स्वयंभुपुराण · अध्याय 9
इति स्वयम्भू चैत्याश्रमनामसाधनसुवृष्टिचारणो नामाष्टमो ऽध्यायः ।
नवम अध्यायः श्रीमहाचार्य शान्तिकरगुणसंसिद्धिमहात्म्यानुभाव प्रकथनप्रवर्तनो नाम
अथ मैत्रेय आलोक्य समुत्थाय कृताञ्जलिः ।
भगवन्तं तमानम्य प्रार्थयच्चैवमादरात्
कदा शान्तिकरं नाम तस्याभवत् कथं पुनः ।
तद्धेतुं श्रोतुमिच्छामि समुपादेष्टुमर्हति
इति संप्रार्थिते तेन मैत्रेयेण स सर्ववित् ।
भगवास्तं महासत्त्वं सम्पश्यन्नेवमादिशत्
शृणु मैत्रेय वक्ष्यामि शान्तश्रियां महद्गुणं ।
सद्धर्म्मसाधनोत्साहं भद्रश्रीसद्गुर्णार्थदं
यो ऽसौ राजा महासत्त्वः सधर्म्मगुणलालसः ।
त्यक्त्वा कामसुखं राज्यं तीर्थयात्रामुपाचरत्
स सर्वेष्वपि तीर्थेषु स्नात्वा दानं विधाय च ।
त्रिसमाधिसमाचारः संचर पोषधं व्रतं
एवं सर्वेषु पीठेषु भ्रमन् सद्धर्म्ममानसः ।
योगचर्याव्रतं धृत्वा प्रचचार समाहितः
पुण्यक्षेत्रेषु सर्वेषु भ्रमन्नैवमिहागताः ।
दृष्ट्वैमं मण्डलं रम्ये विस्मितं समुपाययौ
अत्रैमं दूरतो दृष्ट्वा धर्म्मधातुं जिनालयं ।
मुदाष्टाङ्गैः प्रणत्वाशुः संद्रष्टुं समुपाययौ
समेत्य संमहासत्त्वा ज्योतीरूपं जिनालयं ।
धर्म्मधातुमिमं दृष्ट्वा प्रणत्वा समुपाश्रयत्
ततः समुदितो राजा नेपाले ऽत्र मनोरमे ।
सर्वत्रापि च संद्रष्टुं प्रचचार विलोकयन्
तेषु सर्वेषु तीर्थेषु स्नात्वा दत्वा यथेप्सितं ।
यथाविधि समाधाय व्रतं चर समाहितः
ततोष्टौ वीतरागांश्च दृष्ट्वा स संप्रमोदितः ।
यथाविधि समाराध्य समभ्यर्च्य सदाभजन्
ततश्चासौ महादेवी खगाननां महेश्वरीं ।
यथाविधि समाराध्य समभ्यर्च्याभजन्मुदा
ततो मञ्जुश्रियश्चैत्यं समीक्ष्य स प्रमोदितः ।
यथाविधि समभ्यर्च्य प्राभजत् समुपस्थितः
ततः श्चैतत्महत्पुण्यैः शान्तिश्रीशुभितेन्द्रियः ।
प्रवज्या संवरं धृत्वा ब्रह्मचारी बभूव सः
यत्तस्य सुप्रशान्तश्रीशोभितानीन्द्रियानि षट् ।
तं ननाम प्रसिद्धं च शान्तश्रीरित्यभूद्यतः
ततो ऽसौ सत्मतिर्विज्ञो बोधिसत्त्वो जगद्धिते ।
वज्रचर्याव्रतं गृहय प्रचचार समाहितः
ततश्च शिलयाछाद्य धर्म्मधातुंमिमं जिनं ।
इष्टिकाभिर्महत्स्तूपं विधाय समगोपयत्
ततः पञ्चपुरेष्वत्र स्थापिता पञ्च देवताः ।
मञ्जुश्रीयामिदं चैत्यमनेन च महत्कृतं
एवं कृत्वात्र कार्याणि सर्वाणि स महामतिः ।
बोधिसत्त्वा महाभिज्ञः प्रचचार जगद्धिते
ततश्चात्र महत्पातं शमीकृत्य समंततः ।
भद्रश्रीमङ्गलोत्साहं न शान्तश्रीःस्सदा व्यधात्
ततश्चासौ महाभिज्ञो दुर्वृष्टि परिवर्त्तते ।
नागराजान् समाराध्य सुवृष्टि समचारयत्
एवं स त्रिगुणाभिज्ञां महोत्पात प्रशान्तिकृत् ।
शुभंकर सदा तेन शान्तिकरे इति स्मृतः
ईदृग्मन्त्री महाभिज्ञो वज्राचार्या महामतिः ।
समृद्धिसिद्धिसंपन्ना न भूता न भविष्यति
एवं विधाय सर्वत्र निरुत्पातं शुभोत्सवं ।
बोधिसत्त्व स शान्तश्रीस्त्रैलोक्यमहितोभवत्
एवमस्य महत्पुण्यं भद्रश्रीगुणसाधनं ।
विज्ञाय शरणं गत्वा सवितव्यं शुभार्थिभिः
यद्यस्य शरणं गत्वा श्रद्धया समुपाश्रिताः ।
यथाविधि समाराध्य भजेयुः सर्वदा मुदा
ते सर्वे विमलत्मानो निःक्लेशा विजितेन्द्रियाः ।
भद्रश्रीगुणसंपत्तिं सर्द्धिसिद्धिं समाययुः
ये च तस्य सदा स्मृत्वा ध्यात्वापि च समाहिताः ।
नामापि च समुच्चार्य भजेयुः श्रद्धया सदा
ते ऽपि सर्वे विकल्माषाः परिशुद्धत्रिमण्डलाः ।
तद्गुणश्रीसमापन्ना भवेयु बोधिचारिणः
इत्येवं तत्महत्पुण्यं विज्ञाय तद्गुणार्थिनः ।
तस्यैव शरणं गत्वा भजन्तु ते सदा मुदा
इत्यादिष्टं मुनीन्द्रेण सर्वे ऽपि ते सभाश्रिताः ।
लोकास्तथेति विज्ञप्य प्राभ्यनन्दन् प्रबोधिताः
एवमसौ महासत्त्वो भद्रश्रीसद्गुणार्थभृत् ॥
सर्वसत्त्वहितं कृत्वा संतस्थे सुचिरं तथा
ततः काले गते राजा वृद्धोभिजीर्ण्णितेन्द्रियः ।
निःक्लेशो विरताभागो ध्यात्वैव समचिन्तयत्
अहं वृद्धोतिजीर्ण्णाङ्गः स्थास्याम्येवं कियाच्चरं ।
अवश्यं दैवयोगेण यास्यामि मरणं ध्रुवं
तदत्राहं स्वपुत्राय यूने लोकानुपालने ।
साभिषेकमिदं राज्यं दातुमर्हामि साम्प्रतं
इति ध्यात्वा स भूपालो नरेन्द्रदेवमात्मजं ।
अभिषिंच्य नृपं कृत्वा बोधयन्नेवमंन्वशात्
राजन् पुत्र समाधाय धर्मनीत्या समाचरन् ।
त्रिरत्नभजनं कृत्वा संचरस्व सदा शुभे
अद्यारभ्यासि सर्वेषां लोकानामधिपः प्रभुः ।
सर्वधर्मानुशास्ता च सर्वसत्त्वहितार्थभृत्
तदत्र सकलान् लोकान् धर्मनीत्यानुपालयन् ।
त्रिरत्नभजनं कृत्वा संचरंस्व सदा शुभे
इत्यनुशास्य तन्पुत्रं पिता स भवनिस्पृहः ।
सर्वपरिग्रहान्स्त्यक्त्वा वनप्रस्थसमाश्रयन्
तत्रस्थासौ महाभिज्ञः परिशुद्धित्रिमण्डलः ।
समाधिनिहितः स्वान्तः ससंचरे बह्मसंबरं
ततः काले गते मृत्युसमये स समाहितः ।
त्रिरत्नं स स्मरंस्त्यक्त्वा देहं ययौ सुखावतीं
ततः स नृपती राजा नरेन्द्रदेव इन्द्रवत् ।
संबोधयन् प्रयत्नेन सर्वान् लोकानपालयत्
सो ऽपि राजा विशुद्धात्मा सद्धर्म्मगुणलालसः ।
शान्तिकरं तमाचार्य समेत्य शरणं ययौ
तत्र स समुपाश्रित्य शास्तुराज्ञां शिरोवहन् ।
त्रिरत्नभजनं कृत्वा प्राचरत् सर्वदा शुभे
सदा सर्वेषु तीर्थेषु स्नानं कृत्वा यथाविधि ।
पित्रेभ्यः प्रददौ पिण्डंमर्थिभ्यो ऽपि यथेप्सितं
तथाष्टौ वीतरागांश्च क्षत्रलोकाधिपामपि ।
यथाविधि समाराध्य समार्चयत् स पर्वसुः
तथा च श्रीमहादेवीं खगाननां यथाविधि ।
समाराध्य समभ्यर्च्य महोत्साहैर्मुदाभजत्
तथा मञ्जुश्रीयश्चैत्ये पृच्छाग्रेस्मिन्नुपाश्रयत् ।
यथाविधि समाराध्य समभ्यर्च्याभजत् सदा
तथा वायुपुरे वायुदेवताः सगणा अपि ।
यथाविधि समाराध्य समभ्यर्च्याभजत् सदा
तथा वह्निपुरे वह्निदेवताः सगणा अपि ।
यथाविधि समाराध्य समभ्यर्च्याभजत् सदा
तथा नागपुरे नागदेवताः सगणा अपि ।
यथाविधि समाराध्य समभ्यर्च्याभजत् सदा
तथा वसुपुरे देवीं वसुधारां समण्डलाम् ।
यथाविधि समाराध्य समभ्यर्च्या सदाभजत्
तथा शान्तिपुरे श्रीमत्सम्बरं सगणं जिनं ।
यथाविधि समाराध्य समभ्यर्च्या सदाभजत्
तथा तस्य धर्मधातोः स नरेन्द्रः समुपाश्रितः ।
यथाविधि समाराध्य प्राभजन् सर्वदार्चयन्
एवं स नृपती राजा सद्धर्मगुणलालसः ।
त्रिरत्नभजनं कृत्वा संप्राचरत् सदा शुभे
एवं स नृप एतेषु तीर्थयात्रादिकर्मसु ।
बोधयित्वा प्रयत्नेन सर्वान् लोकान् यया जयत्
तथा सर्वे ऽपि ते लोका धृत्वा नृपानुशासनं ।
एतेषु तीर्थयात्रादिकर्मसु संप्रचेरिरे
तथाष्टौ वीतरागांश्च देवीं खगाननामपि ।
पञ्चैता देवताश्चापि चैत्यं मञ्जुश्रियो ऽपि च
जगदीशं जगन्नाथं धर्मधातुं जिनालयं ।
यथाविधि समभ्यर्च्य प्राभजन्त सदा मुदा
एतद्धर्मानुभावेन सर्वदात्र सुमङ्गलं ।
निरुत्पातं महोत्साहं प्रावर्त्तत समन्ततः
एवं स नृपती राजा नरेन्द्र देव आत्मनः ।
बोधिचर्याः व्रतं धृत्वा संप्रचर जगद्धिते
परानपि तथा सर्वान् लोकान् यत्नेन बोधयन् ।
बोधिमार्गे समायुज्य प्राचारयज्जगद्धिते
एवं स इन्द्रवद् राज बोधिसत्त्वा जगत्प्रभुः ।
सर्वसत्त्वहितं कृत्वा तस्थौ चिरं शुभे रमन्
ततः श्रीमान् स आचार्यः शान्तिकरो महर्द्धिकः ।
कृतकृत्यः प्रवृद्धो ऽपि निर्वातुं नाभिवांछति
सर्वसत्त्वहिताकांक्षी शान्तिपुराग्रताधसि ।
ध्यानागारे महोद्दारे याजनैक प्रमाणिके
आरोप्य श्रीमहोज्वाले चिन्तामणि महाध्वजं ।
स प्राज्ञः स महासत्त्वो बोधिसत्त्वा जिनात्मजः
समाधिधारणीविद्यायोगध्यानसमाहितः ।
सम्बोधिप्रणिधिं धृत्वा तस्थौ निश्चरमानसः
यदा सद्धर्म्महीणे ऽत्र लोकपंच कषायिते ।
तदोत्थाय समाधेः स सद्धर्म्म देशयिष्यति
यदा यदात्र सत्मित्रः शास्त्रा विद्याधिपा न हि ।
तदा तदा न सन्मित्रः शास्त्राविद्याधिपोभवन्
सर्वान्लोकान् प्रयत्नेन निवार्य पापमार्गतः ।
बोधिमार्गे प्रतिष्ठाप्य चारयिष्यति सद्धर्मे
एवं ध्यात्वा स आचार्यः शान्तिकरः समाधिभृत् ।
सर्वसत्त्वहितार्थेन तस्थौ योगसमाहितः
एवं स त्रिगुणाचार्यः सर्वसत्त्वहितार्थभृत् ।
बोधिसत्त्वमहाभिज्ञ तिष्ठ तत्र जगद्धित
ये तस्य शरणं गत्वा स्मृत्वा ध्यात्वा समादरात् ।
नामापि च समुच्चार्यं भजन्ति श्रद्धया सदा
ते ऽपि सर्वे महाभिज्ञा बोधिसत्त्वा विचक्षणाः ।
भद्रश्रीगुणसंपन्ना भविष्यन्ति सदा भवे
ततस्ते विमलात्मानश्चतुर्ब्रह्मविहारिणः ।
बोधिचर्याव्रतं धृत्वा चरिष्यन्ति जगद्धिते
ततस्ते बोधिसंभारं पूरयित्वा यथाक्रमं ।
अर्हन्तो बोधिमासाद्य प्राप्स्यन्ति सौगतं पदं
ये च तद्गुणमाहात्म्यं शृण्वन्ति श्रद्धया मुदा ।
ते ऽपि तद्गुण संपत्ति संसिद्धिं समवाप्नुयुः
इति विज्ञाय वाञ्छन्ति यस्तस्य गुणसंपद ।
ते सद्गुणमाहात्म्यं श्रोतुमर्हति सादरं
इत्यादिष्टं मुणीन्द्रेन श्रुत्वा सर्वसभाश्रिताः ।
लोकास्तथेति संश्रुत्य प्राभ्यनन्दन् प्रबोधिताः
मूल पाठ: Svayaṃbhupurāṇa · Edition: Min Bahadu Shakyar & Shanta Harsa Bajracharya (trans.). Svayambhu Purāṇa. Nepal: Nagarjuna Institute of Exact Methods, 2001. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0