स्वयंभुपुराण · अध्याय 6
मैत्रेयादि सभालोकाः प्राप्यनन्द प्रवोधिताः ।
इति श्री स्वयंभू समुत्पत्ति कथायां अनेक तीर्थ संजात पुण्य महात्म्य वर्णनो नाम पञ्चमो ऽध्याय ।
षष्ठम अध्यायः स्वयम्भूधर्मधातुवागीश्वराभिधानप्रसिद्धप्रवर्तनो नाम
अथासौ च महासत्त्वो मैत्रेयः सुगतात्मजः ।
मुनीन्द्रं श्रीघनं नत्वा साञ्जलिरेवमब्रवीत्
यदस्य भगवन् धर्म्मधातु वागीश्वराभिधं ।
प्रसिद्ध हेतुना केन तत्समादेष्टुमर्हति
इति संप्रार्थिते तेनः मैत्रेयेण स सर्ववित् ।
भगवान्स्तं महासत्त्वं संपश्यन्निदमादिशत्
येनास्य हेतुना धर्म्मधातु वागीश्वराभिधं ।
प्रसिद्धिं तत्प्रवक्षामि शृणु मैत्रेय सादरं
तद्यथायुर्यदा नृणां त्रिंशद्वर्ष सहस्रिके ।
शोभावत्यां महापूर्यामुदपादि तदा जिनः
संबुद्धो ऽर्हञ्जगच्छास्ता धर्म्मराजो मुनीश्वरः ।
कनक मुनीरित्याख्यास्तथागतो विनायकः
तदाहं कुलपुत्रो स सुधर्म्माख्य आत्मवित् ।
बोधिसत्त्वो महासत्त्वो धर्म्मश्री सद्गुणार्थभृत्
स कनकमुनेः शास्तुः शासने समुपाश्रितः ।
त्रिरत्नभजनं कृत्वाः प्राचरम् बोधिसंवरं
यदा च भगवाञ्छास्ता शोभावत्या उपाश्रमे ।
विहारे शोभितारामे विजहार स सांघिकः
तदा तत्र सभालोके ब्रह्मेन्द्र प्रमुखाः सुराः ।
सर्वलोकाधिपाश्चापि धर्म्मं श्रोतुमुदागताः
सर्वे ग्रहाश्च ताराश्च सर्वा विद्याधरा अपि ।
सिद्धाः साध्याश्च रुद्राश्च मुनयो ऽपि महर्षयः
गन्धर्वाः किन्नरा यक्षा गुह्यका राक्षसा अपि ।
कुम्भाण्डा गरुडा नागा दैत्याश्चापि समागताः
यतयो योगिनश्चापि तीर्थिकाश्च तपस्विनः ।
पाखण्डाश्च परिव्राजको निर्ग्रन्था ब्रह्मचारिणः
श्रमणाः श्रावकाश्चापि व्रतिनश्चाप्युपासकाः ।
तत्सद्धर्म्मामृतं पातुं सादरं समुपागताः
ब्राह्मणा क्षत्रिया श्चापि वैश्याश्च मन्त्रिणोजनाः ।
गृहाधिपाश्च श्रेष्टाश्चः भृत्याः सैन्याधिपा अपि
शिल्पिनो वणिजश्चापि सार्थवाहा महाजनाः ।
पौरा जानपदा ग्राम्याः कार्पटिकाश्च शैरिकाः
तथान्य वासिनश्चापि सर्वलोकाः प्रसादिताः ।
तत्सद्धर्म्मामृतं पातुं सादरं समुपागताः
तान्सर्वान्समुपायातान् दृष्ट्वा स भगवान्मुदा ।
सभा मध्यासनासीनस्तस्थौ ध्यात्वा प्रभासयन्
तं मुनीन्द्रं प्रभाकान्तं दृष्ट्वा सर्वे ऽपि सांधिकाः ।
श्रवणाः श्रावकाः सर्वे भिक्षवो ब्रह्मचारिणः
भिक्षुण्यो ब्रह्मचारिण्यो उपासिकाश्च चैलिकाः ।
चैलका व्रतिनश्चापि धर्मकामा उपासकाः
सर्वे ऽपि ते समागत्य प्रणत्वा तं मुनीश्वरं ।
परिवृत्य परिस्कृत्य धर्म्म श्रोतुमुपाश्रयन्
ततो ब्रह्मदयो देवाः सर्वे लोकाधिपा अपि ।
तं मुनीन्द्रं समभ्यर्च्य प्रणत्वा च यथाक्रमं
परिवृत्य पुरस्कृत्य तत्सभायां समन्ततः ।
संपश्यन्तं मुनीन्द्रं तं उपतस्थुः समाहिताः
ततस्ते मानवाः सर्वे ऋषि विप्रनृपादयः ।
तं मुनीन्द्रं समभ्यर्च्य संप्रणत्वा यथाक्रमं
तत्सभां समुपाश्रित्य परिवृत्य समन्ततः ।
पुरस्कृत्य समुद्वीक्ष्य संतस्थिरे समाहिताः
ततस्तान् समुपासीनान् दृष्ट्वा स भगवान् मुदा ।
आर्यसत्यं समारभ्य सद्धर्म्म समुपासदित्
क्रमेन बोधिचर्यागमार्याष्टांङ्ग च सत्पथं ।
आदिश्य बोधिमार्गे तान् सर्वाल्लोकान् योजयेत्
तत्सद्धर्म्मामृतं पीत्वा सर्वे लोकाः प्रवोधिताः ।
सद्धर्म्म साधना युक्ता बभूवु र्बोधिमानसाः
तदा विक्रमशीलाख्ये विहारे भिक्षुरात्मवित् ।
ससंघा व्यहरद् धर्म्मश्रीमित्राख्यः सुधीर्यतिः
स तत्र सर्वलोकानां हितार्थेन समाश्रितः ।
स संघा नामसंगीतिं व्याख्यातुमभ्यवाञ्छत
ततः स सत्मतिः सर्वान् संघा नाम प्रसादरं ।
सभामध्यासनासीनस्तस्थौ ध्यानसमाहितः
तं सभासन आसीनं दृष्ट्वा सर्वे ऽपि सांघिकाः ।
तत्सद्धर्म्मामृतं पातुमिच्छतः समुपागताः
तत्र ये यतिं नत्वा परिवृत्य समन्ततः ।
पुरस्कृत्य समीक्षन्त उपतस्थुः समाहिताः
तत्रान्ये ऽपि समायाता लोकद्विजनृपादयः ।
वैश्याश्च मन्त्रिनो ऽमात्याः भृत्या सैन्याधिपा अपि
शिल्पिनो वनिजश्चापि सार्थवाहा महाजनाः ।
पौरा जानपदाग्राम्यास्तथान्यदेशवासिनः
सर्वे ते समुपागत्य प्रणत्वा तं यतिं मुदा ।
परिवृत्य पुरस्कृत्य सपश्यन्तमुपाश्रयन्
ततः स यतिरालोक्य सर्वान्स्तान्समुपाश्रितान् ।
मञ्जुश्रीनाम संगीतिं समाख्यातं यथात्क्रमात्
तत्समादिष्टमाकर्ण्यं सर्वे लोकाः सभाश्रिताः ।
संबुद्ध गुणमहात्म्यं मत्वानन्दप्रवोधिताः
ततः सर्वे ऽपि लोकास्ते ब्राह्मण भूमिपादयः ।
नत्वा तं यतिमामन्त्र्य स्वस्वालयं मुदाययुः
ततस्ते श्रावका विज्ञा यतयो ब्रह्मचारिणः ।
द्वादशाक्षर गुह्यार्थं सम्यक् श्रोतुंममीच्छिरे
ततस्ते योगिनः सर्वे कृताञ्जलि पुटा मुदा ।
शास्तारं तं यतिं नत्वा समामत्र्यैवमव्रुवन्
भदन्त द्वादशानां यदक्षराणां विशेषतः ।
विशुद्धिं श्रोतुमिच्छामस्तत्समादेष्टुमर्हति
इति तै र्प्रार्थितं धर्म्मश्री मित्रः ससुधीरपि ।
द्वादशाक्षर गुह्यार्थं विशुद्धिं न समादिशत्
तं विशुद्धा नभिज्ञाता विषण्णात्मा स उत्थितः ।
ध्यानागारं समासीनो ध्यात्वैवं समचिन्तयन्
नैतदक्षरं गुह्यार्थं विशुद्धिर्ज्ञायते मया ।
तत्कथं उपदेक्ष्यामि हाहा कुत्र भ्रमेयहि
इति चिन्ता विषर्ण्णो ऽत्मा लज्जा संमोहिताशयः ।
स्मृत्वा रत्नत्रयं ध्यात्वा तस्थौ धैर्यसमाहितः
तत्क्षणे स त्रिरत्नानां स्मृति पुण्यानुभावतः ।
एवं मतिं महावीर्य महोत्साहिनिमाप्तवान्
ततस्तत्मति शौण्डौ ऽसौः पुन ध्यात्वा समाहितः ।
मनसा सर्व लोकेषु विचारयन् व्यलोकयन्
तदापश्यन्महाचीने उत्तरस्यां नगोत्तमे ।
मञ्जुश्रीयं महाभिज्ञं सर्व विद्याधिपेश्वरं
बोधिसत्त्वं महासत्त्वं सर्व धर्म्माधिपप्रभुं ।
सर्व गुह्य विशुद्धार्थ विज्ञानज्ञानदायकं
तं पश्यन् मनसा धर्म्मश्री मित्रः समुत्सुकः ।
सहसोत्थाय तान्संघान् सभामन्त्र्यैवमव्रवीत्
भो भदन्तो गमिष्यामि महाचीने नगोत्तमे ।
मञ्जुश्रीयं महासत्त्वं द्रष्टुमिच्छामि सांप्रतं
एतस्या नामसंगीत्या गुह्य विशुद्धि विस्तरं ।
पृष्टा सम्यक् विज्ञाय आगमिष्याम्यहं द्रुतं
यावन्नाहमिहायात स्तावत्सर्वे समाहिताः ।
त्रिरत्न भजनं कृत्वा तिष्ठत मा विषीदत
इत्युक्त्वा स महाभिज्ञस्ततः संप्रस्थितो द्रुतं ।
सञ्चरन्नत्र नेपालविषये समुपाययौ
तमायातं यतिं नत्वा मञ्जुदेवः स सर्ववित् ।
स्वान्तिके समुपाद्रष्टुमेच्छत् ऋद्धिं प्रदर्शयन्
ततः मंजुदेवो ऽपि भूत्वा कृषिकरः स्वयं ।
शार्दूल मृगराजाभ्यां हलेनाकर्षयन् महीं
तं दृष्ट्वा दूरतो धर्म्मश्रीमित्रो अतिविस्मितः ।
किमेतत् महदाश्चर्यमितिद्रष्टुमुयाचरत्
ततः समुपाश्रित्य दृष्ट्वा तन्महदद्भुतं ।
कृषिकरं तमामन्त्र्यपप्रच्छैव व्यवलोकयन्
भो साधो इतो देशान्महाचीन नगोक्तमः ।
पञ्चशीर्षः कियद्दूरे तदुपदेष्टुमर्हति
इति संप्रार्थितं तेन श्रुत्वा स हलवाहकः ।
सुचिरं तं यतिं पश्यन्सादरमेवमव्रवीत्
यत्त्वं कुत इहायासि किमर्थमुक्तरापथे ।
महाचीनस्य दूरतो गन्तुं त्वं परिपृच्छ से
अद्य प्रवर्तते सायं तद् विहारे ममाश्रमे ।
उषित्वा प्रात रुत्थाय गच्छ मद्देशितात्पथः
इति तेनोदितं धर्मश्री मित्रो निशंम्य सः ।
तथेत्यनुमतं धृत्वा तूष्णीं भूत्वा व्यतिष्ठतः
ततः संबोधितं भिक्षु मत्वा स हलवाहकः ।
तौ शार्दुल मृगेन्द्रो द्वौतत्रैवान्तव्यर्धापयेत्
हलं तु सर्वलोकानां संप्रवोधन हेतुना ।
तत्रैवोच्च स्थल क्षेत्रे यूप वदवरोपयत्
अद्यापि तत्महीस्थानं मञ्जुश्रीभूः प्रसिध्यते ।
सावाचेति प्रसिद्धा च यत्रावरोपितं हलं
ततस्तं यतिमाहुय सायं स हलवाहकः ।
तत्र प्रविश्य धर्मश्रीमित्र संप्रति विस्मितः
ततो मूलफल स्कन्ध पत्रादि भोगमादरात् ।
दत्वा तस्मै स्वयं भुक्त्वा तस्थौ स हलवाहकः
ततः स विविधां धर्म्मश्रीमित्रोरजनी कथां ।
भाषित्वा तं महाभिज्ञं कृषिकरं व्यनोदयन्
ततः स मञ्जुदेवस्तं यति छात्रालये निशि ।
प्रेषयित्वा स्वयं गह्वागारे शय्यां समाश्रयत्
तत्र प्रविश्य धर्म्मश्री मित्र संप्रति विस्मितः ।
सुप्त्वाक्षणं समुत्थाय मनसैवं व्यचिन्तयत्
नाद्यात्र शयनीयं यदयंपुमान्महर्द्धिकः ।
भार्याया सहसाकथ्यं किंकिं कुर्याद् विनोदयं
इति ध्यात्वा सधर्म्मश्रीमित्र यतिरुत्थितः ।
संवर निभृतं तस्य द्वारमूलमुपाश्रयेत्
तत्क्षणे मञ्जुदेवं तं केशिनी सुप्रिया सती ।
शयासनसमासीना भर्क्तारमेवमव्रवीत्
स्वामिन्को ऽयं यति र्धीमान्किमर्थमस्मदाश्रमे ।
इह कुतः समायात स्तत्समादेष्दुमर्हति
इति संप्रार्थितं देव्या मञ्जुदेवो निशम्य सः ।
केशिनीं तां प्रियां भार्यां सम्पश्यन्नेवमव्रवीत्
साधु शृणु प्रिये देवी यदर्थ यमिमिहागतः ।
तदर्थ हि महद्धेतुं वक्ष्यामि ते विचारयत्
अयं भिक्षु महाभिज्ञो बोधिसत्त्वो महामतिः ।
विख्यातो यो महाधर्म्मश्रीमित्रोभिधो यति
विक्रमशील आख्याते विहारे स निवासकः ।
नामसंगीति व्याख्यानं शिक्षेभ्यो विस्तरं व्यधात्
द्वादशाक्षर गुह्यार्थ विशुद्धि ज्ञान विस्तरं ।
नाम सम्यगुपाख्यातुं शक्नोति न सुधीरपि
तदायं च विषण्णात्माः ध्यानागारे समाश्रितः ।
ध्यात्वा लोकेषु सर्वत्र विलोक्यैवं व्यचिन्तयन्
मञ्जुश्री रेव जानीयात्सर्व गुह्य विशुद्धिवित् ।
द्वादशाक्षर गुह्यार्थ विशुद्धिं समुपादिशत्
इति ध्यात्वा समुत्थाय सर्वान् शिष्यान्स सांघिकान् ।
बोधयित्वा महोत्साहः वीर्येण प्रचारक्ततः
उक्तरस्यां महाचीने पञ्चशीर्षेस्मदाश्रमे ।
गन्तुमनेन मार्ग्गेण चरन्नीह समागतः
तमिह समयायातं दृष्ट्वा समृद्धिभावतः ।
बोधयित्वैवमाहुयोः नयामि स्वाश्रमे ऽधुना
इति भक्ता समादिष्टं श्रुत्वा सा केशिनी प्रिया ।
स्वामिनं तं समालोक्य पप्रच्छैवं समादरात्
स्वामिनहं न जानामि शृणोमि न कदाचन ।
कथमेतद्विशुद्ध्यर्थं समुपादिश मे ऽधुना
इति संप्राथितं देव्या मञ्जुदेवो निशम्य सः ।
केशिनीं तां प्रियां भार्या सम्पश्यन्नेवमव्रवीत्
साधु देवी तव प्रीत्या साम्प्रतमुपदिश्यते ।
एतदर्थ महागुह्यं गोपनीयं प्रयत्नतः
इत्युक्त्वा मञ्जुदेवो ऽसौ तस्यै देव्यै यथाविधिः ।
द्वादशाक्षर गुह्यार्थं विशुद्धि समुपादिशत्
एतत्सर्व समाख्यातं विस्तरं स महामतिः ।
धर्मश्रीमित्र आकर्ण्य प्रात्यनन्द प्रवोधितः
तत समुदितो धर्म्मश्री मित्र उत्थिते मुदा ।
मञ्जुश्रीरयमेवेति निश्चयं समुपाययौ
ततः ससुप्रसन्नात्मा द्वारमूले कृताञ्जलिः ।
अष्टांग प्रणतिं कृत्वा तस्थौ तद्गत मानसः
ततः प्रातः समुत्थाय केशिनी मोक्षदायनी ।
द्वारकपारमुदधाटयः वहिर्गन्तुमुपाक्रमत्
तत्र तं यतिमालोक्य द्वारमूले व्यवस्थितं ।
भीता सा केशिनी देवी द्रुतमुपाचरत्प्रभोः
तां प्रत्यागतां दृष्ट्वा मञ्जुदेवः स सर्ववित् ।
विभिन्नास्यां समालोक्य पप्रच्छैवं अधीरवत्
देवी किंद्वारमुध्याट्य सत्त्वरं त्वमुपागताः ।
दृष्ट्वा किं तत्र भीतासि तत्सत्यं वद मे पुरः
इति पृष्टे जगच्छास्ता भर्क्ता सा केशिनी विरात् ।
स्वामिनं तं समालोक्य शनैरेवंन्यवेदयेत्
स्वामिन्यति नमस्कृत्वा द्वारमूले निपातितः ।
जीवितो वा मृतौ वासौ मया न ज्ञायते खलु
इत्युक्तं भार्यया श्रुत्वा मञ्जुदेवः स उत्थितः ।
उपेत्य द्वारमूले तं संददर्श निपातितं
दृष्ट्वा स मञ्जुदेवस्तं यतिं ध्यात्वा जितेन्द्रियं ।
हस्तं धृत्वा समुत्थाय संपश्यन्नेवव्रवीत्
यते किमर्थमत्रैवं द्वारं ध्यात्वावतिष्ठसि ।
तत्ममपुरतः सभ्यं वदय ते समाहितं
इत्युक्त्वा मञ्जुदेवेंन धर्मश्रीमित्र उन्मनाः ।
मञ्जुश्रियन्तमष्टांगैनत्वैवं प्रार्थयन्मुदा
भगवन्नाथ सर्वज्ञ सर्वविद्याधिप प्रभो ।
भवत्पादाम्बुजे भक्त्या शरणे समुपाश्रये
भवानेव जगच्छास्ता मञ्जुश्रीर्भगवानपि ।
ज्ञायते दृश्यते ह्यत्र ज्ञानरत्ननिधि र्मया
तद् भवाह्नि विजानीते यदर्थेहमिहा व्रज ।
तत्मेभिवांच्छितं शास्ताः संपूरयितुमर्हति
इति संप्रार्थितं तेन मञ्जुदेव निशम्य स ।
विज्ञाय तं महाभिज्ञं संपश्यन्नेवमव्रवीत्
कथं विना अभिषेकं ते मन्त्रार्थमुपदेश्यते
तावदत्रभिषेक त्वं गृह्वाण्हेदं यदीच्छसि ।
इत्युक्तं मञ्जुदेवेन निशम्य स यतिः सुधीः
मञ्जुदेवं नमोस्तस्य साञ्जलिरेवमव्रवीत् ।
सर्वज्ञ भगवाञ्छास्ता निर्धनो ऽहमकिंचनः
किं दास्ये भवतं शास्त्रे दक्षिणां गुरु भक्तिमान् ।
इति तेनोदितं श्रुत्वाः मञ्जुदेवः ससन्मतिः
संपश्यन्स्तेयती धर्मश्रीमित्रमेवमव्रवीत् ।
यतः किं धनसंपत्या श्रद्धा ते यदि विद्यते
तुष्यन्ते गुरुवो भक्तिमात्रेणात्र धनेनतु ।
इत्युक्त्वा मञ्जुदेवेन धर्मश्रीमित्र उन्मताः
अष्टांगेस्तं गुरुं नत्वा प्रार्थयदेवमादरात् ।
भगवन्यदि भक्त्यैव तुष्यते ऽत्र भवान् मम
भवतां सुश्रूषामेष करोमि भक्तिमानहं ।
इति मे कृपया शास्त अभिषेक यथाविधिः
दत्वा द्वादश मन्त्रार्थं विशुद्धि दातुमर्हसि ।
इति संप्रार्थितं तेन मञ्जुदेवं स सर्ववित्
भक्तिमन्त तमालोक्य पण्यमेवमभाषत ।
दास्यामि ते महाभाग भक्ति श्रद्धास्ति ते यदि
अभिषेक प्रसन्नात्मा समादत्स्व समाहितः ।
ततःस मञ्जुदेवः श्री वज्राचार्य यथाविधि
संस्थाप्य मण्डलं धर्मधातुवागीश्वराभिधं ।
तन्मण्डलं समाराध्य समभ्यर्च्य यथाविधिं
अभिषेकं प्रसन्नाय तस्मै ददौ स वज्रधृक् ।
ततस्तान् मण्डले देवान् संदर्शयं यथाक्रमात्
पूजयित्वा यथाशक्ति शरणे समयोजयेत् ।
ततस्तस्मै प्रसन्नाय मञ्जुदेवो यथाविधि
द्वादशाक्षर गुह्यार्थ विशुद्धिसमुपादिशत् ।
ततो लब्धाभिषेको ऽसौ धर्मश्रीमित्र उत्मना
द्वादशभूमि गुह्यार्थ विशुद्धिज्ञानमाप्तवान् ।
तस्मै शास्त्रे सभार्याय स्वमात्मानं स दक्षिणां
संकल्प्य श्रद्धया भक्त्या नत्वैवं प्रार्थयन् मुदा ।
भगवन् नाथ सर्वज्ञ भवत् कृपा प्रसादतः
संप्राप्तपूर्ण संकल्पो भवामि श्रीगुणार्थभृत् ।
तत् सदाहं भवत्पादशरणे समुपाश्रितः
यथात्र भवादिष्टं तथैव संचरे भवे ।
तत् मे ऽनुज्ञादि दत्वात्र संबोधिज्ञानसाधनं
सर्वसत्त्व हितार्थेन चरेयं बोधिसंवरं ।
इति संप्रार्थ्य धर्मश्री मित्र स समुपाश्रितः
श्रद्धाभक्ति प्रसन्नात्मा गुरुसेवा परो ऽभवत् ।
ततः स मञ्जुदेवस्तं महासत्त्वं विचक्षणं
मत्वा संबोधि चर्यायां नियोक्तुं संव्यनोदयन् ।
साधु साधु महाभागः संचरत्वं जगद्धिते
संबोधि साधनं बोधिचर्या व्रत सदा भव ।
एतत्पुण्याभि लिप्तात्मा परिशुद्ध त्रिमण्डलाः
बोधिसत्त्वा महाभिज्ञा भवेः श्री सद्गुणाश्रयाः ।
ततस्त्वं बोधिसंभारं पूरयित्वा यथाक्रमं
निःक्लेशो बोधिप्राप्तो ऽहं सम्बुद्धपदमाप्नुयाः ।
इति मे शासनं धृत्वा स्मृत्वा ध्यात्वा समाहितः
त्रिरत्नं समुपाश्रित्य संचरस्व जगद्धिते ।
यदि जगद्धितं कर्तुं संबोधिं प्राप्नुमिच्छसि
सद्धर्मं समुपादिश्य सर्वान् लोकान् प्रवोधय ॥
ततस्तान् बोधितान् सर्वान् कमेन बोधिसाधनं
बोधिमार्गे प्रतिष्ठाप्य चारयस्व जगद्धिते ।
ततस्तेषां समालोक्य चित्तं संबोधि निश्चितं
त्रियानं समुपादिश्य परमार्थे नियोजये ।
एवं कृत्वा महद्धर्ममाशु सम्बोधिसाधनं
भद्रश्री सद्गुणापन्नां समाप्नुया जगच्छुभे ।
तेनाशुः परिशुद्धात्मा सम्बुद्धपदमाप्तवान्
जगद्धर्म्ममयं कृत्वा जिनालयं समाप्नुयाः ।
इति भद्रव्रतं धृत्वा गत्वा त्वं स्वाश्रमे पुनः
व्याख्याय नाम संगीतिं सद्धर्म्मं संप्रचारये ।
अहमपि महासत्त्व श्रोतुं त्वद् धर्म्मदेशनां
सांघिकांश्चापि तान्द्रुष्टुमायास्यामि तवाश्रमे ।
इति शास्ता समादिष्टं निशंम्य स महामतिः
धर्मश्री मित्र आलोक्यः तं गुरुमेवमव्रवीत् ।
महर्द्धिको भगवाञ्छास्त विज्ञास्य ते कथं मया
इति चिह्नं समाधाय तत्रागन्तुं समर्हति ।
इति तेनोदितं श्रुत्वा मञ्जुदेवः स सन्मति
धर्मश्री मित्रमालोक्यः पुनरेवमभाषत ।
वत्साहमुत्पलं धृत्वा समायास्यामि ते सभां
तेन चिह्नेन मां यात संजानीष्व समागतं ।
इति सत्यं समाधाय धृत्वानुशासनं मम
सद्धर्म्म समुपादेष्टुं प्रवाहि तेस्तु मंगलं ।
इति शास्ता समादिष्टं श्रुत्वा स यतिरुत्सुकः
शास्तारं तं समालोक्य प्रणत्वैवमभाषतः ।
प्रसीदतु भगवाञ्छास्ताः क्षन्तुमर्हति चागसं
भवत्प्रसादतः सर्वे सिध्यते मे समीहितं ।
तदनुशासनं धृत्वा भवतां तत्र जगद्धिते
व्याख्यातुं नामसंगीति संचरे साम्प्रतं गुरोः ।
इति संप्रार्थ्य धर्म्मश्री मित्र सः संप्रासादितः
शास्तुस्तस्य पदाम्भोजं नत्वा संप्रस्थितो ततः ।
मात्रोराचार्य याश्चापि मोक्षदा वरदाख्ययोः
पादाम्वुजेषु संनत्वा संप्रस्थितः प्रमोदितः ।
ततः स सन्मति धर्म्मश्रीमित्रः सहसाव्रजन्
आशु स्वाश्रममासाद्य विहारं समुपाविशत् ।
तत्र तं यतिमायातं दृष्ट्वा सर्वे ऽपि सांघिकाः
प्रणत्वा कुशलं पृष्टवा प्रवेशयन् निजालये ।
ततः परेद्युरामन्त्रय सर्वान्संघान्स सन्मतिः
व्याख्यातुं नामसंगीति सभासनं समाश्रयत् ।
तं सभासनमासीनं दृष्ट्वा सर्वे ऽपि सांधिकाः
दिव्ज भूपादयश्चापि सर्वे लोकाः समागताः ।
तत्र सर्वे ऽपि ते लोकाः प्रणत्वा तं यति क्रमात्
परिवृत्य पुरस्कृत्य समन्तत उपाश्रयत् ।
तान् सर्वान्समुपासीनान् दृष्ट्वा स यतिरात्मवित्
व्याख्याय नामसंगीतिं स विशुद्धि समादिशत् ।
तदा तत्र मनस्तस्य जिज्ञासितुं स मञ्जुवाक्
धृत्वोत्पलं विनिद्यांगः कुचीवरमुपाचरत् ।
तत्र स मक्षिकान् काये उत्पलेन निवारयन्
समागत्य सभैकान्ते पश्यल्लोकानुपाश्रयेत् ।
समाश्रितं स धर्म्मश्रीमित्रो दृष्ट्वात्मना गुरुं
उत्पलेन परिज्ञाय मनसैवं व्यचिन्तयत् ।
अहो नूनमयं शास्ता मनो जिज्ञासितुं मम
कुचरा दुर्भगाकारो धृत्वोत्पलमिहागतः ।
तत्कथमहमुत्थाय प्रत्युङ्गम्य न मेय हि
अथ पश्यन्नमस्कारं नकुर्याः गुरवे कथं ।
यद्यत्राहं समुत्थाय न मेयमेनमादरात्
दृष्ट्वा लोका इमे मां धिक्कुर्युः सर्वे विचारतः ।
एते न ज्ञायते यं हि मञ्जुश्री ऋद्धिमानपि
ईदृगेवास्य शास्ता यं मिति मे स्याद् विहास्यतां ।
इति ध्यात्वा स धर्म्मश्रीमित्रो लज्जाभिमोहितः
मनसैवं नमस्कृत्वा शास्तारन्तममानयेत् ।
ततः स विमुखी भूय पश्यन्नप्य विभावितः
अज्ञात वान्निवापश्यन् पदमात्रमुपादिशत् ।
ततः सर्वे ऽपि ते लोकाः श्रुत्वा तत्सद्धर्म्मदेशनां
उत्थाय तं यतिं नत्वा स्वस्वालयमुपाचरन् ।
तत लोके गते धर्म्मश्री मित्रः स समुत्थितः
शास्तारं तं समालोक्य वन्दितुं समुपाचरत् ।
तं दृष्ट्वा मञ्जुदेवो ऽसौ वन्दितुं समुपागतं
अपश्यन् विमुखी भूय ततः संप्रस्थितो ऽचरत् ।
तं दृष्ट्वा विमुखी भूत धर्म्मश्री मित्र आत्मनः
अपराध महत्पापमनुस्मृत्वापतद्भुवि ।
निपतन्तं तमालोक्य मञ्जुश्रीः स कृपानिधिः
सहसा पाणिना धृत्वा समुत्थाय तथाचरत् ।
तत्र स उत्थितो धर्म्मश्री मित्रस्तं महामतिं
प्रचरन्तं समालोक्य नत्वाहैवं मृषा पुनः ।
भगवन्न मया दृष्टो भवानत्र समागतः
पश्चादुत्पलचिह्नेन ज्ञायते ऽत्र समाश्रितः ।
इत्युक्त्वा स मृषावादं साञ्जलिस्तस्य सङ्गुरोः
मञ्जुदेवस्य पादाब्जे प्रणनाम रुदन् पुनः ।
तत्र तस्य मृषा वक्तुं रुभे ऽपि नयने मुखात्
शास्तुः पादाब्जयो रग्रे निपेतंतु महीतले ।
तत्पतित स धर्म्मश्रीमित्रो विहतमानसः
चिराद्रुदं समुत्थायः शास्तारमेवमव्रवीत् ।
भगवन् यत्मयाज्ञानादपराधं कृतं गुरौ
भवति तद् भवाञ्छास्ता क्षन्तुंमर्हति दुर्मतेः ।
इति संप्रार्थितं तेन मञ्जुश्रीः स कृपानिधिः
विचक्षुष्कं तमालोक्यः कृपादृशैवमव्रवीत् ।
यदभिलज्जया कर्म्म ज्ञात्वापि दुष्कृतं त्वया
तस्येदं फलमासाद्य भोक्त अन्यंमेव भुज्यते ।
तथापि ज्ञान दृष्ट्वा त्वं सम्पश्य द्दृष्टिमान् यथा
ज्ञानं हि ते ऽस्ति यत्तेन ज्ञानश्री मित्र उच्यसे ।
इत्युक्त्यैव स मञ्जुश्रीः क्षणादन्तर्हित स्ततः
आकाशात् पक्षिवद् गत्वा स्वाश्रमे समुपाययौ ।
अत्रैतत्सर्ववृत्तान्तं भार्ययोः पुरतोर्मुदा
समाख्याय स मञ्जुश्री स्तस्थौ लोकहितार्थभृत् ।
ततः प्रभृतिस ज्ञानश्रीमित्रो ज्ञानचक्षुषा
पश्यन् सद्धर्म्ममाख्याय प्राचरच्च जगद्धिते ।
तदा मैत्रेय तेनास्य धर्मधातोः स्वयंभुवः
अभुत्प्रसिद्धितं धर्मधातुं वागीश्वराभिधं ।
इति मत्वात्र ये धर्मधातु वागीश्वर नराः
श्रद्धया विधिनाभ्यर्च्य भजन्ति शरणाश्रिताः ।
अभिषेकं च संप्राप्य बोधिचित्ता समाहिताः
सद्धर्म्म धारणी विद्यामन्त्राणि धारयन्ति ये ।
ते सर्वे विमलात्मानः परिशुद्ध त्रिमण्डलाः
बोधिसत्त्वा महासत्त्वाश्चतुर्ब्रह्म विहारिणः ।
भद्रश्री सद्गुणाधाराः सर्व विद्या विचक्षणाः
ऋद्धि सिद्धि महाभिज्ञा भवेयुर्भद्रचारिणः ।
आशुः सम्बोधि संभारं पूरयित्वा यथाक्रमं
अर्हन्तस्त्रिविधां बोधिं प्राप्य यायु जिंनालयं
इति मत्वाभिवाछन्ति प्राप्तुं ये सौगतं पदं ।
ते ऽत्र बौद्धालये धर्म्मधातु वागीश्वरे सदा
श्रद्धया भजनं कृत्वा प्राप्याभिषेकमादरात् ।
सधर्म्मधारणी विद्यामन्त्र साधारतत्पराः
यथाविधि समभ्यर्च्य संबोधि निहिताश्रयाः ।
बोधिचर्या व्रतं धृत्वा संचरते जगद्धिते
आशु ते विमलात्मानः परिशुद्ध त्रिमण्डलाः ।
बोधिसत्त्व महासत्त्वश्चतुर्ब्रह्म विहारिणः
भद्रश्री सद्गुणाधाराः सर्वविद्या विचक्षणाः ।
ऋद्धिसिद्धि महाभिज्ञा भवेयु भर्द्रचारिणः
ततः संबोधिसंभारं पूरयित्वा द्रुतं क्रमात् ।
अर्हन्तम्त्रिविधां बोधिं प्राप्य यास्यथ निवृतिं
इत्यादिष्टं मुनीन्द्रेण निशम्य ते सभाश्रिताः ।
सर्वे तथेति विज्ञाय प्राभ्यनन्दन् प्रवोधिताः
मूल पाठ: Svayaṃbhupurāṇa · Edition: Min Bahadu Shakyar & Shanta Harsa Bajracharya (trans.). Svayambhu Purāṇa. Nepal: Nagarjuna Institute of Exact Methods, 2001. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0