स्वयंभुपुराण · अध्याय 4
इति श्री स्वयम्भूत्पत्तिसमुद्देश महाह्रद शोषण धर्म्मधातु पद्मगिरिसंप्रस्थापनो नाम तृतीयो ऽध्यायः ।
चतुर्थ अध्यायः श्रीस्वयम्भूचैत्यसमुत्पत्तिकथा वीतरागतीर्थराष्ट्रप्रवर्तनो नाम
अथासौथ महासत्त्व मैत्रेय सुगतात्मजः ।
भगवन्तन्तमानंम्य प्राहैवं साञ्जलिमुद्रा
कदात्र भगवान् ग्राम नगरपङक्तादयः ।
प्रवर्त्तिता महाराष्ट्राः तत्समादेष्टुमर्हति
इति संप्रार्थिते तेन मैत्रेयेन निशस्य स ।
भगवान्तं महाभिज्ञं समालोक्यैवमादिशत्
साधु शृणु महासत्त्व मैत्रेय त्वं समाहितः ।
तत्कालं संप्रवक्ष्यामि यदात्र वसतिरभूत्
यदायुष्नृणां वर्षचत्वारिशत्सहस्रके ।
धर्म्मराजो जगन्नाथः क्रकुछन्दो मुनीश्वरः
सर्व विद्याधिपः शास्ता त्रैधातुक विनायकः ।
सर्वज्ञो ऽह माभिज्ञेस्तथागतो जिनो ऽभवत्
म संबुद्धा जगल्लोकहितार्थेन ससांधिकः ।
क्षेमावत्या महापुर्य्यादुपारामे मनोरमे
विहारे सौगतावासे सद्धर्म्मसमुपादिशत् ।
आदिमध्यान्तकल्याणं विजहार प्रभासयन्
तदा संबोधिसत्त्वो ऽहं ज्योतिपालाभिधः सुधीः ।
शास्तारन्तं क्रकुच्छन्दं समाराध्य सदाभजं
तदा स भगवाञ्छास्ता क्रकुच्छन्दो जगद्धिते ।
जनपदेषु सद्धर्म्मं समुपादेष्टुमैच्छतः
ततः स भगवान् शास्ता सर्वसंघैः समन्वितः ।
सर्वत्र भद्रतां कृत्वा संभाषयन्समाचरत्
एवं स सञ्चरञ्छास्ता सर्वत्र धर्म्ममादिशत् ।
क्रमेणेहसमातः सन्ददर्श समन्ततः
दृष्ट्वेमं धर्म्मधातुं संप्रज्वलित जिनालयं ।
ससंघ समुपाश्रित्य प्राभजद्विधिना मुदा
ततः स प्रस्थितोत्रैव शंखभिधे शिलाच्चयं ।
महछुद्धशिलायां च विजहार स सांधिकः
तत्र तंत्रि जगन्नाथं क्रकुछन्दो मुनीश्वरं ।
सभामध्यासनासीनं भिक्षुसंघैः पुरस्कृतं
समालोक्य महासत्त्वा जिनात्मजाः ।
तत्सद्धर्म्मामृतं पातुं संहर्षिताः समागताः
भिक्षुण्यापि शुशीलाद्या श्चैलकाश्चाप्युपासकाः ।
चैलका व्रतिनश्चापि सर्वे उपासिका अपि
बोधिसत्त्वा महासत्त्वा सद्धर्म्म गुणलालसाः ।
तत्सद्धर्म्मामृतं पातुं सर्वे ते समुपागताः
भगवन्तन्तं समभ्यर्च्य कृत्वा प्रदक्षिणान्यपि ।
नत्वा सांजलयस्तत्र पश्यन्तः समुपाश्रयन्
तथा ब्रह्मादयश्चापि महर्षयस्तपस्विनः ।
यतयो योगिनश्चापि मुनयो ब्रह्मचारिणः
एवं शक्रादयो दवाः सर्वे लोकाधिपा अपि ।
ग्रहास्तारागणाः सिद्धासाध्या विद्याधरा अपि
गन्धर्वा किन्नरा यक्षा गुह्यका राक्षसा अपि ।
दानवा गरुडा नागास्तथान्येह समागताः
भगवन्तं ससंघन्तं समभ्यर्च्य प्रमोदिताः ।
नत्वा धर्म्मामृतं पातुमुपतस्थुः समाहिताः
एवं च ब्राह्मणा विज्ञा राजानः क्षत्रिया अपि ।
वैश्याश्च मन्त्रिणो ऽमात्याः सैन्या भृत्या जनान्यपि
गृहस्थे धनिनः श्रेष्ठाः साधवश्च महाजनाः ।
शिल्पिनो वनिजश्चापि सार्थवाहश्च पौरिकाः
प्रजा जानपदाश्राम्याः कार्पटिकाश्च शैलिकाः ।
एवंमन्ये ऽपि लोकाश्चसर्वदिग्भ्यः समागताः
भगवन्तन्तमालोक्य प्रणत्वा समुपागताः ।
यथाक्रमं समभ्यर्च्य कृत्वा प्रदक्षिणान्यपि
कृत्वाष्टांग प्रणामञ्च कृतांजलि पुटो मुदा ।
तत्सद्धर्म्मामृतं पातुं तत्सभायां समन्ततः
परिवृत्य पुरस्कृत्य समाश्रित्य समाहिताः ।
गुरुकृत्य मुनीन्द्रन्तं समुद्वीक्ष्य निषेदिरे
ततः स भगवान्दृष्ट्वा सर्वास्तान्समुपस्थितान् ।
आर्यसत्यं समालक्ष्य सद्धर्म्मं समुपादिशत्
तत्सद्धर्म्मामृतं पीत्वा सर्वे ऽपि ते प्रवोधिताः ।
बोधिचर्या व्रतं धर्तुं समेच्छन्त प्रसादिताः
तदाशयं परिज्ञाय भगवान् स मुनीश्वरः ।
बोधिसत्त्वात्म मार्मेत्यः सम्पश्यन्नेवमादिशत्
कुलपुत्र मुदायेपि श्रद्धया सौगतेवृषे ।
प्रव्रजितुं समीच्छन्ति तत्र प्रव्रजिताद्रिताः
अत्र ये ह्युपछन्दो ऽह सर्व धर्म्मार्थसिद्धिदे ।
प्रव्रज्या शासने बौद्धे चरन्ति बोधिसंवरं
ते सर्वे पातका मुक्ताः परिशुद्ध त्रिमण्डलाः ।
निःक्लेशा विमलात्मानो बोधिसत्त्वा जितेन्द्रियाः
जित्वा मारगणान्दुष्टान् हन्ता ब्रह्मचारिणः ।
त्रिविधाम्बोधिमासाद्य सम्बुद्धपदमाप्नुयुः
इति मत्वात्र संसारे ये वांछन्ति सुनिर्वृतिं ।
तत्र प्रव्रज्या सान्बौद्धं चरन्तु श्रद्धया व्रतं
इत्यादिष्टं मुनीन्द्रेण निशम्य ते प्रवोधिताः ।
सभासीना महासत्त्वाः प्रव्रजिन्तु समीछिरे
ततो गुणध्वजादीनां ब्राह्मणानां चतुःशतं ।
तथा भयं ददानाम क्षत्रियाणांशतत्रयं
तथानेक महासत्त्वा वैश्याशूद्राश्च सज्जनाः ।
सर्वे ऽपि सुप्रसन्नास्ते प्रव्रजितुं समीच्छिरे
ततस्ते सर्व उत्थाय साञ्जलयः पुरागताः ।
भगवन्तं तमानम्य प्रार्थयन्नेवमादरात्
भगवन्नाथ सर्वज्ञ धृत्वाज्ञा भवतां वयं ।
प्रव्रज्यशासन बौद्धेचर्तुमिछामहे व्रतं
भगवन्स्त भवानस्मान् सर्वान् पश्यन् कृपा दृशा ।
समन्वागत्य सद्धर्म्म नियोजयितुमर्हति
इति तैः प्रार्थिते सर्वैर्भगवान्स मुनीश्वरः ।
सर्वान्स्तान् सन्मतिन् पश्यन् समामन्भ्यैवमादिशत्
यद्यत्र सौगते धर्म्म प्रव्रजितुं समीच्छथ ।
एतत् प्रव्रज्य सर्वत्र चरध्वं सौगतं व्रतं
इत्यादिश्य स संबुद्धः पाणिना तच्छिरःस्पृशन् ।
तान्सर्वान्सौगते धर्मे समन्वाहरदादरात्
ततो ऽवतार्य ते केशान् रक्त चीवर प्रावृताः ।
खिखिरी पात्रमाधाय सर्वे ऽपि भिक्षुवो भवन्
ततः स भगवान्तेभ्योः यतिभ्यो संम्यक् संबोधिपाक्षिकान् ।
सद्धर्म्मान्समुपादिश्य प्रददौ बोधिसम्वरं
ततस्ते विमलात्मानो निःक्लेशा विमलेन्द्रियाः ।
सत्कारं लाभ निःकांक्षा वीतसंगा निरंजनाः
स्वपरात्म समाचाराः संसारगतिनिःस्पृहाः ।
मारचर्या निरासक्ताः समलोष्ट सुवर्ण्णिकाः
क्लेशा निर्मलात्मानो परिशुद्ध त्रिमण्डलाः ।
अर्हन्त भद्रका चारा बभुबु ब्रह्मचारिणः
ततस्सर्वे ऽपि ते बौद्धा यतयो बोधिचारिणः ।
सर्वसत्त्व हितं कृत्वा संप्रचारन्सदाशुभे
ततस्ते ति विशुद्धात्माः पञ्चाभिज्ञा महर्द्धिकाः ।
वन्द्याः पूज्याः सदेवानां लोकानां गुरवो भवन्
तस्मिंश्च समये तत्र गिरेः शंखस्य मूर्द्धनि ।
वज्रसत्त्व कराङ्गुष्ठान्निश्चचाराम्बु निर्म्मलं
तदेमान्वद्भुति स्पन्दं पुण्यतीर्थमहत्सरित् ।
यदभूत् सर्वलोकानां चतुवर्गफलप्रदा
भूयो ऽपि साददी तस्यः क्रकुछन्द स्पतायिनः ।
सद्धर्म्म देशना वाक्यावभूवा ति पवित्रता
तेनासौ सर्वतीर्थाग्रा वाग्मतीतिप्रसिद्धिता ।
भद्रश्री गुण संभर्त्री सर्वपाप विशोधनी
ये तत्र विधिना स्नात्वा पितृ देवादितर्पणं ।
कृत्वा दानादिकं दत्वा व्रतं चापि प्रकुर्वते
ते संघविमलात्मानो भद्रश्रीसद्गुणान्विताः ।
यथाकामं सुखं भुत्वा संप्रयान्ति जिनालयं
इति मत्वा सदा तत्र स्नात्वा पित्रादितर्प्पणं ।
दानादि संवरं कृत्वा सचरन्तां जगद्धिते
तस्या दर्शनमात्रेण पीताम्वु विमात्रके ।
स्पर्शनादपि नश्यन्ते सर्वाणि पातकान्यपि
प्रक्षाल्यापि च तत्रास्यं गंगा स्नान फलं लभेत ।
शिलसिं च मात्रेण शुद्धान्ते इन्द्रियानि षट्
एवं महत्तरं पुण्यं वाग्मती भजनोद्भवं ।
सर्वे तीर्थोत्तमाख्यातं ते नासौ वाग्मती जिनैः
इति मत्वात्र संसारे इच्छन्ति ये सदाशुभं ।
वाग्मती श्री सुखाधारां भजन्तु सर्वदापि ते
भूयोप्यन्या सरिज्जाता तस्यैव करसंभवा ।
सापि पवित्रिता भूता क्रकुछन्दस्य वाक्यतः
तत्र प्रव्रजितानां यत् श्मश्रुकेशनखानि च ।
कृत्वा भागद्वयं तत्र भागमेकं प्रचिक्षिपुः
तदा केशावतीत्यासीत्प्रसिद्धा सा महानदी ।
एक भागन्तु तत्रैव संस्थापितं शिलातले
यावन्ति श्मश्रु केशानि तावन्त्यपि शिलातले ।
प्रादुर्भूतानि चैत्यानि तांन्यद्यापि वसंति हि
सापि नदी महातीर्थ वाग्मती व प्रसीद्धता ।
तेषां प्रव्रजितानां हि महत्पुण्यानुभावतः
तेषां प्रव्रजितानांच भिक्षुणां ब्रह्मचारिणां ।
तदापुण्य महाकीर्ति शब्द सर्वत्र प्रासरत्
तदनन्तरमष्टौ च वीतरागा निराश्रयाः ।
ज्योतिरूपा निराकाराः प्रादुर्भूता जगद्धिते
एकः शंखगिरेः पार्श्वे मणिचूडाश्रमान्तिके ।
मणिलिंग इति ख्यातः सो ऽद्यापि संप्रतिष्ठितः
द्वितीयो भुच्च गोकर्ण स्थले ज्योतिर्षयाकृतिः ।
चारुगिरौ तृतीयश्च कुम्भतीर्थे चतुर्थकः
पंचमः फणिशैलश्च षष्ठश्च गर्तकस्थले ।
सप्तमो गन्धवत्यां च अष्टमो विक्रमस्थले
एते ऽष्टौ महादेवाः वीतरागा निरंजनाः ।
ज्योतिरूपा निरांकाराः प्रादुर्भूता जगद्धिते
अत्रैषां वीतरागान्यनुभावात् समन्ततः ।
मनोरमामही जाता सर्व पीठोक्तमावनौ
तदायोभू महास्वो महासंमत वंशजः ।
कृपाकारुण्य भद्रात्मा बोधिसत्त्वो नृपो ऽभवत्
तत्र स नृप राजेन्द्रः क्रकुछन्देन तायिना ।
सहात्र द्रष्टुमायातः स्वयंभुवं खगाननां
दूरात्स येनमालोक्य स्वयंभुवं जिनालयं ।
प्रणत्वा समुपागत्य चक्रे प्रदक्षिणात्रयं
ततो ऽभ्यर्च्ये महोत्साहैरेणं पञ्चजिनात्मकं
अष्टांगैश्च प्रणत्वा च प्राभजच्छरणाश्रितः ।
ततस्तथा च राजेन्द्रो मञ्जुदेवं च सङ्गुरुं
यथाविधि समभ्यर्च्य प्राभजत्संप्रमोदितः ।
ततस्तथा स राजेन्द्रः खगाननां जिनेश्वरीं
यथाविधि समभ्यर्च्य महोत्साहैर्मुदाभजत् ।
ततो ऽष्टौ वीतरागाश्च सर्वानता त्स्वयंभुवः
दृष्ट्वा समुदितो राजा महोत्साहैस्तथा भजत् ।
एतत्पुण्यानुभावैः स महत्पुण्याशयः कृती
सर्वधर्म्माधि राजेन्द्रः सर्वलोकाधिपो वभौ ।
सर्व विद्याधिपो राजा भद्रश्री सद्गुणाश्रयः
तेन धर्माकरो नाम्नो प्रसिद्धौ ऽभूद्विराजितेः ।
ततः सो ऽत्र महाराजः संस्थास्तुं काम आत्मना
क्रकुछन्दं मुनीन्द्रन्तं प्रणत्वैवं न्यवेदयत् ।
भगवन्यह वांछास्ता विजानीयात् ममेच्छितं
तदनुज्ञां पदत्वामेनुग्रहं कर्तुमर्हति ।
इति संप्रार्थिते तेन भगवान्स मुनीश्वरः
धर्म्माकरं नरेन्द्रंन्तं सम्पश्यन्नेवमादिशत् ।
साधु राजन् महासत्त्व यदेवं त्वं समीच्छसि
तथात्वमिह सन् स्थित्वा पालयं बोधयन् प्रजाः ।
तथात्रसकरलाल्लोकान् संस्थाप्य संप्रबोधयन्
बोधिमार्गे प्रतिष्ठाप्य चारयस्व सदा शुभे ।
धर्म्मेण पालयन् सर्वाल्लोकान् स्वयं समाचरन्
यथाकाम सुखं तु प्रासचरस्व जगद्धिते ।
धर्म्मनीत्या समाधाय कृत्वा लोकहितं सदा
साधयन्वोधि सम्भारं सदेह निवसाश्रिताः ।
सदास्य शरणे स्थित्वा धर्म्मधातोः स्वयम्भुवः
श्रद्धया भजनं कृत्वा संचरस्व जगद्धिते ।
अस्याः खगाननायाश्च देव्याः शरण आश्रितः
सर्वदा भजनं कृत्वा चरस्व बोधिसंवरं ।
अस्यापि मञ्जुदेवस्य सद्गुरोः समुपाश्रितः
बुद्धानुशासनं धृत्वा सद्धर्म्मे संचरंस्व स ।
एषां च वीतरागानामष्टानामपि सर्वदा
श्रद्धया भजनं कृत्वाः साधय धर्म्ममुक्तमं ।
वाग्मती प्रमुखानाञ्च तीर्थानां समुपाश्रयेन
स्नान दानादिकं कृत्वा पित्तृन्देवाञ्च तोषयन् ।
लब्धा त्रिकाय संशुद्धिं धृत्वा संबोधिमानसं
सर्वसत्त्वा हितं कृत्वा निवसस्व यथासुखं ।
एवं राजेन्द्र लोकांश्च सर्वानपि प्रवोधयं
एतेषामपि सर्वेषां संस्थाप्य शरणे सदा ।
पूजा भक्ति महोत्साहैः चारयित्वा समादरात्
बोधिमार्गे प्रतिष्ठाप्य चारयस्व सदा शुभे ।
एवं कृत्वा महाराज संबोधि निहिताश्रयः
बोधिचर्याव्रतं धृत्वा संचरस्व जगद्धिते ।
एतत्पुण्याभिलिप्तात्मा भविष्यसि जिनात्मजः
बोधिसत्त्व महाभिज्ञा भद्रश्री सद्गुणाश्रयः ।
कदाचिदपि नैवत्वं दुर्गतौ च क्वचित्सरेः
सदासद्गति संजातोः समृद्धि सिद्धिमान्सुधीः ।
श्रीमान्सर्वगुणाधीशः सर्वलोकाधिपः कृति
क्रमेण बोधिसंभारं पूरयित्वा समाहितं ।
त्रिरत्न भजनोत्साह महानन्दसुखं सदा
भुंजाना निर्म्मलाचारश्चतुर्ब्रह्म विहारिणः ।
निःक्लेशो निर्जयन् मारान् सर्वानर्हन्त्वमाप्तवान्
त्रिविधां बोधिमासाद्य संबुद्धपदमाप्नुयाः ।
लोकाः सर्वे ऽपि चैवंहि परिशुद्धत्रिमण्डलाः
बोधिसत्त्वा महासत्त्वाः सदा सद्गति संभवाः ।
बोधिचर्या व्रतं धृत्वा संचरन्तो जगद्धिते
जित्वा मारगणान्सर्वाश्वतुर्ब्रह्म विहारिणः ।
निःक्लेशा निर्म्मलात्मानः संसारगति निःस्पृहा
अर्हन्त त्रिविधासम्बोधिं प्राप्य बुद्धत्वमाप्नुयुः ।
एषां च वीतरागानां अष्टानामपि साम्प्रतं
पूजाफल विशेषत्वं व क्ष्यामि शृणु तन्नृपः ।
वाग्मतिसलिले यस्तु स्नात्वा नित्यं समाहितः
अष्टावेतान् महेशान् वीतरागान् सदा भजेत् ।
यतत्पुण्य विशुद्धात्मा श्री समृद्धि सुखान्वितः
संसारे सर्वदा सौख्यं भुक्त्वा यायाच्छिवालयं ।
घृतेन स्नापयेत् यस्तु वीतरागान् स्वयंभूवः
शिवालयं व्रजेत् सो ऽपि मधुरा ब्रह्ममन्दिरं ।
दध्ना यः स्नापयेद् देवान् वीतरागान् स्वयंभुवः
स यायाद् वैष्णवं लोकं श्री समृद्धि सुखाश्रयं ।
स्नानादिक्षुरसेनापि विद्याधरं पदं व्रजेत्
गन्धोदकेन गान्धर्व क्षीरेण शशिनः पदं ।
शीतोदकेन शुद्धात्मा निष्पापा निर्मलेन्द्रियं
एषां पूजां च यः कुर्यान्नानापुष्पैः सुगन्धितैः ।
सर्व काम सुखं भुक्त्वा मोदते मनुजाधिपः
विल्वपत्राणि श्रेष्ठानि रोहणर्च्चं अतन्द्रितः ।
शिवं सर्वत्र प्राप्नोति यज्ञानां च सहस्रकं
नैवेद्यं ढोकयेद्यः स दीर्धायुः स्याद् वलि नृपः ।
दीपमालां च यो दद्यात्तेजस्वी स्यात्सुदृष्टिमान्
गुग्गुरुं यो दहेत्तस्य नश्यते सर्वपातकं ।
तिलपात्रं च योदद्यादुर्ग्गति स व्रजेन्नहि
सुवर्णं ये प्रदद्याच्च स यायात् सङ्गतौ सदा ।
तिलधेनुं प्रदद्याद्योः स सं यायाच्छिवालयं
रौप्यखुरां हेम शृंगी रणद् घण्ठावलं विना ।
सवत्सां कपिलां दद्याद्यः स यज्ञफलं लभेत्
यो रत्नकंचुकं दद्यात् स भवेद् बहुरत्नवान् ।
वस्त्रवान् वस्त्रदानेन भूमिदानेन भूमिवान्
तूर्यसंगीति नृत्यादि महोत्साहं प्रचारयेत् ।
यः सदिव्य श्रुतिप्राप्तः शिवपार्श्वचरो भवेत्
नीलोत्पलार्कपद्मानि यो दद्यात् स श्रियं लभेत् ।
यो ऽर्चयेद् विल्वपत्रेण स बलिष्ठो भवेत् कृती
धत्तुरकेन निर्वार्य केन वीरेण सद् वनो ।
सुगन्धिकुसुमैः सर्वै योष्टावपि समर्चयत्
स श्रीमान् सुभगो धीमान् भवेत्सौगन्धिताश्रये ।
दिव्यातिसुन्दरः कान्ता भद्रश्री सद्गुणाद्धिमान्
पुष्पैः पत्रैः फलमूलैस्तोत्रै र्वा यो ऽर्चयेच्छिवान् ।
स देवालयमासाद्य भुक्त्वा दिव्यसुखं चरेत्
यश्च प्रदक्षिणां कृत्वा भजेन्नित्यं समादरात् ।
रूपवान्स भवेदन्ते संप्रयायाच्छिवालयं
यश्च स्तोत्रैः प्रसन्नात्मा भजेतेतान्महेश्वरान् ।
स तु पित्रालयं गत्वा महानन्द सुखं लभेत्
यश्चनाम समुच्चार्य जपित्वा च समाहितः ।
सो ऽपि श्रीमान् महाभिज्ञः प्रान्ते यायाच्छिवालयं
अष्टांगैः प्रणतिं कृत्वा यो भजेत् तान् महेश्वरान् ।
स यायात् सङ्गतावेव दुर्गतिं न कदाचन्
स्मृत्वा ध्यात्वा समुच्चार्य नामपि यो भजत् सदा ।
स दिव्यामृतभुंजानो रमेद् दिवि यथासुखं
यश्च दृष्टा प्रसन्नात्मा प्रणमेत् सांजलिर्मुदा ।
सो ऽपि दिव्यामृतं भुक्त्वा रमेत् स्वर्गे सुरैः सह
इत्येषां वीतरागाणामष्टानां भजनाद् ध्रुवं ।
विशेषफलमाज्ञाय भजस्वैनां यथेच्छया
तदत्र भूतले शुद्ध विधाय पुरमाश्रयन् ।
सर्वाल्लोकान् प्रतिष्ठाप्य पालयन्सर्वदा वस
तदात्र सर्वदिग्भ्यो ऽपि सर्वलोकाः प्रमोदिताः ।
आगत्य संस्थिति कृत्वानि वसेयुः सदा मुदा
तदा जानपदाश्चात्र ग्रामाश्चनगराण्यपि ।
निर्गम पक्तनं चापि प्रवर्क्तेयुः समन्ततः
तथा देवा सुरेन्द्राश्चं सर्वे लोकाधिपा अपि ।
आगत्यात्र समालोक्य धर्मधातोः स्वयंभुवः
गन्धर्वा गुह्यका यक्षाः किन्नरा राक्षसा अपि ।
कुम्भाण्डा गरुडा नागाः सिद्धा विद्याधरा अपि
साध्याश्च मातृका श्चापि स भैरवगणा अपि ।
ऋषयो योगिनश्चापि यतय स्तीर्थिका अपि
श्रावका भिक्षवो ऽर्हन्त श्चैलकाश्चाप्युपासकाः ।
बोधिसत्त्वा महासत्त्वाः शैव कौलाश्च वैष्णवाः
आगत्यात्र समालोक्य धर्म्मधातोः स्वयंभुवः ।
देव्याः खगाननायाश्च मञ्जुदेवस्य सङ्गुरोः
एषां च वीतरागानां तीर्थानां चानुभावतां ।
प्रसादिताः समाश्रित्य भजेयुः सर्वदा मुदा
तदात्र सर्वदैतेषां सर्वा पुण्यानुभावतः ।
सुभिक्षं मंगलोत्साहं निरुत्पातं भवेद्ध्रुव्रं
इत्यादिष्टं मुनीन्द्रेण क्रकुछन्देन सप्रतुः ।
धर्म्माकर समाकर्ण्य तथेति प्रतिबुध्यत
ततः सःनृप उत्थाय साञ्जलिस्तं मुनीश्वरं ।
क्रकुच्छन्द स संघं य प्रणत्वेवं न्यवेदयत
भगवन् भवतामाज्ञां धृत्वाहमत्र सर्वदा ।
पुरं विधाय लोकानां हितार्थे निवसे खलु
तद् भवान् कृपयालोक्य सर्वदात्र हिमालये ।
ससंघो धर्म्ममादिश्य विहरंतु जगद्धिते
इति संप्रार्थिते तेन भगवान् स मुनीश्वरः ।
धर्म्माकरं महासत्त्वं तं पश्यन्नेवमव्रवीत्
नाहं सदात्र तिष्ठेयं चरेयं सर्व भूतले ।
सर्वसत्त्व हितार्थ हि भवामि धर्म्मदिक्षिणः
इत्यादिश्य मुनीन्द्रेण क्रकुछन्दः स सांधिकः ।
ततः संप्रस्थितो ऽन्यत्र देशें संभाषयन् ययौ
ततो धर्माकरः सो ऽत्र विधाय नगरं तथा ।
राज्यांगानि प्रतिस्थाप्य राज्यं कृत्वाध्यतिष्ठत
तदात्र सर्वे आगत्य मन्दिरेषु समन्ततः ।
आश्रित्य संस्थितिं कृत्वा निवसन्तो मुदा चरन्
ततो ऽन्येपि समायाताः सर्वदिग्भ्यो ऽत्र सर्वतः ॥
जानपदे पुरेनेकं ग्रामेषु न्यवसन् मुदा
तथा देवा सुराद्याश्च सर्वे लोकाधिपा अपि ।
स्वस्वपरिजनैः सार्द्धं आगत्यात्र मुदा वसन्
तथा महर्षयश्चापि यतयो ब्रह्मचारिणः ।
योगिनो भिक्षवो ऽर्हन्तो व्रतिनश्चाप्युपासकाः
बोधिसत्त्वा महासत्त्वा श्चैलकाः श्रावका अपि ।
यथाभिलषिते देशे कृत्वा श्रमं समाश्रयन्
तथान्य तीर्थिकाः शैवा वैष्णवाः कौलिका अपि ।
यथाभिलषिते स्थाने कृत्वाश्रमं समाश्रयन्
प्रत्येक सुगताश्चापि समागत्य समन्ततः ।
विविक्ते आश्रमे रम्ये समाश्रित्य मुदा वसन्
मुनीन्द्रा अपि चागत्य विहृत्यात्र ससांधिकाः ।
प्रार्य सम्बोधि सद्धर्म्मं समादेश्यन् त्वरागताः
एवं पुण्यतमा भूमीरियं हिमालयाहवया ।
सुखावतिनिभारम्या बोधिसत्त्व समाश्रय
वहूनि चात्र तीर्थानि सर्वपापहराण्यपि ।
जातानि सन्ति सर्वार्थ समृद्धि सिद्धिदाण्यपि
तदेतेषु च तीर्थेषु स्नात्वा चरत सद्व्रतं ।
पापं हन्तुं शुभं प्राप्तुं समीछन्त्यत्र ये नराः
ये ऽत्र तीर्थेषु सर्वेषु स्नात्वा नित्यं समाहित ।
जप यज्ञादि कर्म्माणि कृत्वा चरन्ति सम्वरं
पितृञ्चापि समभ्यर्च्य देवाञ्च श्रद्धयादरात् ।
दत्वा दानं समाधाय ध्यात्वापीशं भजन्ति च
ते ऽपि सर्वे विकल्माषाः परिशुद्ध त्रिमण्डलाः ।
श्रीमन्तः सिद्धि मन्तश्च भवेयुः सद्गुणाश्रयाः
ततस्ते सर्व सत्त्वानां हितार्थे धर्म साधकाः ।
बोधिसत्त्वा महासत्त्वाः भवेयुः सुगतात्मजाः
ततस्ते बोधिसम्भारं पूरयित्वा यथाक्रमं ।
त्रिरत्न भजनं कृत्वा संचरेरञ्जगद्धिते
ततस्ते विमलात्मानो निःक्लेशा विजितेन्द्रियाः ।
अर्हन्त स्त्रिविधां बोधिं प्राप्येयुः सौगतं पदं
एवं मत्वात्र तीर्थेषु सर्वेषु बोधिवांछिभिः ।
नात्वा दानादि कर्म कर्त्तव्य सर्वदा भवे
इत्यादिष्टं मुनीन्द्रेण समादिष्टं निसम्य ते ।
सर्व सभाश्रिता लोकाः प्राभ्यनन्दन् प्रवोधिताः
मूल पाठ: Svayaṃbhupurāṇa · Edition: Min Bahadu Shakyar & Shanta Harsa Bajracharya (trans.). Svayambhu Purāṇa. Nepal: Nagarjuna Institute of Exact Methods, 2001. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0