स्वप्नवासवदत्त · अध्याय 4
{निष्क्रान्ताः सर्वे} प्रथमो ऽङ्कः
****************************** अच्त् 2 ******************************
{ततः प्रविशति चेटी (भ्स्व्_2:1)}
*{चेटी}* - कुञ्जरिए कुञ्जरिए कहिं कहिं भट्टिदारिआ पदुमावदी (भ्स्व्_2:2)
किं भणासि एसा भट्टिदारिआ माहवीळदामण्डवस्स पस्सदो कन्दुएण कीळदित्ति (भ्स्व्_2:3)
जाव भट्टिदारिअं उवसप्पामि (भ्स्व्_2:4)
{परिक्रम्य अवलोक्य} अम्मो इअं भट्टिदारिआ उक्करिदकण्णचूळिएण वाआमसञ्जादसेदबिन्दुविइत्तिदेण परिस्सन्तरमणीअदंसणेण मुहेण कन्दुएण कीळन्दी इदो एव्व आअच्छदि (भ्स्व्_2:5)
जाव उवसप्पिस्सं (भ्स्व्_2:6)
[कुञ्जरिके कुञ्जरिके कुत्र कुत्र भर्तृदारिका पद्मावती । किं भणसि एषा भर्तृदारिका माधवीलतामण्डपस्य पार्श्वतः कन्दुकेन क्रीडतीति । यावद् भर्तृदारिकाम् उपसर्पामि । अम्मो इयं भर्तृदारिका उत्कृतकर्णचूलिकेन व्यायामसञ्जातस्वेदबिन्दुविचित्रितेन परिश्रान्तरमणीयदर्शनेन मुखेन कन्दुकेन क्रीडन्तीत एवागच्छति । यावद् उपसार्प्स्यामि । ]
{निष्क्रान्ता (भ्स्व्_2:7)}
प्रवेशकः ।
{ततः प्रविशति कन्दुकेन क्रीडन्ती पद्मावती सपरिवारा वासवदत्तया सह (भ्स्व्_2:8)}
*{वासवदत्ता}* - हळा एसो दे कन्दुओ (भ्स्व्_2:9)
[हला एष ते कन्दुकः । ]
*{पद्मावती}* - अय्ये भोदु दाणिं एत्तअं (भ्स्व्_2:10)
[आर्ये भवत्व् इदानीम् एतावत् । ]
*{वासवदत्ता}* - हळा अदिचिरं कन्दुएण कीळिअ अहिअसञ्जादराआ परकेरआ विअ दे हत्था संवुत्ता (भ्स्व्_2:11)
[हळा अतिचिरं कन्दुकेन क्रीडित्वाधिकसञ्जातरागौ परकीयाव् इव ते हस्तौ संवृत्तौ । ]
*{चेटी}* - कीळदु कीळदु दाव भट्टिदारिआ (भ्स्व्_2:12)
णिव्वत्तीअदु दाव अअं कण्णाभावरमणीओ काळो (भ्स्व्_2:13)
[क्रीडतु क्रीडतु तावद् भर्तृदारिका । निर्वर्त्यतां तावद् अयं कन्याभावरमणीयः कालः । ]
*{पद्मावती}* - अय्ये किं दाणिं मं ओहसिदुं विअ णिज्झाअसि (भ्स्व्_2:14)
[आर्ये किम् इदानीं माम् अपहसितुम् इव निध्यायसि । ]
*{वासवदत्ता}* - णहि णहि (भ्स्व्_2:15)
हळा अधिअं अज्ज सोहदि (भ्स्व्_2:16)
अभिदो विअ दे अज्ज वरमुखं पेक्खामि (भ्स्व्_2:17)
[नहि नहि । हळा अधिकम् अद्य शोभते । अभित इव ते ऽद्य वरमुखं पश्यामि । ]
*{पद्मावती}* - अवेहि (भ्स्व्_2:18)
मा दाणिं मं ओहस (भ्स्व्_2:19)
[अपेहि । मेदानीं माम् अपहस । ]
*{वासवदत्ता}* - एसह्मि तुह्णीआ तुह्नीआ भविस्सम् महासेणवहू (भ्स्व्_2:20)
[एषास्मि तूष्णीका भविष्यन् महासेनवधूः । ]
*{पद्मावती}* - को एसो महासेणो णाम (भ्स्व्_2:21)
[क एष महासेनो नाम । ]
*{वासवदत्ता}* - अत्थि उज्जैणीओ राआ पज्जोदो णाम (भ्स्व्_2:22)
तस्स बळ परिमाणणिव्वुत्तं णामहेअं महासेणो त्ति (भ्स्व्_2:23)
[अस्त्य् उज्जयिनीयो राजा प्रद्योतो नाम । तस्य बलपरिमाणनिर्वृत्तं नामधेयं महासेन इति । ]
*{चेटी}* - भट्टिदारिआ तेण रञ्ञा सह सम्बन्धं णेच्छदि (भ्स्व्_2:24)
[भर्तृदारिका तेन राज्ञा सह संबन्धं नेच्छति । ]
*{वासवदत्ता}* - अह केण खु दाणिं अभिळसदि (भ्स्व्_2:25)
[अथ केन खल्व् इदानीम् अभिलषति । ]
*{चेटी}* - अत्थि वच्छराओ उअअणो णाम (भ्स्व्_2:26)
तस्स गुणाणि भट्टिदारिआ अभिळसदि (भ्स्व्_2:27)
[अस्ति वत्सराज उदयनो नाम । तस्य गुणान् भर्तृदारिकाभिलषति । ]
*{वासवदत्ता}* -
{आत्मगतम्} अय्यौत्तं भत्तारं अभिळसदि (भ्स्व्_2:28)
{प्रकाशम्} केण कारणेण (भ्स्व्_2:29)
[आर्यपुत्रं भर्तारम् अभिलषति । केन कारणेन । ]
*{चेटी}* - साणुक्कोसो त्ति (भ्स्व्_2:30)
[सानुक्रोश इति । ]
*{वासवदत्ता}* -
{आत्मगतम्} जाणामि जाणामि (भ्स्व्_2:31)
अअं वि जणो एव्वं उम्मादिदो (भ्स्व्_2:32)
[जानामि जानामि । अयम् अपि जन एवम् उन्मादितः । ]
*{चेटी}* - भट्टिदारिए जदि सो राआ विरूवो भवे (भ्स्व्_2:33)
[भर्तृदारिके यदि स राजा विरूपो भवेत् । ]
*{वासवदत्ता}* - णहि णहि (भ्स्व्_2:34)
दंसणीओ एव्व (भ्स्व्_2:35)
[नहि नहि । दर्शनीय एव । ]
*{पद्मावती}* - अय्ये कहं तुवं जाणासि (भ्स्व्_2:36)
[आर्ये कथं त्वं जानासि । ]
*{वासवदत्ता}* -
{आत्मगतम्} अय्यौत्तपक्खवादेण अदिक्कन्दो समुदाआरो (भ्स्व्_2:37)
किं दाणिं करिस्सं (भ्स्व्_2:38)
होदु दिट्ठं (भ्स्व्_2:39)
{प्रकाशम्} हळा एव्वं उज्जैणीओ जणो मन्तेदि (भ्स्व्_2:40)
[आर्यपुत्रपक्षपातेनातिक्रान्तः समुदाचारः । किम् इदानीं करिष्यामि । भवतु दृष्टम् । हळा एवम् उज्जयिनीयो जनो मन्त्रयते । ]
*{पद्मावती}* - जुज्जै (भ्स्व्_2:41)
ण खु एसो उज्जैणीदुऌळहो (भ्स्व्_2:42)
सव्वजणमणोभिरामं खु सोभग्गं णाम (भ्स्व्_2:43)
[युज्यते । न खल्व् एष उज्जयिनीदुर्लभः । सर्वजनमनोऽभिरामं खलु सौभाग्यं नाम । ]
{ततः प्रविशति धात्री (भ्स्व्_2:44)}
*{धात्री}* - जेदु भट्टिदारिआ (भ्स्व्_2:45)
भट्टिदारिए दिण्णासि (भ्स्व्_2:46)
[जयतु भर्तृदारिका । भर्तृदारिके दत्तासि । ]
*{वासवदत्ता}* - अय्ये कस्स (भ्स्व्_2:47)
[आर्ये कस्मै । ]
*{धात्री}* - वच्छराअस्स उदअणस्स (भ्स्व्_2:48)
[वत्सराजायोदयनाय । ]
*{वासवदत्ता}* - अह कुसळी सो राआ (भ्स्व्_2:49)
[अथ कुशली स राजा । ]
*{धात्री}* - कुसळी सो आअदो (भ्स्व्_2:50)
तस्स भट्टिदारिआ पडिच्छिदा अ (भ्स्व्_2:51)
[कुशली स आगतः । तस्य भर्तृदारिका प्रतीष्टा च । ]
*{वासवदत्ता}* - अच्चाहिदं (भ्स्व्_2:52)
[अत्याहितम् । ]
*{धात्री}* - किं एत्थ अच्चाहिदं (भ्स्व्_2:53)
[किम् अत्रात्याहितम् । ]
*{वासवदत्ता}* - ण हु किञ्चि (भ्स्व्_2:54)
तह णाम सन्तप्पिअ उदासीणो होदि त्ति (भ्स्व्_2:55)
[न खलु किञ्चित् । तथा नाम सन्तप्योदासीनो भवतीति । ]
*{धात्री}* - अय्ये आअमप्पहाणाणि सुळहपय्यवत्थाणाणि महापुरुसहिअआणि होन्ति (भ्स्व्_2:56)
[आर्ये आगमप्रधानानि सुलभपर्यवस्थानानि महापुरुषहृदयानि भवन्ति । ]
*{वासवदत्ता}* - अय्ये सअं एव्व तेण वरिदा (भ्स्व्_2:57)
[आर्ये स्वयम् एव तेन वरिता । ]
*{धात्री}* - णहि णहि (भ्स्व्_2:58)
अण्णप्पओअणेण इह आअदस्स अभिजणविञ्ञाणवओरूवं पेक्खिअ सअं एव्व महाराएण दिण्णा (भ्स्व्_2:59)
[नहि नहि । अन्यप्रयोजनेनेहागतस्याभिजनविज्ञानवयोरूपं दृष्ट्वा स्वयम् एव महाराजेन दत्ता । ]
*{वासवदत्ता}* -
{आत्मगतम्} एव्वं (भ्स्व्_2:60)
अणवरद्धो दाणिं एत्थ अय्यौत्तो (भ्स्व्_2:61)
[एवम् । अनपराद्ध इदानीम् अत्रार्यपुत्रः । ]
{प्रविश्यापरा}
*{चेटी}* - तुवरदु तुवरदु दाव अय्या (भ्स्व्_2:62)
अज्ज एव्व किळ सोभणं णक्खत्तं (भ्स्व्_2:63)
अज्ज एव्व कोदुअमङ्गळं कादव्वं त्ति अह्माणं भट्टिणी भणादि (भ्स्व्_2:64)
[त्वरतां त्वरतां तावद् आर्या । अद्यैव किल शोभनं नक्षत्रम् । अद्यैव कौतुकमङ्गलं कर्तव्यम् इत्य् अस्माकं भट्टिनी भणति । ]
*{वासवदत्ता}* -
{आत्मगतम्} जह जह तुवरदि तह तह अन्धीकरेदि मे हिअअं (भ्स्व्_2:65)
[यथा यथा त्वरते तथा तथान्धीकरोति मे हृदयम् । ]
*{धात्री}* - एदु एदु भट्टिदारिआ (भ्स्व्_2:66)
[एत्व् एतु भर्तृदारिका । ]
{निष्क्रान्ताः सर्वे (भ्स्व्_2:67)}
द्वितीयो ऽङ्कः ।
****************************** अच्त् 3 ******************************
अथ तृतीयो ऽङ्कः ।
{ततः प्रविशति विचिन्तयन्ती वासवदत्ता (भ्स्व्_3:1)}
*{वासवदत्ता}* - विवाहामोदसङ्कुळे अन्तेउरचौस्साळे परित्तजिअ पदुमावदिं इह आअदह्मि पमदवणं (भ्स्व्_3:2)
जाव दाणिं भाअधेअणिव्वुत्तं दुःखं विणोदेमि (भ्स्व्_3:3)
{परिक्रम्य} अहो अच्चाहिदं (भ्स्व्_3:4)
अय्यौत्तो वि णाम परकेरओ संवुत्तो (भ्स्व्_3:5)
जाव उवविसामि (भ्स्व्_3:6)
{उपविश्य} धञ्ञा खु चक्कवाअवहू जा अण्णोण्णविरहिदा ण जीवै (भ्स्व्_3:7)
ण खु अहं पाणाणि परित्तजामि (भ्स्व्_3:8)
अय्यौत्तं पेक्खामि त्ति एदिणा मणोरहेण जीवामि मन्दभाआ (भ्स्व्_3:9)
[विवाहामोदसङ्कुले अन्तःपुरचतुश्शाले परित्यज्य पद्मावतीम् इहागतास्मि प्रमदवनम् । यावद् इदानीं भागधेयनिर्वृत्तं दुःखं विनोदयामि । अहो अत्याहितम् । आर्यपुत्रो ऽपि नाम परकीयः संवृत्तः । यावद् उपविशामि । धन्या खलु चक्रवाकवधूः यान्योन्यविरहिता न जीवति । न खल्व् अहं प्राणान् परित्यजामि । आर्यपुत्रं पश्यामीत्य् एतेन मनोरथेन जीवामि मन्दभागा । ]
{ततः प्रविशति पुष्पाणि गृहीत्वा चेटी (भ्स्व्_3:10)}
*{चेटी}* - कहिंणुखु गदा अय्या आवन्तिआ (भ्स्व्_3:11)
{परिक्रम्यावलोक्य} अम्मो इअं चिन्तासुञ्ञहिअआ णीहारपडिहदचन्दळेहा विअ अमण्डिदभद्दअं वेसं धारअन्दी पिअङ्गुसिळापट्टए उवविट्ठा (भ्स्व्_3:12)
जाव उवसप्पामि (भ्स्व्_3:13)
{उपसृत्य} अय्ये आवन्तिए को काळो तुमं अण्णेसामि (भ्स्व्_3:14)
[क्व नु खलु गता आर्यावन्तिका । अम्मो इयं चिन्ताशून्यहृदया नीहारप्रतिहतचन्द्रलेखेवामण्डितभद्रकं वेषं धारयन्ती प्रियङ्गुशिलापट्टके उपविष्टा । यावद् उपसर्पामि । आर्ये आवन्तिके कः कालः त्वाम् अन्विष्यामि । ]
*{वासवदत्ता}* - किण्णिमित्तं (भ्स्व्_3:15)
[किन्निमित्तम् । ]
*{चेटी}* - अह्माअं भट्टिणी भणादि महाकुळप्पसूदा सिणिद्धा णिउणा त्ति (भ्स्व्_3:16)
इमं दाव कोदुअमाळिअं गुह्मदु अय्या (भ्स्व्_3:17)
[अस्माकं भट्टिनी भणति महाकुलप्रसूता स्निग्धा निपुणेति । इमां तावत् कौतुकमालिकां गुम्फत्व् आर्या । ]
*{वासवदत्ता}* - अह कस्स किळ गुह्मिदव्वं (भ्स्व्_3:18)
[अथ कस्मै किल गुम्फितव्यम् । ]
*{चेटी}* - अह्माअं भट्टिदारिआए (भ्स्व्_3:19)
[अस्माकं भर्तृदारिकायै । ]
*{वासवदत्ता}* -
{आत्मगतम्} एदं पि मए कत्तव्वं आसी (भ्स्व्_3:20)
अहो अकरुणा खु इस्सरा (भ्स्व्_3:21)
[एतद् अपि मया कर्तव्यम् आसीत् । अहो अकरुणाः खल्व् ईश्वराः । ]
*{चेटी}* - अय्ये मा दाणिं अञ्ञं चिन्तिअ (भ्स्व्_3:22)
एसो जामादुओ मणिभूमीए ह्णाअदि (भ्स्व्_3:23)
सिग्घं दाव गुह्मदु अय्या (भ्स्व्_3:24)
[आर्ये मेदानीम् अन्यच् चिन्तयित्वा । एष जामाता मणिभूम्यां स्नायति । शीघ्रं तावद् गुम्फत्व् आर्या । ]
*{वासवदत्ता}* -
{आत्मगतम्} ण सुक्कुणोमि अण्णं चिन्तेदुं (भ्स्व्_3:25)
{प्रकाशम् (भ्स्व्_3:26)}
हळा किं दिट्ठो जामादुओ (भ्स्व्_3:27)
[न शक्नोम्य् अन्यच् चिन्तयितुम् । हला किं दृष्टो जामाता । ]
*{चेटी}* - आम दिट्ठो भट्टिइदारिआए सिणेहेण अह्माअं कौदूहळेण अ (भ्स्व्_3:28)
[आम दृष्टो भर्तृदारिकायाः स्नेहेनास्माकं कौतूहलेन च । ]
*{वासवदत्ता}* - कीदिसो जामादुओ (भ्स्व्_3:29)
[कीदृशो जामाता । ]
*{चेटी}* - अय्ये भणामि दाव ण ईरिसो दिट्ठपुरुवो (भ्स्व्_3:30)
[आर्ये भणामि तावद् नेदृशो दृष्टपूर्वः । ]
*{वासवदत्ता}* - हळा भणाहि भणाहि किं दंसणीओ (भ्स्व्_3:31)
[हला भण भण किं दर्शनीयः । ]
*{चेटी}* - सक्कं भणिदुं सरचावहीणो कामदेवो त्ति (भ्स्व्_3:32)
[शक्यं भणितुं शरचापहीनः कामदेव इति । ]
*{वासवदत्ता}* - होदु एत्तअं (भ्स्व्_3:33)
[भवत्व् एतावत् । ]
*{चेटी}* - किण्णिमित्तं वारेसि (भ्स्व्_3:34)
[किन्निमित्तं वारयसि । ]
*{वासवदत्ता}* - अजुत्तं परपुरुससङ्कित्तणं सोदुं (भ्स्व्_3:35)
[अयुक्तं परपुरुषसङ्कीर्तनं श्रोतुम् । ]
*{चेटी}* - तेण हि गुह्मदु अय्या सिग्घं (भ्स्व्_3:36)
[तेन हि गुम्फत्व् आर्या शीघ्रम् । ]
*{वासवदत्ता}* - इअं गुह्मामि (भ्स्व्_3:37)
आणेहि दाव (भ्स्व्_3:38)
[इयं गुम्फामि । आनय तावत् । ]
*{चेटी}* - गह्णदु अय्या (भ्स्व्_3:39)
[गृह्णात्व् आर्या । ]
*{वासवदत्ता}* -
{वर्जयित्वा विलोक्य} इअं दाव ओसहं किं णाम (भ्स्व्_3:40)
[इदं तावद् औषधं किं नाम । ]
*{चेटी}* - अविहवाकरणं णाम (भ्स्व्_3:41)
[अविधवाकरणं नाम । ]
*{वासवदत्ता}* -
{आत्मगतम्} इदं बहुसो गुह्मिदव्वं मम अ पदुमावदीए अ (भ्स्व्_3:42)
{प्रकाशम्} इमं दाव ओसहं किं णाम (भ्स्व्_3:43)
[इदं बहुशो गुम्फितव्यं मम च पद्मावत्याश् च । इदं तावद् औषधं किं नाम । ]
*{चेटी}* - सवत्तिमद्दणं णाम (भ्स्व्_3:44)
[सपत्नीमर्दनं नाम । ]
*{वासवदत्ता}* - इदं ण गुह्मिदव्वं (भ्स्व्_3:45)
[इदं न गुम्फितव्यम् । ]
*{चेटी}* - कीस (भ्स्व्_3:46)
[कस्मात् । ]
*{वासवदत्ता}* - उवरदा तस्स भय्या तं णिप्पओअणं त्ति (भ्स्व्_3:47)
[उपरता तस्य भार्या तन् निष्प्रयोजनम् इति । ]
{प्रविश्यापरा}
*{चेटी}* - तुवरदु तुवरदु अय्या (भ्स्व्_3:48)
एसो जामादुओ अविहवाहि अब्भन्तरचौस्साळं पवेसीअदि (भ्स्व्_3:49)
[त्वरतां त्वरताम् आर्या । एष जामाता अविधवाभिर् अभ्यन्तरचतुश्शालं प्रवेश्यते । ]
*{वासवदत्ता}* - ऐ वदामि गह्ण एदं (भ्स्व्_3:50)
[अयि वदामि गृहाणैतत् । ]
*{चेटी}* - सोहणं (भ्स्व्_3:51)
अय्ये गच्छामि दाव अहं (भ्स्व्_3:52)
[शोभणं । आर्ये गच्छामि तावद् अहम् । ]
{उभे निष्क्रान्ते (भ्स्व्_3:53)}
*{वासवदत्ता}* - गदा एसा (भ्स्व्_3:54)
अहो अच्चाहिदं (भ्स्व्_3:55)
अय्यौत्तो वि णाम परकेरओ संवुत्तो (भ्स्व्_3:56)
अविदा सय्याए मम दुक्खं विणोदेमि जदि णिद्दं ळभामि (भ्स्व्_3:57)
[गतैषा । अहो अत्याहितम् । आर्यपुत्रो ऽपि नाम परकीयः संवृत्तः । अविदा शय्यायां मम दुःखं विनोदयामि यदि निद्रां लभे । ]
{निष्क्रान्ता (भ्स्व्_3:58)}
तृतीयो ऽङ्कः ।
****************************** अच्त् 4 ******************************
अथ चतुर्थो ऽङ्कः ।
{ततः प्रविशति विदूषकः (भ्स्व्_4.0:1)}
*{विदूषकः}* -
{सहर्षम्} भो दिट्ठिआ तत्तहोदो वच्छराअस्स अभिप्पेदविवाहमङ्गळरमणिज्जो काळो दिट्ठो (भ्स्व्_4.0:2)
भो को णाम एदं जाणादि तादिसे वयं अणत्थसळिळावत्ते पक्खित्ता उण उम्मज्जिस्सामो त्ति (भ्स्व्_4.0:3)
इदाणिं पासादेसु वसीअदि अन्देउरदिग्घिआसु ह्णाईअदि पकिदिमौरसुउमाराणि मोदअखज्जआणि खज्जीअन्ति त्ति अणच्छरसंवासो उत्तरकुरुवासो मए अणुभवीअदि (भ्स्व्_4.0:4)
एक्को खु महन्तो दोसो मम आहारो सुट्ठु ण परिणमदि (भ्स्व्_4.0:5)
सुप्पच्छदणाए सय्याए णिद्दं ण ळभामि जह वादसोणिदं अभिदो विअ वत्तदि त्ति पेक्खामि (भ्स्व्_4.0:6)
भो सुहं णाम अपरिभूदं अकऌळवत्तं च (भ्स्व्_4.0:7)
[भोः दिष्ट्या तत्रभवतो वत्सराजस्याभिप्रेतविवाहमङ्गलरमणीयः कालो दृष्टः । भोः को नामैतज् जानाति तादृशे वयम् अनर्थसलिलावर्ते प्रक्षिप्ताः पुनर् उन्मङ्क्ष्याम इति । इदानीं प्रासादेषूष्यते अन्तःपुरदीर्घिकासु स्नायते प्रकृतिमधुरसुकुमाराणि मोदकखाद्यानि खाद्यन्त इत्य् अनप्सरस्संवास उत्तरकुरुवासो मयानुभूयते । एकः खलु महान् दोषः ममाहारः सुष्ठु न परिणमति सुप्रच्छदनायां शय्यायां निद्रां न लभे यथा वातशोणितम् अभित इव वर्तत इति पश्यामि । भोः सुखं नामयपरिभूतमकल्यवर्तं च । ]
{ततः प्रविशति चेटी (भ्स्व्_4.0:8)}
*{चेटी}* - कहिंणुखु गदो अय्यवसन्तओ (भ्स्व्_4.0:9)
{परिक्रम्यावलोक्य} अह्मो एसो अय्यवसन्तओ (भ्स्व्_4.0:10)
{उपगम्य} अय्य वसन्तअ को काळो तुमं अण्णेसामि (भ्स्व्_4.0:11)
[कुत्र नु खलु गत आर्यवसन्तकः । अहो एष आर्यवसन्तकः । आर्य वसन्तक कः कालस् त्वाम् अन्विष्यामि । ]
*{विदूषकः}* -
{दृष्ट्वा} किंणिमित्तं भद्दे मं अण्णेससि (भ्स्व्_4.0:12)
[किन्निमित्तं भद्रे माम् अन्विष्यसि । ]
*{चेटी}* - अह्माणं भट्टिणी भणादि अवि ह्णादो जामादुओ त्ति (भ्स्व्_4.0:13)
[अस्माकं भट्टिनी भणति अपि स्नातो जामातेति । ]
*{विदूषकः}* - किंणिमित्तं भोदि पुच्छदि (भ्स्व्_4.0:14)
[किन्निमित्तं भवति पृच्छति । ]
*{चेटी}* - किमण्णं (भ्स्व्_4.0:15)
सुमणावण्णअं आणेमि त्ति (भ्स्व्_4.0:16)
[किम् अन्यत् । सुमनोवर्णकम् आनयामीति । ]
*{विदूषकः}* - ह्णादो तत्तभवं (भ्स्व्_4.0:17)
सव्वं आणेदु भोदी वज्जिअ भोअणं (भ्स्व्_4.0:18)
[स्नातस् तत्रभवान् । सर्वम् आनयतु भवती वर्जयित्वा भोजनम् । ]
*{चेटी}* - किंणिमित्तं वारेसि भोअणं (भ्स्व्_4.0:19)
[किन्निमित्तं वारयसि भोजनम् । ]
*{विदूषकः}* - अधण्णस्स मम कोइळाणं अक्खिपरिवट्टो विअ कुक्खिपरिवट्टो संवुत्तो (भ्स्व्_4.0:20)
[अधन्यस्य मम कोकिलानाम् अक्षिपरिवर्त इव कुक्षिपरिवर्तः संवृत्तः । ]
*{चेटी}* - ईदिसो एव्व होहि (भ्स्व्_4.0:21)
[ईदृश एव भव । ]
*{विदूषकः}* - गच्छदु भोदी (भ्स्व्_4.0:22)
जाव अहं वि तत्तहोदो सआसं गच्छामि (भ्स्व्_4.0:23)
[गच्छतु भवती । यावद् अहम् अपि तत्रभवतः सकाशं गच्छामि । ]
{निष्क्रान्तौ (भ्स्व्_4.0:24)} प्रवेशकः ।
{ततः प्रविशति सपरिवारा पद्मावती आवन्तिकावेषधारिणी वासवदत्ता च (भ्स्व्_4.0:25)}
*{चेटी}* - किंणिमित्तं भट्टिदारिआ पमदवणं आअदा (भ्स्व्_4.0:26)
[किन्निमित्तं भर्तृदारिका प्रमदवनम् आगता । ]
*{पद्मावती}* - हळा ताणि दाव सेहाळिआगुह्मआणि पेक्खामि कुसुमिदाणि वा ण वेत्ति (भ्स्व्_4.0:27)
[हळा ते तावद् शेफालिकागुल्मकाः पश्यामि कुसुमिता वा न वेति । ]
*{चेटी}* - भट्टिदारिए ताणि कुसुमिदाणि णाम पवाळन्तरिदेहिं विअ मोत्तिआलम्बएहिं आइदाणि कुसुमेहिं (भ्स्व्_4.0:28)
[भर्तृदारिके ते कुसुमिता नाम प्रवालान्तरितैर् इव मौक्तिकलम्बकैर् आचिताः कुसुमैः । ]
*{पद्मावती}* - हळा जदि एव्वं किं दाणिं विळम्बेसि (भ्स्व्_4.0:29)
[हला यद्य् एवं किम् इदानीं विलम्बसे । ]
*{चेटी}* - तेण हि इमस्सिं सिळावट्टए मुहुत्तअं उपविसदु भट्टिदारिआ (भ्स्व्_4.0:30)
जाव अहं वि कुसुमावचअं करेमि (भ्स्व्_4.0:31)
[तेन ह्य् अस्मिन् शिलापट्टके मुहूर्तकम् उपविशतु भर्तृदारिका । यावद् अहम् अपि कुसुमावचयं करोमि । ]
*{पद्मावती}* - अय्ये किं एत्थ उपविसामो (भ्स्व्_4.0:32)
[आर्ये किम् अत्रोपविशावः । ]
*{वासवदत्ता}* - एव्वं होदु (भ्स्व्_4.0:33)
[एवं भवतु । ]
{उभे उपविशतः (भ्स्व्_4.0:34)}
*{चेटी}* -
{तथा कृत्वा} पेक्खदु पेक्खदु भट्टिदारिआ अद्धामणसिळावट्टएहिं विअ सेहाळिआकुसुमेहि पूरिअं मे अञ्जळिं (भ्स्व्_4.0:35)
[पश्यतु पश्यतु भर्तृदारिका अर्धमनश्शिलापट्टकैर् इव शेफालिकाकुसुमैः पूरितं मे ऽञ्जलिम् । ]
*{पद्मावती}* -
{दृष्ट्वा} अहो विइत्तदा कुसुमाणं (भ्स्व्_4.0:36)
पेक्खदु पेक्खदु अय्या (भ्स्व्_4.0:37)
[अहो विचित्रता कुसुमानाम् । पश्यतु पश्यत्व् आर्या । ]
*{वासवदत्ता}* - अहो दस्सणीअदा कुसुमाणं (भ्स्व्_4.0:38)
[अहो दर्शनीयता कुसुमानाम् । ]
*{चेटी}* - भट्टिदारिए किं भूयो अवैणुस्सं (भ्स्व्_4.0:39)
[भर्तृदारिके किं भूयो ऽवचेष्यामि । ]
*{पद्मावती}* - हळा मा मा भूयो अवैणिअ (भ्स्व्_4.0:40)
[हळा मा मा भूयो ऽवचित्य । ]
*{वासवदत्ता}* - हळा किंणिमित्तं वारेसि (भ्स्व्_4.0:41)
[हळा किन्निमित्तं वारयसि । ]
*{पद्मावती}* - अय्यौत्तो इह आअच्छिअ इमं कुसुमसमिद्धिं पेक्खिअ सम्माणिदा भवेअं (भ्स्व्_4.0:42)
[आर्यपुत्र इहागत्येमां कुसुमसमृद्धिं दृष्ट्वा सम्मानिता भवेयम् । ]
*{वासवदत्ता}* - हळा पिओ दे भत्ता (भ्स्व्_4.0:43)
[हळा प्रियस् ते भर्ता । ]
*{पद्मावती}* - अय्ये ण आणामि अय्यौत्तेण विरहिदा उक्कण्ठिदा होमि (भ्स्व्_4.0:44)
[आर्ये न जानामि आर्यपुत्रेण विरहितोत्कण्ठिता भवामि । ]
*{वासवदत्ता}* -
{आत्मगतम्} दुक्खरं खु अहं करेमि (भ्स्व्_4.0:45)
इअं वि णाम एव्वं मन्तेदि (भ्स्व्_4.0:46)
[दुष्करं खल्व् अहं करोमि । इयम् अपि नामैवं मन्त्रयते । ]
*{चेटी}* - अभिजादं खु भट्टिदारिआए मन्तिदं पिओ मे भत्तत्ति (भ्स्व्_4.0:47)
[अभिजातं खलु भर्तृदारिकया मन्त्रितं प्रियो मे भर्तेति । ]
*{पद्मावती}* - एक्को खु मे सन्देहो (भ्स्व्_4.0:48)
[एकः खलु मे सन्देहः । ]
*{वासवदत्ता}* - किं किं (भ्स्व्_4.0:49)
[किं किम् । ]
*{पद्मावती}* - जह मम अय्यौत्तो तह एव्व अय्याए वासवदत्ताए त्ति (भ्स्व्_4.0:50)
[यथा ममार्यपुत्रस् तथैवार्याया वासवदत्ताया इति । ]
*{वासवदत्ता}* - अदो वि अहिअं (भ्स्व्_4.0:51)
[अतो ऽप्य् अधिकम् । ]
*{पद्मावती}* - कहं तुवं जाणासि (भ्स्व्_4.0:52)
[कथं त्वं जानासि । ]
*{वासवदत्ता}* -
{आत्मगतम्} हं अय्यौत्तपक्खवादेण अदिक्कन्दो समुदाआरो (भ्स्व्_4.0:53)
एव्वं दाव भणिस्सं (भ्स्व्_4.0:54)
{प्रकाशम्} जै अप्पो सिणेहो सा सजणं ण परित्तजदि (भ्स्व्_4.0:55)
[हम् आर्यपुत्रपक्षपातेनातिक्रान्तः समुदाचारः । एवं तावद् भणिष्यामि । यद्य् अल्पः स्नेहः सा स्वजनं न परित्यजति । ]
*{पद्मावती}* - होदव्वं (भ्स्व्_4.0:56)
[भवितव्यम् । ]
*{चेटी}* - भट्टिदारिए साहु भट्टारं भणाहि अहं पि वीणं सिक्खिस्सामि त्ति (भ्स्व्_4.0:57)
[भर्तृदारिके साधु भर्तारं भण अहम् अपि वीणां शिक्षिष्य इति । ]
*{पद्मावती}* - उत्तो मए अय्यौत्तो (भ्स्व्_4.0:58)
[उक्तो मयार्यपुत्रः । ]
*{वासवदत्ता}* - तदो किं भणिदं (भ्स्व्_4.0:59)
[ततः किं भणितम् । ]
*{पद्मावती}* - अभणिअ किञ्चि दिग्घं णिस्ससिअ तुह्णीओ संवुत्तो (भ्स्व्_4.0:60)
[अभणित्वा किञ्चिद् दीर्घं निःश्वस्य तूष्णीकः संवृत्तः । ]
*{वासवदत्ता}* - तदो तुवं किं विअ तक्केसि (भ्स्व्_4.0:61)
[ततस् त्वं किम् इव तर्कयसि । ]
*{पद्मावती}* - तक्केमि अय्याए वासवदत्ताए गुणाणि सुमरिअ दक्खिण्णदाए मम अग्गदो ण रोदिदि त्ति (भ्स्व्_4.0:62)
[तर्कयाम्य् आर्याया वासवदत्ताया गुणान् स्मृत्वा दक्षिण्यतया ममाग्रतो न रोदितीति । ]
*{वासवदत्ता}* -
{आत्मगतम्} धञ्ञा खु ह्मि जदि एव्वं सच्चं भवे (भ्स्व्_4.0:63)
[धन्या खल्व् अस्मि यद्य् एवं सत्यं भवेत् । ]
{ततः प्रविशति राजा विदूषकश् च (भ्स्व्_4.0:64)}
*{विदूषकः}* - ही ही (भ्स्व्_4.0:65)
पचिअपडिअबन्धुजीवकुसुमविरळवादरमणिज्जं पमदवणं (भ्स्व्_4.0:66)
इदो दाव भवं (भ्स्व्_4.0:67)
[ही ही । प्रचितपतितबन्धुजीवकुसुमविरलपातरमणीयं प्रमदवनम् । इतस् तावद् भवान् । ]
*{राजा}* - वयस्य वसन्तक अयम् अयम् आगच्छामि (भ्स्व्_4.0:68)
कामेनोज्जयिनीं गते मयि तदा काम् अप्य् अवस्थां गते दृष्ट्वा स्वैरम् अवन्तिराजतनयां पञ्चेषवः पातिताः &
तैर् अद्यापि सशल्यम् एव हृदयं भूयश् च विद्धा वयं पञ्चेषुर् मदनो यदा कथम् अयं षष्ठः शरः पातितः
*{विदूषकः}* - कहिंणुखु गदा तत्तहोदी पदुमावदी ळदामण्डवं गदा भवे उदाहो असणकुसुमसञ्चिदं वग्घचम्मावगुण्ठिदं विअ पव्वदतिळअं णाम सिळापट्टअं गदा भवे आदु अधिअकडुअगन्धसत्तच्छदवणं पविट्ठा भवे अहव आळिहिदमिअपक्खिसङ्कुळं दारुपव्वदअं गदा भवे (भ्स्व्_4.1:1)
{ऊर्ध्वम् अवलोक्य} ही ही सरअकाळणिम्मळे अन्तरिक्खे पसादिअबळदेवबाहुदंसणीअं सारसपन्तिं जाव समाहिदं गच्छन्तिं पेक्खदु दाव भवं (भ्स्व्_4.1:2)
[कुत्र नु खलु गता तत्रभवती पद्मावती लतामण्डपं गता भवेद् उताहो असनकुसुमसञ्चितं व्याघ्रचर्मावगुण्ठितम् इव पर्वततिलकं नाम शिलापट्टकं गता भवेद् अथवा अधिककटुकगन्धसप्तच्छदवनं प्रविष्टा भवेद् अथवालिखितमृगपक्षिसङ्कुलं दारुपर्वतकं गता भवेत् । ही ही शरत्कालनिर्मले ऽन्तरिक्षे प्रसादितबलदेवबाहुदर्शनीयां सारसपङ्क्तिं यावत् समाहितं गच्छन्तीं पश्यतु तावद् भवान् । ]
*{राजा}* - वयस्य पश्याम्येनाम्
ऋज्वायतां च विरलां च नतोन्नतां च सप्तर्षिवंशकुटिलां च निवर्तनेषु &
निर्मुच्यमानभुजगोदरनिर्मलस्य सीमाम् इवाम्बरतलस्य विभज्यमानाम्
*{चेटी}* - पेक्खदु पेक्खदु भट्टिदारिआ एदं कोकणदमाळापण्डररमणीअं सारसपन्तिं जाव समाहिदं गच्छन्तिं (भ्स्व्_4.2:1)
अम्मो भट्टा (भ्स्व्_4.2:2)
[पश्यतु पश्यतु भर्तृदारिका एतां कोकनदमालापाण्डुररमणीयां सारसपङ्क्तिं यावत् समाहितं गच्छन्तीम् । अह्मो भर्ता । ]
*{पद्मावती}* - हं अय्यौत्तो (भ्स्व्_4.2:3)
अय्ये तव कारणादो अय्यौत्तदंसणं परिहरामि (भ्स्व्_4.2:4)
ता इमं दाव माहवीळदामण्डवं पविसामो (भ्स्व्_4.2:5)
[हम् आर्यपुत्रः । आर्ये तव कारणाद् आर्यपुत्रदर्शनं परिहरामि । तद् इमं तावन् माधवीलतामण्डपं प्रविशामः । ]
*{वासवदत्ता}* - एव्वं होदु (भ्स्व्_4.2:6)
[एवं भवतु । ]
{तथा कुर्वन्ति (भ्स्व्_4.2:7)}
*{विदूषकः}* - तत्तहोदी पदुमावदी इह आअच्छिअ णिग्गदा भवे (भ्स्व्_4.2:8)
[तत्रभवती पद्मावतीहागत्य निर्गता भवेत् । ]
*{राजा}* - कथं भवान् जानाति (भ्स्व्_4.2:9)
*{विदूषकः}* - इमाणि अवैदकुसुमाणि सेफाळिआगुच्छआणि पेक्खदु दाव भवं (भ्स्व्_4.2:10)
[इमान् अपचितकुसुमान् शेफालिकागुच्छकान् प्रेक्षतां तावद् भवान् । ]
*{राजा}* - अहो विचित्रता कुसुमस्य वसन्तक (भ्स्व्_4.2:11)
*{वासवदत्ता}* -
{आत्मगतम्} वसन्तअसङ्कित्तणेण अहं पुण जाणामि उज्जैणीए वत्तामि त्ति (भ्स्व्_4.2:12)
[वसन्तकसङ्कीर्तनेनाहं पुनर् जानामि उज्जयिन्यां वर्त इति । ]
*{राजा}* - वसन्तक अस्मिन्न् एवासीनौ शिलातले पद्मावतीं प्रतीक्षिष्यावहे (भ्स्व्_4.2:13)
*{विदूषकः}* - भो तह (भ्स्व्_4.2:14)
{उपविश्योत्थाय} ही ही सरअकाळतिक्खो दुस्सहो आदवो (भ्स्व्_4.2:15)
ता इमं दाव माहवीमण्डवं पविसामो (भ्स्व्_4.2:16)
[भोस् तथा । ही ही शरत्कालतीक्ष्णो दुस्सह आतपः । तद् इमं तावन् माधवीमण्डपं प्रविशावः । ]
*{राजा}* - बाढम् (भ्स्व्_4.2:17)
गच्छाग्रतः (भ्स्व्_4.2:18)
*{विदूषकः}* - एव्वं होदु (भ्स्व्_4.2:19)
[एवं भवतु । ]
{उभौ परिक्रामतः (भ्स्व्_4.2:20)}
*{पद्मावती}* - सव्वं आउळं कत्तुकामो अय्यवसन्तओ (भ्स्व्_4.2:21)
किं दाणिं करेह्म (भ्स्व्_4.2:22)
[सर्वम् आकुलं कर्तुकाम आर्यवसन्तकः । किम् इदानीं कुर्मः । ]
*{चेटी}* - भट्टिदारिए एदं महुअरपरिणिळीणं ओळंबळदं ओधूय भट्टारं वारैस्सं (भ्स्व्_4.2:23)
[भर्तृदारिके एतां मधुकरपरिनिलीनाम् अवलम्बलताम् अवधूय भर्तारं वारयिष्यामि । ]
*{पद्मावती}* - एव्वं करेहि (भ्स्व्_4.2:24)
[एवं कुरु । ]
{चेटी तथा करोति (भ्स्व्_4.2:25)}
*{विदूषकः}* - अविहा अविहा चिट्ठदु चिट्ठदु दाव भवं (भ्स्व्_4.2:26)
[अविह अविह तिष्ठतु तिष्ठतु तावद् भवान् । ]
*{राजा}* - किम् अर्थम् (भ्स्व्_4.2:27)
*{विदूषकः}* - दासीएपुत्तेहि महुअरेहि पीडिदो ह्मि (भ्स्व्_4.2:28)
[दास्याः पुत्रैर् मधुकरैः पीडितो ऽस्मि । ]
*{राजा}* - मा मा भवान् एवम् (भ्स्व्_4.2:29)
मधुकरसन्त्रासः परिहार्यः (भ्स्व्_4.2:30)
पश्य
मधुमदकला मधुकरा मदनार्ताभिः प्रियाभिर् उपगूढाः &
पादन्यासविषण्णा वयम् इव कान्तावियुक्ताः स्युः
तस्माद् इहैवासिष्यावहे (भ्स्व्_4.3:1)
*{विदूषकः}* - एव्वं होदु (भ्स्व्_4.3:2)
[एवं भवतु । ]
{उभाव् उपविशतः (भ्स्व्_4.3:3)}
*{राजा}* -
{अवलोक्य}
पादाक्रान्तानि पुष्पाणि सोष्म चेदं शिलातलम् &
नूनं काचिदिहासीना मां दृष्ट्वा सहसा गता
*{चेटी}* - भट्टिदारिए रुद्धा खु ह्म वयं (भ्स्व्_4.4:1)
[भर्तृदारिके रुद्धाः खलु स्मो वयम् । ]
*{पद्मावती}* - दिट्ठिआ उवविट्ठो अय्यौत्तो (भ्स्व्_4.4:2)
[दिष्ट्योपविष्ट आर्यपुत्रः । ]
*{वासवदत्ता}* -
{आत्मगतम्} दिट्ठिआ पकिदित्थसरीरो अय्यौत्तो (भ्स्व्_4.4:3)
[दिष्ट्या प्रकृतिस्थशरीर आर्यपुत्रः । ]
*{चेटी}* - भट्टिदारिए सस्सुपादा खु अय्याए दिट्ठी (भ्स्व्_4.4:4)
[भर्तृदारिके साश्रुपाता खल्व् आर्याया दृष्टिः । ]
*{वासवदत्ता}* - एसा खु महुअराणं अविणआदो कासकुसुमरेणुणा पडिदेण सोदआ मे दिट्ठी (भ्स्व्_4.4:5)
[एषा खलु मधुकराणाम् अविनयात् काशकुसुमरेणुना पतितेन सोदका मे दृष्टिः । ]
*{पद्मावती}* - जुज्जै (भ्स्व्_4.4:6)
[युज्यते । ]
*{विदूषकः}* - भो सुण्णं खु इदं पमदवणं (भ्स्व्_4.4:7)
पुच्छिदव्वं किञ्चि अत्थि (भ्स्व्_4.4:8)
पुच्छामि भवन्तं (भ्स्व्_4.4:9)
[भोः शून्यं खल्व् इदं प्रमदवनम् । प्रष्टव्यं किञ्चिद् अस्ति । पृच्छामि भवन्तम् । ]
*{राजा}* - छन्दतः (भ्स्व्_4.4:10)
*{विदूषकः}* - का भवदो पिआ तदाणिं तत्तहोदी वासवदत्ता इदाणिं पदुमावदी वा (भ्स्व्_4.4:11)
[का भवतः प्रिया तदानीं तत्रभवती वासवदत्ता इदानीं पद्मावती वा । ]
*{राजा}* - किम् इदानीं भवान् महति बहुमानसङ्कटे मां न्यस्यति (भ्स्व्_4.4:12)
*{पद्मावती}* - हळा जादिसे सङ्कटे निक्खित्तो अय्यौत्तो (भ्स्व्_4.4:13)
[हळा यादृशे सङ्कटे निक्षिप्त आर्यपुत्रः । ]
*{वासवदत्ता}* -
{आत्मगतम्} अहं अ मन्दभाआ (भ्स्व्_4.4:14)
[अहं च मन्दभागा । ]
*{विदूषकः}* - सेरं सेरं भणादु भवं (भ्स्व्_4.4:15)
एक्का उवरदा अवरा असण्णिहिदा (भ्स्व्_4.4:16)
[स्वैरं स्वैरं भणतु भवान् । एकोपरता अपरा असन्निहिता । ]
*{राजा}* - वयस्य न खलु न खलु ब्रूयाम् (भ्स्व्_4.4:17)
भवांस् तु मुखरः (भ्स्व्_4.4:18)
*{पद्मावती}* - एत्तएण भणिदं अय्यौत्तेण (भ्स्व्_4.4:19)
[एतावता भणितम् आर्यपुत्रेण । ]
*{विदूषकः}* - भो सच्चेण सवामि कस्स वि ण आचक्खिस्सं (भ्स्व्_4.4:20)
एसा सन्दट्ठा मे जीहा (भ्स्व्_4.4:21)
[भोः सत्येण शपामि कस्मा अपि नाख्यास्ये । एषा सन्दष्टा मे जिह्वा । ]
*{राजा}* - नोत्सहे सखे वक्तुम् (भ्स्व्_4.4:22)
*{पद्मावती}* - अहो इमस्स पुरोभाइदा (भ्स्व्_4.4:23)
एत्तिएण हिअअं ण जाणादि (भ्स्व्_4.4:24)
[अहो अस्य पुरोभागिता । एतावता हृदयं न जानाति । ]
*{विदूषकः}* - किं ण भणादि मम (भ्स्व्_4.4:25)
अणाचक्खिअ इमादो सिळावट्टआदो ण सक्कं एक्कपदं वि गमिदुं (भ्स्व्_4.4:26)
एसो रुद्धो अत्तभवं (भ्स्व्_4.4:27)
[किं न भणति मम । अनाख्यायास्माच् छिलापट्टकान् न शक्यम् एकपदम् अपि गन्तुम् । एष रुद्धो ऽत्रभवान् । ]
*{राजा}* - किं बलात्कारेण (भ्स्व्_4.4:28)
*{विदूषकः}* - आम बळक्कारेण (भ्स्व्_4.4:29)
[आम बलात्कारेण । ]
*{राजा}* - तेन हि पश्यामस् तावत् (भ्स्व्_4.4:30)
*{विदूषकः}* - पसीददु पसीददु भवं (भ्स्व्_4.4:31)
वअस्सभावेण साविदो सि जै सच्चं ण भणासि (भ्स्व्_4.4:32)
[प्रसीदतु प्रसीदतु भवान् । वयस्यभावेन शापितो ऽसि यदि सत्यं न भणसि । ]
*{राजा}* - का गतिः (भ्स्व्_4.4:33)
श्रूयताम् (भ्स्व्_4.4:34)
पद्मावती बहुमता मम यद्य् अपि रूपशीलमाधुर्यैः &
वासवदत्ताबद्धं न तु तावन् मे मनो हरति
*{वासवदत्ता}* -
{आत्मगतम्} भोदु भोदु (भ्स्व्_4.5:1)
दिण्णं वेदणं इमस्स परिखेदस्स (भ्स्व्_4.5:2)
अहो अञ्ञादवासं पि एत्थ बहुगुणं सम्पज्जै (भ्स्व्_4.5:3)
[भवतु भवतु । दत्तं वेतनम् अस्य परिखेदस्य । अहो अज्ञातवासो ऽप्य् अत्र बहुगुणः सम्पद्यते । ]
*{चेटी}* - भट्टिदारिए अदक्खिञ्ञो खु भट्टा (भ्स्व्_4.5:4)
[भर्तृदारिके अदाक्षिण्यः खलु भर्ता । ]
*{पद्मावती}* - हळा मा मा एव्वं (भ्स्व्_4.5:5)
सदक्खिञ्ञो एव्व अय्यौत्तो जो इदाणिं वि अय्याए गुणाणि सुमरदि (भ्स्व्_4.5:6)
[हला मा मैवम् । सदाक्षिण्य एवार्यपुत्रः य इदानीम् अप्य् आर्याया वासवदत्ताया गुणान् स्मरति । ]
*{वासवदत्ता}* - भद्दे अभिजणस्स सदिसं मन्तिदं (भ्स्व्_4.5:7)
[भद्रे अभिजनस्य सदृशं मन्त्रितम् । ]
*{राजा}* - उक्तं मया (भ्स्व्_4.5:8)
भवान् इदानीं कथयतु (भ्स्व्_4.5:9)
का भवतः प्रिया तदा वासवदत्ता इदानीं पद्मावती वा (भ्स्व्_4.5:10)
*{पद्मावती}* - अय्यौत्तो पि वसन्तओ संवुत्तो (भ्स्व्_4.5:11)
[आर्यपुत्रो ऽपि वसन्तकः संवृत्तः । ]
*{विदूषकः}* - किं मे विप्पळविदेण (भ्स्व्_4.5:12)
उभओ वि तत्तहोदीओ मे बहुमदाओ (भ्स्व्_4.5:13)
[किं मे विप्रलपितेन । उभे अपि तत्रभवत्यौ मे बहुमते । ]
*{राजा}* - वैधेय माम् एवं बलाच् छ्रुत्वा किम् इदानीं नाभिभाषसे (भ्स्व्_4.5:14)
*{विदूषकः}* - किं मं पि बळक्कारेण (भ्स्व्_4.5:15)
[किं माम् अपि बलात्कारेण । ]
*{राजा}* - अथकिं बलात्कारेण (भ्स्व्_4.5:16)
*{विदूषकः}* - तेण हि ण सक्कं सोदुं (भ्स्व्_4.5:17)
[तेन हि न शक्यं श्रोतुम् । ]
*{राजा}* - प्रसीदतु प्रसीदतु महाब्राह्मणः (भ्स्व्_4.5:18)
स्वैरं स्वैरम् अभिधीयताम् (भ्स्व्_4.5:19)
*{विदूषकः}* - इदाणिं सुणादु भवं (भ्स्व्_4.5:20)
तत्तहोदी वासवदत्ता मे बहुमदा (भ्स्व्_4.5:21)
तत्तहोदी पदुमावदी तरुणी दस्सणीआ अकोवणा अणहङ्कारा महुरवाआ सदक्खिञ्ञा (भ्स्व्_4.5:22)
अअं च अवरो महन्तो गुणो सिणिद्धेण भोअणेण मं पच्चुग्गच्छै वासवदत्ता कहिंणुखु गदो अय्यवसन्तओ त्ति (भ्स्व्_4.5:23)
[इदानीं शृणोतु भवान् । तत्रभवती वासवदत्ता मे बहुमता । तत्रभवती पद्मावती तरुणी दर्शनीया अकोपना अनहङ्कारा मधुरवाक् सदाक्षिण्या । अयं चापरो महान् गुणः स्निग्धेन भोजनेन मां प्रत्युद्गच्छति वासवदत्ता कुत्र नु खलु गत आर्यवसन्तक इति । ]
*{वासवदत्ता}* - भोदु भोदु वसन्तअ सुमरेहि दाणिं एदं (भ्स्व्_4.5:24)
[भवतु भवतु वसन्तक स्मरेदानीम् एताम् । ]
*{राजा}* - भवतु भवतु वसन्तक सर्वम् एतत् कथयिष्ये देव्यै वासवदत्तायै (भ्स्व्_4.5:25)
*{विदूषकः}* - अविहा वासवदत्ता (भ्स्व्_4.5:26)
कहिं वासवदत्ता (भ्स्व्_4.5:27)
चिरा खु उवरदा वासवदत्ता (भ्स्व्_4.5:28)
[अविहा वासवदत्ता । कुत्र वासवदत्ता । चिरात् खलूपरता वासवदत्ता । ]
*{राजा}* -
{सविषादम्} एवम् (भ्स्व्_4.5:29)
उपरता वासवदत्ता (भ्स्व्_4.5:30)
अनेन परिहासेन व्याक्षिप्तं मे मनस् त्वया &
ततो वाणी तथैवेयं पूर्वाभ्यासेन निस्सृता
*{पद्मावती}* - रमणीओ खु कहाजोओ णिसंसेण विसंवादिओ (भ्स्व्_4.6:1)
[रमणीयः खलु कथायोगो नृशंसेन विसंवादितः । ]
*{वासवदत्ता}* -
{आत्मगतम्} भोदु भोदु विस्सत्थह्मि (भ्स्व्_4.6:2)
अहो पिअं णाम ईदिसं वअणं अप्पच्चक्खं सुणीअदि (भ्स्व्_4.6:3)
[भवतु भवतु विश्वस्तास्मि । अहो प्रियं नामेदृशं वचनम् अप्रत्यक्षं श्रूयते । ]
*{विदूषकः}* - धारेदु धारेदु भवं (भ्स्व्_4.6:4)
अणदिक्कमणीओ हि विही (भ्स्व्_4.6:5)
ईदिसं दाणि एदं (भ्स्व्_4.6:6)
[धारयतु धारयतु भवान् । अनतिक्रमणीयो हि विधिः । ईदृशम् इदानीम् एतद् । ]
*{राजा}* - वयस्य न जानाति भवान् अवस्थाम् (भ्स्व्_4.6:7)
कुतः
दुःखं त्यक्तुं बद्धमूलो ऽनुरागः स्मृत्वा स्मृत्वा याति दुःखं नवत्वम् &
यात्रा त्व् एषा यद् विमुच्येह बाष्पं प्राप्तानृण्या याति बुद्धिः प्रसादम्
*{विदूषकः}* - अस्सुपादकिळिण्णं खु तत्तहोदो मुहं (भ्स्व्_4.7:1)
जाव मुहोदअं आणेमि (भ्स्व्_4.7:2)
[अश्रुपातक्लिन्नं खलु तत्रभवतो मुखम् । यावन् मुखोदकम् आनयामि । ]
{निष्क्रान्तः (भ्स्व्_4.7:3)}
*{पद्मावती}* - अय्ये बप्फाउळपडन्तरिदं अय्यौत्तस्स मुहं (भ्स्व्_4.7:4)
जाव णिक्कमह्म (भ्स्व्_4.7:5)
[आर्ये बाष्पाकुलपटान्तरितम् आर्यपुत्रस्य मुखम् । यावन् निष्क्रामामः । ]
*{वासवदत्ता}* - एव्वं होदु (भ्स्व्_4.7:6)
अहव चिट्ठ तुवं (भ्स्व्_4.7:7)
उक्कण्ठिदं भत्तारं उज्झिअ अजुत्तं णिग्गमणं (भ्स्व्_4.7:8)
अहं एव्व गमिस्सं (भ्स्व्_4.7:9)
[एवं भवतु । अथवा तिष्ठ त्वम् । उत्कण्ठितं भर्तारम् उज्झित्वायुक्तं निर्गमनम् । अहम् एव गमिष्यामि । ]
*{चेटी}* - सुट्ठु अय्या भणादि (भ्स्व्_4.7:10)
उवसप्पदु दाव भट्टिदारिआ (भ्स्व्_4.7:11)
[सुष्ठ्व् आर्या भणति । उपसर्पतु तावद् भर्तृदारिका । ]
*{पद्मावती}* - किंणुखु पविसामि (भ्स्व्_4.7:12)
[किन् नु खलु प्रविशामि । ]
*{वासवदत्ता}* - हळा पविस (भ्स्व्_4.7:13)
{इत्य् उक्त्वा निष्क्रान्ता (भ्स्व्_4.7:14)}
[हळा प्रविश । ]
{प्रविश्य}
*{विदूषकः}* -
{नलिनीपत्रेण जलं गृहीत्वा} एसा तत्तहोदी पदुमावदी (भ्स्व्_4.7:15)
[एषा तत्रभवती पद्मावती । ]
*{पद्मावती}* - अय्य वसन्तअ किं एदं (भ्स्व्_4.7:16)
[आर्य वसन्तक किम् एतत् । ]
*{विदूषकः}* - एदं इदं (भ्स्व्_4.7:17)
इदं एदं (भ्स्व्_4.7:18)
[एतद् इदम् । इदम् एतत् । ]
*{पद्मावती}* - भणादु भणादु अय्यो भणादु (भ्स्व्_4.7:19)
[भणतु भणत्व् आर्यो भणतु । ]
*{विदूषकः}* - भोदि वादणीदेण कासकुसुमरेणुणा अक्खिणिपडिदेण सस्सुपादं खु तत्तहोदो मुहं (भ्स्व्_4.7:20)
ता गह्णदु होदी इदं मुहोदअं (भ्स्व्_4.7:21)
[भवति वातनीतेन काशकुसुमरेणुनाक्षिनिपतितेन साश्रुपातं खलु तत्रभवतो मुखम् । तद् गृह्णातु भवतीदं मुखोदकम् । ]
*{पद्मावती}* -
{आत्मगतम्} अहो सदक्खिञ्ञस्स जणस्स परिजणो वि सदक्खिञ्ञो एव्व होदि (भ्स्व्_4.7:22)
{उपेत्य} जेदु अय्यौत्तो (भ्स्व्_4.7:23)
इदं मुहोदअं (भ्स्व्_4.7:24)
[अहो सदाक्षिण्यस्य जनस्य परिजनो ऽपि सदाक्षिण्य एव भवति । जयत्व् आर्यपुत्रः । इदं मुखोदकम् । ]
*{राजा}* - अये पद्मावती (भ्स्व्_4.7:25)
{अपवार्य} वसन्तक किम् इदम् (भ्स्व्_4.7:26)
*{विदूषकः}* -
{कर्णे} एव्वं विअ (भ्स्व्_4.7:27)
[एवम् इव । ]
*{राजा}* - साधु वसन्तक साधु (भ्स्व्_4.7:28)
{आचम्य} पद्मावति आस्यताम् (भ्स्व्_4.7:29)
*{पद्मावती}* - जं अय्यौत्तो आणवेदि (भ्स्व्_4.7:30)
[यद् आर्यपुत्र आज्ञापयति । ]
{उपविशति (भ्स्व्_4.7:31)}
*{राजा}* - पद्मावति
शरच्छशाङ्कगौरेण वाताविद्धेन भामिनि &
काशपुष्पलवेनेदं साश्रुपातं मुखं मम
{आत्मगतम्}
इयं बाला नवोद्वाहा सत्यं श्रुत्वा व्यथां व्रजेत् &
कामं धीरस्वभावेयं स्त्रीस्वभावस् तु कातरः
*{विदूषकः}* - उइदं तत्तहोदो मअधराअस्स अवरह्णकाळे भवन्तं अग्गदो करिअ सुहिज्जणदंसणं (भ्स्व्_4.9:1)
सक्कारो हि णाम सक्कारेण पडिच्छिदो पीदिं उप्पादेदि (भ्स्व्_4.9:2)
ता उट्ठेदु दाव भवं (भ्स्व्_4.9:3)
[उचितं तत्रभवतो मगधराजस्यापराह्णकाले भवन्तम् अग्रतः कृत्वा सुहृज्जनदर्शनम् । सत्कारो हि नाम सत्कारेण प्रतीष्टः प्रीतिम् उत्पादयति । तद् उत्तिष्ठतु तावद् भवान् । ]
*{राजा}* - बाढम् (भ्स्व्_4.9:4)
प्रथमः कल्पः (भ्स्व्_4.9:5)
{उत्थाय}
गुणानां वा विशालानां सत्काराणां च नित्यशः &
कर्तारः सुलभा लोके विज्ञातारस् तु दुर्लभाः
मूल पाठ: Svapnavāsavadatta · Data entry Matthias Ahlborn · GRETIL (Göttingen) · CC BY-NC-SA 4.0