भाषा

ENहिગુ
ग्रंथ पाठ

स्वयंभुपुराण · अध्याय 5

5.1

इति श्री स्वयंभू चैत्य समुत्पत्ति कथा वीतरागतीर्थ राष्ट्र प्रवर्त्तनो नाम चतुर्थो ऽध्यायः समाप्तः ।
पञ्चम अध्यायः स्वयम्भूत्पत्यनेक तीर्थसंजातपुण्यमहात्म्यवर्णनो नाम
अथासौ च महासत्त्व मैत्रेय साञ्जलिर्मुदा ।
भगवन्तं तमानस्य प्रार्थयेदेवमादरात्

5.2

भगवन् तत्र तीर्थानां स्नात्वा दानादि कर्म्मजं ।
पुण्यफल विशेषत्वं समादिशतु साम्प्रतम्

5.3

इति संप्रार्थिते तेन भगवान्स मुनीश्वरः ।
मैत्रेयं तं महासत्त्वं सम्पश्यन्नेवमादिशत्

5.4

साधु शृणु महासत्त्व तीर्थ सेवा फलोद्भवं ।
पुण्यं तद् विशेषत्वं वक्षामि सर्व बोधने

5.5

तद्यथा मूलतीर्थानि कथ्यन्ते द्वादशात्र हि ।
महापुण्यानि सर्वेषां तीर्थानां यानि भूतले

5.6

अमोघ फलदायिन्यां वाग्मत्यां यत्र संगमे ।
तत्तीर्थ शोधनं ख्यातं दशपापविशोधनात्

5.7

तत्र नागाधिपा रक्तस्तक्षकाख्यः सुकान्तिमान् ।
समुज्वलन्महारत्नंश्रीमत्फणा विभूषितः

5.8

येनरा श्रद्धया तत्र पुण्यतीर्थे यथाविधिः ।
स्नानं कुर्युमुदा यावदेक विंशति वासरं

5.9

जप यज्ञादि कर्म्माणि कुर्युः सप्तदिनान्यपि ।
पितृन् देवाञ्च संपूज्य कुर्युः संतृप्तमोदितान्

5.10

दद्युर्दानानिचार्थिभ्यो यथेप्सितं समादरात् ।
शुद्धशीलाः समाधायैश्चरेयुश्च व्रतं तथा

5.11

एतत्पुण्यविशुद्धास्ते निःक्लेशा निर्म्मलेन्द्रियाः ।
बोधिसत्त्वा महासत्त्वा भवेयुः श्री गुणाश्रयाः

5.12

ततस्ते बोधिसम्भारं पूरयित्वायथाक्रमं ।
त्रिविधां बोधिमासाद्य संवुद्ध पदमाप्नुयुः

5.13

ततश्च मारदायिण्यो वाग्मत्या यत्र संगमः ।
तच्छान्ततीर्थमाख्यातं क्लेश दोष विशोधनं

5.14

तत्रनागाधिपः शुक्लः सोम शिखीतिविश्रुतः ।
विलसन्मणिरत्नश्रीफणामण्डल भूषितः

5.15

तत्रापि शान्त तीर्थ च ये क्लेश दुःषिता नराः ।
कुर्यु स्नानं सदा यावदेकविंशति वासरं

5.16

जप यज्ञादिक कुर्युश्चरेयुश्चाधि पोषधं ।
पितृन् देवाञ्च संपूज्य कुर्युः संतुष्टनन्दितान्

5.17

दद्युर्दानांनि चार्थि भ्यो यथाभिलषितं मुदा ।
शुद्धशीला समाचाराः ध्यात्वा भजेयुरीश्वरं

5.18

एतत्पुण्याभिलिप्तास्ते परिशुद्ध त्रिमण्डलाः ।
बोधिसत्त्वा महासत्त्वा भवेयुः श्रीगुणालयाः

5.19

ततस्ते बोधि सम्भारं पूरयित्वा यथाक्रमं ।
अर्हन्त स्त्रिविधाम्बोधि प्राप्येयुः सौगतं पदं

5.20

ततश्च मणिरोहिण्या वाग्मत्या यत्रसंगमे ।
तत्रोर्द्धनिःसृता शुद्ध स्फटिकादारसंन्निभां

5.21

रुद्रधारा मृताख्याता तया च तत्र संगमे ।
त्रिवेणी संगमे तेन शंकर तीर्थ मुच्यते

5.22

तत्र नागाधिप शंखपालो गौराति सुन्दरः ।
मणिरस्मि समुद्दिप्त श्रीमत्फणा विभूषितः

5.23

तत्र शंकर तीर्थे ये मानवाश्च यथाविधिः ।
स्नानं कुर्युर्मुदा यावदेकविंशतिवासरं

5.24

जप यज्ञादिकर्म्माणिः कुर्युश्च सप्तवासरं ।
पितृन्देवाञ्च संपूज्य तर्प्पयेयुर्यथाविधि

5.25

दद्युर्दानानि चार्थिभ्य श्रद्धया बोधिमानसाः ।
ध्यात्वा भजेयुरीशं चसंचरेञ्चपोषढं

5.26

एतत्पुण्य विशुद्धात्मा निःक्लेशाः निर्म्मलेन्द्रियाः ।
लभेयुः श्री महापुष्टिशान्ति गुणा च शान्त्यपि

5.27

दुर्ग्गति तेन यायुश्च संजाताः सङ्गतौ सदा ।
बोधिसत्त्वा महासत्त्वा भवेयु भद्रचारिणः

5.28

ततस्ते बोधिसंभारं पूरयित्वा यथाक्रमं ।
अर्हन्त स्त्रिविधां बोधि प्राप्येयुः सौगतं पदं

5.29

ततश्च राजमञ्चर्या वाग्मत्या यत्र संगमं ।
तद्राजतीर्थमाख्यातं राज्यारोग्यसुखपदं

5.30

तत्र नागाधिपः शुक्लः सुरुपाख्यातिसुन्दरः ।
मणिरत्न महादीप्ति श्रीप्रभा मण्डिताश्रयः

5.31

तत्र ये मानवाया वदेक विंशतिवासरं ।
स्नान दान जप ध्यानं कुर्यु दद्युश्च संवरं

5.32

एतत्पुण्य विशुद्धास्ते निर्दोषा विमलेन्द्रियाः ।
राज्यश्वर्य सदारोग्य भद्र सौख्यम वाप्नुयुः

5.33

ते ऽपि न दुर्ग्गति यायुः सदासद्गति संभवाः ।
बोधिसत्त्वा महासत्त्वा भवेयुः श्रीगुणाश्रयाः

5.34

ततस्ते बोधिसम्भारं पूरयित्वा यथाक्रमं ।
अर्हन्त स्त्रिविधां बोधि प्राप्ययायु जिनालयं

5.35

तथात्र विमलावत्या केशावत्या च संगमेः ।
मनोरथं तदाख्यातं स्वेच्छालंकार संप्रदं

5.36

तत्र नागाधिपो भीमः कुलिकाख्यो ऽतिकर्वुरः ।
फणामणि समुद्दीप्त श्रीप्रभामण्डिताश्रयः

5.37

तत्र मनोरथे तीर्थे मनुजा ये यथाविधिः ।
स्नान दानादिकं कुर्युरेकविशति वासरं

5.38

ते ऽपि न दुर्गतिं यायुः सदा सद्गतिसंभवाः ।
बोधिसत्त्वा महासत्त्वा भद्रश्री सद्गुणाश्रयाः

5.39

पट्टसुवस्त्ररत्नादि स्वेच्छालंकारभूषिताः ।
सर्वसत्त्व हिताधान चरेर्युर्बोधिसवरं

5.40

ततस्ते बोधिसंभारं पूरयित्वा यथाक्रमं ।
त्रिविधां बोधिमासाद्य संबुद्ध पदमाप्नुयुः

5.41

ततश्च कुसुमावत्या केशावत्यापि संगमे ।
निर्म्मलतीर्थमाख्यातं कल्पनाविघ्ननाशनं

5.42

तत्र नागो पलालाख्यः पीतवर्ण्णो महाकृतिः ।
दिव्यरत्न प्रभोज्ज्वाल श्रीमत्फणा विभूषितः

5.43

तत्र ये मानवा यावदेकविंशतिवासरं ।
स्नानदानादिकं कुर्युस्तथासर्वे च पूर्ववत्

5.44

ते ऽपि न दुर्गतिं यायुः सदा सङ्गतिसंभवाः ।
बोधिसत्त्वा महासत्त्वा भद्रश्रीसद्गुणायाः

5.45

कलि विघ्न मल क्लेश निर्मुक्त भद्रचारिणः ।
सर्वसत्त्व हितारक्ता भवेयु ब्रह्मचारिणः

5.46

ततस्ते बोधिसंभार पुरयित्वा यथाक्रमं ।
अर्हन्तो बोधिमासाद्य सम्बुद्धपदमाप्नुयुः

5.47

ततः सुवर्ण्णवत्या च बागमत्या यत्र संगमे ।
निधानतीर्थमाख्यातं सर्व सम्पतिदायकं

5.48

तत्र नागौ हरितवर्णौ नन्दौपनन्दनावुभौ ।
नाना रत्न प्रभाद्दीप्तिः श्री मत्फणाविभूषितौ

5.49

तत्र ये मनुजा यावदेक विंशतिवासरं ।
स्नानादि पूर्ववत्सर्व कर्म्मं कुर्युर्यथाविधिः

5.50

ते ऽपि न दुर्ग्गतिं यायुः सदा सङ्गतिसंभवाः ।
बोधिसत्त्वा महासत्त्वा भद्रश्री सद्गुणाश्रयाः

5.51

सर्वसत्त्वार्थ सम्पन्ना भवेयुः धर्म्मचारिणः ।
तेप्यैवं बोधिसंभारं पूरयित्वा यथाक्रमं

5.52

अर्हन्तो बोधिमासाद्य सौगतं पदमाप्नुयुः ।
ततश्च पाप नाशिन्या केशवत्याभिसंगमे

5.53

ज्ञानतीर्थं तदाख्यातं दिव्यभोग सुखप्रदं ।
तत्र नागाधिपः शुक्ल वाशुकिर्नाम भीषणः

5.54

दिव्य रत्न प्रभाश्री मत्फणालंकारमण्डितः ।
तत्र येमानवा या वदेकविंशतिवासरं

5.55

स्नान दानादि कर्म्माणि कुर्युः सर्वाणि पुर्ववत् ।
ते ऽपि न दुर्ग्गति यायुर्जाताः सदापि सङ्गतौ

5.56

सर्व भोग महासम्पत्सुखवन्तो निरामयाः ।
बोधिसत्त्वा महसत्त्वाश्चतुर्ब्रह्म विहारिणः

5.57

भद्रश्रीसद्गुणाधारा भवेयु बोधिचारिणः ।
तथा ते बोधिसंभारं पूरयित्वा यथाक्रमं

5.58

अर्हन्तो बोधिमासाद्य सर्वज्ञ पद्माप्नुयुः ।
भद्श्री सद्गुणाधाराः सम्बुद्धगुणसाधिनः

5.59

ततश्च यत्र वाग्मत्याः केशावत्या च संगमेः ।
तच्चिन्तामणिमाख्यातं सर्वकामार्थ संपदम्

5.60

गंगा च यमुनाचापि तथा देवी सरस्वती ।
पर्व प्रत्यागता तत्र तेन पञ्च समागमा

5.61

तत्र नागाधिपः शुक्लो वरुणा सर्व नागरात् ।
दिव्यरत्न प्रभाश्रीमत्फणामण्डल भूषितः

5.62

तत्र ये मानवा यावदेकविंशति वासरं ।
स्नानदानादिकं सर्वे कुर्युः पूर्ववदादरात्

5.63

ते ऽपि न दुर्ग्गतिं यायुः सदा सद्गतिसंभवाः ।
संपूर्ण्ण परमायुष्काः विद्याधिपा विचक्षणाः

5.64

सुसन्ताना महाभोगा धम्मार्थ कामभोगिनः ।
बोधिसत्त्वा महासत्त्वा श्चतुर्ब्रह्मविहारिणः

5.65

भद्रश्री सद्गुणाधारा भवेयुः बोधिचारिणः ।
ततस्ते बोधिसंभारं पूरयित्वा यथाक्रमं

5.66

अर्हन्तो बोधिमासाद्य संबुद्ध पदमाप्नुयुः ।
ततश्च यत्र वाग्मत्या रत्नावत्याः समागमे

5.67

प्रमोदतीर्थमाख्यातं रतिप्रीतिवशार्थदः ।
तत्र नागाधिपः पद्मो धवलदिव्य सुन्दरः

5.68

दिव्यरत्न महाकान्ति फणामण्डल भूषितः ।
तत्र ये मानवा यावदेकविंशतिवासरं

5.69

स्नान दानानि सर्वाणि कुर्युः कर्म्माणि पूर्ववत् ।
ते ऽपि नदुर्गतीं यायुः सदा सद्गति संभवाः

5.70

रति प्रीति वशानन्द महासौख्य समन्विता ।
बोधिसत्त्वो महासत्त्वोः परिशुद्ध त्रिमण्डलाः

5.71

भद्रश्री सद्गुणाधारा भवेयुः बोधिसाधिनः ।
ततस्ते बोधिसंभारं पूरयित्वा यथाक्रमं

5.72

अर्हन्त श्त्रिविधां बोधिंप्राप्य यायु र्जिनालयं ।
तत्रश्चयत्र वाग्मत्या चारुमत्या समागमे

5.73

तत्सुलक्षणमाख्यातं श्री तेजो भाग्यसम्पदं ।
तत्र नागो महापद्मो ऽति धवलो ऽति सुन्दरः

5.74

दिव्यरत्न प्रभाश्री मत्फणामण्डलमण्डितः ।
तत्र ये मानवा यावदेकविंसतिवासरं

5.75

स्नान दानं जप ध्यानं कुर्युर्यज्ञं च पूर्ववत् ।
ते ऽपिन दुर्गतिं यायुः सदा सद्गति संभवाः

5.76

श्रीतेजो भोग्यसंपन्ना सुरुपालक्षणान्विता ।
बोधिसत्त्वा महासत्त्वाः भद्रश्रीसद्गुणाश्रयाः

5.77

सर्वसत्त्व हितोद्युक्ताः भवेयुः बोधिचारिणः ।
ततस्ते बोधिसंभारं पूरयित्वा यथाक्रमं

5.78

अर्हन्त त्रिविधां बोधि प्राप्येयुः सौगतं पदं ।
ततश्च यत्र वाग्मत्या प्रभामत्या समागमेः

5.79

जयतीर्थ समाख्यातं सर्वशत्रुभयान्तकृत् ।
तत्र नागाधिपः शुक्रः श्रीकान्ति दिव्य सुन्दरः

5.80

दिव्यरत्न प्रभाश्री मत्फणामण्डलमण्डितः ।
तत्र ये मानवा यावदेक विंशतिवासरं

5.81

स्नात्वा यज्ञादि कर्म्माणि कुर्युः सर्वाणि पूर्ववत् ।
ते ऽपि न दुर्ग्गतीं यायुः सदा सद्गति संभवाः

5.82

निर्भया स्त्रिगुणोत्साहाजयिनो निर्जितारयः ।
बोधिसत्त्वा महासत्त्वाश्चतुर्ब्रह्म विहारिणः

5.83

भद्रश्री सद्गुणाचारा भवेयु बोधिचारिणः ।
ततस्ते बोधिसंभारं पूरयित्वा यथाक्रमं

5.84

अर्हन्तस्त्रिविधां बोधिप्राप्येयुः सौगतपदं ।
द्वादशैतानि नामानि तीर्थानि महान्त्यत्र हिमालये

5.85

अन्यान्यपि च संत्यत्र तानि वक्ष्याम्यहं शृणु ।
तद्यथो परि वाग्मत्याः श्रोतसिद्धारसंनिधौ

5.86

सौन्दर्य तीर्थमाख्यातं सौन्दर्य गुणसंपदं ।
तत्र येमानवा यावदेकविंशतिवासरं

5.87

स्नान दानानि कर्म्माणि कुर्युः सर्वाणि पूर्ववत् ।
ते ऽपिन दुर्ग्गतिं यायुः सदा सद्गतिसंभवाः

5.88

सुरूपा लक्षणोपेताः श्रीमन्त सद्गुणान्विताः ।
बोधिसत्त्वा महासत्त्वा चतुर्ब्रह्म विहारिणः

5.89

सर्वसत्त्व हिताधानं चरेयु र्बोधिसंम्वरं ।
ततस्ते बोधिसंभारं पूरयित्वा यथाक्रमं

5.90

अर्हन्त स्त्रिविधां बोधिसंप्राप्येयुः जिनालयं ।
तदुपरिचयत्तीर्थ अगस्त्यो न महर्षिणा

5.91

नित्यस्नानं जप ध्यानं कृत्वा यज्ञं च सेवितं ।
तेनागस्त्यं महत्तीर्थ तदा ख्यान्तं मुनीश्वरैः

5.92

तत्र ये मनुजा स्नायूस्ते यायुः परमां गतिं ।
दान यज्ञ जपादिश्च कुर्यु ध्यात्वायि चेश्वरं

5.93

तोषययुस्तथापित्तृन्दद्युर्दानं यथेप्सितं ।
ते सर्वे विमलात्मानश्च चतुर्ब्रह्मविहारिणः

5.94

बोधिसत्त्वा महासत्त्वा भवेयुः श्रीगुणाश्रयाः ।
तथा ते बोधिसंभारं पूरयित्वा यथाक्रमं

5.95

अर्हन्त स्त्रिविधाम्बोधिं प्राप्य बुद्धत्वमाप्नुयुः ।
तत्रैवानन्तनागेन यदाश्रितं महाह्रदं

5.96

तेन तदह्रदमाख्यातं अनन्ततीर्थमर्थदं ।
तत्र ये मनुजायावदेकंविंशति वासरं

5.97

स्नान दान जप ध्यानं कुर्युर्यज्ञंच पूर्ववत् ।
ते ऽपि न दुर्गतिं यायुःसदा सद्गतिसम्भवाः

5.98

बोधिसत्त्वा महासत्त्वा र्भवेयुः श्रीगुणाश्रयाः ।
तथा ते बोधिसम्भारं पूरयित्वा यथाक्रमं

5.99

अर्हन्तो बोधिमासाद्य सर्वज्ञपदमाप्नुयुः ।
तत्रैव च महत्तीर्थ आर्यतारानिषेवितम्

5.100

तेनेदं प्राथितं प्रार्यतारा तीर्थ सुभाग्यदं ।
तत्रापि ये नरा र्यावदेकविंशतिवासरं

5.101

स्नानदानजप ध्यानं यज्ञं कुर्यु र्यथाविधि ।
ते ऽपि न दुर्गतिं यायुः संजाताः सद्गतौ सदा

5.102

बोधिसत्त्वा महासत्त्वाः परिशुद्धत्रिमण्डलाः ।
सौभाग्यशालिनो धीरा भद्रश्रीसद्गुणाश्रयाः

5.103

सर्वसत्त्वहितोत्साहा भवेयु र्बोधिचारिणः ।
तथा ते बोधिसंभारं पूरयित्वा यथाक्रमं

5.104

अर्हन्त स्त्रिविधां बोधिं प्राप्येयुः सौगतंपदं ।
अर्द्धौर्द्धञ्च वाग्मन्त्याः प्रभवतीर्थमुक्तमं

5.105

सर्वेषामपि तीर्थानां प्रधानमग्रमुच्यते ।
तत्रैकस्नान मात्रेण गंगा स्नान शताधिकं

5.106

पुण्यं महत्तरं सिद्धं वाञ्छितार्थ सुखप्रदं ।
तत्र ये मानवा यावदेकविंसतिवासरं

5.107

स्नान दान जप ध्यानं यज्ञं कुर्युर्युयथाविधिः ।
शुविशुद्ध त्रिकायास्ते यथाकाम सुखाशिन च

5.108

धमार्थं श्रीसमृद्धाः स्युश्चतुर्ब्रह्मविहारिणः ।
क्वचिन्न दुर्ग्गतिं यायुः संजाता सद्गतो सदा

5.109

स्वपरात्महितं कृत्वा संचरेन्सदा शुभे ।
ततस्ते विमलात्मानो सुविशुद्धेन्द्रियाशयाः

5.110

बोधिसत्त्वा महासत्त्वाः भवेयुः सद्गुणाकराः ।
तथा ते बोधिसंभारं पूरयित्वा यथाविधिः

5.111

अर्हन्तस्त्रिविधां बोधि प्राप्येयुः सौगतंपदं ।
तं शंखपर्वत नाम सर्व शिलोच्चयोत्तमं

5.112

समारोहण मात्रेण निष्णा येः सिद्धिमान् भवेत् ।
तत्रापि ये समाश्रित्य स्नात्वा ध्यात्वा समाहितः

5.113

जप यज्ञादि दानं च कुर्युः संबोधिमानसाः ।
ते ऽपि न दुर्गतिं यायुः सदासद्गति संभवाः

5.114

बोधिसत्त्वा महासत्त्वाः परिशुद्ध त्रिमण्डलाः ।
निःक्लेशा विमलात्मानः सर्व सत्त्व हिताशयाः

5.115

भद्रश्री सद्गुणाधारा भवेयु र्ब्रह्मचारिणः ।
ततस्ते बोधिसंभारं पूरयित्वा यथाक्रमं

5.116

अर्हन्तो बोधिमासाद्य संबुद्धपदमाप्नुयुः ।
वहूनि चोप तीर्थानि विद्यन्ते ऽत्र हिमालये

5.117

तानि तीर्थानि सर्वाणि भुक्ति मुक्ति प्रदान्यपि ।
यत्र यत्र श्रवन्तीनाम न्येषां च समागमे

5.118

तत्र तत्रापि तीर्थानि पुण्य फल प्रदानि हि ।
तेषां चाप्युप तीर्थानां पृथक्पृथत्फलं महत्

5.119

पाप संशोधनं पुण्यं सद्धर्म्मसुखसाधनं ॥
तेष्वपि ये नराः स्नात्वा चरेयु पोषढं व्रतं

5.120

दद्युर्दानानि चार्थिभ्यं कुर्युर्यज्ञानि च ये मुदा ।
पितृसंतर्प्य येयुश्च पूजयेयुः सुरानपि

5.121

स्मृत्वा ध्यात्वा त्रिरत्नानां भजेयुनेमिजल्यनैः ।
एवं लोकाधिपानां च स्मृत्वा ध्यात्वा समाहिताः

5.122

जपित्वा नाम मन्त्राणि साधयेयु र्यथाविधिः ।
तानि सर्वानि सिध्येयुः साधितानि जगद्धिते

5.123

दद्युश्चेह शुभोत्साहं परत्र निर्वृतं पदं ।
ते ऽपि न दुर्गतिं यायुः सदा सद्गतिसंभवाः

5.124

निःक्लेशा विमलात्मानः परिशुद्धा त्रिमण्डलाः ।
बोधिसत्त्वा महासत्त्वाश्चतुर्ब्रह्म विहारिणः

5.125

भद्रश्री सद्गुणाधारा भवेयुः बोधिचारिणः ।
ततस्ते बोधिसम्भारं पूरयित्वा यथाक्रमं

5.126

अर्हन्त बोधिं प्राप्ययायु र्जिनालयं ।
एकं विज्ञाय सर्वेषां तीर्थानामपिसत्फलं

5.127

भद्रश्री सद्गुणात्साहं सौख्यसंबोधि साधनं ।
सर्वेष्वेतेषु तीर्थेषुभद्रश्री गुण वांछाभिः

5.128

स्नान दानादिकं कर्म कर्त्तव्यं बोधि प्राप्तये ।
ये ये एतेषु तीर्थेषु स्नात्वा नित्यं यथाविधिः

5.129

दत्वा दान व्रतं धृत्वा ध्यात्वा भजेयुरीश्वरं ।
ते ते सर्वे विकल्माषाः परिशुद्ध त्रिमण्डलाः

5.130

निःक्लेशा विमलात्मानो भवेयुर्बोधिभागिनः ।
इति लोकाधिपैः सर्वे र्ब्रह्मेन्द्र प्रमुखैरपि

5.131

सर्वान्येतानि तीर्थानि संसेवितानि सर्वदा ।
तथा च मुनिभिः सर्वेस्ताप सैर्ब्रह्मचारिभिः

5.132

यतिभिर्योगिभिश्चापि तीर्थिकैः श्रावकै रपि ।
ब्राह्मणै वैष्णवैः शैवैः कौलिकैरपि शक्तिकैरपि

5.133

देवैश्च दानवैश्चापि यक्षगन्धर्वकिन्नरैः ।
गुह्यक सिद्धसाध्यै श्च ग्रहैः विद्याधरैरपि

5.134

अप्सरोभिश्च सर्वाभिः सदा संसेवितानि हि ।
नागेन्द्रै र्गरुडैश्चापि कुम्भाण्डै राक्षसैरपि

5.135

एवमन्यैरप्रिप्रेत्य सेवितानि शुभार्थिभिः ।
ग्रहैश्चः सांधिकैश्चापि व्रतिश्चाप्युपासकैः

5.136

बोधिसत्त्वै र्मुनीन्द्रैश्च सेवितानि जगद्धिते ।
अहमपितथैतेषु तीर्थेषु समुपाश्रयन्

5.137

स्नात्वा दानानि दत्वा च कृत्वा यज्ञं यथाविधि ।
पितृन्सतर्पयित्वापि समभ्यर्च्य सुरानपि

5.138

त्रिरत्नभजनं कृत्वा प्राचरं पोषध व्रंतं ।
धर्म्मधातुं समाराध्य स्मृत्वा ध्यात्वा समाहितः

5.139

जपित्वा धारणी मन्त्रं प्रचरन्बोधिसम्वरं ।
एतत् पुण्यानुभावेन परिशुद्ध त्रिमण्डलाः

5.140

निःक्लेशो निर्म्मलात्मोहं चतुर्ब्रह्मविहारिणः ।
बोधिसत्त्वा महासत्त्वाः भद्रश्री सद्गुणाद्धिर्मान्

5.141

आशु संबोधिं संभार पूरयित्वा यथाक्रमं ।
जित्वा मारगणान्सर्वान् कलावपि जगद्धिते

5.142

त्रविधबोधिमासाद्य संबुद्धो धर्म्मरात्भुवे ।
थुयमपिज्ञात्वानि विघ्न बोधि प्राप्तये

5.143

सर्वेषु तेषु तीर्थेषु प्रवध्वं यथाविधिः ।
धर्म्मधातुं सदाभ्यर्च्य स्मृत्वा ध्यात्वा समाहिताः

5.144

जपित्वा धारणीमन्त्रं संभजध्वं जगद्धिते ।
एत्पुण्यु प्रभोवण परिशुद्धत्रिमण्डलाः

5.145

दुर्ग्गतिन्नैवगछेत जायध्वं संद्गतौ सदां ।
तत्र सदा त्रिरत्नानो शरणे समुपस्थिताः

5.146

सत्कारै र्भजन कृत्वा संचरध्वं जगद्धिते ।
तेषां हि विमलात्मानश्चतुर्ब्रह्म विहारिणः

5.147

बोधिसत्त्वा महासत्त्वा भवेयु भद्रचारिणः ।
ततः श्री सद्गुणाधाराः सर्वविद्याविचक्षणाः

5.148

सर्व सत्त्वाहिताधानं संचरध्व जगद्धिते ।
ततः संबोधिं संभारं पूरयित्वा यथाक्रमं

5.149

आशु त्रिबोधिमासाद्य प्राप्स्यथ सौगतं पदं ।
इत्यादिष्टं मुनीन्द्रेण श्रुत्वा सर्वे प्रवोधिताः

मूल पाठ: Svayaṃbhupurāṇa · Edition: Min Bahadu Shakyar & Shanta Harsa Bajracharya (trans.). Svayambhu Purāṇa. Nepal: Nagarjuna Institute of Exact Methods, 2001. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc