भाषा

ENहिગુ
ग्रंथ पाठ

Svacchandatantra · अध्याय 4

4.1

प्रत्यूषे विमले कृत्वा शौचाद्यान् पुर्र्ववत्क्रमात्
सकलीकरणं कृत्वा पूर्ववत् प्रविशेद्गृहम् ॥

4.2

शिष्यश्च शुचिराचान्तः पुष्पहस्तः (...) गुरुं ततः
प्रणम्य शिरसा (...) हृष्टो गुरोः स्वप्नान्निवेदयेत् ॥

4.3

शुभान् स्वप्नान् प्रवक्ष्यामि अशुभांश्च वरानने
स्वप्नेषु मदिरापानम् आममांसस्य भक्षणम् ॥

4.4

क्रिमिविष्ठानुलेपं च रुधिरेणाभिषेचनम्
भक्षणं दधिभक्तस्य श्वेतवस्त्रानुलेपनम् ॥

4.5

श्वेतातपत्रं मूर्धस्थं श्वेतस्रग्दाम भूषणम्
सिंहासनं रथं यानं ध्वजं राज्याभिषेचनम् ॥

4.6

रत्नाङ्गाभरणादीनि ताम्बूलं फलमेव च
दर्शनं श्रीसरस्वत्योः शुभनार्यवगूहनम् ॥

4.7

नरेन्द्रैरृषिभिर्देवैः सिद्धविद्याधरैर्गणैः
आचार्यैः सह संवादं कृत्वा स्वप्ने प्रसिद्ध्यति ॥

4.8

नदीसमुद्रतरणम् आकाशगमनं तथा
भास्करोदयनं चैव प्रज्वलन्तं हुताशनम् ॥

4.9

ग्रहनक्षत्रताराणां चन्द्रबिम्बस्य दर्शनम्
हर्म्यस्यारोहणं चैव प्रासादशिखरे ऽपि वा ॥

4.10

नराश्ववृषपोतेभ तरुशैलाग्ररोहणम्
विमानगमनं चैव सिद्धमन्त्रस्य दर्शनम् ॥

4.11

लाभः सिद्धचरोश्चैव देवादीनां च दर्शनम्
गुटिकां दन्तकाष्ठं च खड्गपादुकरोचनाः ॥

4.12

उप्वीताञ्जनं चैव अमृतं पारतौषधीः
शक्तिं कमण्डलुं पद्मम् अक्षसूत्रं मनःशिलाम् ॥

4.13

प्रज्वलत्सिद्धद्रव्याणि गैरिकान्तानि यानि च
दृष्ट्वा सिद्ध्यति स्वप्नान्ते क्षितिलाभं व्रणं तथा ॥

4.14

क्षतजार्णवसांग्राम तरणं विजयं रणे
ज्वलत्पितृवनं रम्यं वीरवीरेशिभिर्वृतम् ॥

4.15

वीरवेतालसिद्धैश्च महामांसस्य विक्रयम्
महापाशोः संविभागं लब्ध्वा देवेभ्य आदरात् ॥

4.16

आत्मना पूजयन् देवं जपन् ध्यायन् स्तुवन्नपि
सुहुतं चानलं दीप्तं पूजितं वा प्रपश्यति ॥

4.17

हंससारसचक्राह्व मयूरशवरोहणम्
मातृभिर्भैरवश्चैव मातृरुद्रगणैः सह ॥

4.18

भैरवं भैरवीं दृष्ट्वा सिद्ध्यत्यत्र न संशयः
शुभाः स्वप्ना मयाख्याता अशुभांश्च निबोध मे ॥

4.19

तैलाभ्यङ्गस्तथा पानं विशनं च रसातले
अन्धकूपे च पतनम् अथ पङ्के निमज्जनम् ॥

4.20

वृक्षवाहनयानेभ्यः पतनं हर्म्यपर्वतात्
कर्तनं कर्णनासाभ्याम् अथ वा हस्तपादयोः ॥

4.21

पतनं दन्तकोशानाम् ऋक्षवानरदर्शनम्
वेतालक्रूरसत्वानां तथैव कालपूरुषाः ॥

4.22

कृष्णोर्ध्वकेशा मलिनाः कृष्णमाल्याम्बरच्छदाः
रक्ताक्षी स्त्री च यं स्वप्ने पुरुषं त्ववगूहयेत् ॥

4.23

म्रियते नात्र संदेहो यदि शान्तिं न कारयेत्
गृहप्रसादभेदं च शय्यावस्त्रासनेषु च ॥

4.24

आत्मनो ऽभिभवं संख्य आत्मद्रव्यापहारणम्
खरोष्ट्रश्वसृगालेषु कङ्कगृध्रबकेषु च ॥

4.25

महिषोलूककाकेषु रोहणम् च प्रवर्तनम्
भक्षणम् पक्वमांसस्य रक्तमाल्यानुलेपनम् ॥

4.26

कृष्णरक्तानि वस्त्राणि विकृतात्मा प्रपश्यति
हसनं वल्गनं स्वप्ने म्लानस्रग्दामधारणम् ॥

4.27

स्वमांसोत्कर्तनं बन्धं कृष्णसर्पेण भक्षणम्
उद्वाहं च तथा स्वप्ने दृष्ट्वा नैव प्रसिध्यति ॥

4.28

अशुभा ह्येवमाख्याता विज्ञेया देशिकोत्तमैः
शुभास्तत्रानुमेद्यास्तु अशुभेषु तु होमयेत् ॥

4.29

अष्टोत्तरशतं धाम्ना प्रायश्चित्ताद्विशुद्ध्यति
पूर्ववत् सकलीकृत्य विघ्नोच्चाटनरक्षणम् ॥

4.30

वेष्टनं पूर्ववत् कुर्याच् छिवम्भः शिवहस्तकम्
लोकपालांस्तु संपूज्य शिवकुम्भं च स्थण्डिलम् ॥

4.31

अग्निकार्यं यथापूर्वं पूर्णाहुतिप्रपातनम्
प्रायश्चित्तं ततः पश्चाद् दुस्वप्नार्थं यदुक्तवान् ॥

4.32

एवं पूजादिकं कृत्वा विसृज्य स्थण्डिलच्छिवम्
निर्माल्यापनयं कृत्वा भूमिं संशोध्य पूर्ववत् ॥

4.33

नित्यकर्म ततः कुर्यात् पूजाहोमजपादिकम्
नित्याह्निके समाप्ते तु नैमित्तिकमथाचरेत् ॥

4.34

उपलिप्य शिवाम्भोभिर् ब्रम्ह्मस्थानं प्रपूजयेत्
भावेन गन्धपुष्.पाद्यैः ततो मण्डलमालिखेत् ॥

4.35

करणीं खटिकां चैव भैरवेण प्रपूजयेत्
धाम्ना तु रजसां पातः सिताद्यश्वागमोदितः ॥

4.36

निष्पन्ने मण्डले स्नात्वा नित्यकर्म समाचरेत्
नित्यकर्मसमाप्तौ तु कुर्यान्नैमित्तिकं बुधः ॥

4.37

स्नानादि पूर्वमन्त्रैः सकलीकरणादिकम्
आत्मरक्षास्त्रप्राकार द्वारपालादिपूजनम् ॥

4.38

विघ्नोच्चाटनदिग्बन्धौ भूपातालखवासिनाम्
अस्त्रप्राकारमारोप्य कवचेनावगुण्ठनम् ॥

4.39

उदङ्मुखं तूपविष्टः करशुद्ध्यादि पूर्ववत्
शिवाम्भः शिवहस्तं च अर्घत्रयप्रकल्पनम् ॥

4.40

लोकपालांस्तु संपूज्य शिवकुम्भं प्रपूजयेत्
मण्डलस्याग्रतो भूत्वा मण्डलं प्रोक्ष्य चासिना ॥

4.41

वर्मणा वेष्टयेत् पश्चात् प्रणवेनाभिमन्त्रयेत्
अष्टोत्तरशतं धाम्ना रजोदोषैर्विशुद्ध्यति ॥

4.42

चतुर्दिक्ष्वस्त्रं संपूज्य द्वारे गन्धादिभिः क्रमात्
प्राकारं भावयेदस्त्रं मण्डलं प्रविशेत् ततः ॥

4.43

गुरून् संपूज्य विघ्नेशं पुष्पाद्यैः प्रणवेन तु
अनन्तमासनं प्राग्वच् छिवान्तं प्रणवेन तु ॥

4.44

मूर्त्यादि पूर्वन्न्यस्येद् धृदाद्यावरणान्तगम्
पूर्वोक्तविधिना पूज्य नैवेद्यानि निवेदयेत् ॥

4.45

निरोधार्घेण चार्धं तु दत्वा चैव निरोधयेत्
जपध्यानादिकं कृत्वा अग्निष्ठं भैरवं यजेत् ॥

4.46

नाडीसंधानकं त्रिष्ठं कृत्वा संतर्पयेद्विभुम्
आत्मनो निष्कलोच्चारं कृत्वा कुम्भे निवेशयेत् ॥

4.47

कलशस्थस्य वामेन रोचयेत् पूरयेत्ततः
मण्डलस्थस्य सव्येन पुनर्वामेन रोचयेत् ॥

4.48

अग्निष्ठस्य तु तत्तेजो दक्षिणेन विशन् स्मरेत्
एवं साधनकं कृत्वा ततस्तर्पणमारभेत् ॥

4.49

दशभागविभागेन हुत्वा पूर्णाहुतिं क्षिपेत्
प्रायश्चित्तविशुद्ध्यर्थं कुर्यादष्टोत्तरं शतम् ॥

4.50

विधेः पूर्णातिरिक्तस्य धाम्ना पूर्णाहुतिं ततः
आचार्योठार्धहस्तस्तु मण्डलं प्रविशेत्ततः ॥

4.51

संपूज्य परमेशानं पुष्पाद्यैरर्धपश्चिमम्
मुद्रां बद्ध्वा प्रणम्यादौ जानुभ्यामवनिं गतः ॥

4.52

विज्ञापयेत पश्वर्थं प्रारब्ध्योयं मखोत्तमः
स्नानाधिवासनाद्यं यन् मण्डले ऽग्नौ च यत्कृतम् ॥

4.53

विधानं पुष्कलं सम्यक् त्वत्प्रसादादिहास्तु तत्
इदानीं शिष्यदेहे तु सकलीकरणादिका ॥

4.54

योजन्यन्ताध्वशुद्धिस्तु त्वत्प्रसादात् प्रसिद्ध्यतु
एवमस्त्वित्यनुज्ञातः परमेशेन वीरराट् ॥

4.55

लब्धानुज्ञः प्रहृष्टात्मा निष्क्रामेन्मण्डलाद्बहिः
पश्वर्थाय कृतं यत्तु तद्गृहीत्वार्धपात्रकम् ॥

4.56

धाम्नस्तु दक्षिणे भागे कारयेन्मण्डलं गुरुः
प्रणवासनं कुशैर्न्यस्य शुचिं शिष्यं निवेशयेत् ॥

4.57

शिवाम्भो ऽस्त्रेण संताड्य भस्मना च कुशैः क्रमात्
मण्डले कल्पिते शिष्यं मूर्तिभूतं प्रकल्पयेत् ॥

4.58

उपविश्य करन्यासं निर्दाहाद्यस्त्रपूर्वकम्
सबाह्याभ्यन्तरं न्यासं मन्त्रसंधानमेव च ॥

4.59

शिवहस्तः प्रदातव्यो ध्यात्वा देवं सुजाज्वलम्
मूर्ध्नि संपातयेत्तेजः पाशाङ्कुरविनाशनम् ॥

4.60

उत्थाप्य च ततो नीत्वा मण्डलं तु प्रवेशयेत्
वस्त्रं संप्रोक्ष्य तोयेन कवचेनावगुण्ठयेत् ॥

4.61

पूजयेद्गन्धपुष्पाद्यैर् भैरवेणाभिमन्त्रयेत्
नेत्रे बद्धा तु नेत्रेण पुष्पं पाणौ प्रदापयेत् ॥

4.62

अकामान्निक्षिपेत्पुष्पं देवस्याभिमुखं स्थितः
पुष्पपातवशान्नाम कुर्याद्वै साधकस्य च ॥

4.63

मुमुक्षोर्गुरुरिच्छातः नाम वै साधकस्य वा
मुखमुद्घाट्य तं शिष्यं शिवाय प्रणिपातयेत् ॥

4.64

प्रदक्षिणमतः कृत्वा मण्डलेग्नौ प्रणम्य च
अग्निकुण्डसमीपे तु आचार्यः पशुना सह ॥

4.65

आत्मसव्येथ दिग्भागे मण्डलं प्रणवेन तु
पूर्वन्नाडिसंधानं तद् अर्थं चाहुतित्रयम् ॥

4.66

संपाताभिहुतिं कृत्वा अणुतर्पणमेव च
पूर्णाहुतिं ततो दत्त्वा प्रायश्चित्तानि होमयेत् ॥

4.67

धाम्ना चाष्टशतं पश्चात् पातयेदाहुतित्रयम्
जात्युद्धारे ध्रुवेणैव द्विजत्वापादने तथा ॥

4.68

बीजाहारे तथा देश भावशुद्धौ द्विजो भवेत्
प्रणवेनाहुतीस्तिस्रो रुद्रांशापादने तथा ॥

4.69

अस्त्रेण प्रोक्षयेच्छिष्यं पुष्पयुक्तेन ताडयेत्
रेचकेन ततो गत्वा शिष्यदेहे विशेद्धृदि ॥

4.70

ओंकारादि शिवं जप्त्वा अस्त्रमन्त्रं फडन्तगम्
विश्लेषकरणं कृत्वा चैतन्यस्य विधानतः ॥

4.71

छेदयेदस्त्रमन्त्रेण कवचेनावगुण्ठयेत्
अङ्कुशेन समाकृष्य द्वादशान्ते तु कारयेत् ॥

4.72

तत्रस्थः पुद्गलो ग्राह्यः संपुट्यैव ध्रुवेण तु
संहारमुद्रया सम्यक् पूरकेण विशेद्धृदि ॥

4.73

संस्कुभ्य सरसीकृत्य रेचयेत्पुद्गलं पुनः
त्यजन्तं देवताषट्कं ततश्चापि स्वकं पदम् ॥

4.74

तत्रस्थं पुद्गलं गृह्य संपुट्य च भवेन तु
संहारमुद्रयोद्धृत्य शिष्यस्य हृदि योजयेत् ॥

4.75

भैरवेणाभिमन्त्र्य एवम् उपवीतं शिशोर्ददेत्
आधानाद्यावदन्त्येष्टिं द्विजत्वे संस्कृतो भवेत् ॥

4.76

पिण्डस्यापादनं जातेः आहुतित्रितयेन तु
चैतन्यस्यापि संस्कारम् आधानान्त्येष्टितः परम् ॥

4.77

सूक्ष्मविज्ञानतः कृत्वा द्विजत्वे संस्कृतो भवेत्
शतहोमं सहस्रं वा हुत्वा पूर्णाहुतिं ततः ॥

4.78

समयी संस्कृतो ह्येवं वचनेष्यार्हता भवेत्
श्रवणे ऽध्ययने होमे पूजनादौ तथैव च ॥

4.79

चर्याध्यानविशुद्धात्मा लभते पदमैश्वरम्
अथ दीक्षाध्वशुद्ध्यर्थं भुक्तिमुक्तिफलार्थिनाम् ॥

4.80

विधानमुच्यते सूक्ष्मं पाशविच्छत्तिकारकम्
गुरुः संपृच्छते शिष्यं द्विविधं फलकाङ्क्षिणम् ॥

4.81

फलमाकाङ्क्षसे यादृक् तादृक् साधनमारभे
वासनाभेदतः प्राप्तिः साध्यमन्त्रप्रचोदिता ॥

4.82

मन्त्रमुद्राध्वद्रव्याणां होमः साधारणः स्मृतः
वासनाभेदतो भिन्नः शिष्याणां च गुरोस्तथा ॥

4.83

साधको द्विविधस्तत्र शिवधर्म्येकतः स्थितः
शिवमन्त्रविशुद्धाध्वा साध्यमन्त्रनियोजितः ॥

4.84

ज्ञानवांश्चाभिषिक्तश्च मन्त्राराधनतत्परः
त्रिविधायास्तु सिद्धेर्वै सो ऽत्रार्हः शिवसाधकः ॥

4.85

द्वितीयो लोकमार्गस्थ इष्टापूर्तविधौ रतः
कर्मकृत्फलमाकाङ्क्षञ् शुभैकस्थो ऽशुभोज्झितः ॥

4.86

तस्य कार्यं सदा मन्त्रैर् अशुभांशविनाशनम्
गृहस्थो वा यतिर्वासाव् आश्रमैकतमस्थितः ॥

4.87

मुमुक्षुर्द्विविधः प्रोक्तो निर्बीजो बीजवान्पुनः
बालबालिशवृद्धस्त्री भोगभुग्व्याधितात्मनाम् ॥

4.88

एषां निर्बीजिका दीक्षा समयदिविवर्जिता
विद्वद्द्वन्द्वसहाना तु सबीजा कीर्तिता प्रिये ॥

4.89

दीक्षानुग्राहिका तेषां समयाचारसंयुता
विशेषसमयाचारा मन्त्राख्ये ये प्रकीर्तिताः ॥

4.90

ते ऽत्र पाल्याः प्रयत्नेन मोक्षसिद्धिमभीप्सता
सबीजा सा तुविज्ञेया पुत्रकाचार्ययोः स्थिता ॥

4.91

गृहस्थो वाश्रमी वाथ यतिः संकल्प्य दीक्षयेत्
पाशसूत्रकमादाय शिष्यदेहे ऽवलम्बयेत् ॥

4.92

अध्वानं संधयेदग्नौ धाम्ना चैव विचक्षणः
कुम्भमण्डलवह्निस्थश् चाध्वात्मस्थः शिशोश्च यः ॥

4.93

सूत्रस्थश्चापि चैकत्र अध्वसंधिः प्रकीर्तितः
षड्विधस्याध्वमार्गस्य साधारणगतस्य तु ॥

4.94

कुण्डे संकल्प्य संशोध्य मध्वसंधौ तु होमयेत्
मूलमन्त्राष्टशतिक मध्वसंधानहेतुतः ॥

4.95

अध्वावलोकनं पश्चाद् व्याप्यव्यापकभेदतः
भुवनव्याप्तिता तत्त्वेष्व् अनन्तादिशिवान्तके ॥

4.96

व्यापकानि च षट्त्रिंशत् मन्त्रवर्णपदात्मकाः
तत्त्वान्तर्भाविनः सर्वे वाच्यवाचकयोगतः ॥

4.97

कलान्तर्भाविनस्ते वै निवृत्त्याद्याश्च ताः स्मृताः
हृदाद्या वाचकास्तासां बीजामन्त्राः प्रकीर्तिताः ॥

4.98

एकिकस्याः कलायाश्च पृथग्व्याप्तिं विभावयेत्
पृथिव्यादिकला ज्ञेया ब्रह्माद्याः कारणाश्च ते ॥

4.99

एवं व्याप्तिं भावयित्वा अध्वोपस्थापनं भवेत्
त्रिराहुतिं ध्रुवेणैव अध्वशुद्धिरतो भवेत् ॥

4.100

अग्नौ तु पूजिते देवे अध्वन्यासे कृते सति
तदेव पादादारभ्य पृथिव्यादिक्रमान्न्यसेत् ॥

4.101

धामाधिः प्रणवादिश्च निवृत्त्यै च नमः पुनः
उपस्थापनमन्त्रो ऽयं व्याप्तिं ध्यात्वाध्वसंस्थिताम् ॥

4.102

निवृत्त्यभ्यन्तरे पृथ्वी शतकोटिप्रविस्तरा
तस्यां च भुवनानां च शतमष्टोत्तरावधि ॥

4.103

अष्टाविंशतिः पदानि वर्ण एको ऽत्र संस्थितः
मन्त्रौ द्वावेव विज्ञेयौ अध्वषट्कं विभावयेत् ॥

4.104

पुष्पगन्धादिना पूज्य संनिधावाहुतित्रयम्
मायीया भुवनाकारा मलाः कर्म च संस्थिताः ॥

4.105

शरीरभुवनाकारा मायीयाः परिकीर्तिताः
भोगहेतुश्च कर्म स्याद् अभिलाषो मलो ऽत्र तु ॥

4.106

एवं पाशत्रयं भाव्यं दीक्षायामध्वसंस्थितम्
तद्विशुद्ध्यै च दीक्षा च क्रियते सा यथाविधि ॥

4.107

आदौ शक्तिं न्यसेद्देवि कलातत्त्वसमन्विताम्
हृदा संकल्प्य वागीशीं व्यापिकां सर्वयोनिषु ॥

4.108

शतरुद्राद्यनन्तान्तं योनयो विविधाः स्थिताः
समकालमृतुत्वेन वागीशीं संनिधापयेत् ॥

4.109

ध्रुवेण पूजयेत्पुष्पैर् गन्धधूपैरनुक्रमात्
ओंकारेणाहुतिस्तिस्रो वागीशीसंनिधापने ॥

4.110

शिष्यं संप्रोक्ष्य चास्त्रेण ताडयेदस्त्रमुच्चरन्
रेचकेनात्मनो गत्वा छिन्द्यात्तस्यासिना हृदः ॥

4.111

धाम्नाकृष्य तदात्मानं द्वादशान्ते निधापयेत्
ध्रुवेण तत्स्थं संपुट्य चैतन्यं मुद्रयात्मनि ॥

4.112

पूरयेद्भैरवेणैव कुम्भयेद्रेचयेत्ततः
द्वादशान्तात्तु संगृह्य योजयेद्भवमुद्रया ॥

4.113

आत्मानमीश्वरं ध्यात्वा मायां वागीश्वरीमपि
संयोज्य तस्यां चैतन्यं शरीराण्यध्वनि सृजेत् ॥

4.114

प्राक्कर्मवासनाशेष फलभोगत्वहेतवे
युगपद्भिन्नभोगानि देशकालशरीरतः ॥

4.115

मन्त्रशक्त्या विपच्यन्ते पुद्गलाश्च तथाविधाः
भिनादेहा विसृज्यन्ते गर्भे वागीशियोनिषु ॥

4.116

धाम्ना च योजयित्वा च जुहुयादाहुतित्रयम्
युगपत्सर्वगर्भेषु देहा विविधरूपकाः ॥

4.117

भैरवेच्छासुसंपन्नः शतरुद्राद्यनन्तगाः
गर्भेषु गर्भनिष्पत्ति भैरवेणाहुतित्रयम् ॥

4.118

हुत्वा तु जननं कार्यं पुनस्तेनाहुतित्रयात्
सर्वयोनिषु देहास्ते युगपद्वृद्धिमागताः ॥

4.119

भोगनिष्पत्तये कर्म व्यापरसहकारणम्
तदभावान्न भोगः स्यात् तदर्थं मार्जनं स्मृतम् ॥

4.120

अर्जिते [आर्जिते] सति भोक्तव्यो भोगो दुःखसुखात्मकः
लयः परमया प्रीत्या सुखदुःखादिके ऽप्यलम् ॥

4.121

तिसृभिस्तिसृभिर्होमं धाम्नैव त्रिषु कारयेत्
आहुतीनां शतं होम्यं धाम्ना निष्कृतये पुनः ॥

4.122

यत्कर्मभोग्यरूपं तु जात्यायुर्भोगलक्षणम्
निष्कृत्यन्ते विशुद्ध्येत्तद् भूलोकसमवस्थितम् ॥

4.123

संसारा दशचत्वारः संस्कारा अष्टभिः सह
चत्वारिंशद् द्विजत्वाय वक्ष्यन्ते भुवनाध्वनि ॥

4.124

योनिर्बीजं तथा भाव आहारो देश एव च
एतेषां शोधनं देवि रुद्रांशापादनं तथा ॥

4.125

अत्रावलोकनं कृत्वा निष्.कृत्यामेव शुद्ध्यति
विषया भुवनाकारा ये केचिद्भोग्यरूपिणः ॥

4.126

भुक्तकर्मफलाशेषा निष्कृतिस्तेन सा स्मृता
विश्लेषो निष्कृतेर्भोगात् भोगाभावे स हि स्मृतः ॥

4.127

भोक्तृत्वं विषयासक्तिर् मलकार्यं प्रकीर्तितम्
भोक्तृत्वाभावस्तत्रैव शरीरेण तु यत्कृतम् ॥

4.128

विश्लेषः क्रियते तस्य पशोर्मन्त्रैः शिवाज्ञया
धाम्ना चाहुतयस्तिस्रो विश्लेषकरणाय च ॥

4.129

आहुतित्रितयं धाम्ना पाशच्छेदे ऽपि दापयेत्
पाशा देहे तु मायीयाः कलाद्या भूतकावधि ॥

4.130

शरीरकरणाकाराः पुरुषार्थप्रसिद्धये
भोगाभावाद्विपद्यन्ते शरीराणि सहस्रधा ॥

4.131

पाशच्छेदे विधिस्तस्य मन्त्रैश्च विधिचोदितैः
एवं पाशत्रयस्यापि विश्लेषो दीक्षयोच्यते ॥

4.132

शरीरशेषभङ्गेन एकचैतन्यभावना
पूर्णाहुतिं शिवेनैव वौषड्जातियुतेन च ॥

4.133

शुद्धतत्त्वाग्रसंस्थं तच् चैतन्यं कनकप्रभम्
उद्धारायाहुतीस्तिस्रः पुनर्धाम्ना तु दापयेत् ॥

4.134

तस्मात् तत्त्वाद्गृहीत्वा तु चैतन्यं मलसंयुतम्
मुद्रया प्राग्विधानेन आत्मस्थं पूरयेद्द्धृदि ॥

4.135

कुम्भित्वा रेच्य संगृह्य द्वादशान्ताद् ध्रुवेण तु
शिष्यदेहे निवेश्यैतन् नाडीरन्ध्रेण पूर्ववत् ॥

4.136

तत्स्थीकरणहेत्वर्थं धाम्ना चैवाहुतित्रयम्
कलाशुद्ध्यवसाने तु ब्रह्माणं कारणाधिपम् ॥

4.137

स्वनामप्रणवाह्वान पूर्वं संतर्प्य चार्पयेत्
शब्दस्पर्शो त्यजेत् तस्मिन् ध्रुवाद्यौ नामसंयुतौ ॥

4.138

स्वाहाकारप्रयोगेन तौ ब्रह्मणि निवेदयेत्
तिसृभिस्तिसृभिर्होमात् पुर्यष्टांशं निवेदयेत् ॥

4.139

आमन्त्रणविभक्त्या तु श्रावणां तस्य कारयेत्
ब्रह्माणं पूजयित्वा तु होमं कृत्वा विसर्जयेत् ॥

4.140

ध्रुवेणाभ्यर्च्य वागीशीं संतर्प्य च विसर्जयेत्
हुत्वावलोकयेत्तत्र विशुद्धं पाशजालकम् ॥

4.141

प्राक्कर्मभाविकस्याथ अभावं भावयेत्तदा
मुमुक्षोर्निरपेक्षत्वात् प्रारब्ध्रेकं न शोधयेत् ॥

4.142

साधकस्य तु भूत्यर्थं प्राक्कर्मैकं तु शोधयेत्
प्राक्कर्मागामि चैकस्थं भावयित्वा च दीक्षयेत् ॥

4.143

शिवधर्मिण्यसौ दीक्षा लोकधर्मिण्यतो ऽन्यथा
प्राक्तनागमिकस्यापि अधर्मक्षयकारिणी ॥

4.144

लोकधर्मिण्यसौ ज्ञेया मन्त्राराधनवर्जिता
प्रारब्धदेहभेदे तु भुङ्क्ते स ह्यणिमादिकान् ॥

4.145

भुक्त्वा व्रजेदूर्ध्वं गुरुणा यत्र योजितः
सकले निष्कले वापि शिष्याचार्यवशाद्भवेद् ॥

4.146

निर्वाणे ऽपि सबीजायां कर्माभावाद्विपद्यते
समयाचारपाशं हि दीक्षितः पालयेत्तु यः ॥

4.147

तं पाशं नैव शुद्ध्येत सा सबीजा प्रकीर्तिता
समयाचारपाशं तु निर्बीजायां विशोधयेत् ॥

4.148

दीक्षामात्रेण मुक्तिः स्याद् भक्रिमात्राद्गुरोः सदा
सद्योनिर्वाणदा दीक्षा निर्बीजा सा द्वितीयका ॥

4.149

अतीतनागतारब्ध पाशत्रयवियोजिका
दीक्षावसाने शुद्धिः स्याद् देहत्यागे परं पदम् ॥

4.150

एवं भावानुसारेण शिष्याणां गुरुणा सदा
फलं तु विविधाकारं निष्पाद्येत सुदीक्षया ॥

4.151

अचिन्त्या मन्त्रशक्तिर्वै परमेशमुखोद्भवा
क्रिया काले प्रयोक्तव्या गुरुणा भक्तिपूर्विका ॥

4.152

विषाणमिव पाशानां मन्त्रैः कवलनं ध्रुवम्
करोति मन्त्रतत्त्वज्ञः शिवावेशी गुरुः क्षणात् ॥

4.153

कलासंधानकं कुर्याच् छुद्धाशुद्धद्विरूपगम्
शुद्धमुच्चारयेध्रस्वम् अशुद्धं दीर्घमेव च ॥

4.154

एकत्वं भावयित्वा तु लीनं शुद्धं विभावयेत्
प्रणवादिनिवृत्तिस्तु प्रतिष्ठा तदनन्तरम् ॥

4.155

नमस्कारस्तदन्ते तु कलासंधानकं स्मृतम्
आवाह्य स्थाप्य संपूज्या हुतीस्तिस्रः प्रपातयेत् ॥

4.156

कलासंधानमेतद्धि व्याप्तिं तस्यावलोकयेत्
गुल्फादारभ्य नाभ्यन्तं शिष्यदेहे ऽध्वकल्पनम् ॥

4.157

प्रतिष्ठाया भवेद्व्याप्तिश् चतुर्विंशतितत्त्विका
षट्पञ्चाशद्भुवनिका त्रयोविंशतिवर्णिका ॥

4.158

ज्ञेयैकविंशतिपदा त्रिमन्त्रा च विधीयते
मुख्या ह्येते स्मृताः पाशाः सूक्ष्मानन्तर्विभावयेत् ॥

4.159

अन्यत्तन्त्रप्रसिद्धिं तु तन्मात्रेन्द्रियशोधनम्
षट्कोशान्विषयान् पञ्च तदन्तर्भावयेत्सदा ॥

4.160

विशेषस्थापनं कृत्वा पूज्या गन्धादिभिस्ततः
भैरवेणाहुतीस्तिस्रः तस्या वागीशिकल्पना ॥

4.161

स्वनामावाहनाद्यस्य अर्धहोमादि पूर्ववत्
प्रोक्षणं ताडनं छेद आकर्षग्रहणे तथा ॥

4.162

धाम्नापूर्य कुम्भयित्वा छित्त्वाथ ग्राहयेत्पुनः
योजनं गर्भधारित्वं जननं पूर्ववत्क्रमात् ॥

4.163

ऐश्वरीं मूर्तिमास्थाय ताडनादीनि कारयेत्
अधिकारस्थथा भोगो लयो निष्कृतिरेव च ॥

4.164

शिवरूपेण कर्तव्याः निष्कृतिः शिरसा पुनः
विश्लेषश्च हृदा होम्यः पाशच्छेदस्तथासिना ॥

4.165

पूर्णाहुतिसमुद्धारं पूर्ववद्भैरवेण तु
सदाशिवतनौ स्थित्वा विश्लेषादीनि कारयेत् ॥

4.166

आत्मस्थं पूरकेणैव तत्स्थं रेचकवृत्तितः
स्वनाम्नोच्चारयेद्विष्णुं ध्यात्वावाह्य तु स्थापयेत् ॥

4.167

पूजयेत्पुष्पगन्धाद्यैः तर्पणाहुतित्रयम्
रसं पुर्यष्टकांशं तु अर्पयेद्विष्णवे सदा ॥

4.168

विसर्जयेत्ततो विष्णुं वागीशीं च विसर्जयेत्
कलासंधिर्यथापूर्वं ह्रस्वदीर्घप्रयोगतः ॥

4.169

अभावं भावयेत्तस्मिन् पाशजाले त्वनन्तके
कलाद्वयविनिर्मुक्तः पशुरूर्ध्वगमोत्सुकः ॥

4.170

तस्येदानीं तृतीयस्यां विद्यायां योज्य शोधयेत्
स्थापयित्वा संपूज्य जुहुयादाहुतित्रयम् ॥

4.171

एवं तु संमुखीकृत्य प्रागिवाध्वावलोकनम्
पुंस्तत्त्वाद्यावन्मायान्तं विद्याया व्याप्तिरिष्यते ॥

4.172

सप्त तत्त्वानि भुवन सप्तविंशतिरेव च
पदविंशतिराख्याता वर्णाः सप्त प्रकीर्तिताः ॥

4.173

मन्त्रौ द्वौ षड्विधाध्वानं ज्ञात्वा वागीशिकल्पनम्
प्रणवेन समावाह्य व्यापिनीं सर्वयोनिषु ॥

4.174

समकालमृतुत्वेन ध्यात्वा संपूज्य तर्पयेत्
ततः शिवाम्भसा शिष्यं प्रोक्ष्य चास्त्रेण ताडयेत् ॥

4.175

तेनैव चास्त्रभूतेन हुंफट्कारयुतेन तु
आत्मनो रेवकेनैव शिष्यदेहे विशेद्धृदि ॥

4.176

अस्त्रमन्त्रेण संछेद्य विशेषाश्लेष्यास्त्रेण कर्षयेत्
द्वादशान्तात्तु संगृह्य आत्मस्थं पूर्ववत्कुरु ॥

4.177

पूरकेणाथ संकुम्भ्य रेचयित्वा तु योजयेत्
पूर्ववद्द्व्यापकं तस्य चैतन्यं सर्वयोनिषु ॥

4.178

योगाद्यं लयपर्यन्तं धाम्ना चैवात्र पूर्ववत्
शिखया शतहोमात्तु विद्याया निष्कृतिर्भवेत् ॥

4.179

प्रणवादि ततो रुद्रम् आवाह्य स्थाप्य पूजयेत्
ततो ऽस्य विन्यसेद्देवि गन्धरूपे ध्रुवाहुती ॥

4.180

पुर्यषकांशं विन्यस्य विसर्ज्य रुद्रदेवताम्
वागीशीं च विसर्ज्यैवं कलासंधिश्च पूर्ववत् ॥

4.181

ह्रस्वदीर्घविभागेन विद्यां शान्तौ नियोजयेत्
संधानार्थं तु मूलेन जुहुयादाहुतित्रयम् ॥

4.182

स्वनाम्नावाहनं शान्तेर् विधिपूर्वं निवेदनम्
प्रमेयभावनां कृत्वा पूजयेत् कुसुमादिभिः ॥

4.183

त्रिराहुतिं तु मूलेन विद्यातत्त्वात्सदाशिवम्
तत्त्वानां त्रितये व्याप्तिर् वर्णानां त्रय एव च ॥

4.184

पदैकादशिका ज्ञेया पुराणि दश सप्त च
मन्त्रौ द्वौ षड्विधो ऽध्वैवं मुख्याः पाशा इमे स्मृताः ॥

4.185

सूक्ष्मपाशाननेकांश्च तदन्तर्भावयेत्सदा
वगीशीं कल्पयेत्तत्र पूर्वेण विधिनाहुतिः ॥

4.186

पूजनं मूलमन्त्रेण ततः प्रोक्षणताडनम्
छेदाकर्षग्रहं चैव योगधारित्वजन्म च ॥

4.187

अधिकारस्तथा भोगो लयो वै पूर्ववद्भवेत्
सर्वे ते मूलमन्त्रेण आहुतित्रितयेन तु ॥

4.188

निष्कृतौ शतहोमं तु कवचेन तु कारयेत्
विश्लेषं पाशछेदं तु कुर्यादस्त्रेण दैशिकः ॥

4.189

उद्धारकरणात्मस्थ तत्स्थीकारान्भवेन तु
स्वनाम्ना प्रणवाद्येन ईशमावाह्य पूजयेत् ॥

4.190

संपूज्य हुत्वा संतर्प्य बुद्ध्यहंकृतिद्यंशकम्
स्वनाम्ना प्रणवाद्यं तु स्वाहान्ते बुद्धिमर्पयेत् ॥

4.191

अहंकारं तथाप्येवं हुत्वेदं क्षमयेत्ततः
वागीशीं पूजयित्वा तु तर्पयित्वा विसर्जयेत् ॥

4.192

कलासंधानकं पूर्वं शान्त्यतीते तु योजयेत्
ह्रस्वदीर्घविभागेन जुहुयादाहुतित्रयम् ॥

4.193

ध्रुवेण तत्त्वसंधानं कर्तव्यं विधिवेदिना
कलोपस्थापनं पश्चाद् ध्रुवेण जुहुयात्प्रिये ॥

4.194

त्रिराहुतिप्रयोगेण स्वनामपदमुच्चरन्
शान्त्यतीतां समावाह्य स्थापयेत्पूजयेत्पुनः ॥

4.195

व्याप्तिमालोक्य चाध्वस्थां शिवतत्त्वगताश्च ये
बिन्दुर्नादस्तथा शक्तिः शिवतत्त्वे व्यवस्थिताः ॥

4.196

पदमेकं मन्त्र एको वर्णाः षोडश कीर्तिताः
भुवनानि तु सूक्ष्माणि शान्त्यतीते तु भावयेत् ॥

4.197

शोधनीया वरारोहे यावत्ते शिवरश्मयः
शिवस्योर्ध्वे शिवो ज्ञेयो यत्र युक्तो न जायते ॥

4.198

षडध्वा चैकतो ज्ञेयः तस्य संख्यां पुनः शृणु
कलाश्च पञ्च विज्ञेयास् तत्त्वषट्त्रिशदेव तु ॥

4.199

सचतुर्विंशति ज्ञेयं भुवनानां शतद्वयम्
एकाशीतिपदान्यत्र वर्णार्धशतिका स्मृता ॥

4.200

मन्त्रा एकादशा ज्ञेया इत्येतच्चाध्वमण्डलम्
एतस्मिञ्शुद्धिमापने मुक्तिमाप्नोति दीक्षितः ॥

4.201

ध्रुवेणावाह्य वागीशीं विन्यसेत् पूर्ववद्धुतिः
संपूज्य कुसुमादयिस्तु तद्योनौ पूर्ववत्पशुम् ॥

4.202

ध्रुवेण सर्वं कर्तव्यं जननादिलयान्तकम्
निष्.कृतौ शतहोमं तु मूलमन्त्रेण कल्पयेत् ॥

4.203

विश्लेषपाशच्छेदाभ्यां प्राग्वत्कुर्याद्ध्रुवेण तु
ग्रहेणात्मस्थतत्स्थत्वं प्रणवेन पशोः स्मृतम् ॥

4.204

सदाशिवमथावाह्य मूलमन्त्रं समुच्चरन्
नमस्कारेण संस्थाप्य पुष्पैः संपूज्य तर्पयेत् ॥

4.205

मनः पुर्यष्टकांशं तु विन्यसेत्कारणेश्वरे
प्रणवादि समुच्चार्य मनःसंज्ञां नमस्तथा ॥

4.206

विन्यस्य पूजयेत्पश्चात् संज्ञास्वाहान्तमेव च
आहुतित्रितयं हुत्वा पुर्यष्टांशाद्विशुद्ध्यति ॥

4.207

ततो विसर्जयेद्देवं कारणं च सदाशिवम्
पुष्पादिभिः समभ्यर्च्य वागीशीं तदनन्तरम् ॥

4.208

ता तु संपूज्य संतर्प्य विज्ञाप्या भक्तिभाविता
क्षमस्व देवदेवेशि पश्वर्थं खेदिता मया ॥

4.209

इदानीं नोपरोद्धव्यं गच्छ देवि स्वविष्टपम्
विसर्ज्यैवं कला भाव्या शान्त्यतीता लयं गता ॥

4.210

स्वशक्त्याधारपर्यन्ते सुसूक्ष्माभावसंस्थिते
आत्मतत्त्वविभागेन धाम्ना वै जुहुयाच्छतम् ॥

4.211

सशबोच्चारयोगेन आत्मतत्त्वे तु होमयेत्
मायातत्त्वावधि ज्ञेयं दैशिकेन महाध्वरे ॥

4.212

विधिवैकल्यकर्मार्थं प्रायश्चित्तविशुद्धये
विद्यातत्वे तु होतव्यं शतमष्टोत्तरं प्रिये ॥

4.213

उपांशूच्चरयोगेन विद्यातत्त्वे तु होमयेत्
सदाशिवान्तमध्वानं विद्यातत्त्वं विनिर्दिशेत् ॥

4.214

मन्त्रोच्चरवोलोमेन प्रायश्चित्तं तु यद्भवेत्
तद्विशुद्ध्यै स होमः स्याद् विद्यातत्त्वे तु यः कृतः ॥

4.215

मनोविज्ञानवैकल्यात् प्रायश्चित्तं तु यद्भवेत्
तच्छुद्ध्यर्थं शिवे तत्त्वे मूलमन्त्रेण होमयेत् ॥

4.216

मानसेन प्रयोगेन शक्त्यन्ते ऽध्वनि संस्थितम्
तत्त्वत्रयविशुद्ध्यन्ते शिखाच्छेदं तु कल्पयेत् ॥

4.217

अध्वान्तस्थां परां शान्ताम् अनौपम्यामनामयाम्
व्यापिनीं सर्वतत्त्वानां सर्वकारणकारणम् ॥

4.218

ध्यात्वा शिशोः शिखाग्रे तु पुष्पाग्रे जलबिन्दुवत्
कर्तरीं शिखयामन्त्र्य शिखया च्छेदयेच्छिखाम् ॥

4.219

शिखां समर्प्य चान्यस्य निर्गच्छेत्स सशिष्यकः
स्नानं समाचरेच्छिष्यः गुरोराचमनं भवेत् ॥

4.220

स्नानमुद्धूलनं वाथ आचरेत्स्वेच्छया गुरुः
प्रविश्य सकलीकृत्य पूर्णया जुहुयाच्छिखाम् ॥

4.221

हुत्वा निर्गम्य चाचम्या क्षाल्य स्रुक्स्रुवकर्तरीः
प्रविश्य सकलीकृत्य शिवहस्तानुपूजनम् ॥

4.222

ततस्तु मण्डले पश्चात् पूजयेत्परमेश्वरम्
पुष्पादिभिरशेषैस्तु ततो विज्ञापयेच्छिवम् ॥

4.223

भगवंस्त्वत्प्रसादेन अध्वष्टकव्यवस्थितम्
पशुं संगृह्य संशोध्य शिखाच्छेदावसानकम् ॥

4.224

त्वन्मुखोक्तविधानं तु लेशतो वर्तितं मया
त्वच्छक्त्यैव तु गन्तव्यम् आशु ध्रुवपदं शिवम् ॥

4.225

इदानीं योजने कर्म तवाज्ञानुविधायिनः
आज्ञा मे दीयतां नाथ शिष्यं संयोजयाम्यहम् ॥

4.226

लब्धानुज्ञातमात्मानं प्रहृष्टो निर्गतः पुरात्
अर्धहस्तो व्रजेदग्निम् शिष्यमाहूय प्रोक्षयेत् ॥

4.227

पूर्ववच्चासनस्थस्य सकलीकरणादिकम्
अन्तःकरणविन्यासं नाडीसंधानपूर्वकम् ॥

4.228

पूजनं तर्पणं चाग्नौ मन्त्राणां च शिवस्य च
दशभागविभागेन यथा द्रव्यानुसारतः ॥

4.229

मन्त्रान्संशोधयेत्पश्चात् सकलीकरणे स्थितान्
सकृदाहुतियोगेन अधिकारो विवर्ज्यताम् ॥

4.230

सकलीकरणत्वेन न कदाचित्पशोः पुनः
योजनीयं प्रयोगं तु अधुना कथयामि ते ॥

4.231

ज्ञात्वा चारप्रमाणं तु प्राणसंचारमेव च
षड्विधाध्वविभागं तु प्राणैकत्र यथास्थितम् ॥

4.232

हंसोच्चारं तु वर्णैश्च कारणत्यागमेव च
शून्यं समरसं ज्ञेयं त्यागं संयोगमुद्भवम् ॥

4.233

भेदनं च पदार्थानां भावप्राप्तिवशात्पुनः
आत्मविद्याशिवव्याप्तिम् एवं ज्ञात्वा तु योजयेत् ॥

4.234

तद्विभागं प्रवक्ष्यामि यथा ज्ञायेत तत्त्वतः
षट्त्रिंशदङ्गुलश्चारो हृत्पद्माद्यावशक्तितः ॥

4.235

तुटिषोडशमानेन कालेन कलितः प्रिये
संचरन्तं विभागेन यथावत्तं शृणुष्व मे ॥

4.236

हृत्पद्माद्यावदयनं भागमेकं त्यजेत्तु सः
नासिकाग्रे द्वितीयं तु शक्त्यन्ते तु तृतीयकम् ॥

4.237

तत्रस्थो विनिवर्तेत यावत्तत्त्वं न विन्दति
विदिते तु परे तत्त्वे तत्रस्थो ऽपि न बाध्यते ॥

4.238

शक्त्या चाधो यदा गच्छेद् अबुधस्तु तदा भवेत्
हृद्गतः पुनरुत्तिष्ठेद् बुध्यमानः स उच्यते ॥

4.239

शक्तिं प्राप्य बुधो ज्ञेयः व्यापिन्यंशे प्रबुद्धता
अतीतः सुप्रबुद्धस्तु उन्मनस्त्वं तदा भवेत् ॥

4.240

न कालो न कला चारो न तत्त्वं नच कारणम्
सुनिर्वाणं परं शुद्धं गुरुपारम्परागतम् ॥

4.241

तद्वोदित्वा विमुच्येत गत्वा भूयो न जायते
अध्वष्ट्कं यथा प्राणे संस्थितं कथयामि ते ॥

4.242

आपादान्मूर्धपर्यन्तं चितेः संवेदनं हि यत्
भुवनाध्वा स विज्ञेयस् तत्त्वाध्वा च तथैव हि ॥

4.243

कलाकलितसंतानः प्राणः संचरते सदा
निवृत्तिश्च प्रतिष्ठा च अधोभागे प्रवर्तिके ॥

4.244

विद्या शान्तिस्तथा चोर्ध्वे शान्त्यतीता त्वधिष्ठिका
तदतीतः परो भावः तदूर्ध्वम्. पदमव्ययम् ॥

4.245

एवं बिन्दुकला ज्ञेया नादशक्त्यात्मिकाश्च याः
व्यापिन्याद्यात्मिका याश्च व्याप्यव्यापकभेदतः ॥

4.246

प्राणैकसंस्थिताः सर्वाः षट्त्यागात्सप्तमे लयः
कलाध्वैवं समाख्यातो वर्णाध्वानं निबोध मे ॥

4.247

वर्णाः शब्दात्मकाः सर्वे जगत्यस्मिंश्चराचरे
स्थिताः पञ्चशता भेदैः शास्त्रेष्वानन्त्यकोटिषु ॥

4.248

शब्दात्प्राणः समाख्यातस् तस्माद्वर्णास्तु प्राणतः
उत्पद्यन्ते लयं यान्ति यत्र शब्दो लयं गतः ॥

4.249

शब्दातीतो वरारोहे तत्त्वेन सह युज्यते
युक्तः सर्वगतो देवि धर्माधर्मविवर्जितः ॥

4.250

नाधो निरीक्षते भूयः शिवतत्त्वं गतो यदा
अधो वै यात्यधर्मेण धर्मेणोर्ध्वं व्रजेत्पुनः ॥

4.251

विज्ञानेन द्वयं त्यक्त्वा सर्वगस्तु भवेदिह
वर्णाध्वैवं समाख्यातः पदाध्वा प्रोच्यते ऽधुना ॥

4.252

एकाशीतिपदान्येव विद्याराजस्थितान्यपि
वर्णात्मकानि तान्यत्र वर्णाः प्राणात्मकाः स्थिताः ॥

4.253

तस्मादेवं पदान्यत्र तानि प्राणक्रमेण तु
पदाध्वैवं समाख्यातः मन्त्राध्वानं निबोध मे ॥

4.254

मन्त्रिकादशिका या तु सा च हंसे व्यवस्थिता
पदिकादशिका सा च प्राणे चरति नित्यशः ॥

4.255

अकारश्च उकारश्च मकारो बिन्दुरेव च
अर्धचन्द्रो निरोधी च नादो नादान्त एव च ॥

4.256

शक्तिश्च व्यापिनी चैव समनैकादशी स्मृता
उन्मना च ततो ऽतीता तदतीतं निरामयम् ॥

4.257

मन्त्रा एवं स्थिताः प्राणे हंसोच्चारस्तथोच्यते
हकारस्तु स्मृतः प्राणः स्वप्रवृत्तो हलाकृतिः ॥

4.258

अकारेण यदा युक्त उकारचरणेन तु
मकारमात्रया युक्तो वर्णोच्चारो भवेत्स्फुटः ॥

4.259

बिन्दुः शिरःसमायोगात् सुस्वरत्वं प्रपद्यते
नादो ऽस्य वदनं प्रोक्तः वदनं शब्दमीरयेत् ॥

4.260

अनेनैव च योगेन हंसः पुरुष उच्यते
ब्रह्मविष्ण्वीशमार्गेण चरन्वै सर्वजन्तुषु ॥

4.261

शक्तितत्त्वे लयं याति विज्ञानेनोर्ध्वतां व्रजेत्
व्यापिनीं समनां त्यक्त्वा व्रजेदुन्मनया शिवम् ॥

4.262

शिवतत्त्वगतो हंसो न चरेत् व्यापको भवेत्
हंसोच्चारः समाख्यातः कारणैश्च समन्वितः ॥

4.263

हकारः प्राणशक्त्यात्मा अकारो ब्रह्मवाचकः
हृदि त्यागो भवेत्तस्य उकारो विष्णुवाचकः ॥

4.264

कण्ठे त्यागो भवेत्तस्य मकारो रुद्रवाचकः
तालुमध्ये त्यजेत्तं तु बिन्दुश्चैवेश्वरः स्वयम् ॥

4.265

त्यागस्तत्र भ्रुवोर्मध्ये नादे वाच्यः सदाशिवः
ललाटान्मूर्धपर्यन्तं त्यागस्तस्य विधीयते ॥

4.266

शक्तिव्यापिनीसमनास् तासां वाच्यः शिवो ऽव्ययः
मूर्धमध्ये त्यजेच्छक्तिं तदूर्ध्वे व्यापिनीं त्यजेत् ॥

4.267

समनां उन्मनां त्यक्त्वा षट्त्यागात्सप्तमे लयः
सूक्ष्मसूक्ष्मतरैर्भावैर् एवमेवं त्यजेत्प्रिये ॥

4.268

स्थूलस्थूलतरैर्भावैर् नानासिद्धिफलप्रदैः
सूक्ष्मो ऽत्यन्तं परो भावस् त्व् अभावः स विधीयते ॥

4.269

उन्मना त्वपरो भावः स्थूलस्तस्यापरो मतः
तस्यापरं पुनः शून्यं संस्पर्शं च ततो ऽपरम् ॥

4.270

शब्दो ज्योतिः ततो मन्त्राः कारणा भुवनानि च
पञ्चभूतात्मभुवनं कारणैः समधिष्ठितम् ॥

4.271

भुवनं चिन्तयेद्यस्तु वक्ष्यमाणैकरूपकम्
भुवनेशत्वमाप्नोति शिवं ध्यात्वा तु तन्मयः ॥

4.272

ब्रह्मादिकारणानां च साधने विग्रहं स्मरन्
पूर्वोक्तलक्षणं यश्च तन्मयत्वमवाप्नुयात् ॥

4.273

मन्त्रिश्च मन्त्रसिद्धिस्तु जपहोमार्चनाद्भवेत्
पूर्वोक्तरूपकध्यानात् सिद्ध्यन्त्यत्र न संशयः ॥

4.274

ज्योतिर्ध्यानात्तु योगीन्द्रो योगसिद्धिमवाप्नुयात्
तन्मयत्वं यदाप्नोति योगिनामधिपो भवेत् ॥

4.275

शब्दध्यानाच्च शब्दात्मा वाङ्मयापूरको भवेत्
स्पर्शध्यानाच्च स्पर्शात्मा जगतः कारणं भवेत् ॥

4.276

शून्यध्यानाच्च शून्यात्मा व्यापी सर्वगतो भवेत्
समनध्यानयोगेन योगी सर्वज्ञतां व्रजेत् ॥

4.277

उन्मन्या तु परं सूक्ष्मम् अभावं भावयेत्सदा
सर्वेन्द्रियमनोतीतस् त्व् अलक्ष्यो ऽभाव उच्यते ॥

4.278

अभावं भाव्यं भावेन भावं कृत्वा निराश्रयम्
सर्वोपाधिविनिर्मुक्तम् अभावं लभते पदम् ॥

4.279

एष ते कारणत्यागः कालत्यागं निबोध मे
तुटिषोडशसंयुक्तः प्राणस्तु समुदाहृतः ॥

4.280

तुटद्वयं समाश्रित्य एकैको भैरवः स्थितः
अहोरात्रविभागेन कुर्वन्त्युदयमेव ते ॥

4.281

नवमस्तु परो देवः तेजसस्तूदयन्ति ते
सर्वं कालं त्यजेत्प्राणे यथावत्कथयामि ते ॥

4.282

तुटयः षोडशैवोक्ताः कालस्य करणं तु ताः
तदादिः संस्थितः कालः सर्वं चरति वाङ्मयम् ॥

4.283

तुटिर्लवो निमेषश्च काष्ठा चैव कला तथा
मुहूर्तश्चाप्यहोरात्रः पक्षो मास ऋतुस्तथा ॥

4.284

अयनं वत्सरश्चैव युगं मन्वन्तरं तथा
कल्पश्चैव महाकल्पः शक्त्यन्ते तं परित्यजेत् ॥

4.285

व्यापिन्यन्ते परः कालः स तदङ्गी त्यजेत्तु तम्
स च सप्तदशो ज्ञेयः परार्धपरतः स्थितः ॥

4.286

सो ऽपि चाष्टादशो देवि समनान्ते तु तं त्यजेत्
सर्वकालं तु कालस्य व्यापकः परमो ऽव्ययः ॥

4.287

उन्मन्यन्ते परे योज्यो न कालस्तत्र विद्यते
नित्यो नित्योदितो व्यापी आदिरूपं न संत्यजेत् ॥

4.288

तं च नित्योदितं प्राप्य तन्मयो जायते सदा
कालत्यागो भवेदेवं शून्यभावस्त्वथोच्यते ॥

4.289

ऊर्ध्वशून्यमधःशून्यं मध्यशून्यं तृतीयकम्
शून्यत्रयं चलं ह्येतत् तदधो मध्य ऊर्ध्वतः ॥

4.290

चतुर्थं व्यापिनीशून्यं समनायां च पञ्चमम्
उन्मनायां तथा षष्ठं षडेते सामयाः स्थिताः ॥

4.291

तत्त्वेनाधिष्ठिताः सर्वे सामया अपि सिद्धिदाः
षट् शून्यानि परित्यज्य सप्तमे तु लयं कुरु ॥

4.292

तच्छून्यं तु परं सूक्ष्मं सर्वावस्थाविवर्जितम्
अशून्यं शून्यमित्युक्तं शून्यं चाभाव उच्यते ॥

4.293

अभावः स समुद्दिष्टो यत्र भावाः क्षयं गताः
सत्तामात्रं परं शान्तं तत्पदं किमपि स्थितम् ॥

4.294

यत्र यत्र च नादादि स्थूला अन्ये ऽपि संस्थिताः
तत्र तत्र परं शून्यं सर्वं व्याप्य व्यवस्थितम् ॥

4.295

तदेव भवति स्थूलं स्थूलोपाधिवशात्प्रिये
स्थूलसूक्ष्मप्रभेदेन तदेकं संव्यवस्थितम् ॥

4.296

तत्प्राप्य तन्मयत्वं च लभते नात्र संशयः
शून्यभावः समाख्यातः सामरस्यं निबोध मे ॥

4.297

आत्मन्येकः समरसो मन्त्रे ज्ञेयो द्वितीयकः
तृतीयं नाडिगं कुर्याच् छक्तौ कुर्याच्चतुर्थकम् ॥

4.298

व्यापिन्यां पञ्चमं प्रोक्तं समनायां तु षष्ठकम्
तात्वः समरसो देवि सप्तमस्तु विधीयते ॥

4.299

शिष्यात्मानं तु संगृह्य पूर्वोक्तविधिना क्रमात्
पश्चादात्मनि संयोज्य लोलीभूतं विचिन्तयेत् ॥

4.300

पूरकं कुम्भकं कृत्वा समानेन निरोधयेत्
यावत्यो नाडयो देवि तिर्यगूर्ध्वमधःस्थिताः ॥

4.301

समानेन समाकृष्टा एकीभूता भवन्ति ताः
तासु ये वायवस्ते ऽपि प्राणे समरसीगताः ॥

4.302

नाडयस्तु सुषुम्नायाम् एकीभूता व्यवस्थिताः
ततो वै उच्चरेन्मन्त्रः नादे लीनं विचिन्तयेत् ॥

4.303

मन्त्र आत्मा तथा नाडी एवं समरसीभवेत्
वामदक्षिणमध्ये तु ततो नादं प्रमोचयेत् ॥

4.304

सेतुबन्धं च तं मार्गं यत्र गत्वा न जायते
ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरः शिव एव च ॥

4.305

एते ऽत्र समतां यान्ति अन्यथा तु पृथक् पृथक्
तस्मिन्समुच्चरेन्नादं यावच्छक्तौ लयं गतः ॥

4.306

शक्तिमध्यगतो नादः शक्त्यात्मा तु विधीयते
सर्वं शक्तिमयं तत्र सर्वं समरसीभवेत् ॥

4.307

तदूर्ध्वं व्यापिनीं प्राप्य सर्वं तन्मयतां व्रजेत्
समन्ताद्व्याप्नुयाद्यस्माद् व्यापिनीत्यभिधीयते ॥

4.308

तदूर्ध्वं समनां व्याप्य तन्मयत्वं व्रजेत्पुनः
सा च सर्वगता ज्ञेया सामरस्येन संस्थिता ॥

4.309

षष्ठं समरसं त्यक्त्वा सप्तमं तु ततो व्रजेत्
तं प्राप्य तन्मयत्वं हि नात्र कार्या विचारणा ॥

4.310

स च सर्वेषु भूतेषु भावतत्वेन्द्रियेषु च
स्थावरं जङ्गमं चैव चेतनाचेतनस्थितम् ॥

4.311

अध्वानं व्याप्य सर्वं तु सामरस्येन संस्थितः
प्रसह्य चञ्चलीत्येव योगिनामपि यन्मनः ॥

4.312

यस्य ज्ञेयमयो भावः स्थिरः पूर्णः समन्ततः
मनो न चलते तस्य सर्वावस्थागतस्य तु ॥

4.313

यत्र यत्र मनो याति ज्ञेयं तत्रैव चिन्तयेत्
चलित्वा यास्यते कुत्र सर्वं शिवमयं यतः ॥

4.314

विषयेषु च सर्वेषु इन्द्रियार्थेषु च स्थितः
यत्र यत्र निरूप्येत नाशिवं विद्यते क्वचित् ॥

4.315

एवां समरसं ज्ञात्वा नासौ मुह्येत् कदाचन
यस्यैवं सर्वतो भावः सो ऽपि सर्वगतो भवेत् ॥

4.316

एवं समरसः प्रोक्तो विषुवत्तु निबोध मे
प्रथमं प्राणविषुवन् मात्रं ज्ञेयं द्वितीयकम् ॥

4.317

तृतीयं नाडिविषुवत् प्रशान्तं च चतुर्थकम्
पञ्चमं शक्तिविषुवत् षष्ठं वै काल उच्यते ॥

4.318

सप्तम तत्त्वविषुवत् प्रविभागस्त्वथोच्यते
आत्मानं च मनः प्राणे संयोज्य विषुवद्भवेत् ॥

4.319

प्राणे विषुवदाख्यातं मान्त्रं विषुवदुच्यते
मन्त्रमुच्चारयेत्तावद् यावन्नान्यमना भवेत् ॥

4.320

परापरविभागेन मन्त्रात्मा तु तदुच्यते
मान्त्रं विषुवदित्युक्तं नाडिस्थं तन्निबोध मे ॥

4.321

सर्वासामेव नाडीनां मध्ये या संव्यवस्थिता
सुषुम्ना नाम सा ज्ञेया नाभेः शक्त्या शिवं गता ॥

4.322

तत्र प्रवाहयेन्नादं नाडीविषुवदुच्यते
प्रशान्तं विषुवच्चैवम् अधुना कथयामि ते ॥

4.323

अयने षडङ्गुलश्चारः कारणान्यङ्गुले ऽङ्गुले
तान्यधस्तात्परित्यज्य कारणानि षडेव तु ॥

4.324

सप्तमे तु प्रशान्तं वै प्रशान्तेन्द्रियगोचरम्
प्रशान्तः स्तिमितो ज्ञेयः स्तिमितो निश्चलः स्मृतः ॥

4.325

निश्चलो निस्तरङ्गश्च स्थिरः पूर्णः समन्ततः
एवंभावं समास्थाय दीक्षा कार्या तु दैशिकैः ॥

4.326

एतत्प्रशान्तविषुवत् शक्त्युपाधिं निबोध मे
शक्तिमध्यगतो नादो नादोर्ध्वं च चरेद्यदा ॥

4.327

तावत्तु शक्तिविषुवत् कालाख्यं तु निबोध मे
तुटिः षोडशका या तु प्राणान्ते संव्यवस्थिता ॥

4.328

कालो भ्रूक्षेपमात्रस्तु तत्रान्ते कीर्तितो मया
तं परापरभागेन पुनरेव त्रिधा कुरु ॥

4.329

अपरः षोडशो यावत् कालः सप्तदशः परः
परापरस्तु यः कालः स प्रिये ऽष्टादशः प्रभुः ॥

4.330

प्राण एवं त्रिधा कालं कृत्वा चैव त्यजेत्पुनः
अपरः शक्तिमूर्धस्थो व्यापिन्यां च द्वितीयकः ॥

4.331

तृतीयः समनास्थाने तत्कालविषुवत्स्मृतम्
एतत्षष्ठं समाख्यातं सप्तमं तात्व्वमुच्यते ॥

4.332

उन्मना परतो देवि तत्रात्मानं नियोजयेत्
तस्मिन्युक्तस्ततो ह्यात्मा तन्मयश्च प्रजायते ॥

4.333

तत्त्वाख्यं विषुवद्देवि सर्वेषां परतः स्थितम्
विषुवदेवंविधं ज्ञात्वा को न मुच्येत बन्धनात् ॥

4.334

विषुवत्ते समाख्यातं पदार्थभेदनं शृणु
त्यागं चानुभवं चैव योजनं च परे पदे ॥

4.335

पदार्थैकादशी ज्ञेया उन्मनान्तः परो भवेत्
भेदयेज्ज्ञानशूलेन ज्ञानं ज्ञेयस्य ज्ञापकम् ॥

4.336

ज्ञापकं बोधमतुलं दीपवद्योतनं यतः
दीपहस्तो यथा कश्चिद् द्रव्यमालोक्य चाहरेत् ॥

4.337

एवं ज्ञानेन च ज्ञेयं तस्मिन् कुर्यात्तु संस्थितम्
ज्ञानं वै लक्षणं प्रोक्तं ज्ञेयतत्वस्य सुव्रते ॥

4.338

लक्षणं गुण आख्यातः कला तत्त्वस्य सर्वदा
न गुणेन विना तत्त्वं न तत्त्वेन विना गुणः ॥

4.339

गुणं गृह्णन्ति सर्वत्र न तत्त्वं गृह्यते क्वचित्
गृह्यते ह्यनुमानेन प्रत्यक्.आनुभवेन च ॥

4.340

अर्थिप्रत्यर्थिभावेन आगमेन तु लभ्यते
आगमो ज्ञानमियुक्तम् अनन्ताः शास्त्रकोटयः ॥

4.341

शास्त्रं शब्दात्मकं सर्वं शब्दो हंसः प्रकीर्तितः
हंसयोगः पुराख्यातः मात्रासंख्या त्वथोच्यते ॥

4.342

मात्रायोगो यथा चास्य प्रमाणं हृदयादिस्.उ
नाभेरूर्ध्वं वितस्त्यन्ते कण्ठाधस्तात्षडङ्गुले ॥

4.343

हृदयं मध्यदेशे तु चतुरङ्गुलसंमितम्
चतुर्विंशतितत्त्वैस्तु ब्रह्मा तत्र व्यवस्थितः ॥

4.344

कण्ठमष्टाङ्गुलं विद्धि विष्णुस्तत्र व्यवस्थितः
तत्त्वाष्टकेन संयुक्तः तदूर्ध्वं चतुरङ्गुलम् ॥

4.345

मायातत्त्वं समाश्रित्य रुद्रस्तालुतले स्थितः
अङ्गुलद्वयमानं तु भ्रुवोर्मध्यं प्रकीर्तितम् ॥

4.346

तत्रेश्वरः स्थितो देवि तत्त्वद्वयसमन्वितः
एकादशाङ्गुले चैव मूर्ध्वं देवः सदाशिवः ॥

4.347

तत्त्वद्वयसमायुक्तो यावद्ब्रह्मबिलं गतः
तदूर्ध्वैकाङ्गुला शक्तिः शिवस्तत्र व्यवस्थितः ॥

4.348

त्वक्छेषे व्यापिनी प्रोक्ता समना चोन्मना ततः
तत्परं तु परं तत्त्वं प्रमाणपरिवर्जितम् ॥

4.349

मात्रासंख्या च योगश्चा धुना हंसस्य कथ्यते
अकारश्च हकारश्च द्वावेतावेकतः स्थितौ ॥

4.350

विभक्तिर्नानयोरस्ति मारुताम्बरयोरिव
एकमात्रः स विज्ञेयो हृदयात्संप्रवर्तते ॥

4.351

उकारस्तु द्विमात्रो वै कण्ठस्थाने समुच्चरेत्
त्रिमात्रस्तु मकारो वै तालुमध्यगतश्चरेत् ॥

4.352

बिन्दुश्चैवार्धमात्रस्तु मात्रार्धं हि स उच्यते
भ्रुवोर्मध्ये स उच्चारस् तस्य देवि विधीयते ॥

4.353

तच्छेषाच्चार्धचन्द्रस्तु पादमात्रस्त्वसौ भवेत्
निरोधी चार्धपादस्तु ललाटान्ते समुच्चरेत् ॥

4.354

नादः षोडशकांशस्तु मूर्धान्तं यावदुच्चरेत्
द्वात्रिंशदंशा शक्तिस्तु षट्त्रिंशान्ते समुच्चरेत् ॥

4.355

व्यापिनी चतुःषष्ट्यंशा शक्तेस्तु परतःस्थिता
समना चोन्मना चोर्ध्वम् अमात्रः परमो ऽव्ययः ॥

4.356

मात्रासंख्या च योगश्च प्रमाणं परिकीर्तितम्
एवं ज्ञात्वा वरारोहे पदार्थान् भेदयेत्ततः ॥

4.357

भेदयेन्मत्रशूलेन मुद्राभावयुतेन च
मन्त्रो वै ज्ञानशक्तिश्च मुद्रा चैव क्रियात्मिका ॥

4.358

भावश्च मन इत्युक्तं तन्मनो बुद्धिपूर्वकम्
परश्च मनसा गम्य इच्छाशक्त्या त्वधिष्ठितः ॥

4.359

यत्र यत्र भवेदिच्छा ज्ञानं तत्र प्रवर्तते
क्रियाकरणसंबन्धात् तत्त्वस्योच्चारणं भवेत् ॥

4.360

क्रियाकरणहीनस्य न चैवोच्चारणं भवेत्
क्रिया करणभेदेन सा चैव त्रिविधा स्मृता ॥

4.361

एकेनोच्चारयेत्तत्त्वं करणेन विचक्षणः
नाडीश्चाथ द्वितीयेन द्वाराणि च निरोधयेत् ॥

4.362

तृतीयं करणं दिव्यं कृत्वा वै तत्त्वमुच्चरेत्
पूरकं कुम्भकं कृत्वा सर्वद्वाराणि रोधयेत् ॥

4.363

गुदद्वारेण रुद्धेन रुद्धान्यत्र भवन्ति हि
द्वारमेकं ततश्चोर्ध्वे प्रवहत्तद्विचिन्तयेत् ॥

4.364

नाडयो ग्रन्थिपद्माश्च ये ऽधोमुखगताः प्रिये
ते कुम्भकेन संरुद्धा विकसन्ति समन्ततः ॥

4.365

करणं तु ततः कृत्वा लक्षणं तस्य वै शृणु
जिह्वा तु तालुके योज्या किंचिदूर्ध्वं न संस्पृशेत् ॥

4.366

ईषत्प्रसार्य वक्त्रं तु किंचिदोष्ठौ न संस्पृशेत्
दन्तपङ्क्ती तथैवेह दृष्टिश्चाधोर्ध्ववर्जिता ॥

4.367

कायं समुन्नतं कृत्वा करणं दिव्यमुच्यते
दिव्यं च करणं कृत्वा तत्त्वस्योच्चारणं कुरु ॥

4.368

कुम्भितश्चैव यः प्राणो रेचयेत्तं शनैः शनैः
नाडयो ग्रन्थिपद्माश्च देहे याःसंव्यवस्थिताः ॥

4.369

रेचकेन समाक्षिप्ता ऊर्ध्वस्रोतो भवन्ति ते
ततो वै ज्ञानशूलेन ग्रन्थीन्भिन्दन् समुच्चरेत् ॥

4.370

भित्वा हृत्पद्मग्रन्थिं तु ततः शब्दः प्रजायते
यदाकाशसमायोगात् घोषशब्दोपमो भवेत् ॥

4.371

कण्ठस्थो विरमेच्छब्दः कण्ठं प्राप्य वरानने
भिन्दतः कण्ठदेशं तु शब्दो धुगधुगायते ॥

4.372

तालुमध्यगतः प्राणो यदा भवति सुव्रते
बिन्दतस्तालुग्रन्थिं तु शब्दो घुमघुमायते ॥

4.373

एवं ते ऽनुभवाः प्रोक्ताः प्राणे चरति सुव्रते
त्रयस्ते ऽष्टकलाः प्रोक्ता उपर्युपरितः क्रमात् ॥

4.374

तिष्ठेत्स यत्र वै प्राण आत्मा तद्गतिमाप्नुयात्
तत्तद्रूपं भवेत्तस्य स्थानभावानुरूपतः ॥

4.375

भ्रुवोर्मध्यं यदा गच्छेत् स्फोटशब्दस्तु जायते
बिन्दुं भेदयतो देवि शब्दो धुमधुमायते ॥

4.376

कपिर्वै नारिकीलेन आचार्यः सह बिन्दुना
अभिन्नेन कुतो मोक्षं सबाह्याभ्यन्तरं प्रिये ॥

4.377

भित्वा बिन्दुं ततो देवि अर्धचन्द्रं विभेदयेत्
भिद्यतश्चार्धचन्द्रस्य ललाटे झिमिझिमायते ॥

4.378

अर्धचन्द्रं तु भित्त्वा वै भेदयेत्तु निरोधिनीम्
तस्यास्तु भिद्यमानायाः शब्दः सिमिसिमायते ॥

4.379

स्थनत्रयमिदं देवि पञ्चपञ्चकलान्वितम्
प्राणस्य चरतस्तत्र यस्मिन्स्थाने स तिष्ठति ॥

4.380

तत्तद्रूपो भवेदात्मा तां तां गतिमवाप्नुयात्
निरोधिनीं भेदयित्वा ततो नादं व्रजेद्बुधः ॥

4.381

वंशशब्दसमः शब्दस् तत्र सूक्ष्मः प्रजायते
भेदयेन्नादसंस्थानं ब्रह्मरन्ध्रं सुदुर्भिदम् ॥

4.382

भिद्यतो ब्रह्मरन्ध्रस्य शब्दः शुमशुमायते
शक्तिमध्यगतः प्राणो वंशनादान्तसंनिभः ॥

4.383

तां वै तु भेदयेच्छक्तिं दुर्भेद्यां सर्वयोगिनाम्
भिद्यते च यदा शक्तिः शान्तः शुमशुमस्ततः ॥

4.384

शक्तिं भित्वा ततो देवि यच्छेषं व्यापिनी भवेत्
अनुभावो बवेत्तत्र स्पर्शो यद्वत्पिपीलिका ॥

4.385

स्थानत्रयमिदं देवि पञ्चपञ्चकलान्वितम्
यत्र यत्र चरेत्प्राणस् तत्तद्रूपमवाप्नुयात् ॥

4.386

यत्र यत्रावतिष्ठेत तां तां गतिमवाप्नुयात्
तस्माद्वै सुप्रयत्नेन भित्वा याति परां गतिम् ॥

4.387

भित्वा वै व्यापिनीं देवि समनायां मनस्त्यजेत्
मनसा तु मनस्त्यक्त्वा जीवः केवलतां व्रजेत् ॥

4.388

जीवो वै केवलस्तत्र आत्मज्ञानक्रियान्वितः
बन्धनाशेषनिर्मुक्तः सत्तामात्रस्वरूपकः ॥

4.389

समस्ताध्वपदातीतः शुद्धविज्ञानकेवलः
गृहाणाति नापरं भावं न परं च शिवात्मकम् ॥

4.390

परापरविनिर्मुक्तः स्वात्मन्यात्मा व्यवस्थितः
आत्मव्याप्तिर्भवेदेषा शिवव्याप्तिरतः परम् ॥

4.391

बन्धनाशेषभावेन सर्वाध्वोपाधिवर्जिता
अविदित्वा परं तत्त्वं शिवत्वं कल्पितं तु यैः ॥

4.392

त आत्मोपासकाः शैवे न गच्छन्ति परं शिवम्
आत्मतत्त्वगतिं यान्ति आत्मतत्त्वानुरञ्जिताः ॥

4.393

तस्मादात्मा परित्याज्यो यदीच्छेच्छिवमात्मनः
आत्मतत्त्वं ततस्त्याज्यं विद्यातत्वे नियोजयेत् ॥

4.394

उन्मना सा तु विज्ञेया मनः संकल्प उच्यते
संकल्पः क्रमतो ज्ञानम् उन्मानं युगपत्स्थितम् ॥

4.395

तस्मात् सा तु परा विद्या यस्मादन्या न विद्यते
विन्दते ह्यत्र युगपत् सार्वज्ञ्यादिगुणान् परान् ॥

4.396

वेदनानादिधर्मस्य परमात्मत्वबोधना
वर्जना परमात्मत्वे तस्माद्विद्येति सोच्यते ॥

4.397

तत्रस्थो व्यञ्जयेत्तेजः परं परमकारणम्
परस्मिंस्तेजसि व्यक्ते तत्रस्थः शिवतां व्रजेत् ॥

4.398

सुप्रदीप्ते यथा वह्नौ शिखा दृश्येत चाम्बरे
देहप्राणस्थितो ह्यात्मा तद्वल्लीयेत तत्पदे ॥

4.399

तद्वदेवाभिमानस्तु कर्तव्यो दैशिकोत्तमैः
अहमेव परो हंसः शिवः परमकारणम् ॥

4.400

मत्प्राणे स तु पश्वात्मा लीनः समरसीगतः
मन्त्रकरणक्रियायोगाद् योजयामि परे शिवे ॥

4.401

एवं यो वेत्ति तत्त्वेन अग्निवद्देहमध्यतः
यद्वद्वह्निशिखातीता तद्वद्योजयते परे ॥

4.402

तस्मिन्युक्तः परे तत्त्वे सार्वज्ञ्यादिगुणान्वितः
शिव एको भवेद्देवि अविभागेन सर्वतः ॥

4.403

तत्त्वत्रयं परं ख्यातम् अपरं चाध्वमध्यगम्
भेदनं तु पदार्थानां त्यागानुभवयोजनम् ॥

4.404

पूर्वोक्तं च इदं सर्वं ज्ञात्वा तत्त्वे नियोजयेत्
संक्षेपेण तु तत्त्वस्य व्याप्तिं शृणु सुरेश्वरि ॥

4.405

विद्यातत्त्वास्पदं बद्ध्वा बिन्दुतत्त्वासने स्थितः
नादशक्तितनुश्चैव व्यापिनीकरणान्वितः ॥

4.406

सर्वज्ञत्वावबोधेन समनान्तश्चरा तु सा
त्रितत्वं यत्परं प्रोक्तं तेन चापूरिता तनुः ॥

4.407

अपरा सा तनुः स्थूला षट्विंशत्तत्त्वकल्पिता
तत्त्वत्रयं परं यच्च सर्वतत्त्वाध्ववर्जितम् ॥

4.408

तेन चापूरिताशेषं सा तत्त्वाध्वपरा तनुः
एवमाचरते यस्तु आचारं तु शिवात्मकम् ॥

4.409

शिवेन सहचारित्वाद् आचार्यस्तेन चोच्यते
तस्य दर्शनसंभाषा स्पर्शनात्स्मरणादपि ॥

4.410

भवत्येवैश्वरी व्याप्तिर् न भवेत्तदधोगतिः
तेन संयोजितो जन्तुः ब्रह्महापि शिवो भवेत् ॥

4.411

ततस्तेन समो नास्ति जगत्यस्मिंश्चराचरे
शिव आचार्यरूपेण लोकानुग्रहकारकः ॥

4.412

तस्मान्न मानवीं बुद्धिं कारयेद्देशकं प्रति
आचार्यस्य च मन्त्रस्य शिवज्ञाने शिवस्य च ॥

4.413

नानात्वं नैव कुर्वन्ति विद्येशाश्चक्रनायकाः
ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा वै वीरवन्दिते ॥

4.414

आचार्यत्वे नियुक्ता ये ते सर्वे तु शिवाः स्मृताः
अन्यथा प्राक्स्वरूपेण ये पश्यन्ति नराधमाः ॥

4.415

नरके ते प्रपच्यन्ते सादाख्यं वत्सरत्रयम्
न तेन सह संभाषा कर्तव्या तु शिवार्थिना ॥

4.416

कृत्वा संभाषणं तेन नरकं सो ऽपि गच्छति
तस्माच्छिवसमाः सर्वे द्रष्टव्या मुक्तिमिच्छता ॥

4.417

भुक्तिमुक्तिफलावाप्तिर् भवत्येव तदाज्ञया
आचार्यः स्वजानानां च कुलकोटिसहस्रशः ॥

4.418

ज्ञानज्ञेयपरिज्ञानात् समस्तास्तारयिष्यति
एवमुक्तविधानज्ञो भावज्ञश्चापि दैशिकः ॥

4.419

पूर्णाहुत्यैकयैवासौ पशून्योजयते परे
पूर्णाहुतिप्रयोगं तु कथयाम्यधुना तव ॥

4.420

ऊर्ध्वकाय ऋजुग्रीवः समपादो व्यवस्थितः
नाभिस्थाने स्रुचो मूलम् उत्तानाग्रमुखं समम् ॥

4.421

स्रुच्युपरि स्रुवं देवि कृत्वा चैवमधोमुखम्
पुष्पं दत्त्वा स्रुगग्रे तु दर्भेण सहितौ करौ ॥

4.422

मुष्टिना चैव हस्ताभ्यां गृहीत्वा यत्नतो ऽपि च
अग्रतो दक्षिणं हस्तं वामं वै पृष्टतः प्रिये ॥

4.423

मुष्टिभ्यां संगृहीत्वा वै उत्तानकरयोगतः
ततो घृतेन संप्लाव्य अभिमानं तु कारयेत् ॥

4.424

अहमेव परं तत्त्वं परापरविभागतः
तत्त्वमेकं हि सर्वत्र नान्यं भावं तु कारयेत् ॥

4.425

यत्कुम्भे ऽध्वात्र विन्यस्तः षट्प्रकारो वरानने
मण्डले ऽग्नौ शिशोरन्तः साधारणविकल्पितः ॥

4.426

स्रुच्यध्वानं तमारोप्य प्राणस्थं नाडिमध्यगम्
प्राणधारे समीकृत्य स्रुचा धारां विनिक्षिपेत् ॥

4.427

वसुधारप्रयोगेण प्रक्षिपेज्जातवेदसि
नाभिस्थाने स्रुचो मूलं नयन्नासान्तगोचरम् ॥

4.428

यथा यथा त्यजेद्धारां तथा प्राणं समुच्चरेत्
प्राणो ऽपि वर्णतां याति षड्विधाध्वमयस्तु सः ॥

4.429

षड्विधेध्वनि नातो ऽन्यः प्रमेयो विद्यते क्वचित्
तस्मान्मान्त्रे परामर्शे हेयोपादेयतः स्थिताः ॥

4.430

वर्णैः कारणषट्कं तु षट्त्यागात्सप्तमे लयः
अकारश्च उकारश्च मकारो बिन्दुरेव च ॥

4.431

अर्धचन्द्रो निरोधी च नादश्चैवोर्ध्वगामिनी
शक्तिश्च व्यापिनी ह्येताः समना च ततः परम् ॥

4.432

समनान्तं वरारोहे पाशजालमनन्तकम्
कारणैः षड्भिराक्रान्तं मन्त्रस्थं हेयलक्षणम् ॥

4.433

अत्र पाशोपरि ह्यात्मा व्योमवद्बिन्दु[च्चित्सु]निर्मलः
शिवतत्त्वगुणामोदाच् छिवधर्मावलोककः ॥

4.434

पाशावलोकनं त्यक्त्वा स्वरूपालोकनं हि यत्
आत्मव्याप्तिर्भवेदेषा शिवव्याप्तिस्ततो ऽन्यथा ॥

4.435

सर्वज्ञ्यादिगुणा ये ऽर्था व्यापकान्भावयेद्यदा
शिवव्याप्तिर्भवेदेषा चैतन्ये हेतुरूपिणी ॥

4.436

अतो धर्मिस्वभावो हि शिवः शान्तश्च पठ्यते
उन्मनाश्च मनोग्राह्यः आत्मबोधे स्थितोन्मनाः ॥

4.437

व्यापारं मानसं त्यक्त्वा बोधरूपेण योजयेत्
तदा शिवत्वमायाति पशुर्मुक्तो भवार्णवात् ॥

4.438

परे चैव नियुक्तस्य स्रुवमापूरयेत्पुनः
स्रुचो रन्ध्रेण तद्द्रव्यं यावद्वह्नौ प्रयुज्यते ॥

4.439

बहिस्थां कुम्भकं तावत् परे तत्त्वे तु भावयेत्
बहिर्निरोधभावेन सामरस्यं शिवेन च ॥

4.440

अन्यथा न भवेद्देवि नदीवेग इवार्णवे
स्थितः स सागरेद्भिस्तु सिन्धुः समरसीभवेत् ॥

4.441

पुनर्विभागं नाप्नोति तथात्मा तु शिवार्णवे
स्रुचस्तु पूरणं यावत् तावत्कालं समादिशेत् ॥

4.442

अनेनैव तु कालेन बहिः कुम्भकवृत्तिना
आत्मा समरसत्वेन शिवीभवति सर्वगः ॥

4.443

गुणानापादयेत्पश्चात् षट् अङ्गपरिमाहुतीन्
यथा नृपत्वे संप्राप्ते कलशैश्चाभिषिच्यते ॥

4.444

वन्दिभिश्च गुणास्ते ऽपि ख्याप्यन्ते वसुधातले
तथा शिवत्वे संप्राप्ते गुणानापादयेद्बुधः ॥

4.445

सर्वज्ञो वै भव स्वाहा परितृप्तस्तथैव च
अनादिबोधो भव च ततः स्वातन्त्र्यशक्तिकः ॥

4.446

तथा त्वलुप्तशक्तिश्चा नन्तशक्तिस्ततः पुनः
गुणानापाद्य सर्वांस्तान् मूलमन्त्रमनुस्मरेत् ॥

4.447

ओंहूमात्मपदोपेतं सर्वज्ञायेत्यपश्चिमम्
स्वाहाकारप्रयोगेण आहुतीः प्रतिपादयेत् ॥

4.448

तिस्रः पञ्च दशैका वा तिलैर्वाथ घृतेन वा
दद्यात् ततो ऽभिषेकं तु मूलमन्त्रेण सुव्रते ॥

4.449

परं शक्त्यमृतं क्षोभ्य शिष्यमूर्ध्नि निपातयेत्
तुर्यद्वारं विशेत्तद्धि सबाह्याभ्यन्तरं स्मरेत् ॥

4.450

मन्त्रशक्तिभिरुग्राभिः शेषनिर्दहनादिभिः
शरीरं शोष्यते ताभिस् तदर्थमभिषेचनम् ॥

4.451

दीक्षानिर्वर्तनात्पूर्वं पुष्पं पाणौ प्रदापयेत्
दर्भं विमोचयित्वा च शिवाग्नौ कलशे गुरौ ॥

4.452

प्रदक्षिणत्रयं कृत्वा दण्डवन्निपतेद्भुवि
कृतकृत्यः प्रहृष्टात्मा भवोत्तीर्णः सुनिर्मलः ॥

4.453

प्रोत्फुल्लनयनः शान्तस् तृप्तात्मानं तु भावयेत्
इयं नैर्वाणकी दीक्षा निर्बीजा वा सबीजिका ॥

4.454

येषां सबीजिका दीक्षा कुर्यात्तेष्वभिषेचनम्
श्रुतशीलसमाचारान् देशकत्वे नियोजयेत् ॥

4.455

अथाभिषेक आचार्ये शिवयोगादनन्तरम्
पञ्चभिः कलशैर्भद्रे सितचन्दनलेपितैः ॥

4.456

शिवकुम्भवदभ्यर्च्य रत्नगर्भाम्बुपूरितैः
ऋद्धिवृद्ध्यादिभिः पूतैर् ओषध्यक्षतपूरितैः ॥

4.457

सितपद्ममुखोद्गारैश् चूतपल्लवसंयुतैः
पृथिव्यादीनि तत्त्वानि पञ्च पञ्चसु विन्यसेत् ॥

4.458

कलशेषु महादेवि पुनश्चैव कला न्यसेत्
निवृत्त्याद्याः कलाः पञ्च तेषु चैवात्र विन्यसेत् ॥

4.459

एकैककलशो व्याप्यो ह्य् अनन्तादिशिवान्तकः
पूजयेद्भैरवं देवं सर्वसंभारकैः क्रमात् ॥

4.460

षडङ्गावरणोपेतं मन्त्रसंधानसंयुतम्
भैरवेणाभिमन्त्रेत एकैकं कलशं प्रिये ॥

4.461

अष्टोत्तरशतेनैव परतत्त्वमनुस्मरन्
वारुण्यां सौम्ययम्यायम् एन्द्र्यामैश्यां तथैव च ॥

4.462

संपूज्यैवं विधानेन अभिषेकं समाचरेत्
यागहर्म्यस्य ऐशान्यां पीठं संकल्प्ययेबुधः ॥

4.463

तत्र मण्डलकं कृत्वा स्वस्तिकादिविभूषितम्
वितानोपरिसंछन्नं ध्वजैश्च परिशोभितम् ॥

4.464

तत्रासनं न्यसेद्देवि श्रीपर्णीचन्दनोद्भवम्
तत्रानन्तासनं न्यस्य मूर्तिभूतं शिशुं न्यसेत् ॥

4.465

पूर्ववत्सकलीकृत्य ऐशान्यभिमुखं स्थितम्
गन्धपुष्पादिनाभ्यर्च्य निर्भर्त्स्यः काञ्चिकौदनैः ॥

4.466

मृद्भस्मगोमयैः पिण्डैर् दूर्वाङ्कुरसमाश्रितैः
सिद्धार्थदधितोयैश्च निराजनसमन्वितैः ॥

4.467

निर्भर्त्स्यैवं विधानेन अभिषेकं प्रदापयेत्
पृथिव्यादिघटासयिर्वा धामानुस्मृत्य सेचयेत् ॥

4.468

क्रमाद्ध्यात्वा कलशेषु आचार्यः सुसमाहितः
अभिषिक्तो ऽन्यवासस्तु परिधाप्याचनेत्ततः ॥

4.469

प्रविश्य दक्षिणां मूर्तिं योगपीठं प्रकल्पयेत्
संस्थाप्य सकलीकृत्य अधिकारं प्रकल्पयेत् ॥

4.470

उष्णीषं मुकुटाद्यांश्च छत्रं पादुकमासनम्
हस्त्यश्वशिविकाद्यांश्च राजाङ्गानि ह्यशेषतः ॥

4.471

करणीं कर्तरीं खटिकां स्रुक्स्रुवौ दर्भपुस्तकम्
अक्षसूत्रादिकं दत्त्वा चतुराश्रमसंस्थिताः ॥

4.472

दीक्ष्यानुग्रहमार्गेण दीक्षा व्याख्या त्वया सदा
अद्यप्रभृति कर्तव्येत्य् अधिकारः शिवाज्ञया ॥

4.473

उत्थाप्य हस्तौ संगृह्य मण्डले तु प्रवेशयेत्
जानुभ्यां धरणीं गत्वा संपूज्य भैरवं ततः ॥

4.474

विज्ञाप्य भगवन्नेवम् अभिषिक्तस्त्वदाज्ञया
आचार्यपदसंस्थेन तवानुज्ञाविधायिना ॥

4.475

कर्तव्यं यत्तदायातम् अधिकारं तु देशके
शिवतत्त्वार्थकथनं शिवस्य पुरतः स्हितः ॥

4.476

निर्गत्य भवनादगनौ कलाध्वानं तु होमयेत्
मन्त्रतर्पणकं कृत्वा कलानां पञ्च चाहुतीः ॥

4.477

पञ्च पञ्चसु सर्वासु हुत्वा पूर्णाहुतिं गुरुः
अर्घपूजादिकं कृत्वा प्रणम्य ख्यापयेत्प्रभोः ॥

4.478

अभिषिक्तो मयाचार्यस् तदर्थं मन्त्रतर्पणम्
हृदाद्यैः पञ्चभिश्चाङ्गैर् दक्षिणं लाञ्छयेत्करम् ॥

4.479

दर्भोल्मुकं शिवाग्नौ तु कानीयस्यादि लाञ्छयेत्
पुष्पं पाणौ प्रदद्यात्तु मण्डलाग्नौ प्रपातयेत् ॥

4.480

भैरवं कलशं चाग्निं नमस्कृत्य तु दण्डवत्
लब्धाधिकारो हृष्टात्मा दृष्टादृष्टफलान्वितः ॥

4.481

स गुरुः शिवतुल्यस्तु शिवधामफलप्रदः
शान्त्यन्ते भूतिदीक्षा च सदाशिवपदात्मिका ॥

4.482

शिवधर्मिण्यसौ ज्ञेया लोकधर्मिण्यतोण्यथा
शिवधर्मिण्यसौ येषां साधकानां प्रकीर्तिता ॥

4.483

तेषां कृत्वाभिषेकं तु साधकत्वे नियोजयेत्
साधकस्याभिषेको ऽयं विद्यादीक्षात उत्तरः ॥

4.484

विद्यादीक्षा भवेत्सा तु वासनाभेदतः स्थिता
कर्मभेदो न विद्येत सर्वत्राध्वनि संस्थितः ॥

4.485

कृतानि यानि कर्माणि सर्वाण्यध्वगतानि तु
तानि संशोध्य विधिवत् कलापञ्चस्थितानि तु ॥

4.486

योजन्यवसरे भेदो विमर्शः साधकस्य तु
प्रारब्दं कर्म पाश्चात्यं न चैकस्थं तु भावयेत् ॥

4.487

साधकस्य तु भूत्यर्थं प्राक् कर्मैकं तु शोधयेत्
धाम प्रोच्चार्य सकलं सदाशिवतनौ न्यसेत् ॥

4.488

विद्यादेहस्वरूपेण ध्यात्वा देवं सदाशिवम्
पूर्णाहुतिप्रयोगेन अणिमादिगुणैर्युतम् ॥

4.489

अणिमादिगुणावाप्तौ मूलमन्त्रस्वसंज्ञया
अष्टावेवाहुतीर्दत्त्वा अभिषिञ्चेत्तु साधकम् ॥

4.490

कलशैः पञ्चभिः कुर्यात् निवृत्याद्यास्त्रिषु न्यसेत्
शान्त्यतीतां पञ्चमे च शान्तिं पश्चाच्चतुर्थके ॥

4.491

शान्त्या तु संपुटीकृत्य पृथिव्याद्यैश्च पञ्चभिः
एकैककलशे पश्चात् साध्यमन्त्रं तु विन्यसेत् ॥

4.492

विद्याङ्गैः सकलीकृत्य विद्याङ्गावरणं न्यसेत्
संमन्त्र्याष्टशतेनैव एकैकं कलशं ततः ॥

4.493

बहिर्मण्डलके न्यस्य आसनं प्रणवेन तु
साधकं तत्र संस्थाप्य सकलीकरणं ततः ॥

4.494

निर्भत्स्य पूर्ववत्सर्वैः साध्यमन्त्रेण सेचयेत्
निवृत्यादित्रिभिः कुम्भैः स्नापयेत्पूर्वदिङ्मुखम् ॥

4.495

शान्त्यतीतं घटं पश्चाद् गृहीत्वा सेचयेच्छिशुम्
शान्तिं पश्चात्तु गृह्णीयात् संपुटेनाभिषेचयेत् ॥

4.496

साधकस्याभिषेको ऽयम् अनुलोमविलोमतः
अभिषिच्य प्रवेश्यैनं दक्षिणां मूर्तिमास्थितम् ॥

4.497

प्रणवेनासनं दत्त्वा सकलीकरणं भवेत्
साधकस्याधिकारार्थम् अक्षमालादि कल्पयेत् ॥

4.498

मन्त्रकल्पाक्षसूत्रं च खटिकां छत्रपादुके
उष्णीषरहितं दत्वा प्रविश्य शिवसंनिधौ ॥

4.499

विज्ञाप्य परमेशानं साधको ऽयं मया कृतः
भूयात्सिद्धिस्त्वदाज्ञातस् त्रिप्रकारस्य भक्तितः ॥

4.500

साध्यमन्त्रं ददेत्पश्चात् पुष्पोदकसमन्वितम्
तस्य हस्ते समर्प्येत सिद्ध्यर्थं साधकस्य तु ॥

4.501

प्रणम्योभौ गृहीत्वा तु मन्त्रं हृदि निवेशयेत्
प्रहृष्टवदनः शिष्यो गुरुश्चापि प्रहर्षवान् ॥

4.502

अग्न्यागारे सावधानौ तर्पयेन्मन्त्रसंहिताम्
सहस्रं वा शतं वापि साध्यमन्त्रस्य तर्पणम् ॥

4.503

एवं संतर्पयित्वा तु पुष्पं पाणौ प्रदापयेत्
त्रिस्थं संपूज्य देवं तु ततो ऽपि त्रिःप्रदक्षिणम् ॥

4.504

प्रणम्य भक्तियुक्तात्मा अणिमादिफलं लभेत्
उत्थाप्य साधकं ब्रूयात् समयान्पाहि यत्नतः ॥

4.505

दीक्षावसाने ते देवि श्रावणीया विपश्चिता
एवं दीक्षां तु निर्वर्त्य सर्वदैव वरानने ॥

4.506

आत्मत्यागः प्रकर्तव्यो यथा भवति तच्छ्रुणु
वैज्ञानकी प्राकृती वा आचार्यस्य यदृच्छया ॥

4.507

वैज्ञानिकीं सुसूक्ष्मां तु विधिनानेन कारयेत्
तिलाज्यादिसमायुक्ता अध्ववागीशिकल्पना ॥

4.508

कलाभिः पञ्चभिर्व्याप्तम् अध्वानं युगपन्न्यसेत्
पूजाहोमोपचाराद्यान् कृत्वात्मानं नियोजयेत् ॥

4.509

शिष्यचैतन्यवत् योगाद् अध्वानं युगपन्न्यसेत्
पुष्पाद्यैः पूजयित्वा तं योगार्थमाहुतित्रयम् ॥

4.510

गर्भधारित्वजनने अर्जने भोगतल्लये
युगपद्धोमयेद्देवि मूलमन्त्रेण सुव्रतः ॥

4.511

आहुतीनां त्रयं होम्यं प्रतिकर्म वरानने
होतव्या निष्कृतिर्भिन्ना पञ्चस्थानकलात्मसु ॥

4.512

शतमेकं तदर्थं वा निष्कृतिः परिकीर्तिता
विश्लेषपाशच्छेदाद्ये धाम्नैव युगपद्धुतिः ॥

4.513

उद्धारे चात्मतत्त्वस्थे पूर्णाहुतिं तु पातयेत्
आत्मानं योजयेत्तत्त्वे शिवे परमकारणे ॥

4.514

गुणान् पूर्ववदापाद्य अमृतान्पूर्ववत् कुरु
आत्मदीक्षा समाप्तौ तु प्रायश्चित्तनिवृत्तये ॥

4.515

अथ विज्ञानरूपेण सकृदुच्चारलक्षणा
हेयोपादेयपाशानां युगपद्भैरवेण तु ॥

4.516

शाश्वती संस्थितिः पश्चात् सूक्ष्मदीक्षा प्रकीर्तिता
विशेषपूजनं होमं यथाशक्ति प्रकल्पयेत् ॥

4.517

वाद्यगीतसुनृत्याद्यैः स्तुतिभिः पूजयेद्धरम्
त्रिः प्रदक्षिणमावर्त्य कलशाग्निसमण्डलम् ॥

4.518

अष्टाङ्गपतनं कृत्वा विज्ञपेत्परमेश्वरम्
भगवन्पशुहेत्वर्थं येन्मयावाहितो भवान् ॥

4.519

तत्क्षन्तव्यं सदा देव विधिस्थस्य मम प्रभो
विधिन्यूनमकामस्य पूजा शास्तोदिता यथा ॥

4.520

न भवेदतिभूयिष्ठा प्राकृतैर्द्रव्यसंचयैः
अवलम्ब्य भक्तिमात्रं विधानं यत्कृतं मया ॥

4.521

तत्सर्वं सफलं मे ऽस्तु सुप्रसन्ने विभो त्वयि
प्रसन्नवदनो हृष्टो वरं दत्तं विभावयेत् ॥

4.522

उपविश्य ततो यागं संहरेत क्रमात् प्रिये
अग्रं संप्रार्थ्य गृह्णीयात् स्थापयेच्चास्त्ररक्षितम् ॥

4.523

विशेषपूजनं चार्धं प्रणिपातं ततः पुनः
निरोधार्धं ततो गृह्य अर्धं सव्यापसव्यतः ॥

4.524

दत्वा विसर्जयेद्देवं धाममन्त्रमनुस्मरन्
आत्मनो रेचकं कृत्वा पुष्पं देवाय नि.क्षिपेत् ॥

4.525

संहारिण्या च संगृह्य मन्त्रान् पार्श्वव्यवस्थितान्
विद्युद्वच्चलितान् ध्यात्वा धामदेहे तु विन्यसेत् ॥

4.526

विद्यादेहं भैरवस्य तल्लीनं बिन्दुविग्रहे
बिन्दुं तु नादशक्तिस्थं शक्तिरूपं तु ग्राहयेत् ॥

4.527

शक्तिरूपं व्यपकेन प्रणवोभयसंपुटम्
संहारिण्या तु संगृह्य द्वादशाते तु योजयेत् ॥

4.528

पूरकेण हृदि न्यस्य स्वस्थानस्थं तु भावयेत्
सकलं निष्कलं रूपं तथा सकलनिष्कलम् ॥

4.529

भिन्नावस्थं तु मन्त्रेषु हृत्स्थं तत्संस्मरेत्प्रिये
विसर्जनविधिर्ह्येवं अग्नावेवं प्रपूजयेत् ॥

4.530

अष्टोत्तरशतं हुत्वा पूर्णाहुतिं प्रपातयेत्
अर्धामाचमनं दत्वा प्रणिपत्य क्षमापयेत् ॥

4.531

मण्डलस्थप्रयोगेन रेचकापूरकेण तु
संगृह्य मन्त्रसंघातं यथास्थानं प्रकल्पयेत् ॥

4.532

जागरयेत्तदाग्निं तु नित्यकर्मनिमित्ततः
निर्माल्यनयनं कुर्याद् रजांस्यपहरेत्प्रिये ॥

4.533

ततः प्रविश्य वसुधां प्रोक्षयेत्तं शिवाम्भसा
बहिर्निर्गत्य भूतानां बलिकर्म तु पूर्ववत् ॥

4.534

आचम्य सकलीकृत्य लिङ्गिनस्तर्पयेत्ततः
गुरुं संपूजयेच्छिष्यो यथाविभवविस्तरैः ॥

4.535

देशाध्यक्षो ग्रामशतं मण्डलेशस्तदर्धकम्
शतभुक्पञ्च वै दद्याद् ग्रामं विंशतिभुक्तथा ॥

4.536

दद्यात्तु ग्रामभुक् क्षेत्रं क्षेत्रभोक्ता तु विंशतिम्
येन येन गुरुस्तुष्येत् तत्सर्वं विनिवेदयेत् ॥

4.537

ततस्त्वनृणतां याति वित्तशाठ्यविवर्जितः
ततस्तु समयाञ्श्राव्यस् तन्त्रे भैरवनिर्गते ॥

4.538

चरुकं प्राशयेत्पश्चाच् चुम्बकः साधकैः सह
वाङ्निरुद्धः प्रसन्नात्मा पृथक् पात्रव्यवस्थितः ॥

4.539

अनुक्रमेण दातव्यः ततः सिद्धिमवाप्नुयात्
अनेनैव विधानेन दीक्षिता ये वरानन्ते ॥

4.540

ब्राह्मणाः क्षत्रिया वैश्याः शूद्रश्चान्ये ऽथवा प्रिये
सर्वे ते समधर्माणः शिवधर्मे नियोजिताः ॥

4.541

सर्वे जटाधराः प्रोक्ता भस्मोद्धूलितविग्रहाः
एकपङ्क्तिभुजः सर्वे समयिनस्तु वरानने ॥

4.542

पुत्रकाणां भवेदेका साधकानां तथा भवेत्
चुम्बकानां भवेदेका न प्राग्जातिविभेदतः ॥

4.543

एकैव सा स्मृता जातिर् भैरवीया शिवाव्यया
तन्त्रमेतत्समाश्रित्य प्राग्जातिं न ह्युदीरयेत् ॥

4.544

पुत्रकाणां साधकानां तथा समयिनामपि
प्राग्जात्युदीरणाद्देवि प्रायश्चित्ती भवेन्नरः ॥

4.545

दिनत्रयं तु रुद्रस्य पञ्चाहं केशवस्य च
पितामहस्य पक्षैकं नरके पच्यते तु सः ॥

4.546

अविवेकी भवेत्तस्माद् यदीच्छेदुत्तमां गतिम्
अविवेकेन देवेशि सिद्धिर्मुक्तिर्ध्रुवं भवेत् ॥

मूल पाठ: Svacchandatantra [or Svacchandabhairavatantra] · Edition: Chapter 1 typed in from Dwivedi's edition by Dominic Goodall; Chapter 2 typed in from KSTS edition by Mei Yang; Chapter 3 typed in from Dwivedi's edition by Dominic Goodall; Chapter 4 typed in from the KSTS edition by S.A.S. Sarma Chapters 5-6 typed in from Dwivedi's edition by Dominic Goodall; Chapter 7 typed in from KSTS edition by Mei Yang; Chapters 8-9 typed in from KSTS edition by Nibedita Ro · Data entry members of the Saiva reading group at the EFEO in Pondicherry · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc