भाषा

ENहिગુ
ग्रंथ पाठ

Svacchandatantra · अध्याय 7

7.1

क्रिया ज्ञाता मया देव त्वत्प्रसादान्महेश्वर
कालांशकं च देवेश कथयस्व प्रसारतः ॥

7.2

कालो द्विधात्र विज्ञेयः सौरश्चाध्यात्मिकः प्रिये
सुवारकरणे लग्ने सुयोगे सुदिने प्रिये ॥

7.3

तेजो ऽपचयराशौ तु दक्षिणायनमुत्तरम्
ग्रहणं चन्द्रसूर्याभ्यां कालश्च ऋतवस्तथा ॥

7.4

पक्षो मासश्च वेला वि षुवद्राश्यन्तरं तथा
पुण्यापुण्योदयो देवि सौर एष प्रकीर्तितः ॥

7.5

आध्यात्मिकं पुनर्देवि कथयामि निबोध मे
षाट्कोशिकस्तु यो देहो भूततन्मात्रसंयुतः ॥

7.6

स मनोबुद्ध्यहङ्कार बुद्धिकर्मेन्द्रियैर्गुणैः
सर्वतत्त्वैस्तथा देवैः समधिष्ठितविग्रहः ॥

7.7

तत्रात्मा प्रभुशक्तिश्च वायुर्वै नाडिभिश्चरन्
नाभ्यधोमेढ्रकन्दे च स्थिता वै नाभिमध्यतः ॥

7.8

तस्माद्विनिर्गता नाड्यस् तिर्यगूर्ध्वमधः प्रिये
चक्रवत् संस्थितास्तत्र प्रधाना दश नाडयः ॥

7.9

द्वासप्ततिसहस्राणि नाड्यस्ताभ्यो विनिर्गताः
पुनर्विनिर्गताश्चान्या आभ्यो ऽप्यन्याः पुनः पुनः ॥

7.10

यावत्यो रोमकोट्यस्तु तावत्यो नाडयः स्मृताः
यथा पर्ण पलाशस्य व्याप्तं सर्वत्र तन्तुभिः ॥

7.11

शरीरं सर्वजन्तूनां तद्वद्व्याप्तं तु नाडिभिः
मारुतापूरिताः सर्वा आत्मशक्तिचराः सदा ॥

7.12

पृथग्वृत्तिप्रभेदेन भिन्नाश्चारप्रभेदतः
चारवृत्तिप्रभेदेन संज्ञाभेदो वरानने ॥

7.13

नाडिनां चैव वायूनां भेदो ज्ञेयः सहस्रशः
प्रधाना दश याः प्रोक्ता नाडयश्च वरानने ॥

7.14

तासां मध्ये तु देवेशि वायवो ये व्यवस्थिताः
नाडीनां चैव वायूनां संज्ञावृत्तीर्निबोध मे ॥

7.15

इडा च पिङ्गला चैव सुषुम्ना च तृतीयका
गान्धारी हस्तिजिह्वा च पूषा चैव यशस्विनी ॥

7.16

अलम्बुसा कुहूश्चैव शंखिनी दशमी स्मृता
एताः प्राणवहाः प्रोक्ताः प्रधाना दश नाडयः ॥

7.17

प्राणो ऽपानः समानश्च उदानो व्यान एव च
नागः कूर्मो ऽथ कृकरो देवदत्तो धनञ्जयः ॥

7.18

वायवो नाडयश्चैव चक्रवत्संस्थिताः प्रिये
तासु संचरतः सिद्धिं योगं चैव वरानने ॥

7.19

जपतश्च वरारोहे जपसिद्धिमवाप्नुयात्
दशानां तु परं देवि नाडीत्रयमुदाहृतम् ॥

7.20

बिन्दुनादात्मके द्वे वै मध्ये शक्त्यात्मिका स्मृता
हृच्चक्रे तु समाख्याताः साधकानां हितावहाः ॥

7.21

प्राणो वै चरते तासु अहोरात्रविभागतः
तथा ते कथयिष्यामि प्रविभज्य यथास्फुटम् ॥

7.22

प्रभुशक्तिसमाकृष्टा मरुत्प्राणात्मसंस्थिताः
त्रय एते ऽविभागेन संचरन्ते समन्ततः ॥

7.23

अध ऊर्ध्वं वहेद्यस्मात् सर्वनाडीः प्रवाहयन्
वृत्तिसंज्ञाप्रभेदेन वर्णरूपाण्यनेकधा ॥

7.24

द्वासप्ततिसहस्रेभ्यो जायन्ते दश वै प्रिये
कोटिधातो वरारोहे स एकः संव्यवस्थितः ॥

7.25

प्राणापानमयः प्राणो विसर्गापूरणं प्रति
नित्यमापूरयन्नेव प्राणिनामुरसि स्थितः ॥

7.26

प्राणनं कुरुते यस्मात् तस्मात् प्राणः प्रकीर्तितः
अहोरात्रगतिं प्राणे अधुना कथयामि ते ॥

7.27

तुटयः षोडश प्राणे पूर्वं हि कथिता मया
बाह्ये नैव तु कालेन ते लवाः परिकीर्तिताः ॥

7.28

ताभिश्चतसृभिर्देवि प्राणे यामो विधीयते
तैरेव प्रहरैर्देवि चतुर्भिस्तु दिनं भवेत् ॥

7.29

रात्रिश्चतुर्भिर्विज्ञेया अहोरात्रस्त्वतो ऽष्टभिः
शिवो धर्मेण हंसस्तु सूर्या हंसः प्रभान्वितः ॥

7.30

आत्मा वै हंस इत्युक्तः प्राणो हंससमन्वितः
तस्योदयात्कलेत्कालः ग्रहाणामुदयो भवेत् ॥

7.31

ऋक्षाणि राशयश्चैव तारास्त्वंशास्तथैव च
प्राणे वै उदयन्त्येते अहोरात्रेण सुव्रते ॥

7.32

अहोरात्रोदयस्त्यैव विभागं कथयामि ते
हृदयोर्ध्वे तु कण्ठाधो यावद्वै प्रवहेत् प्रिये ॥

7.33

अङ्गुलेन विहीने तु प्रथमः प्रहरः स्मृतः
द्वितीय ऊर्ध्वे विज्ञेयो मध्याह्नस्तालुमध्यतः ॥

7.34

अत्र होमो जपो ध्यानं कृतं वै मोक्षदं भवेत्
नासाग्र्यत्र्यङ्गुलोर्ध्वे तु यावत्प्राप्तस्तु सुव्रते ॥

7.35

प्रहरस्तु तृतीयो ऽसौ भवेद्वै वरवर्णिनि
शक्त्यन्ते च चतुर्थस्तु प्रहरो ऽहः प्रकीर्तितम् ॥

7.36

चतुर्थान्ते तु देवेशि प्राणसूर्यः सदास्तगः
ततो ऽस्तमयसन्ध्यात्र तुट्यर्धं तु भवेत् प्रिये ॥

7.37

तत्कालं तु विलम्ब्यैवं पुनश्चाधः प्रवर्तते
स च चन्द्रोदयो देवि रजनी च विधीयते ॥

7.38

पूर्वोक्तक्रमयोगेन यामेष्वेवं चरत्यसौ
तालुके चार्धरात्रस्तु पुनरेवं विधीयते ॥

7.39

हृत्पद्मं तु यदा प्राप्तः प्रभातसमयस्तदा
तुट्यर्धं तु वरारोहे पूर्वसंध्या भवेत्ततः ॥

7.40

तस्मात्समुदयश्चैव सूर्यस्य स भवेत्पुनः
पूर्ववत् क्रमयोगेन स चरेद्धि सदा शुभे ॥

7.41

वासरे तु चरेत्सूर्यो धारायां संचरेच्छशी
चन्द्रसूर्योदयो ह्येष मया ते परिकीर्तितः ॥

7.42

भौमाद्याश्च ग्रहा ह्येवं चरन्ति प्रविभागशः
प्राणे चाप्युदयन्त्येते प्रहरे प्रहरे प्रिये ॥

7.43

वेला वारो भवेद्यस्य स चरेत्प्रहरद्वयम्
राहुश्चरति सोमेन केतुश्चरति भास्वता ॥

7.44

ये ग्रहास्ते च वै नागा लोकपालाष्टकं च ते
मूर्तयश्चैव ते चाष्टाव् अष्टौ ते च गणेश्वराः ॥

7.45

ते च पञ्चाष्टका रुद्रास् तथा योगाष्टकाः परे
अनन्तादिशिखण्ड्यन्तास् ते च विद्येश्वराष्टकाः ॥

7.46

सकलाद्यानि तत्त्वानि स्थितानि परतस्त्विह
पूर्वोक्ता भैरवाश्चाष्टौ सर्वे ते च व्यवस्थिताः ॥

7.47

ग्रहादीन्समधिष्ठाय सर्वेषूदयकारकाः
राशिभिः सह नक्षत्रैस् त उद्यन्ति अहर्निशम् ॥

7.48

मध्याह्ने चार्धरात्रे च उदयो ऽभिजितो भवेत्
अभीप्सितं फलं तत्र साधकानां भवेदिह ॥

7.49

अहोरात्रविभागो ऽयम् एवं ते कथितो मया
अधुना पक्षमासांश्च वर्षाणि कथयामि ते ॥

7.50

आध्यात्मिकाहोरात्रेण बाह्ये काष्ठा विधीयते
मासेनाध्यात्मिकेनैव बाह्ये चैव कला भवेत् ॥

7.51

तत्र त्रिंशदहोरात्रा मासस्तु वरवर्णिनि
मासैद्वदशभिश्चैव बाह्ये ऽथ घटिका भवेत् ॥

7.52

शतानि त्रीण्यहोत्रात्राः षष्टिरेव तथाधिका
वर्षमेतत् समाख्यातं बाह्ये वै घटिका च सा ॥

7.53

घटिकाः षष्टिस्त्वहोरात्रे बाह्ये तु प्रवहन्ति वै
ता एवान्तरचारेण षष्टिः संवत्सराः स्मृताः ॥

7.54

प्राणसंख्यां पुनस्तेषु कथयाम्यधुना तव
षट् शतानि वरारोहे सहस्राण्येकविंशतिः ॥

7.55

अहोरात्रेण बाह्येन अध्यात्मं तु सरधिपे
प्राणसंख्या समाख्याता ज्ञातव्या साधकेन तु ॥

7.56

प्रणहंसे सदा लीनः साधकः परतत्त्ववित्
तस्यायं जप उद्दिष्टः सिद्धिमुक्तिफलप्रदः ॥

7.57

अधः प्रवहणे सिद्धिर् हृत्पद्मं यावदागतः
मुक्तिश्चैव भवेदूर्ध्वे परतत्त्वे तु सुव्रते ॥

7.58

मनो ऽप्यन्यत्र निक्षिप्तं चक्षुरन्यत्र पातितम्
यथा प्रवर्तते प्राणस् त्व् अयत्नादेव सर्वदा ॥

7.59

नास्योच्चारयिता कश्चित् प्रतिहन्ता न विद्यते
स्वयमुच्चरते हंसः प्राणिनामुरसि स्थितः ॥

7.60

मासवत्सरसंख्या तु एषा ते कथिता मया
चन्द्रसूर्योपरागं तु कथयामि ततः परम् ॥

7.61

अहोरात्रस्तु यः प्रोक्तः प्राणे ऽस्मिन्सुरसुन्दरि
स एव पक्षद्वितयं मासं च कथयामि ते ॥

7.62

तुट्यर्धं चाप्यधश्चोर्ध्वं विश्रमः परिकीर्तितः
मध्ये पञ्चदशोक्ता यास् तिथयस्ताः प्रकीर्तिताः ॥

7.63

प्रथमोदये तु हृत्पद्मात् तुट्यर्धं तु दिनं भवेत्
द्वितीये चैव तुट्यर्धे यदा चरति शर्वरी ॥

7.64

राशयो ग्रहनक्षत्राण्य् उदयन्ति यथाक्रमम्
अस्मिन्नेवमहोरात्रे पूर्ववच्च वरानने ॥

7.65

तुटिभिः पञ्चदशभिः पक्षः स तु विधीयते
तिथिच्छेदे ऋणं ज्ञेयं वृद्धौ चैव धनं भवेत् ॥

7.66

ऋणं चैव भवेत्कासो निःश्वासो धन उच्यते
कृष्णपक्षोर्ध्वचारेण संहारः संक्षयो भवेत् ॥

7.67

क्रूरकर्माणि वै तत्र कुर्वन्सिद्धिमवाप्नुयात्
शुभकर्माणि कृष्णे च न च सिद्ध्यन्ति सुव्रते ॥

7.68

शक्तिं वै विशति प्राणे या तुटिस्तु विधीयते
अमावस्या तु सा ज्ञेया कृष्णपक्षे वरानने ॥

7.69

शक्तेर्मध्योर्ध्वभागे तु तुट्यर्धं यत्प्रकीर्तितम्
पक्षसंधिस्त्वसौ ज्ञेयो ऽमावस्यार्धप्रतिपदा ॥

7.70

तिथिच्छेदेन वै तत्र सूर्यस्य ग्रहणं भवेत्
रविबिम्बान्तरे देवि चन्द्रबिम्बं तदा भवेत् ॥

7.71

तदन्तरे भवेद्राहुर् अमृतार्थी वरानने
अमृतं स्रवते चन्द्रो राहुश्च ग्रसते तु तम् ॥

7.72

पीत्वा त्यजति तद्लिम्बं तदा मुक्तः स उच्यते
आदित्यग्रहणं चैव लोके तदुपदिश्यते ॥

7.73

राहुरादित्यचन्द्रौ च त्रय एते ग्रहा यदा
दृश्यन्ते समवायेन तन्महाग्रहणं भवेत् ॥

7.74

स कालः सर्वलोकानां महापुण्यतमो भवेत्
तत्र स्नानं तथा दानं पूजाहोमजपादिकम् ॥

7.75

यत्कृतं साधकैर्देवि तदनन्तफलं भवेत्
तां चैवार्धतुटिं त्यक्त्वा शुक्लपक्षोदयो भवेत् ॥

7.76

शक्तिगर्भादधः सृष्टिस् तस्माद्वृद्धिः प्रजायते
तदारभ्य च कर्माणि शुभान्यभ्युदयानि च ॥

7.77

ध्यानमन्त्रादियुक्तस्य सिद्धिन्ते नात्र संशयः
प्राणहंसो यदा प्राप्तस् त्व् अधस्तां प्रथमां तुटिम् ॥

7.78

पूर्वमर्धं त्वहः प्रोक्तं तुट्यर्धमपरं निशा
राशयो ग्रह ऋक्साणि योगाश्च करणानि च ॥

7.79

पूर्ववत्क्रमयोगेन तान्युद्यन्ति त्वहर्निशम्
प्रतिपत्सा तु विज्ञेया चन्द्रश्चैककलो भवेत् ॥

7.80

द्वितीयायां द्वितीया तु वृद्धिमेति क्रमेण तु
तिथयश्चैवमारभ्य यावत्पञ्चदशी तुटि ॥

7.81

पौर्णमासी तु विज्ञेया तिथिर्वै साधकेन तु
तत्र पूजा जपो ध्यानं संपूर्णं सफलं भवेत् ॥

7.82

संपूर्णश्च भवेत्तस्यां चन्द्रो वै चारुलोचने
तस्याश्चार्धतुटिर्या तु पक्षसंध्या तु सा स्मृता ॥

7.83

तस्यार्धं पौर्णमासी तु प्रतिपदर्धेन संस्थिता
हृत्पद्मसंधिमध्ये तु सोमस्य ग्रहणं भवेत् ॥

7.84

आदित्येन विना लोके सोमग्रहणमुच्यते
तत्रैव च महत्पुण्यं ध्यानहोमजपादिभिः ॥

7.85

पक्षद्वये ऽपि देवेशि ग्रहणं चन्द्रसूर्ययोः
नानादिद्धिप्रदं ह्येतत् साधकस्याभियोगिनः ॥

7.86

मोक्षश्चैव पुनर्भद्रे पक्षद्वयसमुज्झितः
पक्षद्वयं परित्यज्य पूवोक्तकरणेन तु ॥

7.87

उन्मन्यन्ते स्थितो नित्यं परवृत्त्यवलम्बकः
परित्यज्य त्वधः सर्वं ध्यानमास्थाय योजयेत् ॥

7.88

तस्य मुक्तिर्न संदेहस् त्व् अन्यथा सिद्धिभाग्भवेत्
पक्षद्वये ऽपि ग्रहणं भवेद्वै सर्वदेहिनाम् ॥

7.89

एवमेतत्समाख्यातं यावदायुर्वरानने
अत्रैवाध्यात्माहोरात्रे त्व् अथाब्दोदय उच्यते ॥

7.90

हृत्पद्मादूर्ध्वपर्यन्तं राशयः षड् व्यवस्थिताः
अङ्गुलैः षड्भिरेकैको हृत्पद्माद्याव शक्तितः ॥

7.91

अङ्गुले अङ्गुले ह्यत्र तिथयः पञ्च संस्थिताः
तस्याप्यर्धं दिनं पूर्वम् अपरार्धं निशा भवेत् ॥

7.92

षट्पञ्चकास्तिथीनां ये ते ःओरात्रास्तु मासिकाः
त्रिंशता तैरहोरात्रैर् द्विपक्षो मास उच्यते ॥

7.93

मासि राश्युदये ह्येष अधोर्ध्वप्राणसंचरे
हृदयादुदयस्थानात् संक्रान्तिर्मकरे स्थिता ॥

7.94

षडङ्गुलान्यधस्त्यक्त्वा कुम्भे संक्रमते पुनः
कण्ठोर्ध्वे द्व्यङ्गुलं त्यक्त्वा मीने संक्रमते पुनः ॥

7.95

गलोर्ध्वाद्यावत्ताल्वन्तं त्यक्त्वा मेषे ऽथ संक्रमेत्
नासान्तं यावत्संक्रान्तिर् अङ्गुलानि षडेव हि ॥

7.96

एषा वै विषुसंक्रान्तिर् उत्तरे संव्यवस्थिता
जपहोमार्चनध्यानान् महाभ्युदयकारिका ॥

7.97

नासाग्रं तु परित्यज्य प्राणहंसो वृषे चरेत्
षडङ्गुलानि संत्यज्य संक्रमेन्मिथुने पुनः ॥

7.98

शक्त्यन्तं यावदध्वानं संक्रान्तिर्मिथुने स्मृता
मकराच्च समारभ्य मिथुनान्तं च सुव्रते ॥

7.99

उत्तरयणमत्रैतद् ऐहिकीसिद्धिवर्जितम्
स्नानं ध्यानं तथा दानं पूजाहोमजपादिकम् ॥

7.100

साधकाद्यैः कृतं यच्च सहस्त्रानेकधा भवेत्
इह जन्मनि नाप्नोति परत्रैवोपतिष्ठते ॥

7.101

दिनानि तत्र वर्धन्ते मकरान्मिथुनान्तिकम्
तत्काले संहरेद्वीर्यं जगत्यस्मिंश्चराचरे ॥

7.102

हंसो रश्मिभिराकृष्य गर्भस्थं कारयेत्तु तम्
गर्भस्थानेकधारूपं यद्गृहीतं पुरातनम् ॥

7.103

कर्कटादेः समारभ्य सर्वं वर्षति तत्पुनः
तस्मादारभ्य मकराद् ध्यानहोमजपादिकम् ॥

7.104

परलोकनिमित्ताय तदनन्तफलं भवेत्
पुरश्चर्यानिमित्ताय मन्त्रग्रहव्रतं च यत् ॥

7.105

मीनादावारभेत्सर्वं मन्त्रसिद्ध्यर्थमात्मनः
बाह्ये ऽपि तरवो लोके ऋतुषट्कसमीरितम् ॥

7.106

कुसुमानन्दमायान्ति कुसुमायुधदीपकम्
मन्त्राः कालानुरूपेण व्रतचर्यादिनेरिताः ॥

7.107

ज्ञेयबोधप्रदीप्ताश्च सिद्धिमुक्तिप्रसाधकाः
अध्यात्मशब्दरूपात्मा षड्रसास्वादनेरितः ॥

7.108

हंसबोधप्रदीप्तस्तु गलके मीनमाश्रितः
शब्दसंवेदनं तस्य स्फुटं तत्र भवेद्यतः ॥

7.109

तदारभ्य जपात्तस्य सर्वमेव प्रवर्तते
मिथुनान्तं च देवेशि ततः सिद्धिः प्रजायते ॥

7.110

सहंसो बिन्दुशक्तिस्थः सिद्धिद्वारैरधोमुखः
कर्कटादौ स वर्षेत्तु तुलान्तं तालुकान्तरे ॥

7.111

कण्ठादधस्ततो देही हृत्पद्मात्सर्वतो व्रजेत्
तस्मादिहात्मसिद्ध्यर्थं पुष्ट्यर्थं चैव साधयेत् ॥

7.112

दक्षिणायनजे काले यस्मात्सृष्टिः प्रजायते
शक्त्यधो हृदये हंसः संक्रमेत्कर्कटे प्रिये ॥

7.113

षडङ्गुलानि संत्यज्य सिंहे वै संक्रमेत्पुनः
षडङ्गुलैः पुनस्त्यक्तैः कन्यां संक्रमते पुनः ॥

7.114

नासिकाग्रात्तु ताल्वन्तं त्यक्त्वैवं विषुवद्भवेत्
तुलासंक्रान्तिरेषोक्ता दक्षिणं विषुवद्भवेत् ॥

7.115

साधनं यत् कृतं तत्र इह जन्मनि कामदम्
मृत्योर्जयं तथा शान्तिं पुष्टिं तस्मात्समारभेत् ॥

7.116

तस्मात्स षड्रसाहारो गलाधः प्रीणयेत्तनुम्
षडङ्गुलानि त्यक्त्वा तु वृश्चिके क्रमते पुनः ॥

7.117

कण्ठोर्ध्वं द्व्यङ्गुलं त्यक्त्वा कण्ठाधश्चतुरङ्गुलम्
वृश्चिकं तु परित्यज्य धन्विसंक्रान्तिरुच्यते ॥

7.118

षडङ्गुलादधस्तात्तु धन्विस्थश्चरते हृदि
हृत्पद्मान्तं तु वै हंसश् चरित्वा ऊर्ध्वगोदयः ॥

7.119

मकरादिषु संक्रान्तौ द्वादशैवं चरेत्सदा
अमुनोक्तक्रमेणैव आयुर्वै सर्वदेहिनाम् ॥

7.120

ऐहिकामुष्मिकी सिद्धिर् अधमा मध्यमोत्तमा
अयनद्वयमाख्यातं मोक्षसिद्धिर्द्वयोज्झिता ॥

7.121

अयनद्वयपर्यन्त उन्मन्यन्ते सदा स्थितः
तत्रस्थो वै जपध्यानान् मोक्षसिद्धिमवाप्नुयात् ॥

7.122

मोक्षं गत्वा तु नागच्छेत् प्रतिज्ञा भैरवस्य तु
अस्मिन्नब्दोदये भूयो द्वादशाब्दोदयं शृणु ॥

7.123

चैत्रसंवत्सरे यस्मान् मासानामुदयो भवेत्
तदादि साधकैस्तस्मात् कर्तव्यं मन्त्रसाधनम् ॥

7.124

द्वादशाब्दः स विज्ञेयश् चैत्रमासाद्वरानने
लक्षणं तस्य वक्ष्यामि प्राणो ऽस्मिन्प्रविभागशः ॥

7.125

तत्र संवत्सरेणैव अमुनोक्तेन सुव्रते
अहोरात्रस्तु यः प्रोक्तो द्वादशांशं भजेत्प्रिये ॥

7.126

द्वादश ते अहोरात्रा द्वादशाब्दे भवन्ति वै
पञ्चभिस्तांस्तु संगुण्य द्वादशाब्द ऋतुर्भवेत् ॥

7.127

तमेव द्विगुणं कृत्वा कालस्तु स विधीयते
त्रिगुणेनैतदयने वत्सरः षङ्गुणेन तु ॥

7.128

संक्रान्तयो द्वादशात्र यद्वदब्दे प्रकीर्तिताः
द्वादशाब्दोदये प्राणे वत्सरास्ते प्रकीर्तिताः ॥

7.129

द्वादशाब्दे त्वहोरात्राः तेषां सङ्ख्यां निबोध मे
सहस्राणि तु चत्वारि त्रिशती विंशतिस्तथा ॥

7.130

द्वादशाब्दोदये देवि प्राणे ऽस्मिन्कथिता मया
षष्ट्यब्दोदयमत्रैव पुनश्च कथयामि ते ॥

7.131

आनन्दाद्यास्तु ते ज्ञेयाः षष्ट्यब्दास्तु वरानने
ते चाध ऊर्ध्वगे प्राणे एकस्मिन्सुरसुन्दरि ॥

7.132

चरन्ति प्रविभागेन तथा ते कथयाम्यहम्
आनन्दप्रभृतेर्देवि मन्त्रमाराधयेत्तु यः ॥

7.133

तस्यानन्दस्तु देवेशि मन्त्रेण सह जायते
द्वादशाब्दे त्वहोरात्रं पञ्चधा भेदयेच्च तम् ॥

7.134

षष्ट्यब्दे ते त्वहोरात्राः पञ्चैव परिकीर्तिताः
ते वै षङ्गुणितास्तत्र मास एकः प्रकीर्तितः ॥

7.135

तैश्च द्वादशभिर्देवि वर्षमेकं विधीयते
अङ्गुले तु सपञ्चांशे मानमेतत्प्रकीर्तितम् ॥

7.136

षडङ्गुलैस्तु पञ्चाब्दाः षष्ट्यब्द उदयन्ति ते
हृत्पद्माद्याव शक्त्यूर्ध्वं त्रिंशदब्दोदयो भवेत् ॥

7.137

शक्त्यधो यावद्धृत्पद्मं त्रिंशदब्दोदयो भवेत्
षष्ट्यब्दे ये त्वहोरात्राः सङ्ख्यां तेषु वदाम्यहम् ॥

7.138

विंशतिस्तु सहस्राणि सहस्रं षट्शताधिकम्
अहोरात्रास्तु षष्ट्यब्दे सङ्ख्यातास्तु वरानने ॥

7.139

षष्ट्यब्दोदय आख्यातः प्राण एकत्र ते मया
चन्द्रसूर्योपरागे च पक्षमासायनेषु च ॥

7.140

युगादिषु युगान्तेषु यच्च संवत्सरे ऽप्यथ
वर्षद्वादशके चैव षष्ट्यब्दे ऽथ वरानने ॥

7.141

स्नानदानेन यज्ञैश्च पूजाहोमजपेन च
ज्ञानयोगादिभिश्चैव बाह्ये काले तु यत्कृतम् ॥

7.142

अमुनोक्ते वरारोहे तत्फलं लभते महत्
प्राणहंसगतिं चारे ज्ञात्वैकस्मिंस्तु तद्भजेत् ॥

7.143

स्वसंवेद्यो भवेच्चारो नाडीचारजयात्स्फुटम्
अथवा स जपादेवम् अत्यर्थमुपबृंहितः ॥

7.144

मन्त्री योगं विजानाति ज्ञात्वा सर्वज्ञतां व्रजेत्
पुनरेव प्रवक्ष्यामि नाडित्रयविभागतः ॥

7.145

दक्षिनोत्तरसंक्रान्तौ विषुवच्चारतस्तथा
यथा चरत्यसौ हंसो जगत्यस्मिंश्चराचरे ॥

7.146

अन्तःस्थः कालरूपेण कलाभिः कलयञ्जगत्
नाडित्रयकृताधारो मार्गत्रयव्यवस्थितः ॥

7.147

गुणत्रयसमाविष्टस् त्रिधावस्थाव्यवस्थितः
कारणैः षड्भिराक्रान्तः शक्तित्रितयसंयुतः ॥

7.148

इच्छाज्ञानक्रियाविद्धः सोमसूर्याग्निमध्यगः
दक्षनासापुटे चैव नाडी वै पिङ्गला स्मृता ॥

7.149

इडा चैव तु वामेन सुषुम्ना मध्यतः स्थिता
दक्षिणे देवमार्गस्तु पितृमार्गस्तथोत्तरे ॥

7.150

मध्यमः शिवमार्गस्तु तत्र गत्वा न जायते
दक्षिणे सत्त्वजाग्रत्स्थः स्वप्नस्थो वामतो रजः ॥

7.151

मध्ये तमस्तु विज्ञेयं सुषुप्तावस्थ एव च
ब्रह्मेश्वरश्च दक्षस्थो वामे विष्णुसदाशिवौ ॥

7.152

मध्ये रुद्रशिवौ प्रोक्तौ सर्वातीतः परः शिवः
ज्येष्ठाज्ञाने च दक्षे च क्रिया वामा तथोत्तरे ॥

7.153

रौद्री चेच्छा च मध्यस्था परा शक्तिः परापरा
दक्षिणो तु स्थितः सूर्यो वामे सोमो विराजते ॥

7.154

पाके प्रकाशकत्वे च मध्यस्थश्चैव पावकः
पाचयेत्सर्वपाकं हि सोमादिगुणसम्भवम् ॥

7.155

प्रकाशयेत्स्वसामर्थ्यात् परतत्त्वमनामयम्
राशयश्च ग्रहाः सर्वे ऋक्षयोगादयश्च ये ॥

7.156

चन्द्रसूर्यपथेनैव ते चरन्त्यनुपूर्वशः
सूर्यसोमौ च ते सर्वे भुञ्जते क्रमशः प्रिये ॥

7.157

सोमसूर्यात्मकास्ते वै पथित्रयव्यवस्थिताः
वायति तपति सूर्यः सोमो वर्षति चामृतम् ॥

7.158

सोमसूर्यात्मकं यस्माज् जगत्स्थावरजङ्गमम्
सौरो दक्षिणमार्गस्तु उत्तरायणसंज्ञितः ॥

7.159

वामः सौम्यस्तु यः प्रोक्तस् तत्र वै दक्षिणायनम्
सोमसूर्यात्म विषुवत् पुटद्वयविनिःसृतम् ॥

7.160

उदक्संक्रान्तयः पञ्च पञ्च वै दक्षिणायने
दक्षिणोत्तरयोर्मध्ये संक्रान्त्या विषुवद्द्वयम् ॥

7.161

सौरश्च दक्षिणो मार्गस् त्व् अभिचारप्रसिद्धिदः
आप्यायने तथा पुष्टौ शान्तिके सौम्य उत्तरः ॥

7.162

दक्षिणादुत्तरं याति उत्तरद्दक्षिणं यदा
दक्षिणोत्तरसंक्रान्तिः सा चैवं संविधीयते ॥

7.163

दक्षिणस्यां यदा नाड्यं संक्रामेत्तु यदोत्तरम्
यावदर्धं तु तत्रस्थं मध्येनोत्तरतो वहेत् ॥

7.164

तावत्तद्विषुवत्प्रोक्तम् उत्तरं तूत्तरायणे
उत्तराद्दक्षिणायां तु संक्रामन्स वरानने ॥

7.165

यावदर्धं वहेत्तत्र अर्धं दक्षिणतो वहेत्
विषुवद्दक्षिणं तावद् दक्षिणायनजं प्रिये ॥

7.166

तत्र पूजा जपो होमो यत्कृतं मुक्तिदं भवेत्
ध्यानयोगेन दीक्षायां तत्स्थो वै मोचयेद्गुरुः ॥

7.167

बाह्ये चैव त्वहोरात्रे अध्यात्मं तु वरानने
चतुर्विंशतिसंक्रान्तीः प्राणहंसस्तु संक्रमेत् ॥

7.168

अहनि द्वादश प्रोक्ता रात्रौ वै द्वादश स्मृताः
पूर्वाह्णे विषुवत्त्वेकं मध्याह्ने तु द्वितीयकम् ॥

7.169

तृतीयं चापराह्णे वै अर्धरात्रे चतुर्थकम्
चतुर्धा विषुवत्प्रोक्तम् अहोरात्रेण मुक्तिदम् ॥

7.170

चतुर्विंशतिसंक्रान्त्यः समधातोः स्वभावतः
शतानि नव वै हंस एकामेकां वहेत्सदा ॥

7.171

एतन्मानं समाख्यातं अन्यथा प्रवहेद्यदा
इष्टं चैवाप्यनिष्टं च तदा संसूचयेत्तु सः ॥

7.172

आत्मार्थं वा परार्थं वा तस्माद्योगी निरूपयेत्
पूर्वोदये तु संप्राप्ते भास्करस्य वरानने ॥

7.173

जीवितं मरणं चैव तदारभ्य विचारयेत्
सुसंयतमना योगी वीरो योगासनस्थितः ॥

7.174

संस्मरन्नात्मजं प्राणं सुषुम्नान्तर्गतं प्रिये
सुप्रशान्तस्तदा तिष्ठेत् प्राणैकगतमानसः ॥

7.175

प्राणसंक्रान्तिकालो वै पिङ्गलैकस्थितो वहेत्
प्रवाहे विषुवद्देवि ज्ञात्वा कालं समादिशेत् ॥

7.176

एकाब्दं जीवितं ज्ञेयम् अहोरात्रेण सुव्रते
अब्दद्वयं स जीवेत्तु अहोरात्रद्वयेन तु ॥

7.177

त्र्यब्दं तु त्रिभिरेवात्र चतुर्भिश्चतुरब्दकम्
पञ्चाब्दं पञ्चदिवसैः षड्भिः षड्वर्षमेव च ॥

7.178

सप्तभिः सप्त वर्षाणि जीवेदष्टाष्टभिर्दिनैः
नवभिर्नववर्षाणि दशभिर्दश एव च ॥

7.179

दिनैकादशकेनैव वर्षैकादशकं प्रिये
दिनैर्द्वादशभिर्योगी जीवेद्वर्षाणि द्वादश ॥

7.180

सप्तयामप्रवाहेण षण्मासानथ जीवति
प्रहरान्षड्वहेद्यस्य मासांस्त्रीन्वै स जीवति ॥

7.181

पञ्चप्रहरवाहेन द्वयर्धमासायुर्व सः
चतुर्भिः प्रहरैदेवि मासमेकं स जीवति ॥

7.182

प्रहरत्रयवाहेन मासार्धं चैव जीवति
प्रहरद्वयं वहेद्यस्य दिनान्यष्टौ स जीवति ॥

7.183

चतुरः प्रहराञ्जीवेत् प्रहरं तु वहेद्यदा
प्रहरार्धं वहेद्यस्य स जीवेत्प्रहरद्वयम् ॥

7.184

सद्यो मृत्युर्भवेत्तस्य यस्य हंसस्त्रिमार्गगः
यदारभ्य निरूप्येत प्राणे वै कालमीश्वरम् ॥

7.185

मासः पक्षो दिनं वर्षं तदहः प्रभृति प्रिये
संलक्ष्यैवं प्रयत्नेन तत्काले निश्चयो भवेत् ॥

7.186

उत्तरायणजे काले एवं ते कथितं मया
अयुक्तस्यापि च प्राणे मृत्युज्ञानं निबोध मे ॥

7.187

कर्णरन्ध्रकृताङ्गुष्ठो घोषं न शृणुते यदा
मरणं तस्य देवेशि षण्मासेन विनिर्दिशेत् ॥

7.188

घोषमध्ये परं शब्दं चीरवाक्चिञ्चिनीरवम्
मासमेकं स जीवेत्तु न शृणोति यदा प्रिये ॥

7.189

उत्पाटं चैव काणं च मृत्युयोगं च मे शृणु
संक्रान्तिपञ्चकं प्राणो मुखरन्ध्रे वहेद्यदा ॥

7.190

तमुत्पाटं वदेद्योगं स्थानात्स्थानान्तरं व्रजेत्
वित्तनाशस्तथोद्वेगो रोगवृद्धिश्च जायते ॥

7.191

सुहृद्गृहविनाशश्च तेजोहानिश्च जायते
दक्षिणे पुट एकस्मिन् दक्षिणायनवर्जिते ॥

7.192

संक्रान्त्यष्टकवाहेन काणयोगो भवेद्धि सः
भगन्धरो ऽनुग्रन्थश्च नेत्ररोगश्च कामला ॥

7.193

शूलं विस्फोटिका दुःखम् उरोदोषा भवन्ति च
वामनासापुटेनैव संक्रान्तीश्च त्रयोदश ॥

7.194

ज्वरः शिरो ऽर्तिः शूलं च अर्शासि स्तम्भ एव च
मूत्रकृच्छ्रं प्रमेहश्च पाण्डुरोगश्च जायते ॥

7.195

इडास्थः श्लेष्मणा व्याधिं प्रकोपयति सुव्रते
यस्मिंश्चारे निरूप्येत तत्कालदिवसे परे ॥

7.196

व्याधिभिः पीड्यते सर्वैर् वामवामेतरेतरे
अथान्यत्स्पर्शविज्ञानं नासाधस्तात्तथोपरि ॥

7.197

ऊर्ध्वेन स्पृशतश्चोर्ध्वं रुग्दोषाः प्राक्प्रचोदिताः
वाचाक्रोशाभिभवनं दक्षिणेन वहेद्यदा ॥

7.198

मध्ये मध्यपुटस्पर्शी पराभिभवतां व्रजेत्
इतश्चेतश्च बहुधा संक्रान्त्येका वहेद्यदा ॥

7.199

पूजनं बहुसंमानं लाभस्तस्य भवेत्तदा
मन्दचारे सुषुम्नायां प्राणहंसो वहेद्यदा ॥

7.200

भूलाभो धर्म ऐश्वर्यं भवेच्चात्र प्रियागमः
द्वादशैव तु संक्रान्तीर् वहेद्विषुवतैकतः ॥

7.201

तदैकवत्सरेणैव मरणं तु समादिशेत्
ह्रसेत्संक्रान्तिरेकैका मास एको ह्रसेत्तदा ॥

7.202

संक्रान्त्येका वरारोहे त्रिंशत्प्राणक्षयोदया
दिने दिने वहेद्बाह्ये यावत्त्रिंशद्दिनानि तु ॥

7.203

मासान्ते तु भवेन्मृत्युः सद्य एव वरानने
मृत्युयोगः समाख्यातो मया ते वरवर्णिनि ॥

7.204

अब्दं मासं तथा पक्षं तिथिं वेलां यदाभ्यसेत्
यत्कालात्तु समारभ्य तत्कालं तु समादिशेत् ॥

7.205

इडासुषुम्नामार्गेण प्राणचारं विदुर्बुधाः
दक्षिणायनजे काले एवं ते कथितं शुभम् ॥

7.206

एवं शरीरजे काले मृत्युं चाशुभमेव च
ज्ञात्वा योगी जयेन्मृत्युम् अशुभान्यप्यशेषतः ॥

7.207

ध्यात्वा कालेशस्वच्छन्दं हंसं वा सकलेश्वरम्
नासिकारन्ध्रमार्गस्थः स सृजेत्संहरेज्जगत् ॥

7.208

तत्रस्थः कलयेत्सर्वं सर्वभूतेष्ववस्थितः
तत्स्थं ध्यात्वा जयेन्मृत्युं नाकलस्थं कलेत्प्रभुः ॥

7.209

ध्यानयुक्तस्य षण्मासात् सर्वज्ञत्वं प्रवर्तते
कालत्रयं विजानाति कालयुक्तस्तु योगवित् ॥

7.210

कालहंसं स तु जपन् ध्यायन्वापि महेश्वरि
स भवेत्कालरूपी वै स्वच्छन्दः कालवच्चरेत् ॥

7.211

हतमृत्युर्जरां त्यक्त्वा रोगैः सर्वभयोज्झितः
विज्ञानं श्रवणं दूरान् मननं चावलोकनम् ॥

7.212

सर्वैश्वर्यगुणावाप्तिर् भवेत्कालजयात्सदा
दक्षनासापुटे ध्यात्वा ब्राह्मैश्वर्यमवाप्नुयात् ॥

7.213

तदायुस्तत्समं वीर्यं भूतकालं च वेत्त्यतः
भविष्यज्ज्ञो भवेद्वामे विष्णुतुल्यबलश्च सः ॥

7.214

तत्समं चैतदैश्वर्यं तदायुर्योगिराड्भवेत्
भूतं भव्यं भविष्यच्च सर्वं जानाति मध्यतः ॥

7.215

नित्यं वै ध्यानयोगेन रुद्रस्य समतां व्रजेत्
आयुषा बलवीर्येण रूपैश्वर्येण तत्समः ॥

7.216

ब्रह्मणः परभावेन ऐश्वरं पदमाप्नुयात्
विष्णोः सदाशिवैश्वर्यं परभावादवाप्नुयात् ॥

7.217

रुद्रस्य यः परो भावो ध्यात्वा तं तु शिवो भवेत्
एवं मृत्युजयः ख्यातः अमृतं ध्यायतो जयः ॥

7.218

नाडिभिन्नालरन्ध्रस्थं हृत्पद्मं षोडशच्छदम्
ध्यात्वा सितं सुविकचं कलाषोडशकान्वितम् ॥

7.219

संपूर्णावयवं चन्द्रं कर्णिकाकारविग्रहम्
तन्मध्ये चिन्त्यमात्मानं शुद्धस्फटिकनिर्मलम् ॥

7.220

श्रीरामृतार्णवावस्थ कल्लोलामृतपूरितम्
उपरिष्टाद्द्वितीयाब्जं शक्तामृतमहोदधौ ॥

7.221

तच्चाधो मुखपद्मं तु परिपूर्णेन्दुकर्णिकम्
तन्मध्ये चिन्तयेद्धंसम् अधो बिन्दुशिखान्वितम् ॥

7.222

वर्षन्तममृतं दिव्यं समन्तात्संविचिन्तयेत्
आत्मोर्ध्वरन्ध्रमार्गेण प्रविष्टं तच्च चिन्तयेत् ॥

7.223

सितं सुबहुलं सान्द्रम् अमृतं मृत्युनाशनम्
तेनाप्लावितमात्मानं पूर्यमाणं विचिन्तयेत् ॥

7.224

पद्मनालनिबद्धैश्च नाडीरन्ध्रमुखैः सदा
अमृतापूरितं देहं सर्वमेव विचिन्तयेत् ॥

7.225

एवं वै नित्ययुक्तात्मा अमृतेशसमो भवेत्
व्याधीन्मृत्युं जरां त्यक्त्वा क्रीडते त्वणिमादिभिः ॥

7.226

एवं तस्यामृतध्यानात् कालमृत्युजयो भवेत्
अथवा परतत्त्वस्थः सर्वकालैर्न बाध्यते ॥

7.227

चिन्तयेत्परमं तत्त्वं कालचारविवर्जितम्
कलाकलङ्कनिर्मुक्तं निष्कलं परमं पदम् ॥

7.228

निष्कलं चात्मतत्त्वं तु कलङ्को देह उच्यते
संयुक्तः कारणैः षड्भिः सर्वतत्त्वसमन्वितः ॥

7.229

वर्णो बिन्दुस्तथा नादो व्यापिनीशक्तिसंयुतः
समनावधिपर्यन्तः कलङ्काधार उच्यते ॥

7.230

आधेयः परमो ह्यात्मा तत्पराप्युन्मना स्मृता
तस्याश्चान्ते परं तत्त्वं सकलाकलवर्जितम् ॥

7.231

व्यापकं सर्वतोभद्रं सर्वान्तः सर्वतोमुखम्
पञ्चपञ्चकतत्त्वस्थम् अष्टादशगुणान्वितम् ॥

7.232

यद्यस्मिंस्तु परं वेत्ति तदा मुच्येत बन्धनात्
कारणानि च मन्त्राश्च निवृत्त्याद्याः कलास्तथा ॥

7.233

बिन्दुश्चैवार्धचन्द्रश्च निरोधी नाद ऊर्ध्वर्गः
शक्तिश्च व्यापिनी चैव समनात्मा तथोन्मना ॥

7.234

पञ्चपञ्चकमेतद्धि कथितं ते वरानने
तत्त्वान्येव तु षट्त्रिंशत् गुणांश्चैव निबोध मे ॥

7.235

अहंकारो धीर्मनश्च इन्द्रियार्थास्तथैव च
ग्रहणं स्पर्श आधारः शक्तिश्चैवाष्टमी स्मृता ॥

7.236

एते चाष्टौ गुणाः अष्टौ भैरवा भैरवाव्ष्टकम्
प्राणहंसस्तथा शक्तिः गुणा अष्टादश त्विमे ॥

7.237

एतेषु तत्परं तत्त्वम् उच्चारालम्बनादृते
अक्षराक्षरनिर्मुक्तं परं तत्त्वमनक्षरम् ॥

7.238

अक्षरेषु कुतो मोक्ष आकाशो कुसुमं कुतः
यावदुच्चार्यते वाचा यावल्लेख्ये ऽपि तिष्ठति ॥

7.239

तावत्स सकलो ज्ञेयो निष्कलो भेदवर्जितः
सृष्टिसंहारनिर्मुक्तः क्रियाकालविवर्जितः ॥

7.240

अधश्चारे भवेत्सृष्टिर् ऊर्ध्वे संहार उच्यते
अधश्चारेण जातो ऽसौ उर्ध्वे चैव मृतो भवेत् ॥

7.241

सूतकं मृतकं त्यक्त्वा तिष्ठेद्वै तत्त्ववृत्तितः
तत्त्ववृत्तिश्च व्याख्याता सर्वाध्वोपाधिवर्जिता ॥

7.242

तत्त्वाध्वधर्मनिर्मुख्तः कारणैश्च विवर्जितः
तत्त्ववृत्तौ स्थितो योगी सर्वारम्भविवर्जितः ॥

7.243

रागद्वेषविनिर्मुक्तो विषादानन्दवर्जितः
नाकाङ्क्षेन्न च निन्देत्तु विषयांश्च कदाचन ॥

7.244

समः शत्रौ च मित्रे च ब्राह्मणे श्वपचे समः
तुल्यदर्शी भवेन्नित्यं सर्वं शिवमयं स्मरेत् ॥

7.245

आत्मानं च तथैवैवं सर्वथैव सदा स्मरेत्
सर्वतत्त्वानि भूतानि वर्णा मन्त्राश्च ये स्मृताः ॥

7.246

नित्यं तस्य वशास्ते वै शिवभावनयानया
नचासौ कुरुते पुण्यं नैव पापं च सुव्रते ॥

7.247

कृतकृत्यः प्रसन्नात्मा कृत्यं चास्य न विद्यते
इह लोके परस्मिंश्च परिपूर्णस्तु सर्वदा ॥

7.248

धर्माधर्मविनिर्मुक्तः पुण्यपापविवर्जितः
न चास्य भक्ष्याभक्ष्यं हि न पेयापेयमेव च ॥

7.249

नापवित्रं हि तस्यास्ति न पवित्रं हि सुव्रते
निरपेक्षो ह्यसौ नित्यं सर्वापेक्षाविवर्जितः ॥

7.250

नास्य क्षेत्रं नास्य तीर्थं नियमो यम एव च
क्षेत्रं तस्य परा शक्तिर् यतः सर्वं प्रसूयते ॥

7.251

सर्वाध्वानो यतो देवि तत्रस्थाः प्रचरन्ति वै
तीर्थं चैव परं शान्तं नित्यं चानन्दविश्वगम् ॥

7.252

येन व्याप्तमिदं विश्वम् अनन्तं विश्वशक्तिभिः
नित्यं विरक्तिः संसाराद् यमो ऽयम् परिकीर्तितः ॥

7.253

नियमो भावना नित्यं परतत्त्वैकतानता
नात्मनो भावयेज्जातिं न कुलं न च बान्धवान् ॥

7.254

आचरेत्सर्ववर्णत्वं न च वर्णेषु वर्तयेत्
परभावनया नित्यं परधर्मेण वर्तयेत् ॥

7.255

सर्वज्ञः परितृप्तश्च परिपूर्णः स्वभावतः
स्वतन्त्रो ऽलुप्तसामर्थ्यस् त्व् अनादिनिधनाश्रितः ॥

7.256

अनादिबोधो ह्यतुलः कालवेलाविवर्जितः
चारोच्चारविनिर्मुक्तस् त्व् अहोरात्रविवर्जितः ॥

7.257

न दिवा जागरं कुर्यान् न च रात्रौ स्वपेत्क्वचित्
स्वभावेनैव संतिष्ठद् दिनरात्रिविवर्जितः ॥

7.258

एवं वै वर्तते योगी परेण समतां व्रजेत्
न च तं कलयेत्कालः कल्पकोटिशतैरपि ॥

7.259

जीवन्नेव विमुक्तो ऽसौ यस्यैषा भावना सदा
शिवो हि भावितो नित्यं न कालः कलयेच्छिवम् ॥

7.260

योगी स्वच्छन्दयोगेन स्वच्छन्दगतिचारिणा
स स्वच्छन्दपदे युक्तः स्वच्छन्दसमतां व्रजेत् ॥

7.261

स्वच्छन्दश्चैव स्वच्छन्दः स्वच्छन्दो विचरेत्सदा
एवं वै मृत्युलिङ्गानि रिष्टान्यन्यानि यानि च ॥

7.262

योगाज्जानाति योगीन्द्रो नादजान्तर्गतानि च
निर्जित्यैतानि योगेन एवमुक्तव्रमेण तु ॥

7.263

अयोगी यानि जानाति अयुक्तो वापि सुव्रते
बहिर्लिङ्गानि तान्यत्र अङ्गारिष्टानि मे शृणु ॥

7.264

शुष्कताल्वोष्ठकण्ठश्चेद् अकस्माद्धूसरच्छविः
स्कन्धौ च भङ्गमायातः षण्मासान्मृत्युमाप्नुयात् ॥

7.265

सुनीलं मण्डलं व्योम्नि यः पश्यति दिने दिने
सितं हरितकृष्णं च वत्सरार्धान्म्रियेत सः ॥

7.266

विरश्मिं पश्यति रविं सोमं वै लक्ष्मवर्जितम्
तारां ज्योत्स्नां च कृष्णां वै पश्येत्षण्मासजीवितः ॥

7.267

हिरण्यवर्णं पुरुषं पिङ्गलं कृष्णमेव च
स्वप्ने संपश्यते यो वै षण्मासान्सो ऽपि जीवति ॥

7.268

आत्मनो ह्यशिरच्छायां पश्येत्षण्मासजीवितः
तैलाभ्यङ्गं तथा पानं रक्तस्रगनुलेपनम् ॥

7.269

रक्ताम्बराणि कृष्णानि स्वप्ने पश्यति वै यदा
प्रेतैः पिशाचै रक्षोभिः श्वगोमायुकसूकरैः ॥

7.270

वृतं यातं गृद्ध्रकाकैर् महिषैरुष्ट्रगर्दभैः
अङ्गभक्षणमुद्वाहं नग्नं चातीव विह्वलम् ॥

7.271

स्वप्ने च पश्यते यो वै वर्षमेकं स जीवति
शंखावर्ते भुजामध्ये गुल्फयोर्मर्मसन्धिषु ॥

7.272

सो ऽवश्यं वधमायाति यस्यैतत्स्पन्दनं न हि
सोमार्कमण्डलं देहे ध्रुवं चैव त्वरुन्धतीम् ॥

7.273

न पश्यति महायानं सो ऽवश्यं म्रियते नरः
तालुरन्ध्रगतो धूमो महायानं तदुच्यते ॥

7.274

जिह्वा त्वरुन्धतीत्युक्ता नासाग्रं ध्रुव उच्यते
नेत्रान्ते करजाक्रान्ते मण्डलं सोमसूर्ययोः ॥

7.275

न पश्येद्गगने ऽप्येतत् सो ऽवश्यं म्रियते नरः
स्थूलो ऽकस्माच्च जायेत अकस्माद्वै भवेत्कृशः ॥

7.276

अतिक्रुद्धो ऽतिभीतश्च वर्षमेकं स जीवति
कृष्णाम्बरधरं कृष्णं लोहदण्डकरोद्यतम् ॥

7.277

नरं चाभिमुखं स्वप्ने दृष्ट्वा मासत्रयायुषम्
हृदयं शुष्यते यस्य स्नातमात्रस्य तत्क्षणात् ॥

7.278

गात्रं चैवाप्यनुष्णं च ऋतुमेकं स जीवति
धनुर्निशि दिवा चोल्का व्यभ्रे विद्युत्प्रदर्शनम् ॥

7.279

दिग्दाहो ऽप्लुष्टदेशे ऽपि मासमेकं स जीवति
चक्षुषी स्रवतो यस्य शब्दं न शृणुयात् स्फुटम् ॥

7.280

नाघ्राति गन्धं वाग्जाड्यं मासमेकं गतायुषः
रक्तपद्मोपमं वक्त्रं जिह्वा कृष्णा च यस्य वै ॥

7.281

गात्रे वर्णान्यनेकानि हृदयं यस्य रोदिति
तालुकम्पो ऽथ नाभेश्च अर्धमासं स जीवति ॥

7.282

प्रत्यक्षकाकनासीरो दीपधूमं न जिघ्रति
पूर्वदृष्टं न जानाति चतुर्मासं स जीवति ॥

7.283

बिन्दुं यस्तु न पश्येत्तु नित्यं वक्त्रानुगं हितम्
नित्यं वहति हिक्कां तु वर्षमेकं स जीवति ॥

7.284

बहिर्लिङ्गानि चैतानि अङ्गारिष्टानि यानि च
पूजया जपहोमेन ध्यानधारणया प्रिये ॥

7.285

कृतरक्षाविधानेन जीयन्ते नात्र संशयः
नाडीनां शोधनं चैव वायूनां च जयः कथम् ॥

7.286

स्थानं रूपं च शब्दं च कर्म ब्रूहि मम प्रभो
परमो योगसद्भावो गुह्याद्गुह्यतरः प्रिये ॥

7.287

यो न कस्यचिदाख्यातस् तं योगं शृणु तत्त्वतः
सुप्रशस्ते भूप्रदेशे नाग्नितोयसमीपतः ॥

7.288

वालुकाशर्कराहीने शुष्कवृक्षविवर्जिते
निःशब्दकीटवल्मीके ईतिभिः परिवर्जिते ॥

7.289

पुण्ये धर्मिष्ठसंवासे तत्र योगं समभ्यसेत्
देवदेवं समभ्यर्च्य भैरवं सविनायकम् ॥

7.290

पूर्वाचार्यान्नमस्कृत्य युक्तो ध्यानपरायणः
आसनं स्वस्तिकं बद्ध्वा पद्मकं भद्रमेव वा ॥

7.291

सापाश्रयं सार्धचन्द्रं योगपट्टं यथासुखम्
दहनोत्पूयने कृत्वा प्लावयेदमृतेन च ॥

7.292

सबाह्याभ्यन्तरेणैव सकलीकरणं ततः
अन्तर्यागं यथापूर्वम् उच्चार्यं च परं तथा ॥

7.293

दशधा योगमार्गेण हंसस्वच्छन्दमभ्यसेत्
मन्त्रं बिन्दुमतीतं तु नादान्तज्योतिराकृतिम् ॥

7.294

संकल्प्य कल्पनालक्ष्यं ध्यायेद्वै तेन सर्वगम्
अपसव्येन पूर्येत सव्येनैव विरेचयेत् ॥

7.295

नाडीसंशोधनं चैतन् मोक्षमार्गपथस्य च
रेचनात्पूरणाद्रोधात् प्राणायामस्रिधा स्मृतः ॥

7.296

सामान्या बहिरेते तु पुनश्चाभ्यन्तरे त्रयः
आभ्यन्तरेण रेच्येत पूर्येताभ्यन्तरेण तु ॥

7.297

निष्कम्पं कुम्भकं कृत्वा कार्याश्चाभ्यन्तरास्त्रयः
नाभ्यां हृदयसंचारान् मनश्चेन्द्रियगोचरात् ॥

7.298

प्राणायामश्चतुर्थस्तु सुप्रशान्त इति श्रुतः
प्राणरोधे तु संपूर्णे नाभौ नीत्वा समुच्छ्वसन् ॥

7.299

शनैर्विमोचयेद्वायुं वामनासापुटेन तु
वायवी धारणाङ्गुष्ठे आग्नेयी नाभिमध्यतः ॥

7.300

माहेयी कण्ठदेशे तु वारुणी घण्टिकाश्रया
आकाशधारणा मूर्ध्नि सर्वसिद्धिकरी स्मृता ॥

7.301

एकद्वित्रिचतुष्पञ्च संख्योद्धातैः प्रसिद्ध्यति
संनिरुद्धे तु वै प्राणे मूर्ध्नि गत्वा निवर्तते ॥

7.302

स उद्घात इति प्रोक्तो ज्ञातव्यो योगिभिः सदा
रागद्वेषौ प्रहीयेते प्राणायामैः सुधारितैः ॥

7.303

धारणाभिर्दहेत्पापं प्रत्याहारे ऽक्षसंयमः
हृद्गुदे नाभिकण्ठे च सर्वसन्धौ तथैव च ॥

7.304

प्राणाद्याः संस्थिता ह्येते रूपं शब्दं च मे शृणु
द्रुततारनिभो रक्त इन्द्रगोपकसंनिभः ॥

7.305

क्षीराभः स्फटिकाभश्च पञ्चानां रूपलक्षणं
घण्टाकंसाब्दमधुरो गजनादो महाध्वनिः ॥

7.306

प्राणादिनां तु पञ्चानाम् अयं शब्द उदाहृतः
जल्पितं हसितं गीतं नृत्तं युद्धगतिः कलाः ॥

7.307

शिल्पं च सर्वकर्माणि प्राणस्यैव विचेष्टितम्
प्रवेशयेदन्नपानं तन्मलं स्रावयेदधः ॥

7.308

अन्धत्वं श्रोत्ररोगं च अपानस्तु करिष्यति
अशितं लीढपीतं च समानः समतां नयेत् ॥

7.309

क्षोभो हिक्का तथा छिक्का उदानस्य विचेष्टितम्
स्वेदश्च रोमहर्षश्च शूलं दाहो ऽङ्गभञ्जनम् ॥

7.310

व्यानस्यैतानि कर्माणि स्पर्शं चैव स विन्दति
अङ्गुष्ठजानुहृदये लोचने मूर्ध्नि संस्थिताः ॥

7.311

नागाद्याः बहुरूपाश्च कर्म त्वेषां निबोध मे
आह्लादोद्वेगजनकः शोषणस्त्रासनस्तथा ॥

7.312

नागः कूर्मश्च कृकरो देवदत्तश्च पञ्चमः
अतिनिद्राकरश्चान्यो योजकश्च धनंजयः ॥

7.313

श्वाससंकोचनच्छेदा घुर्घुरोत्क्रमणं तथा
नागादीनां तु पञ्चानां मृत्युकाले विचेष्टितम् ॥

7.314

न चैव याति चोत्क्रान्तौ तनुं त्यक्त्वा धनञ्जयः
आकुञ्चयति वै कूर्मः शोषयेच्च कलेवरम् ॥

7.315

प्राणमेव जयेत्पूर्वं जिते प्राणे जितं मनः
जिते मनसि शान्तस्य परं तत्त्वं प्रकाशते ॥

7.316

प्राणापानं गुदे ध्यायेत् प्राणसमानं नाभितः
प्राणोदानं तु कण्ठे तु प्राणव्यानं तु सर्वगम् ॥

7.317

नागाद्याः प्राणसंयुक्ताः स्वस्थानेषु निरोधयेत्
निरुद्धस्य च यः कालस् तं वक्ष्यामि निबोध मे ॥

7.318

तालात्प्रभृति तं ध्यायेद् यावत्पञ्चशतं गतम्
जितो ऽनिलो भवत्येव संक्रान्त्युत्क्रान्तिकर्मणि ॥

7.319

दिव्या कान्तिः शुभो गन्धः प्रज्ञा चास्य विवर्धते
दिव्या दृष्टिश्च श्रवणं दिव्या वाक्च प्रजायते ॥

7.320

वायुवद्विचरेल्लोकान् सिद्धान्देवांश्च पश्यति
मनसा चिन्तितावाप्तिः प्रवर्तेत गुणाष्टकम् ॥

7.321

सर्वकामसुसंपूर्णः सर्वद्वन्द्वविवर्जितः
संसारबन्धनिर्मुक्तः शिवतुल्यश्च जायते ॥

7.322

प्राणापानौ तु संयोज्य ह्रस्वकोटिसमन्वितौ
नाभ्याधारे च योगीन्द्रः स्वेदः कम्पश्च जायते ॥

7.323

पुनरेव तु हृत्स्थौ हि प्राणापानौ निरोधयेत्
दीर्घकोटिसमायोगात् तत्क्षणाच्च पतेद्भुवि ॥

7.324

कण्ठस्थं च तथैवेह प्राणमेव निरोधयेत्
प्लुतकोटिसमायोगात् स्वप्नवृत्तिस्ततो भवेत् ॥

7.325

भ्रूमध्ये बिन्दुयोगेन प्राणरोधं तु कारयेत्
सुषुप्तं जायते तत्र क्षणाच्चैव प्रबुद्ध्यते ॥

7.326

मूर्धद्वारं समाश्रित्य निष्कलं ध्यानमारभेत्
एवमभ्यसतस्तस्य प्रत्ययस्तु तदा भवेत् ॥

7.327

पिपीलकण्टकावेधो मूर्ध्वद्वारं विभिन्दतः
भित्त्वा क्रमेण सर्वणि उन्मन्यन्तानि यानि तु ॥

7.328

पूर्वोक्तलक्ष्णैर्देवि त्यक्त्वा स्वच्छन्दतां व्रजेत्
जायते उन्मनस्त्वं हि देहेनानेन साधके ॥

7.329

संक्रामेत्परदेहेषु क्षुत्तृष्णाभ्यां न बाध्यते
अतीतानागतं चैव त्रैलोक्ये यत्प्रवर्तते ॥

7.330

प्रत्यक्षं तद्भवेत्तस्य सर्वज्ञत्वं च जायते
प्रसङ्गे ऽध्यात्मकालस्य ज्ञानं विज्ञानमेव च ॥

7.331

सर्वमेतत्समाख्यातम् अंशकांश्च निबोध मे ॥

मूल पाठ: Svacchandatantra [or Svacchandabhairavatantra] · Edition: Chapter 1 typed in from Dwivedi's edition by Dominic Goodall; Chapter 2 typed in from KSTS edition by Mei Yang; Chapter 3 typed in from Dwivedi's edition by Dominic Goodall; Chapter 4 typed in from the KSTS edition by S.A.S. Sarma Chapters 5-6 typed in from Dwivedi's edition by Dominic Goodall; Chapter 7 typed in from KSTS edition by Mei Yang; Chapters 8-9 typed in from KSTS edition by Nibedita Ro · Data entry members of the Saiva reading group at the EFEO in Pondicherry · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc