Svacchandatantra · अध्याय 6
समयाचारयुक्तस्य साधकस्य वरानने
जायते विविधा सिद्धिः गिरिगह्वरमाश्रिते ॥
सुशुद्धे भूप्रदेशे तु सर्वशल्यविवर्जिते
प्रच्छन्ने विजने रम्ये भैरवं तत्र पूजयेत् ॥
जपित्वाक्षरलक्षं तु बहुरूपस्य सुव्रते
पञ्चप्रणवसंयोगाज् जपतः सिद्ध्यते ध्रुवम् ॥
मुच्यते न तु सन्देहो भेदनात् प्रणवस्य तु
ह्रस्वं दीर्घं प्लुतं सूक्ष्मम् अतिसूक्ष्मं परं शिवम् ॥
प्रणवं पञ्चधा ज्ञात्वा भित्त्वा मोक्षो न संशयः
प्रणवः पञ्चधावस्थः हंसेन सह संयुक्तः ॥
यत्किञ्चिद्वाङ्मयं लोके शिवज्ञाने प्रतिष्ठितम्
शिवज्ञानं च तत्रस्थं हंसः प्रणवसंयुतः ॥
विना प्रणवसंयोगाज् जीव एको व्यवस्थितः
यथाप्रकृति संयुक्तो न च तिष्ठति चैकतः ॥
तथा षष्ठेन सम्भिन्नो देहे जीवः प्रवर्तते
चोदितस्तु यदा तेन तदा चोर्ध्वं प्रवर्तते ॥
प्रत्यक्षमपि तत्तत्त्वं महामायाविमोहिताः
कथितं नाभिजानन्ति विना शास्त्रेण चोदनाम् ॥
षष्ठश्चोर्ध्ववहो ज्ञेयः स्वभावमुखसंस्थितः
अप्रकाशः स्वदेहस्थो गुणभूतः प्रवर्तते ॥
निर्गुणस्तु यदा देव एकाकी कालवर्जितः
विज्ञातव्यं न किञ्चित्स्यात् केवलो निष्कलस्तु सः ॥
तस्य रूपं शरीरं च नास्ति वर्णः क्रिया तथा
स कथं गृह्यते सूक्ष्म अग्राह्यो नित्यमव्ययः ॥
एतस्मात्कारणाद्देवि षष्ठं बीजं नियोजितम्
पञ्चपञ्चकसंयुक्तो देहे सकलनिष्कलः ॥
ग्रहणं तु यदा तस्य योगी योगविचिन्तकः
योगेनावाहितस्यापि भावमात्रं तु भावयेत् ॥
यदा करोति सृष्टिं च ऊर्ध्वं बिन्दुः प्रवर्तते
बिन्दूपरि च यच्छान्तः शिवः परमकारणम् ॥
तत्र बिन्दुर्लयं याति तत्स्थानं दुर्लभं सुरैः
षष्ठस्वरसमायोगाद् अभ्यासादचिराल्लभेत् ॥
षष्ठश्च पञ्चमश्चैव तस्य देवि गुणाः स्मृताः
सगुणः सकलो ज्ञेयो निर्गुणो निष्कलः शिवः ॥
सकलो ग्रहसंयुक्तो निष्कलो भावमाश्रितः
सकले जप्यमाने तु जप्तो भवति निष्कलः ॥
सुरासुराणां देवेन यजनोपायहेतुना
रूपं तु सकलं तस्य द्विधावस्थं प्रकाशितम् ॥
प्रथमं प्राकृतं रूपं विकृतं च द्वितीयकम्
प्रकृतिर्विकृतिश्चैव उभे षष्ठेन संयुते ॥
ये पदार्थाः पुरा प्रोक्तास् तत्रासावुच्छ्वसन् मुहुः
प्रवर्तते च एतेन पुनस्तेन निवर्तते ॥
प्रणवः पञ्चधावस्थः त्रिवर्णश्च त्रिदैवतः
बिन्दुनादसमायुक्तः प्रणवः परिपठ्यते ॥
अकारश्च उकारश्च मकारश्च तृतीयकः
वर्णत्रयमिदं प्रोक्तं ब्रह्माद्या देवतास्त्रयः ॥
बिन्दुनादसमायोगाद् ईश्वरश्च सदाशिवः
एते वै प्रणवाः पञ्च हंसः प्राणयुतः सदा ॥
परमात्मा शिवो हंसस् त्व् अपरेण समन्वितः
परतः प्रणवान् पञ्च पुनरेव वदाम्यहम् ॥
शक्तिश्च व्यापिनी चैव समनात्मा च निष्कलः
उन्मना च तथा देवि प्रणवाः पञ्च कीर्तितः ॥
परतः परमो हंसः सर्वं व्याप्य व्यवस्थितः
एते वै प्रणवाः पञ्च परापरविभागशः ॥
परापरेण हंसेन नित्यमेव प्रणामिताः
प्रवर्तन्ते हि सर्वत्र भुक्तिमुक्तिफलप्रदाः ॥
पञ्चभिस्तु युतस्त्वेभिः स पञ्चप्रणवात्मकः
तत्रस्थः एकरूपस्तु निष्कलस्तत्त्वतः स्मृतः ॥
तद्योगादपि तद्बीजं सर्वबीजप्ररोहकम्
प्रवर्तते ऽयतो यस्माद् देवासुरनिकेतनम् ॥
तत्र मन्त्राश्च वर्णाश्च प्रतिष्ठां यान्ति नान्यथा
तस्य बोद्धाद्विमुच्यन्ते अहिकञ्चुकवत् प्रिये ॥
तावद्भ्रमति संसारे यावत्तत्त्वं न विन्दति
विदिते तु पुरे तत्त्वे न भूयो जायते क्वचित् ॥
अकृतार्थो नरस्तावद् यावद्धंसं न विन्दति
प्रणवेन समायुक्तं कृतार्थ इति निर्दिशेत् ॥
उच्चारं च ततो ज्ञात्वा उच्चरेत्तं वरानने
उच्चारस्त्रिविधो देवि हंसस्य समुदाहृतः ॥
हकारोकारसंयुक्त बिन्द्वन्ते तु तृतीयकः
सृष्टिन्यासेन तूच्चारः संहारयोग उच्यते ॥
एवमादिक्रमेणैव मन्त्रमुच्चारयेद्बुधः
बिन्दुस्थं त्रितयं कृत्वा वक्त्रमुद्घाटयेत्ततः ॥
ईषदुद्घाटिते वक्त्रे तदा नादं विजानत
नादस्थं पञ्चधा चैव शक्तिस्थं पञ्चधा पुनः ॥
व्यापिन्यां पञ्चधा चैव समनानिष्कलात्मनोः
उन्मना च परं तत्त्वं सर्वं व्याप्य व्यवस्थितम् ॥
एवं ज्ञात्वा विमुच्यन्ते शिवतत्त्वविदो जनाः
अन्यथा नैव मुच्यन्ते बिन्द्वन्ते ये व्यवस्थिताः ॥
ज्योतीरूपं तु बिन्दुस्थं नादस्थं शब्दरूपकम्
शक्तिस्थं स्पर्शगं चैव तदूर्ध्वं शून्यरूपकम् ॥
ब्रह्मादिपञ्चकं यच्च तेषां शून्यं च तत्पदम्
परापरविभागेन ते सर्वत्र व्यवस्थिताः ॥
शून्यातीता तु समना शुद्धात्मा तून्मना तथा
सर्वातीतं परं तत्त्वं सर्वं व्याप्य व्यवस्थितम् ॥
मन्त्ररूपाश्च विज्ञेया बिन्दुधर्मात्तु देवताः
तत्रस्था सर्वकर्माणि साधयन्ति न संशयः ॥
तत्त्वं च उन्मनात्मा तु समना शून्यमेव च
स्पर्शश्चैव तथा शब्दो रूपं च तदनन्तरम् ॥
मन्त्रात्मनि स्थिताः सर्वे ज्ञातव्या दैशिकेन तु
तत्रस्था ज्ञानयोगं च प्रयच्छन्ति वरानने ॥
कर्मकाले तु सकलान् शिरः पाण्यादिभिर्युतान्
जपेत् तु सकलान् देवि निष्कलेन समन्वितान् ॥
ध्यायेज्ज्योतिर्मयान् सर्वान् शब्दसिद्धिप्रदायकान्
शक्तिस्थाः शक्तिदाः प्रोक्ताः शून्यस्था व्यापकाः स्मृताः ॥
क्रमाज्ज्ञानप्रदास्ते वै समनास्था वरानने
कैवल्यदास्ततश्चोर्ध्वे सर्वज्ञाश्चोन्मने पदे ॥
तत्त्वेन वेधिताः सर्वे ये मया परिकीर्तिताः
तज्ज्ञात्वा सिद्धिदाः सर्वे मुक्तिदाश्च न संशयः ॥
पञ्चप्रणवसंयुक्तं तत्त्वं ते कथितं मया
पञ्चप्रणवपूर्वेण ओंकाराद्ययुतेन तु ॥
नमस्कारावसानेन बहुरूपेण सुव्रते
जपतः सिद्धिमाप्नोति लक्षेनाक्षरसंख्यया ॥
प्रणवाद्येन संयुक्तं मन्त्रमेवं जपेत् सदा
जपान्ते तु पुनर्होमं दशमांशेन कारयेत् ॥
नृमांसं पुरसंयुक्तं घृतेन च परिप्लुतम्
ततः सिद्धिमवाप्नोति अधमां मध्यमोत्तमम् ॥
त्रिगुणेन तु जप्येन स्वच्छन्दसदृशो भवेत्
ब्रह्मविष्ण्विन्द्रदेवानां सिद्धदैत्योरगेशिनाम् ॥
भयदाता च हर्ता च शापानुग्रहकृद् भवेत्
दर्पं हरति कालस्य पातयेद् भूधरानपि ॥
स्फोटयेद्बिल्वयन्त्राणि दिग्गजानपि चालयेत्
ब्रह्मराक्षसवेतालान् क्रूरग्रहविनायकान् ॥
स्मरणान्नाशयेद्देवि अवध्यस्त्रिदशैरपि
प्राकृतान्यपि कर्माणि सिद्ध्यन्ति जपलक्षतः ॥
तानि सम्यक्प्रवक्ष्यामि यथावदनुपूर्वशः
मोहना सहदेवा च भूधात्री चक्रलाञ्छना ॥
रामवल्ल्या सहैकत्र आत्मबीजेन पोषयेत्
भक्षे पाने च दातव्यं वशीकरणमुत्तमम् ॥
उत्तवारणिमूलं तु पुष्यर्क्षेण तु ग्राहयेत्
आत्मेन्द्रियेण संयुक्तं वशीकरणमुत्तमम् ॥
श्रवणाक्षिमलं लाला रुधिरेन्द्रियसंयुतम्
भूकदम्बसमोपेतं दातव्यं पयसा निशि ॥
अप्रवासे प्रदातव्यं म्रियते विरहेण सा
षष्टिं कनकबीजानि षोडश मणिचन्द्रिकाः ॥
नरगोदन्तसंयुक्ताः प्रदद्याद्यस्य भामिनी
एष कापालिको योगो गच्छन्तमनुगच्छति ॥
श्वेतार्कमूलं मञ्जिष्ठा चटकस्य शिरस्तथा
गृहोद्भवस्य कुष्ठं च स्वरक्तेन्द्रियसंयुतम् ॥
भक्ष्ये पाने प्रदातव्यं वशीकरणमुत्तमम्
मोहना चैव कान्तारी मयूरशिखया युता ॥
आत्मलालेन्द्रियैर्युक्तं वशीकरणमुत्तमम्
लज्जालुका च गोरम्भा चण्डालीकर्मकं तथा ॥
नागेन्द्रपदमिश्रं तद् आत्मबीजसमन्वितम्
एष योगवरो दिव्यो दीयते यस्य सुव्रते ॥
मधुरेण समायुक्तो यावदायुर्वशी स तु
चणका माषमुद्गाश्च अपानेन विनिर्गताः ॥
वान्तं घृतं तथा रेतः स्त्रीरजो हृन्मलं तथा
मूत्रं रक्तं तथा केशो लाला चैव वरानने ॥
पुत्रजानिः कृताह्वा च नागेन्द्रपदसंयुता
मोहना विष्णुक्रान्ता च धात्री चैवैकतः स्थिता ॥
पुष्यर्क्षेण नियुञ्जीत गर्वितानां वरानने
भक्ष्ये पाने प्रदातव्यो योगस्त्रिदशपूजितः ॥
उच्चाटनं प्रवक्ष्यामि शत्रूणां गर्वितात्मनाम्
काकोलूकस्य पक्षांश्च खरोष्ट्रमूत्रमृत्तिका ॥
कृत्वा प्रतिकृतिं प्राज्ञः काकरक्तेन लेपयेत्
काकोलूकस्य पक्षांश्च गुदे तस्य विनिक्षिपेत् ॥
तां चतुष्पथे निखनेत् श्मशानाग्निमथोपरि
प्रज्वाल्य होमयेत्तत्र काकपक्षांश्च सुव्रते ॥
उद्भ्रान्तपत्रसहितान् खरमूत्रेण भावितान्
यस्य नाम समुद्दिश्य यकाराद्यन्तरोधितम् ॥
मन्त्रावसाने विन्यस्तं विसर्गान्तं प्रचाटयेत्
भ्रमते काकवत् पृथ्वीं शत्रुर्व्याधिनिपीडितः ॥
पिण्याकं निम्बपत्त्राणि मृत्किण्वं तु तुषाणि च
शत्रोः प्रतिकृतिं कृत्वा अक्षपुष्पैस्तु वेष्टिताम् ॥
श्मशाने निखनेत्तां तु वह्निं प्रज्वाल्य चोपरि
पुष्पैर्विभीततरुजैर् यस्य नाम्ना तु होमयेत् ॥
विद्विष्टो वै भवेच्छत्रुः कामदेवसमो ऽपि यः
प्रियङ्गुलतिकामिश्रं गुग्गुलुं घृतवेधितम् ॥
हृत्वा त्वष्टशतं देवि सुभगः सम्प्रजायते
जातिकुट्मलकैर्मिश्रैस् त्रिमध्वक्तैस्तिलैर्हुतैः ॥
सुभगत्वमवाप्नोति रूपहीनो ऽपि यो नरः
तिलैर्लवणसम्मिश्रैस् त्रिमध्वक्तैर्हुतैः प्रियैः ॥
सप्ताहाद्वशमायाति या स्त्री रूपेण गर्विता
राजिका लवणं चैव मधुक्षीरघृतप्लुतम् ॥
होमयेन्नामसम्मिश्रं यस्याकर्षेत्तु तं द्रुतम्
नरस्य रोचनां गृह्य द्विरदस्य मदेन तु ॥
भावयित्वाभिमन्त्र्यैतन् मन्त्रेणाष्टशतं जपेत्
स्नाने विलेपने मद्ये गन्धे वा यस्य दीयते ॥
स वश्यो भवति क्षिप्रं धनदः प्राणदस्तथा
अथवा मारयेत्क्षिप्रं शत्रुं निश्चितमात्मनः ॥
अपकारशतैर्युक्तं कृतघ्नं दुष्टचेतसम्
कपालद्वयमादाय नाम शत्रोः समालिखेत् ॥
कपालसम्पुटस्थं तद् विषाङ्गारेण भावितम्
रुधिरेण समायुक्तं हुम्फट्कारविदर्भितम् ॥
महाप्रेतवनं गत्वा स्वच्छन्दं पूजयेत्ततः
कृष्णमाल्योपहारैश्च ततः कर्म समारभेत् ॥
विज्ञाप्य भैरवं देवं शत्रुं मे विनिपातय
अनुज्ञातस्तु देवेन गृहित्त्वा तच्छिरोद्वयम् ॥
तत्र गत्वा महादेवि कपालासनसंस्थितः
तत्रस्थो रोषसम्पूर्णो दक्षिणाभिमुखः स्थितः ॥
आत्मनो भैरवं रूपं ज्ञात्वा घोरं सुभीषणम्
क्रुद्धः समुच्चरेन्मन्त्री द्वात्रिंशाक्षरसम्मितम् ॥
विलोमेन महाभागे शत्रुनाम ततो ऽन्तगम्
हुम्फड्द्वयं समुच्चार्य काद्ये चास्फालयेद्भृशम् ॥
खण्डशश्चूर्णिते यावत् तावच्छतुर्विनश्यति
सप्तरात्रेण देवेशि प्रयोगस्त्वनिवर्तकः ॥
एवं शतसहस्राणि अन्यकल्पोत्थितानि च
प्रयोगाणां करोत्येष मन्त्रराजेश्वरेश्वरः ॥
अनुलोमगतं देवं वौषत्कारान्तसंस्थितम्
क्षीरं तु होमयेद्देवि शान्त्यर्थे हितकारकम् ॥
वषदाप्यायने शस्तं स्वाहान्तं वशकर्मणि
मन्त्राणां तर्पणार्थं च नत्यन्तं चार्चने स्मृतम् ॥
एतद्धि कथितं देवि साधकस्य सुमेधसः
क्रियाकालांशयुक्तस्य अक्लेशात्तु सुखावहम् ॥
मूल पाठ: Svacchandatantra [or Svacchandabhairavatantra] · Edition: Chapter 1 typed in from Dwivedi's edition by Dominic Goodall; Chapter 2 typed in from KSTS edition by Mei Yang; Chapter 3 typed in from Dwivedi's edition by Dominic Goodall; Chapter 4 typed in from the KSTS edition by S.A.S. Sarma Chapters 5-6 typed in from Dwivedi's edition by Dominic Goodall; Chapter 7 typed in from KSTS edition by Mei Yang; Chapters 8-9 typed in from KSTS edition by Nibedita Ro · Data entry members of the Saiva reading group at the EFEO in Pondicherry · GRETIL (Göttingen) · CC BY-NC-SA 4.0