स्वयंभुपुराण · अध्याय 2
मैत्रेयादि समालोकाः सर्वे ऽपि संप्रसेदिरे ।
इति स्वयम्भूधर्मधातु समुत्पत्ति निदानकथा प्रथमो ऽध्यायः समाप्तः ।
द्वितीय अध्याय पूजाफलवर्णनो नाम
अथ धीमान् महासत्त्वो मैत्रेयः स जिनात्मजः ।
भगवन्तं पुनर्नत्वा साञ्जलिरेवमब्रवीत्
भगवच्छ्रोतुमिच्छामि स्वयम्भूत्पत्ति सत्कथां ।
तद्भवान्समुपाख्यातुं लोकानां संप्रवोधने
इति संप्रार्थितं तेन मैत्रेयेण सुधीमता ।
भगवान्स्तान् सभालोकान् सम्पश्यन्नेवमादिशत्
साधु मैत्रेय सर्वे ऽपि सभालोकाः समादरात् ।
शृणुध्वं संप्रवक्षामि स्वयम्भूत्पत्तिसत्कथां
तद्यथा निर्वृतिं याते विपश्विनि मुनीश्वरे ।
चिरकालान्तरेणात्र जगच्छास्ताभवत् पुनः
शिखि नाम मुनीन्द्रो ऽर्हन् धर्मराजस्तथागतः ।
सर्वज्ञः सुगतः सर्वविद्याधिपो विनायकः
तदा सप्ततिवर्षाणां सहस्रार्युनृणामभूत् ।
अहं क्षेमंकरो नाम बोधिसत्त्वो भवं किल
यदा स भगवाञ्छास्ता शिखिधर्माधिपो जिनः ।
अरुणाख्यपुरोपान्ते व्यहरत् सौगताश्रमे
तदा सर्वे महासत्त्वा बोधिसत्त्वा जिनात्मजाः ।
शिखिनस्तस्य शास्तुः संप्राभजन् समुपस्थिताः ।
अहमपि तथा तस्य शिखिनस्त्रिजगद्गुरोः
शरणे समुपस्थाय प्राभजं सर्वदा मुदा ।
तत्रैक समये सो ऽर्हन् भगवान् सर्वविच्छिखी
सद्धर्म समुपादेष्टुं सभासने समाश्रयेत् ।
तद्वीक्ष्य भिक्षवः सर्वे श्रावका ब्रह्मचारिणः
भिक्षुण्यो व्रतिनः सर्वे उपासका उपासिकाः ।
तत्सद्धर्मामृतं पातुं समुपागत्य तं मुनिं
नत्वा साञ्जलयस्तत्र परिवृत्य समाश्रयेत् ।
तदा ब्रह्मामरेन्द्रादि त्रिदशाः सर्वे आगताः
सर्वे लोकाधिपाश्चापि धर्म श्रोतुं समागताः ।
सिद्धा विद्याधरा साध्या यक्षगन्धर्वकिन्नराः
गरुडा राक्षसेन्द्राश्च दैत्या नागाधिपा अपि ।
ऋषयो ब्राह्मणाश्चापि तीर्थिकाश्चापि तपस्विनः
यतयो योगिनश्चापि निर्ग्रन्थाश्च दिगम्बराः ।
राजानो क्षत्रिया वैश्या अमात्या मन्त्रिणो जनाः
शिल्पिनो वणिजः सार्थवाहादयो महाजनाः ।
पौरा जानपदा ग्राम्यास्तथान्यदेशवासिनः
तत्सद्धर्मामृतं पातुं संहर्षिताः समागताः ।
तत्र ते समुपागत्य समीक्ष्य तं मुनीश्वरं
यथाक्रमं समभ्यर्च्य कृत्वा चापि प्रदक्षिणां ।
कृत्वाञ्जलि पुटो नत्वा परिवृत्य समन्ततः
पुरस्कृत्य समुद्वीक्ष्य समादरादुपाश्रयन् ।
तान् सर्वान् समुपासीनां दृष्ट्वा स भगवाञ्छिखी
आदिमध्यान्तकल्याणं सद्धर्म समुपादिशत् ।
तत्सद्धर्मामृतं पीत्वा सर्वे लोकाः प्रवोधिताः
सद्धर्मसाधनोद्युक्ता वभूवु बोधिभागिनः ।
तस्मिन्नेव समये तत्र पुण्यजलाश्रये ह्रदे
मणिनालं महद्दीप्तिहीरकेशरमुत्तम ।
पञ्चरत्नमयं दिव्यसरोजराजकर्ण्णिकं
प्रादुर्भूतं महापद्मं सहस्रदलकाशितं ।
तस्य रत्नसरोजस्य कर्ण्णिकामध्यमण्डले
स्वयम्भूत्समुत्पन्नो धर्म्मधातुर्जिनालयः ।
एकहस्तप्रमाणांशुः शुभ्ररत्नमयोज्ज्वलः
सम्बोधिश्रीगुणाधारः सर्वलक्षणमण्डितः ।
ज्योतिरूपो जगज्जेष्ठ पञ्चतथागताश्रयः
जगदीशो जगत् वन्द्यो जगत्पूज्यो जगत्प्रभुः ।
अनादिनिधनो ऽजीर्ण्णो मान्यः सर्वशुभार्थभृत्
समन्तभद्ररूपो ऽग्रः श्रेष्ठः सद्धर्मरत्नभृत् ।
त्रैलोक्यसद्गुणाधीशश्चतुर्वर्ग्गफलप्रदः
तस्मिंश्चैत्ये समुत्पन्ने साव्धिनगा रसाचलत्
दिव्यसुगन्धिपुष्पाणि संनिपेतुः सुरालयात् ।
सुरदुन्दुभयो नेदुः दिशः सर्वाः प्रसेदिरे
वह्नयो दक्षिणावर्त्ता भद्राभाः संप्रजह्वलः ।
सुशीतलाः सुगन्ध्याद्या धीरं ववुः समीरणाः
ववर्षुः सुरसाम्बूनि मेघा गम्भीरनिस्वनाः ।
ग्रह तारेन्दुचन्द्राभाः सभासिता विरेजिरे
स्तुतिमङ्गलसंगीतिशब्दा व्योम्नि प्रचेरिरे ।
सर्वत्रापि सुमाङ्गल्यमहोत्साहं निरन्तरं
सुभिक्षं श्रीगुणोर्भावं सद्धर्म भद्रसाधनं ।
निरुत्पातं शुभाचारं प्रावर्त्तत समन्ततः
तमेवं स्वयम्भूत्पन्नं धर्म्मधातुं जिनालयं ।
समीक्ष्येशादयः सर्वे आरुप्य भुवनाश्रिताः
योगध्यान महानन्द सौख्ये ऽपि विरतोत्सवाः ।
स्वयम्भुवं तमीशानं वन्दितुं समुपाचरन्
तथा ब्रह्मादयः सर्वे मुनयो ब्रह्मचारिणः ।
एवं स्वयम्भुवं द्रष्टुं मुदिता समुपाचरन्
एवं शक्रादयः सर्वे त्रिदशाः साप्सरो गणाः ।
पूजाङ्गानि समादाय द्रष्टुमेनं मुदा ययुः
तथाग्निधर्मराजो ऽपि नैऋतो वरुणो मरुत् ।
श्रीदो भूताधिपश्चैवं सर्वे लोकाधिपा अपि
स्वस्वपरिजनैः सार्द्ध महोत्साहैः प्रमोदिताः ।
एवं स्वयम्भुवं चैत्यं संद्रष्टुं समुपाययुः
धृतराष्ट्रो महाराजो गन्धर्वैः सह मोदितः ।
संगीतिवादनोत्साहैः सहैनं द्रष्टुमाययुः
विरुढको महाराजः कुम्भाण्डसहिता मुदा ।
स्वयम्भुवं तमालोक्य मुदा वन्दितुमाययुः
विरुपाक्षो ऽपि नागेन्द्रैः सर्वै नागाधिपैः सह ।
रत्नपूजोपहाराणि धृत्वैनं द्रष्टुमाययुः
कुवेरो यक्षराजो ऽपि यक्षणीभिः समन्वितः ।
नानाद्रव्योपहाराणि धृत्वैनं द्रष्टुमाययुः
वज्रपाणिश्च गुह्येन्द्रसर्वगुह्यकसंयुतः ।
दिव्यभोग्यापहाराणि धृत्वैनं द्रष्टुमाययुः
द्रुमः किन्नरराजो ऽपि सर्वैः सह ह्याननैः ।
तूर्यसंघोषणोत्साहैः सहिनं द्रष्टुमाययुः
तथा सर्वार्थसिद्धाख्यः सर्वविद्याधराधिपः ।
दिव्यपूजोपहाराणि धृत्वैनं द्रष्टुमाययुः
गरुडः पक्षिराजो ऽपि सर्वैः पक्षिगणैः सह ।
स्वस्वर्द्धिश्रीमहोत्साहैरेनं संद्रष्टुमाययुः
एवं सिद्धाश्च साध्याश्च वसवश्च ग्रहा अपि ।
सर्वास्तारागनाश्चापि सर्वाश्चाप्यप्सरोगणाः
एवं दैत्याधिपाः सर्वे स्वस्वपरिजनैः सह ।
महासमृद्धिप्रात्साहैः सहसा समुपाचरन्
एवं लोकाधिपाः सर्वे दशदिक्षु व्यवस्थिताः ।
दृष्ट्वा तं स्वयम्भूत्पन्नं वन्दितुं सहसाचरन्
सर्वे ऽपि ते समागत्य दृष्ट्वा तं जगदीश्वरं ।
संहर्षिताशया दूरात् प्रणत्वा समुपाचरन्
ततस्ते जगन्नाथ सर्वे ऽभ्यर्च्य यथाक्रमं ।
अष्टांगैः प्रणतिं कृत्वा प्राभजन्त समादरात्
केचिद्दव्यसुगन्धैस्तं प्राभिलिप्याभजन् मुदा ।
केचिन्नानाविधैः पुष्पैः केचिद्धूपैर्मनोहरैः
केचिच्च पुष्पमालाभिः केचिच्च दिव्यचीवरैः ।
केचिच्च दीपमालाभिः केचिदारतिदीपनैः
केचिद्दिव्यामृतैः भोग्यैः केचिद्दिव्यौषधैरपि ।
केचिन्नानाविधैर्दिव्यरत्नालंकाराभूषणैः
केचिच्छत्रध्वजैवलिव्यजनैश्च वितानकैः ।
केचित् संगीतिसंवाद्यैर्मृदङ्गमुरजादिभिः
केचित् तौर्यत्रिकै वंशैः शंखैः शृगैश्च केचन ।
काहारैश्च तथा केचित् वीणादीततवादनैः
तालादिघनवाद्यैश्च भेर्यानकमर्दलैः ।
तथा नानाविधैर्मड्डुर्डिण्डिमझर्झरादिभिः
केचित्नृत्यैश्च गीतैश्च हाहाकारैश्च केचन ।
एवं नानाविधोत्साहैः प्राभजन्स्तं जिनालयं
केचित् प्रदक्षिणान्येव कृत्वा भजन् सहस्रशः ।
केचिच्च धारणीविद्याजपस्तोत्रादिभिर्मुदा
एवं नानाप्रकारैस्ते सर्वे लोका द्विजादयः ।
श्रद्धया समुपाश्रित्य प्राभजन्स्तं स्वयम्भुवं
एतद्दिव्यमहोत्साहैः संप्रवृत्तिं प्रसारितां ।
श्रुत्वा सर्वे सभालोका विस्मयं समुपाययुः
तत् समीक्ष्य महासत्त्वा रत्नपाणिः पुरोगतः ।
शिखिनं तं मुनिं नत्वा साञ्जलिरेवमब्रवीत्
भगवन् यत्मही सर्वा कम्पिता दिव्यमुत्सवं ।
प्रसारितं च कस्येदं हेतु तत् समुपादिश
इति संप्रार्थितं तेन सुधिया रत्नपाणिना ।
स शिखि भगवान् पश्यन् रत्नपाणिं तमब्रवीत्
साधु शृणु महासत्त्व यत् सर्वा चलिता मही ।
दिव्योत्साहैः प्रवृत्तं च तद्धेतुं संनिगद्यते
तद्यथात्रास्ति भूलोक उत्तरस्यां हिमालये ।
अष्टाङ्गगुणसम्पन्नपुण्यजलाश्रयो ह्रदः
तत्र रत्नमये पद्मे सरोजराजकर्ण्णिके ।
स्वयमेव समुत्पन्नो धर्मधातुजिनालयः
तदुत्पन्ने मही सर्वा रचिता संप्रमोदिताः ।
सर्वत्रापि शुभोत्साहं प्राव्रर्त्तते भवालय
तं समीक्ष्य महेशानब्रह्माशक्रादयो ऽमराः ।
ग्रहास्ताराश्च सिद्धाश्च साध्या विद्याधरा अपि
महर्षश्च सर्वे ऽपि सविस्मयप्रमोदिताः ।
सर्वे लोकाधिपाश्चापि दैत्या नागाः खगेश्वराः
यक्षकिन्नरगन्धर्व्वगुह्यकराक्षसा अपिः ।
एतत्प्रभृतयः सर्वे समीक्ष्य तं स्वयंभुवं
संहर्षिताः समागत्य प्रभजन्ते महोत्सवैः ।
एतत्पूजामहोत्साहसंप्रवृत्तिः प्रसारित
एतस्येदं महद्भनिमित्तं संप्रजायते ।
इत्यादिष्टं मुनीन्द्रेण शिखिना संनिसंम्य सः
रत्नपाणिमहासत्त्वाः सविस्मयप्रमोदितः ।
सुप्रबुद्धमुखाम्भोजा महासंहर्षिताशयः
भूयस्तं शिखिनं नत्वा साञ्जलिरेवब्रवीत् ।
भगवन् तद्धिजानीयाद्यन्मनो मे समीच्छते
तदनुज्ञां प्रदत्वात्र संप्रसादयतुमर्हति ॥
अहमपि जगच्छास्तः स्वयम्भुवं तमीश्वरं
श्रद्धया समुपाश्रित्य प्रभजामि महोत्सवैः ॥
इति संप्रार्थिते तेन श्रुत्वा स भगवाञ्छिखि
रत्नपाणिं महासत्त्वं संपश्यन्नेवमादिशत् ॥
कुलपुत्र प्रयाहि त्वं यद्याशु बोधिमिच्छसि
श्रद्धया समुपाश्रित्य प्रभज तं जिनालयं ।
ये तत्र समुपाश्रित्य भजेयुः श्रद्धया मुदा
तेआशु प्राप्य संबोधिं सम्बुद्धपदमाप्नुयुः ।
इत्यादिष्टं मुनीन्द्रेण रत्नपाणि निशम्य सः
साञ्जलिस्तं मुनिं नत्वा मुदितः प्राचरत् ततः ।
ततस्तेन सहानेके बोधिसत्त्वा जिनात्मजाः
श्रावका भिक्षवश्चापि भिक्षुण्यश्चाप्युपासिकाः ।
उपासका भक्तिमन्तो व्रतिनः पुण्यलालसाः
ऋषयो ब्राह्मणाश्चापि यतयो योगिनो ऽपि च ।
तीर्थिकास्तापसाश्चापि निर्ग्रन्था ब्रह्मचारिणः
राजानः क्षत्रिया वैश्या अमात्या मन्त्रिणो जनाः ।
शिल्पिनो वणिजः सार्थवाहाश्चापि महाजनाः
पौरा जानपदा ग्राम्यस्तथान्यदेशवासिनः ।
एवमन्येपि लोकाश्च सद्धर्मगुणवाञ्छिनः
सर्वे तत्र महोत्साहैस्तेन सार्द्ध मुदा चरत् ।
एवं स रत्नपाणिस्तैः सर्वैः लोकै समन्वितः
पूजाङ्गानि समादाय महोत्साहै मुदाचरत् ।
एवं स प्रवरञ्छ्रीमान् सर्वांल्लोकान् विनोदयन्
सहसा तत्र प्रागत्य ददर्शेमं जिनालयं ।
दृष्ट्वैनं स महासत्त्वः मुदितः समुपासरन्
यथाविधि समभ्यर्च्य प्रणत्वा प्राभजन्मुदा ।
एवं सर्वे ऽपि ते लोकाः सहायास्तस्यमहर्षयः
यथाविधि समभ्यर्च्य महोत्साहै मुदाभजन् ।
एवं ते सकला लोका स्तुत्वा जप्त्वा च धारणी
प्रदक्षिणानि कृत्वोष्ट प्रणत्वा प्राभजन् मुदाः ।
एवमन्ये महासत्त्वा बोधिसत्त्वा जिनात्मजाः
दशदिग्भ्यः समागत्य प्राभजन्निममीश्वरं ।
अहमपि तदा तेन सहेत्य रत्नपाणिना
श्रद्धया समुपाश्रित्य प्राभजनिममीश्वरं ।
एतत्पुण्यानुभावेन बोधिं प्राप्य कलावपि
जित्वा मारगणान् सर्वान् धर्माधिपो भवाम्यहं ॥
ये येस्य समुपाश्रित्य भजेयुः श्रद्धया मुदा
ते ते सर्वे ऽपि संबोधिं प्राप्य स्युः सुगता द्रुतं ॥
एवं महत्तरं पुण्यस्य सेवासमुद्भवं
भद्रश्रीसद्गुणापन्नं सम्बोधिज्ञानसाधनं ।
इति सर्वै मुनीन्द्रैश्च समाख्यातं समन्ततः
यूयमपि परिज्ञाय भजतास्य समादरात् ।
मुनीन्द्रा अपि सर्वे ऽस्य चतुःसन्ध्यं दिवानिशं
दृष्ट्वा ध्यात्वा स्मृतिं धृत्वा प्राभजन्तं समादरात् ।
भजन्ति साम्प्रतं सर्वे बुद्धाः सर्वे दिगाश्रिताः
अनागताश्च सर्वे ऽपि भजिष्यन्ति तथा सदा ।
अस्य दर्शनमात्रेण प्रदुष्टा अपि पापिनः
निर्मुक्त पातका ह्याशु भवेयु निर्मलेन्द्रियाः ।
ततस्ते निर्मलात्मानो निःक्लेशो ब्रह्मचारिणः
दुर्गति नैव गच्छेयुः कुत्रापि हि कदाचन ॥
सङ्गतावेव संजाता भद्रश्रीसद्गुणाश्रयाः
बोधिसत्त्वा महासत्त्वा भवेयुः सुगतात्मजाः ।
ततस्ते बोधिसम्भारं पूरयित्वा यथाक्रमं
त्रिविधां बोधिमासाद्य निर्वृतिं पदमाप्नुयुः ।
इति नत्वा सदाप्यस्य कृत्वा दर्शनमादरात्
अनुमोद्याभ्यनुस्मृत्वा ध्यात्वानुभाव्य सर्वदा ।
नामापि च समुच्चार्य श्रद्धया बोधिवाछिभिः
यथाशक्ति प्रकर्त्तव्या भक्तिसेवा सदादरात् ।
इत्यादिष्टं मुनीन्द्रेण श्रीघनेन निशम्यते
मैत्रेयप्रमुखाः सर्वे सभालोकाः प्रबोधिताः ।
तथेत्यभ्यनुमोदन्तो धर्म्मधातो स्वयम्भुवः
श्रद्धया समुपाश्रित्य संभजितुं समीच्छिरे ।
अथ सर्व्वे सभालोका धर्म्मधातोः स्वयम्भुवः
पूजाफलविशेषाणि संश्रोतुं पुनरीच्छिरेः ।
तन्मत्वा स महासत्त्वो मैत्रेयः सुगतात्मज
भगवन्तं मुनीन्द्रन्तं प्रार्थयदेवमानतः ।
भगवन्नस्य पूजाया विशेषफलविस्तरं
सर्व्वे इमे सभालोकाः श्रोतुमिच्छन्ति साम्प्रतं ।
तद्भगवान् समुपादिश्य पूजाफलविशेषतां
इमां सर्वान् सभासीनां संबोधयितुमर्हति ।
इति संप्रार्थितं तेन मैत्रेयेण निशम्य सः
भगवान्स्तान् सभालोकान् सम्पश्यनैवमादिशत् ।
शृणुध्वं सकला लोका अस्य पूजाफलं महत्
विशेषेण प्रवक्ष्यामि सर्वे लोकाभिबोधने ।
पञ्चामृतैः सहाम्भोभिः संशोभितसुनिर्म्मलैः
ये मुदा स्नापयन्तिमं धर्म्मधातुं जिनालयं ।
मन्दाकिन्यां सदा स्नात्वा ते विशुद्धत्रिमण्डलाः
दिव्यसुखानि भुंजानो प्रान्ते यानि जिनालयं ।
सौरभ्य द्रव्यसंयुक्ति यत्र चैत्यै स्वयम्भुवि
मोदयन्तो जगच्चित्तं धूपयन्ति मुदा सदाः ।
ते सुगंधितसौम्याङ्गा मान्या देवा सुरैरपि
श्रीमन्तः सुस्वसंपन्ना भवन्ति रत्नसन्निभाः ।
पञ्चगन्धैर्मुदा यत्र धर्म्मधातो जिनालये
लिप्ताराध्य समाश्रित्य प्रभजन्ति सदादरात् ।
सप्तरत्नसमेतास्ते भद्रश्रीसद्गुणाश्रयाः
सर्व्वे लोका हितोद्युक्ता भवन्ति क्षितिपाधिपाः ।
ये चात्र मुनिराजेन्द्रा विचित्र चीवराम्बरैः
प्रवार्य श्रद्धया भक्त्या संभजन्ते समादरात् ॥
ते दिव्यदृष्य कौशेय रत्नाभरणभूषिताः
सुज्ञा धर्माधिपाः सन्तो भवन्ति भद्रचारिणः ।
ये चैमं कुसुमैः सर्व्वै जलजै स्थलजैरपि
अर्च्चयित्वा समाश्रित्य संभजन्ते प्रमोदिताः ।
महीन्द्रश्रीसमृद्धास्ते शक्राधिकप्रभान्विताः
भद्रश्रीसुखसंपन्ना भवन्ति बोधिभागिनः ।
यचैनं पुष्पमालाभि रचिताभिर्मनोहरैः
सर्व्वपुष्पैः प्रलम्बाभिः शोभयित्वा भजन्ति च ।
भवन्ति श्रीसमृद्धास्ते धर्म्मकामाः सुरधिपाः
सत्कीर्त्तिर्गुणसंरक्ताः शुभगा बोधिचारिणः ।
ये च पुष्पाणि सर्वाणि मुदात्र सुगतालये
अवकीर्य समाराध्य भजन्ति शरणाश्रिताः ।
ते ऽपि देवाधिपा स्वर्गे गता मह्यां नृपाधिपाः
महच्छ्रीगुणसम्पन्ना भवन्ति बोधिभागिनः ।
धृतसुगन्धितैलादिसंप्रदीप्तां तमोपहां
ज्वालयन्ति मुदा ये ऽस्मिं धर्म्मधातौ जिनालये ।
सुदुष्टयः सुरुपास्ते ज्ञानदीपतमोपहाः
भूपार्चितपदाम्भोजा भवन्ति बोधिभागिनः ।
प्रणीतं सुरसंभोज्यं वल्भगन्धसमन्वितं
ये चास्मिन्नुपढौकित्वा प्रभजन्ति समादरात् ।
ऋद्धिमन्तो नृपेंद्रास्ते सप्तरत्नसमन्विता
स्वर्ग्गे देवाधिपाश्चापि भवन्ति बोधिभागिनः ।
ये चास्मिं सुरसंपानं सुवर्ण्णगन्धसंयुतं
उपढौक्य समाराध्य प्रभजन्ते समाहिताः ।
ते वलिष्ठा महीपेन्द्राः श्रीसमृद्धा निरोगिणः
स्वर्गे गताश्च देवेन्द्रा भवन्ति बोधिभागिनः ।
ये चास्मिं स्कन्दमूलानि बीजपत्रफलानि च
श्रद्धया समुपस्थाप्य संभजन्ते समाश्रिताः ।
ते प्रभुक्त्वा यथाकामं भोग्यानि विविधान्यपि
सद्धर्म्मसाधना रक्ताः संयान्त्यन्ते जिनालयं ।
ये चास्मिं सुगताधारे पथ्यौषधगणान्यपि
समर्प्य श्रद्धया नित्यं प्रसेव्यन्ते समादरात् ।
ते वलिष्ठा सुपुष्टाङ्गाः सौम्येन्द्रिया निरामयाः
राज्यश्रीसुखमाभुज्य संयात्यन्ते सुखावती ।
ये चाप्यत्र जिनाधारे धर्म्मधातौ स्वयम्भुवि
वितत्योच्चै वितानं च ससेव्यन्ते समादरात् ॥
धन्यास्ते गुणिनो वंद्याः शुद्धवंशा विचक्षणाः
सर्व्वार्थसिद्धिसम्पन्नाः प्रयान्त्यन्ते जिनालयं ।
ये चास्मिन् सुगतावासे विचित्रानुच्छ्रितान्ध्वजान्
अवरोप्य महोत्साहैः संभजन्ते ऽभिनन्दिता ।
श्रीसद्गुणसुखधारा भूत्वा भूपाधिपा भुवि
स्वर्गे देवाधिपाश्चान्ते संप्रयान्ति जिनालयं ।
सौवर्ण्णरत्नपुष्पादि छत्राणि विविधानि ये
आरोप्यत्र महोत्साहैः संभजन्ते प्रमोदिताः ।
ते नरेन्द्राः सुरेन्द्राश्च छत्रोपमाः सदा भवे
महत्सुखानि भुक्त्वान्ते संप्रयान्ति जिनालयं ।
ये चास्मिं सुगतावासे पताकाः पञ्चरङ्गिकाः
समावलंवयित्वापि संभद्रन्ते महोत्सवैः ।
ते भूत्वात्र महीपालाः सदा देवाधिपा अपि
भद्रश्रीसत्सुखं भुक्त्वा संयात्यन्ते जिनालयं ।
ये चास्मिन् विविधैर्वाद्यैः संगीतिमुरुजादिभिः
तौर्यै वंशादिभिश्चापि संसेव्यन्ते महोत्सवैः ।
ते मनोज्ञस्वनादिव्यश्रीश्रीश्रीसद्गुणाश्रयाः
सद्धर्म्मसाधनं कृत्वा व्रजन्ति सुगतालयं ।
सलाजाक्षतपुष्पाणि ये चास्मिं सुगतालये
प्रक्षिप्य श्रद्धया भक्त्या संभजन्ते समादरात् ।
दुर्गतिन्ते न गच्छन्ति संजाताः सङ्गतौ सदा
सर्वसत्त्वहितं कृत्वा संप्रयान्ति जिनालयं ।
सधातुद्रव्यरत्नादि दक्षिणान्यत्र ये मुदा
श्रद्धया परिढौकित्वा संभजन्ते सदादरं ।
दिव्यश्रीसुखभुंजाना भद्रश्री सद्गुणाश्रयाः
सर्वसत्त्वहितं कृत्वा संप्रयान्ति जिनालये ।
ये चापि स्तुतिभिस्तथ्यैरेनं बुद्धालयं मुदा
पद्यैर्गद्यमयैश्चापि स्तुत्वा भजन्ति सादरं ।
बहुरत्नसमृद्धास्ते सर्व्वविद्याविचक्षणाः
भूपाः स्वर्गाधिपाश्चापि भूत्वान्ते यान्ति सौगतं ।
श्रद्धयैनं जगन्नाथं समाश्रयं स्वयम्भूवं
नत्वाष्टांगैः प्रसन्ना ये संभजन्ते समादरं ।
सप्तरत्नसमेतास्ते नृपाधिपा महर्धिकाः
सद्धर्म्मसाधनारक्ता भवन्ति बोधिचारिणः ।
ये चैनं चैत्यराजेन्द्रमनेकशः प्रदक्षिणां
कृत्वा ध्यात्वाप्यनुस्मृत्वा नामोच्चार्य भजन्त्यपि ।
जातिस्मराश्चिरायुष्का मतिमन्तः सुवर्ण्णिनः
वन्द्याः पूज्याश्च मान्यास्ते भवेयुर्बोधिचारिणः ।
शुद्धाश्च भस्मसंक्षालैः समालिप्य समन्ततः
समभ्यर्च्यमहोत्साहै ये भजन्त्येनमीश्वरं ।
शोकक्लेशाग्निसंतापविवर्जिताश्चिरायुषः
नीरोगाः सुखिनो देवा भवेयु भूमिपाश्च ते ।
ये च निर्माल्यमाकृष्य शोधयित्वात्र सर्वतः
श्रमुपाश्रित्य सेव्यन्ते सम्बुद्धभक्तिमानसाः ।
निर्मुक्तिक्लेशशोकास्ते दर्शनीयाः शुभेन्द्रियाः
श्रीमन्तः पुण्डरीकास्या भवेयुर्बोधिचारिणः ।
जीर्णे शीर्णे विभग्ने ऽस्मिन् प्रतिसंस्कृत्य ये मुदा
प्रतिष्ठाप्य महोत्साहैः संभजन्ते समादरात् ।
सर्वसम्पत्समृद्धास्ते पुष्टेन्द्रिया निरामयाः
धर्मकामाः शुभाचारा भवेयुर्बोधिचारिणः ।
जल्पित्वा यस्य मन्त्राणि धारणीश्च समाहिताः
ध्यात्वा स्मृत्वा समुच्चार्य नामापि प्रभजन्ति च ।
ते ऽपि सर्वे महासत्त्वाः परिशुद्धत्रिमण्डलाः
भद्रश्रीसद्गुणाधारा भवेयुर्बोधिचारिणः ।
एवं महत्तरं पुण्यमस्मिं धर्म्माधिपालये
श्रद्धाभजनसंभूतमित्यादिष्टं मुनीश्वरैः ।
मयैतत्पुण्यसंक्षिप्तमात्रं तु कथ्यते ऽधुना
समग्रं विस्तरेनात्र समाख्यातुं न शक्यते ।
एवं मत्वास्य सत्कारपूजाफलं महत्तरं
श्रद्धया शरणं गत्वा कर्तव्यं भजनं सदा ।
येप्यस्मिंञ्छरणं गत्वा श्रद्धया समुपाश्रिताः
सुप्रसन्नाशया भक्त्या भजन्ति बोधिमानसाः ।
न ते गच्छन्ति कुत्रापि दुर्गतिं च कदाचन
संजाताः सद्गतिष्वेव भवेयुर्बोधिचारिणः ।
सदा ते सुकुले जाता बोधिसत्त्वा विचक्षणाः
सर्वसत्त्व हिता धानं चरेयुर्व्रतमाभवं ।
ततस्ते बोधिसंभारं पूरयित्वा यथाक्रमं
त्रिविधां बोधिमासाद्य निर्वृतिपदमाप्नुयुः ।
न हिचित्त प्रसादस्प स्वल्पाभवति दक्षिणा
तथागतेषु सद्धर्म्म संबुद्ध श्रावकेष्वपि ॥
एवं ह्यचिन्त्याः संबुद्धाः बुद्ध धर्माश्च निर्मलाः
अचिन्त्योहि प्रसन्नानां विपाकश्च महाफल ।
एवं मत्वा त्रिरत्नेषु भक्तिपूजा फलं महत्
कार्याभक्तिषु सदात्रैव धर्म्मधातौ जिनालये ।
इत्यादिष्टं मुनीन्द्रेन श्रुत्वा सर्वे समाश्रिताः
लोकास्तथेति विज्ञप्य प्रात्यनन्द प्रवोधिताः ।
इति मे गुरुणादिष्टं श्रुतमया तथोच्यते
त्वमप्येवं सदा राजन् भज तत्र जिनालये ।
तत्पुण्येन ते भद्रं निरुत्पातं सदाभवेत्
बोधिचित्त रसं च संप्राप्य बोधिसत्त्वो भवेरपि ।
ततः सम्बोधि संभारं पूरयित्वा तथाक्रमं
मारान्निर्ज्जित्य संबोधि प्राप्य बुद्धपदं लभेः ।
इति शास्तार्हता दिष्टं सम्यकनराधिपः
मूल पाठ: Svayaṃbhupurāṇa · Edition: Min Bahadu Shakyar & Shanta Harsa Bajracharya (trans.). Svayambhu Purāṇa. Nepal: Nagarjuna Institute of Exact Methods, 2001. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0