भाषा

ENहिગુ
ग्रंथ पाठ

स्वप्नवासवदत्त · अध्याय 6

6.1

{निष्क्रान्ताः सर्वे (1)} पञ्चमो ऽङ्कः ।
****************************** अच्त् 6 ******************************
अथ षष्ठो ऽङ्कः ।
{ततः प्रविशति काञ्चुकीयः (भ्स्व्_6.0:1)}
*{काञ्चुकीयः}* - क इह भोः कञ्चनतोरणद्वारम् अशून्यं कुरुते (भ्स्व्_6.0:2)
{प्रविश्य (भ्स्व्_6.0:3)}
*{प्रतीहारी}* - अय्य अहं विजआ (भ्स्व्_6.0:4)
किं करीअदु (भ्स्व्_6.0:5)
[आर्य अहं विजया । किं क्रियताम् । ]
*{काञ्चुकीयः}* - भवति निवेद्यतां निवेद्यतां वत्सराज्यलाभप्रवृद्धोदयायोदयनाय एष खलु महासेनस्य सकाशाद् रैभ्यसगोत्राः काञ्चुकीयः प्राप्तः तत्रभवत्या चाङ्गारवत्या प्रेषितार्या वसुन्धरा नाम वासवदत्ताधात्री च प्रतीहारम् उपस्थिता इति (भ्स्व्_6.0:6)
*{प्रतीहारी}* - अय्य अदेसकाळो पडिहारस्स (भ्स्व्_6.0:7)
[आर्य अदेशकालः प्रतिहारस्य । ]
*{काञ्चुकीयः}* - कथम् अदेशकालो नाम (भ्स्व्_6.0:8)
*{प्रतीहारी}* - सुणादु अय्यो (भ्स्व्_6.0:9)
अज्ज भट्टिणो सुय्यामुहप्पासादगदेण केण वि वीणा वादिदा (भ्स्व्_6.0:10)
तं च सुणिअ भट्टिणा भणिअं घोसवदीए सद्दो विअ सुणीअदि त्ति (भ्स्व्_6.0:11)
[शृणोत्व् आर्यः । अद्य भर्तुः सूर्यमुखप्रासादगतेन केनापि वीणा वादिता । तां च श्रुत्वा भर्त्रा भणितं घोषवत्याः शब्द इव श्रूयते इति । ]
*{काञ्चुकीयः}* - ततस् ततः (भ्स्व्_6.0:12)
*{प्रतीहारी}* - तदो तहिं गच्छिअ पुच्छिदो कुदो इमाए वीणाए आगमो त्ति (भ्स्व्_6.0:13)
तेण भणिअं अह्मेहिं णम्मदातीरे कुय्यगुम्मळग्गा दिट्ठा (भ्स्व्_6.0:14)
जै प्पओअणं इमाए उवणीअदु भट्टिणोत्ति (भ्स्व्_6.0:15)
तं च उवणीदं अङ्के करिअ मोहं गदो भट्टा (भ्स्व्_6.0:16)
तदो मोहप्पच्चागदेण बप्फपय्याउळेण मुहेण भट्टिणा भणिअं दिट्ठासि घोसवदि सा हु ण दिस्सदि त्ति (भ्स्व्_6.0:17)
अय्य ईदिसो अणवसरो (भ्स्व्_6.0:18)
कहं णिवेदेमि (भ्स्व्_6.0:19)
[ततस् तत्र गत्वा पृष्टः कुतो ऽस्या वीणाया आगम इति । तेन भणितम् अस्माभिर् नर्मदातीरे कूर्चगुल्मलग्ना दृष्टा । यदि प्रयोजनम् अनया उपनीयतां भर्त्रे इति । तां चोपनीताम् अङ्के कृट्वा मोहं गतो भर्ता । ततो मोहप्रत्यागतेन बाष्पपर्याकुलेन मुखेन भर्त्रा भणितं दृष्टासि घोषवति सा खलु न दृश्यत इति । आर्य ईदृशो ऽनवसरः । कथं निवेदयामि । ]
*{काञ्चुकीयः}* - भवति निवेद्यताम् (भ्स्व्_6.0:20)
इदम् अपि तदाश्रयम् एव (भ्स्व्_6.0:21)
*{प्रतीहारी}* - अय्य इअं णिवेदेमि (भ्स्व्_6.0:22)
एसो भट्टा सुय्यामुहप्पासादादो ओदरै (भ्स्व्_6.0:23)
ता इह एव्व णिवेदैस्सं (भ्स्व्_6.0:24)
[आर्य इयं निवेदयामि । एष भर्ता सूर्यामुखप्रासादाद् अवतरति । तद् इहैव निवेदयिष्यामि । ]
*{काञ्चुकीयः}* - भवति तथा (भ्स्व्_6.0:25)
{उभौ निष्क्रान्तौ (भ्स्व्_6.0:26)} मिश्रविष्कम्भः ।
{ततः प्रविशति राजा विदूषकश्च (भ्स्व्_6.0:27)}
*{राजा}* -
श्रुतिसुखनिनदे कथं नु देव्याः स्तनयुगले जघनस्थले च सुप्ता &
विहगगणरजोविकीर्णदण्डा प्रतिभयम् अध्युषितास्य् अरण्यवासम्

6.2

अपि च अस्निग्धासि घोषवति या तपस्विन्या न स्मरसि
श्रोणीसमुद्वहनपार्श्वनिपीडितानि खेदस्तनान्तरसुखान्य् उपगूहितानि &
उद्दिश्य मां विरहे परिदेवितानि वाद्यान्तरेषु कथितानि च सस्मितानि

6.3

*{विदूषकः}* - अळं दाणि भवं अदिमत्तं सन्तप्पिअ (भ्स्व्_6.2:1)
[अलम् इदानीं भवान् अतिमात्रं सन्तप्य । ]
*{राजा}* - वयस्य मा मैवं
चिरप्रसुप्तः कामो मे वीणया प्रतिबोधितः &
तां तु देवीं न पश्यामि यस्या घोषवती प्रिया

6.4

वसन्तक शिल्पिजनसकाशान् नवयोगां घोषवतीं कृत्वा शीघ्रम् आनय (भ्स्व्_6.3:1)
*{विदूषकः}* - जं भवं आणवेदि (भ्स्व्_6.3:2)
{वीणां गृहीत्वा निष्क्रान्तः (भ्स्व्_6.3:3)}
[यद् भवान् आज्ञापयति । ]
*{प्रतीहारी}* - जेदु भट्टा (भ्स्व्_6.3:4)
एसो खु महासेणस्स सआसादो रब्भसगोत्तो कञ्चुईओ देवीए अङ्गारवदीए पेसिदा अय्या वसुन्धरा णाम वासवदत्ताधत्ती अ पडिहारं उवट्ठिदा (भ्स्व्_6.3:5)
[जयतु भर्ता । एष खलु महासेनस्य सकाशाद् रैभ्यसगोत्रः काञ्चुकीयो देव्याङ्गारवत्या प्रेषितार्या वसुन्धरा नाम वासवदत्ताधात्री च प्रतिहारम् उपस्थितौ । ]
*{राजा}* - तेन हि पद्मावती तावद् आहूयताम् (भ्स्व्_6.3:6)
*{प्रतीहारी}* - जं भट्टा आणवेदि (भ्स्व्_6.3:7)
{निष्क्रान्ता (भ्स्व्_6.3:8)}
[यद् भर्ताज्ञापयति । ]
*{राजा}* - किन् नु खलु शीघ्रम् इदानीम् अयं वृत्तान्तो महासेनेन विदितः (भ्स्व्_6.3:9)
{ततः प्रविशति पद्मावती प्रतीहारी च (भ्स्व्_6.3:10)}
*{प्रतीहारी}* - एदु एदु भट्टिदारिआ (भ्स्व्_6.3:11)
[एत्व् एतु भर्तृदारिका । ]
*{पद्मावती}* - जेदु अय्यौत्तो (भ्स्व्_6.3:12)
[जयत्व् आर्यपुत्रः । ]
*{राजा}* - पद्मावति किं श्रुतं महासेनस्य सकाशाद् रैभ्यसगोत्रः काञ्चुकीयः प्राप्तस् तत्रभवत्या चाङ्गारवत्या प्रेषितार्या वसुन्धरा नाम वासवदत्ताधात्री च प्रतिहारम् उपस्थिताव् इति (भ्स्व्_6.3:13)
*{पद्मावती}* - अय्यौत्त पिअं मे ञादिकुळस्स कुसळवुत्तन्तं सोदुं (भ्स्व्_6.3:14)
[आर्यपुत्र प्रियं मे ज्ञातिकुलस्य कुशलवृत्तान्तं श्रोतुम् । ]
*{राजा}* - अनुरूपम् एतद् भवत्याभिहितं वासवदत्तास्वजनो स्वजन इति (भ्स्व्_6.3:15)
पद्मावति आस्यताम् (भ्स्व्_6.3:16)
किम् इदानीं नास्यते (भ्स्व्_6.3:17)
*{पद्मावती}* - अय्यौत्त किं मए सह उवविट्ठो एदं जणं पेक्खिस्सदि (भ्स्व्_6.3:18)
[आर्यपुत्रः किं मया सहोपविष्ट एतं जनं द्रक्ष्यति । ]
*{राजा}* - को ऽत्र दोषः (भ्स्व्_6.3:19)
*{पद्मावती}* - अय्यौत्तस्स अवरो परिग्गहो त्ति उदासीणं विअ होदि (भ्स्व्_6.3:20)
[आर्यपुत्रस्यापरः परिग्रह इत्य् उदासीनम् इव भवति । ]
*{राजा}* - कलत्रदर्शनार्हं जनं कलत्रदर्शनात् परिहरतीति बहुदोषम् उत्पादयति (भ्स्व्_6.3:21)
तस्माद् आस्यताम् (भ्स्व्_6.3:22)
*{पद्मावती}* - जं अय्यौत्तो आणवेदि (भ्स्व्_6.3:23)
{उपविश्य (भ्स्व्_6.3:24)}
अय्यौत्त तादो वा अम्बा वा किंणुखु भणिस्सदि त्ति आविग्गा विअ संवुत्ता (भ्स्व्_6.3:25)
[यद् आर्यपुत्र आज्ञापयति । आर्यपुत्र तातो वाम्बा वा किन् नु खलु भणिष्यतीत्य् आविग्नेव संवृत्ता । ]
*{राजा}* - पद्मावति एवम् एतत् (भ्स्व्_6.3:26)
किं वक्ष्यतीति हृदयं परिशङ्कितं मे कन्या मयाप्य् अपहृता न च रक्षिता सा &
भाग्यैश् चलैर् महद् अवाप्तगुणोपधातः पुत्रः पितुर् जनितरोष इवास्मि भीतः

6.5

*{पद्मावती}* - न किं सक्कं रक्खिदुं पत्तकाळे (भ्स्व्_6.4:1)
[न किं शक्यं रक्षितुं प्राप्तकाले । ]
*{प्रतीहारी}* - एसो कञ्चुईओ धत्ती अ पडिहारं उवट्ठिदा (भ्स्व्_6.4:2)
[एष काञ्चुकीयो धात्री च प्रतिहारम् उपस्थितौ । ]
*{राजा}* - शिघ्रं प्रवेश्यताम् (भ्स्व्_6.4:3)
*{प्रतीहारी}* - जं भट्टा आणवेदि (भ्स्व्_6.4:4)
[यद् भर्ताज्ञापयति । ]
{निष्क्रान्ता}
{ततः प्रविशति काञ्चुकीयः धात्री प्रतीहारी च (भ्स्व्_6.4:5)}
*{काञ्चुकीयः}* - भोः
सम्बन्धिराज्यम् इदम् एत्य महान् प्रहर्षः स्मृत्वा पुनर् नृपसुतानिधनं विषादः &
किं नाम दैव भवता न कृतं यदि स्याद् राज्यं परैर् अपहृतं कुशलं च देव्याः

6.6

*{प्रतीहारी}* - एसो भट्टा उवसप्पदु अय्यो (भ्स्व्_6.5:1)
[एष भर्ता उपसर्पत्व् आर्यः । ]
*{काञ्चुकीयः}* -
{उपेत्य (भ्स्व्_6.5:2)}
जयत्व् आर्यपुत्रः (भ्स्व्_6.5:3)
*{धात्री}* - जेदु भट्टा (भ्स्व्_6.5:4)
[जयतु भर्ता । ]
*{राजा}* -
{सबहुमानम् (भ्स्व्_6.5:5)}
आर्य
पृथिव्यां राजवंश्यानाम् उदयास्तमयप्रभुः &
अपि राजा स कुशली मया काङ्क्षितबान्धवः

6.7

*{काञ्चुकीयः}* - अथ किम् (भ्स्व्_6.6:1)
कुशली महासेनः (भ्स्व्_6.6:2)
इहापि सर्वगतं कुशलं पृच्छति (भ्स्व्_6.6:3)
*{राजा}* -
{आसनाद् उत्थाय (भ्स्व्_6.6:4)}
किम् आज्ञापयति महासेनः (भ्स्व्_6.6:5)
*{काञ्चुकीयः}* - सदृशम् एतद् वैदेहीपुत्रस्य (भ्स्व्_6.6:6)
नन्व् आसनस्थेनैव भवता श्रोतव्यो महासेनस्य सन्देशः (भ्स्व्_6.6:7)
*{राजा}* - यद् आज्ञापयति महासेनः (भ्स्व्_6.6:8)
{उपविशति (भ्स्व्_6.6:9)}
*{काञ्चुकीयः}* - दिष्ट्या परैर् अपहृतं राज्यं पुनः प्रत्यानीतम् इति (भ्स्व्_6.6:10)
कुतः
कातरा ये ऽप्य् अशक्ता वा नोत्साहस् तेषु जायते &
प्रायेण हि नरेन्द्रश्रीः सोत्साहैर् एव भुज्यते

6.8

*{राजा}* - आर्य सर्वम् एतन् महासेनस्य प्रभावः कुतः (भ्स्व्_6.7:1)
अहम् अवजितः पूर्वं तावत् सुतैः सह लालितो दृढम् अपहृता कन्या भूयो मया न च रक्षिता &
निधनम् अपि च श्रुत्वा तस्यास् तथैव मयि स्वता ननु यद् उचितान् वत्सान् प्राप्तुं नृपो ऽत्र हि कारणम्

6.9

*{काञ्चुकीयः}* - एष महासेनस्य सन्देशः (भ्स्व्_6.8:1)
देव्याः सन्देशम् इहात्रभवती कथयिष्यति (भ्स्व्_6.8:2)
*{राजा}* - हा अम्ब
षोडशान्तःपुरज्येष्ठा पुण्या नगरदेवता &
मम प्रवासदुःखार्ता माता कुशलिनी ननु

6.10

*{धात्री}* - अरोआ भट्टिणी भट्टारं सव्वगदं कुसळं पुच्छदि (भ्स्व्_6.9:1)
[अरोगा भट्टिनी भर्तारं सर्वगतं कुशलं पृच्छति । ]
*{राजा}* - सर्वगतं कुशलम् इति (भ्स्व्_6.9:2)
अम्ब ईदृशं कुशलम् (भ्स्व्_6.9:3)
*{धात्री}* - मा दाणिं भट्टा अदिमत्तं सन्तप्पिदुं (भ्स्व्_6.9:4)
[मेदानीं भर्तातिमात्रं सन्तप्तुम् । ]
*{काञ्चुकीयः}* - धारयत्व् आर्यपुत्रः (भ्स्व्_6.9:5)
उपरताप्य् अनुपरता महासेनपुत्री एवम् अनुकम्प्यमानार्यपुत्रेण (भ्स्व्_6.9:6)
अथ वा
कः कं शक्तो रक्षितुं मृत्युकाले रज्जुच्छेदे के घटं धारयन्ति &
एवं लोकस् तुल्यधर्मो वनानां काले काले छिद्यते रुह्यते च

6.11

*{राजा}* - आर्य मा मैवम् (भ्स्व्_6.10:1)
महासेनस्य दुहिता शिष्या देवी च मे प्रिया &
कथं सा न मया शक्या स्मर्तुं देहान्तरेष्व् अपि

6.12

*{धात्री}* - आह भट्टिणी उवरदा वासवदत्ता (भ्स्व्_6.11:1)
मम वा महासेणस्स वा जादिसा गोवाळअपाळआ तादिसो एव्व तुमं पुढ्मअं एव्व अभिप्पेदो जामादुअत्ति (भ्स्व्_6.11:2)
एदण्णिमित्तं उज्जैणिं आणीदो (भ्स्व्_6.11:3)
अणग्गिसक्खिअं वीणाववदेसेण दिण्णा (भ्स्व्_6.11:4)
अत्तणो चवळदाए अणि वुत्तविवाहमङ्गळो एव्व गदो (भ्स्व्_6.11:5)
अहअ अह्मेहिं तव अ वासवदत्ताए अ पडिकिदिं चित्तफळआए आळिहिअ विवाहो णिव्वुत्तो (भ्स्व्_6.11:6)
एसा चित्तफळआ तव सआसं पेसिदा (भ्स्व्_6.11:7)
एदं पेक्खिअ णिव्वुदो होहि (भ्स्व्_6.11:8)
[आह भट्टिनी उपरता वासवदत्ता । मम वा महासेनस्य वा यादृशौ गोपालकपालकौ तादृश एव त्वं प्रथमम् एवाभिप्रेतो जामातेति । एतन् निमित्तम् उज्जयिनीम् आनीतः । अनग्निसाक्षिकं वीणाव्यपदेशेन दत्ता । आत्मनश् चपलतयानिर्वृत्तविवाहमङ्गल एव गतः । अथ चावाभ्यां तव च वासवदत्तायाश् च प्रतिकृतिं चित्रफलकायाम् आलिख्य विवाहो निर्वृत्तः । एषा चित्रफलका तव सकाशं प्रेषिता । एतां दृष्ट्वा निर्वृतो भव । ]
*{राजा}* - अहो अतिस्निग्धम् अनुरूपं चाभिहितं तत्रभवत्या (भ्स्व्_6.11:9)
वाक्यम् एतत् प्रियतरं राज्यलाभशताद् अपि &
अपराद्धेष्व् अपि स्नेहो यद् अस्मासु न विस्मृतः

6.13

*{पद्मावती}* - अय्यौत्त चित्रगदं गुरुअणं पेक्खिअ अभिवादेदुं इच्छामि (भ्स्व्_6.12:1)
[आर्यपुत्र चित्रगतं गुरुजनं दृष्ट्वाभिवादयितुम् इच्छामि । ]
*{धात्री}* - पेक्खदु पेक्खदु भट्टिदारिआ (भ्स्व्_6.12:2)
{चित्रफलकां दर्शयति (भ्स्व्_6.12:3)}
[पश्यतु पश्यतु भर्तृदारिका । ]
*{पद्मावती}* -
{दृष्ट्वा आत्मगतम् (भ्स्व्_6.12:4)}
हं अदिसदिसी खु इअं अय्याए आवन्तिआए (भ्स्व्_6.12:5)
{प्रकाशम्} अय्यौत्त सदिसी खु इअं अय्याए (भ्स्व्_6.12:6)
[हम् अतिसदृशी खल्व् इयम् आर्याया आवन्तिकायाः । आर्यपुत्र सदृशी खल्व् इयम् आर्यायाः । ]
*{राजा}* - न सदृशी (भ्स्व्_6.12:7)
सैवेति मन्ये (भ्स्व्_6.12:8)
भोः कष्टम् (भ्स्व्_6.12:9)
अस्य स्निग्धस्य वर्णस्य विपत्तिर् दारुणा कथम् &
इदं च मुखमाधुर्यं कथं दूषितम् अग्निना

6.14

*{पद्मावती}* - अय्यौत्तस्स पडिकिदिं पेक्खिअ जाणामि इअं अय्याए सदिसी ण वेत्ति (भ्स्व्_6.13:1)
[आर्यपुत्रस्य प्रतिकृतिं दृष्ट्वा जानामीयम् आर्यया सदृशी न वेति । ]
*{धात्री}* - पेक्खदु पेक्खदु भट्टिदारिआ (भ्स्व्_6.13:2)
[पश्यतु पश्यतु भर्तृदारिका । ]
*{पद्मावती}* -
{दृष्ट्वा (भ्स्व्_6.13:3)}
अय्यौत्तस्स पडिकिदीए सदिसदाए जाणामि इअं अय्याए सदिसि त्ति (भ्स्व्_6.13:4)
[आर्यपुत्रस्य प्रतिकृत्याः सदृशतया जानामीयम् आर्यया सदृशीति । ]
*{राजा}* - देवि चित्रदर्शनात् प्रभृति प्रहृष्टोद्विग्नाम् इव त्वां पश्यामि (भ्स्व्_6.13:5)
किम् इदम् (भ्स्व्_6.13:6)
*{पद्मावती}* - अय्यौत्त इमाए पडिकिदीए सदिसी इह एव्व पडिवसदि (भ्स्व्_6.13:7)
[आर्यपुत्र अस्याः प्रतिकृत्याः सदृशीहैव प्रतिवसति । ]
*{राजा}* - किं वासवदत्तायाः (भ्स्व्_6.13:8)
*{पद्मावती}* - आम (भ्स्व्_6.13:9)
*{राजा}* - तेन हि शीघ्रम् आनीयताम् (भ्स्व्_6.13:10)
*{पद्मावती}* - अय्यौत्त मम कण्णाभावे केण वि बह्मणेण मम भैणिअत्ति ण्णासो णिक्खित्तो (भ्स्व्_6.13:11)
पोसिदभत्तुआ परपुरुसदंसणं परिहरदि (भ्स्व्_6.13:12)
ता अय्यं मए सह आअदं पेक्खिअ जाणादु अय्यौत्तो (भ्स्व्_6.13:13)
[आर्यपुत्र मम कन्याभावे केनापि ब्राह्मणेन मम भगिनिकेति न्यासो निक्षिप्तः । प्रोषितभर्तृका परपुरुषदर्शनं परिहरति । तद् आर्यां मया सहागतां दृष्ट्वा जानात्व् आर्यपुत्रः । ]
*{राजा}* -
यदि विप्रस्य भगिनी व्यक्तम् अन्या भविष्यति &
परस्परगता लोके दृश्यते रूपतुल्यता

6.15

{प्रविश्य (भ्स्व्_6.14:1)}
*{प्रतीहारी}* - जेदु भट्टा (भ्स्व्_6.14:2)
एसो उज्जैणीओ बह्मणो भट्टिणीए हत्थे मम भैणिअ त्ति ण्णासो णिक्खित्तो तं पडिग्गहिदुं पडिहारं उवट्ठिदो (भ्स्व्_6.14:3)
[जयतु भर्ता । एष उज्जयिनीयो ब्राह्मणः भट्टिन्या हस्ते मम भगिनिकेति न्यासो निक्षिप्तः तं प्रतिग्रहीतुं प्रतिहारम् उपस्थितः । ]
*{राजा}* - पद्मावति किन् नु स ब्राह्मणः (भ्स्व्_6.14:4)
*{पद्मावती}* - होदव्वं (भ्स्व्_6.14:5)
[भवितव्यम् । ]
*{राजा}* - शीघ्रं प्रवेश्यताम् अभ्यन्तरसमुदाचारेण स ब्राह्मणः (भ्स्व्_6.14:6)
*{प्रतीहारी}* - जं भट्टा आणवेदि (भ्स्व्_6.14:7)
{निष्क्रान्ता (भ्स्व्_6.14:8)}
[यद् भर्ताज्ञापयति । ]
*{राजा}* - पद्मावति त्वम् अपि ताम् आनय (भ्स्व्_6.14:9)
*{पद्मावती}* - जं अय्यौत्तो आणवेदि (भ्स्व्_6.14:10)
{निष्क्रान्ता (भ्स्व्_6.14:11)}
[यद् आर्यपुत्र आज्ञापयति । ]
{ततः प्रविशति यौगन्धरायणः प्रतीहारी च (भ्स्व्_6.14:12)}
*{यौगन्धरायणः}* - भोः
{आत्मगतम् (भ्स्व्_6.14:13)}
प्रच्छाद्य राजमहिषीं नृपतेर् हितार्थं कामं मया कृतम् इदं हितम् इत्य् अवेक्ष्य &
सिद्धे ऽपि नाम मम कर्मणि पार्थिवो ऽसौ किं वक्ष्यतीति हृदयं परिशङ्कितं मे

6.16

*{प्रतीहारी}* - एसो भट्टा (भ्स्व्_6.15:1)
उपसप्पदु अय्यो (भ्स्व्_6.15:2)
[एष भर्ता । उपसर्पत्व् आर्यः । ]
*{यौगन्धरायणः}* -
{उपसृत्य (भ्स्व्_6.15:3)}
जयतु भवान् जयतु (भ्स्व्_6.15:4)
*{राजा}* - श्रुतपूर्व इव स्वरः (भ्स्व्_6.15:5)
भो ब्राह्मण किं भवतः स्वसा पद्मावत्या हस्ते न्यास इति निक्षिप्ता (भ्स्व्_6.15:6)
*{यौगन्धरायणः}* - अथकिम् (भ्स्व्_6.15:7)
*{राजा}* - तेन हि त्वर्यतां त्वर्यताम् अस्य भगिनिका (भ्स्व्_6.15:8)
*{प्रतीहारी}* - जं भट्टा आणवेदि (भ्स्व्_6.15:9)
{निष्क्रान्ता}
[यद् भर्ताज्ञापयति । ]
{ततः प्रविशति पद्मावती आवन्तिका प्रतीहारी च (भ्स्व्_6.15:10)}
*{पद्मावती}* - एदु एदु अय्या (भ्स्व्_6.15:11)
पिअं दे णिवेदेमि (भ्स्व्_6.15:12)
[एत्व् एत्व् आर्या । प्रियं ते निवेदयामि । ]
*{आवन्तिका}* - किं किं
[किं किं । ]
*{पद्मावती}* - भादा दे आअदो (भ्स्व्_6.15:13)
[भ्राता ते आगतः । ]
*{आवन्तिका}* - दिट्ठिआ इदाणिं पि सुमरदि (भ्स्व्_6.15:14)
[दिष्ट्येदानीम् अपि स्मरति । ]
*{पद्मावती}* -
{उपसृत्य (भ्स्व्_6.15:15)}
जेदु अय्यौत्तो (भ्स्व्_6.15:16)
एसो णासो (भ्स्व्_6.15:17)
[जयत्व् आर्यपुत्रः । एष न्यासः । ]
*{राजा}* - निर्यातय पद्मावति साक्षिमन् न्यासो निर्यातयितव्यः (भ्स्व्_6.15:18)
इहात्रभवान् रैभ्यः अत्रभवती चाधिकरणं भविष्यतः (भ्स्व्_6.15:19)
*{पद्मावती}* - अय्य णीअदां दाणिं अय्या (भ्स्व्_6.15:20)
[आर्य नीयताम् इदानीम् आर्या । ]
*{धात्री}* -
{आवन्तिकां निर्वर्ण्य (भ्स्व्_6.15:21)}
अम्मो भट्टिदारिआ वासवदत्ता (भ्स्व्_6.15:22)
[अम्मो भर्तृदारिका वासवदत्ता । ]
*{राजा}* - कथं महासेनपुत्री (भ्स्व्_6.15:23)
देवि प्रविश त्वम् अभ्यन्तरं पद्मावत्या सह (भ्स्व्_6.15:24)
*{यौगन्धरायणः}* - न खलु न खलु प्रवेष्टव्यम् (भ्स्व्_6.15:25)
मम भगिनी खल्व् एषा (भ्स्व्_6.15:26)
*{राजा}* - किं भवान् आह (भ्स्व्_6.15:27)
महासेनपुत्री खल्व् एषा (भ्स्व्_6.15:28)
*{यौगन्धरायणः}* - भो राजन्
भारतानां कुले जातो विनीतो ज्ञानवाञ् छुचिः &
तन्नाईसि बलाद् धर्तुं राजधर्मस्य देशिकः

6.17

*{राजा}* - भवतु पश्यामस् तावद् रूपसादृश्यम् (भ्स्व्_6.16:1)
संक्षिप्यतां यवनिका (भ्स्व्_6.16:2)
*{यौगन्धरायणः}* - जयतु स्वामी (भ्स्व्_6.16:3)
*{वासवदत्ता}* - जेदु अय्यौत्तो (भ्स्व्_6.16:4)
[जयत्व् आर्यपुत्रः । ]
*{राजा}* - अये असौ यौगन्धरायणः इयं महासेनपुत्री (भ्स्व्_6.16:5)
किन् नु सत्यम् इदं स्वप्नः सा भूयो दृश्यते मया &
अनयाप्य् एवम् एवाहं दृष्टया वञ्चितस् तदा

6.18

*{यौगन्धरायणः}* - स्वामिन् देव्यपनयेन कृतापराधः खल्व् अहम् (भ्स्व्_6.17:1)
तत् क्षन्तुम् अर्हति स्वामी (भ्स्व्_6.17:2)
{इति पादयोः पतति (भ्स्व्_6.17:3)}
*{राजा}* -
{उत्थाप्य (भ्स्व्_6.17:4)}
यौगन्धरायणो भवान् ननु (भ्स्व्_6.17:5)
मिथ्योन्मादैश् च युद्धैश् च शास्त्रदृष्टैश् च मन्त्रितैः &
भवद्यत्नैः खलु वयं मज्जमानाः समुद्धृताः

6.19

*{यौगन्धरायणः}* - स्वामिभाग्यानाम् अनुगन्तारो वयम् (भ्स्व्_6.18:1)
*{पद्मावती}* - अम्महे अय्या खु इअं (भ्स्व्_6.18:2)
अय्ये सहीजणसमुदाआरेण अजाणन्तीए अदिक्कन्दो समुदाआरो (भ्स्व्_6.18:3)
ता सीसेण पसादेमि (भ्स्व्_6.18:4)
[अहो आर्या खल्व् इयम् । आर्ये सखीजनसमुदाचारेणाजानत्यातिक्रान्तः समुदाचारः तच् छीर्षेण प्रसादयामि । ]
*{वासवदत्ता}* -
{पद्मावतीम् उत्थाप्य (भ्स्व्_6.18:5)}
उट्ठेहि उट्ठेहि अविहवे उट्ठेहि (भ्स्व्_6.18:6)
अत्थिसअं णाम सरीरं अवरद्धै (भ्स्व्_6.18:7)
[उत्तिष्ठोत्तिष्ठाविधवे उत्तिष्ठ । अर्थिस्वं नाम शरीरम् अपराध्यति । ]
*{राजा}* - वयस्य यौगन्धरायण देव्यपनये का कृता ते बुद्धिः (भ्स्व्_6.18:8)
*{यौगन्धरायणः}* - कौशाम्बीमात्रं परिपालयामीति (भ्स्व्_6.18:9)
*{राजा}* - अथ पद्मावत्या हस्ते किं न्यासकारणम् (भ्स्व्_6.18:10)
*{यौगन्धरायणः}* - पुष्पकभद्रादिभिर् आदेशिकैर् आदिष्टा स्वामिनो देवी भविष्यतीति (भ्स्व्_6.18:11)
*{राजा}* - इदम् अपि रुमण्वता ज्ञातम् (भ्स्व्_6.18:12)
*{यौगन्धरायणः}* - स्वामिन् सर्वैर् एव ज्ञातम् (भ्स्व्_6.18:13)
*{राजा}* - अहो शठः खलु रुमण्वान् (भ्स्व्_6.18:14)
*{यौगन्धरायणः}* - स्वामिन् देव्याः कुशलनिवेदनार्थम् अद्यैव प्रतिनिवर्तताम् अत्रभवान् रैभ्यो ऽत्रभवती च (भ्स्व्_6.18:15)
*{राजा}* - न न (भ्स्व्_6.18:16)
सर्व एव वयं यास्यामो देव्या पद्मावत्या सह (भ्स्व्_6.18:17)
*{यौगन्धरायणः}* - यदाज्ञापयति स्वामी (भ्स्व्_6.18:18)
{भरतवाक्यम् (भ्स्व्_6.18:19)}
इमां सागरपर्यन्तां हिमवद्विन्ध्यकुण्डलाम् &
महीम् एकातपत्राङ्कां राजसिंहः प्रशास्तु नः

मूल पाठ: Svapnavāsavadatta · Data entry Matthias Ahlborn · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc