भाषा

ENहिગુ
ग्रंथ पाठ

Tarkarahasya · भाग 6166

[574] ऽकालिखित्वा आकारमात्रा छिन्ना मूलपाठे ।
उट्टोक (दुर्व्वेक ?) स्त्वाह ---
ऽन भिन्नलक्षणत्वाद् या प्रत्यभिज्ञा विरुद्धधर्माध्यासशून्यविषया सा प्रमाणम् । इतरा त्वप्रमाणामिऽति । तत्र विरुद्धधर्माध्या सशून्यविषयत्वं प्रत्यभिज्ञायाः केन सिद्धम् ? किम् प्रमाणान्तरेण ? प्रत्यभिज्ञयैव वा ? अन्येन सिद्धौ किं प्रत्यभिज्ञया ? तया सिद्धावन्यो ऽन्याश्रयणम् ।
तस्मात् ---
एकावसायसमनन्तरजातमन्यविज्ञानमर्थपरामर्शमुपदधाति ।
एवम्---
तदेक[575]विरहानुभवोद्भवान्यव्यावृत्तिधीः प्रथयति व्यतिरेकबुद्धिम् ।
__________नोतेस्__________
[575] तदेवक इति मूलपाठः ।
ऽअनेनैव कृतं कर्म को ऽन्यः प्रत्यनुभविष्यति[576]ऽइत्यपि वचनम्, प्रचुरतराज्ञानतिमिरसङ्घातोपहतज्ञानालोकं लोकं प्रति कीत्तिंतं मुनिभिः ।
__________नोतेस्__________
[576] अनेनैव कृतं कर्म .... ....भबिष्यति ॥ --त- स- पं- 166 पृ- ।
महितत्वान्यद्व्यासज्ज्यादिविचारमवधूय विशिष्टहेतुफलाभावनियतरूपाणां संस्काराणां प्रबन्धमेकत्वेनाध्यवसीय स एवाहं करोमी ऽति व्यवहरति युक्तमेव प्रवर्त्तते । तदभिमानानुरोधेनेदम् उदीरितम् ।
तत्त्वदृष्ट्या तु---
ऽदर्शितो राजदृष्टान्तस्तदेतन्नासमञ्जसम् ।
यथा प्रजाहितो राजा स्वसन्तानाय यत्नवान् ॥
[577]भेदेऽपि वर्तत्ते तद्वत् सत्त्वा र्थं तत्त्वदृष्टिमान् ॥ऽ
__________नोतेस्__________
[577] स्ह्: 104.
यत् पुनरुच्यते --
ऽनित्यं सत्त्वमसत्त्वं वा हेतोरन्यानपेक्षणात्[578]।ऽ
__________नोतेस्__________
[578] नित्यं सत्त्वम्.... ....क्षणात् ॥ -प्र- वा- भा- 293 पृ-, प्र- वा- 3।34 ॥
इत्यत्र न वौद्धस्य नित्यं सत्त्वम् [प्6ब्।5] सिद्धम् । तत्रैवं वेदितव्यम् ।
आकादाचित्कत्वं सत्त्वं नित्यमुक्तम्, न तु सदकारणवन्नित्यम् ।
"यथा यथा हि हेतूनामभावो नित्यता तथा ।
तैमिरज्ञानकेशादेर्विषयेण विनोदयात्[579]। ।[580]
__________नोतेस्__________
[579] तैमिरज्ञान.... ....त्रिनोदयात् ॥ -(तिमिर पाठयुक्) -प्र- वा- भा- 133 पृ-, 2180।729 ।
[580] यथा यथा हि.... .... तथा । .... विनोदयात् ॥ -प्र- वा- भा- 133 पृ-, 2।180।729 ॥
यतो यतो ऽक्षिविक्षेपः केशदृष्टिस्ततस्ततः ।
एवं कथमनेकस्माद् क्लेदवद् दुग्धवारिणः ॥
द्रवशक्तेर्यतः क्लेदः सा त्वेकैव द्वयोरपि[581]।[582]
__________नोतेस्__________
[581] एवं कथमनेके.... .... ....बारिणः । .... द्वयोरपि ॥ -प्र- वा- भा- 627 पृ-, 4।253 ।
[582] द्रवशक्ते.... .... द्वयोरपि । । -प्र- वा- भा- 627 पृ-, 4।253 का- ।
भिन्नाभिन्नः किमस्यात्मा ? न भिन्नो द्रवता कथम् ? ॥
अभिन्नेहयुच्यते बुद्धेस्तद्रूपाया अभेदतः[583]।"[584]
__________नोतेस्__________
[583] अभिन्नेत्युच्यते.... .... अभेदतः । -प्र- बा- भा- 627 पृ-, 4।254 का- ।

[584] भिन्नाभिन्नः.... .... कथम् । .... भेदतः । । -प्र- वा- भा- 627 पृ-, 4।254 का- ॥
---इत्यपि धर्मो व्याप्रियते क्वचिद् । क्वचिद् धर्म्येव ।
एवम्---
कार्ये ऽपि क्वचिद् धर्म उत्पद्यते । यथा --- कुड्यादेरक्तता ।
क्वचिद् धर्म्येव । यथा--- घटादिः ।
ननु---
स च किं सदुत्पद्यते ? अथासद् ?
सतः किमुत्पादेन ? असतो ऽपि शशविषाणादेः किमुत्पादेन ?
[585]"शशो ऽप्यस्ति विषाणमप्यस्तीति वाक्यमसम्बद्धम् ।
__________नोतेस्__________
[585] स्ह्: 105.
ऽशशसम्बन्धि विषाणं नास्ती ऽति व्रुवाणं प्रति---
ऽअशक्तं सर्वमिति चेद् ? वीजादेरङ्कुरादिषु ।
दृष्टा शक्तिर्मता सा चेत् सं[586]वृत्यास्तु यथा तथा[587]। ।[588]
__________नोतेस्__________
[586] सम्वृ- मूलपाठः ।
[587] अशक्तं सर्वंमिति.... .... .... दिषु । ....तथा । -प्र- वा- भा- 182 पृ-, 3।4 का- ॥
[588] दृष्टा शक्ति.... .... तथा । । -प्र- वा- भा- 182 पृ-, 3।4 का- ।
सास्ति सर्वत्र चेद् बुद्धेर् नान्वयव्यतिरेकयोः ।
सामान्यलक्षणे ऽऽदृष्टेश्चक्षूरूपादिबुद्धिवत्[589]।ऽ[590]
__________नोतेस्__________
[589] सास्ति सर्वत्र.... .... रेकयोः । .... बुद्धिवत् ॥ -प्र- वा- भा- 186 पृ-, 3।5 का- ।
[590] सामान्यलक्षणे ऽदृष्टे.... ....बुद्धिवत् ॥ -प्र- वा- भा- 186 पृ-, 3।5 का- ।
ऽयथा तथेऽत्यधिवचनम् नानादरे शराच्छरोत्पादे । तादृशामादिकारणं तादृशं सर्वथा दृष्टं कारणं न व्यभिचरति कार्यात्मा [प्6अ]6] न तु यज्जातीयं कार्यं तज्जातीयमेव कारणमपि ।
न च ।
आकारभेद एव कारणानां तत्त्वातत्त्वनिबन्धनम्, अपि तु स्वभावान्तरमपि । कृत्रिमाकृत्रिमाणामिव मणिमुक्ताप्रबालादीनाम् ।
तथा हि ।--
क्वचित् स्वस्यैव भेदे, नीलेतरकुसुमयोरिव सूर्ययोः ।
क्वचित् फले, वन्येतरयोरिव कर्कंटयोः ।
क्वचिद् रसे, वन्येतरयोरिव भद्रत्रपुषयोः ।
क्वचिद् स्वभावे, स्पर्शोपयोगश्रयिण्योरिव हरीतक्योः ।
तस्मात्---सुविवेचितं कार्यं न कारणं व्यभिचरति । अनुवर्त्तकः कार्यस्य स्वभावो ऽनुवर्त्तनीयो यः स कारणस्वभावः ।
"अन्वयव्यतिरेकाद् यो यस्य दृष्टो ऽनुवत्तंकः ।
स्वभावस्तस्य तद्धेतोरतो भिन्नार्थसम्भवः ॥"
[591]कथं तर्हि ?
__________नोतेस्__________
[591] स्ह्: 106.
नीलवहलो ऽर्थंसदसदम्बुददर्शनादिष्टं वृप्टेरनुमानम् ?
न दृ(वृ ?)ष्टेरपि तु योग्यतायाः ।
"हेतुना यः समग्रेण कार्योत्पादो ऽनुमीयते ।

अर्था[592]न्तरानपेक्षत्वात् स स्वभावो ऽर्थवर्णितः ॥
__________नोतेस्__________
[592] अर्थन्त- मूलपाठः ।
सामग्रीफलशक्तीनां परिणाम ऽनुवन्धिनि ।
अनैकान्तिकता कार्ये प्रतिवन्धादिसम्भवात्[593]। ।"[594]
__________नोतेस्__________
[593] अनैकान्तिकता.... ....सम्भवात् ॥ - त- स- पं- 3 पृ- ।
[594] सामग्रीफलशक्तीनां.... .... वन्धिनि । .....सम्भबात् ॥ - त- सं- पं- 3 पृ- ।
कार्यमुत्पद्यते यस्मात् स कार्योत्पादो योग्यतायाः स्वभावः । यावन्तो भावा[595]मिलितास्तावद्भ्यो ऽन्यानपेक्षणात् कार्यो [प्6ब्।6] त्पादनयोग्यत्वस्य साध्यस्य सामग्रीसाधनधर्मसत्तामात्रभाबित्बेन समग्रस्य हेतोः साधनतया सम्मतस्य स्वभावहेतुत्वमुक्तम् ।
__________नोतेस्__________
[595] वो इति लिखित्वा ओकारमात्रा छिन्नेव मूलपाठे ।
अत्र च प्रक्रिया ।--
उपसर्पणप्रत्ययात् समग्राः क्षितिवीजादयः प्रथमक्षणम् । तेभ्यो द्वितीये क्षणे अङ्कुरजननयोग्याः क्षित्यादयः । तत्राद्यातिशय व्यपदेशः ।
तदूर्ध्वम् ---भारतस्यानुबन्धिनो धरणि-धामादयः कार्योत्पादात् पूर्वं सहकारिव्यपदेशभाजः परस्परोपकारित्वेन एककार्यकारित्वेन च ।
परस्परोपकारित्वं सहकारित्वे शव्दार्थः कथम्?
इति चेत् ?
उच्यते ।
सहैव कुर्वन्ति । परस्परापेक्षां कुर्वन्ति । अपेक्षता च कार्यता ।
कार्यतातिशयाधानमतो गम्यते । सहैव कुर्वन्तः । परस्परमुपकुर्वन्तः ।
[596]परस्परमुपकुर्वन्तः कुर्वन्ति कार्यम् । किमनया कष्टसृष्ट्या ? कार्यमेव किं नानुमीयते ?
__________नोतेस्__________
[596] स्ह्: 107.
न वयं कार्यानुमानायाभ्यसूयामहे ।
न सहामहे पुनः, कारनैः कार्यस्य व्यभिचारात् ।
आद्यातिशयक्रमेण सामग्रीफलभूताः याः शक्तयः, तासां परिणामस्तावत् । तस्य मतान्तरे च प्रतिबन्धवैकल्ययोः सम्भवेन कार्ये कारणानां व्यभिचारः ।
"हेतृना तु समग्रेण यत् कार्यमनुमीयते ।
शेषवत्तदसा प्6अ।7] मर्थ्याद् देहाद् रागानुमानवत् ॥"
देहेन्द्रियबुद्धिभ्यो रागाद्यनुमानं व्यभिचारि । योग्यतायामपि आत्मीयाभिनिवेशपूर्वका रागादयो न देहेन्द्रियबुद्धिमात्रा भवितुमर्हति ।
आद्यातिशयलक्षणयोग्यता प्रथमोपनिपतितात् समग्राद् भवति । असमग्रात् कारणानुपलव्ध्या नास्ति ।
तस्माद्---
देहादीनां हेतुत्वे ऽपि न केवलानां सामर्थ्यमस्तीति विपक्षवृत्तेरदृष्टावपि शेषवदनुमानात् संशयः ।
"यस्यादर्शनमात्रेण व्यतिरेकः[597]प्रदर्श्यते ।
__________नोतेस्__________
[597] ऽकप्रऽमूलपाठः ।
तस्य संशयहेतुत्वाच्छेषवत्तदुदाहृतम्[598]। ।"[599]
__________नोतेस्__________
[598] तस्य संशय... ....तदुदाहृतम् ॥ -प्र- वा- 3।13 ।
[599] यस्यादर्शनमात्रेण.... .... प्रदर्श्यते । .... तदुदाहृतम् ॥ -प्र- वा- 3।13 ॥
नान्तरीयकमेव कार्यं कारणमनुमापयेत् । तत् प्रतिवन्धान्नान्यद् विपक्षे ऽदर्शने ऽपि ।
"विपक्षे दृष्टमात्रेण कार्यसामान्यदर्शनात् ।

हेतुज्ञानं प्र[600]माणाभं वचनाद् रागितादिवत्[601]। ।"[602]
__________नोतेस्__________
[600] प्रणामा-इति लिखित्वाणाछिन्नमिव ।
[601] विपक्षे ऽदृष्टिमात्रेण.... .... दर्शनात् । .... दिबत् ॥ -प्र- वा- 3।11 का- ।
[602] हेतुज्ञानप्रमाणाभं.... ....वत् ॥ -प्र- वा- 3।77 ।
[603]अत्र---
__________नोतेस्__________
[603] स्ह्: 108.
वचनं परम्परया वक्तुकामताकार्यम् । साक्षादोप्ठपुटस्पन्दादिकार्यम् । कदाचिद् द्वेषस्यापि स्निग्धं रूर्क्ष च वचनं कार्यम् ।
अतः, कार्यमात्राद् वचनमात्राद् रागस्य विशिष्टस्य कारणस्यानुमानं प्रमाणाभासम् रागमन्तरेणापि वचनस्य सम्भवात् ।
तथा---
पक्वान्येतानि फलानि मधुररसानि वा समानरूपत्वादेकशाखाप्रभावाद् वा उपयुक्तफलवत् ।
तथा ---
बहुलं पाकद[प्6ब्।7]र्शने ऽपि न स्थाल्यन्तर्गमनमात्रेण पाकः सिध्यति---
"न चादर्शनमात्रेण विपक्षे ऽव्यभिचारिता ।
सम्भाव्यव्यभिचारित्वात् स्थालीतण्डुलपाकवत्[604]। ।"
__________नोतेस्__________
[604] सम्भाव्यव्यभिचारित्वात्.... ....पाकवत् ॥ -प्र- वा- 3।12 ॥
असमग्रात् कारणात् कार्यज्ञानस्य व्यभिचारात् ।
तथा---
अर्यविशेषंसमीहाप्रेरितावागत इदमिति विदुषः मुनित्वानाबभासिनमर्थं सूचयर्ता(तो ?) बुद्धिरूपवाग्वि[जि ?]ज्ञास्यो जन्यजनकभावः सम्वन्धः । ततः शब्दात् प्रतीतिरविनाभावात् । तदाख्यानां समयः । ततः प्रत्यायकसम्बन्धसिद्धेः ।
तेन---
सङ्केतसम्बन्धापेक्षं दूषणमधिक्षिप्तम् ।
[605]"सङ्केतः प्रतिसम्वन्धात् प्रत्युच्चारणमेव वा ।
__________नोतेस्__________
[605] स्ह्: 109.
क्रियेत जगदादौ वा कर्त्रैवैकेन केनचित् ॥"
इत्यादि ।
तथा---
सर्व एव वस्तुसम्बन्धा जनकस्येव प्रयोगविशेषवशात् प्रविभागेन कार्यकारणभावाद् व्यवस्थाप्यन्ते । तेनाधाराधेयभावव्यञ्[606]जकतोपकार्योपकारकभावादयः कार्यकारणभाव एवान्तर्भाव्याः सम्बन्धाः ।
__________नोतेस्__________
[606] अत्रऽव्यजऽइति द्विधा लिखितं मूलपाठे ।
स्वभावहेतौ प्रतिज्ञार्थैकदेषेन परिहार्या उपोहवादेन ।
तथा हि ।
नीलादिशब्दात् नीलाद्याकारबुद्धिरहो ! प्रमाणादनुभूयते । सा च नीलार्थमन्तरेण । ततो न नीलस्वलक्षणं प्रत्येति । न सामान्याक्ष (श्र?) याविरुद्धं तत्सम्बद्धमृ [प्6अ।8] न । यो ह्यन्यो ऽन्यासम्भवीविशेपः तत्र कारणभेदाद् भेदः । यः पुनरविशेषेण सर्वस्य तस्य कारणमात्रादेव भावो, यथा-वस्तुत्वस्य ।
न खलु वस्तुत्वं जायमानस्य सत्ताहेतोरन्यदपेक्षते । यथा तदनपेक्षेतत् स्वहेतोरेव भवति । तथा ---भावानां नश्वरः स्वभावः ।
दृष्टनिवृत्तीनां वा भावानं यथा नाशो हेत्वन्तरानपेक्षो जन्मानन्तरं व्यवह्त्रियते । तद्विकलद्वितीयक्षणविलोकनात्मकानुपलम्भेन तथादृष्टनाशानामपि महीम्हीधरादीनां कृतकमपि किञ्चिदविनश्वरं स्यात् ?
इति चेत्?
न ।
रूपवेदनासंज्ञासंस्कारविज्ञानानां प्रकाराणां विनाशदर्शनेन तेषु च [607]देशकालान्तरितेषु यदि कृतकेषु शङ्का स्याद् दृष्टस्तेषां स्बभावेन विनाशो विरुध्येत ।

__________नोतेस्__________
[607] स्ह्: 110.
रूपादिस्कन्धसम्बन्धित्वेन कृतकत्वं विशेषनीयम् । तदन्येषां कृतकत्वेन नश्बरत्वं न साध्यते ।
यथा--
प्रयत्नान्तरीयकत्वेन विध्युद्वनकुसुमादीनाम् । यदि नाम कालो नाम महाभूतादिव्यतिरिक्तो नास्ति तथापि तैरेव व्यवहारो भविष्यति ।
चिरक्षिप्रादिप्रत्ययो ऽपि तत्कृतः ।
ऽग्रीष्मादयः पदार्था हि विषया एव के[608]चन ।
__________नोतेस्__________
[608] केन इति लिखित्वानऽछिन्नमिव मूलपाठे ।
क्षणादिको ऽपि निखिलः कालभेदस्तथाविधः ॥
सूर्यचन्द्रप्रभावादि कालभेदनिवन्धनम् ।
अ[प्6ब्।8]न्यथा तीर्थिकस्यापि नानात्वं तस्य नेप्यते ।"
तस्मादियमनपेक्षा बिनाशं प्रति । कृतकत्वस्य विपर्यये बाधकं प्रमाणम् ।
यतो रूपादीनां यदि देशकालावस्थासु कासु[609]चिदेव विनाशः स्यात्, तदा तत्सापेक्षो विनाशो निरपेक्षतया प्रतीतो न स्यात् । प्रतीतश्चानपेक्षः ।
__________नोतेस्__________
[609] कृक इति लिखित्वाकऽछिन्नमिव मूलपाठे ।
तस्मात् --- सर्वत्रैव कृतकत्त्वमात्रानुबन्धी व्याप्तिसिद्धिमाक्षिपति ---
"एको भावस्तत्वतो येन दृष्टः[610]
__________नोतेस्__________
[610] ष्ठ मूलपाठे ।
[611]सर्वे भावास्तत्वतस्तेन दृष्टाः ।[612]
__________नोतेस्__________
[611] स्ह्: 111.
[612] ष्टः मूलपाठे ।
एको भावो[613]यत्स्वभावः प्रकृत्या ।
__________नोतेस्__________
[613] व मूलपाठे ।
सर्वे भावात्स्तत्स्वभावाः प्रकृट्या ॥"
इति हि ब्याप्तिसिद्धि[614]न्यायः ।
__________नोतेस्__________
[614] द्ध मूलपाठे ।
ननु ---
व्याप्तिर्नाम सम्बन्धः" । स क्रिं स्वभाबो ऽस्तु युष्माकम्? यस्माद् बौद्धैरवधृतो द्रव्यादिपदार्थगणः । कथम् ? तदन्तर्गतः सम्बन्धो ऽवशिष्यताम् ।
अत्रोच्यते ---
ऽपारतन्त्र्यं हि सम्बन्धः सिद्धे का[615]परतन्त्रता ?
__________नोतेस्__________
[615] कापप इति लिखित्वा प्रथमपकारः छिन्नैव ।
तस्मात् सर्वस्य भावस्य सम्बन्धो नास्ति भावतः ।"
सां[616]वृतं तु न वार्यते ।
__________नोतेस्__________

[616] साम्वृतमिति मूलपाठे ।
"रूपश्लेषो हि सम्बन्धो द्वित्वे सति कथं भवेत् ?
तस्मात् प्रकृतिभिन्नानां सम्वन्धो नास्ति भावतः ॥"
यदि स्वभावसंश्लेषो नहि सम्वन्धिनो द्वित्वम् । अर्थसम्बन्धिनो भिन्नस्वभावौ भावौ स्तः, तर्हि रूपसंश्लेषायास्ता जलाञ्जलिरिति विरोधादसम्भवी सम्बन्धो ऽवास्तवः ।
परापेक्षापि सम्बन्धः सो ऽसन् कथमपेक्षते ?
यश्च सर्वनिराशंसो... ... ...
[इतः प्रं मूलपुस्तकं नोपलभ्यते ।]

मूल पाठ: Tarkarahasya · Edition: Paramanandan Shastri, Patna 1979 (Tibetan Sanskrit Work Series, 20) · Data entry Helmut Krasser · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc