भाषा

ENहिગુ
ग्रंथ पाठ

स्वयंभुपुराण · अध्याय 8

8.1

इति श्रीस्वयंभूधर्म्मधातुवागीश्वर गुप्तिकृत प्रवर्त्तनो नाम सप्तमो ऽध्यायः समाप्तः ।
अष्टम अध्यायः स्वयम्भूचैत्याश्रमनाम साधनासुवृष्टिचरणो नाम
अथ स भगवाञ्छास्ता स समाधेरुत्थितः पुनः ।
मैत्रेयं तं सभां चापि समालोक्यैवमादिशत्

8.2

शृणु मैत्रेय भूयो स्या एतद् देवानुभावतः ।
सिद्धभूमेः प्रवक्षापि महत्सिद्धि प्रभावतां

8.3

तद्यथात्रोपछन्दोहे सिद्धलोक हिमालय ।
नेपाल इति विख्याते एतद्देवानुभावतः

8.4

सदा भद्रमहोत्साहं सुभिक्षं निरुपद्रवं ।
सर्वद्रव्यसमापन्न समृद्धाधमवर्त्तत

8.5

तदा सर्वत्र लोकाश्च दशकुशलचारिणः ।
त्रिरत्नभजनारक्ताः प्राचरन्तः सहाशुभ

8.6

एतत्पुण्यानुलिप्तास्ते चतुर्ब्रह्मविहारिणः ।
भद्रश्रीसद्गुणाधीरा बभूवुर्बोधिचारिणः

8.7

एवमेषां प्रसिद्धाभूदृद्धिसिद्धिगुणार्थदा ।
ऋद्धास्फीता सुभिक्षा श्रीसमाश्रयाभिशोभिताः

8.8

तेनात्र योगिनो विज्ञा यतयो ब्रह्मचारिणः ।
स्मृत्वा ध्यात्वा कुलेशानं समाराध्य समाश्रयन्

8.9

तथान्ये ऽपि सुलोकाश्च समागत्य प्रसादिताः ।
धर्मधातुमिमं भक्त्या भजमानाः समाश्रयन्

8.10

सर्वष्वपि च तीर्थेषु स्नानदानादि संबरं ।
कृत्वाष्टौ वीतरागांश्च भजन्त समुपाश्रयन्

8.11

एताश्च देवताः पञ्च समाराध्य यथाविधि ।
भजमाना सदोत्साहैः प्राचरन्त समाहिताः

8.12

तदा खगाननादेवीं समाराध्य यथाविधि ।
भजमाना महोत्साहैः प्राचरन्त सदा शुभं

8.13

एवमिमं च पुच्छाग्रं चैत्यं मञ्जुश्रियापि ते ।
सर्वे लोकाः समाराध्य प्राभजन्त प्रसादिताः

8.14

एवं सर्वे ऽपि लोकाश्च सद्धर्म्माभिरता मुदा ।
सदा भद्राणि कर्म्माणि कृत्वात्र सर्व्वदाश्रयन्

8.15

एवमेषां महासिद्धि भूमिः श्रीसंप्रशोभिताः ।
महाजन समाकीर्ण्णा सर्वभूम्युत्तमा वभौ

8.16

ततः कालान्तरेणात्र राजा भूमि यतिर्नृपः ।
श्रीगुणकामदेवाख्य शास्ता लोकाधिपाभवत्

8.17

तदा स नृपतिः प्रौढा युवा कामातिलालसः ।
यथा कामरसं भुक्त्वा प्राचरन् स्वेच्छयारमन्

8.18

ततः स क्षत्रियाप्येवं कामभागाभिमोहिताः ।
प्रमदा गुणसंरक्ता नीतिधर्मे निरादरः

8.19

दृष्ट्वा स सुन्दरीं कान्तामगम्यामपि मोहितः ।
बलेनापि समाकृष्य वुभुजे स्वेच्छया मुदा

8.20

एवं स नृपराजापि कामधर्म्मातिलालसः ।
मन्त्रिषु सर्व राज्याङ्ग निवेश्य स्वेच्छया रमेत्

8.21

ततः स्ते मन्त्रिणः सर्वे नृपं तं प्रमदा वशे ।
प्रतिष्ठाप्य यथाकामं भुक्त्वा चरन् यथेच्छया

8.22

तथा भृत्या जनाश्चापि सर्वे ऽपि क्लेशिताशयाः ।
सद्धर्म्माणि प्रतिक्षिप्य प्राचरन् कामभागिनः

8.23

ब्राह्मणाश्च तथा सर्वे दशाकुशल चारिणः ।
स्वकुलधर्म्ममर्यादं त्यक्त्वा चरन् यथेच्छया

8.24

वैश्याश्चापि तथा धर्म्मद्रव्यसंग्रहलालसाः ।
स्वकुलवृत्तिमुत्सृज्य भुक्त्वा चरन् यथेप्सितं

8.25

महाजनास्तथा सर्वेप्यन्यायद्रव्यसाधिनः ।
स्वकुलधर्ममुत्सृज्य भुक्त्वैव प्राचरन् सुखं

8.26

वणिजो ऽपि तथा सर्वे मिथ्यार्थसाधनोद्यताः ।
सत्यधर्म प्रतिक्षिप्य चेरुः क्लेशाभिमानिताः

8.27

शिल्पिनो ऽपि तथा सर्वे कवलभृतिलालसाः ।
अविधिज्ञाः प्रमादान्धाश्चक्रुः कर्म्म यंथेच्छया

8.28

तथा नारीजनाश्चापि कामक्लेशाः कुलाशयाः ।
स्वकुलधर्ममृत्सृज्य प्राचरन्त यथेप्सितं

8.29

एवं सर्वे ऽपि लोकाश्च दशाकुशलसंरताः ।
स्वकुलाचारमुत्सृज्य प्राचरन्त यथेच्छया

8.30

तीर्थिकाश्चापि ये दुष्टास्ते दृष्ट्वैवं जिनालयं ।
निन्दित्वा परिभाषन्तः प्राचरन्त यथेच्छया

8.31

तदात्र वहवो दुष्टा चौरा धूर्त्ताः प्रगल्भिकाः ।
साधुजनाः प्रतिक्षिप्य चेरु मत्तद्वीपा इव

8.32

साधवः सज्जनाश्चापि नीचकर्मानुचारिणः ।
सद्धर्म्मविरतोत्साहाश्चेरु भुक्त्वैव नीचवत्

8.33

तदैवं पापसंचारात् सर्वत्राप्यचरत् कलिः ।
सद्धर्म्मो दुर्वली भूतो नीचवद्विलयं ययौ

8.34

तदात्र प्रवरीभूते कलिसंचार वर्त्तते ।
दृष्ट्वा लोकाधिपाः सर्वे भवन्रुष्टपरान्मुखाः

8.35

ततो ऽत्र विमुखीभूय सर्वलोकाधिपा अपि ।
धिग्नृपमिति बा दन्तो द्रष्टुमपि न चेच्छिरे

8.36

तदात्र लोकपालानां सुदृष्टिविरतोत्सवे ।
ईतयः समुपाक्रम्य प्रावर्त्तितुमुपाचरत्

8.37

ततो देवा अपि क्रूरा ये दुष्टा मारपाक्षिकाः ।
सर्वे तत्र रूपालोक्य महोत्पातं प्रचक्रिरे

8.38

वह्निरपि तथालोक्य दुष्टवत् कोपिताशयः ।
धूमाकुलार्चिषा दग्धा महोत्पातं व्यधादिह

8.39

धर्मराजापि रुष्टाभून् निर्दयां निरुजानपि ।
निहन्तुं प्राणिनः सर्वान् महामारीमचारयत्

8.40

नैऋत्या राक्षसेन्द्रो ऽपि प्रकोपितातिनिर्दयः ।
सर्वत्रापि प्रविष्टो ऽत्र महोत्पातं व्यधात्सदा

8.41

वरुणो नागराजापि प्रदुष्टः क्रूरचक्षुषा ॥
दृष्ट्वा वारिवहान् मेघान् सर्वान् वृष्टिं न्यवारयेत्

8.42

मरुतो ऽपि तथालोक्य प्ररुष्टा निर्दया स्थिताः ।
असाध्यं प्रचरन्तात्र महोत्पातं प्रचक्रिरे

8.43

तथा यक्षाश्च ये दुष्टाः किन्नरा गुह्यका अपि ।
गृहे गृहे प्रविश्यापि रोगोत्पातं प्रचक्रिरे

8.44

तथा भूताः पिशाचाश्च वेतालाः कटपूटिनाः ।
डाकिण्यः प्रमथाश्चापि शाकिन्यः सगणा अपि

8.45

रुद्रा अपि सगन्धर्वा कुम्भाण्डा गरुडा अपि ।
सर्वत्र प्रचरन्तो ऽत्र महोत्पातं प्रचक्रिरे

8.46

मातृका अपि सर्वाश्च सगणा अप्रसादिताः ।
सुदुष्टवालोक्य सर्वान् स्तान् द्रक्षितुं न समाहिरे

8.47

ग्रहास्तारागणाः सर्वे विरुद्धा अप्रसादिताः ।
अनुसंदर्शनं वापि कर्तु नैवाववांञ्छिरे

8.48

कुलेशा अपि सर्वाश्च देवता अप्रसादिताः ।
संत्रात समर्थास्तान् पश्यंत्य एव तस्थिरे

8.49

एवमन्येपि देवाश्च सर्वत्राणपराङ्मुखाः ।
तेषां संदर्शनं कर्तुमपि नैव वांछिरे

8.50

तेषां त्रातुं तदेकापि न शशाक कथंचन ।
एवमत्र महोत्पातं प्रावर्त्तत समन्ततः

8.51

एवमत्र महोत्पातं प्रर्वर्त्तते ऽपि सर्वतः ।
सर्वक्लेशा हतात्मानः प्रचक्रु विग्रहं मिथः

8.52

तदेवं कलिसंरक्तान् सर्वान् लोकान् विलोक्य सः ।
नृपतिः सुचिरं ध्यात्वा मनसैवं व्यचिन्तयत्

8.53

हा कष्टं पापजं धोरं जायते ऽत्राधुना मम ।
तत्पापशमनायायं को दधान्महिताशयः

8.54

कथमिह महद्दुःखं शमीकर्त्तुं विधास्यते ।
पश्यन्नेवमुपेक्ष्यैव रमेयं साम्प्रतं च किं

8.55

यो हि राजा प्रजादुःखमुपेक्ष्य रमते सुखं ।
स किं राजा प्रभुर्भत्तां दुष्टाहिवद्विगर्ह्यते

8.56

यत्र राजा प्रजादुःखमुपेक्ष्य न विचारयेत् ।
स्वयमेव सुखं भुक्त्वारमंश्चरेयथेच्छया

8.57

तत्र सर्वप्रजा लोकाः क्लेशव्याकुलमानसाः ।
सत्यधर्मकुलाचारं हित्वा चरेयुरौद्धटाः

8.58

ततस्ते दुरितारक्ता दशकुशलचारिणः ।
महापापे ऽपि निर्लज्जाः संचरेरन् यथेच्छया

8.59

एतत् सर्व महत्पातं र्भुजीयान्नृपतिर्ध्रुवं ।
इति सत्यं समाख्यातं नीतिविज्ञैर्महर्षिभिः

8.60

इत्येतत्पापवैपाक्यं भोक्तव्यं हि मया भव ।
तदत्र किं करिष्यामि यदुपायं न मन्यते

8.61

धिग् जन्म मे ऽत्र संसारे यस्य राज्ये सदा कलिः ।
दुर्भिक्षादि महात्पातं प्रवर्त्तते दिवानिशं

8.62

धन्यास्ते पुरुषा ये हि निःक्लेशा विमलाशया ।
विमुक्त भव संचारा भिक्षवो ब्रह्मचारिणः

8.63

किं मे ऽत्र जन्म संसारे सुकुलमपि प्रभोर्नृणां ।
यदहं पशुवद् भुक्त्वा काममेव रमे गृहे

8.64

तदेततपापलिप्तो ऽहं क्लेशव्याकुलमानसः ।
नरकेषु भ्रमन् दुःखं भुंजीयां विविधं सदा

8.65

तदा को मे सुहृत् मित्रं संरक्षितुमुपाचरत् ।
धर्ममेव तदा त्राणं सर्वदुःखापहं भवे

8.66

धर्माणां प्रवरं बौद्धं धर्मं सर्वभयापहं ।
सर्वार्थसाधनं सिद्धमित्याख्यातं जगद्धितं

8.67

इत्यहं साम्प्रतं गत्वा गोशृङ्गे पर्वते स्थितं ।
शान्तश्रियं महाचार्यं प्रार्थयेयं समादरात्

8.68

स एव हि महाचार्य एतदुत्पातशान्तये ।
विधानं समुपादिश्य कुर्यान्मे ऽत्र हितं सदा

8.69

इति निश्चित्य भूपालः पुरोहितं समन्त्रिणः ।
महाजनान सपौरांश्च समामन्त्रयैवमादिशत्

8.70

भो भवन्तो यदत्रैवं महोत्पातं प्रवर्त्तते ।
तच्छान्तिकरणं धर्मं कर्त्तुमिच्छामि सांप्रतं

8.71

तदाचार्य महाभिज्ञं शान्तिश्रियं समादरात् ।
प्रार्थयित्वा तदा देशाद् धर्त्तुमिच्छामि सदृशं

8.72

इति सर्वे वयं तत्र गोशृङ्गे ऽग्रे समादरात् ।
शान्तश्रियं महाचार्य संप्रार्थितुं वज्रावहै

8.73

इत्यादिष्टं नरेन्द्रण श्रुत्वा पुरोहितादयः ।
सर्वे तथेति विज्ञप्य प्राभ्यनन्दन् प्रबोधिताः

8.74

ततः स नृपती राजा समन्त्रिजनपौरिकाः ।
पुरोहितं पुरोधाय गोशृङ्गे ऽग्रे मुदाचरत्

8.75

तत्र दृष्ट्वा तमाचार्य नृपतिः संप्रमोदितः ।
समेत्य साञ्जलिर्नत्वा पादाब्जे समुपाश्रयत्

8.76

तथा सर्वे ऽपि लोकाश्च समीक्ष्येनं प्रसादिताः ।
समेत्य पादयोर्नत्वा समुपतस्थिरे मुदा

8.77

तान् सर्वान् समुपासीनान् समीक्ष्य स महामतिः ।
शान्तश्रीस्तं महीपालं सम्पश्यन्नेवमादिशत्

8.78

राजन् सदास्तु वो भद्रं सर्वत्रापि निरन्तरं ।
किमर्थमिह प्रायासि तत् मे ऽग्रे वक्तुंमर्हसि

8.79

इति शान्तश्रिया प्रोक्ते नृपतिः स कृताञ्जलिः ।
प्रणत्वा तं महाचार्य पश्यन्नेवं न्यवेदयेत्

8.80

भो श्रीशास्तयदर्थे ऽहं भवच्छरणमाव्रजे ।
तदर्थ प्रार्थयाम्यत्र मे समुपादेष्टुमर्हति

8.81

यत् मे ऽत्र पापतो राज्ये महोत्पातं प्रवर्त्तते ।
तच्छान्तिकरणोपायं समुपादेष्टुमर्हति

8.82

इति संप्रार्थिते राज्ञा शान्तश्री मन्त्रवित् सुधीः ।
नृपते तं महासत्त्वं समालोक्यैवमादिशत्

8.83

नृपते पापतो ऽत्रैवं महोत्पातं प्रवर्त्तते ।
तत्पापशमनोपायं वक्षामि ते शृणुष्व तत्

8.84

यत्वमत्र नृपा राजा सर्वधर्मानुपालकः ।
नीतिधर्म्मानुसारेण संपालयसि न प्रजाः

8.85

मन्त्रिणो ऽपि तथा सर्वनीतिधर्मपराङ्मुखाः ।
भुक्त्वा कामसुखान्येव प्रचरन्ति यथेच्छया

8.86

तथा भृत्या जनाश्चापि पौराश्चापि महाजनाः ।
स्वकुलधर्ममुत्सृज्य प्रचरन्ति यथेच्छया

8.87

एवं सर्वे ऽपि लोकाश्च दशाकुशलचारिणः ।
सद्धर्माणि प्रतिक्षिप्य प्रचरन्ति प्रमादतः

8.88

तदैतत् पापवैपाक्यं भोक्तव्यंमेव हि भव ।
येनैव यत्कृतं कर्म्म भोक्तव्यं तेन तत्फलं

8.89

एवं मत्वा नृपः स्वामी स्वयं नीत्या विचारयन् ।
बोधयित्वा प्रयत्नेन लोकान् संपालयत् सदा

8.90

यद्यत्र नृपतिः सम्यग विचार्य प्रमादतः ॥
स्वयं कामसुखान्येव भुक्त्वा चरद्यथेच्छया

8.91

तथा सर्वे ऽपि लोकाश्च नृपचर्यानुचारिणः ।
भुक्त्वा कामसुखान्येव प्रचरेयुर्यथेच्छया

8.92

तदा तत्र महोत्पातं प्रवर्त्तत् पापतो ध्रुवं ।
प्रवर्त्तिते महोत्पात लोका स्युः पापदुःखिताः

8.93

तत्र तान् नृपतिः पश्यन्नुपेक्ष्यं निर्दयश्चरत् ।
लोकसंरक्षणे असक्तः स सर्वपापभाग् भवेत्

8.94

सर्वाण्यपि हि पापानि सर्वलोकैः कृतान्यपि ।
पतित्वा नृपतेरग्रे प्रदद्युस्तत्फलानि हि

8.95

इति सत्यं समाख्यातं सर्वैरपि मुनीश्वरैः ।
नत्वा राजा स्वयं नीत्या विचारयन् समाचरेत्

8.96

इति तेन समादिष्टं शान्तश्रिया सुमन्त्रिणा ।
श्रुत्वा स नृपतीर्भीत्या संतापतापिताशयः

8.97

शान्तश्रियं तमाचार्य समीक्ष्य शरणं गतः ।
नत्वा पादाम्बुजे भूयः प्रार्थयदेवमादरात्

8.98

शास्तः सदा चरिष्यामि भवदाज्ञां शिरावहन् ।
तत् मे यदुचितं धर्म्म तत् समादेष्टुमर्हति

8.99

इति संप्रार्थितं राज्ञा श्रुत्वाचार्यः स सत्मतिः ।
नृपतिं तं महासत्त्वं सम्पश्यन्नेवमादिशत्

8.100

राजञ्छृणु समाधाय वक्ष्यामि शुभकारणं ।
यद्यस्ति ते कृपा लोक तत् कुरु यन्मयोदितं

8.101

तद्यथैतेषु तीर्थेषु स्नात्वा नित्यं यथाविधि ।
शुचिशीलसमाचारः समाहितः त्रिमण्डलः

8.102

सम्बोधिं प्रणिधानेन सर्वसत्त्वहितार्थभृत् ।
त्रिरत्नभजनं कृत्वा चरस्व पोषधं व्रतं

8.103

तत इमं जगन्नाथं धर्मधातुं जिनालयं ।
यथाविधि समाराध्य संभजस्व सदादरात्

8.104

तथा सर्वा इमा पञ्च देवताश्च यथाविधि ।
समाराध्य समभ्यर्च्य संभजस्व सदादरात्

8.105

इमं मञ्जुश्रीयंश्चापि चैत्यमाराध्य सर्वदा ।
यथाविधि समभ्यर्च्य संभजस्व महोत्सवैः

8.106

तथाष्टौ वीतरागांश्च समाराध्य यथाविधि ।
समभ्यर्च्य महोत्साहैः संभजस्व सदादरात्

8.107

तथा माहेश्वरीं देवी खगाननां समादरां ।
समाराध्य समभ्यर्च्य संभजस्व यथाविधिं

8.108

एते सर्वे ऽपि देवा हि सर्वलोकाधिपेश्वराः ।
सर्वसत्त्वहितार्थेन प्रादुर्भूताः स्वयं खलु

8.109

तदत्रैतेषु देवेषु सर्वेषु श्रद्धया सदा ।
विधिना भजनं कृत्वा संचरस्व जगद्धिते

8.110

लोकांश्चापि तथा सर्वान् बोधयित्वा प्रयत्नतः ।
सर्वेष्वेतेषु तीर्थेषु स्नानदानादिकं सदा

8.111

कारयित्वा महत्पुण्यं जगद्भद्रसुखार्थदं ।
संबुद्धगुणसत्सौख्यं चारय पोषधं व्रतं

8.112

एतेषां च त्रिरत्नादिदेवानां भजनं सदा ।
कारयित्वा महोत्साहैर्बोधिमार्गे प्रचारय

8.113

तदैतत्पुण्यभावेन सर्वत्रापि चरच्छुभं ।
तदा सर्वमहोत्पातं सर्वत्र विलयं व्रजेत्

8.114

तदा ब्रह्ममरेन्द्राद्याः सर्वे लोकाधिपा अपि ।
सुदृशात्र समालोक्य पालयेयुः सदा मुदा

8.115

तदा संपालिते ऽस्मिंन तैः सवैर्लोकाधिपैः पुनः ।
सुभिक्षं श्रीशुभोत्साहं प्रवर्त्तयेद्धि सर्वदा

8.116

तदा सर्बे ऽपि लोकाश्च नीरोगाः श्रीगुणाश्रयाः ।
विरम्य पापमार्गेभ्यः संचरेरन् सदा शुभे

8.117

एवं धृत्वा सदा राजन् महापुण्य प्रभावतः ।
अन्ते बोधिं समासाद्य संबुद्धपदमाप्नुयुः

8.118

एवं महत्तरं पुण्यं त्रिरत्नभजनाद् भवं ।
विज्ञायादौ त्रिरत्नानां भजस्व श्रद्धया स्मरन्

8.119

ततः सर्वेषु तीर्थेषु स्नात्वा शुद्धेन्द्रियाशयः ।
त्रिरत्नं शरणं गत्वा भजस्व पोषधं व्रतं

8.120

ततः सर्वानिमान् देवान् धर्म्मधातुमुखान् सदा ।
यथाविधि समाराध्य संभजस्व समर्चयन्

8.121

लोकानपि तथा सर्वान् बोधयित्वा प्रयत्नतः ।
सर्वेष्वेतेषु तीर्थेषु स्नापयित्वा यथाविधिं

8.122

त्रिरत्नशरणे स्थाप्य संबोधिज्ञानसाधनं ।
भद्श्रीसत्गुणाधारं चारय पोषधं व्रतं

8.123

एतेषामपि देवानां कारयित्वा सदार्चनं ।
बोधिमार्गे प्रतिष्ठाप्य चारय पालयञ्छुभे

8.124

एवं कृत्वा महत्पुण्यं प्राप्य श्रीसद्गुणाश्रयः ।
बोधिसत्त्व महासत्त्व महाभिज्ञा भवेद्ध्रुवं

8.125

ततः संबोधिसंभारं पूरयित्वा यथाक्रमं ।
अर्हन् बोधिं समासाद्य संबुद्धपदमाप्नुयाः

8.126

इति शान्तश्रिया शास्ता समादिष्टं निशम्य सः ।
नृपस्तथेति विज्ञप्य कर्तुमेवं समैच्छत

8.127

ततः स नृपतिः सर्वान् मन्त्रिणस्सचिवाञ्जनान् ।
पौरान् महाजनाश्चापि समामन्त्रयैवमादिशत्

8.128

भो मन्त्रिणो जनाः सर्वे ऽमात्याः पौरा महाजनाः ।
आचार्येन यथादिष्टं तथा चरितुमर्हथ

8.129

अहमपि तथा धृत्वा सर्वदा भद्रकारणं ।
त्रिरत्नशरणं कृत्वा व्रतं चरितुमुत्सहे

8.130

इत्यादिष्टं नरेन्द्रेण श्रुत्वा ते मन्त्रिणो जनाः ।
पौरा महाजनाः सर्व तथेति प्रतिशुश्रुवुः

8.131

ततः स नृपतिः सर्वेः सपुरोहितमन्त्रिभिः ।
अमात्यैःसचिवैः पौरैर्महाजनैः समन्वितः

8.132

सर्वेष्वेतेषु तीर्थेषु स्नात्वा यथाविधि क्रमात् ।
शुद्धशीलः समाधाय प्राचरत् पोषधं व्रतं

8.133

ततस्स विमलात्मान त्रिरत्नशरणं गताः ।
धर्मधातुं समाराध्य समभ्यर्च्यभिजन्मुदा

8.134

तथा वायुपुरे वायुदेवतांश्च यथाविधि ।
अग्निपुरे ऽग्निदेवं च नागपुरे फणेश्वरान्

8.135

वसुपुरे वसुन्धारां सद्धर्म्मश्रीगुणप्रदां ।
शान्तपुरे महेशानं सम्बरं सगणं क्रमात्

8.136

यथाविधि समभ्यर्च्य श्रद्धया समुपाश्रितः ।
तथा मञ्जुश्री यश्चैत्यं समभ्यर्च्याभजन् सदा

8.137

तथाष्टौ वीतरागांश्च श्रीदेवींश्च खगाननां ।
यथाविधि समाराध्य समभ्यर्च्याभजत् सदा

8.138

तथा सर्वे ऽपि लोकास्ते नृपवृत्तानुचारिणः ।
स्नात्वा सर्वेषु तीर्थेषु शुद्धशीला समादरात्

8.139

त्रिरत्नशरणं कृत्वा चरन्तः पोषधं व्रतं ।
धर्म्मधातुमुखान् सर्वान् देवांश्चाभ्यर्च्य प्राभजन्

8.140

तदैतत्पुण्यभावेन सर्वत्र शुभमाचरत् ।
ततः सर्व महोत्पातं क्रमेण प्रशमं ययौ

8.141

तदा सर्वे ऽपि ते लोका नीरोगाः पुष्टितेन्द्रियाः ।
महानन्दं सुखं प्राप्य बभूवु धर्म्मलालसाः

8.142

तद् दृष्ट्वा न नृपो राजा प्रत्यक्षं धर्मसत्फलं ।
अहो सद्धर्ममाहात्म्यमित्युक्त्वा नन्दिताचरत्

8.143

तदा सुवृष्टिरेवात्र न बभूव कथंचन ।
तद् दृष्ट्वा न नृपश्चासीद् दुर्भिक्षशंकिताशयः

8.144

ततः स करुणाविष्टहृदयः स नृपः पुनः ।
शान्तश्रियं तमाचार्य नत्वैव प्राह साञ्जलिः

8.145

आचार्य कृपया ते ऽत्र चरते शुभताधुना ।
सर्वदापि महोत्पातं संशाम्यत समन्ततः

8.146

सुवृष्टिरेव नाद्यापि प्रवर्त्तते कथंचन ।
सुवृष्टिकरणोपायं तत् समादेष्टुमर्हति

8.147

इति संप्रार्थितं राज्ञा श्रुत्वाचार्यः स सत्मतिः ।
नृपतिं तं महासत्त्वं संपश्यन्नेवमब्रवीत्

8.148

साधु राजञ्छृणुष्वात्र सदा सुभिक्षकारणं ।
सुवृष्टिकरणोपायमुपदेक्ष्यामि सांप्रतं

8.149

लिखित्वा मण्डलं नागराजानां यद्यथाविधि ।
तत्र नागाधिपान् सर्वानावाह्याराधयेवहि

8.150

तदत्र त्वं महावीरा भवस्वात्तरः साधकः ।
यथा मायोपदिष्टानि तथा सर्वाणि साधय

8.151

इत्याचार्य समादिष्टं श्रुत्वा स नृपतिर्मुदा ।
तथेति प्रतिविज्ञप्य तथा भवितुमैच्छत

8.152

ततः स वज्रधृग् वारा नागपुरं यथाविधि ।
लिखित्वा मण्डलं रम्यं प्रतिष्ठाप्य समार्च्चयत्

8.153

तत्र नागाधिपान् सर्वानाचार्यः स यथाक्रमं ।
समाराध्य समावाह्य पूजयितुं समालभत्

8.154

तत्र नागाधिपाः सर्वे समागत्य यथाक्रमं ।
स्वस्वासनं समाश्रित्य संतस्थिरे प्रसादिताः

8.155

कर्कोटको ऽहिराडेक एव न लज्जयागतः ।
तत्समीक्ष्य स शान्तश्रीर्महाचार्या महर्द्धिमान्

8.156

नृपतिं तं महावीरं महासत्त्वं महर्द्धिकं ।
महाभिज्ञं समालोक्य समामन्त्रयैवमादिशत्

8.157

राजन् नागाधिपाः सर्वे समागता इहाधुना ।
एक कर्क्कोटको नागराज एवेह नागतः

8.158

विरूपो ऽहं कथं नागराज महासभासने ।
गत्वा तिष्ठेयमित्येवं ध्यात्वा नायाति लज्जया

8.159

अतस्तं सहसा राजन् गत्वा तत्र महाह्रदे ।
कर्क्कोटकं तमामन्त्रय संप्रार्थ्येह समानय

8.160

यदि संप्रार्थ्यमानापि नागछेदिह सो ऽहिराट् ।
तदा बलेन धृत्वापि सर्वथा तं समानय

8.161

इत्याचार्य समादिष्टं शृत्वा स नृपतिः सुधीः ।
शान्तश्रियं तमाचार्य पश्यन्नेवं न्यवेदयत्

8.162

आचार्य कथमको ऽहं तत्रागाढमहाह्रदे ।
गत्वा बलेन नागेन्द्रं धृत्वा नेतुं प्रशक्नुयां

8.163

इति निवेद्य तं राज्ञा श्रुत्वाचार्यः स मन्त्रवित् ।
नृपतिं तं महावीरं सम्पश्यन्नेवमब्रवीत्

8.164

हरिदश्वं समारुह्य पुष्पमत्मन्त्रशोधितं ।
धृत्वा ब्रज प्रशक्नोषि मम मन्त्रानुभावतः

8.165

दुर्वाकुण्डमिदं पुष्पं तत्रादौ क्षिप मां स्मरन् ।
भ्रमन् यत्र चरेन् पुष्पं तत् यथानुसरन् बज

8.166

इत्युपदेश्य दुवीकं कुण्डं मन्त्राभिशोधितं ।
पुष्पं दत्वा नरेन्द्राय पुनरेवमुपादिशत्

8.167

गत्वैवं नृपते तत्र नागपुरे समेत्य तं ।
कर्कोटकं समामन्त्रय मद्गिरैवं निवेदय

8.168

भो कर्क्कोटक नागेन्द्र यदर्थेदमिहाव्रज ।
तद्भवानपि जानीयात् तथापि वक्ष्यते मया

8.169

गोशृङ्गे महाचार्यः शान्तश्री र्वज्रभृत् कृती ।
दुर्भिक्षशमनं कर्त्तुं सुवृष्टिचारणे सदा

8.170

तत्र नागपुरे सर्वान् नागाधिपान् यथाविधि ।
समाराध्य समावाह्य पूजयितुं समारभत्

8.171

सर्वे नागाधिपास्तत्र वरुणाद्याः समागताः ।
त्वमेव नागतः कस्मात् सहसा गन्तुमर्हति

8.172

एवं संप्रार्थ्यमानो ऽपि नागछेत् सो ऽहिराड् यदि ।
वलेनापि समाकृष्य सहसा नीयतां त्वया

8.173

इति शान्तश्रिया शास्ता समादिश्य समादरात् ।
प्रेषितो ऽहं तदर्थेत्र तत् समगन्तुमर्हति

8.174

इत्यादिश्य स आचार्यः पुष्पं मन्त्राभिशोधितं ।
दत्वा तं नृपतिं वीरं प्रेषयत् तत्र सत्वरं

8.175

इत्याचार्य समादिष्टं निशम्य स महामतिः ।
दुर्वामुण्डं समादाय तथेत्युक्त्वा ततो ऽचरत्

8.176

ततः स नृपतिर्वीरः शास्तु राज्ञां शिरावहन् ।
हरिदश्वं समारुह्य संचरन्स्तद् हदं ययौ

8.177

तत्र तीरं समासाद्य पश्यं नृपः स तं हदं ।
नत्वाचार्यमनुस्मृत्वा दुर्व्वाकुण्डं जले ऽक्षिपत्

8.178

तन्प्रक्षिप्तं जले ऽगाढे भ्रमन् नागपुरे ऽचरत् ।
राजाप्यश्वं समारुह्य तत्पुष्पानुसरन् ययौ

8.179

एवं नागपुरे गत्वा नृपतिः स विलोकयन् ।
कर्कोटक महीन्द्रं तं सहसा समुपाचरत्

8.180

तत्र समेत्य स वीरस्तं कर्कोटकमहीश्वरं ।
यथाचार्याय संदिप्टं तथा सर्वं न्यवेदयत्

8.181

तत् सन्निवेदितं सर्व श्रुत्वा नागाधिपापि सः ।
किञ्चिदप्युत्तरं नैव ददौ तस्मै महीभुजे

8.182

ततः स नृपतिश्चैवं निवेद्य तं महीश्वरं ।
संपश्यन् समुपामन्त्रय प्रार्थयदमादरात्

8.183

नागेन्द्रो ऽत्र प्रसीद त्वं शास्तुराज्ञां शिरोवहं ।
त्वदामन्त्र न एवाहं प्रागतस्तत् समाव्रज

8.184

इति संप्रार्थ्यमानो ऽपि राजा स भुजगाधिपः ।
किञ्चित्प्राप्युत्तरं नैव ददौ तस्मै महीभुजे

8.185

ततो ऽसौ नृपतिवीरः शास्त्रादिष्टं यथा तथा ।
सर्व निवेद्य तस्याग्रे पुनरेवमभाषत

8.186

नागेन्द्र नापराधं मे यत्त्वया न श्रुतं वचः ।
तन्मे शास्त्रा यथादिष्टं तथा नूनं चरेय हि

8.187

इत्युक्तेपि नरेन्द्रेण कर्कोटको हि यो ऽपि सः ।
किञ्चिदप्युत्तरं नैव ददौ राज्ञे महीभृते

8.188

ततः स नृपतिवीरः शास्तुराज्ञां शिरोवहन् ।
धृत्वा तमहिमाकृष्य गुरुत्मानिव प्राचरत्

8.189

ततो हयात् समानीताः गुणकामदेवेन सः ।
आनीते तेन मार्गेण वशिकाचल उच्यते

8.190

एवं धृत्वा समाकृष्य स वीरस्तं महीश्वरं ।
सहसा नागपुरे नीत्वा शास्तुरग्रे समाचरत्

8.191

आचार्य भवदादेशात् तथा कर्क्कोटको ऽहिराट् ।
धृत्वाकृष्य मयानीतस्तं समीक्ष्य प्रसीदतु

8.192

इति निवेदितं राज्ञा श्रुत्वाचार्यः समादितः ।
नृपतिं तं महावीरं सम्पश्यन्नेवमादिशत्

8.193

साधु राजन् महावीर यदानीतस्त्वयाहिरात् ।
तदेनमासने नीत्वा संस्थापय यथाक्रमं

8.194

इत्याचार्य समादिष्टं श्रुत्वा स नृपतिस्तथा ।
नागराजं तमामन्त्रय स्वासने संन्यवेशयत्

8.195

तं दृष्ट्वा स्वासनासीनांमाचार्यः स यथाविधिं ।
नागेन्द्रान् स्तान् समावाह्य समाराध्य समार्चयत्

8.196

ततः स व्रजधृकाज्ञ आचार्यः स महीपतिः ।
सर्वान् नागाधिपान् स्तुत्वा प्रार्थयुच्चैवमादरात्

8.197

भो भवन्तो महानागराजाः सर्वे मयाग्रतः ।
समाराध्य समावाह्य यथाविधि समर्चिताः

8.198

तन्मे सदा प्रसीदन्तु दातुमर्हन्ति वाञ्छितं ।
सर्वलोक हितार्थेव आराध्ययामि नान्यथा

8.199

यदत्र पापसंचाराद् दुर्भिक्षं वर्त्तते ऽधुना ।
तेन सर्वे ऽपि दुःखार्त्ता लोकश्चरन्ति पातकं

8.200

तद्दुर्भिक्षाभिशान्त्यर्थ सुभिक्षकारणं सदा ।
सुवृष्टिचरणोपायं करोमीदं जगद्धिते

8.201

ते भवन्तो ऽत्र सर्वे ऽपि सर्वसत्त्वाभिरक्षणे ।
चारयितुं समर्हन्ति सुवृष्टिमत्र सर्वदा

8.202

इति संप्रार्थितं तेन शान्तश्रिया निशम्यत ।
सर्वे नागाधिपास्तस्य तथेति प्रतिशुश्रुवुः

8.203

तैस्तथेति प्रतिज्ञातं नागराजैर्निशम्य सः ।
शान्तश्री नागराजान् स्तान् प्रार्थयदेवमादरात्

8.204

भवन्तो मे प्रसीदन्तु यदहं प्रार्थये पुनः ।
सर्वसत्त्वहिते दातुं तदप्यर्हन्ति वाञ्छितं

8.205

इति संप्रार्थिते तेन शान्तश्रिया निशम्यते ।
सर्व्वनागाधिपा तस्मै तथेति प्रतिशुश्रुवुः

8.206

सर्वे नागाधिपैस्तैः सम्प्रतिज्ञातं निश्म्य सः ।
आचार्यस्तानहीन्द्रांश्च प्रार्थयेदेवमादरात्

8.207

भवन्तः श्रूयतां वाक्यं यत् मया प्रार्थ्यते पुनः ।
तद्भवद्भिः प्रतिज्ञातं संधातव्यं तथा सदा

8.208

यदात्र पापसंचाराद् दुर्वष्टिश्च भवेद् ध्रुवं ।
तदा सुवृष्टिसंसिद्धिर्साधनं तत् प्रनीयतां

8.209

तद्यथा भवतां पट्टे लिखित्वा मण्डलं शुभं ।
यथाविधि प्रतिष्ठाप्य संस्थापितुं समुत्सहे

8.210

दुर्वृष्टिः स्याद्यदाप्यत्र तदेवं पट्टमण्डलं ।
प्रसार्य विधिनाराध्य समावाह्य समर्चयत्

8.211

एवं प्रसार्य पट्टेस्मिन् संपूजिते यथाविधि ।
सुवृष्टिरत्र युष्माभिः संभर्त्तव्या जगद्धिते

8.212

इति संप्रार्थिते तेन शान्तश्रिया निशम्यते ।
सर्वनागाधिपास्तस्मै तथेति प्रतिशुश्रुवुः

8.213

ततः स मन्त्रवित् प्राज्ञः सर्वनागाधिपाज्ञया ।
लिखित्वा मण्डलं पट्टे प्रतिष्ठाप्य यथाविधि

8.214

पश्चात् काले ऽत्र दुर्वृष्टिवृत्ते सुवृष्टिसाधने ।
नागपुरे ऽत्र संस्थाप्य निर्दग्ध संप्रगोपितं

8.215

ततो वज्री स आचार्यः सर्वान् स्तान् भुजगाधिपान् ।
संप्रार्थ्य विनयं कृत्वा विससर्ज्ज विनोदयन्

8.216

ततः सर्वे ऽपि ते नागराजाः स्वस्वालयं गताः ।
मेघमालां समुत्थाप्य सर्वत्र समवर्षयन्

8.217

तदा सुवृष्टिसंचाराद् दुर्भिक्षं विलयं ययौ ।
सुभिक्षमंगलोत्साहं प्रावर्त्तत समन्ततः

8.218

तदा सर्वे ऽपि लोकास्ते महानन्दप्रमोदितः ।
त्रिरत्नभजनं कृत्वा प्राचरन्त सदा शुभे

8.219

ततः स नृपति राजा दृष्टसत्यः प्रसादितः ।
शान्तिश्रियं तमाचार्यं समभ्यर्च्य यथाविधि

8.220

नत्वाष्टाङ्गैः प्रसन्नात्मा कृत्वा प्रदक्षिणानि च ।
कृताञ्जलिपुटः पश्यन् प्रार्थयच्चैवमादरात्

8.221

भो भगवन् महाचार्य भवद्धर्म्मानुभावतः ।
सर्वोत्पातं शमीभूत सुवृष्टिः संप्रवर्त्तते

8.222

तदत्र सर्वदा नूनं निरुत्पातं समन्ततः ।
धर्मश्रीमंगलोत्साहं भवदेव निरन्तरं

8.223

एवं सदा कृपा दृष्टया संपश्यन् विषये मम ।
निरुत्पातं शुभोत्साहं कर्तुमर्हति सर्वथा

8.224

साम्प्रतं सफलं जन्म संसारजीवितं च मे ।
यल्लोकाश्च सुखीभूताः संचरन्त सदा शुभे

8.225

तदहं साम्प्रतं शास्तर्भवदाज्ञां शिरावहन् ।
स्वराज्याश्रममाश्रित्य चरेयं पालयञ्जगत्

8.226

तन्मेनुग्रहमाधाय कृपया संप्रसादितः ।
संबोधिसाधने चित्तं स स्थितिं कर्त्तुमर्हति

8.227

इति विज्ञप्य भूपालस्त स्य शास्तुः पदाम्बुजे ।
नत्वानुज्ञां समासाद्य महोत्साहैः पुरं ययौ

8.228

तत्र स नृप आश्रित्य समन्त्रि सचिवो मुदा ।
बोधिचर्याव्रतं धृत्वा तस्थौ कुर्वन् सदा शुभं

मूल पाठ: Svayaṃbhupurāṇa · Edition: Min Bahadu Shakyar & Shanta Harsa Bajracharya (trans.). Svayambhu Purāṇa. Nepal: Nagarjuna Institute of Exact Methods, 2001. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc