भाषा

ENहिગુ
ग्रंथ पाठ

स्वप्नवासवदत्त · अध्याय 5

5.1

{निष्क्रान्ताः सर्वे (1)} चतुर्थो ऽङ्कः ।
****************************** अच्त् 5 ******************************
अथ पञ्चमो ऽङ्कः ।
{ततः प्रविशति पद्मिनिका (भ्स्व्_5.0:1)}
*{पद्मिनिका}* - महुअरिए महुअरिए आअच्छ दाव सिग्घं (भ्स्व्_5.0:2)
[मधुकरिके मधुकरिके आगच्छ तावच् छीघ्रम् । ]
{प्रविश्य (भ्स्व्_5.0:3)}
*{मधुकरिका}* - हळा इअ ह्मि (भ्स्व्_5.0:4)
किं करीअदु (भ्स्व्_5.0:5)
[हळा इयम् अस्मि । किं क्रियताम् । ]
*{पद्मिनिका}* - हळा किं ण जाणासि तुवं भट्टिदारिआ पदुमावदी सीसवेदणाए दुक्खाविदे त्ति (भ्स्व्_5.0:6)
[हळा किं न जानासि त्वं भर्तृदारिका पद्मावती शीर्षवेदनया दुःखितेति । ]
*{मधुकरिका}* - हद्धि (भ्स्व्_5.0:7)
[हा धिक् । ]
*{पद्मिनिका}* - हळा गच्छ सिग्घं अय्यं आवन्तिअं सद्दावेहि (भ्स्व्_5.0:8)
केवळं भट्टिदारिआए सीसवेदणं एव्व णिवेदेहि (भ्स्व्_5.0:9)
तदो सअं एव्व आगमिस्सदि (भ्स्व्_5.0:10)
[हळा गच्छ शीघ्रम् आर्याम् आवन्तिकां शब्दापय । केवलं भर्तृदारिकायाः शीर्षवेदनाम् एव निवेदय । ततः स्वयम् एवागमिष्यति । ]
*{मधुकरिका}* - हळा किं सा करिस्सदि (भ्स्व्_5.0:11)
[हळा किं सा करिष्यति । ]
*{पद्मिनिका}* - सा हु दाणिं महुराहि कहाहि भट्टिदारिआए सीसवेदणं विणोदेदि (भ्स्व्_5.0:12)
[सा खल्व् इदानीं मधुराभिः कथाभिर् भर्तृदारिकायाः शीर्षवेदनां विनोदयति । ]
*{मधुकरिका}* - जुज्जै (भ्स्व्_5.0:13)
कहिं सअणीयं रैदं भट्टिदारिआए (भ्स्व्_5.0:14)
[युज्यते । कुत्र शयनीयं रचितं भर्तृदारिकायाः । ]
*{पद्मिनिका}* - समुद्दगिहके किळ सेज्जात्थिण्णा (भ्स्व्_5.0:15)
गच्छदाणि तुवं (भ्स्व्_5.0:16)
अहं वि भट्टिणो णिवेदणत्थं अय्यवसन्तअं अण्णेसामि (भ्स्व्_5.0:17)
[समुद्रगृहके किल शय्यास्तीर्णा । गच्छेदानीं त्वम् । अहमपि भर्त्रे निवेदनार्थम् आर्यवसन्तकम् अन्विष्यामि । ]
*{मधुकरिका}* - एव्वं होदु (भ्स्व्_5.0:18)
[एवं भवतु । ]
{निष्क्रान्ता (भ्स्व्_5.0:19)}
*{पद्मिनिका}* - कहिं दाणिं अय्यवसन्तअं पेक्खामि (भ्स्व्_5.0:20)
[कुत्रेदानीम् आर्यवसन्तकं पश्यामि । ]
{ततः प्रविशति विदूषकः (भ्स्व्_5.0:21)}
*{विदूषकः}* - अज्ज खु देवीविओअविहुरहिअअस्स तत्तहोदो वच्छराअस्स पदुमावदीपाणिग्गहणसमीरिअस्स अच्चन्तसुहावहे मङ्गळोसवे मदणग्गिदाहो अहिअदरं वड्ढै (भ्स्व्_5.0:22)
{पद्मिनिकां विलोक्य (भ्स्व्_5.0:23)}
अयि पदुमिणिआ (भ्स्व्_5.0:24)
पदुमिणिए किं इह वत्तदि (भ्स्व्_5.0:25)
[अद्य खलु देवीवियोगविधुरहृदयस्य तत्रभवतो वत्सराजस्य पद्मावतीपाणिग्रहणसमीरितस्यात्यन्तसुखावहे मङ्गलोत्सवे मदनाग्निदाहो ऽधिकतरं वर्धते । अयि पद्मिनिका । पद्मिनिके किम् इह वर्तते । ]
*{पद्मिनिका}* - अय्य वसन्तअ किं ण जाणासि तुवं भट्टिदारिआ पदुमावदी सीसवेदणाए दुःखाविदेत्ति (भ्स्व्_5.0:26)
[आर्य वसन्तक किं न जानासि त्वं भर्तृदारिका पद्मावती शीर्षवेदनया दुःखितेति । ]
*{विदूषकः}* - भोदि सच्चं ण जाणामि (भ्स्व्_5.0:27)
[भवति सत्यं न जानामि । ]
*{पद्मिनिका}* - तेण हि भट्टिणो णिवेदेहि णं (भ्स्व्_5.0:28)
जाव अहं वि सीसाणुळेवणं तुवारेमि (भ्स्व्_5.0:29)
[तेन हि भर्त्रे निवेदयैनाम् । यावद् अहम् अपि शीर्षानुलेपनं त्वरयामि । ]
*{विदूषकः}* - कहिं सअणीअं रैदं पदुमावदीए (भ्स्व्_5.0:30)
[कुत्र शयनीयं रचितं पद्मावत्याः । ]
*{पद्मिनिका}* - समुद्दगिहके किळ सय्यत्तिण्णा (भ्स्व्_5.0:31)
[समुद्रगृहके किल शय्यास्तीर्णा । ]
*{विदूषकः}* - गच्छदु भोदी (भ्स्व्_5.0:32)
जाव अहं वि तत्तहोदो णिवेदैस्सं (भ्स्व्_5.0:33)
[गच्छतु भवती । यावद् अहम् अपि तत्रभवते निवेदयिष्यामि । ]
{निष्क्रान्तौ (भ्स्व्_5.0:34)} प्रवेशकः
{ततः प्रविशति राजा (भ्स्व्_5.0:35)}
*{राजा}* -
श्लाघ्याम् अवन्तिनृपतेः सदृशीं तनूजां कालक्रमेण पुनर् आगतदारभारः &
लावाणके हुतवहेन हृताङ्गयष्टिं तां पद्मिनीं हिमहताम् इव चिन्तयामि

5.2

{प्रविश्य (भ्स्व्_5.1:1)}
*{विदूषकः}* - तुवरदु तुवरदु दाव भवं (भ्स्व्_5.1:2)
[त्वरतां त्वरतां तावद् भवान् । ]
*{राजा}* - किमर्थम् (भ्स्व्_5.1:3)
*{विदूषकः}* - तत्तहोदी पदुमावदी सीसवेदणाए दुक्खाविदा (भ्स्व्_5.1:4)
[तत्रभवती पद्मावती शीर्षवेदनया दुःखिता । ]
*{राजा}* - कैवम् आह (भ्स्व्_5.1:5)
*{विदूषकः}* - पदुमिणिआए कहिदं (भ्स्व्_5.1:6)
[पद्मिनिकया कथितम् । ]
*{राजा}* - भोः कष्टं
रूपश्रिया समुदितां गुणतश् च युक्तां लब्ध्वा प्रियां मम तु मन्द इवाद्य शोकः &
पूर्वाभिघातसरुजो ऽप्य् अनुभूतदुःखः पद्मावतीम् अपि तथैव समर्थयामि

5.3

अथ कस्मिन् प्रदेशे वर्तते पद्मावती (भ्स्व्_5.2:1)
*{विदूषकः}* - समुद्दगिहके किळ सेज्जात्थिण्णा (भ्स्व्_5.2:2)
[समुद्रगृहके किल शय्यास्तीर्णा । ]
*{राजा}* - तेन हि तस्य मार्गम् आदेशय (भ्स्व्_5.2:3)
*{विदूषकः}* - एदु एदु भवं (भ्स्व्_5.2:4)
[एत्व् एतु भवान् । ]
{उभौ परिक्रामतः (भ्स्व्_5.2:5)}
*{विदूषकः}* - इदं समुद्दगिहकं (भ्स्व्_5.2:6)
पविसदु भवं (भ्स्व्_5.2:7)
[इदं समुद्रगृहकम् । प्रविशतु भवान् । ]
*{राजा}* - पूर्वं प्रविश (भ्स्व्_5.2:8)
*{विदूषकः}* - भो तह (भ्स्व्_5.2:9)
{प्रविश्य} अविहा चिट्ठदु चिट्ठदु दाव भवं (भ्स्व्_5.2:10)
[भोः तथा । अविहा तिष्ठतु तिष्ठतु तावद् भवान् । ]
*{राजा}* - किमर्थम् (भ्स्व्_5.2:11)
*{विदूषकः}* - एसो खु दीवप्पभावसूइदरूवो वसुधातळे परिवत्तमाणो अअं काओदरो (भ्स्व्_5.2:12)
[एष खलु दीपप्रभावसूचितरूपो वसुधातले परिवर्तमानो ऽयं काकोदरः । ]
*{राजा}* -
{प्रविश्यावलोक्य सस्मितम् (भ्स्व्_5.2:13)}
अहो सर्पव्यक्तिर् वैधेयस्य (भ्स्व्_5.2:14)
ऋज्वायतां हि मुखतोरणलोलमालां भ्रष्टां क्षितौ त्वम् अवगच्छसि मूर्ख सर्पम् &
मन्दानिलेन निशि या परिवर्तमाना किञ्चित् करोति भुजगस्य विचेष्टितानि

5.4

*{विदूषकः}* -
{निरूप्य (भ्स्व्_5.3:1)}
सुट्ठु भवं भणादि (भ्स्व्_5.3:2)
ण हु अअं काओअरो (भ्स्व्_5.3:3)
{प्रविश्यावलोक्य (भ्स्व्_5.3:4)}
तत्तहोदी पदुमावदी इह आअच्छिअ णिग्गदा भवे (भ्स्व्_5.3:5)
[सुष्ठु भवान् भणति । न खल्व् अयं काकोदरः । तत्रभवती पद्मावतीहागत्य निर्गता भवेत् । ]
*{राजा}* - वयस्य अनागतया भवितव्यम् (भ्स्व्_5.3:6)
*{विदूषकः}* - कहं भवं जाणादि (भ्स्व्_5.3:7)
[कथं भवान् जानाति । ]
*{राजा}* - किम् अत्र ज्ञेयम् (भ्स्व्_5.3:8)
पश्य
शय्या नावनता तथास्तृतसमा न व्याकुलप्रच्छदा न क्लिष्टं हि शिरोपधानम् अमलं शीर्षाभिघातौषधैः &
रोगे दृष्टिविलोभनं जनयितुं शोभा न काचित् कृता प्राणी प्राप्य रुजा पुनर् न शयनं शीघ्रं स्वयं मुञ्चति

5.5

*{विदूषकः}* - तेण हि इमस्सिं सय्याए मुहुत्तअं उवविसिअ तत्तहोदिं पडिवाळेदु भवं (भ्स्व्_5.4:1)
[तेन ह्य् अस्यां शय्यायां मुहूर्तकम् उपविश्य तत्रभवतीं प्रतिपालयतु भवान् । ]
*{राजा}* - बाढम् (भ्स्व्_5.4:2)
{उपविश्य (भ्स्व्_5.4:3)}
वयस्य निद्रा मां बाधते (भ्स्व्_5.4:4)
कथ्यतां काचित् कथा (भ्स्व्_5.4:5)
*{विदूषकः}* - अहं कहैस्सं (भ्स्व्_5.4:6)
हों त्ति करेदु अत्तभवं (भ्स्व्_5.4:7)
[अहं कथयिष्यामि । हों इति करोत्व् अत्रभवान् । ]
*{राजा}* - बाढम् (भ्स्व्_5.4:8)
*{विदूषकः}* - अत्थि णअरी उज्जैणी णाम (भ्स्व्_5.4:9)
तहिं अहिअरमणीआणि उदअह्णाणाणि वत्तन्ति किळ (भ्स्व्_5.4:10)
[अस्ति नगर्य् उज्जयिनी नाम । तत्राधिकरमणीयान्य् उदकस्नानानि वर्तन्ते किल । ]
*{राजा}* - कथम् उज्जयिनी नाम (भ्स्व्_5.4:11)
*{विदूषकः}* - जै अणभिप्पेदा एसा कहा अण्णं कहैस्सं (भ्स्व्_5.4:12)
[यद्य् अनभिप्रेतैषा कथा अन्यां कथयिष्यामि । ]
*{राजा}* - वयस्य न खलु नाभिप्रेतैषा कथा (भ्स्व्_5.4:13)
किन्तु
स्मराम्य् अवन्त्याधिपतेः सुतायाः प्रस्थानकाले स्वजनं स्मरन्त्याः &
बाष्पं प्रवृत्तं नयनान्तलग्नं स्नेहान् ममैवोरसि पातयन्त्याः

5.6

अपिच
बहुशो ऽप्य् उपदेशेषु यया माम् ईक्षमाणया &
हस्तेन स्रस्तकोणेन कृतम् आकाशवादितम्

5.7

*{विदूषकः}* - भोदु अण्णं कहैस्सं (भ्स्व्_5.6:1)
अत्थि णअरं बह्मदत्तं णाम (भ्स्व्_5.6:2)
तहिं किळ राआ कंपिऌळो णाम (भ्स्व्_5.6:3)
[भवतु अन्यां कथयिष्यामि । अस्ति नगरं ब्रह्मदत्तं नाम । तत्र किल राजा काम्पिल्यो नाम । ]
*{राजा}* - किम् इति किम् इति (भ्स्व्_5.6:4)
*{विदूषकः}* -
{पुनस् तद् एव पठति (भ्स्व्_5.6:5)}
*{राजा}* - मूर्ख राजा ब्रह्मदत्तः नगरं काम्पिल्यम् इत्य् अभिधीयताम् (भ्स्व्_5.6:6)
*{विदूषकः}* - किं राआ बह्मदत्तो णअरं कंपिऌळं (भ्स्व्_5.6:7)
[किं राजा ब्रह्मदत्तः नगरं काम्पिल्यम् । ]
*{राजा}* - एवम् एतत् (भ्स्व्_5.6:8)
*{विदूषकः}* - तेण हि मुहुत्तअं पडिवाळेदु भवं जाव ओट्ठगअं करिस्सं (भ्स्व्_5.6:9)
राआ बह्मदत्तो णअरं कंपिऌळं (भ्स्व्_5.6:10)
{इति बहुशस् तदैव पठित्वा (भ्स्व्_5.6:11)}
इदाणिं सुणादु भवं (भ्स्व्_5.6:12)
अयि सुत्तो अत्तभवं (भ्स्व्_5.6:13)
अदिसीदळा इअं वेळा (भ्स्व्_5.6:14)
अत्तणो पावरअं गह्णिअ आअमिस्सं (भ्स्व्_5.6:15)
[तेन हि मुहूर्तकं प्रतिपालयतु भवान् यावद् ओष्ठगतं करिष्यामि । राजा ब्रह्मदत्तः नगरं काम्पिल्यम् । इदानीं शृणोतु भवान् । अयि सुप्तो ऽत्रभवान् । अतिशीतलेयं वेला । आत्मनः प्रावारकं गृहीत्वागमिष्यामि । ]
{निष्क्रान्तः (भ्स्व्_5.6:16)}
{ततः प्रविशति वासवदत्ता आवन्तिकावेषेण चेटी च (भ्स्व्_5.6:17)}
*{चेटी}* - एदु एदु अय्या (भ्स्व्_5.6:18)
दिढं खु भट्टिदारिआ सीसवेदणाए दुक्खाविदा (भ्स्व्_5.6:19)
[एत्व् एत्व् आर्या । दृढं खलु भर्तृदारिका शीर्षवेदनया दुःखिता । ]
*{वासवदत्ता}* - हद्धि कहिं सअणीअं रैदं पदुमावदीए (भ्स्व्_5.6:20)
[हा धिक् कुत्र शयनीयं रचितं पद्मावत्याः । ]
*{चेटी}* - समुद्दगिहके किळ सेज्जात्थिण्णा (भ्स्व्_5.6:21)
[समुद्रगृहके किल शय्यास्तीर्णा । ]
*{वासवदत्ता}* - तेण हि अग्गदो याहि (भ्स्व्_5.6:22)
[तेन ह्य् अग्रतो याहि । ]
{उभे परिक्रामतः (भ्स्व्_5.6:23)}
*{चेटी}* - इदं समुद्दगिहकं (भ्स्व्_5.6:24)
पविसदु अय्या (भ्स्व्_5.6:25)
जाव अहं वि सीसाणुळेवणं तुवारेमि (भ्स्व्_5.6:26)
{निष्क्रान्ता (भ्स्व्_5.6:27)}
[इदं समुद्रगृहकम् । प्रविशत्व् आर्या । यावद् अहम् अपि शीर्षानुलेपनं त्वरयामि । ]
*{वासवदत्ता}* - अहो अकरुणा खु इस्सरा मे (भ्स्व्_5.6:28)
विरहपय्युस्सुअस्स अय्यौत्तस्स विस्समत्थाणभूदा इअं पि णाम पदुमावदी अस्सत्था जादा (भ्स्व्_5.6:29)
जाव पविसामि (भ्स्व्_5.6:30)
{प्रविश्यावलोक्य (भ्स्व्_5.6:31)}
अहो परिजणस्स पमादो (भ्स्व्_5.6:32)
अस्सत्थं पदुमावदिं केवळं दीवसहाअं करिअ परित्तजदि (भ्स्व्_5.6:33)
इअं पदुमावदी ओसुत्ता (भ्स्व्_5.6:34)
जाव उवविसामि (भ्स्व्_5.6:35)
अहवा अञ्ञासणपरिग्गहेण अप्पो विअ सिणेहो पडिभादि (भ्स्व्_5.6:36)
ता इमस्सिं सय्याए उवविसामि (भ्स्व्_5.6:37)
{उपविश्य (भ्स्व्_5.6:38)}
किंणुहु एदाए सह उवविसन्तीए अज्ज पह्लादिदं विअ मे हिअअं (भ्स्व्_5.6:39)
दिट्ठिआ अविच्छिण्णसुहणिस्सासा (भ्स्व्_5.6:40)
णिव्वुत्तरोआए होदव्वं (भ्स्व्_5.6:41)
अहव एअदेससंविभाअदाए सअणीअस्स सूएदि मं आलिङ्गेहि त्ति (भ्स्व्_5.6:42)
जाव सैस्सं (भ्स्व्_5.6:43)
{शयनं नाटयति (भ्स्व्_5.6:44)}
[अहो अकरुणाः खल्व् ईश्वरा मे । विरहपर्युत्सुकस्यार्यपुत्रस्य विश्रमस्थानभूतेयम् अपि नाम पद्मावत्य् अस्वस्था जाता । यावत् प्रविशामि । अहो परिजनस्य प्रमादः । अस्वस्थां पद्मावतीं केवलं दीपसहायां कृत्वा परित्यजति । इयं पद्मावत्य् अवसुप्ता । यावद् उपविशामि । अथ वान्यासनपरिग्रहेणाल्प इव स्नेहः प्रतिभाति । तद् अस्यां शय्यायाम् उपविशामि । किं नु खल्व् एतया सहोपविशन्त्या अद्य प्रह्लादितम् इव मे हृदयम् । दिष्ट्याविच्छिन्नसुखनिःश्वासा । निवृत्तरोगया भवितव्यम् । अथवैकदेशसंविभागतया शयनीयस्य सूचयति माम् आलिङ्गेति । यावच्
छयिष्ये । ]
*{राजा}* -
{स्वप्नायते (भ्स्व्_5.6:45)}
हा वासवदत्ते
*{वासवदत्ता}* -
{सहसोत्थाय (भ्स्व्_5.6:46)}
हं अय्यौत्तो ण हु पदुमावदी (भ्स्व्_5.6:47)
किंणुखु दिट्ठह्मि (भ्स्व्_5.6:48)
महन्तो खु अय्यजोअन्धराअणस्स पडिण्णाहारो मम दंसणेण णिप्फळो संवुत्तो (भ्स्व्_5.6:49)
[हम् आर्यपुत्रः न खलु पद्मावती । किन् नु खलु दृष्टास्मि । महान् खल्व् आर्ययौगन्धरायणस्य प्रतिज्ञाभारो मम दर्शनेन निष्फलः संवृत्तः । ]
*{राजा}* - हा अवन्तिराजपुत्रि
*{वासवदत्ता}* - दिट्ठिआ सिविणाअदि खु अय्यौत्तो (भ्स्व्_5.6:50)
ण एत्थ कोच्चि जणो (भ्स्व्_5.6:51)
जाव मुहुत्तअं चिट्ठिअ दिट्ठिं हिअअं च तोसेमि (भ्स्व्_5.6:52)
[दिष्ट्या स्वप्नायते खल्व् आर्यपुत्रः । नात्र कश्चिज् जनः । यावन् मुहूर्तकं स्थित्वा दृष्टिं हृदयं च तोषयामि । ]
*{राजा}* - हा प्रिये हा प्रियशिष्ये देहि मे प्रतिवचनम् (भ्स्व्_5.6:53)
*{वासवदत्ता}* - आळवामि भट्टा आळवामि (भ्स्व्_5.6:54)
[आलपामि भर्तः आलपामि । ]
*{राजा}* - किं कुपितासि (भ्स्व्_5.6:55)
*{वासवदत्ता}* - णहि णहि दुक्खिदह्मि (भ्स्व्_5.6:56)
[नहि नहि दुःखितास्मि । ]
*{राजा}* - यद्य् अकुपिता किम् अर्थं नालङ्कृतासि (भ्स्व्_5.6:57)
*{वासवदत्ता}* - इदो वरं किं (भ्स्व्_5.6:58)
[इतः परं किम् । ]
*{राजा}* - किं विरचिकां स्मरसि (भ्स्व्_5.6:59)
*{वासवदत्ता}* -
{सरोषम् (भ्स्व्_5.6:60)}
आ अवेहि इहावि विरचिआ (भ्स्व्_5.6:61)
[आ अपेहि अहापि विरचिका । ]
*{राजा}* - तेन हि विरचिकार्थं भवतीं प्रसादयामि (भ्स्व्_5.6:62)
{हस्तौ प्रसारयति (भ्स्व्_5.6:63)}
*{वासवदत्ता}* - चिरं ठिदह्मि (भ्स्व्_5.6:64)
को वि मं पेक्खे (भ्स्व्_5.6:65)
ता गमिस्सं (भ्स्व्_5.6:66)
अहव सय्यापळम्बिअं अय्यौत्तस्स हत्थं सअणीए आरोविअ गमिस्सं (भ्स्व्_5.6:67)
{तथा कृत्वा निष्क्रान्ता (भ्स्व्_5.6:68)}
[चिरं स्थितास्मि । को ऽपि मां पश्येत् । तद् गमिष्यामि । अथवा शय्याप्रलम्बितम् आर्यपुत्रस्य हस्तं शयनीय आरोप्य गमिष्यामि । ]
*{राजा}* -
{सहसोत्थाय (भ्स्व्_5.6:69)}
वासवदत्ते तिष्ठ तिष्ठ (भ्स्व्_5.6:70)
हा धिक् (भ्स्व्_5.6:71)
निष्क्रामन् सम्भ्रमेणाहं द्वारपक्षेण ताडितः &
ततो व्यक्तं न जानामि भूतार्थो ऽयं मनोरथः

5.8

{प्रविश्य (भ्स्व्_5.7:1)}
*{विदूषकः}* - ऐ पडिबुद्धो अत्तभवं (भ्स्व्_5.7:2)
[अयि प्रतिबुद्धो ऽत्रभवान् । ]
*{राजा}* - वयस्य प्रियम् आवेदये धरते खलु वासवदत्ता (भ्स्व्_5.7:3)
*{विदूषकः}* - अविहा वासवदत्ता (भ्स्व्_5.7:4)
कहिं वासवदत्ता (भ्स्व्_5.7:5)
चिरा खु उवरदा वासवदत्ता (भ्स्व्_5.7:6)
[अविहा वासवदत्ता । कुत्र वसवदत्ता । चिरात् खलूपरता वासवदत्ता । ]
*{राजा}* - वयस्य मा मैवं
शय्यायाम् अवसुप्तं मां बोधयित्वा सखे गता &
दग्धेति ब्रुवता पूर्वं वञ्चितो ऽस्मि रुमण्वता

5.9

*{विदूषकः}* - अविहा असम्भावणीअं एदं ण (भ्स्व्_5.8:1)
आ उदअह्णाणसङ्कित्तणेण तत्तहोदिं चिन्तअन्तेण सा सिविणे दिट्ठा भवे (भ्स्व्_5.8:2)
[अविहा असम्भावनीयम् एतद् न । आ उदकस्नानसङ्कीर्तनेन तत्रभवतीं चिन्तयता सा स्वप्ने दृष्टा भवेत् । ]
*{राजा}* - एवं मया स्वप्नो दृष्टः (भ्स्व्_5.8:3)
यदि तावद् अयं स्वप्नो धन्यम् अप्रतिबोधनम् &
अथायं विभ्रमो वा स्याद् विभ्रमो ह्य् अस्तु मे चिरम्

5.10

*{विदूषकः}* - भो वअस्स एदस्सिं णअरे अवन्तिसुन्दरी णाम जक्खिणी पडिवसदि (भ्स्व्_5.9:1)
सा तुए दिट्ठा भवे (भ्स्व्_5.9:2)
[भो वयस्य एतस्मिन् नगरे ऽवन्तिसुन्दरी नाम यक्षिणी प्रतिवसति । सा त्वया दृष्टा भवेत् । ]
*{राजा}* - न न
स्वप्नस्यान्ते विबुद्धेन नेत्रविप्रोषिताञ्जनम् &
चारित्रम् अपि रक्षन्त्या दृष्टं दीर्घालकं मुखम्

5.11

अपिच वयस्य पश्य पश्य
यो ऽयं सन्त्रस्तया देव्या तया बाहुर् निपीडितः &
स्वप्ने ऽप्य् उत्पन्नसंस्पर्शो रोमहर्षं न मुञ्चति

5.12

{प्रविश्य (भ्स्व्_5.11:1)}
*{विदूषकः}* - मा दाणि भवं अणत्थं चिन्तिअ (भ्स्व्_5.11:2)
एदु एदु भवं (भ्स्व्_5.11:3)
चौस्साळं पविसामो (भ्स्व्_5.11:4)
[मेदानीं भवान् अनर्थं चिन्तयित्वा । एत्व् एतु भवान् । चतुःशालं प्रविशावः । ]
{प्रविश्य (भ्स्व्_5.11:5)}
*{काञ्चुकीयः}* - जयत्व् आर्यपुत्रः (भ्स्व्_5.11:6)
अस्माकं महाराजो दर्शको बवन्तम् आह एष खलु भवतो ऽमात्यो रुमण्वान् महता बलसमुदयेनोपयातः खल्व् आरुणिम् अभिघातयितुम् (भ्स्व्_5.11:7)
तथा हस्त्यश्वरथपदातीनि मामकानि विजयाङ्गानि सन्नद्धानि (भ्स्व्_5.11:8)
तद् उत्तिष्ठतु भवान् (भ्स्व्_5.11:9)
अपिच
भिन्नास् ते रिपवो भवद्गुणरताः पौराः समाश्वासिताः पार्ष्णी यापि भवत्प्रयाणसमये तस्या विधानं कृतम् &
यद् यत् साध्यम् अरिप्रमाथजननं तत् तन् मयानुष्ठितं तीर्णा चापि बलैर् नदी त्रिपथगा वत्साश् च हस्ते तव

5.13

*{राजा}* -
{उत्थाय (भ्स्व्_5.12:1)}
बाढम् (भ्स्व्_5.12:2)
अयम् इदानीम्
उपेत्य नागेन्द्रतुरङ्गतीर्णे तम् आरुणिं दारुणकर्मदक्षम् &
विकीर्णबाणोग्रतरङ्गभङ्गे महार्णवाभे युधि नाशयामि

मूल पाठ: Svapnavāsavadatta · Data entry Matthias Ahlborn · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc