भाषा

ENहिગુ
ग्रंथ पाठ

Svacchandatantra · अध्याय 5

5.1

कलादीक्षा सुरेशान कथिता परमेश्वर
तत्त्वदीक्षा समासेन कथयस्व प्रसादतः ॥

5.2

समासात् कथयिष्यामि त्वत्प्रियार्थं वरानने
षट्त्रिंशत्तत्त्वमुख्यानि यथा शोध्यानि पार्वति ॥

5.3

पृथिव्यादिशिवान्तानि स्वव्याप्त्यानुगुणैः सह
यथा शुद्ध्यान्ति देवेशि तथा ते कथयाम्यहम् ॥

5.4

विद्याराजस्य ये वर्णा नवसंख्योपलक्षिताः
वाचकास्ते च तत्त्वानां कथयाम्यनुपूर्वशः ॥

5.5

धरित्र्यादिप्रधानान्तम् ऊकारो वाचकः स्मृतः
पुरुषस्य यकारो वै रागतत्त्वान्वितस्य च ॥

5.6

नियामिकां वकारेण विद्यातत्त्वसमन्विताम्
कालं कलां लकारेण कल्पयेत्तु वरानने ॥

5.7

मायातत्त्वं मकारेण विद्यातत्त्वं क्षकारतः
रेफेण चैश्वरं तत्त्वं हकारेण सदाशिवः ॥

5.8

प्रणवेन तथा शक्तिर् न्यसितव्या वरानने
व्यापिनीं समनां चोर्ध्वं तत्रैव तु विशोधयेत् ॥

5.9

शोधयित्वा क्रमेणैव मूलमन्त्रेण सुव्रते
योज्य आत्मा परे तत्त्वे उन्मनातीतसर्वगे ॥

5.10

निराभासे परे शान्ते ईशाने चाव्यये त्वजे
षट्त्रिंशत्तत्त्वमाख्यातं नवतत्त्वं प्रचक्ष्महे ॥

5.11

प्रकृतिः पुरुषश्चैव नियतिः काल एव च
माया विद्या तथेशश्च सदाशिवशिवौ तथा ॥

5.12

शोधयित्वा तु विधिवद् व्याप्त्यात्मानं नियोजयेत्
पञ्चतत्त्वी यदा शोध्या वक्त्रमन्त्रास्तु वाचकाः ॥

5.13

धरित्र्यादि खपर्यन्तं शोधयेत् तत्क्रमेण तु
कलानां यावती व्याप्तिस् तत्त्वानां तावदेव हि ॥

5.14

त्रितत्त्वमधुना वक्ष्ये यथा शोध्यं वरानने
अकार आत्मतत्त्वस्य वाचकः परिकीर्तितः ॥

5.15

मायान्तं तद्विजानीयात् विद्याख्यस्याप्युकारकः
सकलावधि तज्ज्ञेयं शिवस्य तु मकारकः ॥

5.16

खस्वरः खस्वरूपस्य शिवतत्त्वस्य वाचकः
शोधयित्वा क्रमेणैव परे तत्त्वे नियोजयेत् ॥

5.17

तत्त्वदीक्षा समाख्याता चतुर्भेदव्यवस्थिता
परदीक्षां प्रवक्ष्यामि यथावदनुपूर्वशः ॥

5.18

विद्याराजे तु ये वर्णा नवसंख्योपलक्षिताः
पृथग्भेदेन तेषां तु विन्यासं कथयामि ते ॥

5.19

नवनाभं पुरं कृत्वा नवपद्मोपलक्षितम्
नवहस्तं लिखेद्वेश्म अष्टपर्वाधिकं बुधः ॥

5.20

सप्तभागीकृतं तत्तु दक्षिणोत्तरभाजितम्
चतुरश्रं विभज्यादौ मत्स्यैश्चैवात्र चिह्नितम् ॥

5.21

कोष्ठकैकोनपञ्चाशत् सूत्रेण तु समालिखेत्
मध्यमे कोष्ठके सूत्रं द्वात्रिंशाङ्गुलसम्मितम् ॥

5.22

समालिख्य महादेवि चतुर्भागविभाजिते
प्रथमे कर्णिकां कुर्यात् केसराणि द्वितीयके ॥

5.23

तृतीये दलसन्धींश्च दलाग्राणि चतुर्थके
दिक्षु रेखाष्टकं दत्त्वा प्रतिदिक्षु तथैव च ॥

5.24

भ्रामयेच्चतुरो वृत्तांश् चतुरङ्गुलसम्मितान्
द्वाभ्यां प्रतिदिग्रेखाभ्यां मध्ये सूत्रं निधाप्य तत् ॥

5.25

सूत्राग्रं तु ततो भ्राम्यम् अर्धचन्द्रविधानतः
मध्यसूत्रं च दातव्यं किञ्जल्कस्थं विपश्चिता ॥

5.26

पूर्वपत्रं प्रसाध्यवम् इतराण्येवमेव हि
केसराणि च संलिख्य चतुर्विंशतिसंख्यया ॥

5.27

पत्राग्रतो न्यसेल्लेखां वर्तुलां तु सुशोभनाम्
तस्यान्तं चतुरश्रं तु कर्तव्यं तत्प्रमाणतः ॥

5.28

पूर्वं ब्रह्म प्रसाध्यं तु विषुवत्स्थेन हेलिना
पूर्वपश्चात्ततं सूत्रं शङ्कुना साधयेत् प्रिये ॥

5.29

द्वादशाङ्गुलमानेन मध्ये शङ्कुं प्ररोप्य तम्
पार्श्वेषु भ्रामयेद्रेखां षोडशाङ्गुलसम्मिताम् ॥

5.30

पूर्वाह्ने ग्राहयेच्छायाम् अपरस्थां सुचिह्निताम्
अपरस्थेन सूर्येण प्राक्छायां लाञ्छयेत् प्रिये ॥

5.31

ध्रुवेणोत्तरदक्षस्थां लाञ्छयेत्तु वरानने
ततः समालिखेत् पद्मम् अष्टपत्रं सकर्णिकम् ॥

5.32

दिक्कोष्ठकांश्च संगृह्य अष्टसंख्योपलक्षितम्
शेषा लोप्या वरारोहे एकान्तरितयोगतः ॥

5.33

पद्माष्टकं ततो दिक्षु बाह्ये द्वाराणि चालिखेत्
वीथ्यर्धसम्मितां देवि शोभां चैव प्रकल्पयेत् ॥

5.34

उपशोभां च तन्मानां कपोलान्तं समालिखेत्
तथा कण्ठं च तन्मानं द्वारमेतत्प्रकीर्तितम् ॥

5.35

द्वाराष्टकविभागेन नवनाभं पुरं स्मृतम्
स्नात्वा तु विधिवद् देवि प्रविशेद्भवनं गुरुः ॥

5.36

पूर्वोक्तेन विधानेन सकलीकरणादिकम्
ततः सम्पूजयेद्देवं भैरवं परमेश्वरम् ॥

5.37

प्रणवेनासनं दत्त्वा शिवान्तं वरवर्णिनि
मध्ये सम्पूजयेद्देवं स्वच्छन्दं परमेश्वरम् ॥

5.38

पूर्वोक्तेन विधानेन अङ्गषट्कसमन्वितम्
पत्राष्टके न्यसेद्वर्णान् पूर्वादीशांश्ततः क्रमात् ॥

5.39

सदाशिवं हकारेणेत्य् एवमादि वरानने
प्रकृत्यन्तं विजानीयान् मध्ये पीठेशकल्पना ॥

5.40

दिक्पद्मकर्णिकासंस्थान् अष्टौ देवान् प्रपूजयेत्
तत्स्थाने भैरवः पूज्यः शेषा वर्णैर्यथाक्रमम् ॥

5.41

शोधयेच्च प्रकृत्यादि शिवान्तं सुरसुन्दरि
ईशानदिश आरभ्य मध्यपीठं विशोधयेत् ॥

5.42

योजयेत्तु परे तत्त्वे शिवे परमकारणे
एवं वर्णास्तथा मन्त्रान् भुवनानि विशोधयेत् ॥

5.43

कालाग्न्यादि शिवान्तं तु कलाविधि समाश्रयेत्
समयान् श्रावयेत्पश्चात् तन्त्राम्नायोत्थितान् प्रिये ॥

5.44

न निन्देद्भैरवं देवं शास्त्रं वान्यसमुद्भवम्
सांख्यं योगं पाञ्चरात्रं वेदांश्चैव न निन्दयेत् ॥

5.45

यतः शिवोद्भवाः सर्वे ह्य् अपवर्गफलप्रदाः
स्मार्तं धर्मं न निन्देत्तु आचारपथदर्शकम् ॥

5.46

ब्रह्मादिदेवता याश्च मातरश्चुम्बको गिरिः
वीराश्चैव भगिन्यश्च गावो भूतगणास्तथा ॥

5.47

देवद्रव्यं न हिंस्यात्तु सिद्धान्ते यद्व्यवस्थितम्
गुरोरन्नं न भुञ्जीत अदत्तं परमेश्वरि ॥

5.48

मद्यं मांसं तथा मत्स्यान् अन्यानि च वरानने
साचाराश्च निराचारांल् लिङ्गिनो न जुगुप्सयेत् ॥

5.49

चरुकं प्राशयन्नित्यं गुरून् सम्पूजयेत् सदा
उपस्करान् महादेवि पादेन तु न संस्पृशेत् ॥

5.50

संहितां चिन्तयेन्नित्यं भक्तानां श्रावयेत् सदा
आह्निकं न विलुम्पेत्तु सन्ध्याकर्म वरानने ॥

5.51

अदीक्षितानां पुरतो नोच्चरेच्छास्त्रपद्धतिम्
त्रिकालं पूजयेद्देवं जपध्यानरतः सदा ॥

5.52

समयान् पालयन्नित्यम् उभयार्थफलेप्सया
अतो विज्ञानदीक्षां तु प्रवक्ष्याम्यनुपूर्वशः ॥

5.53

अध्यात्मगतिचारेण केवलेन विशोधिकाम्
शिष्यात्मानं गृहीत्वा तम् आत्मप्राणे नियोजयेत् ॥

5.54

अभिमानं तथोच्चार्य कुर्याद्वै पूर्ववत्तदा
उद्घातैश्च ततो ऽध्वानं शिष्यस्य तु विशोधयेत् ॥

5.55

ततः समुच्चरंस्तत्त्वं पृथिव्याद्यं तु सुव्रते
भिन्नाभिन्नस्वरूपेण एकैकं तु यथाक्रमम् ॥

5.56

सस्वरं ह्यक्षरोच्चारं देवताभिः समन्वितम्
बिन्दुना शक्तिसंयोगाद् उद्घातः प्रथमः स्मृतः ॥

5.57

देवतात्रयनिर्मुक्तः चतुर्थान्तसमन्वितः
उद्घातः स तु देवेशि द्वितीयः परिकीर्तितः ॥

5.58

हंसाक्षरसमुच्चारः सुदीर्घो बिन्दुसंयुतः
अर्धचन्द्रान्निरोधिन्याम् उद्घातस्तु तृतीयकः ॥

5.59

भिन्नोद्घातौ यदा देवि नादान्तस्तु तदा भवेत्
उद्घातः स तु देवेशि चतुर्थः परिकीर्तितः ॥

5.60

स एव चाक्षरोच्चारो व्यापिन्यन्ते व्यवस्थितः
उद्घातः स तु देवेशि पञ्चमः परिकीर्तितः ॥

5.61

पञ्चोद्घातांस्ततो दत्त्वा पृथिवीं शोधयेद्बुधः
अकारोकारमकारान्तम् एवं शुद्ध्यति नान्यथा ॥

5.62

शुद्धे ऽथ पार्थिवे तत्त्वे चिन्तितव्यं तु योगिभिः
जलीभूतं तदेवैतद् आत्मना सह योगतः ॥

5.63

जलीभूते पुनर्मन्त्री तदेव चतुरुच्चरेत्
बिन्द्वन्तं धारणायुक्तं शिष्यादात्मनि चिन्तयेत् ॥

5.64

शोधिते तोयसंघाते तेजोभूतं विचिन्तयेत्
तेजोद्घातास्त्रयस्तेषु निरोध्यन्तमवस्थिताः ॥

5.65

नास्ति तेजस्ततो वायुर् उद्घातद्वयशोधितः
आकाशे लीयमानं तम् उद्घातेन तु चिन्तयेत् ॥

5.66

नष्टे वायौ ततः शून्यम् उद्घातैकेन योजयेत्
व्यापिनी सा तु विज्ञेया पञ्चमान्ते व्यवस्थिता ॥

5.67

समनायां ततो ह्यात्मा तत्त्वव्यापी स उच्यते
आत्मव्यापी ततश्चोर्ध्वं सर्वव्यापी ततः पुनः ॥

5.68

तत्त्वान्तसंस्थितो ह्यात्मा उद्घातैकेन योगवित्
योजयेत्परमे तत्त्वे उन्मनातीतसर्वगे ॥

5.69

योजनां तु परे तत्त्वे शृणु देवि वदाम्यहम्
मन्त्रमुच्चारयेद्देवि ह्रस्वं दीर्घं प्लुतं परम् ॥

5.70

परापरविभागेन यावत्तत्त्वं परं गतम्
त्रिदेवं बिन्दुसंयुक्तम् अर्धचन्द्रं निरोधिकाम् ॥

5.71

नादं च शक्तिसंयुक्तं व्यापिनीसमनोन्मनाः
उन्मना च परश्चैव सर्वव्यापी शिवो ऽव्ययः ॥

5.72

ज्ञात्वा सर्वमशेषेण विधिमेषां यथाक्रमम्
तदा तु योजयेन्मन्त्री अन्यथा नैव योजयेत् ॥

5.73

बिन्दुस्थं त्रितयं शब्दे चतुर्थो बिन्दुरेव हि
ब्रह्मा विष्णुस्तथा रुद्रः त्रिमाणं वर्ण उच्यते ॥

5.74

ईश्वरो बिन्दुदेवस्तु कण्ठे शब्दः प्रवर्तते
तत्र शब्दः क्रियान्तस्थः क्रियाशक्तिरिति स्मृता ॥

5.75

स शब्दस्तालुके देवि ईरितः सम्प्रवर्तते
तस्य किंचिद्गतः शब्दो नासिकान्ते प्रवर्तते ॥

5.76

ज्ञानशक्तिस्तुविज्ञेया यत्नतः परमेश्वरि
मूर्धस्थानगतः शब्दो ललाटान्तमवस्थितः ॥

5.77

वर्णः शब्दगतः तेषाम् उद्घातः स तु कीर्तितः
तत्रस्था विनिवर्तन्ते शिवज्ञानविवर्जिताः ॥

5.78

पञ्चधावस्थितो बिन्दुर् अर्धचन्द्रो निरोधिका
तस्यातीतो भवेन्नादः अविच्छिन्नस्त्वसौ भवेत् ॥

5.79

ईषत्प्रसारिते वक्त्रे देवदेवः सदाशिवः
चतुर्विधो भवेच्छब्दो यः सुवेगवहः स्मृतः ॥

5.80

पञ्चमो न वहेच्छब्दः ऊर्ध्वगामिन्यसौ स्मृता
तस्यातीता भवेच्छक्तिः पञ्चधा तु व्यवस्थिता ॥

5.81

स्पर्शस्तत्र भवेद्देवि आत्मवित्तत्र पूर्ववत्
व्यापिनी परतश्चैव पञ्चधा तु व्यवस्थिता ॥

5.82

वालाग्रमाश्रितं स्पर्शं कदाचिद्वेत्ति वा न वा
व्यापिनी सा समुद्दिष्टा न ज्ञानं परमेश्वरि ॥

5.83

तस्यापि समनातीता मनस्तत्र न कारयेत्
उन्मनापदमारोहन् शुद्धात्मा तु ततो भवेत् ॥

5.84

शिष्यात्मानं गुरुवर उन्मन्यन्ते नियोजयेत्
तत्र युक्तः परे शान्ते महाशान्तिमवाप्नुयात् ॥

5.85

गुरुपारम्परायातः सम्प्रदायः प्रकाशितः
योजने तु परे तत्त्वे उपायः कथितस्तव ॥

5.86

एवं ज्ञात्वा वरारोहे सर्वकर्माणि कारयेत्
तत्त्वाध्वानं कलाध्वानं भुवनाध्वानमेव च ॥

5.87

वर्णमन्त्रपदाध्वानं कृत्वैवं शुद्ध्यति प्रिये
एषा वै धारणादीक्षा कर्तव्या योगिनात्र तु ॥

5.88

मन्त्रसिद्धेन वा देवि कृता वै सुकृता भवेत् ॥

मूल पाठ: Svacchandatantra [or Svacchandabhairavatantra] · Edition: Chapter 1 typed in from Dwivedi's edition by Dominic Goodall; Chapter 2 typed in from KSTS edition by Mei Yang; Chapter 3 typed in from Dwivedi's edition by Dominic Goodall; Chapter 4 typed in from the KSTS edition by S.A.S. Sarma Chapters 5-6 typed in from Dwivedi's edition by Dominic Goodall; Chapter 7 typed in from KSTS edition by Mei Yang; Chapters 8-9 typed in from KSTS edition by Nibedita Ro · Data entry members of the Saiva reading group at the EFEO in Pondicherry · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc