Svacchandatantra · अध्याय 8
अंशकं षड्विधं देवि कथयाम्यनुपूर्वशः
भावांशकः स्वभावांशः पुष्पपातांश एव च ॥
मन्त्रांशकः स्मृतश्चान्यस् त्व् अंशकापादनं द्विधा
देवानुस्मरणं भावः सहजं तं विजानत ॥
स्वभावश्च भवेच्चेष्टा कथयाम्यनुपूर्वशः
ब्रह्मांशो वेदभक्तस्तु रुद्रांशं च निबोध मे ॥
रुद्रभक्तः सुशीलश्च शिवशास्त्ररतः सदा
विष्ण्वंशो विष्णुभक्तश्च चन्द्रांशः प्रियदर्शनः ॥
सर्वदेवरतः शान्तो यक्षांशो धनसंग्रही
लुब्धो गर्वितमृष्टाशी वातांशश्चपलः स्मृतः ॥
सर्पविस्रम्भगामी स्यान् नागांशो दीर्घशाय्यथ
दीर्घरोषः पूतिवक्त्रो गुरुक्षीररुचिः सदा ॥
गान्धर्वो गायनो नित्यं शिवभक्तो वरानने
विद्याधरांशकः प्राणी दैत्यांशो द्वेषणः स्मृतः ॥
कामांशो रूपवांश्चैव सुभगो गणिकाप्रियः
रक्षोंशः क्रूरनिस्त्रिंशो देवद्वेषी द्विजेषु च ॥
पिशाचांशश्छलान्वेषी वासरे भीरुकातरः
अग्न्यंशः परुषस्तीव्र उष्णादः पिङ्गलस्तथा ॥
सवित्रंशश्च तेजस्वी पूर्तधर्मरतः सदा
इष्टानि कुरुते नित्यं दयालुः शिवभावितः ॥
स्वसिद्धेः फलदाः सर्वे स्वध्यानजपहोमतः
भैरवाङ्गसमालब्धाः सर्वे देवा वरानने ॥
भैरवास्तु स्मृताः सर्वे सर्वसिद्धिफलप्रदाः
स्वभावांशः समाख्यातः साधकानां हिताय वै ॥
पुष्पपातवशान्नाम कर्तव्यं सुरसुन्दरि
स मन्त्रः सिद्ध्यते तस्य तमेवाराधयेद्यदि ॥
अंशकापादनं देवि कथयामि समासतः
वैहायसं ध्वज चैव होमयेद्यस्तु साधकः ॥
स मन्त्रः सिद्ध्यते तस्य अर्यन्तो ऽपि हि सुव्रते
अनंशको ऽपि यो मन्त्रो ज्ञातचिह्नैर्वरानने ॥
तदा यागं पुरा कृत्वा अग्नौ होमं तु कारयेत्
शिष्यस्य पूर्ववत्कर्म कृत्वा तु विधिपूर्वकम् ॥
पूर्णाहुतिप्रयोगेण योजयेच्छाश्वते पदे
परतत्त्वमभिध्यायन् साधयेन्मनसेप्सितम् ॥
मन्त्रांशं गणयित्वा तु गृह्णीयात्सुविचारितम्
हीनमध्यसमुत्कृष्टं कथयामि समासतः ॥
हीनं शत्रुं विजानीयान् मध्यमं साध्यरूपिणम्
सिद्धं चैव सुसिद्धं च उत्तमं परिकीर्तितम् ॥
मन्त्राक्षरं तु विश्लेष्य मात्राबिन्दुसमन्वितम्
आत्मनामाक्षरं तद्वद् अधोभागे ऽस्य योजयेत् ॥
आत्मवर्णात्समारभ्य यावन्मन्त्रार्णमागतम्
यस्मिन्स निपतेद्देवि तमायं परिकल्पयेत् ॥
रेखाङ्गुलिगतं तं तु कथयामि समासतः
पर्वणि प्रथमे सिद्धः साध्यश्चैव द्वितीयके ॥
तृतीये तु सुसिद्धः स्याद् अरिर्ज्ञेयश्चतुर्थके
अरिसाध्यौ परित्यज्य दातव्यश्चुम्बकेन तु ॥
सिद्धरूपः सुसिद्धश्च भुक्तिमुक्तिफलप्रदः
यस्त्वंशकविशुद्धः स्याद् भैरवो ऽत्र वरानने ॥
तं मध्यमस्थं संपूज्य तत्स्थाने मध्यमं न्यसेत्
यतः सर्वगतो देवः सर्वेष्वन्तर्गतः स्मृतः ॥
तत्सिद्धिमुक्तिदातासौ न वर्णाः परमार्थतः
कथितं सरहस्यं ते गुह्याद्गुह्यतरं परम् ॥
अतस्तन्त्रावतारार्थं कथयामि समासतः
अदृष्टविग्रहायातं शिवात्परमकारणात् ॥
ध्वनिरूपं सुसूक्ष्मं तु सुशुद्धं सुप्रभान्वितम्
तदेवापररूपेण शिवेन परमात्मना ॥
मन्त्रसिंहासनस्थेन पञ्चमन्त्रमहात्मना
पुरुषार्थं विचार्याशु साधनानि पृथक् पृथक् ॥
लौकिकादिशिवान्तानि परापरविभूतये
तदनुग्रहयोग्यानां स्वे स्वे विषयगोचरे ॥
अनुष्टुप्छन्दसा बद्धं कोट्यर्बुदसहस्रधा
गुरुशिष्यपदे स्थित्वा स्वयं देवः सदाशिवः ॥
पूर्वोत्तरपदैर्वाक्यैस् तन्त्रमाधारभेदतः
तज्ज्ञानमीश्वरे ऽदात्तद् ईश्वरेण शिवेच्छया ॥
विद्यायाः कथितं पूर्वं विद्येशेभ्यस्तथादरात्
मायानियतिपर्यन्तैस् तस्माद्रुद्रैरवापि तत् ॥
श्रीकण्ठेनेश्वरात्प्राप्तं ज्ञानं परमदुर्लभम्
तेनापि तदधः प्रोक्तं रुद्राणामीश्वरेच्छया ॥
प्रधानाच्छतरुद्रान्तं दीक्षयित्वा विधानतः
ममापि च पुरा दीक्षा तथा चैवाभिषेचनम् ॥
श्रीकण्ठेन पुरा दत्तं तन्त्रं सर्वार्थसाधकम्
मयापि तव देवेशि साधिकारं समर्पितम् ॥
त्वमपि स्कन्दरुद्रेभ्यो ददस्व विधिपूर्वकम्
ब्रह्मविष्विन्द्रदेवानां वसुमातृदिवाकृताम् ॥
लोके संगृह्य नागानां यक्षाणां परमेश्वरि
कथयस्व ऋषीणां च ऋषिभ्यो मनुजेष्वपि ॥
एवं तन्त्रवरं दिव्यं सिद्धरत्नकरण्डकम्
त्वया गुप्ततरं कार्यं न देयं यस्य कस्यचित् ॥
मूल पाठ: Svacchandatantra [or Svacchandabhairavatantra] · Edition: Chapter 1 typed in from Dwivedi's edition by Dominic Goodall; Chapter 2 typed in from KSTS edition by Mei Yang; Chapter 3 typed in from Dwivedi's edition by Dominic Goodall; Chapter 4 typed in from the KSTS edition by S.A.S. Sarma Chapters 5-6 typed in from Dwivedi's edition by Dominic Goodall; Chapter 7 typed in from KSTS edition by Mei Yang; Chapters 8-9 typed in from KSTS edition by Nibedita Ro · Data entry members of the Saiva reading group at the EFEO in Pondicherry · GRETIL (Göttingen) · CC BY-NC-SA 4.0