स्वयंभुपुराण · अध्याय 3
अशोकः ससभालोकः प्राभ्यनन्दं प्रबोधितः ।
इति श्री स्वयम्भूत्पत्ति कथाया श्री स्वयम्भू भट्टारकोद्देश पूजावर्णना नाम द्वीतीयो ऽध्याय समाप्त ।
तृतीय अध्याय महाह्रदशोषणधर्मधातुपद्मगिरि सम्प्रतिष्ठापन्नो नाम
अथाशोको महीपालः साञ्जलिःपुर आश्रितः ।
तमर्हन्तं यतिं नत्वा प्रार्थयेदेवमादरात्
भदन्त श्रोतुमिच्छामि तद् भूमि सत्कथां ।
तत्सम्यक् समुपादिश्य संबोधयितुं नो भवान्
इति संप्रार्थिते राज्ञा सो ऽर्हन्यतिर्महामतिः ।
उपगुप्तो नरेन्द्रं तं सम्पश्यन्नेवमादिशत्
साधु शृणु महाराज यथा मे गुरुणोदितं ।
तथाहं ते प्रवक्ष्यामि सर्वलोकाभिवोधने
तद्यथाथ महासत्त्वो मैत्रेयः स जिनात्मजः ।
भगवन्तं पुनर्नत्वा सांजलिरेवमब्रवीत्
भगवन्नावासोसौमहा जलाश्रयो ह्रदः ।
कदा भूमि प्रदेशो ऽत्र कथं जलाश्रयो भवेत्
कस्य च समये देशाग्रामादयः प्रवर्त्तिताः ।
तत्सर्वं समुपादिश्यन्सर्वानस्मान्प्रवोधयन्
इति संप्रार्थिते तेन मैत्रेयेन सः सर्ववित् ।
भगवान्स्तं महासत्त्वं सम्पश्यन्नैवमादिशत्
साधु शृणु महासत्त्वं यदत्राभूत् महीतले ।
तत्प्रवृत्तिं समाख्यामि सर्वलोकाभिबोधने
तद्यथा भूविलोकानां वर्ष षष्टी सहस्रका ।
पुराभूत् भगवाञ्छास्ता विश्वभूर्न्नामसर्ववित्
धर्मराजो मुनीन्द्रो ऽर्हस्तथागतो विनायकः ।
सर्व विद्याधिपस्तापी संबुद्ध सुगतो जिनः
सो ऽनुपमानाम पूर्यां उपकण्ठे जिनाश्रमे ।
सर्वसत्त्व हितार्थेन विजहार ससांधिकः
मैत्रेयो ऽहं तदा भूवं विश्वभू उपासकः ।
पर्वताख्यो महासत्त्वो बोधिसत्त्वो हितार्थभृत्
तत्र स भगवाञ्छास्ता संभासयं सुधाशुवत ।
सद्धर्म्म समुपादेष्टुं सभासने सभाश्रयत्
तं दृष्टा भिक्षवो सर्वे श्रावकाः ब्रह्मचारिणः ।
प्रत्येक सुगताश्चापि बोधिसत्त्वाश्चचैलकाः
भिक्षुण्या ब्रह्मचारिण्योयतयो ऽयोगिनो पिच ।
त्रिरत्न भजनारक्ता उपासक उपासिकाः
एवं मन्येपि लोकाश्च सद्धर्म्म गुणलालसाः ।
भद्रश्री सभाणारक्ता संबुद्ध दर्शणोत्सुका
तत्सुधर्म्मामृतं पातुं समत्येन मुनीश्वरं ।
यथाक्रमं समभ्यर्च्य नत्वा साञ्जलाय मुदा
परिवृत्य पुरस्कृत्य समुद्विक्ष्य समादरात् ।
तत्सभायां समाश्रित्य संनिषेदु समाहिताः
एवं ब्रह्मादयः सर्वे ऋषयो ब्रह्मचारिणः ।
तीर्थिका अपि सर्वे तत्सद्धर्मं श्रोतुमागताः
शक्रादयोयिदावाश्च सर्वलोकाधिपा अपि ।
ग्रहास्तारागणाः सिद्धाः साध्या विद्याधरा अपि
सर्वे ऽपि ते ससागत्य भगवन्तं यथाक्रमं ।
समभ्यर्च्य प्रणत्वा तत सभायां समुपाश्रयत्
एवं च ब्राह्मणा विज्ञा राजान क्षत्रिया अपि ।
वैश्याश्च मन्त्रिणो ऽमात्या गृहस्थाश्च महाजनाः
शिल्पिनो वणिजश्चापि सार्थवाहाश्च पौरिकाः ।
ग्राम्या जानपदाश्चापि तथा न्ये देशवासिनः
सर्वे ते समुपागत्य भगवन्त यथाक्रमं ।
समभ्यर्च्य प्रणत्वा च कृत्वा प्रदक्षिणान्यपि
गुरु कृत्य पुरस्कृत्य परिवृत्य समन्ततः ।
तत्सधर्म्मामृतं पातुमुपतस्थुः समाहिताः
तान्दृष्ट्वा समुपासीनान् विश्वभूर्भगवांजिनः ।
आदि मध्यान्त कल्याणं सद्धर्म समुपादिशत्
तत्सद्धर्म्मामृतं पीत्वा सर्वे लोकाः सभाश्रिताः ।
धर्म्मविशेषमाज्ञाय प्राप्यनन्द प्रवोधिताः
तस्मिन्क्षणे मही सर्वा च चारद्धि सपर्वताः ।
सुप्रसन्ना दिशः सर्वा रेजुरवीन्द्र वह्न्यः
सुरदुन्दुभयो नेन्दुर्निपेतुः पुष्पवृष्टयः ।
निरुत्पातं महोत्साहं प्रावर्त्तत समन्ततः
तद् विलोक्य सभालोकाः सर्वे ते विस्मयान्विताः ।
श्रोतुं तद्धेतु सर्वज्ञमुद्वीक्ष्य तस्थुरादिताः
तदा गगनगञ्जाख्यो बोधिसत्त्वः समुत्थितः ।
उद्धहन्नुत्तरासंग पुरतः समुपाश्रित
सर्वज्ञं तं महाभिज्ञं धर्म्मराजं विनायकं ।
विश्वभुवं मुनिन्नत्वा सांजलिरेवमब्रवीत्
भगवन्तद्रनैमित्यं कस्येदं जायते ऽधुना ।
तद्भवान्समुपादिश्य संबोधयतु नो गुरोः
इति संप्रार्थिते तेन भगवान्स मुनीश्वरः ।
गगनगंजमालोक्य तं सभाचैवमब्रवीत्
कुलपुत्र महद् भद्र निमित्तमिदमाचरत् ।
तदहं सप्रवक्षामि शृणुध्वं यूयमादरात्
तद्यथा त्रिगुणाभिज्ञा मञ्जुश्रीः सुगतात्मजः ।
उत्तरस्यां महाचीने विहरति नगाश्रमे
तस्य भार्या उभेज्येष्टाकेशिनी श्रीवरप्रदा ।
विद्या सद्गुण संभर्त्री द्वितीयाः चोपकेशिनी
एकस्मिन् समये तत्र मंजुश्रीः सद्गुणोदधिः ।
लोकं संदर्शन नाम समाधिं विदधे मुदा
ध्यान दृष्टा ददर्शात्र महाह्रदसरोरुहे ।
रत्नमयं समुत्पन्नं धर्म्मधातुं जिनालयं
स्वयंभुवं तमालोक्य मंजुदेवं सुसन्मतिः ।
संहर्षितः पुर्नध्यात्वा मनसैवं व्यचिन्तयेत्
अहो स्वयं समुद्भूतो धर्म्मधातु जिनालयः ।
निर्जने जलमये ज्योतिरूपः संभाषयन् स्थितः
तत् तथाहं करिष्यामि गत्वा तत्र महाह्रदे ।
शोषयित्वा तदम्भान्सि यथा पृथ्वीतलो ऽभवत्
तदा तत्र महीभूत्रे निर्जले सुप्रतिष्ठिते ।
शिलोच्चये प्रतिष्ठाप्य भजिष्यामि तमीश्वरं
तथा तत्र महीभूते ग्रामादि वसतिर्भवेत ।
तदा सर्वे ऽपि लोकाश्यः भजेयुस्तं जिनालयं
तथा तत् पुण्य भावेन सर्वदा तत्र मंगलं ।
निरुत्पातं भवेन्नूनं लोकाश्च स्यूः सुभाविनः
ततस्ते मानवाः सर्वे तस्यैव शरणाश्रिताः ।
यथाशक्ति महोत्साहैः प्रभजेयुः सदा मुदा
ततस्तत्पुण्यशुद्धास्ते सद्धर्म गुणलालसाः ।
बोधिसत्त्वा महासत्त्वाश्चरेयुर्बोधिसंवरं
ततस्ते बोधिसंभारं पुरयित्वा यथाक्रमं ।
त्रिविधां विधिमासाद्य निवृतिपदमाप्नुयुः
एवं कृत्वा महत्पुण्यं प्राप्याहं त्रिजगत्स्वपि ।
कृत्वा धर्म्ममयं बोधिप्राप्य निवृत्तिपदमाप्नुयां
इति ध्यात्वा विनिश्चित्य मञ्जुश्रीः सजिनात्मजः ।
मञ्जुदेवाभिधाचार्यरूपं धृत्वा महर्द्धिमान्
केशिनी वरदा नाम मोक्षदाख्यो ऽपकेशिनी ।
भूत्वानेकैः महासत्त्वैः सहसर्वे ऽपिनेचरत्
ततश्चरन् सभार्यासौ मञ्जुदेवः ससांधिकः ।
सर्वत्र भद्रतां कृत्वा महोत्सार्हैः समाचरत्
तत्र ते समुपागत्य दूरतः संप्रभास्वरं ।
महाह्रदाव्जमध्यस्थं ददृशुस्तं जिनालयं
तत्र ते तं समालोक्य ज्योतिरूपं समुज्वलं ।
प्रणत्वा सहसोपेत्यः कृत्वा प्रदक्षिणानि च
तत्तीरे पर्वते रम्ये सर्वे ऽपि ते समाश्रिताः ।
तं चैत्यमेव संवीक्ष्य न्यवसन्त प्रमोदिताः
ततः प्रातः समुत्थाय मञ्जुदेवः स ऋद्धिमान् ।
भक्तया परमयास्तौषिज्जिनालयं स्वयंभुवं
ज्योतिरूपाय चैतन्यरूपाय भवते नमः ।
अनादि निधनाय श्रीदात्रे प्रणवरूपिणे
विश्वतोमुख रूपाय स्वाहास्वधारूपिणे ।
पृथ्व्यादिभूतनिर्मात्रे महामहस्वरूपिणे
जगत्स्रष्टे जगत्पात्रे जगद् धर्त्रे नमो नमः ।
जगत् वंद्याय जगतमाराधाय च ते नमः
अतिस्थूलाय सूक्ष्माय विकाराय विकारिणे ।
निराकृतिकृते तुभ्यं सच्चिदानंदमूर्त्तयै
वषट्कार स्वरूपाय हुतभुजे स्वयं नमः ।
होत्रे हवन रूपाय होमद्रव्याय ते नमः
भक्तिलभ्याय सोम्याय भक्तवत्सलाय ते नमः ।
ध्यानगम्याय ध्येयाय चतुवर्गप्रदायिने
अग्ररत्नाय निःसीममहिम्ने सर्वदा नमः ।
गुणातीताय योगाय योगिने च सदा नमः
एवं स्तुत्वा मञ्जुदेवः पुनः क्षमार्थतां व्यधात् ।
प्रसीद भगवन् यदहं हदं संशोषितुं यते
इत्युक्त्वा चन्द्रहासं स सज्जीकृत्य समं ततः ।
त्रिधा प्रदक्षिणीकृत्य समन्ततो व्यलोकयत्
विलोक्य स महासत्त्वो याम्य दिशावृतं नगं ।
चन्द्रहासेन खड्गेन छित्वा जलाश्रयं व्यधात्
तच्छिन्नशैलमार्गेण तज्जलानि समन्ततः ।
प्रनिर्गत्याशु सर्वाणि गंगासंगममाययुः
तदारभ्य नदा नद्यो बभूवुर्भूतले ह्रदाः ।
दिग्विदिक्षु मलांभोभिस्तद् द्वीपैः परिपूरिताः
तत्र निरुध्य ये ऽम्वुनि यत्र ये शिलाः स्थिताः ।
तत्र तत्र सतान्सर्वाश्छित्वा स्वूनिच चारयेत्
एवं स सर्वतः छित्वा कृत्वा तज्जलनिर्गमं ।
त्रिरात्रेणापि न जलानि सर्वाणि निरचारयेत्
तज्जला धानमेकन्तु ह्रदं धनादहाभिधं ।
कर्क्कोटकनागस्य समस्थाप यदाश्रमं
सिंहेनोपद्रुता यद् वद गजेन्द्रोभय विह्वलाः ।
महारावै रुदन्तो वै विद्रवन्तो दिशो दशः
एवं तज्जलसंघातश्चन्द्रहासासिछेदनात् ।
मार्गान्तरान्निरगमत पंकशेषं यथाभवत्
तज्जलाधानमेकेन्तु ह्रदं धराद्रहाभिधं ।
कर्क्कोतकस्य नागस्य समस्थापयदाश्रयं
ततस्तस्मिन् जले शुष्केयदाधारसरोरुहं ।
तदेव पर्वताभूय धर्मधातोर्व्यवस्थितः
मञ्जुदेवानुभावेन स सर्वपर्वतोक्तमः ।
अभेद्या वज्रवक्तेन वज्रकूट इति स्मृतः
तदासौ भूतलोरम्यः समन्ततो नगावृतः ।
उपछन्दोह इत्याख्या हिमाल यो ऽपिचोच्यते
सुदुर्जया स्वरूपाभूः प्रज्ञा ज्ञानानुभाविनी ।
हेरुकमण्डलाकारा भूत्वा समवतिष्ठते
तत्रापि च प्रधाना श्री महादेवी खगानना ।
धर्म्मोदया समुहुता संतिष्ठते जगद्धिते
तं दृष्ट्वा स महाचर्या मञ्जुदेवो महर्द्धिमान ।
बोधिसत्त्वो महासत्त्वः प्रत्यत्यानन्दितो ऽभवत्
ततः स तां महादेवी समालोक्य प्रमोदितः ।
उरसा शिरसा दृष्टया वचसा मनसा तथा
पद्भ्यां कराभ्यां जानुभ्यां अष्टांगो ऽपि इति स्मृतः ।
अष्टांगै प्रणीता कृत्वा सांजलिः समुपाश्रयन्
सुप्रसन्न मुखाम्भोजः सुप्रबुद्धो शयाम्बुजः ।
संपश्यस्तां महादेवीं स्तोत्रैरेवं मुदाभजं
भगवति महादेवी भवत्याः शरणं व्रजे ।
वन्दे पादाम्वुजे नित्यं भजामि तन्प्रसीदतु
जननी सर्वबुद्धानां त्वमेव बोधिदायिनी ।
सर्वेषां बोधिसत्त्वानां माताहितानुपालिनी
सर्वहितार्थ संभक्ति सर्वपापविशोधनी ।
दुष्ट मारगणाक्षोभ महानन्द सुखप्रदा
सद्धर्म्मसाधनोत्साहवलवीर्य गुणप्रदा ।
निःक्लेशस्तिमितेध्यान समाधि सुखदायिनी
प्रज्ञागुण महारत्न श्री समृद्धि प्रदायिनी ।
तद् भक्त्याः पदाम्भोज शरणस्थो भजाम्यहम्
इति संप्रार्थ्य स प्राज्ञो मञ्जुदेव स सम्वरी ।
तस्या भक्ती प्रसन्नात्मा समाराधितुमैच्छत्
अथ तत्र स आचार्यः सगणः संप्रमोदितः ।
मार्ग शीर्षैशितैः पक्षै नवम्यां रविवासरे
प्रातः स्नात्वा विशुद्धात्मा शुचिवस्त्रावृतः सुधीः ।
पोषधसम्वरं धृत्वा देवीमाराधयं स्थितः
रात्रौ जागरणं कृत्वा धारणी मन्त्रजल्पनैः ।
स्तुतिभिश्च समाराध्यं प्राभजतां जिनेश्वरीं
ततः प्रातः दशम्यां स स्नात्वा गन्धोदकैर्मुदा ।
दत्वा दानं यथाकामं परिशुद्धत्रिमण्डलः
यथाविधिसमभ्यर्च्य तां देवीं परमेश्वरीं ।
महोत्साहैः स्तुतिं कृत्वा त्रिधा प्रदक्षिणानि च
सुप्रसन्न मुखाम्भोजः सद्धर्मगुणमानसः ।
भूयो ऽष्टांगैः प्रणत्वैवं प्रार्थयात्सांजलिमुद्रा
प्रसीदतु जगन्मातर्भवत्याः समुपाश्रितः ।
संबोधि साधनोत्सौ भजामि सर्वदा मुदां
इति संप्रार्थ्य संप्राज्ञौ नत्वाष्टांगैर्मुदा च तां ।
तत्पद्मामृतमादाय त्रिध्यमञ्जुलिना पिवेत्
तदमृतं निपीयासौ संविशुद्धत्रिमण्डलं ।
अष्टाक्षणविनिर्मुक्तः संबुद्धक्षणमाप्नुवान्
एवं कृत्वा स आचार्य देव्या भक्तिपरायणः ।
संबुद्धक्षणमासाद्य सर्व धर्म्माधिपो ऽभवत्
ततः श्रीमान् स आचार्यो बोधिसत्त्व जगद्धिते ।
स संघान्यवसत् तत्र धर्मधातौरूपाश्रमैः
तत्समभ्यषितत्वात् संप्रदेशः श्री मनोहरः ।
स्यात्सर्वत्रापि मञ्जुश्रीपर्वत इति विश्रुतः
तत्र श्रितः सदाप्यस्प धर्म्मधातोरूपासकः ।
सर्वसत्त्व हितार्थेन प्राभजन्स जिनात्मजः
तत्समीक्षामला सर्वेब्रह्मेन्द्रप्रमुखाअपि ।
सर्वेलोकाधिपाश्चापि मुदा तत्र समागताः
तत्रैवो पोषढं धृत्वा कृत्वा जागरणं निशि ।
उषित्वा धारणी मन्त्रः ध्यात्वा तां श्री जिनेश्वरीं
यथाविधि समभ्यर्च्य कृत्वा प्रदक्षिणानि च ।
कृत्वाष्टांग प्रणामानि स्तुतिभिश्चा भजं मुदा
एवं तस्यामहादेव्याः सर्वे तै शरणाश्रिताः ।
धर्मश्रीगुणसंपत्ति महर्द्धिसिद्धिमाप्नुवन्
ततस्ते चामराः सर्वे सेन्द्र ब्रह्मादयाधिपाः ।
वज्रकूटं नगाव्जं तं समीक्ष्यन्ते जिनालयं
अनुमोद्याभिनन्दन्ते स्तस्यापि शरणे गताः ।
महोत्साहैः समभ्यर्च्य प्रभजन्त समादरं
ततः सर्वे ऽमरास्तैच सर्वैलोकाधिपाश्च ते ।
अस्यापि मञ्जुएदेवस्य वज्राचार्यस्य सद्गुरोः
शरणे समुपासृत्य दिव्य पूजोपहारकैः ।
समभ्यर्च्य महोत्साहैः प्राभजन्त प्रमोदिताः
एवं मन्वादयः सर्वे मनुयोपियःमहर्षयः ।
यतयोगिनश्चापि भिक्षवो ब्रह्मचारिणः
चैलका बोधिसत्त्वाश्च महासत्त्वा जिनात्मजाः ।
ते सर्वे समुपागत्य तस्या देव्या उपासकाः
यथाविधि समभ्यर्च्य प्राभजन्त प्रमोदिताः ।
ततस्ते धर्म्मधातौश्च सर्वे ऽपि शरणाश्रिताः
समभ्यर्च्य महोत्साहैः नत्वा कृत्वा प्रदक्षिणां ।
सुप्रसन्न मुखाम्भोजान्त प्रमोदितनः
ततस्ते च महासत्त्व मञ्जुदेवं महद्धिंकिम् ।
आचार्य समुत्साहैः समर्चयं प्रमोदिताः
प्रत्येक सुगताश्चापि सर्वे तत्र समागताः ।
तां देवी धर्म्मधातुं तमाचार्यं च समार्चयं
सर्वे तथागताश्चापि पूजामेघसर्जनैः ।
तां देवीं धर्मधातुं तमाचार्यं च समाचर्यं
एवंमन्येपि लोकाश्च प्रदुष्ट्वा समुपागताः ।
तां देवीं धर्मधातुं च तमाचार्यं च प्राभजन्
एतत्पुण्यानुभावेन चलिता साव्धिनगा मही ।
पुष्पवृष्टिः शुभोत्साहं प्रवर्त्तते समन्ततः
इत्यादिष्ट मुनीन्द्रेण विश्वभूवा निशम्यते ।
सर्वे समाश्रिता लोका विस्मयं समुपाययुः
ततः सर्वे ऽपि ते लोकास्तां देवीं श्रीमहेश्वरी ।
धर्म्मधातुतमाचार्यं द्रष्टुमभिव वाञ्छिरे
तदाशयं परिज्ञायः गगणगञ्ज उत्थितः ।
भगवन्तन्तमानस्पश्यन्नेवमव्रवीत्
भगवन् सर्वमिच्छन्ति द्रष्टुं तां सुगेश्वरीं ।
धर्म्मधातुं तमाचार्यं तदनुज्ञां ददातु नः
इति संप्रार्थितं तेन भगवान्स मुनीश्वरः ।
गगणगञ्जमात्मज्ञ तं पश्यन्नेवमादिशत्
साधु साध्यामहादेवीं खगाननाजिनेश्वरीं ।
धर्मधातुं तमाचार्यमपिर्दष्टुं यदीच्छथ
तत्र हिमालये गत्वा तां श्री देवीं खगाननां ।
धर्मधातुं तमाचार्यं संभजध्वं यथा विधि
इत्यादिष्टं मुनीन्द्रेण विश्वभुवा निशम्यते ।
सर्वे लोका महोत्साहै रत्राययुः प्रमोदिताः
अहमपि मुनीन्द्रस्य प्राप्यानुज्ञां प्रमोदितः ।
तैःसार्द्धं प्रस्थितौ दूरात्पश्यन्निमंमाययौ
अत्र प्राप्नो ऽहं समालोक्य धर्म्मधातुन्निमं मुदा ।
समभ्यर्च्य महोत्साहैस्तै लोकैः प्राभजं सह
श्रद्धया शरणं गत्वा कृत्वा चैनं प्रदक्षिणां ।
स्तुत्वाष्टांगैः प्रणत्वा च प्रार्थयं बोधिसम्वरं
ततो ऽहं मञ्जुदेवाख्यं तमाचार्य समीक्ष्य च ।
समभ्यर्च्य महोत्साहैः प्राभजध्वं सहानुजैः
ततस्तस्योपदेश तां श्रीदेवीं खगाननां ।
यथाविधि समाराध्य महोत्साहैः समर्चयं
कृत्वा प्रदक्षिणां चापि नत्वाष्टाङ्गैः प्रमोदितः ।
स्तुत्वा ध्यात्वा च संबोधिं संप्रार्थय जगद्धिते
एतत्पुण्यानुभावेन परिशुद्ध त्रिमण्डलाः ।
अष्टाक्षण विनिर्मुक्तो बोधिसत्त्वो भवं कृती
ततः सम्बोधिसंभारं पूरयित्वा यथाक्रमं ।
जित्वा मारगणान् अर्हन् कलावपि जिनोभवे
एवमस्या महादेव्याः ये ये शरण आश्रिताः ।
यथाविधि समाराध्य भजेयु बोधिमानसाः
ते ते सर्वे महासत्त्वाः परिशुद्ध त्रिमण्डलाः ।
बोधिसत्त्वा महाभिज्ञा भवेयु स्त्रिगुणाधिपाः
कुत्रापि ते नगच्छेत् दुर्ग्गतिञ्च कदाचन ।
सदासङ्गतिसंजात भवेयुः श्री गुणाश्रयाः
यथाभिवाच्छितं द्रव्यं दत्वार्थिभ्यो समादरात् ।
यथाकामं सुखं भुक्त्वा सञ्चरेरञ्जगद्धिते
ततो विशुद्धशीलास्ते चतुर्ब्रह्म विहारिणः ।
बोधिसत्त्वसम्वरमाधाय संचरेरन् सदा शुभे
ततस्ते स्यु र्महासत्त्वाः सद्धर्म्म सुखलालसाः ।
स्वपरात्महिताधारक्षान्तिव्रतसमारताः
ततस्ते सद्गुणाधारा वीर्यवन्तो विचक्षणाः ।
सद्धर्म्म साधनोद्युक्ता भवेयु स्त्रिगुणाधिपाः
ततस्ते सुधियो धीरा निःक्लेशा विजितेन्द्रियाः ।
समाधि गुणसम्पन्ना भवेयुबोधियोगिनः
ततस्ते विमलात्मानः सर्वविद्या गुणाधिपाः ।
प्रज्ञाश्री रत्न संप्राप्तो भवेयुः सुगतात्मजाः
ततश्च ते सहासत्त्वाः सर्वे सत्त्वा हितोत्सुकाः ।
सर्वापाय विधि प्राज्ञा भवेयुश्त्रिगुणाधिपाः
ततस्ते बोधिसंभार प्रणिधिरत्नसागराः ।
सर्वसत्त्वहितं कृत्वा संचरेरं सदाशुभे
ततश्च ते महाभिज्ञाः भद्रश्री सत्गुणान्विताः ।
वलिष्ठा दुष्ट जेतारो भवेयु स्त्रिभवेश्वराः
ततस्ते त्रिविधां बोधिमासाद्य भद्रचारिणः ।
सम्बोधिज्ञानसद्रन्तसमृद्धाः स्यु र्मुनीश्वराः
ततस्ते सुगताः बुद्धाः दशभूमीश्वराजिनाः ।
बोधिमार्गे प्रतिष्ठाप्य कूर्युः सर्वान्सुधर्म्मिणः
एवं धर्ममयं कृत्वा सर्वत्र भुवनेष्वपि ।
सुनिवृर्तिपदं प्राप्य संप्रयायुर्जिनालयं
एवमस्या महादेव्या भजनो हूतमुक्तमं ।
पुण्यं महत्तरं सिद्धं सम्बुद्धपदसाधनं
इति सत्यं समाख्यातं सर्वै रपि मुनीश्वरैः ।
विज्ञायास्या महादेव्या भजध्वं शरणे स्थिता
अस्यापि धर्म धातौश्च भजनोद्भूतमुक्तमं ।
पुण्यं महत्तरं सिद्धं सम्बुद्धपदसाधनं
अस्यापि मञ्जुदेवस्यः भजनोद् भूतमुक्तमं ।
पुण्यं महत्तरं सिद्धं सम्बुद्धपदसाधनं
मत्वेति यदि वो वांच्छा विद्यते सौगते पदे ।
सर्वे यूयं समाधाय भजतान्त्र जिनालये
खगाननास्याया महादेव्याः शरणे च समाश्रिताः ।
ध्यात्वा स्मृत्वा समुच्चार्य नामापि भजताभवं
य एषां शरणे स्थित्वा ध्यात्वा स्मृत्वा समाहिताः ।
नामापि समुदाहृत्य भजन्ति सर्वदाभवे
ते सभद्रा नगच्छन्ति दुर्ग्गतिं च कदाचन ।
सदा सद्गति संजाता भवेयुः श्री गुणाश्रयाः
बोधिसत्त्वा महासत्त्वा सद्धर्म बोधि चारिणः ।
सर्वसत्त्व हितोद्युक्ता भवेयुः सुगतात्मजाः
एवन्तेषां महत्सौख्यं भद्रश्री सद्गुणान्वितं ।
सर्वदापि निरुत्पातं प्रवर्क्तते समाहितः
दैवोत्पातभयन्तेषांत विद्यते समन्ततः ।
यक्तान्दृष्ट्वा सुराः सर्वे रक्षन्तीन्द्रादयोमुदा
अग्न्युत्पातंभयं तेषां विद्यते न कदाचन ।
यत् तान्दृष्ट्वा प्रसीदन्तो रक्षेयुर्वह्नयः सदा
अकाल मरणाद् भीतिस्तेषान्नविद्यते क्वचित् ।
यद्यमोपि समलोक्य रक्षति तां प्रसादितः
राक्षसस्याभयं तेषां विद्यते न समन्ततः ।
यद् वायवो ऽपि ता वीज्य रक्षेयुः सर्वदानुगाः
यक्षस्यापि भयं तेषां विद्यते न सदा क्वचित् ।
यक्षा समीक्ष्य रक्षेयुः सर्वे यक्षाधिपा अपि
भूतेभ्यो ऽपि भयन्तेषां विद्यते न समन्ततः ।
यदीशानोपि तान्पश्य संरक्षेत्संप्रमोदिताः
गन्धर्वोत्पति तो भीतिस्तेषान्नविद्यते क्वचित् ।
धृतराष्टो ऽपि तान्पश्यत् संरक्षेत्सं प्रसादितः
कुम्भाण्डेभ्यो ऽपि नास्त्येवं भयन्तेषां कदाचन ।
विरुढकोहितान् पश्यनभिरक्षन् प्रसादतः
नागेभ्यो ऽपि भयन्तेषां विद्यते न सदा क्वचित ।
विरुपाक्षो हि सम्यश्यन्तान्रक्षन्सम्प्रसादितः
यक्षेभ्यो ऽपि सदा तेषां विद्यते न भयं क्वचित ।
कुवेरो हि समालोक्य संरक्षस्तान् प्रसादितः
भयं न किन्नरेभ्योपि तेषामस्ति कदाचन ।
द्रुमो हितान् महासत्त्वा संवीक्षवत् प्रसादितः
गुह्यकेभ्योपि नास्त्येव भयन्तेषां सुधर्म्मणां ।
वज्रपाणिर्हितान्वीक्ष्य प्रसादिता भवेत् सदा
तथा विद्याधरेभ्यो ऽपि भयन्तेषान्न विद्यते ।
यतः सर्वार्थसिद्धो ऽपि सम्यश्यन्स्तान् वेत्सदा
ग्रहोत्पात भयन्तेषां विद्यते न कदाचन ।
ग्रहाधिपाहि सर्वे ऽपि समीक्ष्य तानवेत्सदा
तथा तारागणोत्पातभयं तेषान्नविद्यते ।
सर्वास्ता राहि तान्वीक्ष्य सर्वत्रा वेयुराभवं
सिद्धाः साध्याश्चरुद्राश्च वीक्ष्यावेयुः सदापि तान् ।
तत्तेभ्योपि भयं क्वापि तेषां नास्ति कदाचन
तथा च मातृकोत्पातं भयं नास्ति कदाचन ।
सर्वाहि मातृकान् दृष्ट्वा रक्षेयु स्तां प्रसादिताः
महाकालो गणेश स्कन्दश्च भैरवा अपि ।
सर्वदा तान्समालोक्य रक्षेयुः संप्रसादिताः
प्रेता भूताः पिशाश्चाश्च वेताडा डाकिनीगणाः ।
अपि तान्सर्वदालोक्य संरक्षेयुः प्रसादिताः
तेभ्यो ऽपि भयन्तेषां विद्यते न कदाचन ।
सर्वे ऽपि र्तेसहायाः स्यु संवोधि धर्म्मसाधने
सिंहादि सर्वजन्तुभ्योः पक्षिभ्यो ऽपि समन्ततः ।
सर्पादि कृमिकीटेभ्यो भयन्तेषां सदापि न
दुष्ट प्रत्यर्थिकेभ्यो ऽपि तस्करेभ्योपि सर्वतः ।
शत्रुभ्यो ऽपि भयन्तेषां विद्यते न समन्ततः
यदेतत्पुण्यलिप्तास्तां समीक्ष्य ते प्रसादिताः ।
सर्वे मैत्री कृपा स्नेह निवद्धाः स्युहितार्थिनः
एवं सर्वे ऽपि सत्वास्तान्दृष्ट्वा संप्रसादिताः ।
स्निग्धचिक्ताप्रसन्नास्याः पश्येयु मैत्रीभावतः
राजानो ऽपि च तान्दृष्ट्वा मैत्री स्नेहसभाविताः ।
सुप्रसन्नाशयाः प्रीता मानयेयुः सदा मुदा
मन्त्रीणो ऽपि सदा तेषां मैत्रीस्नेह सभाषिताः ।
मानयेयुःयथाकामं सद्धर्म्म व्रतसाधनं
ब्राम्हणा अपि सर्वे च तेषां सद्धर्म्म साधनं ।
दृष्ट्वानुमोदितात्मानो दधु भद्राशिवं सदा
ऋषयो ऽपि तथा सर्वे तां दृष्ट्वा संप्रसादिताः ।
पश्यन्तः कृपया दृष्ट्वा मोदयेयुः सुभाशिषा
एवं च योगिनः सिद्धा यतयो ब्रम्हचारिणः ।
तीर्थिकास्तापसाश्चापि व्रतिनश्चाप्युपासकाः
चैरका भिक्षवोश्चापि भिक्षुण्यश्चाप्युपासिकाः ।
अपि तां सुदृशालोक्य नन्दयेयुः शुभाशिषाः
एवं च श्रावकाः सर्वे प्रत्येक सुगता अपि ।
बोधिसत्वाश्च सर्वे ऽपि तान् दृष्ट्वा संप्रसादिताः
कृपया दृष्टवानुपश्यन्तो मैत्री स्नेहसुभाविनः ।
रक्षित्वा बोधिमार्गेषु नियाजेयुः सदा भवं
एवं सर्वे ऽपि संबुद्धा दृष्ट्वा तां संप्रसादिताः ।
सर्वदा कृपया रक्ष्युचारयेयुर्ज्जगद्धिते
एवं तेषां महत्पुण्यं सम्बुद्ध पदसाधनं ।
भद्रश्रीगुणसंपत्ति समृद्धि सिद्धिसंप्रदं
एवं यूयमपि ज्ञात्वा सर्वदा शरणाश्रिताः ।
यथाशक्ति समभ्यर्च्य भजतैतांस्त्रिरत्निकान्
स्मृत्वा ध्यात्वापि नामापि समुच्चार्य सदा मुदा ।
एषामेव त्रिरत्नानां भजध्वं शरणे स्थिता
एतत्पुण्यविलिप्ता ये परिशुद्धत्रिमण्डलाः ।
भद्रश्रीगुणसंपन्ना भवेस्ते शुभाशया
दुर्गतिं ते न गच्छेयुः सदा सद्गतिसंभवाः ।
बोधिसत्वा महासत्वा भवेर्युभद्रचारिणः
ततस्ते सर्वसत्वानां हितार्थ साधनोद्यताः ।
सुधीरा बोधिसम्भारं पूरयित्वा यथाक्रमं
ततो मारगणाञ्जित्वा निःक्लेशा विजितेन्द्रियाः ।
अर्हन्त त्रिविधां बोधिंप्राप्य यायु जिनालयं
एत्सर्व मया ख्यातं सर्वैरपि मुनीश्वरैः ।
श्रुत्वानुमोदनां कृत्वा प्रचरध्वं सदाशुभे
इत्यादिष्टं मुनीन्द्रेण निशम्यते सभाश्रिताः ।
सर्वे तथानुमोदन्तः प्राप्यानन्दत्प्रवोधिताः
मूल पाठ: Svayaṃbhupurāṇa · Edition: Min Bahadu Shakyar & Shanta Harsa Bajracharya (trans.). Svayambhu Purāṇa. Nepal: Nagarjuna Institute of Exact Methods, 2001. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0