम...(?)ओ ऽखिलम्[278] । ।[279]
__________नोतेस्__________
[278] स्वरूपं च न.... .... ....खिलम् ॥ -(श्च पाठयुक्)- प्र- वा- भा- 331 पृ-, 3।288 का- ॥
[279] शब्दार्थग्राहि यद्... ... कल्पना । .... खिलम् ॥ -प्र- वा- भा- 321 पृ-, 3।288 का- ।
[280]एषामात्मा ग्राह्यग्राहकाकाररूपः संवेद्यते येन । अपरोक्षता कुतो भवति ? येन रूपेण तत्संवेदनमाम्नातम् । तच्च रूपं ग्राह्यग्राहकाकारपरोक्षतानामैक्यम् । यथा च सुखम् । यथा च नीलाद्याकारः । यथा चापरोक्षता । समसमयसम्भवितया नियमेनानुभवानुसारिणां प्रत्यवमर्शेन व्यवद्रियते । तथैक्यमप्येषा ।
__________नोतेस्__________
[280] स्ह्: 47.
तथा च ---
"भि[281]न्नसंवेदनस्यैक्ये यन्नैवं तद् विभेदवत्[282] ।
__________नोतेस्__________
[281] अभिन्न मूलपाठे ।
[282] भिन्नसंवेदन.... .... विभेदवत् । -प्र- वा- भा- 325 पृ-, 3।587 का- ।
सिध्वेदसाधनत्वे ऽस्य न सिद्धं भेदसाधनम्[283]। ।
__________नोतेस्__________
[283] सिद्ध्येदसाधनत्वे.... ....साधनम् ॥ -प्र- वा- भा- 325 पृ-, 3।287 का- ।
भासमानै स्वरूपेण पीडा दुःखं स्वयं यदा ।
न तदालम्बनं ज्ञानं[284]न तदेवं प्रसज्यते[285]। ।[286]"
__________नोतेस्__________
[284] यत्रऽतऽलिखित्वा छिन्नं मूलपाठे ।
[285] न तदालम्बनं.... .... प्रयुज्यते ॥ -प्र- वा- भा- 441 पृ-, 3।459 का- ।
[286] भासमानं स्व.... .... यदा । .... प्रयुज्यते ॥ --वा- 130 पृ-; प्र- वा- वृ- 2।459; प्र- वा- भा- 441 पृ-, 3] 459 का- ।
इति ग्रन्थो विवृतः ।
तदेव च योग्यत्वमुच्यते । यतश्चक्षुरात्लोकालम्बनसमनन्तरप्रत्ययाज् ज्ञायमानमेव सुखमपरोक्षं जायते । यथा जायनान एवालोको ऽनन्धकारः ।
उक्तं च ---
"प्रकाशमानस्तादात्म्यात् स्षरूपस्थ प्रकाशकः ।
यथा प्रकाशो ऽभिमतस्तथा धीरात्मवेदिनी[287] । ।"[288]
__________नोतेस्__________
[287] प्रकाशमानस्तादा.... .... प्रकाशकः । .... वेदिनी ॥ -प्र- वा- भा- 353 पृ-, 3।33- का- ।
[288] यथा प्रकाशो ऽभिमतः .... रात्मभेदिनी । -प्र- वा- भा- 353 पृ-, 3, 330 का- ।

मित्रपादाश्च ---
ऽपरव्यापारवारणमिऽत्याहुः ।
"विज्ञानं जडरूपेभ्यो व्यावृत्तमुपजायते[289]।
__________नोतेस्__________
[289] विज्ञानं जडरूपेभ्यो.... .... जायते । --त- सं- 2000 का- ।
इयमेवात्मसंवित्तिरस्य याजड[प्3अ।5] रू(+प)ता ॥
कियाकारकभावेन न स्दसंवित्तिरस्य तु ।
एकस्यानंशरूपस्य त्रैरूप्यानुपपत्तितः[290]। ।
__________नोतेस्__________
[290] एकस्यानंशरूपस्य... ...पत्तितः ॥ त- सं- 200।1 का- ।
इति चाचार्याः स्वात्म?इ ?इ?आविरोधं परिहृतवन्तः । स्थितमेतत् तत सुखादिस्वसंवेदनं न स्थितम् । नैव सुखादयः संवेदनरूपाः ।
[291]"एकार्थसमवायिना तु ज्ञानेन संवेद्यन्त" ---इति नैयायिकाः ।
__________नोतेस्__________
[291] स्ह्: 48.
न ।
इह नीलादौ दृश्यमाने समानकालमान्तरः सुखाद्याकारो ऽनुभूयते निश्चीयते चेति कथमुपपद्यताम् ? एकार्थाश्रयिणा विज्ञानेन वेद्यत्वे सतीति चेत् ? तत् किम् एकार्थाश्रयि ज्ञानमक्षजम् ? तथा चेत्? तदा यस्य हि ललितललनालावण्यादिरर्थस्योपनिपातेन सुखादयो धीश्च जाताः तं मुक्त्वा सुखादीनेव सा कथं प्रतिपद्येत?
तदाह ---
"यस्यार्थस्य निपातेन ते जाता धीसुखादयः ।
मुक्त्त्वा तं प्रतिपद्येत सुखादीनेव सा कथम्[292]? ॥[293]
__________नोतेस्__________
[292] मुक्त्वा तं प्रतिपद्येत.... .... कथम् । - (तं मुक्त्वा पाठयुक्) प्र- वा- भा- 314 पृ-, 3।256 का- ॥
[293] यस्यार्थस्य निपातेन.... .... सुखादयः । .... सा कथम् ? ॥ -प्र- वा- भा- 314 पृ-; 3।256 ॥
अथ ---
सुखमात्मनो योगमात्रं ज्ञेन ज्ञानेनानुभूयते ऽक्षजेनार्थः ।
अत्रापि ---
"युगपज् ज्ञानानुत्पत्तिर्मनसो लिङ्गम् ।ऽ इति वचनात् । क्रमेण चेत् ?
"अविच्छिन्ना न भासेत तत्संवित्तिः क्रमग्रहे ।
तल्लाघवाच्चेत् ? तत्तुल्यमित्यसंवेदनेन किम्[294]? ॥[295]
__________नोतेस्__________
[294] अविच्छिन्ना न.... .... .... क्रमग्रहे । ....किम् ॥ -प्र- वा- भा- 315 पृ-, 3।257 का- ॥
[295] तल्लाघवाच्चेत्.... ....किम् ॥ -प्र- वा- भा- 415 पृ-, 3।257 का- ।
तुल्यं खलु ! लाघवं विषयवेदने सुखवेदने चऽ इत्यसंवेदनं न (नेन ?) किम् ? पर्यायेणार्थसुखयोरन्यतरस्य परस्परानुपलम्भत्वेनाभावरूपत्वात् । सन्तानसुखवेद [प्3ब्।5]नमेव विषयसन्ततावेदनम् ।
एवं --- विषयसन्ततवेदनमेव सुखसन्ततावेदनम् । अथापि स्यात् ।
अक्षजया ---
ऽयुगपज् ज्ञानानुत्पत्तिर्मनसो लिङ्गम् ।ऽ इत्येकया द्वयज्ञानम् ।
न ।
चक्षुरादीन्द्रियजं विषयप्रतिनियतं कथं सुखादीन् न गृह्वीयात् ?
सुखमन्तरेणार्थाच्च जातेर्धियस्तस्य सुखस्या शक्तिसिद्धिरतो ऽपि कारण[296]त्वाभावान् न सुखं ग्राह्यम् । अथापि स्यात् । यथा--नीलं पीतं च पृथगपि शक्तम्, संहतावपि । तथादिर्विषयश्च पृथक् संहतावपि स्वज्ञानजनने शक्तः स्यात् !
__________नोतेस्__________
[296] स्ह्: 49.

ऽयद्येवं केवलमपि सुखं गृह्येत नीलवत् ।ऽ
न च सुखहेतुविषयं ग्राह्यमन्तरेण सुखवेदनं युक्तम् ।
अथापि---
सरससरसीरुहधीभ्रमभ्राजमानसुहृदवदनेनेवार्थेन सह ग्रहः ।
तथापि न सामर्थ्यं सुखस्य स्यात् । अन्वयव्यतिरेकाभावात् । न च परस्य सुखसामर्थ्याभ्युपगम इन्द्रियधियं प्रति ।
अथ ---
विनार्थेन चक्षुरादिभिः सुखं गृह्यते । तदानुकूलत्वादिनास्त्यादिभेदो न गृह्येताक्ष्ना । अन्तरङ्गत्वात् सुखादावेवाक्षमतिः स्यात् ।
अथापि--
युगपदेव बुद्धिरुदयति, तत्तद्विषयसम्भवात् । तदा ---
सुखदुःखविदौ सदा स्याताम् --- हेमन्ते शीतमारुताशनस्पर्श(+आ)भ्यामिव । रणरसासक्तचेतसः स्वामिसम्माननिष्क्र(ष्क्र ?)यं चिकीर्षतः निशितनिस्विशनिष्पेषमप्यनुभवतो भवेतां सुखदुःखविदौ । न चैवम् [प्3अ।6] ।
तस्मादलीककल्पनाभिरलम् ।
सरलेनैव क्रमेण ---
ऽसार्थे सतीन्द्रिये योग्ये यथास्वमपि चेतसि ।
दृष्टं जन्मसुखादीनां तत्तुल्यं मन्सामपि[297]। ।[298]
__________नोतेस्__________
[297] दृष्टं जन्म सुखादी.... .... मपि । । -प्र- वा- भा- 310 पृ-; 3।253 का- ।
[298] सार्थे सतीन्द्रिये.... ....चेतसि । .... मनसामपि ॥ -प्र- वा- भा- 310 पृ-, 3।253। का- ॥
असत्सु सत्सु चैतेषु न जन्माजन्म वा क्वचित् ।
दृष्टं सुखादेर्बुद्धेर्वा तत्ततो नान्यतश्च ते[299]। ।[300]
__________नोतेस्__________
[299] असत्सु सत्सु... ... .... क्व चित् । .... ते । । -प्र- वा- भा- 31- पृ- 3।254 का- ॥
[300] दृष्टं सुखादे.... .... श्च ते । .... प्र- वा- भा- 310 पृ-, 3।254 का- ।
सुखदुःखादिभेदश्च तेषामेव विशेषतः ।
तस्या एव यथा बुद्धेर्मान्द्यपाटवसंशयाः[301]। ।[302]
__________नोतेस्__________
[301] तस्या एव यथा... ...संषयाः ॥ -प्र- वा- भा- 310 पृ- 3।355 का- ।
[302] सुखदुःखादिभेद.... .... विशेवतः । .... संशयाः ॥ -प्र- वा- भा- 310 पृ-, 3।255 का- ।
[303]इत्यक्ष(+मु) पगम्यताम् ।
__________नोतेस्__________
[303] स्ह्: 50.
ऽतस्मात् सुखादयो ऽर्थानां स्वसङ्क्रान्तावभासिनाम् ।
वेदकाः स्वात्मनश्चैवमर्थेभ्यो जन्म केवलम्[304]। ।[305]"
__________नोतेस्__________
[304] तस्मात् सुखादयो... .... भासिनाम् । .... केवलम् । । -प्र- वा- भा- 319 पृ-, 3।267 का- ॥ 321 पृ- 3।267 का- ।
[305] वेदकाः स्वात्मनश्चैषां.... जन्म केबलम् ॥ -प्र- वा- भा- 319 पृ-, 3।267 का- ।
अमी सुखादयः स्वसङ्क्रान्तार्थावभासवेदनाद्वारेणार्थस्य वेदकाः । स्वात्मनश्च जडव्यावृत्ततया । कुतस्तर्हि उत्पद्यन्ताम् ?
उक्तमेव ---
"चक्षुरादीन्द्रियालोकालम्बनसमनन्तरप्रत्ययेभ्यः ।"
तस्मात् --- सधूक्तम् ---
"इह नीलादौ दृश्यमाने समानकालमान्तरः मुखादिर्नियमेनानुभूतनिश्चितस्तथैव व्यवहत्तव्यः ।

सामग्रीभेदादपि न भेदो ऽस्य ।
ऽतदतद्रूपिणो भावास्तदतद्रूपहेतुजाः ।
तत्सुखादि किमज्ञानं विज्ञानाभिन्नहेतुजम्[306]? ॥[307]
__________नोतेस्__________
[306] तत्सुखादि .... ....हेतुजम् ॥ -प्र- वा- भा- 309 पृ-, 3।252 का ।
[307] तदतद्रूपिणो.... .... हेतुजाः । हेतुजम् । । -प्र- वा- 2।251; प्र- वा- भा- 309 पृ, 3।252 का ।
न कार्यभेदादपि भेदः । एकतो ऽप्यनेककार्यदर्शनात् ।
सुखदुःखादिभेदो ऽपि सामग्रया एवावान्तरविशेषात् ।
बुद्धेर्मान्द्यपाटवसंशयादिवत् ।
एतेन ---
सुखादेर्ज्ञानान्तरग्राह्यत्वम्, ज्ञानविलक्षणसामग्रीजन्यत्वं च ।
सत्त्वरजस्तम [प्3ब्।6] सां साम्यावस्था प्रकृतिः, प्रधानम् । ततो बुद्धिर् अतो ऽहङ्कारः । ततः पञ्चतन्मात्राणि शब्दादीनि । ततः पञ्चबुद्धीन्द्रियाणि श्रोत्रत्वक्चक्षुर्घ्राणजिह्वाख्यानि । पञ्च कर्मेन्द्रियाणि वाक्पाणिपायूपस्थाख्यानि । मनश्च । पञ्चतन्मात्रेभ्यः पञ्च महाभूतानि व्योमवातज्वलनजलभेदिनी[308]नामानि । एतानि जडानि ।
__________नोतेस्__________
[308] मेदनी - मू- पा- ।
पुमांश्चेतनः । चैतन्यं निजमस्य रूपम् । बुद्धिः पुनरेका सर्वव्यापिनी, निरवयवा, स्वच्छा, दर्पणप्राया, सर्वप्रतिबिम्बवतो । तत्र रूपादयः प्रधानपरिणा[309]मतया सुखाद्यात्मकाः बुद्धिदर्पणबिम्बिताः । पुंसो ऽपि तत्रैव बिम्बनात्, तेन गृह्यन्ते । बुद्ध्यध्यवसितमर्थं पुरुषश्चेतयत इति चोच्यते भोक्त्तृत्वमस्य । एतावदेव ।
__________नोतेस्__________
[309] स्ह्: 51.
अस्यां प्रक्रियायामयमपरो विशेषो ऽवगन्तव्यः । शब्दादयो भूतात्मना परिणताः, भूताद्यपि कुम्भाम्भोधरधरादिप्रभेदेन ।
उक्तं च ---
"आकारो गौरवं रौक्ष्यं धरणं स्थैर्यमेव च ।
स्थितिर्भेदः क्षमा कार्ष्ण्यं छायायाः सर्वभोग्यता ॥
इत्येते पार्थिवा धर्मास्तद्विशिष्टास्तथापरे ।
जलाग्निपवनाकाशव्याप्तास्तां (+स्ता) न्निबोधत ॥
इति ।
अत्र ऽछायाया इति कार्ष्ण्यापेक्षया षष्ठी "कृष्णाच्छायेऽत्यर्थः ।
तदेवम् --- पुरुषप्रतिबिम्बेन श्रोत्रादिवृत्त्या शब्दादिप्रतिबिम्बो बुद्धौ स्वच्छायां प्रधानपरिणामत्वेन च शव्दा[प्3अ।7] दीनामात्मभूतः सुखादिप्रतिविम्बमानो वेद्यते । तस्मात् न आन्तराः । नापि चैतन्यात्मानः सुखादयःऽ इति सा[310]ङ्ख्यः प्रत्यवतिष्ठते ।
__________नोतेस्__________
[310] शा मू- पा- ।
इदं स्वाभिप्रायेण सा[311]ङ्ख्यस्य प्रक्रियाज्ञानमस्तु । सन्तस्तु प्रमाणसहं सहन्ते । सुखादीनामान्तरत्वमनुभवात्मत्वमवश्यं श्यामाद्याकारेण सह स्फुरत्वम् संबादवेदनाद् व्यवस्थापितं कथमन्यथा कर्त्तुं शक्यते ।
__________नोतेस्__________
[311] शा मू- पा- ।
शक्यते बुद्धावहङ्कारः । अहङ्कारास्पदे अन्तरे भवत्वादान्तरत्वम् ।
तत्रैव च नित्यचैतन्यप्रतिबिम्बनाद् भ्रान्त्तया अनुभवात्मत्वम् । नीलाद्यात्मत्वात् सुखादीनां सह स्फुरत्वमिति चेत्?
[312]न ।
__________नोतेस्__________
[312] स्ह्: 52.
वेदनादन्यस्या बुद्धेरभावात् ।
ऽमुक्त्त्वाध्यक्षस्मृताकारां संवित्ति बुद्धिरत्र का[313]?ऽ नित्यचेतनच्छाययाच्छुरितत्वं पुनः छद्भैव ।
__________नोतेस्__________
[313] मुक्त्वाध्यक्ष.... ....त्र का । -प्र- वा- भा- 325 पृ, 3।276 का ।

ऽ... ... ... ... ... ... संवेद्यत्वाच्च चेतनाः ।
संवेदनं न यद्रूपं नहि तत् तस्य वेदनम्[314]।"
__________नोतेस्__________
[314] संवेदनं न... .... .... वेदनम् ॥ (तस्मात् भ्रान्तरा एव संवेद्य-)-प्र- वा- 2।274; -प्र- वा- भा- 324 पृ, 3।275 का ।
ऽइदमस्य वेदनमिऽति सम्बन्धस्य निबन्धनमभिधानीयम् । न चैतन्यमात्रं तन्निबन्धनम् । चक्षुरादावपि प्रसङ्गात् ।
तस्माद् ---
वेद्येनार्थेन वेदनस्य सारूप्यं तन्निबन्धनम् सा[315]ङ्ख्यप्रत्ययिदृष्टान्तो ऽस्ति । यथा --- नीलस्वरूपं वेदनं नीलस्य वेदकम् । तथा--- सुखस्यापि वेदनेन सुखस्वरूपेण वेदितव्यम् ।
__________नोतेस्__________
[315] ऽशामू- पा- ।
उपधायकं तर्हि नीलवत् सुखमन्यदपि स्यात्?
न ।
त्वत्पक्षे ऽपि सुखरूपमेव हि संवेदनं सुखमवैति, नान्यदि[प्3ब्।7]ति साकारं ज्ञानमस्तीति साधितमस्माभिः ।
तच्च स्वरूपवेदनं क्वचित् सोपधानम्, क्वचिच्च निरुपधानम् । इदमेव च नः सुखं यत् सात्तं (?) संवेदनं नाम । न सात्तसंवेदनादन्यार्थक्रियात्र यद्वशादुपधायककल्पनं हि नीलस्य । नीलसंवेदनमेव फलम्[316]। किन्तु, रञ्जनादिकमपि । तद्वशात्तत्र परिकल्पना ।
__________नोतेस्__________
[316] ऽलऽमू- पा- ।
अत्र पुनः, संवेदनमेवैकमान्तरं प्रीतिपरितापरूपं पश्यामः ।
ऽएकमिऽत्यनेन न वाह्यारोपितत्वविशेष उच्यते ।
[317]तथा हि ---
__________नोतेस्__________
[317] स्ह्: 53.
नान्यत् र्सवेदनं ग्राहकम् । अन्यश्च[318]सुखाद्याकारो ग्राह्यरूपः प्रत्यवभासते । येन ग्राहकाकाराद् विच्छिन्नस्य सुखादेर्बहीरूपतया वा[319]क्ष (ह्य ?)कृतत्वं विद्भः । नहि य आकारो वहीरूपेण ग्राह्याकारतया नावभासते स स[320]र्वाक्ष(स बाह्य ?) कृतः । तद्यथा --- चेतनाया आकारः ।
__________नोतेस्__________
[318] ऽन्याश्चऽमूलपाठः ।
[319] ऽतावाक्षऽ-मूलपाठः ।
[320] ऽते सर्वामूलपाठः ।
तथा च स्वर्गाद्याकारः ।
एतदेवोक्तम् ।---
ऽआन्तरमान्तरे ऽहङ्कारास्पदे ऽङ्गुष्ठात्मर्धा (न्मूर्धा ?) ऽवधियदन्तः प्रष्टव्यवेदना ऽकारे ग्राहके सुखादिरूपम् संवेदनं सन्निविष्टं, न बाह्येग्राह्याकारे ।ऽ
नहि सुरभिकर्कशाद्यनुभवतः तदेव बाह्यं वस्तु सुखितं, दुःखितं हृष्टं, द्विष्टं वा प्रत्यवभासते । किन्तु, ततो विच्छिन्नमहङ्कारास्पदमान्तरं ग्राहकमेवंरूपं हृष्टं द्विष्टं वा प्रतिभाति ।
तदेवम्---
ऽग्राहकरूपसन्निविष्टस्य सुखादेर्बाह्यार्थाध्य[321]वसाया--[प्3अ।8]
__________नोतेस्__________
[321] अत्रऽयऽलिखित्वा छिन्नं मूलपाठे ।
भावान्न वाह्यारोपितत्वम् । अतो ऽस्माकं न वाह्याः सुखादयः प्राप्नुवन्तीति ।
अत एव---
योगिनाम् परसन्तानवर्त्तिनः सुखादिरागादीनामालम्बमानानां बाह्येन स्तम्भादिकरूपेणा[322]ऽनहङ्कारास्पदेन ग्राह्याकारेण सुखिते न रक्ते न द्विष्टे न वा दुःखितत्वरक्तत्वादिप्रसङ्गः ।
__________नोतेस्__________
[322] ऽनामूलपाठः ।
आन्तरत्वेनैव[323]वेदनान्न नीलाद्यात्मकत्वेन नीलादिना सह स्फुरत्वम् ।
__________नोतेस्__________

[323] स्ह्: 54.
अत्रार्थे युक्तिरप्युच्यते ---
ऽये बाह्यातिशयनिरपेक्षभावनातिशयभावाभा (+ वा) ऽनुवन्धिनस्त आन्तराः । यथा ---प्रज्ञा । आल[324]म्व्यमानशब्दाद्यतिशयनिरपेक्षभावनातिशयभावाभावानुवन्धिनश्च सुखादयः । ऽयो भावनयेष्टाद्याभासः सर्वात्मना विनिवर्त्तते, विपरीतश्च प्रवर्त्तते, न स बाह्यविशेषभावाभावानुविधायीऽ इतीदृशो ऽत्राभिप्रायो ऽभिप्रेतः । इहाप्येकस्मिन् एव लवणद्रव्ये ऽव्यग्र ... ... ... ... सौख्यमुष्ट्राणां कष्टं चान्तरमन्येषां संवेदनमुत्प ( +द्य) ते यथा, तथैकस्मिन्नेव शब्दादानुपकारापकारौदासीन्यभाजि भाव्यमाना साभासा तयोरन्यथात्वापत्ति[325]रुत्कर्षश्च । भावनाजातत्वेनान्तरः । ऽयदहङ्कारास्पदत्वेनाभ्यस्यते तत्तथैव भावनाप्रकर्षे निष्पद्यतऽ इति यावत् ।
__________नोतेस्__________
[324] ऽलव्यऽमूलपाठः ।
[325] अत्रऽकऽलिखित्वा छिन्नं मूलपाठे ।
बाह्मातिशयनिरपेक्षभावनातिशयभावाभावानुबन्धित्वमात्रानुबन्धित्वेना [प्3ब्।1] नान्तरत्वस्य स्वभावहेतुरयं नासिद्धिदोषावकाशमाश्रयति । श्रियमपि हि हितत्वेनासकृद् भावयन् अनुकूलधीर्धीरहृदयः । प्रागेष पुत्रकलत्रादिकम् ।
अनैकान्तिकत्वमपि कीर्त्तितमकीर्त्तिकरमेव । अनान्तरत्वं हि बाह्यत्वम् ।
तच्च बाह्यभावाभावानुविधायित्वेन व्याप्तम् । यथा नीलस्य विज्ञाने नीलभावाभावानुविधायि न पीतस्य । तथेहापि बाह्यातिशयनिरपेक्षभावातिशयभावाभावानुविधायि सुखं भाव्यमानमान्तरमेव भवति ।
अत एव ।---
विरोधो ऽपि ययोर्विरोधनिपतितः । सपक्षे विक्षणात् ।
समासस्त्वयम् ---
[326]यदान्तरत्वेनाभ्य[327]स्यते तदान्तरमेव स्फुटाभं भवति । यथा यथाभूतमतिः । आन्तरत्वेन चाभ्यस्यन्ते सुखादयस्तथा । यत् संवेद्यते, तत्संवेदनरूपम् । यथा --- नीलम् ।
__________नोतेस्__________
[326] स्ह्: 55.
[327] अत्रऽभ्यऽइति अधिकं लिखित्वा छिन्नं मूलपाठे ।
संवेद्यते च सुखादिकम् ।
सा[328]ङ्ख्ये ---
__________नोतेस्__________
[328] ऽशामूलपाठः ।
प्रतिबाधकं हि प्रमाणमदृष्टान्तमपि दृष्टान्तयन्ति (ति?) तच्च---
ऽसवेद्यत्वाच्च चेतना ।
संवेदनं न यद्रूपं नहि तत्तस्य वेदनम्[329]। ।"
__________नोतेस्__________
[329] संवेदनं न... .... .... वेदनम् ॥ (तस्मात् भ्रान्तरा एव संवेद्य-)-प्र- वा- 2।274; -प्र- वा- भा- 324 पृ, 3।275 का ।
इत्यत्रान्तरे विवेचितम् ।
तर्हि---
विज्ञानवादः प्रसक्तः । ऽन किञ्चित् सोपधानमनुपधानं च किञ्चिदिऽत्यत्रान्तरे विवेचितम् ।
सा[330]ङ्ख्यीयबुद्धिस्वभावसुखाद्युत्कर्षापकर्षौ भावनयेत्यपि ---
__________नोतेस्__________
[330] ऽशामूलपाठः ।
ऽमुक्त्त्वाध्यक्षस्मृताका?ं संवित्ति बुद्धिरत्र का[331]? ॥
__________नोतेस्__________
[331] मुक्त्वाध्यक्ष... ...त्र का ॥ -प्र- वा- भा- 325 पृ, 3।276 का ।;
इत्यनेन गतार्थम् ।
संसर्गादिविभागः स्फुटा [प्3अ।9] ऽयोगोलकवह्निवदिऽत्यपि परापेक्षया साध्यविकलं सामग्रीवशादेकमेवायोगोलकं वस्तु वदामः । वातशीतादिसामग्र्यन्तरवशाद्वा प्रभास्बरायोगोलकजन्मजम् ।
[332]भट्टार्चटपादैरप्युक्तम्---
__________नोतेस्__________
[332] स्ह्: 56.
"तन्मूलमन्यदेवेदं गुडनागरसंज्ञितम्[333]।

__________नोतेस्__________
[333] तन्मूलमन्य... ...संज्ञितम् ॥ हे- वि- टी- 103 पृ- ।
एवम्---
पा?कलडु?कात्मकमेकमेवेदं द्रव्यं वेदितव्यम् । उपादानमप्यत्र यदनुवर्त्तते तद् वेदितव्यम् ।
प्रत्यक्षसुखादिस्वरूपात्मकपुरुषभोगपक्षे ऽपि---
"अभिन्नवेदनस्यैक्ये यन्नैवं तद् विभेदवत् ।
सिद्ध्येदसाधनत्वे ऽस्य न सिद्धं भेदसाधनम्[334]। ।[335]
__________नोतेस्__________
[334] अभिन्नवेदन.... .... .... भेदवत् । .... साधनम् ॥ -प्र- वा- भा- 325 पृ-, 279 का- ; -प्र- वा- वृत्तौ 2।27 ॥
[335] सिद्ध्येदसाधनत्वे.... ....साधनम् ॥ -प्र- वा- भा- 325 पृ-, 3।287 का-
भिन्नाभः सितदुःखादिरभिन्नेबुद्धिवेदने ।
अभिन्नाभे विभिन्ने[336]चेद् भेदाभेदौ किमाश्रयौ? ।"
__________नोतेस्__________
[336] ऽन्नेवचेद्ऽमूलपाठः ।
पूर्ववन्निर्विकल्पकमभ्रान्तं च । स्वसंवेदने प्रमाणादिव्यवस्थापि---
"तत्रानुभवरूपत्वात् ते योग्याः स्वात्मसंविदि ।
इति सा योग्यतामानमात्मामेयः फलं स्वविद्[337]। ।"[338]
__________नोतेस्__________
[337] इति सा योग्यता.... .... स्वविद् ॥ प्र- वा- भा- 401 पृ-, 3।666 का- ॥
[338] तत्रानुभव.... .... संबिदि । .... स्ववित् ॥ -प्र- वा- भा- 401 पृ-; 3।366 का-; त- सं- पं- 398 पृ- ।
इत्यनेनावगन्तव्या ।
भूतार्थभावनाप्रकर्षपर्यन्तजं योगिज्ञानम् । भूतार्थत्वेन प्रमाणवृत्ति । ऽभावनाप्रकर्षे ऽत्यनेन जन्मपरम्परासिद्धिः ।
पर्यन्तगत्वेन निर्विकल्पकत्वाभ्रान्तत्वे । तत्र भूतः सत्यः ।
प्रमाणदृष्टश्च सत्यः । अर्थ्यत इत्यर्थः, हेय उपादेयश्च । हेयो हि हातुमर्थ्यते, उपादेयश्चोपादातुम् । तत्र हेयं दुःखसत्यम्, [प्3ब्।9] समुदयसत्यसहितम् । उपादेयं निरोधसत्यम्, मार्गसत्यान्वितम् ।
चतुर्भिश्च साभ्युदयहेयोपादेयतत्त्वैः साङ्क्लेशिको वैवदानिकश्च सकलः पदार्थः सङ्गृहीतः । तत्र निरवशेषं वस्तु जानातु । मा वा[339]ज्ञासीत् ।
__________नोतेस्__________
[339] स्ह्: 57.
किं तेन दुःखक्षयमाप्तुकामानां तदुपाये प्रवर्त्तितुमच्छताम् ?
"कीटसङ्ख्यापरिज्ञानं तस्य नः क्वोपयुज्यते[340]?"
__________नोतेस्__________
[340] कीटसङ्ख्या.... .... ...युज्यते ॥ -प्र- वा- भा- 2।32 का- ॥
तस्मात् ---
परिमितानामप्यस्मदभिमतानां साभ्युपायहेयोपादेयतत्त्वानाम् ---
ऽज्ञानवान् मृग्यते ऽस्माभिस्तदुक्तप्रतिपत्तये[341] ।"
__________नोतेस्__________
[341] ज्ञानवान् मृग्यते... ... पत्तये ॥ -प्र- वा- भा- 53- पृ-, 2।31 का- ।
सर्वंविषयं ज्ञानमस्य ---
ऽनास्माभिः शक्यते ज्ञातुमिति सन्तोष[342]इप्यते ।"
__________नोतेस्__________
[342] अत्रऽबा इति लिखित्वा छिन्नं मूलपाठे ।

यथा ---
कुम्भेनाम्भसां परिमाणापरिच्छि(च्छे ?)दे ऽपि गङ्गायाः स्वयमुपयोक्तव्यसलिलपरिकल्पनादेव कृतार्थतार्थिनाम् । यथा ---
वस्तुनः कार्त्स्न्येन निखि(+ल) ज्ञस्यापि ज्ञने । तेनैव ऽभूतार्थेत्यत्र न सर्वंपदोपादानम् । अर्थिनामुपयुज्यमानेन ज्ञानेन च सर्वज्ञव्युत्पादनम् । भूतार्थस्य भावना पुनश्चेतस्यारोपः । तस्याः प्रकर्षः स्फुटत्वारम्भः । तस्य परिसमाप्तं गमनम् पर्यन्तः ।
तस्माज्जातं रूपादिस्कन्धपञ्चकानित्यत्वादि विषयम् । द्विविधं हि धर्मधर्मभावनाभेदेन तत्फलम् । तत्र---कामिनीवियुक्तस्य कामावेशवशादुपनततद्भावनस्य स्फुटः कामिन्याकारः प्रत्ययो धर्मिभावनाफलम् [प्4अ।1] ।
ऽयथा विप्लवमावेगप्रतिपत्तिप्रदर्शनात् ।
परोक्षगतिसंज्ञायां तथावृत्तेरदर्शनान् ॥
विस्वरसे प्रियत्वमभ्यस्यतो रसनासङ्गिनि विस्वरसे ऽपि प्रियत्वं स्फुटं स्फुरद्धर्मभावनाफलम् । तदर्थं भूतग्रहणम् ।
[343]अन्यथा ---
__________नोतेस्__________
[343] स्ह्: 58.
प्रत्यक्षप्रमाणप्रभेदप्रस्तावान् न अभूतस्य सम्प्राप्तिः । यां हि दशामभिनिविश्य भाबना बृत्ता, तस्या अतिबृत्तत्वात् । अपरासां च दशानामुत्पादे महीमहीधरावपि योगिज्ञानमप्रमाणम् किमङ्ग! गङ्गातरङ्गादौ प्रतिक्षणभङ्गुरे ?
धर्मभावनापक्षे तु ---
किमपि वस्त्वस्तु । तद्गतमनित्यत्वादि स्फुटं स्फुरति । विस्वरसे ऽपि यत्नवत् । ऽनहि सर्वे विस्वरसाः स्फुटं स्फुरन्ती ऽति तत्र धर्मभावनाफलवर्णनम् । किं तर्हि ? यत् स्फुरति तत् प्रियत्वाश्लिष्टम् ।
तद्वदिहापि यत् किञ्चिद् वस्तुजातं यातं प्रत्यक्षताम्, तत् क्षणक्षय्यत्वेनालिङ्गितम् । न तु यावत् किञ्चिद् वस्त्वस्ति, समस्तमेत[344]दाभाति योगिज्ञाने । दृष्टश्च भावनाप्रकर्षपर्यन्तभाव्यमानस्फुटभावत्वयोः कामशोकभयोन्मादचौरस्वप्नाद्युपप्लवावस्थायां कार्यकारणभावः । कस्यचित् किञ्चित् प्रसिद्धमिति दृष्टान्तभूयस्त्वम् ।
__________नोतेस्__________
[344] अत्रऽस्तऽमू- पा- ।
अयं पुनरत्र परमार्थः ।
भावनातिशयसंस्कृतज्ञानं समनन्तरप्रत्ययं प्राप्य चक्षुर् [प्4ब्।1] र्थौ दुःखं शून्यानात्माकारपरिकरितं स्वविषयविज्ञानं स्फुटं जनयतः । तेन --- परमार्थविषये क्षणिकत्वादौ चक्षुर्ज्ञानमपि सद् योगिज्ञानम् ।
अथवा ---
चक्षुर्ज्ञानं च मानसं सत् योगिज्ञानं चोत्पद्यते --- गृहीतग्राहित्वं हि दोषो न गृह्यमाणग्राहित्वम् ।
यथा ---
[345]कृतस्य करणायोगो न क्रियमाणस्य । क्षणिकत्वे भावनाप्युपपद्यते ।
__________नोतेस्__________
[345] स्ह्: 59.
रागादिक्लेशविश्लेषाय परमपुरुषार्थघिया समुद्धु[346]रस्यापि क्षणिकपरावृत्त्पा क्षणिकत्वमेव पुनः पुन[347]रामृशतः । क्षणिकत्वे ऽप्येकस्मिन् विषये ज्ञानाभ्यासवृत्तिलक्षणाया भावनाया बाधकाभावात् ।
__________नोतेस्__________
[346] अत्रऽद्धऽइति लिखित्वा छिन्नं मूलपाठे ।
[347] ऽरामृषऽइति लिखित्वा छिन्नं मूलपाठे ।
यावदसन्निहिततया आकारेण क्षणिकत्वादिकमालम्ब्यते तावदियं भावना कल्पनात्मिका । तत्संस्कृतात् समनन्तरप्रत्ययात् सन्निहिततया वेदनेन निर्विकल्पकत्वम् । सन्निहितासन्निहितत्वेन च गृह्यमाणत्वम् स्फुटास्फुटत्वम् ।
अत एव ---
स्वप्नेनापि मनोवेदनवैश[348]द्यनिदानेन नोद्दीपयितुं स्वप्नविकल्पस्य शक्यते स्फुटत्वम् ।
__________नोतेस्__________
[348] ऽषऽमूलपाठः ।
"तस्माद् भूतमभूतं वा यद् यदेवातिभाव्यते ।
भावनावलनिष्पत्तौ तत् स्फुटाकल्पधीफलम्[349]। ।"[350]
__________नोतेस्__________
[349] तस्माद् भूत ... ... ... भाव्यते । ... फलम् ॥ --प्र- वा- भा- 327 पृ-, 3।286 का- ।
[350] भावनाबल.... .... धीफलम् ॥ -(ना परि- पाठक्) प्र- वा- भा- 327 पृ-, 3।286 का- ॥
भूतम् = सत्यम् । अभूतं वा यदेवातिशयेन । तदेव भावनाप्रकर्षे सति स्फुटाया अविकल्पाया [प्4अ।2] धियो हेतुर्भवति । यदसत्यं तत् पूर्वविज्ञानारूढम् । तस्मादव्यतिरिक्तमुत्तरस्य ज्ञानस्य हेतुरुच्यते ।
यत्त्वसत्यं तत् स्फुटं सज् ज्ञानस्य भाव्यमानं हेतुः स्वभावेन, न ज्ञानरूपतया ।

अनेन अभावो ऽपि विवृतः[351]। सो ऽपि ज्ञानारूढतया निःशङ्कगमनागमनं करोति । किं पुनर्ज्ञानम् ?
__________नोतेस्__________
[351] ऽतऽमूलपाठः । fन् 3 देर् सेइते ओ. स्तेल्लेनन्गबे इम् तेxत्
[352]अनात्मवेदनं ज्ञानं । ऽयतो विषयग्रहणं धर्मो ऽविज्ञानस्ये ऽत्याहाचार्यः ।
__________नोतेस्__________
[352] स्ह्: 60.
तच्च ---
प्रमाणसामग्र्या जातं सत्यार्थग्राहि । दुष्टकारणारब्धं विपरीतपरिच्छेदि । यथास्ति स गृह्यते । सो ऽस्य जनको विद्यमानात्मनेति च । एषा प्रकृतिरस्यास्तन्निमित्तान्तरतः स्वालम्बावृत्तौ प्रत्ययापेक्षमदृढं सर्पबुद्धिवत् । वाधित्वावाधित्वाभ्यां विकृतिप्रकृतिव्यवस्था । न तु सत्यग्राहित्वं सकलज्ञानप्रकृतिः।
एवं हि ---
ऽविषयग्रहणं धर्मो विज्ञानस्ये ऽति वाक्यमतिरिच्येत --- असत्यार्थं च किञ्चिन्न स्यात् ---
ननु मित्र[353]पादैः ---
__________नोतेस्__________
[353] ऽसिन्तुऽइत्यपि पठितुं शक्यते मूलपाठे ।
"स्वप्रकाशमसामान्यं विज्ञानमिति सम्मतम् । ।"
इत्युक्तम्, न तद् विज्ञानवादे । कथं तहि ?
बहिरर्थ एव ।
वार्त्तिके ---
ऽज्ञानं तत् योग्यदेशकैरज्ञानस्य स्वयं ज्ञानादिऽऽति ।
असत्ख्यात्यर्थं तत् ।
तदेवम् ---
चत्वार्यार्यसत्यानि अनित्यत्वाद्या कारसहितानि सर्वज्ञज्ञानस्यालम्वनम् ।
त्रिकल्पासङ्ख्येयः कालो ऽवधिः । जन्यपरम्परा च तदन्तर्वर्त्तिनी विशेषणम् । कारणं करुणा बोधिसत्त्वानामभ्यासस्य । त [प्4ब्।2]
दन्येषां संसारोद्वेगः । हेयोपादेयतत्त्वप्रापणाच्च प्रमाणं भगवान् मुमुक्षूणामिति ।
[354]अत्र प्रमाणम् ---
__________नोतेस्__________
[354] स्ह्: 61.
यत् सादरनिरन्तरदीर्घकालभावनाभ्यासविषयीकृतम्, तत् स्पष्टऽ
तत्ता[355]योग्यम् । यथा --- कामिन्याकारकामुकस्य हेयोपादेयस्योपायतत्त्वानि च यथोक्ताभ्यासविषयीकृतानि ।
__________नोतेस्__________
[355] ऽतता इति पाठः प्रतिभाति मूलपाठे ।
अ[356]थापि स्यात् ?
__________नोतेस्__________
[356] ऽयालिखित्वा छिन्नं मूलपाठे ।
को ऽयं कापुरुषाकारः ? सर्व[357]वेदी भगवान् सुगतमहषिः ? स किम् कृतिभिरपकर्षितप्रयुक्तसर्वविदिति ?
__________नोतेस्__________
[357] ऽसर्वसर्वऽइति पाठो मूलपाठे ।
"नास्माभिः शक्यते ज्ञातुमिति सन्तोष इष्यते ।"
इत्यपयशःपिधानम् ! ब्रूमः ।
परमार्थतस्तु ---
भट्टभर्त्सनाभयेनैव परप्रयुक्तमपि सर्व[358]विदमुज्भ्?इत्त्वा स्वल्प --- विदिति निनौलावादिः (?)।

__________नोतेस्__________
[358] ऽसर्वसर्वऽइति पाठो मूलपाठे ।
तथा हि ---
भट्टभाषितम् ---
ऽभूतार्थभावनेऽति लक्षणम् । प्रमाणेन च भू[359]तार्थत्वम् । न च सर्वविषयमिन्द्रियजमध्यक्षम् । नाप्यनुमानम्, धर्माद्यसिद्धेः ।
__________नोतेस्__________
[359] ऽभिऽमूलपाठः । कोर्रेक्त् प्लzइएर्त् इम् तेxत् ?
नापि मनोमात्रमेतत् । इन्द्रियानुसारित्वात् । नाप्यागमशेषम्, अप्रमाणत्वात् ।
उक्तं च ---
"प्रामाण्यं च परोक्षार्थज्ञानं तत्साधनस्य च ।
अभावानाभ्यनुष्ठानमिति केचित् प्रचक्षते[360] । ।"[361]
__________नोतेस्__________
[360] अभावान्नास्त्यनुष्ठानं ... .... प्रचक्षते ॥ -प्र- वा- भा- 2।30 का- ।
[361] प्रामाण्यं च परो.... ....स्य च । .... प्रचक्षते ॥ -प्र- वा- भा- 2।30 का- ।
[362]अत्र समाधि । ---
__________नोतेस्__________
[362] स्ह्: 62.
पूर्वनिरासानुस्मृतिज्ञानबलेन ---
"व्यवस्यन्तीक्षणादेव सर्वाकारान् महाधियः[363] ।
__________नोतेस्__________
[363] व्यवस्यन्तीक्षण.... ....महाधियः ॥ -प्र- वा- भा- 236 पृ- ; 3।107 का- ।
सर्वाकारानुमानं यत् प्रत्यक्षात् तन्न भिद्यते ॥
अतीतानागतं व तु तेनैव प्रतिपाद्यते ।
कर्म तत्फलसम्बन्धबोधस्तेन प्रसिध्यति । ।"
यथा [प्4अ।3] देशादिभेदेन प्रकृतीनां विभिन्नता ।
तथा जातिस्मरत्वेन देवाभ्यागतिनिर्णयः ॥"
एषैव निष्पत्त्यवस्था कथं स्यादिति चेत् ?
अज्ञानमेतत् । युक्तिज्ञेन सर्वं हि वस्तु सर्वैः वस्तुभिः साक्षात् पारम्पर्येण च सम्बद्धं बुध्यते यत्नवता क्रमेण प्रकृष्यमाणम् ।
तथैव स्मर्यते । ---
तथा हि ---
ऽइयं मे माता । ऽ मातृपरम्पराणां पूर्वा कोटिः सम्बद्धा । सर्व दिग्भवैश्च तादात्म्यकैरुपरिष्टाद् भविष्यद्भिश्च उपादेयसहकार्यैर् अन्त्यविवर्जितैः सम्बद्धा । सम्बन्धननिबन्धनमित्यनुमानं सम्भाव्यते ।
"अनेकोपायसद्भावात् कालं वैपुल्ययोगतः ।
अभ्यासात् सर्ववित्त्वस्य प्राप्तिरस्येति युक्तिमत्[364]। ।
__________नोतेस्__________
[364] अनेकोपायसद्भावात्.... .... योगतः । युक्तिमत् ॥ -प्र- वा- भा- 329 पृ- ; 3।287।567
कायंकारणभावस्य विशेषेण विनिश्चये ।
अतीनानागतं ज्ञानं तस्य भावि परिस्फुटम्[365] । ।
__________नोतेस्__________
[365] अतीतानागतं ... ... स्फुटम् ॥ -प्र- वा- भा- 326 पृ- 3।287।549 ।
स्थिरमव्याकुलं भावनैरात्म्यादिनिवेदने ॥

अभ्यासात् सर्ववित्त्वस्य प्राप्तिरस्येति युक्तिमत्[366]। ।
__________नोतेस्__________
[366] अभ्यासात् सर्ववित्त्वस्य.... ...युक्तिमत् ॥ -प्र- वा- भा- 326 पृ-; 3।287।568 ॥
कार्वकारणभावस्य विशेषेण विनिश्चये ।
अतीतानुगतं ज्ञानं तस्य भावि परिस्फुटम्[367]। ।
__________नोतेस्__________
[367] कार्यकारण.... .... निश्चये । .... स्फुटम् ॥ -प्र- वा- भा- 329 पृ-; 3।287।549 ।
सर्वभावानुगत्वेन देशना वाक्यसंश्रुतिः ॥
एवम्भूताच्च वचसस्तत्कर्त्तुर्ज्ञानवद् गतिः ॥
[368]परिशुद्धं वचो नास्ति परिशुद्धधियं विना ।
__________नोतेस्__________
[368] स्ह्: 63.
स्वतर्कानुस्मृतेरेष प्रपञ्चो वचसां यदि । ।
भावनाज्ञानमप्यस्ति सदर्थे ऽनादरो न हि । ।"
तदत्र [प्4ब्।3] प्रमाणम् ।
यत् प्रमाणोपपन्नत्रैकालिकसमस्तवस्तुविषयं वाक्यम्, तत् प्रणेतुस्तद्विषयकज्ञानपूर्वकम् । तद् यथा -- यथायथमर्थस्य सर्वस्य वाचकं सर्ववाक्यम् । तथा च --- निःशेषसमस्तवस्तुनैरात्म्यादिनिवेदनाय वाक्यम् तथागतस्य भगवतः कार्यहेतुरयम् ।
तदेवं समास ऽर्थः ।
यः कश्चित् परैः सर्व[369]विदं प्रत्युद्भावितो दोषः, स सर्वः कारणानुपलब्धिलक्षणः । स चादृश्यविषयत्वेन सन्दिग्धासिद्धः ।[370]तेन ---
__________नोतेस्__________
[369] ऽसर्वसर्वऽ- मूलपाठः ।
[370] ऽद्धामूलपाठः ।
अदोषोद्भावनं निग्रहस्थानं परेषामिति ।
"चक्षुः पश्यति रूपाणि सभागं न तदाश्रितम् ।
विज्ञानं दृश्यते रूपं न किलान्तरितं यतः । ।"
तथा ---
मानसे ऽन्धवधिराद्यभावदोषः । स्वसंवेदने स्वात्मनि क्रियाविरोधः ।
सर्वज्ञेऽसम्भवः सामग्र्याः । तदुद्धारेण चतुर्विधमध्यक्षमवस्थापितमिति ॥
[इति] तर्करहस्ये प्रत्यक्षप्रभेदस्वपरन्यायनिर्णयस्तृतीयः ॥
[371]अक्षादक्षाच्च साक्षादुत्पद्यते ज्ञानम् । अथ च ---
__________नोतेस्__________
[371] स्ह्: 64.
ऽप्रत्यक्षमि ऽत्याख्यायते । न प्रतिविषयम् । केन हेतुना?
निर्वि[372]कल्पकत्वं प्रतिगमकत्वागमत्वाभ्याम् । पुरुषान्तरसाधारणत्वाद् विषयस्य ।
__________नोतेस्__________
[372] ऽनिविऽमूलपाठः ।
वैभाषिकापेक्षया च मनोविषयत्वेन व्यभिचारात् । असाधारणेन च व्यपदेशो दृष्टः । यथा ---भेरीशब्दो यथा वा ---यवाङ्कुरः ।
विषयो हि मनोजि (?) विज्ञाना[प्4अ।4] ऽतदाभोगनिवन्धनश्च परत्वापरत्वगुणमन्तरेणापि प्रतिक्षणवलीपलितश्मश्रुजालादिविशिष्टस्वभावोत्पादविषयो युवास्थविरादिव्यपदेशः । न स्थिरैक्स्वभावानां भावानां कादाचित्कस्वभावाभिनिवो?शिनो व्यपदेशाः सम्भवन्ति ।
तदेवम् ---
पारतन्त्र्यं, रूपश्लेषो, नैरन्तर्कं, प्राप्तिः, सङ्गतिरविच्छेदः ।
अपेक्षादिसंयोगसमवायो, नियमो, विरोधादयो न वस्तुभूताः सम्बन्धाः । किम् तर्हि ?

भावानामात्मानमविभागवन्तमधिकृत्य तादात्म्यसम्बन्धः सां[373]वृतः ।
__________नोतेस्__________
[373] ऽसाम्वृतंऽमूलपाठः ।
भावाभावौ नियताववधार्य कार्यकारणभावः सां[374]वृतः । यतो ---
__________नोतेस्__________
[374] ऽसाम्वृतंऽमूलपाठः ।
भिन्नानेव भावान् मिश्रयति कल्पना । सा चाविद्यानुभववासनासम्बन्धाज् जायमाना, विपरीता च वस्तु स्वभावावगाहिनी वेति व्यवहाराङ्गमङ्गीकृता ।
तत्र व्याप्तौ सम्बन्धे विप्रतिपत्तव्यम् ।
अपि च ---
"प्रत्यक्षां च धियं दृष्ट्वा तस्याश्चेष्टाभिधादिकम् ।
परचित्तानुमानं च न स्यादात्मन्यदर्शनात्[375]। ।[376]"
__________नोतेस्__________
[375] परचित्तानुमानं.... ....दर्शनात् ॥ -प्र- वा- भा- 446 पृ- 3।477 का- । ।, वा- 138 पृ- ।
[376] प्रत्यक्षां च धियं.... .... दिकम् । .... दर्शनात् । । वा- 138 पृ- 3।474; प्र- वा- भा- 446 पृ-; 3।476 ।
[377]सम्बन्धस्य स्वसंवेदनसिद्ध्या पूर्वोक्तया प्रत्यक्षा (+म?) पीहबुद्धिं दृष्ट्वा कायवाग्व्यवहारानुपलभ्य तत्कार्यतया आत्मसन्ताने, तं च कायव्यापारं व्यवहारं चात्मसमीहानुभवमन्तरेणानुभवन्, पर[378]चित्तसन्ततिकृतं मन्यमानो ऽनुमिनोति सन्तानान्तरम् ।
__________नोतेस्__________
[377] स्ह्: 65.
[378] ऽरिऽलिखित्वा इकारमात्रा छिन्ना मूलपाठे ।
चित्तपरोक्षतापक्षे च ---
[प्4ब्।4] चित्तानुमानसमस्तविम्बसन्ताने चित्तानुपलब्धेर्दृष्टान्ताभावात् सम्बन्धसिद्धेः, ऽदृष्टत्वान्यथानुपपत्त्यास्वबुद्धिवेदने सर्वमेतद् भविष्यतीऽ त्यपि न युक्तः समाधिः । बुद्धेः प्राकट्यं ग्राह्याकारापरोक्षतेति पर्यायाः पर्यालोचिताः ।
तच्चार्थप्राक्ट्यं न केवलं ग्राहकाकारशून्यतयानुभूयते ।
यद्यनुभूयेत, तदानेदमनुभूयतऽ इति स्वपरवेदनविभागाभावात् सुतराम् परचित्तानुमानमपास्तम् ---
"मनोबुद्धावर्थलिङ्गाप्रसिद्धितः ।"
यदि ---
बाह्यपदार्थप्राकट्यान्यथानुपपत्त्या स्वचित्तानुमापनम् ? एवं तर्हि, मनोबुद्धेः स्मरणरूपयोः पदार्थप्रकट्यलिङ्गाभावान् नानुमानम् ।
विपरीतख्यात्या सामान्यप्रतिभासनेन वास[379]नानां च, अनुभवानुसारान् नीरूपत्वाच्च सामान्यस्य निरस्तम् ।
__________नोतेस्__________
[379] अत्रऽरालिखित्वा छिन्नं मूलपाठे ।
तदेवम् ---
बाह्ये ऽर्थे स्वसंवेदनेन प्रत्यक्षेण बुद्ध्यनुभवे, यथास्वमिन्द्रियप्रत्यक्षेण चेष्टाभिधादिकं कार्यतया स्वसन्ताने निश्चित्य परचित्तानुमानमुक्तम् ।
[380]तच्चायुक्तम् ।
__________नोतेस्__________
[380] स्ह्: 66.
ईश्वरानुमानसमानत्वात् ।
सर्वथा अनुमातुरसदृशत्वात् परचित्तस्य पल्लवो[381]ल्लासनात् प्रभञ्जनानुमाने वानदृश्यास्ति सिन्धुमारुतस्यान्तर्भावो, नापि धूमाद् धूमध्वजानुमाने जठरजातजातवेदसमन्तर्भाव्य व्याप्तिग्रहः कस्य चित्!
__________नोतेस्__________
[381] एकारमात्रा लिखित्वा छिन्ना मूलपाठे ।
ऽयद् व्याप्तिग्राहकं मानं त [प्4अ।5।5] स्मिन् द्रव्ये समवायाभावात्, विजातीयानामनारम्भादालेख्यादावेकस्य द्रव्यस्याभावे समवायाभावादित्यर्थः ।
"वनं कुसुमितं यथा ।"
तत्र हि ---

वनं बहुत्वसङ्ख्या --- कुसुमं चारम्भद्रव्यम् । एकत्र वृक्षद्रव्ये तयोः समवेतत्वाद् "वनं कुसुमितमि"त्युपचारः ।
एकया बुद्ध्या अनेकस्य ग्रहणे चित्रव्यवहारः । तस्माद्[382] यथानेकात्मकमालेख्यचित्रमेकया मनीषया गृह्यते तथा सञ्चितो ऽपि ।
__________नोतेस्__________
[382] अत्रऽद्यऽलिखित्वा छिर्न्न मूलपाठे ।
तत् किमुच्यते ?
"अथैकायतनत्वे ऽपि नानेकं दृश्यते सकृत् ।"
इति ?
ऽको वा विरोधो बहवः सञ्जातातिशयाः सकृत् ।
भवेयुः कारणं बुद्धेर्यदि नामेन्द्रियादिवत्[383]? ॥[384]
__________नोतेस्__________
[383] को वा विरोधो.... .... सकृत् । ....वत् ॥ -(पृथक् पाठयुक्) प्र- वा- 2।223 ॥ (सकृत्-पाठ युक्) प्र- वा- भा- 294 पृ-; 224 का- ।
[384] भवेयुः कारणं.... .... दिवत् ॥ --प्र- वा- भा- 296 पृ-; 224 का- ।
पूर्वमेकायतनत्वेन बुद्धिरेकेऽ त्युक्तम् । अधुना पुनः ---
[385]"अनेकाकारा बुद्धिरेका । एकप्रकटतान्न्तर्गततया परस्परप्रत्यक्षत्वात् ।
__________नोतेस्__________
[385] स्ह्: 67.
अन्यथा ---
मन्तमसनिमग्नानेकपुरुषसंवेदनवद् व्यतिवेदनाभावः स्यात् ।
एकोपादानत्वाद् भेदे ऽपि न तथेति चेद् ?
अतीतादिवत् स्मरणमेव स्यात्, न स्फुटस्फुरणम् ।
तथा ---
चित्रविज्ञाने ज्ञानादनेकाकारम्, एकाका(+र) वदनेकाकारमित्यपि बोध्यम् ।
सा यद्यनेकाकारा बुद्धि[386]रेका सञ्जातशक्तिभिः परमाणुभिश्चक्षुरादिभिरिव बहुभिः क्रियेत, तथा (दा?) न कश्चिद् विरोधः ।
__________नोतेस्__________
[386] ऽबुद्धिकारा इत्यधिकमत्र मूलपाठे ।
तस्माद् ---
उभयथापि सञ्चितालम्वनत्वे ऽप्यविकल्पत्वमिति स्थितम् ।
तथा ---
"स्व [प्4ब्।5।6] संवेद्यमनिर्देश्यं रूपमिन्द्रियगोचरः[387]।
__________नोतेस्__________
[387] स्वसंवेद्यमनि.... .... गोचरः ॥ --प्र- वा- भा- 298 पृ-; 3।231।431, त- सं- पं- 293 पृ- ॥
स्वेनासाधारणेन रूपेण वेद्यः स्वभावो न धर्मित्वादिना । अत एव न निर्देश्यतयाधिनिबन्धनेन शब्देन न व्यपदेश्यः प्रत्यक्षत्य गोचरो ग्राह्यः । ततो --- निर्विकल्पकमध्यक्षम् ।
तदेवम् ---
प्रत्यक्षज्ञानं प्रमाणफलम् ।
एवम् ---
अनुमानम् इति तदित्यनन्तरनिर्द्विष्टप्रभेदम् । निपातेन प्रवर्त्तकप्रापकयोः फलत्वेन प्रतिक्षेपः ।
[388]ऽप्रत्यक्षमिऽत्यनेन आद्यमसाधारणविषयं कल्पनापोढाभ्रान्तमुक्तम् ।
__________नोतेस्__________
[388] स्ह्: 68.
ऽज्ञानमिऽत्यनेन चक्षुरादिजडप्रमाणानादरः फलप्रस्तावेऽपि दर्शितः ।

अर्थप्रतीतिरूपत्वात् ।
अर्थौ = हेयोपादेयौ, तयोः प्रतीतिः, प्राप्त्यङ्गप्रवृत्तिविषयोपदर्शना परोक्षताख्यारूपं स्वभावो यस्य ग्राह्याकारग्राहकाकारात्मकस्य, तद्भावस्तत्त्वम्, तस्मात् ।
स्वसंवेदनं चाकारयोः साधितमेव । स्वसंवेदने तर्हि कथमर्थप्रतीतिरूपत्वम् ? त्रयाणां तादात्म्ये सुतरामेव अपरमपि तादात्म्यमिति चेत् ?
न । एकेनैव गतत्वात् । व्यपदेशा एते यथाकथञ्चित् प्रयोक्तभिप्रायानुभवाश्चराचरं चञ्चूर्यन्ते, नैतेभ्यो ऽर्थान्तरपरिग्रहः ।
करोत्यर्थादिवत् ।
यथा --- पचति = पाकं करोति । तथा --- करोति = करणमभिनिर्वर्त्तयति ।
"सर्वो हि धात्वर्थः करोत्यर्थेन व्याप्तः ।ऽ करोत्यर्थः केन व्या[प्4अ।6।7]प्यताम् ? तत्रैव सामान्यविशेषकल्पना चेत् ?
इहापि समानम् ।
एवम् --- अनुमाने ऽपि वाच्यम् । यद्यर्थ?तीतिरूपत्वात्तदेव प्रत्यक्षं ज्ञानं प्रमाणफलम् ।
किमिदानीं प्रमाणम् ?
उच्यते ।
ऽप्रमीयते येन तत् प्रमाणमिऽति सामान्येन व्युत्पादितमपि प्रमाणपदम् --- कर्त्तृकर्मक्रियाः समाक्षिप्य स्वसामान्यविशेवलक्षणमाक्षिपति ।
तत्र --- कर्त्रादिकं लेशतः प्रागुक्तम् ।
करणं सामान्यलक्षणमुच्यते । ---
"क्रियायाः परिनिष्पत्तिर्यद्व्यापारादनन्तरम् ।
विवक्ष्यते यदा तत्र कर [+ ण] त्वं तदा स्मृतम् । ।"
[389]कर्णं हि कर्त्तृपरतन्त्रं स्वव्यापाराविष्टम् प्रधानक्रियायामुपयोगवत् साधकतमम् ।
__________नोतेस्__________
[389] स्ह्: 69.
यथा --- पुरुषाधिष्ठितः परश्चरः स्वव्यापारेणोत्पतननिपतनान्वितः पाटनक्रियायामुपयोगवान् साधकतमश्च ।
विशेषलक्षणं तु ---
"क्रिया साधनमित्येव सर्वं सर्वस्य कर्मणः ।
साधनं नहि तत्तस्य साधनं सा क्रिया यतः[390]। ।[391]
__________नोतेस्__________
[390] क्रियासाधनमित्येव... .... कर्मणः । ... यतः ॥ -प्र- वा- भा- 340 पृ-, 3।302 का- ।
[391] साधनं न हि तत्तस्य.... .... यतः-(स्याः पाठयुक्) प्र वा- भा- 340 पृ-, 3।302 का- ।
अर्थेन घटयत्येनं नहि मुक्त्त्वार्थरूपतां ।
तस्मात् प्रमेयाधिगतेः साधनं मेयरूपता[392]। ।"[393]
__________नोतेस्__________
[392] अर्थेन घटय .... .... रूपतां । .... रूपता ॥ -प्र- वा- 2।302-7 ॥; प्र- वा- भा- 342 पृ-, 3।306 का-; वा (र्त्तिकालङ्कारे) 2 पृ- । ।
[393] तस्मात् प्रमेया.... रूपता ॥ -प्र- वा- भा- 342 पृ-; 3।307 का ।
सारूप्यमस्य प्रमाणम् तद्वशादर्थप्रतीतिसिद्धेः । ऽग्राहकाकारस्य साख्प्यमिऽति कर्त्तृपारतन्त्र्यमुक्तम् । ऽतद्वशादिऽति स्वव्यापारावेशः प्रकाशितः । प्रकटतान्तर्गततालक्षणो ग्राह्याकारस्य अर्थप्रतौतिः ।
[प्4ब्।6।8] यथा--- मेषयोः, अन्यतरकर्मजः । यथा ---
स्थाणुश्येनसंयोगः । संयोगजश्च संयोगः । यथा --- सर्वैः समवायिकारणैराकाशः[394] संयुक्तः । तत्संयोगश्चाकाशेन कार्यस्य संयोगः ।
__________नोतेस्__________
[394] ऽकाशं संयुक्तम्ऽमूलपाठः ।
अथापि स्यात् ? न संयोगजननात् संयोगिनौ । किं तर्हि ? स्थापनात् ।
स्थितिरपि प्रतिक्षिप्ताभिन्नाभिन्नविकल्पेन दूषणात् ।
"संयोगाद्याश्रये योग्यमयोग्यं तच्च जायते ।
नित्यं योग्यस्वभावस्य तद्वैकल्यविरोधतः ॥

मूल पाठ: Tarkarahasya · Edition: Paramanandan Shastri, Patna 1979 (Tibetan Sanskrit Work Series, 20) · Data entry Helmut Krasser · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc