भाषा

ENहिગુ
ग्रंथ पाठ

Tarkarahasya · भाग 120

[1]ओम् नमो बुद्धाय ।
__________नोतेस्__________
[1] स्ह्: 1.
यः श्रीमानवदातधीः परपरामर्शाचलस्याशनिः सद्ग्रन्थप्रथमानपौरुषतया प्रामाणिकग्रामणीः ।
... ... ... ... ... धर्मता तस्यैतत् प्रतिरच्यते तनुधियो रत्यै रहस्यं मया ॥
तर्करहस्ये विमृशति संशयशरणानि शास्त्रवचनानि ।
... ... ... ... ॥
अर्थानर्थप्राप्तिपरित्यागयोरवश्यं प्रमाणपूर्वकत्वात् तदविदुषां च व्युत्पादनार्थमिदमारभ्यते । ... ... ... विषयास्तत्प्रतिषेधेन प्रमाणं प्रतिपाद्यते ।
प्रमाणमविसं[2]वादि ज्ञानमर्थक्रियास्थितिः ।
__________नोतेस्__________
[2] सम्बा- मू- पा- ।
यत् पुनर्विसं[3]वादि न तत् प्रमाणम् । करणसाधितेन प्रमाणशब्देन कर्त्तृत्वं कर्मक्रियाक्षेपपूर्वकं साधकतमम् ... ... ... यः प्राधान्येन । तत्सहचरः शरीरेन्द्रियगणस्तत् [साधकतममित्यु]च्यते । कर्मचार्थक्रिया ... ... यापि प्रमितिः । सापिऽसंज्ञाप्रायाः कुतो भवन्तीतिन्यायात् प्रवृत्तिविषयनियमार्थक्रियासमर्थ --- [प्रापणशक्तिकत्वं, नत्वर्थप्रापणमेव । तस्य] [प्।अ।इ]
__________नोतेस्__________
[3] सम्बा- मू- पा- ।
प्रवृत्त्यप्रदर्शितमर्थं प्राप्तुकामान् व्यवहर्त्तॄन् प्रति निरर्थकत्वात् ।
किम् हि तेषां यदि प्रमाणेनार्थः प्रतीतः ?
सा चेत् प्रतीतिस्तेषां वाञ्छाभाजि तस्मिन्नर्थे प्रवृत्ति-प्राप्त्योरङ्गम् ।
एवं तर्हि---
[4]यथैव तेषां तदुपयुज्यते तथैव ... ... ... ... तथैव तर्ह्यव्यापृताम् (?) तेषां च व्यवहर्त्तॄणामुपयुज्यते पर्येषणामात्रं च प्रमाणम् । परिच्छेदे ऽपि प्रवृत्तिप्राप्त्यङ्गतयैव ।
__________नोतेस्__________
[4] स्ह्: 2.
न च परदर्शने तथा व्युत्पादितम् । व्युत्पादितं चाचार्येण तथा---अविसंवादी[5]ति ।
__________नोतेस्__________
[5] सम्बा- मू- पा- ।
अर्थक्रियास्थितिरविसं[6]वादनम् । अर्थो दाहादिरेषणीयत्वात् । तस्य या क्रियानिष्पत्तिः कर्मस्था तस्याः स्थितिरविचलनम् । स्वप्ननिरासार्थम् ।
__________नोतेस्__________
[6] सम्बा- मू- पा- ।
स्वप्ने प्रातः[7]प्रबुद्धस्य भटित्यम्लानभासनम् ।
__________नोतेस्__________
[7] त इति विसर्गरहितः पा- मू- पु- ।
तद्योगे परिसं[8]वादीति मत्वर्थीयेनऽअविसं[9]वादिशब्दः पुरुषस्य हेयोपादेययोः[10]प्रवृत्त्यपाकारयोरर्थक्रियातत्साधनरूपयोः प्रसिद्धऽइति भाष्यमतम् ।
__________नोतेस्__________
[8] सम्वा- मू- पा- ।
[9] सम्वा- मू- पा- ।
[10] यो इति विसर्गरहितः पा- मू- पु- ।
धर्मोत्तरमते तु---
ऽयत्राविसं[11]वादिपदं नास्ति तत्र रूपाप्रदर्शितार्थप्रापके प्रसिद्धो यथास्माकमयमविसं[12]वादकः पुरुषः प्रमाणमिति वदन्ति व्यवहर्त्तारः ।
__________नोतेस्__________
[11] सम्वा- मू- पा- ।
[12] सम्वा- मू- पा- ।

यद्यपि ---
प्रापकत्वं प्रमाणशब्दात् प्राप्तं संज्ञाप्रायत्वेन कृतम् ।
यत्राविसं[13]वादिपदं नास्ति तत्राप्यविसं[14]वादिपदेनाप्युपात्तं वार्त्तिके---
__________नोतेस्__________
[13] सम्वा- मू- पा- ।
[14] सम्वा- मू- पा- ।
प्रमाणशब्दप्रवृत्ति---[प्।ब् 2] निमित्तख्यात्यर्थम् ।
भाष्यमते तु---
अविसं[15]वादिपदं लक्षणस्य लौकिकार्थत्वम् ।
__________नोतेस्__________
[15] सम्वा- मू- पा- ।
अर्थक्रियार्थी हि---सर्वः प्रमाणमप्रमाणं[16]वा अन्वेष्यते । प्रेक्षावान् न व्यसनितया ।
__________नोतेस्__________
[16] णम्वा मू- पा- ।
[17]तस्मात्
न अर्थप्रतीतिमात्रं प्रमितिः ।
__________नोतेस्__________
[17] स्ह्: 3.
किं तर्हि ?
परोक्ता विशिष्टैव । तस्याश्च---साधकतमं नेन्द्रियादिकम् वक्ष्यमाणयुक्त्या ।
किन्तर्हि ?
ज्ञानगतमर्थसारूप्यम् । अतस्तदात्मकतया ज्ञानमेव प्रमाणम् ।
नेन्द्रियादिकम् । प्रत्यक्षानुमान -- प्रथमक्षण -- भाविज्ञानमाकारविशेषनियमेनात्मशक्त्त्युत्पादित-स्वव्या( पा )र-व्यवहर्तृ-व्यवसायवशेनातद्रूपपरावृत्तार्थक्रियासमर्थं परिच्छिन्दत् स्ववृत्तेः कारणं भवत् स्वाप्तेरभ्युपायतां स्पृशति ।
न हि---उपदर्शक-व्यापारात् प्रवर्त्तकत्वमन्यदस्य । प्रवर्त्तकत्वाच्च नापरं प्रापकत्वम् । न हि हस्ते गृहीत्वा ज्ञानं प्रवर्त्तयति । न वा पुरुषदेशमनुमानमर्थयद् वान्धो न पुरुषमनुदेशमर्थं प्रापयति । किं तु---
समर्थम् अर्थक्रियायां दर्शयदेव प्रवर्त्तयति---प्रवृत्ति (विषयमर्थमुपदिशत्) प्रापयति ।
सर्वेषामेव च ज्ञानानामेकमेवेयं विधा, यदुतार्थोपदर्शनं नाम ।
ततस्तदन्यदशेषमधिगतार्थाधिगन्तृत्वेनाप्रमाणम् ।
ननु च---
अर्थोपदर्शनाद् यदि नापरं प्रवर्त्तकत्वादि । तदेवम्-पुनरुक्तम् आवर्त्तेत ?
प्रदर्शयेत् प्रवर्त्तयति प्रवृत्ति-विष[प् अ।2]यमुपदर्शयत् प्रापयतीति च ।
यत एवं वाक्यार्थः `स्यादुपदर्शयेदुपदर्शयतीति न समीचीनमालोचितं परेण ।
प्रवृत्तिर्नाम---
वक्ष्यमाणलक्षणाभिन्नैवोपदर्शनादन्यत्रैव च प्राप्तिर्हस्तादि-स्पर्शरूपा ।
परमेतावदुच्यते ।
[18]ज्ञानमुपदर्शयदेव तस्याः प्रवृत्तेः प्राप्तेश्च निबन्धनम्, न व्यापारान्त्रेण ।
__________नोतेस्__________
[18] स्ह्: 4.
यथा---
द्वाःस्थ-बध्यघातकपृथ्वीनाथेषु बहुषु मारकेषु कस्यचित्कथञ्चिदुपयोगा[19]द्राज्ञो मारकत्वमा[20]ज्ञादानमेवेत्युक्तौ किमाज्ञादानमाज्ञादानमित्येवाहुः ।
__________नोतेस्__________

[19] गो- मू- पा- ।
[20] मावज्ञा इति लिखित्वा व छिन्नमिव मू- पु- ।
किं वा मरणन्नाम बध्यस्य भिन्नमेवास्ते । तद्धेतुत्वेन बध्यमानमाज्ञादानं व्यापारान्तरतिरष्कारे चरितार्थश्चान्यदेवेति । तथेहापि वेदितव्यम् ।
बहुषु प्रापकेषु ज्ञानमात्रार्थप्रभृतिषु ज्ञानं कथं प्रापयति ? --इति प्रश्ने-----
प्रतिवचनम्---`उपदर्शयदेवेऽति न पौनरुक्त्यम् ।
ननु--
बहुषु स्थानेषु यदेतदुक्तम्--
`अर्थक्रियासमर्थस्य प्रापणायोग्यम्ऽ इति । तत् कथमवधार्यम् ?
किमर्थस्योपादेयस्य दाहादेः क्रियानिष्पत्तिस्तत्र समर्थस्येति ?
तथार्थत्वे---
हेयार्थक्रियासमर्थस्यासङ्ग्रहान् न्यूनता ।
अर्थक्रियाविषयस्य च ज्ञानस्य[21]प्रमाण्यमनुपात्तं स्यात् ।
__________नोतेस्__________
[21] अत्र म लिखित्वा छिन्नमिव मू- पु- ।
न हि `प्रदर्शितार्थक्रियासमर्थप्रापणयोग्यं ज्ञानं प्रमाणम्ऽ इति वदता अर्थक्रियाप्रापकमपि प्रमाणमा [प्।ब्।3] त्रं भवति ।
अथार्थ्यत इ[22]त्यर्थो हातुमुपादातुश्चार्थ्यमानो दाहादिरेवोच्यते ।
__________नोतेस्__________
[22] अत्र ति लिखित्वा छिन्नमिव मू- पु- ।
`अर्थक्रिया चार्थक्रियासमर्थश्चे`ति विरूपैकशेषो विवक्षितः ।
[23]तथाप्येकवचनानुपपत्तिश्च ।
__________नोतेस्__________
[23] स्ह्: 5.
कथं च---
`प्रापणयोग्यं प्रमाणम्`---
इत्युक्तौ साक्षादर्थक्रियाप्रापकम् सङ्गृह्येत?
सत्यम् ।
अयमेवार्थो हृदिस्थः ।
`अर्थक्रियासमर्थस्येऽत्युपलक्षणार्थमुक्तम् ।
तेन---
अर्थक्रियाया अप्रापकमपि प्रमाणयोग्यं वेदितव्यम् ।
`अभिलापसंसर्गयोग्यप्रतिभासा प्रतीतिः कल्पने ऽत्यत्र यथा
अभिलापसंसृष्टमसंसृष्टम् अपि सम्पुष्टं योग्यं `योग्य` शब्देन सङ्गृह्यते, तथेहापि व्यवस्थाप्यम् ।
यत् प्रापणयोग्यं यच्च साक्षात् प्रापकम्, तदुभयं योग्यशब्देन विषयीकर्त्तव्यम् ।
स्वसं[24]वेदनप्रत्यक्षस्य चात्मानं मेयं प्रति प्रापकत्वं सातिशयमस्तीति सामान्यलक्षणमक्षीणम् अस्मिन्निति वेदितव्यम् ।
__________नोतेस्__________
[24] सम्व- मू- पा- ।
विषयसारूप्यमपि तस्य तादात्म्ये सति सूपपादम् ।
उत्तरप्राप्तिहेतुत्वात् पूर्वस्य यदि मानता ।
तथैव प्रतिरूपत्वादुत्तरस्य कथं न सा ? ॥
तेन---

स्वतः सर्वप्रमाणानां प्रामाण्यमिति गृह्यताम् ।
नहि स्वतो ऽसती शक्तिः कर्त्तुमन्येन पार्यते[25]। ।[26]
__________नोतेस्__________
[25] न हि स्वतो ऽसती... ... पार्यते --त- सं- पं- 745, 813 पृ- ।
[26] स्वतः सर्वप्रमाणानां.... गृह्यताम् । .... पार्यते ॥ -(पूर्वार्धमात्रं) त- सं- पं- 745 पृ-, 2812 का- । उत्तरार्धश् तत्रैव 2811 व्याख्यायाम् ।
चत्वारो हि पक्षाः ।
कदाचित् प्रामाण्यमप्रामाण्यञ्च स्वतः ।
[27]किं वा स्वतो ऽप्रामाण्यं परतः प्रामाण्यम् ?
__________नोतेस्__________
[27] स्ह्: 6.
अथवा इयम् अपि परतः [प्।अ।3] किं वा स्वतः प्रामाण्यमप्रामाण्यम् ?
तथापि प्रामाण्यं[28]परतः ।
__________नोतेस्__________
[28] ण्य- मू- पा- ।
तत्र---
परस्परविरुद्धद्वयप्रसङ्गान् नाद्यः ।
अनुपलम्भेन प्रामाण्यप्रतिषेधस्य सम्भाव्यत्वान् न द्वितीयः ।
स्वतो ऽनुपलम्भेन यद्यप्यप्रामाण्यम्, तथापि प्रांआण्यमपि सं[29]वाद[30]गुणविज्ञानार्थादि परतः ।
__________नोतेस्__________
[29] सम्वा- मू- पा- ।
[30] सम्वा- मू- पा- ।
तदा---
सं[31]वादगुणविज्ञाने केन नाभ्यधिके मते?
__________नोतेस्__________
[31] सम्वा- मू- पा- ।
सापेक्षत्वे प्रमाणत्वं न व्यवस्थाप्यते क्वचित्[32] । ।[33]
__________नोतेस्__________
[32] संवादगुणविज्ञाने.... .... मते .... क्वचित् ॥ (पूर्वार्धमात्रं) त- सं- पं- 787 पृ- ।
[33] सापेक्षत्वे प्रमाणत्वं.... क्वचित् ॥ -त- सं- पं- 746 पृ-, 2813 का- ।
इति न्यायान् न तृतीयः ।
तस्मात् ---
स्वतः प्रमाणत्वप्रसङ्गेन[34]व्यवस्थितं बाधकारणदुष्टत्वम् ।
__________नोतेस्__________
[34] ण- मू- पा- ।
`ज्ञानाभ्यां तदयोग्यतः`---इति न्यायात् स्वतः प्रामाण्यम् । `अप्रामाण्यमन्यत` इति न्याय्यमि`त्यपास्तम् ।
सापेक्षम् एब प्रामाण्यं, नचावस्थाकारणज्ञाने हि तदुत्पत्तिसम्बन्धेना`विसं[35]वादित्वम्` साक्षात् प्रापके तादात्म्येन ।
__________नोतेस्__________
[35] सम्वा- मू- पा- ।
ततो व्यवतिष्ठत एव प्रांआण्यम् ।
तेन---

`सं[36]वादेनैव सं[37]वादः पुनर्मृग्यस्तथैव[38]... ...` इत्यनवस्था प्रत्याख्याता ।
__________नोतेस्__________
[36] सम्वा- मू- पा- ।
[37] सम्वा- मू- पा- ।
[38] संवादेनापि.... .... तथैव (हि) । त- सं- पं- 757 पृ-, 2854 का (न- युक्तः पाठः) तं- सं- पं- 781 पृ-, 2962 का- ।
[39]ननु---
__________नोतेस्__________
[39] स्ह्: 7.
सं[40]वादो नामोत्तरो ऽर्थज्ञानज्ञेयरूपः । स किं [स]जातीयो विजातीयो वा?
__________नोतेस्__________
[40] सम्वा- मू- पा- ।
यद्याद्यः ?
तदा---वेदज्ञानम् वेदज्ञानान्तरसं[41]वादात् प्रमाणं स्यात् ।
__________नोतेस्__________
[41] सम्वा- मू- पा- ।
अथ द्वितीयः ।
तदपि---
"शब्दधीश्चाप्रमाणं स्यादितराभिरसड्गतेः" ।
इति प्राप्तम् ।
"घटज्ञानं घटज्ञानात् प्रमाणं किन्न कीर्त्त्यते?"
इति च स्यात् ।
न ।
"सम्बद्धार्थपरिप्राप्त्या प्रमाणं सर्वमुच्यते ।
न सजातिविजातीये विज्ञानोत्पत्तिमात्रतः ॥
मत्वर्थीयेन निष्पन्नमवि[प्।ब्।4]सं[42]वादिवेद्यताम् ।
__________नोतेस्__________
[42] सम्वा- मू- पा- ।
तदुत्पत्तेश्च तादात्म्यसम्बन्धात्तस्य सम्भवः ॥
[निवेदनं] तेन शाब्दे ऽप्यमिप्रायनिवेदनात् ।"
शब्दो विपञ्चीपञ्चमादिध्वनिः । तस्येदं ज्ञानम् शाब्दम् ।
तस्मिन् । अपि शब्दात् पावकादिज्ञाने ।
अर्थक्रियास्थितिरविसं[43]वादनमिति प्रकृतेन सम्बन्धः ।
__________नोतेस्__________
[43] सम्वा- मू- पा- ।
कथम् ?
अभिप्रायनिवेदनात् ।
इष्टत्वानिष्टत्वाभ्यां पुरुषस्यार्थपरिच्छेदो ऽभिप्रायः ।
तेन निष्ठितं वेदनम्, निवेदनम् । इदं वेद्यमानम् । अर्थक्रियायाः ।
[44]तथा हि---
__________नोतेस्__________

[44] स्ह्: 8.
अर्थक्रियासमर्थमिति ज्ञाने ऽर्थक्रियानिवेदनम् । अर्थक्रियानुभवे तु सुतरामभिप्रायनि वेदनम् ।
गे (ज्ञे?)यस्वरूपसं[45]वित्तिरेव तत्र क्रिया मता ।
__________नोतेस्__________
[45] सम्वा- मू- पा- ।
चित्रे ऽपि दृष्टिमात्रेण फलं परिसमाप्तिमत्[46]। ।[47]
__________नोतेस्__________
[46] चित्रेऽपि दृष्टि... ....समाप्तिमत् ॥ --प्र- वा- भा- 5 पृ- ।
[47] ज्ञेयस्वरूप... .... ... मता । ... मत् प्र- वा- भा- 5 पृ- ।
ऐरावती[48]चन्द्रसूर्य[49]ग्रहराश्यादिवेदने ।
__________नोतेस्__________
[48] ऽरऽलिखित्वा छिन्नम् ।
[49] ऽयोऽओकार मात्रा छिन्ना ।
अभिप्रायाविसं[50]वादात् प्रमाणं न्यायविज्जगौ ॥
__________नोतेस्__________
[50] सम्बा- मू- पा- ।
वेदसम्बन्धवैधुर्यात् सजातीयो (-न्व[51]?) ये ऽपि न ।
__________नोतेस्__________
[51] अत्र त्रु टिः मू- पु- ।
प्रामार्ण्य गृह्यतां सभ्याः ! शक्तिवादो ह्यनादृतः ॥
यत् पुनः---
नार्थक्रियान्वयि, तत् समर्थद्रव्यगुणकर्मसामान्यसमवायान्त्यविशेषं यथासमयमाख्यातम् । तज्ज्ञानं तद्विषयतयापूर्वार्थमपि न प्रमाणम् ।
व्यवहर्त्तॄन् प्रति निरर्थकत्वात् ।
अर्थक्रियासमर्थस्य विचारैः किं तदर्थिनाम् ।
ष्[52]अण्ढस्य रूपवैरूप्ये कामिन्याः किं परीक्ष्या[53]?[54]
__________नोतेस्__________
[52] श मू- पा- ।
[53] अर्थक्रिया .... .... .... र्थिना । .... परीक्षया ॥ -हे- वि- टी- अर्चटेनोद्धृतम् 59 पृ-; प्र- वा- 3।209-11॥; त- स- टी- पञ्जिकायाम् 152 पृ- ॥
[54] षण्ढस्य रूपवैरूप्ये.... ....परीक्षया ॥ - प्र- वा- 3।209-11; हे- वि- टीकायाम् - अर्चटेनाप्युद् धृतम् 59 पृ-; -त- स- पं- 152 पृ- ॥
---इति न्यायात् ।
स्वलक्षणमर्थक्रियासमर्थमादृत्यासमर्थ [प्।अ।4] मपि सामान्य---
लक्षणमध्यवसेयार्थतया समर्थमिति तदविषयं ज्ञानं प्रमाणम् ।
तच्च---
नियतमुपदर्शितं प्रापयितुं शक्यं विद्यमानं च ।
न च संशयः ।
क्रमभावि क्रमोत्तरभावि वा ज्ञानं सन्नियतमर्थमादर्शयितुं दृष्टसामर्थ्यम् । प्रतिभासनियमबलेन नियममध्यक्षं दर्शयति । दर्शयति चानुमानं लिङ्गबलेन नियतमर्थम् ।
[55]अत एव---
__________नोतेस्__________
[55] स्ह्: 9.
विकल्पेष्वनुमानविकल्प एव प्रमाणम् ।

सर्वेण वा लिङ्गेन विकल्पेन नियामकमदृष्ट्वा प्रवृत्तेन भावाभावयोरनियत एवार्थो दर्शयितव्यः ।
न च ---अनियतः शक्यप्रापणः ।
विपर्यासज्ञानेन च यद्यपि नियत एव दर्श्यते, तथापि न विद्यमानो दर्श्यत इति न शक्यप्रापणः ।
तत्र---
कश्चिद् विपर्यासो निर्विकल्पो ऽस्ति ।
यथा ---निशोथिनीनाथद्वैविध्यबोधः ।
कश्चिद् विकल्पात्मा ।
यथा---मरुमरीचिनिचये विरोधमाने नीरारोपी । स हि---
मरीचेर्नियतप्रतिभासं नियामकमाश्रित्य जायमानो यौक्तसंशयात्मा ।
किन्तर्हि ?
विपर्यास एव ।
यतः---
प्रतिभासमाने वस्तुनि प्रतिभासबलोत्पन्नो विकल्पो निश्चयो वा स्याद् विपर्यासो वा ।
संशयस्तु---
समुच्चरद्रूपद्वयालम्ब्येव विकल्पः ।
परोक्षे तु विषये समुच्चरद्रूपद्वयो यौक्तश्च संशयो विकल्पः ।
यथा---
ऽश्वो मे त्रातागमिष्यतीति विकल्पः [प्।ब्।5] संशयो यौक्तस्तथा वेदोत्थो ऽपि ।
तेन---
अप्रमाण्यं त्रिधा भिन्नं मिथ्यात्वज्ञानसंशयैः ।
न तावद् वेदे संशयलक्षणमप्रामाण्यमिति पराहतम् ।
[56]ननु---
__________नोतेस्__________
[56] स्ह्: 10.
यदुक्तम् चार्वाकादिभिः ---
प्रमाणेन तावदर्थः सिध्यति । प्रमाणं पुनः केन सिद्धम् ?
न स्वसं[57]वेदनेन ।
__________नोतेस्__________
[57] सम्बे- मू- पा- ।
तस्य ज्ञानस्वरूपमात्रस्य साक्षात् कृतावधिकारात् ।
नाप्यनेन प्रमाणेन ।
सं[58]वादगुणविज्ञानादिनानवस्थाप्रसङ्गात् ।
__________नोतेस्__________
[58] सम्बा-मू- पा- ।
नाप्यप्रमाणेन ।
प्रमेयस्याप्यप्रमाणतः सिद्धिप्रसङ्गात् किं प्रमाणव्युत्पत्त्या?
नापि व्यवहारेण ।
तस्यापि प्रमाणेतरत्वेनप्रस्तुतदोषानतिपातात् ।
किञ्च---
तज् ज्ञानम् आत्मगुणो वा?

तत् परिणामो वा ?
स्वतन्त्रं वा साकारम्?
निराकारमेकमनेकं वा ?
सर्वत्र च वादिनां विवादसम्भवात् ।
तत् न तत्त्वनिष्ठा (?)।
तस्मात् ---
तत्त्वोपप्लव[59]स्वारम्भो न दम्भादपरो विधिः ।
__________नोतेस्__________
[59] प्लवेशं- मू- पा- ।
इति । न । यत् एव विवादो बहुमुखस्तत एव शास्त्रमवतारितम् ।
[60]यतः---
__________नोतेस्__________
[60] स्ह्: 11.
"शास्त्रं मोहनिवर्त्तनम् ।
पूर्वापरस्यास्मरणं शास्त्रेणानेन वार्यते[61]।"
__________नोतेस्__________
[61] पूर्वापरस्यास्मरणं.... .... वार्यते ॥ प्र- वा- भा- 28 पृ- ॥ (व्यवहारपरामर्शोच्छामं मोहनिवर्त्तनमिति पृवार्धिस्तत्र ।)
तथा -पि ।
"यो ऽपि तापादितो ऽभ्येति चन्दनं न हुताशनम् ।
वक्तुः[62]किञ्चिदनाश्रित्य प्रमाणं तु न वर्त्तते ॥"
__________नोतेस्__________
[62] क्तु- मू- पा- ।
आस्तां तावत् ।
यथायथमर्थ-सार्थमर्थयमानानां ग्राह्यग्राहकाकारापरोक्षताकारस्य ज्ञानस्यासं[63]वेदने यज्जायेतान्धतमसमशेषम् ।
__________नोतेस्__________
[63] सम्बे- मू- पा- ।
`विप्लवः समस्तो ऽयम्ऽ इत्यपि विप्लवस्वरूपावे [प्।अ।5] दने तपोधनसमर्थज्ञानानवरोधे प्रतिपाद्यानवधारणेन चिन्तयितुमशक्यं प्रागेव प्रकाशयितुम् । अतः समस्येव प्रमाणादिस्वप्रत्ययव्यवस्थापितम् ।
ऽकेवलव्यवहारेऽपि विमतिरेव व्यवहारिणामिति व्यामोहापोहायारब्धव्यमेव शास्त्रम् ।
"नीलादिस्फुटताप्रायं प्रमेयं ग्राहकात्मनः ।
कर्त्तृत्वमान्तरत्वेन स्फुटत्वे स्फुटता क्रिया ॥
वक्तब्या नात उपरि वक्तव्यान्तरमस्ति वः ।
महोपप्लववादे ऽपि प्रमाणादिकसम्मतः ॥
परावरोधतः सर्वमेवञ्चेत् स्वात्मनो न किम्?
ग्राहकादि प्रकाशे हि समे सर्वं समं मतम् ॥
प्रकाशश्चेदसन् सर्वो वादायास्तो जलाञ्जलिः ॥"
तस्मात् ---
प्रकटतान्तर्गतसमस्तसत्त्वसन्तान---सम्भविग्राहकाकारादि ---
[64]ष्वाभवेनाभवं (?) भव्येतरप्राणिनां हानेतरव्यवहारो विवादमूलाधारो वान्ध्यमुद्धूयावधार्यताम् !
__________नोतेस्__________
[64] स्ह्: 12.

ननु ---
ग्राहकाकारादिवेदनमन्तरेण न काचिच् चित्तवृत्तिः । ततः कथमिदम् ? ---
प्रमाणमप्रमाणञ्चेदं प्रापकेतरत्वेनापि प्रथमतः प्रभृति सम्प्रधार्यम् ? इति चेत् ?
उच्यते ।
तद् दृष्टावेव दृष्टत्वात् पाकपावकयोर्द्वयोः ।
सम्बन्धं सम्प्रधार्यैव तादात्म्योत्पत्तिलक्षणम् ॥
पुनः[65]पावक सं[66]वित्ति--- सामर्थ्योत्पन्नसंस्मृतिः ।
__________नोतेस्__________
[65] पुनपाव- मू- पा- ।
[66] सम्बे- मू- पा- ।
अभिलाषाच्च लोकानां व्यवहारः[67]प्रवर्त्तते ॥
__________नोतेस्__________
[67] रोपायोन इति लिखित्वा खण्डितमिव मू- पु- ।
स्वाभिप्रायेण विचेष्टतां नमेष्टपरिपुष्टये धार्ष्ट्यादित्यविशिष्टः (?) शिष्टो लोकः ।
सार्वलौकिकः पुनरयमेव व्यवहारोपा[प्।ब्।6] यो ऽनुभवपद्धति---
प्रसिद्धः ।
यदुत व्युत्पत्तिकाले परिकलय्य पावकप्रतिबद्धं पाकपरितोत्सारणवीक्षणक्षतिप्रभृति कार्यम् । तदूर्ध्वं च --- पावकसं[68]वित्त्या पूर्वदर्शनसंस्कारः प्रबोधनकृतात् सम्यक् स्मरणात् । पाकादिकं प्रतिपावकसामर्थ्यविषयात् ।
__________नोतेस्__________
[68] सम्बि- मू- पा- ।
अभिमताभिमतत्वेन च पावकादेर् हातुम् उपादातुं चाभिलाषाद् व्यवहारो हानो पा(दा)नलक्षणः प्रवर्त्तते । तदेतावत्येव सामग्री व्यवहारप्रवर्त्तने निश्चिता । नात उत्तरा । नातो वा भूयसी ।
[69]यतो हि ---
__________नोतेस्__________
[69] स्ह्: 13.
उत्पत्तिवेलायां द्विष्ठसम्बन्धसं[70]वित्तिर्जाता । सम्बन्धिद्वयदर्शनात् ।
__________नोतेस्__________
[70] सम्बि- मू- पा- ।
सम्बन्ध-निबन्धनश्चाब्यभिचारः । अव्यभिचार --- निबन्धनं च प्रापणयोग्यत्वं ज्ञानस्य ।
`पश्चादर्थक्रियासामर्थ्यस्मरणात् पावकस्याभिलाषाच्च पुंसां[71] प्रवृत्तिर्ऽ इति समाप्तं सर्वमीहितम् ।
__________नोतेस्__________
[71] सा- मू- पा- ।
न समाप्तम् ।
यदि ---हातुमभिलाषात् हानलक्षणो व्यापारः । तर्हि हापकतयोपयुज्यमानं न ज्ञानं प्रापकतया प्रमाणं वक्तव्यम् ।
वक्तव्यंम् ।
यस्मात्तदहिविषकण्टकाव्यभिचारनिबन्धनेन प्रापकत्वेन युक्तम् ।
तस्मात् ---
परिहार्यं सं[72]वृत्तम् ।
__________नोतेस्__________
[72] सम्वृ- मू- पा- ।
अपरथा ।
यद्याशीविषादिना ज्ञानं न श्लेषयितुं शक्नुयात्? किमर्थम् परिजिहीर्षेत पुरुषः?

तस्मात् ---
प्रापकमेव प्रमाणम् ।
न हापकत्वेन प्रमानं वक्तव्यम् ।
ननु---
[प्।ब्।6] व्युत्पत्तिवेलायामेव यदि भूताभूतत्वादिसंशयः ।
तदा व्युत्पत्तिरपि न स्यात् ? पाककार्यदर्शने सन्देहाभावात् ।
[73]उपरिष्टात् केवलपावकदर्शने संशयः स्यात्?
__________नोतेस्__________
[73] स्ह्: 14.
स च न प्रमाणव्यापारपरिपन्थी ।
विपर्यासो हि---
विपरीतं रूपं परिच्छिन्दन् प्रतिभासमानत्वभावासंस्पर्षी प्रमाणव्यापारमुपरुन्ध्यात् !
उक्तं हि---
"नो चेद् भ्रान्तनिमित्तेन संयोज्येत गुणान्तरम् ।
शुक्तौ वा रजताकारो रूपसाधर्म्यदर्शनात् ॥"
इति ।
न तु---
ऽसंशयनिमित्तेनेऽ त्युक्तम् ।
ननु---
व्युत्पन्नार्थक्रियासामर्थ्यादिस्तदुपरिष्टाद् विपर्यस्यमानः सन्दिहानो वा पुनः पाकादिविलोकनेन निवृत्तः ।
तत् किम्?
सन्देह-विपर्यासयोः प्रत्यक्षव्यापार-प्रातिकूल्याप्रातिकूल्यविचारणे?
सत्यम् ।
ऽप्रतिभासमानरूपानुरूपः संशयः ।
स्मरणं तत् प्रतिसन्धायकत्वेन ।
न विपर्यासः ।
स्वप्नविपरीतत्वादिऽति प्रदर्शनार्थमुक्तम् ।
पुनः प्रयोजनं चास्य पुरस्ताद् वक्ष्यते ।
अध्यव[74]सेयविषयापेक्षे च प्रापकत्वे प्रमाणस्य विषयस्वरूपग्रहणं ग्राह्यविषयस्यानुपयुक्तम् । तस्याप्राप्यत्वात् ।
__________नोतेस्__________
[74] ध्ययसे- मू- पा- ।
[75]वस्तु गृह्णातु, मा वा ग्रहीत ।
__________नोतेस्__________
[75] स्ह्: 15.
ऽअध्यव[76]सेयं वस्तु प्रापयेदिऽति प्रमाणम् । तत् प्रापकमविकल्पकं विकल्प (कं)[77]वास्तु । सर्वथा क्षणादूर्ध्वं निबद्धे तस्मिन् [प्।ब्।7]
__________नोतेस्__________
[76] ध्ययसे-यू- पा- ।
[77] ल्पम्वा- मू- पा- ।
तदात्मके च विकल्पकत्वे तद्व्यापारानुकारिणा स्मरणेन प्रयोजनम् ।
तच्च स्मरणम्---

ऽविकल्पकाविकल्पकयोः समानमिऽति नार्थो विकल्पत्वेन प्रत्यक्षस्य ।
ततः पुनः चरमकालभावीनि यावन्ति ज्ञानानि व्याहारव्यवहारकाणि तावन्ति प्रायावधीनि गृहीतग्रहणादप्रमाणानि ।
तथा---
धारावाहीन्यपि निर्विकल्पानि ज्ञानान्यप्रमाणानि । पूर्बेण (!) सहोत्तरेषामभिन्नयोगक्षेमत्वात् ।
ऽपरिच्छिन्नश्चार्थः प्रवृत्तिविषयः प्रापणीयः प्रमाणस्येऽति वचनेन श[78]ङ्खे पीतज्ञानं मणिप्रभायां मणिज्ञानम् । अन्यदपि चैवंम् प्रकारं ज्ञानमप्रमाणमुक्तम् । न हि तस्मिन्नवसितेऽन्यदवसितं नाम । अतिप्रसङ्गात् ।
__________नोतेस्__________
[78] संख- मू- पा- ।
भिन्नैर् देशकालाकारैर् विरुद्धैरध्यासितं शुक्लादि (क) मन्यदेव।
अर्थप्राप्तिस्तु-प्रवर्त्तकान्तरात् ।
प्रवर्त्तकज्ञानोपदर्शितं ह्यर्थं प्राप्तुकामा कायवाग्व्यापारसहाया बुद्धिः प्रवृत्तिः । सा तस्मिन्नेवावसिते वस्तुनि सत्यसति वा समाप्यत इति न पीताकारज्ञानपूर्विका प्रवृत्तिः शुक्लाकारवस्तु प्राप्तिनिमित्तम् । ज्ञानान्तरादेव पुनः पर्यन्ततः स्पर्शग्राहिणो ऽपि तत्प्राप्तिः।
[79]एवम्---
__________नोतेस्__________
[79] स्ह्: 16.
परिच्छिन्नप्रवृत्तिविषयप्रापणं सम्यग्ज्ञानत्वं प्रत्यक्षानुमानयोरविशिष्टं शक्यप्राप्तिविषयञ्च सु[प्।अ।7]दर्शश्च प्रमाणव्यापारः ।
तच्च प्रापणशक्तत्वम् । न तु प्रापणमेव । प्रापणस्योत्तरज्ञानरूपत्वात् ।
तच्च प्रापणशक्तत्वम् प्राप्यादर्थादात्मलाभनिमित्तम् ।
शक्तत्वनिश्चयस्तु ---
अनुमानस्य स्वत एवार्थक्रियानिर्भासस्य च प्रत्यक्षस्य ।
प्रवर्त्तकाध्यक्षस्य तु कस्यचित् स्वत एव यन्निद्राद्यनुपद्रुतमासन्नदेशमाशङ्कितव्यञ्जकदोषं वस्तु गृह्णाति, तद् रूपसं[80]वेदनादेव सत्यार्थमवसीयते । व्यवहारव्युत्पत्तेः प्रभृतिर् हि तथाभूतस्य सततमभिनिश्चिताव्यभिचारित्वात् ।
__________नोतेस्__________
[80] सम्वे- मू- पा- ।
कस्यचित् पुनरर्थाविनाभावः परतो निश्चीयते यदविनाभावसंशयानुवर्त्तितव्यापारम् ।
यथा ---
किमेतत् प्रतिभासमानं सत्यम् ? उत न ? इति ।
यच्च ---
सामान्यसिद्धौ विशेषे संशयसन्दूषितव्यापारम् ।
यथा ---
वृक्षमात्रसिद्धौ -
किमयं धवः ? किं वा पलाशः ? इति ।
पूर्वस्मिन् सर्वात्मनि परतः प्रामाण्यम् ।
परस्मिन् पुनः सामान्येनार्थक्रियाकारि-ग्राहिणी सामान्यस्य विशेषात्मनार्थक्रियाकरणाद् विशेषनिष्ठं प्रामाण्यम् परतस्तु निश्चेतव्यम् ।
किञ्चित् पुनर्विशेषग्राहिप्रतिभासवशान् निश्चितसामान्येऽपि विशेषेऽपि प्रमाणम् ।
[81]यथा---
__________नोतेस्__________
[81] स्ह्: 17.
शिंशपाग्राहिवृक्षत्वे ।
तथा च ---
न क्षणिकत्वं विशेषो न विशेषप्रति [प्।ब्।8] भासान् निश्चितम् ।
अतस्तादृशे प्रमाणान्तरमेव प्रवर्त्तकम् ।
तथा ---

भिन्ने सहचारिणि स्पर्शादौ द्रष्टव्यम् ।
न च ---
अर्थक्रियाज्ञानादेव निश्चयः । अपितु यतः कुतश्चित् । नान्तरी(य)कदर्शनात्
। यो ऽयं सर्वात्मनि संशयः, यश्च विशेषालम्बनः । सर्वो ऽसौ प्रतिभासमानस्यात्मनो ऽध्यवसायं प्रति जनकत्वात् परः ।
तदवसायासामर्थ्ये तद्विषयविमर्शयोगात् ।
प्रतिभासनेन हि स्वविकल्पजननसमर्थेन प्रत्यक्षस्य ग्रहणमुक्तम् ।
निश्चयस्य तु निश्चयनेन व्यापारेण ।
तदेवम् ---
प्रतिभासमानो ग्राह्याकारो बाह्यो ऽर्थग्रहणव्यापारात्मकः, विमर्शेण(न?) जन्यमानेन निश्चेष्यमाणः । अभ्यासावस्थावत् समाप्तः । केवलं संशयः[82]परतो ध्वंसते । न च परं प्रत्यक्षं सत् पूर्वस्य प्रामाण्यं गृह्णाति । न वा तस्मिन्नर्थे लिङ्गम् । तन्मात्रात् संशयध्वंसनेऽन्वयाद्यनुसरणाभावात् ।
__________नोतेस्__________
[82] य- मू- पा- ।
तस्मान् न प्रत्यक्षं व्यापारो धीसंशयः ।
कथं न तद्व्यापारो ऽपरो वा ? यावता शक्यप्रापणविषयोपदर्शनं प्रमाणव्यापारः । शक्य[83]प्रापणश्च विषयः स एव यो नियतः । न च [84]नियमो नाम संशयस्य विषयः । संशयो हि जलने द्वयोः । न च चलयन्नेव नियमयति ।
__________नोतेस्__________
[83] क्यं- मू- पा- ।
[84] स्ह्: 18.
किं वा ---
संशयः प्रतिभासमानार्थावसाय इत्यस्य प्रयासस्य फलम् ---
[प्।अ।8] सत्यम् ।
त्रयो हि योगा विकल्पानां सम्भाव्यते(न्ते ?) । --- समुच्चयो, विकल्पो विरोधश्चेति ।
तत्रैकत्र युगपदभिसम्बध्यमानस्यानियतस्यानेकस्य स्वरूपेण भेदावधारणं स मुच्चयः । यथा ---
नीलञ्च तदुत्पलञ्चेति ---
अनेकत्रानियतैकसमुदायिभेदावधारणं विकल्पः । यथा ---
भयो वा जातिर्वा । शुभं[85]वेति ब्राह्मणशब्दवाच्यम् ।
__________नोतेस्__________
[85] म्वे- मू- पा- ।
बाध्यवा धकभावो विरोधः । यथा ---
सर्पो रज्जुरिति तत्रायं संशयो न समुच्चयस्पर्शी । समुच्चये हि --अयमर्थः स्यात् ।
प्रतिभासमानो ऽर्थः सत्यश्चासत्यश्चेति । न वा विरोधेन प्रवृत्तः ।
न खलु सत्यत्वमपोह्यासत्यत्वं[86]विधत्ते । पारिशेष्यात् पुनर्विकल्पपक्षमाश्रयेत्-ऽस्थाणुर्वा, पुरुषो वेऽ त्यादिवत् ।
__________नोतेस्__________
[86] म्वि मू- पा- ।
तथा चा ---
प्रवर्त्तमानः सशयः पर्यायेण नियतमर्थमवस्य न शक्यप्रापणमेवावस्यति ।
तस्मात्---
न प्रमाणव्यापारोपरोधी ।
[87]जानाति च लोको यथा-ऽअयं प्रतिभासमानो ऽर्थः, कदाचित्, सत्य-एव, कदाचिदसत्य एवेऽ ति ।
__________नोतेस्__________
[87] स्ह्: 19.
अभ्यासार्थमेवं व्युत्पाद्यते । ज्ञाते ह्यर्थाविनाभावित्वनिमित्तप्रापणयोग्योपदर्शनलक्षणे प्रामाण्ये अध्यासेन भवितव्यम् ।

अध्यासात् परतो निरस्तविभ्रमाशङ्कं स्वतः प्रमाणम् ।
अन्येन ज्ञात्वा तदध्यासः ?
इति चेत् ?
न ।
प्रत्य [प्।ब्।9] क्षानुमानाभ्यामुत्तराभ्यां पूर्वज्ञानस्वभावभूतप्रामाण्यपरिच्छेदायोगात् ।
तदेवम्---
शक्यप्रापणप्रवृत्तिविषयोपदर्शनं प्रत्यक्षानुमानयोः सामान्यप्रामाण्यलक्षणम् ।
सामान्यं च व्यक्तिनिष्ठम् ।
प्रत्यक्षं चानुमानं च व्यक्तिभेदः सावधारणः, न शब्दोपमानादिः ।
तथा हि ---
शब्दज्ञानादसन्निकृष्टेऽर्थे ज्ञानं शाब्दम् । शब्दस्य लक्षणग्रहणादुत्तरकालं परोक्षेऽर्थे यदुत्पद्यते ज्ञानं तत् ऽशब्दादागतमिऽति कृत्वा शाब्दं प्रमाणम्, तच् च द्विविधम्, अपौरुषेयशब्दजनितं[88]ऽ प्रत्ययितपुरुषवाक्य[89]जञ्च ।
__________नोतेस्__________
[88] त मू- पा- ।
[89] ह्य इव मूलपाठे ।
आह च ---
ऽशब्दादुदेति यज् ज्ञानमप्रत्यक्षेऽर्थवस्तुनि ।
[90]यद[91]कर्त्तृकतो वाक्याद् यद् वा प्रत्ययितोदितात् ॥
__________नोतेस्__________
[90] स्ह्: 20.
[91] तच्चा ... ... रत्नकीर्त्तिनिवन्घे पाठः ।
न ज्ञानमिदमध्यक्षं परोक्षविषयत्वतः[92]।
__________नोतेस्__________
[92] न ज्ञानमिद.... ....त्वतः ॥ --तं- सं- पं- 433 पृ-, 1590 का- ।
न (+आ) नुमानं च घटते त्रैरूप्येण विशेषतः[93]। ।
__________नोतेस्__________
[93] नऽनुमानं च.... वियोगतः । --त- सं- पं- 433 पृ-, 1490 का- ।
धर्मी धर्मविशिष्टो हि लिङ्गीत्येतत् स निश्चितम् ।
न तावदनुमानं च यावत्तद् विषयं न तत्[94]। ।[95]
__________नोतेस्__________
[94] धर्मी धर्म.... .... निश्चितम् । न तद् ॥ --त- सं- पं- 434 पृ-, 1491 का- ।
[95] न तावदनुमानं.... .... तद् ॥ --त- सं- पं- 434 पृ-, 1491 का- ।
इति ।
ऽयश्चात्र कल्प्यते धर्मी प्रमेयो ऽस्य स एव हि ।
न चानवधृते तस्मिन् तद्धर्मस्यावधारणा[96]। ।[97]
__________नोतेस्__________
[96] न चानवधृते.... .... धारणा ॥ --तं- सं- पं- 434 पृ-, 1492 का- ।
[97] यश्चात्र कल्प्यते.... ...एव हि । ... वघारणा ॥ --त- सं- पं- 434 पृ-, 1492 का- ।
प्राक् स चेत् पक्षधर्मत्वाद् गृहीतं किं ततः परम्[98]। ।
__________नोतेस्__________
[98] प्राक् स चेत् पक्ष.... .... ततः परम् ॥ --त- सं- पं- 434 पृ-, 493 का- ।

पक्षे धर्मादिभिर्ज्ञातैर् येन स्यादनुमानता[99]।
__________नोतेस्__________
[99] पक्षे धर्मादिभि.... .... मानता ॥ --त- सं- पं- 434 पृ-,1493 का- ।
अन्वयो न च शब्दस्य प्रमेयेण निरूप्यते ।
व्यापारेण हि सर्वेषामन्वेतृत्वं प्रतीयते[100]। ।[101]
__________नोतेस्__________
[100] अन्वयो न च शब्दस्य.... .... निरूप्यते । .... प्रतीयते ॥ --त- स- पं- 434 पृ-, 1494 का- ।
[101] व्यापारेण हि... .... प्रतीयते ॥ --त- सं- पं- 434 पृ-, 1494 का- ।
यत्र धूमो ऽस्ति तत्रा[प्2अ।9]ग्नेरस्तित्वेनान्वयः स्फुटः[102]।
__________नोतेस्__________
[102] यत्र भूयो ऽस्ति.... ....नान्वयः स्फुटः ॥ -(म्- पाठयुक्) त- सं- पं- 435 पृ-, 1495 का- ।
नत्वेव यत्र शब्दो ऽस्ति तत्रार्थो ऽस्तीति निश्चयः[103]। ।
__________नोतेस्__________
[103] नत्वेन यत्र.... .... निश्चयः ॥ -(वं निश्चितं पाठयुक्) त- सं- पं- 345 पृ-, 1495 का- ।
न तावत् तत्र देशे ऽसौ न तत्काले च गम्यते[104]।
__________नोतेस्__________
[104] न तावत्तत्र.... .... .... गम्यते ॥ --त- सं- पं- 435 पृ-, 1496 का- ।
तस्माच्छब्द (+स्य?) लिङ्गस्य प्रमेयेणानुमागतिः[105]।
__________नोतेस्__________
[105] तस्माच्छब्द.... .... गतिः ॥ --त- सं- पं- 435 पृ-, 1496 का- ।
भवेन्नित्यविभुत्वाच्चेत् सर्वशव्देषु तत् समम्[106]।
__________नोतेस्__________
[106] भवेन्नित्यविभुत्वा.... .... समम् ॥ --त- सं- पं- 435 पृ-, 1496 का- ।
तेन सर्वत्र दृष्टत्वाद् व्यतिरेकस्य चागतिः[107]। ।
__________नोतेस्__________
[107] तेन सर्वत्र.... ....चागतिः--त- सं- पं- 43 पृ-, 1497 का- ।
सर्वशव्दैर् अशेषार्थप्रतिपत्तिः प्रसज्ज्य[108]ते[109]।
__________नोतेस्__________
[108] ह्य- इव मूलपाठे । fन् 2 दिएसेर् सेइते ओह्ने अन्गबे इम् तेxत् !
[109] सर्वशब्दैरशेषा.... .... प्रसज्ज्यते ॥ --त- सं- पं- 435 पृ-, 1497 का- ।
तस्मादननुमानत्वं शाव्दे प्रत्यक्षवद् भवेत्[110]। ।
__________नोतेस्__________
[110] तस्मादननुमान.... ... भवेत् ॥ त- सं- पं- 435 पृ-, 1497 का- ।
त्रैरूप्यावहितत्वेन तादृग्विषयवर्जनात् ।
अग्निहोत्रादिवचनादकस्मज् ज्ञानजन्मनः[111]। ।[112]
__________नोतेस्__________
[111] अग्निहोत्रादि... ... जन्मनः ॥ -(तः) त- स- पं- 436 पृ-, 1499 का- ।
[112] त्रैरूप्यावहित.... .... वर्जनात् । .... जन्मनः ॥ --त- सं- पं- 435 पृ-, 1497 का- ।
तत्प्रमाणत्वमप्यस्य निराकर्त्तुं न पार्यते[113]। ।
__________नोतेस्__________

[113] तत्प्रमाणत्व.... .... पार्यते ॥ त- सं- पं- 436 पृ-, 1499 का- ।
इति ।
[114]परोक्षार्थसादृश्यपरिच्छेदस्तूपमानम् । तच्च द्विविधमेव ।
__________नोतेस्__________
[114] स्ह्: 21.
सादृश्यात्मकम् ज्ञानात्मकञ्च । तदत्र परिदृश्यमानगवयगतसादृश्यं वस्तुभूतम् ।
सादृश्यस्य च[115]वस्तुत्वं न शक्यमपवादितुम् ।
__________नोतेस्__________
[115] न इव मूलपाठे ।
भूयो ऽवयवसामान्ययोगो जात्यन्तरस्य तत् ।
तस्माद् यत् स्मर्यते तत् स्यात् सादृश्येन विशेषितम् ।
प्रमेयमुपमानस्य साद्रश्यं वा तदाश्रितम्[116]।[117]
__________नोतेस्__________
[116] तस्माद् यत् स्मर्यते... ... विशेषितम् । ... श्रितम् ॥ --त- सं- पं- 819 पृ-, श्लो- व- षा- 444 (तदन्वितम् पाठयुक्)
[117] प्रमेयमुपमानस्य.... ...श्रितम् ॥ -श्लो- वा- प- 444; त- सं- पं- 819 पृ-, 849 पृ-, (तदन्वितम् पाठयुक्)
गां दृष्ट्वायमरण्यान्यां गवयं वीक्षते यदा ।
भूयो ऽवयवसामान्यभाजं वर्त्तुलकण्ठ[118]कम्[119]। ।[120]
__________नोतेस्__________
[118] ण्ट- इव मूलपाठे ।
[119] गां दृष्ट्वाय ... ....यदा । ... कण्टकम् ॥ -त- सं- पृ- 444 पृ-, 152 का- ।
[120] भूयो ऽवयव.... .... कण्ठकम् ॥ -त- सं- पं- 444 पृ-, 1528 का- ।
तदास्य गवये ज्ञातरूपमात्राववोधकम् ।
प्रत्यक्षमेव यच्चापि विशेषणविकल्पकम्[121] । ।[122]
__________नोतेस्__________
[121] तदास्य गवयेऽज्ञान... .... बोधकम् । .... कल्पकम् ॥ -त- स- पं- 444 पृ-, 1529 का- ।
[122] प्रत्यक्षमेव पञ्चापि.... विकल्पकम् ॥ --त- सं- पं- 444 पृ-, 1529 पृ- ।
गवा सदृशरूपो ऽयं पशुरित्येतदी [प्2ब्।1।9] दृशम्[123]।
__________नोतेस्__________
[123] गवा सदृश .... .... दीदृशम् ॥ --त- सं- प- 444 पृ-, 1530 का- ।
अक्षव्यापारसद्भावे जातिः प्रत्यक्षमिष्यते[124]।
__________नोतेस्__________
[124] अक्षव्यापारसद्भावे... ... मिष्यते । त (त्त्व) स (ङ्ग्रह) प (ञ्जिका) 4445 पृ-, 1529 का- ।
तत्र यद्यपि गां स्मृत्वा तज्ज्ञानमुपजायते ।
सन्निधेर्गवयस्थत्वाद् भवेदिन्द्रियगोचरः[125]।[126]
__________नोतेस्__________
[125] तत्र यद्यपि गां... .... जायते । ... गोचरः ॥ त- सं- पं- 444 पृ-, 1541 का- ।
[126] सन्निधे.... .... .... गोचरः ॥ --त- सं- पं- 444 पृ-, 1531 का- ।
सामान्यं च द्विसम्बद्धं प्रत्येकं च समाप्यते ।
प्रतियोगिन्यदृष्टेऽपि यस्मात्तदुपलभ्यते[127]। ।[128]
__________नोतेस्__________

[127] प्रतियोगिन्य.... .... लम्यते ॥ --त- सं- पं- 445 पृ-, 1532 का- ।
[128] सामान्यं च द्विसम्बद्ध.... समाप्यते । .... लभ्यते ॥ -(ऽन्यवद्धि सादृश्यंऽपाठयुक्) त- सं- पं- 445 पृ-, 1532 का- ।
प्रत्यक्षेणावबुद्धेऽपि सादृश्ये ग[129]वि च स्मृते ।
__________नोतेस्__________
[129] व इव मूलपाठे ।
विशिष्टस्यान्यतो ऽसिद्धेरुपमायाः प्रमाणता[130] । ।[131]
__________नोतेस्__________
[130] प्रत्यक्षेणावबुद्धे.... .... स्मृते । .... प्रमाणता ॥ --त- सं- पं- 446 पृ-, 1526 का- ।
[131] विशिष्टस्यान्यतो... ... प्रमाणता । --त- सं- पं- 446 पृ-, 1536 का- ।
प्रत्यक्षेऽपि यथा देशे स्मर्यमाणे च पावके ।
विशिष्टविषयत्वेन नानुमानाप्रमाणता[132]।[133]
__________नोतेस्__________
[132] प्रत्यक्षेऽपि यथा.... .... पावके । .... प्रमाणता ॥ --त- सं- पं- 446 पृ-, 1537 का- ।
[133] विशिष्टविषयत्वेन.... ....प्रमाणता ॥ --त- सं- पं- 446 पृ-, 1537 का- ।
[134]नहि प्रत्यक्षताप्यस्य विदूरस्योपपद्यते ।
__________नोतेस्__________
[134] स्ह्: 22.
इन्द्रियार्थाभिसम्बन्धव्यापारविरहात् तथा[135]।[136]
__________नोतेस्__________
[135] इन्द्रियार्थाभि.... .... .... तथा ॥ त- स- पं- 446 पृ-, 1538 का- ।
[136] न हि प्रत्यक्षता.... .... .... पद्यते । .... तथा ॥ --त- सं- पं- 446 पृ-, 1538 का- ।
त्रैरूप्यानुपपत्तेश्च न तस्याप्यनुमानता ।
पक्षधर्मादिनैवात्र कथञ्चिदपि युज्यते[137]। ।[138]
__________नोतेस्__________
[137] त्रैरूप्यानुप.... ....प्रमाणता । .... युज्यते ॥ --त- सं- पं- 436 पृ-, 1539 का- ।
[138] पक्षधर्मादि.... .... युज्यते । --त- सं- पं- 446 पृ-, 1539 का- ।
प्राक् प्रमेयस्य सादृश्यं तद्धर्मत्वेन गृह्यते ।
गवये गृह्यमाणं च न गवामनुमापकम्[139]। ।[140]
__________नोतेस्__________
[139] गबये गृह्य.... .... मापकम् ॥ --त- सं- पं- 443 पृ-,1540 का- ।
[140] प्राक् प्रमेयस्य.... .... गृह्यते । .... मापकम् ॥ --त- सं- पं- 446 पृ-, 1540 का- ।
प्रतिज्ञार्थैकदेशत्वात् गोगतस्य न मानता[141]।
__________नोतेस्__________
[141] प्रतिज्ञार्थैकदेश.... ....लिङ्गता । --त- सं- पं- 447 पृ-, 1541 का- ।
गव (यश्चाप्यसम्बन्धान्न गोलिङ्गत्वमृच्छति[142]। ।
__________नोतेस्__________
[142] गवय.... .... .... मृच्छति ॥ -त- सं- पं- 447 पृ-, 1541 का- ।
[नचा[143]]) प्रमाणं तज्ज्ञानमज्ञानार्थप्रकाशनात्[144]। ।
__________नोतेस्__________
[143] ना- मू- पा- ।

[144] न चाप्र.... .... .... नात् ॥ -तं- सं- पं- 447 पृ-, 1542 का- ।
गवयालोकनात् पूर्वं तत्सादृश्यानवग्रहात्[145]। ।
__________नोतेस्__________
[145] गवयालोक... .... .... ग्रहाद् ॥ -त- सं- पं- 447 पृ-, 1542 का- ।
इति ।
(प्रसिद्धसाधर्म्य (-आत् ?) संज्ञासंज्ञिसम्बन्धस्य साधन)[146]मुपमानमिति प्रसिद्धेन गवा साधर्म्यं सादृश्यलक्षणं यस्य स प्रसिद्धसाधर्म्यो गवयः ।
__________नोतेस्__________
[146] मूलेऽपाठ्यमपि यथाकथञ्चित् पठितम् ।
तस्मा [प्2अ।2।8] (दिति)[147]ल्यब्लोपे पञ्चमी । तमेव हेतुं कृत्य (त्वा?) साध्यो यः संज्ञासंज्ञिसम्बन्धः । तस्य साधनं सिद्धिर्या प्रतिपत्तिः सोपमानमिति । अनेनैतदुक्तं भवतिः ---
__________नोतेस्__________
[147] मूलेऽपाठ्यमपि यथाकथञ्चित् पठितम् ।
"गौरिव गवयऽ इ[148](ति वृद्धस्या[149]) ऽऽदेशवाक्यश्रवणात् अनेन गवा सदृशे प्राणिनि परोक्षेऽविशेषतो गवयसम्बन्धो येन प्रथमं प्रतिपन्नः स्यात् ।
__________नोतेस्__________
[148] मूलेऽपाठ्यमपि यथाकथञ्चित् पठितम् ।
[149] मूलेऽपाठ्यमपि यथाकथञ्चित् पठितम् ।
पश्चादरण्यं गत्वा गवयदर्शना (द् वृद्धाति)[150]देशवाक्यं स्मृत्वा च एवं प्रतिपद्यतेः ---
__________नोतेस्__________
[150] इदमप्यपाठ्यं कथञ्चित् पठितम् ।
ऽअयमेव स प्राणी गवयशब्दवाच्यः यो मया पूर्वमविशेषतो गवयसंज्ञकः प्रतिपन्नऽ इति ।
[151]पूर्वं ह्यविशेषतः संज्ञासम्बन्धप्रतिपत्तिरा[152]सीत् । इदानीं तया व्यक्तिविशेषविषयनिष्ठा संज्ञासंज्ञिसम्बन्धप्रतिपत्तिः[153]प्रजायते ।
__________नोतेस्__________
[151] स्ह्: 23.
[152] शो- - मू- पा- ।
[153] पत्तित---मू- पा- ।
सोपमानं प्रमाणान्तरम् ।
अन्ये पुनरमुमेवार्थमाहुः ---
आगमाहितसंस्कारस्मृत्यपेक्षात् साधर्म्यज्ञानात् समाख्यासम्बन्धप्रतिपत्तिरुपमानम् । ऽगौरिव गवयऽ इत्यतिदेशवाक्यमागमः । तेनाहितो ज्ञानजो ज्ञानहेतुश्चेत्येवंलक्षणो यः संस्काराख्यो गुणः, ततो यातिदेशवाक्यात् स्मृतिरुपजायते, अरण्ये गवयदर्शनात्, तामपेक्षते यत्, साधर्म्यज्ञानं तत्, तथोक्तम् । समाख्या = संज्ञाशब्द इतियावत् । तस्याः[154]सहार्थन यः सम्बन्ध[155]स्तस्य प्रतिपत्तिरुपमानम् ।
__________नोतेस्__________
[154] स्या - - मू- पा- ।
[155] ऽधःस्त---मू- पा- ।
आह च ---
श्रुता[प्2ब्।2।8]तिदेशवाक्यस्य समानार्थोपलम्भने ।
संज्ञासम्बन्ध (+योः?) ज्ञानमुपमा कैश्चिद् इष्यते[156]। ।[157]
__________नोतेस्__________
[156] श्रुतातिदेश... .... .... लभ्यते । ....इष्यते ॥ -त- सं- पं- 451 पृ-, 1563 का- ।
[157] संज्ञा... ... ....इष्यते -त- सं- पं- 451 पृ-, 1563 का- ।
इति ।
दृष्टो श्रुतो वार्थो ऽन्यथा नोपपद्यतऽ इत्यदृष्टकल्पनार्थापत्तिः ।
प्रमाणषट्कविज्ञातो यत्रार्थो नान्यथा भवन् ।
अदृष्टं कल्पयेदन्यं सार्थापत्तिरुदाहृता[158]। ।[159]

__________नोतेस्__________
[158] अदृष्टं कल्पयेदन्यं... .... रुदाहृता ॥ त- स- पं- 456 पृ-, 1587 का- ।
[159] प्रमाणषट्कवि.... .... भवन् । .... हृता । । -त- सं- पं- 456 पृ-, 1587 का- ।
तत्र प्रत्यक्षतो ज्ञाताद् दाहाद् दहनशक्तता ।
वह्नेरनुमिता [त्सूर्ये मानात्] तच्छक्तियोगिता[160]। ।[161]
__________नोतेस्__________
[160] तत्र प्रत्यक्षतो.... .... शक्तता । योगिता ॥ --त- सं- पं- 457 पृ-, 1588 का- ।
[161] बह्वेरनुमिता (त्सूर्ये).... .... योगिता ॥ --त- सं- पं- 457 पृ-, 1588 का- ।
शक्तयः सर्वभावानां कार्यार्थापत्तिसाधनाः ॥
अपूर्वास्ताश्च गम्यन्ते सम्बन्धग्रहणाद् ऋते[162]। ।[163]
__________नोतेस्__________
[162] अपूर्वास्ताश्च गम्यन्ते... .... दृते ॥ --त- स- पं- 457 पृ-, 1589 का- ।
[163] शक्तयः सर्वभावानां.... ....साधनाः ॥ .... दृते ॥ --त- सं- पं- 457 पृ-, 1589 का- । 620 पृष्ठे च । (पूर्वार्धमात्रम्) 751 पृ-, 2840 का- ॥ 813 पृष्ठेऽपि ।
[164]नचासां पूर्वसम्बन्धो न चान्यो गृह्यतेऽधुना।
__________नोतेस्__________
[164] स्ह्: 24.
कार्यैः सह यतः स्यातां पक्षधर्मान्वयाविह[165]। ।[166]
__________नोतेस्__________
[165] कार्यैः सह यतः.... ....विह ॥ --त- स- पं- 457 पृ-, 1560 का- ।
[166] न चासां पूर्व.... ....ऽधुना । ....विह ॥ --तं- सं- पं- 457 पृ-, 1590 का- ।
श्रोत्रादिशक्तिपक्षे वा यावान् हेतुः[167]प्रयुज्यते ।
__________नोतेस्__________
[167] ऽस्या इति लिखित्वा छिन्नम् मूलपाठे ।
सर्वो ऽसावाश्रयासिद्धो धर्मासिद्धः प्रयुज्यते ॥[168][169]
__________नोतेस्__________
[168] श्रोत्रादिशक्तिपक्षे... .... युज्यते । ....प्रयुज्यते । --त- सं- पं- 457 पृ-, 1561 का- ।
[169] सर्वो ऽसावाश्रया.... .... प्रयुज्यते --त- सं- पं- 457 पृ-, 1591 का- ।
ऽपीनो दिवा न भुङ्क्ते चेत्येवमादिवचःश्रुतौ ॥
रात्रिभोजनविज्ञानं श्रुतार्थापत्तिरुच्यते[170] । ।[171]
__________नोतेस्__________
[170] पीनो दिवा न.... .... श्रुतौ । .... रुच्यते ॥ --त- सं- पं- 457 पृ-, 1495 का- ।
[171] रात्रिभोजनविज्ञानं.... ....रुच्यते --त- सं- पं- 457 पृ-, 1592 का- ।
न रात्र्यादिपदार्थश्च दिवावाक्येऽवगम्यते ।
न दिवादिप[172]दार्थानां संसर्गो रात्रिभोजनम्[173]। ।[174]
__________नोतेस्__________
[172] ऽष्ठऽइति लिखित्वा छिन्नमस्ति मूलपाठे ।
[173] न दिवादि.... .... भोजनम् ॥ --त- सं- पं- 458 पृ-, 1593 का- ।
[174] न रात्र्यादि.... .... .... गम्यते । ....भोजनम् ॥ --त- सं- पं- 458 पृ-, 1593 का- ।
न भेदो येन तद्वाह्यं तस्य स्यात् प्रतिपादकम् ।
अन्यार्थव्यापृ[175]तत्वाच्च न द्वितीयार्थकल्पना[176]। ।[177]

__________नोतेस्__________
[175] ऽदिऽमू- पा- ।
[176] अन्यार्थव्यापृतत्वा... .... कल्पना ॥ --त- स- पं- 458 पृ-, 1594 का- ।
[177] न भेदो येन.... .... पादिकम् । .... कल्पना ॥ --त- सं- पं- 458 पृ-, 1594 का- ।
तस्माद् वाक्यान्तरेणायं बुद्धिस्थेन प्रतीयते ।
तेनानागमिकत्वेऽपि यत्तद् वाक्यं प्रतीयते[178]। ।[179]
__________नोतेस्__________
[178] तस्माद् वाक्या.... ....प्रतीयते । ....प्रतीयते ॥ --त- सं- पं- 458 पृ-, 1595 का- ।
[179] तेनानागमिक.... .... प्रतीयते । ....त- सं- पं- 458 पृ-, 1595 का- ।
प्रमाणं तस्य वक्तव्यं प्रत्यक्षादिषु यद् भवेत्[180]।
__________नोतेस्__________
[180] प्रमाणं तस्य.... ...यद् भवेद् ॥ --त- सं- पं- 158 पृ-, 1596 का- ।
नत्वन्नुचारि [प्2अ।3।7] ते वाक्ये प्रत्यक्षं तावदिष्यते[181]। ।
__________नोतेस्__________
[181] न त्वनुच्चारिते.... ....दिष्यते ॥ --त- सं- पं-, 458 पृ-, 1596 का- ।
नानुमानं नहीदं हि दृष्टं तेन सह क्वचित्[182] ।
__________नोतेस्__________
[182] नानुमानं न हीदं.... .... क्वचित् । --त- सं- पं- 458 पृ-, 1597 का- ।
यदि त्वनुपलब्धेऽपि सम्बन्धे लिङ्गमिष्यते ॥
तदुच्चारणमात्रेण सर्ववाक्यमतिर्भवेत्[183]।[184]
__________नोतेस्__________
[183] तदुच्चारण.... .... भवेत् ॥ --त- सं- पं- 438 पृ-, 1598 का- ।
[184] यदित्वनुपलव्धे .... मिष्यते । र्भवेत् ॥ --त- सं- पं- 458 पृ-, 1597 का- ।
सम्बन्धरहित्वेन नान्यतस्तद् विशिष्यते ।
गवयोपमिता या गौस्तज्ज्ञानग्राह्यशक्तता[185]। ।[186]
__________नोतेस्__________
[185] गबयो .... ... .... शक्ता ॥ --त- सं- पं- 459 पृ-, 1699 का- ।
[186] सम्वन्धरहितत्वेन.... .... शिष्यते । .... शक्ता --त- सं- पं- 458 पृ-, 1598 का- ।
उपमावलसम्भूतसामर्थ्ये न प्रतीयते ।
अभिधा नान्यथा सिद्ध्येदिति वाचकशक्तताम्[187]।[188]
__________नोतेस्__________
[187] अभिधानान्यथा.... ....शक्तताम्। । --त- स- पं- 459 पृ-, 1600 का- ।
[188] उपमाबल.... .... .... प्रतीयते । ... शक्तताम् ॥ त- स- पं- 459 पृ-, 1599 का- ।
अर्थापत्त्यावगम्यैव तदनन्यगतेः पुनः। ।
[189]अर्थापत्त्यन्तरेणैव शब्दनित्यत्वनिश्चयः[190][191]।
__________नोतेस्__________
[189] स्ह्: 25.
[190] अर्थापत्त्यावगम्यैव.... .... पुनः । .... निश्चयः ॥ -त- सं- पं- 459 पृ-, 1600 का- ।
[191] अर्थापत्त्यन्तरेणैव ........ निश्चयः। । --त- सं- प- 459 पृ-, 1601 का- ।
अनित्यो हि न सङ्केतव्यवहारानुवृत्तिभाग्[192]। ।

__________नोतेस्__________
[192] अनित्यो हि न... ... भाग् ॥ -त- स- पं- 459 पृ-, 1601 का- ।
इति ।
"प्रमाणाभावनिर्णीतचैत्राभावविशेषितात् ।
गेहाच्चैत्रबहिर्भावसिद्धिर्या त्विह वर्णिता[193]। ।[194]
__________नोतेस्__________
[193] गेहाच्चैत्र.... ... बर्णिता। -त- सं- पं-, 460 पृ-, 1602 का- ।
[194] प्रमाणाभाव.... ....विशेषितात् । .... वर्णिता। । -त- सं- पं- 460 पृ-; 1602 का- ।
तामभावोत्थितामन्यामर्थापत्तिमुदाहरेत् ।
पक्षधर्माद्यनङ्गत्वाद् भिन्नैषाप्यनुमानतः[195]। ।[196]
__________नोतेस्__________
[195] तामभावो.... .... ....हरेत् । .... नुमानतः। । -त- सं- पं- 460 पृ-, 1603 का- ।
[196] पक्षधर्माद्य.... ....नुमानतः । -त- सं- पं- 460 पृ-, 1303 का-
बहिर्देशविशिष्टेऽर्थे देशे वा तद् विशेषिते !
प्रमेये यो गृहाभावः पक्षधर्मस्त्वसौ कथम्[197]? ॥[198]
__________नोतेस्__________
[197] प्रमेये यो गृहाभावः.... .... कथम्। । -त- सं- पं- 460 पृ-, 1604 का- ।
[198] बहिर्देशविशि.... ....ते । ....किम्। । -त- सं- पं- 460 पृ-, 1604 का- ।
जीवतश्च गृहाभावः पक्षधर्मो न[199]कल्प्यते ।
__________नोतेस्__________
[199] ऽन विक-ऽमू- पा- ।
तत्संवित्तिबहिर्भावं न चाबुद्ध्वोप[200]जायते[201]।[202]
__________नोतेस्__________
[200] ऽजायऽइति द्विवारं लिखितं मूलपाठे ।
[201] जीवतश्च गृहाभाब.... कल्प्यते । .... जायते। । -त- सं- पं- 460 पृ-, 1605 का- ।
[202] तत्संवित्ति.... .... जायते ॥ -त- सं- पं- 460 पृ-, 1605 का- ।
गेहाभावस्तु यः शुद्धो विद्यमानत्ववर्जितः ।
स मृतेष्वपि दृष्टत्वाद् बहिर्वित्तेर्न साधकः[203]। ।[204]
__________नोतेस्__________
[203] गेहाभावस्तु .... ...वर्णितः- । ... साघकः ॥ त- सं- पं- 460 पृ-, 1606 का- । श्लो- वा- ।
[204] स मृतेष्वपि........ साधकः । -त- सं- पं- 460 पृ-, 1606 का- ।
यत्र चतसृभिः शक्तिरेव प्रमीयते । एकया शब्दनित्यत्वम्, अपरया बहि (---:?) स्थितं द्रव्यमेवेति पिण्डार्थः ।
प्रमाण [प्2ब्।3।7] पञ्चकं यत्र वस्तुरूपे न जायते ।
वस्तुसत्तावबोधार्थं तत्राभावप्रमाणता[205] । ।[206]
__________नोतेस्__________
[205] प्रमाणपञ्चकं.... .... जायते । .... प्रमाणता । । --श्लो- वा- अभाव, 1, 2, 11; हे- वि- टी- अर्चटेनोद्धृतम् 200 पृ-, ।; त- सं- पं- 470 पृ-, 1648 का- ॥
[206] वस्तुसत्ताव.... ....प्रमाणता ॥ -श्लो- वा- अभाव, 1,2,11 । । -त- सं- पं- 470 पृ-, 1648 का- ।
इह सर्वमेव वस्तु सदसद्रूपेण द्व्यात्मकमिति ।
"प्रत्यक्षादेरनुत्पत्तिः प्रमाणाभाव इष्यते ।
सात्मनः परिणामो वा विज्ञानं वान्यवस्तुनि[207] । ।[208]

मूल पाठ: Tarkarahasya · Edition: Paramanandan Shastri, Patna 1979 (Tibetan Sanskrit Work Series, 20) · Data entry Helmut Krasser · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc