स्वयंभुपुराण · अध्याय 7
इतिश्री स्वयंभू धर्म्मधातु वागीश्वराभिधान प्रसिद्ध प्रवर्तनो नाम षष्ठो ऽध्यायः ।
सप्तम अध्यायः स्वयम्भूधर्मधातुवागीश्वरगुतिकृतप्रवर्तनो नाम
अथ भूयः स मैत्रेयो बोधिसत्त्वो महामतिः ।
भगवन्त त मानस्य साञ्जलिरेवमव्रवीत्
भगवच्छिलयाछाद्य धर्म्मधातुमिमं कदा ।
केनैव हेतुना स्तूपं को व्यधादीष्टिकामयं
भगवन्तत्समालोक्य सर्व्वाल्लोकान्सकौतुकान् ।
एतद्धेतु समादिश्य विनोदयितुमर्हति
इति संप्रार्थितं तेन मैत्रेयेन मुनीश्वरः ।
भगवान्स महासत्त्वं सम्पश्यन्नेवमादिशत्
शृणु मैत्रेय येनायं गुप्तिकृतो प्रकाशने ।
एतद्धेतुं समाख्यासि सर्वे लोकाभिबोधने
तद्यथा निवृतिं याते संबुद्धे कनकमुनौ ।
विंशति वर्ष साहस्र नृर्णामायु यदा भवेत्
तदाभू भगवांञ्छास्ता धर्म्मराजो मुनीश्वरः ।
सर्वज्ञो ऽर्हमहाभिज्ञः काश्यपाख्यस्तथागतः
स संबुद्धो महापुर्या वाराणस्यामुपाश्रमे ।
मृगदावे जिनावासे विजहार ससांधिकः
तदा संबोधिसत्त्वो ऽहं ज्योतिराजा भिधःकिल ।
काश्यपस्य जगच्छाम्तुः शरणस्थ उपासकः
यदा स काश्यपः शास्ता सर्वत्रैधातुकाधिपः ।
सद्धर्म्मं समुपादेष्टुं सभासने समाश्रयेत्
तत्सद्धर्म्मामृतं पातुं सर्वे लोकाः समागताः ।
ब्रह्मशक्रादयो देवाः सर्वे लोकाधिपा अपि
ग्रहास्तारागणश्चापि विद्याधराश्चसाप्सराः ।
सिद्धासाध्याश्च रुद्राश्च यक्ष गुह्यक किन्नराः
कुम्भाण्डा राक्षसाश्चापि नागाश्च गरुडा अपि ।
ऋषयस्तापसाश्चापि तीर्थिका ब्रह्मचारिणः
यतयो योगिनश्चापि तथान्येचाप्युपासकाः ।
ब्राह्मणा क्षत्रियाश्चापि राजानोपि महीभृतः
वैश्याश्च मन्त्रिणो ऽमात्या भृत्या सैन्याधिपागणा अपिः ।
शिल्पिनो वणिजश्चापि सार्थवाहो महाजनाः
पौरा जानपदा ग्राम्यानैगमाः पार्वता अपि ।
तथोन्य देशिका लोका अपि सर्व्वे समागताः
तत्र सभासनासीनं संबुद्ध स्तं मुनीश्वरं ।
भगवन्तं समालोक्य सर्वे संघाः समाययुः
भिक्षवः श्रावकाः सर्वे यतयो योगिनो ऽपिः ।
चैलकाव्रतिनश्चापि सर्वे उपासका अपि
भिक्षुण्योपि तथा सर्वाश्चैलिकाः व्रतिण्यः ।
श्राविकाश्चापिः तथान्याः समुपागताः
बोधिसत्त्वा महासत्त्वा ऋषयो ब्रह्मचारिणः ।
तीर्थिका वैष्णवाः शैवार्निर्गन्थाश्च तपस्विनः
तथान्ये ऽपि समायाताः सद्धर्मगुणलालसाः ।
सर्वे ऽपि ते मुनीन्द्र स्तं दृष्ट्वा ययौ प्रमोदिताः
तत्र सर्वे ऽपि ते लोकास्तं मुनीन्द्रं यथाक्रमं ।
अभ्यर्च्य विधिना नत्वा तत्सभायामुपाश्रयन्
तत्र सर्वे ऽपि ते लोकाः परिवृत्य समन्ततः ।
पुरस्कृत्य मुनीन्द्रन्तं संपश्यन्तः समाहिताः
तत्सद्धर्म्मामृतं पातुं तृषार्त्ता इव सागरं ।
साञ्जलयः प्रसन्नास्याः समातस्थु यथाक्रमं
तांलोकान्समुपासीनान्सर्वान्सघान्सुरानपि ।
सर्वाल्लोकाधिपांश्चापि दृष्ट्वा स भगवाञ्जिनः
आर्यसत्यं समारभ्य संबोधि ज्ञानसाधनं ।
आदि मध्यान्त कल्याणं सद्धर्म्म समुपादिशत्
तत्सद्धर्म्मामृतं पीत्वा सर्वे ऽलोकाः प्रवोधिताः ।
सदा भद्रसुखं प्राप्नु समीच्छिरे सुसंवरं
ततः सर्वे ऽपि ते लोकाः संबुद्ध गुणवाञ्छिनः ।
बोधिचर्या व्रतं धृत्वा संचरिरे सदा शुभे
तदा सर्वाणि कार्याणि कृत्वा वज्री स योगवित् ।
मञ्जुदेवः स भार्यान्ते स्वयं निर्वृतिमाययौ
ततो गत्वा महाचीने स मञ्जुश्री जिनाश्रमें ।
स्वदिव्यवपुराधाय तंस्थौ भार्या समन्वितः
अत्र तेषां शरीराणि शिष्याः सर्वे ऽपि पावके ।
संस्कृत्य विधिनास्थीनि गृहित्वा समशोधयन्
ततस्ते ऽत्र तदस्थीनिगर्व्यस्थाप्य यथाविधि ।
चैत्यं कृत्वा प्रतिस्थाप्य समभ्यर्च्य सदाभजन
येयीदं चैत्यमभ्यर्च्य भजन्ति श्रद्धया सदा ।
ते तस्य मञ्जुदेवस्य सद्धर्म्मगुणमाप्नुयुः
मत्वैवं येभिवाञ्छन्ति मञ्जुश्री धर्म्मसद्गुणं ।
अत्र मञ्जुश्री यश्चैत्य सर्वदा प्रभजन्तु ते
इत्यादिष्टं मुनीन्द्रेण निशम्य ते सभाजनाः ।
सर्वे तथेति श्रुत्व प्रात्यनन्दत्प्रवोधिताः
अथासौ भगवान् भूयः शाक्यसिंहो मुनीश्वरः ।
मैत्रेय स्तं सभांचापि समालोक्यैवमादिशत्
तत श्चिराङ्गते काले गौडराष्ट्रे नराधिपः ।
अभूत्प्रचण्ड देवाख्यः श्रीमान् वज्रधरांशजः
स राजा सुचिरं राज्यं नीतिधर्म्मेण पालयन् ।
सर्वाल्लोकाञ्छुभे धर्मे नियुज्य समचारयत्
एतद्धर्म्मानुभावेन सदा तत्र समन्ततः ।
सुभिक्षं मंगलोत्साहं निरुत्पातनवर्क्तत
तदा सर्वे ऽपि ते लोकाः सद्धर्मगुणलालसाः ।
कुलधर्म समाचारा दानशीलव्रतारताः
सत्यसंघा निकाधीराश्चतुर्ब्रह्मविहारिणः ।
कुलेशभजनं कृत्वा प्राचरन्त मिथो हिते
दृष्ट्वा स नृपती राजा सर्वाल्लोकाञ्छुभार्थिनः ।
मुदितस्तान्समामन्त्रय सम्पश्यन्नेवमादिशत्
भो लोकाः पौरिकाः सर्वे सद्धर्म यदि वाञ्छथ ।
त्रिरत्न भजनं कृत्वा चरत बोधिसम्वरं
तेन यूयं शुभात्मानः परिशुद्धत्रिमण्डलाः ।
बोधिसत्त्वा महासत्त्वा भवत बोधिचारिणः
ततस्ते निर्मलात्मानो निःक्लेशो विमलेन्द्रियाः ।
अर्हन्ता बोधिमासाद्य सम्बुद्धपदमाप्स्यथः
इत्यादिष्टं नरेन्द्रेण सर्वे लोका निशंम्यते ।
तथेति प्रतिविज्ञप्य प्राभ्यनन्दत्प्रवोधिताः
ततः सर्वे ऽपि ते लोका धृत्वा राज्ञानुशासनं ।
त्रिरत्नभजनं कृत्वा प्राचरन्त शुभाचरिं
दृष्ट्वा तान्सकलाल्लोकान् बोधिचर्या व्रतारतान् ।
महानन्द प्रसन्नात्मा पुनरेव व्यचिन्तयन्
सफलं जीवितं जन्म ममयेच्छासनारताः ।
सर्वे ऽलोकाः समाधाय प्रचरन्ति सदा शुभे
अथ प्रचण्डदेवौ ऽसौ दृष्ट्वा राज्यं महोत्सवं ।
संसारे ऽनर्थ संदृष्ट्वा चिन्तयामास सात्मवत्
अत्राहं जलसांक्रान्तो ऽनु नस्यां जिर्ण्णितेन्द्रियः ।
तदारोगाभिभूतो ऽपि व्रजेयंमणं ध्रुवं
तदत्रैव कियत्कालं तिष्ठेयं सन्सुखान्वितः ।
अवश्यं भाविनो भावा भवन्ति भवचारिणां
सदा भवे भवेद् भद्रमेव सद्धर्म्मचारिणां ।
दुःखमेव सदा कामचारिणां भवचारणे
तस्मादहं परित्यज्य कामाश्रय गृहाश्रमं ।
निर्जने वन एकाकी विहरेयं समाहितः
स्मृत्वा रत्नत्रयं ध्यात्वा संबोधिनिहिताशयः ।
बोधिचर्याव्रतं धृत्वा संचरेयं जगद्धिते
इति निश्चित्य स प्राज्ञः प्रचण्डदेव आत्मवित् ।
नृपतिमन्त्रिणः सर्वान्समामन्त्र्यैवमादिशत्
भो सर्व मन्त्रिणो यूयं शृणुध्वं मे वचो हितं ।
अथ मयाख्यातं तथा चरितुमर्हथ
तद्यथा जरासाक्रान्तो वृद्धोस्यां जीर्णितेन्द्रियः ।
तथा रोगाभिभूतो ऽपि ग्रसिष्ये मृत्युना ध्रुवं
इति मे त्रस्यते चित्तं दुर्गति भयशंकितं ।
अवश्यं भाविनो भावा भवचारिणां
भवे भवेत् सदा भद्रमेव सद्धर्मचारिणां ।
दुःखमेव सदाकामचारिणां भवचारिणे
अनर्थराज्यं विषयोपभोग्यं भयंकरं सर्पभयाकुलं यत् ।
अनित्यमसारेति विचिन्त्य तत्र आगारमध्यावसितुं न रोचते
इति मत्वाहमुत्सृज्य कामाश्रयं गृहाश्रमं ।
वनाश्रमे शुभारामे विहर्तुमुत्सहे ऽधुना
तदहं स्वात्मजं पुत्रं शक्तिदेवं नृपासने ।
प्रतिष्ठाप्य नृपं कर्तुमिच्छामि सांप्रतं खलु
तद् भवन्तो निशम्यात्र सर्वे ऽपि मम शासनं ।
अभिषिंच्य नृपं कृत्वा भजतैनं ममात्मजं
इत्यादिष्टं नरेन्द्रेण श्रुत्वा ते मन्त्रिणो जनाः ।
प्रमाणं शासनं भर्तुरित्येवं प्रतिशुश्रुवः
तदा स राजा पुत्रं शक्तिदेवमामन्त्रयैवमाह ।
भेदो दण्डः सामदानमित्यत्युपायचतुष्टयं
अत्राहं जरसाभिक्रान्तं नूनं स्याद् निर्जितेन्द्रियं ।
तदा रोगाभिभूते ऽपि वज्रेयं मरणं धुवं
तद् वनाश्रयमिच्छामि श्रेयः श्लाघेन यत्मना ।
पुरो मृत्यु रिपुं हन्ति गृहसंरक्तमेव वा
तस्मात् संसारभीतो मे वहुधा भयशंकया ।
नात्र स्थातुं मनोरेमे गच्छामि निर्जनं वनं
तस्मात् मया यथा प्रोक्तं तथा चरितुमर्हसि ।
प्रजानां पालनं कृत्वा धर्मनीत्या समाचर
लोकान् मा खेख यत्तापैः कुलधर्म्म समाचर ।
परेष्वपि दयायुक्तैर्दानं हि श्रद्धया कुरु
प्राणातिपातादत्तादान काममिथ्यादिं मा कुरु ।
मा मृषावाद पैशून्यं पारुष्यं संभिन्नमेव च
माभिध्या व्यापाददोषैर्मिथ्यादृष्ट्यादि संत्यज ।
एतानि तानि सर्वाणि धारय दृढचेतसा
पापानां मूल एषो हि सुगतेनेति देशितः ।
इत्थं कृते ऽपि नृपतेरितयो न भविष्यति
तत्कस्मात् धर्म्मेण प्राप्यते राज्यं धर्म्मेण धनवर्द्धनं ।
धर्म्मेण धनसाध्यन्ते धर्म्मेण काम सिध्यते
कामसिध्येन मोक्षं च प्राप्यते नात्र संशयः ।
अनेन ज्ञानमार्गेण सशास नृपतिः सुतं
ततःस जनको राजा शक्तिदेवं ममात्मजं ।
अभिषिंच्य प्रतिस्थाप्य नृपासने नृपं व्यधात्
ज्ञानांकुशभयेनैव कुंचितः सगजो यथानिव ।
तत्र स जनकः सर्व पुत्राय सर्वमर्प्पयेत्
त्यक्त्वा परिग्रहान् सर्वान् पुनरेवमभाषत ।
अद्यारभ्यासि सर्वेषां लोकानामधिपः प्रभुं
सर्वधर्मानुशास्ता च सर्वसत्त्वहितार्थभृत् ।
नमाम पितरं तेन श्रुत्वा वाक्यं रसानिव
धृत्वाज्ञां ते यथा तात प्रजानां प्रतिपालने ।
इति प्रशाश्य ततो भूपः प्रचण्डदेव सन्मतिः
प्रबोध्य पुत्रपत्न्यादिं एको ययौ वनाश्रमे ।
तृणासनस तत्र स निर्जनेरण्ये विविक्ते उतजाश्रये
तृणासनसमासीन तस्थौ ध्यान समाहितः ।
तत्रैकं विहरन् कंचित्कालं स ऋषिधर्म्मभृत्
सर्वसत्त्वहितोत्साही मनसैवं व्यचिन्तयत् ।
किमेवं निर्ज्जने ऽरण्ये ध्यात्वैको विहरन्निह
कस्मै समुपदेक्ष्यामि सद्धर्म्म बोधिसाधनं ।
दानशीलक्षमावीर्यध्यानप्रज्ञासमुद्भवं
पुण्यं सत्त्वहितार्थाय समाख्यातं मुनीश्वरैः ।
तदेवं निर्ज्जने स्थित्वा किं मे धर्मार्थसाधनं
विना सत्त्वहितार्थेन निरर्थ तपसापि हि ।
किमत्र दुष्करेणापि तपसा सिद्धिसाधनं
केवलं सद्गतौ श्रीमत्सौख्यलाभार्थमेव यत् ।
विना सत्त्वहितार्थेन निष्फलं सिद्धिसाधनं
तदत्र निर्ज्जने स्थित्वा तपसा निष्फलं मम ।
यत्सत्त्वानां हितार्थाय धर्म्मश्रीगुणसाधनं
विद्यासिद्धिः समृद्धिश्च क्षणं वीर्यबलं शुभं ।
तत् ममैतानि सर्वाणि संसिद्धि संमितान्यपि
विना सत्त्वहितार्थेन निरर्थानि पशोरिव ।
तदिदं व्रतमृसृज्य दुष्करं बोधिमानसः
बोधिचर्याव्रतं धृत्वा चरे ऽहं जगद्धिते ।
तस्मात् तीर्थेषु तीर्थेषु पीठेषु पुण्यभूमिषु
सद्धर्म्मदेशनां कुर्वन् सत्त्वेभ्यः प्रचराण्यहं ।
एतत्पुण्यविशुद्धात्मा परिशुद्धत्रिमण्डलः
आशु बोधिं समासाद्य संबुद्धपद माप्नुयां ।
इति निश्चित्य स प्राज्ञः प्रचण्डदेव उत्थितः
ततः सत्त्वहितार्थेन प्रचचार समाहितः ।
एवं सः प्रचरन् धर्म्ममुपदेश्य समन्ततः
पुण्यक्षेत्रेषु तीर्थेषु पीठेषु प्राग्रमन् मुदा ।
एवं भ्रमन् स सर्वत्र भूतलेषु यथाक्रमं
क्रमेण संचरन्नत्र हिमालये समाययौ ।
अत्रायातः स संविक्ष्य सर्वत्र संप्रमोदितः
अहो हीदं महापीठमितिप्रोक्ताभ्यनन्दत ।
ततः स इदमालोक्य धर्म्मधातुं जिनालयं
ज्योतिरूप्यं प्रसन्नात्मा प्रणत्वैह समाययौ ।
अत्र स समुपागत्य संमिक्ष्येनं जिनालयं
यथाविधि समभ्यर्च्य श्रद्धाभक्ति प्रसन्नधीः ।
नैकप्रदक्षिणीकृत्य स्तुत्वा गीतैर्मनोहरैः
अष्टांगै प्रणतिं कृत्वा ध्यात्वा जप्त्वा भजन् मुदा ।
ततश्चेदं स संवीक्ष्य मञ्जुदेवस्य निर्म्मितं
चैत्यमभ्यर्च्य संस्तुत्वा गीतैर्नत्वा भजन् मुदा ।
ततो ऽसौ च महादेवी योनिरूपां खगाननां
समालोक्य प्रसन्नात्मा यथाविधि समर्च्चयेत् ।
तत्रापि स महासत्त्व स्तुत्वा गीतैर्मनोहरैः
अष्टाङ्गैः प्रणतिं कृत्वा प्रदक्षिणात्यनेकशः ।
श्रद्धया शरणं गत्वा स्मृत्वा ध्यात्वा समाहितः
तद् विद्या धारणीमन्त्रं जपित्वा प्राभ्यनन्दत ।
ततो ऽसौ च महासत्त्वो वाग्मतीप्रमुखान्यपि
तीर्थान्येतानि सर्वाणि स समीक्ष्य प्राभ्यनन्दत ।
तत स तेषु तीर्थेषु सर्वेष्वपि यथाक्रमं
स्नात्वा दानव्रतादीनि कृत्वा भजन् प्रमोदितः ।
ततो ऽष्टौ वीतरागांश्च दृष्ट्वा स संप्रहर्षितः
यथाविधि समभ्यर्च्य स्तुत्वा नत्वा भजन् क्रमात् ।
ततः प्रचण्डदेवः स बोधिसत्त्वः प्रसादितः
अत्रैव सर्वदाश्रित्य व्रतं चरितुमैच्छत ।
ततः स विमलालोक्य हिमालये समन्ततः
सद्धर्म परमानन्दं भुक्त्वोत्सहे सुनिवृत्तौ ।
ततः स मञ्जुदेवस्य शिष्यं शासन सम्भृतं
सद्गुरुं समुपाश्रित्य प्रार्थयदेवमानतः ।
भदन्तात्र पुण्यक्षेत्रे महापीठे हिमालये
प्रब्रज्यासम्बरं धृत्वा संस्थातुमुत्सहे सदाः ।
तद् भवान् कृपया महयं संबोधिज्ञानसाधनं
प्रब्रज्यासम्वरं दातुं समर्हति जगद्धिते ।
इति संप्रार्थितं तेन निशम्य स गुणाकरः
बोधिसत्त्वं सुविज्ञं तं सम्पश्यन्नेवमब्रवीत् ।
एहि भद्र समीच्छा ते यद्यस्ति बौद्धसम्बरे
प्रवज्या व्रतमाधाय संचरस्व समाहितः ।
इत्युक्त्वा स महाभिज्ञः प्रव्रजितं विधाय तं
बोधिचर्याव्रतं दत्वा प्रचारयेज्जगद्धिते ।
तत्र स मुण्डितपात्री सुरक्त चीवरावृतः
ब्रह्मचारी यतिर्भिक्षुनिः क्लेशोर्हन् सुधीरभूत् ॥
शान्तश्रीभिक्षुरिति नामो ऽभूत् ।
ततः स सर्वविच्छास्ता बोधिसत्त्वा हितार्थदिक्
स देवासुरलोकानामपि वन्द्यार्चितो ऽभवत् ।
तदारभ्य स शान्तश्रीधर्मधातो जिनालये
त्रिरत्नभजनं कृत्वा तस्थौ बोधिव्रतं चरन् ।
स एकस्मिन् दिने चेमं ज्योतीरूपं प्रभास्वरं
रत्नपद्मासनासीनं पश्यन्नेवं व्यचिन्तयेत् ।
अहो ह्ययं स्वयं जातो ज्योतिरूपो प्रभास्वरः
रत्नपद्मासनासीनः संतिष्ठते जगद्धिते ।
कियत्कालमयं श्रीमान् धर्म्मधातुर्जिनालयः
एवं संभाषयन् लोकान् संस्थास्यते जगद्धिते ।
यतः कलौ समया ते लोक पञ्चकषायिते
सर्वे लोका दुराचारा भविष्यन्ति दुराशयाः ।
मदाभिमानिनो दुष्टा लोभिनः कामचारिणः
ईर्ष्यालवः प्रमत्ताश्च मात्सर्यव्याकुलाशयाः ।
क्लेशाहंकारगर्वान्धा निर्विवेकाः प्रमादिनः
कामभोगातिसंरक्ता दशाकुशलचारिणः ।
तदा कथमयं श्रीमान् ज्योतीरूपः प्रभास्वरः
रत्नपद्मासनासीन एवं तिष्ठेज्जगद्धिते ।
नूनं ये लोभिनो दुष्टाः क्लेशव्याकुलमानसाः
इमं चैत्यं प्रतिक्षिप्य रत्नानि संहरेत् तदा ।
दुष्टा च तथान्ये ऽपि दुष्टाः क्लेशाभिमानिनः
ज्योतीरूपमिमं चैत्यं ध्वंसयिष्यन्ति सर्वथा ।
एवं तदा कलौ काले ध्वंसिते ऽस्मिन् जिनालये
महापातकसंभूतं महोत्पातं भवेद् ध्रुवं ।
इति हेतोरहं धर्मधातोरस्य सुरक्षणे
गुप्तिकर्त्तु शिलाछाद्य चैत्यं कुर्या महोछ्रयं ।
तदा सर्वे ऽपि लोकास्ते इमं स्तूपं महोछ्रितं
समीक्ष्य श्रद्धया भक्त्या भजिष्यन्ति प्रसादिताः ।
तदैतत् पुण्यभावेन सर्वदात्र समन्ततः
सुभिक्षं मङ्गलोत्साहं निरुत्पातं भवेद् ध्रुवं ।
इति ध्यात्वा स शान्तश्रीः शास्तारं तं पुनर्मुदा
उपेत्य साञ्जलिर्नत्वा प्रार्थयदेवमादरात् ।
भदन्त सद्गुरोशास्तर्यदिच्छामिह साम्प्रतं
धर्म्माधातुमिमं चैत्यं गुप्ति कर्त्तुं सुरक्षणे ।
तदूर्द्ध शिलयाछाद्य स्वीष्टिकाभिः समुछ्रितं
स्तूपं कृत्वा प्रतिष्ठाप्य स्थिरीकर्त्तुं समुत्सहे ।
इत्यत्र मे भवाञ्छास्ता गुप्ति कृत्वाभिरक्षणे
धर्म्मधातोः जगद्भर्त्तुरनुज्ञां दातुमर्हति ।
इति संप्रार्थिते तेन शान्तश्रिया निशम्य सः
महामतिर्महासत्त्वं तं पश्यन्नेवमब्रवीत् ।
भद्रस्वंयम्भूवांस्तस्य गुप्तिकर्त्तुं यदीच्छसि
प्रत्येकं श्रावकं यानं मुक्त्वा महति संश्रितः ।
वज्राभिषेकमादाय चर वज्रव्रतं पुनः
ततो मारान् विनिर्ज्जित्य समाराध्य जिनेश्वरं ।
संप्रार्थ्य शिलयाच्छाद्य कुरु स्तूपं समुछ्रितं
इति शास्ता समादिष्टं निशम्य स प्रमोदितः ।
शास्तारं तं प्रणत्वा च प्रार्थयदेवमादरात्
सद्गुरुर्मे भवाञ्छास्ता धर्म्मधातुसुरक्षणे ।
वज्रचर्याव्रतं दत्वा चारय मां जगद्धिते
इति संप्रार्थिते तेन शान्तश्रिया निशम्य सः ।
महामतिर्महासत्त्वं तं समीक्ष्यैवमब्रवीत्
यदि श्रद्धास्ति ते भद्र वज्रचर्या महाव्रतं ।
यथाविधि प्रदास्यामि तद् गृहाण जगद्धिते
इत्युक्त्वा स महाचार्यस्तस्मै शान्तश्रिये क्रमात् ।
साभिषेकं महायाने वज्रचर्याव्रतं ददौ
शान्तश्रीवज्राचार्य इति स्थापितः तत्क्षणे ऽर्ये चाधिज्ञप्राप्तो ऽभूत् ।
ततः प्राप्ताभिषेकः स शान्तश्री वज्रयोगवित्
स स्वात्मा दक्षिणां तस्मै गुरवे प्रददौ मुदा ।
ततः स वज्रधृग् योगी महाभिज्ञः सुसिद्धिमान्
स्वकुलेशं समाराध्य सगणं प्राभजन् मुदा ।
ततः स वज्रधृग् योगी महाभिज्ञः सुसिद्धिमान्
सद्धर्म्मसाधनोत्साही सर्वविद्याधिपोप्यभूत् ।
ततः सास्तुरनुज्ञां स समासाद्य प्रसादितः
धर्मधातुं समाराध्य प्रार्थयदेवमानतः ।
भगवन् नाथ सर्वज्ञ भवतां रक्षणाय यत्
ज्योतीरूपं समाच्छाद्य चैत्यं कर्त्तुमिहोत्सहे ।
तद् भवान् त्रिजगन्नाथ कृपया मे प्रसीदतु
यद त्राप्यपरार्ध मे तत्सर्व क्षन्तुमर्हति ।
इति संप्रार्थ्य स प्राज्ञ ज्योतीरूपं जिनालयं
स रत्नपद्माछाद्य शिलया समगोपयत् ।
तदुपरीष्टिकाभिश्च विधाय चैत्यमुच्छ्रितं
यथाविधि प्रतिष्ठाप्य महोत्साहैः सदाभजत् ।
तत इदञ्च पुच्छाग्रं मञ्जुदेवस्य निर्म्मितं
चैत्यं स शिलयाछाद्य स्तूपं व्यधात्तथोत्तमं ।
इदं स्तूपं च स शान्तश्रीः प्रतिष्ठाप्य यथाविधि
सर्वदा श्रद्धया भक्त्या महोत्साहैर्मुदाभजत् ।
ततश्चासौ महाचार्यं आराध्य पञ्चदेवताः
पञ्च सुताः पुरेष्वेवं प्रतिष्ठाप्य सदाभजत् ।
तद् यथा देवता पञ्च प्रथमं वायुदेवता
वायुपुरे प्रतिष्ठाप्य वह्निपुरो ऽग्निदेवता ।
नागपुरे च नागेन्द्रो वसुपुरे वसुन्धरां
शान्तिपुरे महाश्रीमत्सम्बरं सुगणं तथा ।
एतान् सर्वान् समाराध्य स आचार्य यथाविधि
महोत्साहैः समभ्यर्च्य प्राभजन् सर्वदा मुदा ।
एवं कृत्वा स आचार्य शान्तश्रीः कृतकृत्यौ महर्द्धिकः
भद्रश्रीमन्त्रसंसिद्धः सर्वविद्याधिपो ऽभवत् ।
ततो भूयः स आचार्यो बोधिसत्त्वा महामतिः
सर्वसत्त्वहितोत्साही ध्यात्वैवं समचिन्तयत् ।
अत्रैवमहमाराध्य सर्वान् देवान् यथाविधि
प्रतिष्ठाप्य समभ्यर्च्य महोत्साहैर्भजे मुदा ।
तथात्र सर्वदा धर्म्मधातुवागीश्वरं सदा
स्मृत्वा ध्यात्वा समाराध्य संतिष्ठेयं जगद्धिते ।
इति ध्यात्वा स शान्तश्रीराचार्यस्त्रिगुणार्थभृत्
सर्वसत्त्वहितार्थेन तथावत्रैव नन्दितः ।
एवं ता देवता भक्त्या भजन्ति ये यथाविधि
ते भद्रश्रीगुणापन्ना भवेयुर्बोधिचारिणः ।
तद् विशेषफलं चापि शृणु मैत्रेय सांप्रतं
सर्व सत्त्वानुबोधार्थ वक्ष्याम्यत्र समासतः ।
तद्यथा ये समाराध्य सगणां वायुदेवतां
यथाविधि समभ्यर्च्य संभजन्ते समादरात् ।
तेषां वातमहोत्पातभयं क्वापि न विद्यते
नीरोग्यं श्रीसमापन्नं कामभोज्यं सदा भवे ।
ये चाप्येवं समाराध्य सगणां वह्निदेवतां
यथाविधि समभ्यर्च्य सम्भजन्ते समादरात् ।
तेषां वह्निमहोत्पातं भयं क्वापि न विद्यते
परिपुष्टेन्द्रियारोग्य महासौख्यं सदा भवे ।
ये चाप्येवं समाराध्य सगणां नागदेवतां
यथाविधि समभ्यर्च्य प्रभजन्ते सदा मुदा ।
तेषां न विद्यते क्वापि दुर्भिक्षोत्पातजं भयं
भद्रश्रीरत्नसंपत्तिकामभोज्यं सदा भवे ।
ये चाप्येवं समाराध्य सगणां श्रीबसुन्धरां
यथाविधि समभ्यर्च्य संभजन्ते समादरात् ।
तेषां दारिद्रयदुःखादि भयं नास्ति कदाचन
भद्रश्रीसद्गुणापन्नमहासंपत्सुखं सदा ।
ये चाप्येवं समाराध्य सगणं सम्बरं जिनं
यथाविधि समभ्यर्च्य संभजन्ते सदादरात् ।
तेषां मारापसर्ग्ग च भयं क्वापि न विद्यते
सद्धर्म्मरत्नसंपत्तिमहैश्वर्यसुखं सदा ।
ये चेदं चैत्यमाराध्य मञ्जुदेवस्य निर्म्मितं
यथाविधि समभ्यर्च्य संभजन्ते समादरात् ।
तद्दुर्भ्भगा दुराचारा दुष्टा स्युर्न कदाचन
सर्वे धर्माधिपा नाथा भवेयुः श्रीगुणाकराः ।
ये चापीदं समाराध्य धर्म्मधातुं जिनालयं
यथाविधि समभ्यर्च्य सम्भजन्ते समादरात् ।
ते सर्व्वे विमलत्मानो भद्रश्रीसद्गुणाश्रयाः
बोधिसत्त्वा महाभिज्ञा भवेयु बोधिचारिणः ।
य एता देवताः सर्वाः स्मृत्वा ध्यात्वापि सर्वदा
नामापि च समुच्चार्य संभजन्ते समाद्रिताः ।
ते ऽपि सर्वे न यास्यन्ति दुर्ग्गतिं च कदाचन
सदा सद्गतिसंजाता भवेयुः श्रीगुणाश्रयाः ।
ततस्ते सुकृतारक्ताः सधर्म्मगुणलालसाः
त्रिरत्नशरणं कृत्वा संचरेरन् सदा शुभे ।
ततस्ते विमलात्मानः परिशुद्धेन्द्रियाशयाः
बोधिसत्त्वा महासत्त्वाश्चतुर्ब्रह्मविहारिणः ।
सर्वसत्त्वहिताधानं चरेयुर्बोधिसम्बरं
ततस्ते बोधिसंभारं पुरयित्वा यथाक्रमं ।
दशभूमीश्वरा नाथा भवेयुः सुगतात्मजाः
ततस्ते निर्म्मलात्मानः संसारगति निःस्पृहाः ।
अर्हन्तः सवल मारं निर्जित्य स्युर्निरंजनाः
त्रिविधां बोधिमासाद्य सद्धर्म्मगुणभास्कराः ।
सर्वसत्त्वहितार्थेन संबुद्धपदमाप्नुयु
येप्येतद्गुणमाहात्म्यं श्रुत्वाप्यत्यनुमोदिताः ।
तथा तत्पुण्यमाहात्म्यं प्रशसन्ति समादरात्
ते ऽपि सर्वे विकल्माषाः परिशुद्धित्रिमण्डलाः ।
श्रीमन्तः सद्गुणाधारा भवेयु बोधिमानसाः
न यायुर्दुगतिं क्वापि सदा सद्गतिसम्भवाः ।
सर्वसत्त्वहितं कृत्वा संचरेरञ्जगद्धिते
ततः सर्वाधिपास्ते स्यु र्धम्मार्थि संप्रपूरकाः ।
बोधिसंभारं संपूर्य संबुद्धपदमाप्नुयुः
इति सत्यं परिज्ञाय बौद्धं पदं यदीच्छथ ।
एतान् देवान् समाराध्य भजध्वं सर्वदा भवे
एतत्पुण्यानुभावेन यूयमप्येवमाभवं ।
दुर्ग्गतिं नैव यायात कदाचिन् कुत्रचिद् ध्रुवं
सदा सद्गतिसंजाता भद्रश्रीसद्गुणाश्रयाः ।
बोधिसत्त्वा महासत्त्वा भवत बोधिचारिणः
ततः संबोधिसंभारं पूरयित्वा यथाक्रमं ।
त्रिविधां बोधिमासाद्य संबुद्धपदमाप्स्यथ
इति मत्वात्र ये लोका र्वाञ्छन्ति सौगतं पदं ।
स देवान् सगणां सर्वान् समाराध्य भजन्तु ते
इत्यादिष्टं मुनीन्द्रेण निशम्य ते सभाश्रिताः ।
सर्वे तथेति विज्ञप्य प्राभ्यनन्दन् प्रबोधिताः
तदा शान्तश्रिया यंस्सं गुप्तिकृतो जिनालयः ।
इत्यादिश्य मुनीन्द्रो ऽपि समाधिं विद्धेक्षणं
मूल पाठ: Svayaṃbhupurāṇa · Edition: Min Bahadu Shakyar & Shanta Harsa Bajracharya (trans.). Svayambhu Purāṇa. Nepal: Nagarjuna Institute of Exact Methods, 2001. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0