स्वप्नवासवदत्त · अध्याय 1
रेfएरेन्चे स्य्स्तेम्:
भ्स्व्_(अच्त्).(वेर्से):(प्रोसे । सेन्तेन्चे)
{...} = स्तगे दिरेच्तिओन्स्
*{...}* = स्पेअकेर्स्
[...] = सन्स्क्रित् छय
****************************** अच्त् 1 ******************************
स्वप्नवासवदत्तम्
{नान्द्यन्ते ततः प्रविशति सूत्रधारः (भ्स्व्_0:1)}
*{सूत्रधारः}* -
उदयनवेन्दुसवर्णावासवदत्ताबलौ बलस्य त्वाम् &
पद्मावतीर्णपूर्णौ वसन्तकम्रौ भुजौ पाताम्
एवम् आर्यमिश्रान् विज्ञापयामि (भ्स्व्_1.1:1)
अये किन् नु खलु मयि विज्ञापनव्यग्रे शब्द इव श्रूयते (भ्स्व्_1.1:2)
अङ्ग पश्यामि (भ्स्व्_1.1:3)
{नेपथ्ये} उस्सरह उस्सरह अय्या उस्सरह (भ्स्व्_1.1:4)
[उत्सरतोत्सरतार्याः उत्सरत । ]
*{सूत्रधारः}* - भवतु विज्ञातम् (भ्स्व्_1.1:5)
भृत्यैर् मगधराजस्य स्निग्धैः कन्यानुगामिभिः &
धृष्ठम् उत्सार्यते सर्वस् तपोवनगतो जनः
{निष्क्रान्तः (भ्स्व्_1.2:1)}
स्थापना ।
{प्रविश्य}
*{भटौ}* - उस्सरह उस्सरह अय्या उस्सरह (भ्स्व्_1.2:2)
[उत्सरतोत्सरतार्याः उत्सरत । ]
{ततः प्रविशति परिव्राजकवेषो यौगन्धरायण आवन्तिकावेषधारिणी वासवदत्ता च (भ्स्व्_1.2:3)}
*{यौगन्धरायणः}* -
{कर्णं दत्त्वा} कथम् इहाप्य् उत्सार्यते (भ्स्व्_1.2:4)
कुतः
धीरस्याश्रमसंश्रितस्य वसतस् तुष्टस्य वन्यैः फलैर् मानार्हस्य जनस्य वल्कलवतस् त्रासः समुत्पाद्यते &
उत्सिक्तो विनयाद् अपेतपुरुषो भाग्यैश् चलैर् विस्मितः को ऽयं भो निभृतं तपोवनम् इदं ग्रामीकरोत्य् आज्ञया
*{वासवदत्ता}* - अय्य को एसो उस्सारेदि (भ्स्व्_1.3:1)
[आर्य क एष उत्सारयति । ]
*{यौगन्धरायणः}* - भवति यो धर्माद् आत्मानम् उत्सारयति (भ्स्व्_1.3:2)
*{वासवदत्ता}* - अय्य ण हि एव्वं वत्तुकामा अहं वि णाम उस्सारैदव्वा होमि त्ति (भ्स्व्_1.3:3)
[आर्य न ह्य् एवं वक्तुकामा अहम् अपि नामोत्सारयितव्या भवामीति । ]
*{यौगन्धरायणः}* - भवति एवम् अनिर्ज्ञातानि दैवतान्य् अवधूयन्ते (भ्स्व्_1.3:4)
*{वासवदत्ता}* - अय्य तह परिस्समो परिखेदं ण उप्पादेदि जह अअं परिभवो (भ्स्व्_1.3:5)
[आर्य तथा परिश्रमः परिखेदं नोत्पादयति यथायं परिभवः । ]
*{यौगन्धरायणः}* - भुक्तोज्झित एष विषयो ऽत्रभवत्या (भ्स्व्_1.3:6)
नात्र चिन्ता कार्या (भ्स्व्_1.3:7)
कुतः
पूर्वं त्वयाप्य् अभिमतं गतम् एवम् आसीच् छ्लाघ्यं गमिष्यसि पुनर् विजयेन भर्तुः &
कालक्रमेण जगतः परिवर्तमाना चक्रारपङ्क्तिर् इव गच्छति भाग्यपङ्क्तिः
*{भटौ}* - उस्सरह अय्या उस्सरह (भ्स्व्_1.4:1)
[उत्सरतार्याः उत्सरत । ]
{ततः प्रविशति काञ्चुकीयः (भ्स्व्_1.4:2)}
*{काञ्चुकीयः}* - सम्भषक न खलु न खलूत्सारणा कार्या (भ्स्व्_1.4:3)
पश्य
परिहरतु भवान् नृपापवादं न परुषम् आश्रमवासिषु प्रयोज्यम् &
नगरपरिभवान् विमोक्तुम् एते वनम् अभिगम्य मनस्विनो वसन्ति
*{उभौ}* - अय्य तह (भ्स्व्_1.5:1)
[आर्य तथा । ]
{निष्क्रान्तौ (भ्स्व्_1.5:2)}
*{यौगन्धरायणः}* - हन्त सविज्ञानम् अस्य दर्शनम् (भ्स्व्_1.5:3)
वत्से उपसर्पावस् तावद् एनम् (भ्स्व्_1.5:4)
*{वासवदत्ता}* - अय्य तह (भ्स्व्_1.5:5)
[आर्य तथा । ]
*{यौगन्धरायणः}* -
{उपसृत्य} भोः किङ्कृतेयम् उत्सारणा (भ्स्व्_1.5:6)
*{काञ्चुकीयः}* - भोस् तपस्विन् (भ्स्व्_1.5:7)
*{यौगन्धरायणः}* -
{आत्मगतम्} तपस्विन्न् इति गुणवान् खल्व् अयम् आलापः (भ्स्व्_1.5:8)
अपरिचयात् तु न श्लिष्यते मे मनसि (भ्स्व्_1.5:9)
*{काञ्चुकीयः}* - भोः श्रूयताम् (भ्स्व्_1.5:10)
एषा खलु गुरुभिर् अभिहितनामधेयस्यास्माकं महाराजदर्शकस्य भगिनी पद्मावती नाम (भ्स्व्_1.5:11)
सैषा नो महाराजमातरं महादेवीम् आश्रमस्थाम् अभिगम्यानुज्ञाता तत्रभवत्या राजगृहम् एव यास्यति (भ्स्व्_1.5:12)
तद् अद्यास्मिन्न् आश्रमपदे वासो ऽभिप्रेतो ऽस्याः (भ्स्व्_1.5:13)
तद् भवन्तः
तीर्थोदकानि समिधः कुसुमानि दर्भान् स्वैरं वनाद् उपनयन्तु तपोधनानि &
धर्मप्रिया नृपसुता न हि धर्मपीडाम् इच्छेत् तपस्विषु कुलव्रतम् एतद् अस्याः
*{यौगन्धरायणः}* -
{स्वगतम्} एवम् (भ्स्व्_1.6:1)
एषा सा मगधराजपुत्री पद्मावती नाम या पुष्पकभद्रादिभिर् आदेशिकैर् आदिष्टा स्वामिनो देवी भविष्यतीति (भ्स्व्_1.6:2)
ततः
प्रद्वेषो बहुमानो वा सङ्कल्पाद् उपजायते &
भर्तृदाराभिलाषित्वाद् अस्यां मे महती स्वता
*{वासवदत्ता}* -
{स्वगतम्} राअदारिअ त्ति सुणिअ भैणिआसिणेहो वि मे एत्थ सम्पज्जै (भ्स्व्_1.7:1)
[राजदारिकेति श्रुत्वा भगिनिकास्नेहो ऽपि मे ऽत्र संपद्यते । ]
{ततः प्रविशति पद्मावती सपरिवारा चेटी च (भ्स्व्_1.7:2)}
*{चेटी}* - एदु एदु भट्टिदारिआ (भ्स्व्_1.7:3)
इदं अस्समपदं पविसदु (भ्स्व्_1.7:4)
[एत्व् एतु भर्तृदारिका इदम् आश्रमपदं प्रविशतु । ]
{ततः प्रविशत्य् उपविष्टा तापसी (भ्स्व्_1.7:5)}
*{तापसी}* - साअदं राअदारिआए (भ्स्व्_1.7:6)
[स्वागतं राजदारिकायाः । ]
*{वासवदत्ता}* -
{स्वगतम्} इअं सा राअदारिआ (भ्स्व्_1.7:7)
अभिजणाणुरूवं खु से रूवं (भ्स्व्_1.7:8)
[इयं सा राजदारिका । अभिजनानुरूपं खल्व् अस्या रूपम् । ]
*{पद्मावती}* - अय्ये वन्दामि (भ्स्व्_1.7:9)
[आर्ये वन्दे । ]
*{तापसी}* - चिरं जीव (भ्स्व्_1.7:10)
पविस जादे पविस (भ्स्व्_1.7:11)
तवोवणाणि णाम अदिहिजणस्स सअगेहं (भ्स्व्_1.7:12)
[चिरं जीव । प्रविश जाते प्रविश । तपोवनानि नामातिथिजनस्य स्वगेहम् । ]
*{पद्मावती}* - भोदु भोदु (भ्स्व्_1.7:13)
अय्ये विस्सत्थह्मि (भ्स्व्_1.7:14)
इमिणा बहुमाणवअणेण अणुग्गहिद ह्मि (भ्स्व्_1.7:15)
[भवतु भवतु । आर्ये विश्वस्तास्मि । अनेन बहुमानवचनेनानुगृहीतास्मि । ]
*{वासवदत्ता}* -
{स्वगतम्} ण हि रूवं एव्व वाआ वि खु से महुरा (भ्स्व्_1.7:16)
[न हि रूपम् एव वाग् अपि खल्व् अस्या मधुरा । ]
*{तापसी}* - भद्दे इमं दाव भद्दमुहस्स भैणिअं कोच्चि राआ ण वरेदि (भ्स्व्_1.7:17)
[भद्रे इमां तावद् भद्रमुखस्य भगिनिकां कश्चिद् राजा न वरयति । ]
*{चेटी}* - अत्थि राआ पज्जोदो णाम उज्जैणीए (भ्स्व्_1.7:18)
सो दारअस्स कारणादो दूदसम्पादं करेदि (भ्स्व्_1.7:19)
[अस्ति राजा प्रद्योतो नामोज्जयिन्याः । स दारकस्य कारणाद् दूतसम्पातं करोति । ]
*{वासवदत्ता}* -
{आत्मगतम्} भोदु भोदु (भ्स्व्_1.7:20)
एसा अ अत्तणीआ दाणिं संवुत्ता (भ्स्व्_1.7:21)
[भवतु भवतु । एषा चात्मीयेदानीं संवृत्ता । ]
*{तापसी}* - अर्हा खु इअं आइदी इमस्स बहुमाणस्स (भ्स्व्_1.7:22)
उभआणि राऔळाणि महत्तराणि त्ति सुणीअदि (भ्स्व्_1.7:23)
[अर्हा खल्व् इयम् आकृतिर् अस्य बहुमानस्य । उभे राजकुले महत्तरे इति श्रूयते । ]
*{पद्मावती}* - अय्य किं दिट्ठो मुणिजणो अत्ताणं अणुग्गहीदुं (भ्स्व्_1.7:24)
अभिप्पेदप्पदाणेण तवस्सिजणो उवणिमन्तीअदु दाव को किं एत्थ इच्छदि त्ति (भ्स्व्_1.7:25)
[आर्य किं दृष्टो मुनिजन आत्मानम् अनुग्रहीतुम् । अभिप्रेतप्रदानेन तपस्विजन उपनिमन्त्र्यतां तावत् कः किम् अत्रेच्छतीति । ]
*{काञ्चुकीयः}* - यद् अभिप्रेतं भवत्या (भ्स्व्_1.7:26)
भो भो आश्रमवासिनस् तपस्विनः (भ्स्व्_1.7:27)
शृण्वन्तु शृण्वन्तु भवन्तः (भ्स्व्_1.7:28)
इहात्रभवती मगधराजपुत्री अनेन विस्रम्भेणोत्पादितविस्रम्भा धर्मार्थम् अर्थेनोपनिमन्त्रयते (भ्स्व्_1.7:29)
कस्यार्थः कलशेन को मृगयते वासो यथानिश्चितं दीक्षां पारितवान् किम् इच्छति पुनर् देयं गुरोर् यद् भवेत् &
आत्मानुग्रहम् इच्छतीह नृपजा धर्माभिरामप्रिया यद् यस्यास्ति समीप्सितं वदतु तत् कस्याद्य किं दीयताम्
*{यौगन्धरायणः}* - हन्त दृष्ट उपायः (भ्स्व्_1.8:1)
{प्रकाशम्} भोः अहम् अर्थी (भ्स्व्_1.8:2)
*{पद्मावती}* - दिट्ठिआ सहळं मे तवोवणाभिगमणं (भ्स्व्_1.8:3)
[दिष्ट्या सफलं मे तपोवनाभिगमनम् । ]
*{तापसी}* - संतुट्ठतपस्सिजणं इदं अस्समपदं (भ्स्व्_1.8:4)
आअन्तुएण इमिणा होदव्वं (भ्स्व्_1.8:5)
[सन्तुष्टतपस्विजनम् इदम् आश्रमपदम् । आगन्तुकेनानेन भवितव्यम् । ]
*{काञ्चुकीयः}* - भोः किं क्रियताम् (भ्स्व्_1.8:6)
*{यौगन्धरायणः}* - इयं मे स्वसा (भ्स्व्_1.8:7)
प्रोषितभर्तृकाम् इमाम् इच्छाम्य् अत्रभवत्या कङ्चित् कालं परिपाल्यमानाम् (भ्स्व्_1.8:8)
कुतः
कार्यं नैवार्थैर् नापि भोगैर् न वस्त्रैर् नाहं काषायं वृत्तिहेतोः प्रपन्नः &
धीरा कन्येयं दृष्टधर्मप्रचारा शक्ता चारित्रं रक्षितुं मे भगिन्याः
*{वासवदत्ता}* -
{आत्मगतम्} हं (भ्स्व्_1.9:1)
इह मं णिक्खिविदुकामो अय्ययोगन्धरायणो (भ्स्व्_1.9:2)
होदु अविआरिअ कमं ण करिस्सदि (भ्स्व्_1.9:3)
[हम् । इह मां निक्षेप्तुकाम आर्ययौगन्धरायणः । भवतु । अविचार्य क्रमं न करिष्यति । ]
*{काञ्चुकीयः}* - भवति महती खल्व् अस्य व्यपाश्रयणा (भ्स्व्_1.9:4)
कथं प्रतिजानीमः (भ्स्व्_1.9:5)
कुतः
सुखम् अर्थो भवेद् दातुं सुखं प्राणाः सुखं तपः &
सुखम् अन्यद् भवेत् सर्वं दुःखं न्यासस्य रक्षणम्
*{पद्मावती}* - अय्य पढमं उग्घोसिअ को किं इच्छदि त्ति अजुत्तं दाणिं विआरिदुं (भ्स्व्_1.10:1)
जं एसो भणादि तं अणुचिट्ठदु अय्यो (भ्स्व्_1.10:2)
[आर्य प्रथमम् उद्घोष्य कः किम् इच्छतीत्य् अयुक्तम् इदानीं विचारयितुम् । यद् एष भणति तद् अनुतिष्ठत्व् आर्यः । ]
*{काञ्चुकीयः}* - अनुरूपम् एतद् भवत्याभिहितम् (भ्स्व्_1.10:3)
*{चेटी}* - चिरं जीवदु भट्टिदारिआ एवं सच्चवादिणी (भ्स्व्_1.10:4)
[चिरं जीवतु भर्तृदारिकैवं सत्यवादिनी । ]
*{तापसी}* - चिरं जीवदु भद्दे (भ्स्व्_1.10:5)
[चिरं जीवतु भद्रे । ]
*{काञ्चुकीयः}* - भवति तथा (भ्स्व्_1.10:6)
{उपगम्य (भ्स्व्_1.10:7)}
भो अभ्युपगतम् अत्रभवतो भगिन्याः परिपालनम् अत्रभवत्या (भ्स्व्_1.10:8)
*{यौगन्धरायणः}* - अनुगृहीतो ऽस्मि तत्रभवत्या (भ्स्व्_1.10:9)
वत्से उपसर्पात्रभवतीम् (भ्स्व्_1.10:10)
*{वासवदत्ता}* -
{आत्मगतम्} का गई (भ्स्व्_1.10:11)
एसा गच्छामि मन्दभाआ (भ्स्व्_1.10:12)
[का गतिः । एषा गच्छामि मन्दभागा । ]
*{पद्मावती}* - भोदु भोदु (भ्स्व्_1.10:13)
अत्तणीआ दाणिं संवुत्ता (भ्स्व्_1.10:14)
[भवतु भवतु । आत्मीयेदानीं संवृत्ता । ]
*{तापसी}* - जा ईदिसी से आइदी इयं वि राअदारिअ त्ति तक्केमि (भ्स्व्_1.10:15)
[या ईदृश्यस्या आकृतिः इयम् अपि राजदारिकेति तर्कयामि । ]
*{चेटी}* - सुट्ठु अय्या भणादि (भ्स्व्_1.10:16)
अहं वि अणुहूदसुहत्ति पेक्खामि (भ्स्व्_1.10:17)
[सुष्ठु आर्या भणति । अहम् अप्य् अनुभूतसुखेति पश्यामि । ]
*{यौगन्धरायणः}* -
{आत्मगतम्} हन्त भोः अर्धम् अवसितं भारस्य (भ्स्व्_1.10:18)
यथा मन्त्रिभिः सह समर्थितम् तथा परिणमति (भ्स्व्_1.10:19)
ततः प्रतिष्ठिते स्वामिनि तत्रभवतीम् उपनयतो मे इहात्रभवती मगधराजपुत्री विश्वासस्थानं भविष्यति (भ्स्व्_1.10:20)
कुतः
पद्मावती नरपतेर् महिषी भवित्री दृष्टा विपत्तिर् अथ यैः प्रथमं प्रदिष्टा &
तत् प्रत्ययात् कृतम् इदं न हि सिद्धवाक्यान्य् उत्क्रम्य गच्छति विधिः सुपरीक्षितानि
{ततः प्रविशति ब्रह्मचारी (भ्स्व्_1.11:1)}
*{ब्रह्मचारी}* -
{ऊर्ध्वम् अवलोक्य (भ्स्व्_1.11:2)}
स्थितो मध्याह्नः (भ्स्व्_1.11:3)
दृढम् अस्मि परिश्रान्तः (भ्स्व्_1.11:4)
अथ कस्मिन् प्रदेशे विश्रमयिष्ये (भ्स्व्_1.11:5)
{परिक्रम्य (भ्स्व्_1.11:6)}
भवतु दृष्टम् (भ्स्व्_1.11:7)
अभितस् तपोवनेन भवितव्यम् (भ्स्व्_1.11:8)
तथा हि
विस्रब्धं हरिणाश् चरन्त्य् अचकिता देशागतप्रत्यया वृक्षाः पुष्पफलैः समृद्धविटपाः सर्वे दयारक्षिताः &
भूयिष्ठं कपिलानि गोकुलधनान्य् अक्षेत्रवत्यो दिशो निःसन्दिग्धम् इदं तपोवनम् अयं धूमो हि बह्वाश्रयः
यावत् प्रविशामि (भ्स्व्_1.12:1)
{प्रविश्य} अये आश्रमविरुद्धः खल्व् एष जनः (भ्स्व्_1.12:2)
{अन्यतो विलोक्य} अथवा तपस्विजनो ऽप्य् अत्र (भ्स्व्_1.12:3)
निर्दोषम् उपसर्पणम् (भ्स्व्_1.12:4)
अये स्त्रीजनः (भ्स्व्_1.12:5)
*{काञ्चुकीयः}* - स्वैरं स्वैरं प्रविशतु भवान् (भ्स्व्_1.12:6)
सर्वजनसाधारणम् आश्रमपदं नाम (भ्स्व्_1.12:7)
*{वासवदत्ता}* - हं (भ्स्व्_1.12:8)
*{पद्मावती}* - अम्मो परपुरुसदंसणं परिहरदि अय्या (भ्स्व्_1.12:9)
भोदु सुपरिवाळणीओ खु मण्णासो (भ्स्व्_1.12:10)
[अम्मो परपुरुषदर्शनं परिहरत्य् आर्या । भवतु सुपरिपालनीयः खलु मन्न्यासः । ]
*{काञ्चुकीयः}* - भोः पूर्वं प्रविष्टाः स्मः (भ्स्व्_1.12:11)
प्रतिगृह्यताम् अतिथिसत्कारः (भ्स्व्_1.12:12)
*{ब्रह्मचारी}* -
{आचम्य} भवतु भवतु (भ्स्व्_1.12:13)
निवृत्तपरिश्रमो ऽस्मि (भ्स्व्_1.12:14)
*{यौगन्धरायणः}* - भोः कुत आगम्यते (भ्स्व्_1.12:15)
क्व गन्तव्यम् (भ्स्व्_1.12:16)
क्वाधिष्ठानम् आर्यस्य (भ्स्व्_1.12:17)
*{ब्रह्मचारी}* - भोः श्रूयताम् (भ्स्व्_1.12:18)
राजगृहतो ऽस्मि (भ्स्व्_1.12:19)
श्रुतिविशेषणार्थं वत्सभूमौ लावाणकं नाम ग्रामस् तत्रोषितवान् अस्मि (भ्स्व्_1.12:20)
*{वासवदत्ता}* -
{आत्मगतम्} हा ळावाणअं णाम (भ्स्व्_1.12:21)
ळावाणअसंकित्तणेण पुणो णवीकिदो विअ मे सन्दावो (भ्स्व्_1.12:22)
[हा लावाणकं नाम । लावाणकसङ्कीर्तनेन पुनर् नवीकृत इव मे सन्तापः । ]
*{यौगन्धरायणः}* - अथ परिसमाप्ता विद्या (भ्स्व्_1.12:23)
*{ब्रह्मचारी}* - न खलु तावत् (भ्स्व्_1.12:24)
*{यौगन्धरायणः}* - यद्य् अनवसिता विद्या किम् आगमनप्रयोजनम् (भ्स्व्_1.12:25)
*{ब्रह्मचारी}* - तत्र खल्व् अतिदारुणं व्यसनं संवृत्तम् (भ्स्व्_1.12:26)
*{यौगन्धरायणः}* - कथम् इव (भ्स्व्_1.12:27)
*{ब्रह्मचारी}* - तत्रोदयनो नाम राजा प्रतिवसति (भ्स्व्_1.12:28)
*{यौगन्धरायणः}* - श्रूयते तत्रभवान् उदयनः (भ्स्व्_1.12:29)
किं सः (भ्स्व्_1.12:30)
*{ब्रह्मचारी}* - तस्यावन्तिराजपुत्री वासवदत्ता नाम पत्नी दृढम् अभिप्रेता किल (भ्स्व्_1.12:31)
*{यौगन्धरायणः}* - भवितव्यम् (भ्स्व्_1.12:32)
ततस् ततः (भ्स्व्_1.12:33)
*{ब्रह्मचारी}* - ततस् तस्मिन् मृगयानिष्क्रान्ते राजनि ग्रामदाहेन सा दग्धा (भ्स्व्_1.12:34)
*{वासवदत्ता}* -
{आत्मगतम्} अळिअं अळिअं खु एदं (भ्स्व्_1.12:35)
जीवामि मन्दभाआ (भ्स्व्_1.12:36)
[अलीकम् अलीकम् खलु एतत् । जीवामि मन्दभागा । ]
*{यौगन्धरायणः}* - ततस् ततः (भ्स्व्_1.12:37)
*{ब्रह्मचारी}* - ततस् ताम् अभ्यवपत्तुकामो यौगन्धरायणो नाम सचिवस् तस्मिन्न् एवाग्नौ पतितः (भ्स्व्_1.12:38)
*{यौगन्धरायणः}* - सत्यं पतित इति (भ्स्व्_1.12:39)
ततस् ततः (भ्स्व्_1.12:40)
*{ब्रह्मचारी}* - ततः प्रतिनिवृत्तो राजा तद्वृत्तान्तं श्रुत्वा तयोर् वियोगजनितसन्तापस् तस्मिन्न् एवाग्नौ प्राणान् परित्यक्तुकामो ऽमात्यैर् महता यत्नेन वारितः (भ्स्व्_1.12:41)
*{वासवदत्ता}* -
{आत्मगतम्} जाणामि जाणामि अय्यौत्तस्स मै साणुक्कोसत्तणं (भ्स्व्_1.12:42)
[जानामि जानाम्य् आर्यपुत्रस्य मयि सानुक्रोशत्वम् । ]
*{यौगन्धरायणः}* - ततस् ततः (भ्स्व्_1.12:43)
*{ब्रह्मचारी}* - ततस् तस्याः शरीरोपभुक्तानि दग्धशेषाण्य् आभरणानि परिष्वज्य राजा मोहम् उपगतः (भ्स्व्_1.12:44)
*{सर्वे}* - हा (भ्स्व्_1.12:45)
*{वासवदत्ता}* -
{स्वगतम्} सकामो दाणिं अय्यजोअन्धराअणो होदु (भ्स्व्_1.12:46)
[सकाम इदानीम् आर्ययौगन्धरायणो भवतु । ]
*{चेटी}* - भट्टिदारिए रोदिदि खु इअं अय्या (भ्स्व्_1.12:47)
[भर्तृदारिके रोदिति खल्व् इयम् आर्या । ]
*{पद्मावती}* - साणुक्कोसाए होदव्वं (भ्स्व्_1.12:48)
[सानुक्रोशया भवितव्यम् । ]
*{यौगन्धरायणः}* - अथ किम् अथ किम् (भ्स्व्_1.12:49)
प्रकृत्या सानुक्रोशा मे भगिनी (भ्स्व्_1.12:50)
ततस् ततः (भ्स्व्_1.12:51)
*{ब्रह्मचारी}* - ततः शनैः शनैः प्रतिलब्धसंज्ञः संवृत्तः (भ्स्व्_1.12:52)
*{पद्मावती}* - दिट्ठिआ धरै (भ्स्व्_1.12:53)
मोहं गदो त्ति सुणिअ सुण्णं विअ मे हिअअम् (भ्स्व्_1.12:54)
[दिष्ट्या ध्रियते । मोहं गत इति श्रुत्वा शून्यम् इव मे हृदयम् । ]
*{यौगन्धरायणः}* - ततस् ततः (भ्स्व्_1.12:55)
*{ब्रह्मचारी}* - ततः स राजा महीतलपरिसर्पणपांसुपाटलशरीरः सहसोत्थाय हा वासवदत्ते हा अवन्तिराजपुत्रि हा प्रिये हा प्रियशिष्ये इति किम् अपि बहु प्रलपितवान् (भ्स्व्_1.12:56)
किं बहुना
नैवेदानीं ताडृशाश् चक्रवाका नैवाप्य् अन्ये स्त्रीविशेसैर् वियुक्ताः &
धन्या सा स्त्री यां तथा वेत्ति भर्ता भर्तृस्नेहात् सा हि दग्धाप्य् अदग्धा
*{यौगन्धरायणः}* - अथ भोः तं तु पर्यवस्थापयितुं न कश्चिद् यत्नवान् अमात्यः (भ्स्व्_1.13:1)
*{ब्रह्मचारी}* - अस्ति रुमण्वान् नामामात्यो दृढं प्रयत्नवांस् तत्रभवन्तं पर्यवस्थापयितुम् (भ्स्व्_1.13:2)
स हि
अनाहारे तुल्यः प्रततरुदितक्षामवदनः शरीरे संस्कारं नृपतिसमदुःखं परिवहन् &
दिवा वा रात्रौ वा परिचरति यत्नैर् नरपतिं नृपः प्राणान् सद्यस् त्यजति यदि तस्याप्य् उपरमः
*{वासवदत्ता}* -
{आत्मगतम्} दिट्ठिआ सुणिक्खित्तो दाणीं अय्यौत्तो (भ्स्व्_1.14:1)
[दिष्ट्या सुनिक्षिप्त इदानीम् आर्यपुत्रः । ]
*{यौगन्धरायणः}* -
{आत्मगतम्} अहो महद्भारम् उद्वहति रुमण्वान् (भ्स्व्_1.14:2)
कुतः
सविश्रमो ह्य् अयं भारः प्रसक्तस् तस्य तु श्रमः &
तस्मिन् सर्वम् अधीनं हि यत्राधीनो नराधिपः
{प्रकाशम्} अथ भोः पर्यवस्थापित इदानीं स राजा (भ्स्व्_1.15:1)
*{ब्रह्मचारी}* - तद् इदानीं न जाने (भ्स्व्_1.15:2)
इह तया सह हसितम् इह तया सह कथितम् इह तया सह पर्युषितम् इह तया सह कुपितम् इह तया सह शयितम् इत्य् एवं तं विलपन्तं राजानम् अमात्यैर् महता यत्नेन तस्माद् ग्रामाद् गृहीत्वापक्रान्तम् (भ्स्व्_1.15:3)
ततो निष्क्रान्ते राजनि प्रोषितनक्षत्रचन्द्रम् इव नभो ऽरमणीयः संवृत्तः स ग्रामः (भ्स्व्_1.15:4)
ततो ऽहम् अपि निर्गतो ऽस्मि (भ्स्व्_1.15:5)
*{तापसी}* - सो खु गुणवन्तो णाम राआ जो आअन्तुएण वि इमिणा एव्वं पसंसीअदि (भ्स्व्_1.15:6)
[स खलु गुणवान् नाम राजा य आगन्तुकेनाप्य् अनेनैवं प्रशस्यते । ]
*{चेटी}* - भट्टिदारिए किं णु खु अवरा इत्थिआ तस्स हत्थं गमिस्सदि (भ्स्व्_1.15:7)
[भर्तृदारिके किन् नु खल्व् अपरा स्त्री तस्य हस्तं गमिष्यति । ]
*{पद्मावती}* -
{आत्मगतम्} मम हिअएण एव्व सह मन्तिदं (भ्स्व्_1.15:8)
[मम हृदयेनैव सह मन्त्रितम् । ]
*{ब्रह्मचारी}* - आपृच्छामि भवन्तौ (भ्स्व्_1.15:9)
गच्छामस् तावत् (भ्स्व्_1.15:10)
*{उभौ}* - गम्यताम् अर्थसिद्धये (भ्स्व्_1.15:11)
*{ब्रह्मचारी}* - तथास्तु (भ्स्व्_1.15:12)
{निष्क्रान्तः (भ्स्व्_1.15:13)}
*{यौगन्धरायणः}* - साधु अहम् अपि तत्रभवत्याभ्यनुज्ञातो गन्तुम् इच्छामि (भ्स्व्_1.15:14)
*{काञ्चुकीयः}* - तत्रभवत्याभ्यनुज्ञातो गन्तुम् इच्छति किल (भ्स्व्_1.15:15)
*{पद्मावती}* - अय्यस्स भैणिआ अय्येण विना उक्कण्ठिस्सिदि (भ्स्व्_1.15:16)
[आर्यस्य भगिनिकार्येण विनोत्कण्ठिष्यते । ]
*{यौगन्धरायणः}* - साधुजनहस्तगतैषा नोत्कण्ठिष्यति (भ्स्व्_1.15:17)
{काञ्चुकीयम् अवलोक्य} गच्छामस् तावत् (भ्स्व्_1.15:18)
*{काञ्चुकीयः}* - गच्छतु भवान् (भ्स्व्_1.15:19)
पुनर्दर्शनाय (भ्स्व्_1.15:20)
*{यौगन्धरायणः}* - तथास्तु (भ्स्व्_1.15:21)
{निष्क्रान्तः (भ्स्व्_1.15:22)}
*{काञ्चुकीयः}* - समय इदानीम् अभ्यन्तरं प्रवेष्टुम् (भ्स्व्_1.15:23)
*{पद्मावती}* - अय्ये वन्दामि (भ्स्व्_1.15:24)
[आर्ये वन्दे । ]
*{तापसी}* - जादे तव सदिसं भत्तारं ळभेहि (भ्स्व्_1.15:25)
[जाते तव सदृशं भर्तारं लभस्व । ]
*{वासवदत्ता}* - अय्ये वन्दामि दाव अहं (भ्स्व्_1.15:26)
[आर्ये वन्दे तावद् अहम् । ]
*{तापसी}* - तुवं पि ऐरेण भत्तारं समासादेहि (भ्स्व्_1.15:27)
[त्वम् अप्य् अचिरेण भर्तारं समासादय । ]
*{वासवदत्ता}* - अणुग्गहीद ह्मि (भ्स्व्_1.15:28)
[अनुगृहीतास्मि । ]
*{काञ्चुकीयः}* - तद् आगम्यताम् (भ्स्व्_1.15:29)
इत इतो भवति (भ्स्व्_1.15:30)
सम्प्रति हि
खगा वासोपेताः सलिलम् अवगाढो मुनिजनः प्रदीप्तो ऽग्निर् भाति प्रविचरति धूमो मुनिवनम् &
परिभ्रष्टो दूराद् रविर् अपि च संक्षिप्तकिरणो रथं व्यावर्त्यासौ प्रविशति शनैर् अस्तशिखरम्
मूल पाठ: Svapnavāsavadatta · Data entry Matthias Ahlborn · GRETIL (Göttingen) · CC BY-NC-SA 4.0