Svacchandatantra · अध्याय 3
अधिवासं प्रवक्ष्यामि यथावदनुपूर्वशः
वारिणा सुविशुद्धात्मा कृतकृत्यः प्रसन्नधीः ॥
भस्मोद्धूलितदेहस्तु मुद्रालङ्कारभूषितः
जिह्मजेनोपवीतेन सवासा वा दिगम्बरः ॥
सुगन्धिगन्धलिप्ताङ्गः पुष्पस्रग्दामभूषितः
दिव्याभरणसम्पन्नः सुप्रसन्नः सुभावितः ॥
सुधूपितः सुताम्बूलश् चन्दनागुरुचर्चितः
महद्वारप्रदेशे तु स्थित्वा प्रागिव भावितः ॥
द्वाराध्यक्षान् पूजयित्वा पुष्पप्रक्षेपणं ततः
हुम्फट्कारप्रयोगेण तालाशब्दं विधाय च ॥
पार्ष्ण्यधोहस्तसंयोगाद् विघ्नप्रोच्चाटनाय वै
पार्ष्ण्या भूमिगतान् हन्यात् तालया चान्तरिक्षगान् ॥
मन्त्रैर्दिव्यान् विशोध्यैवं यागहर्म्यं विशेत्ततः
रक्षां पूर्ववदस्त्रेण परितः परिकल्पयेत् ॥
वर्मणा मायारूपेणाच् छाद्यैव तु मखालयम्
ततो दक्षिणदिग्भागे उपविश्य वरानने ॥
करन्यासं यथापूर्वं दहनोत्पूयने तथा
प्लावनाप्यायने चैव सकलीकरणं तथा ॥
पूर्ववन्मानसं यागम् अन्तर्देहे समाचरेत्
शक्त्याधारमनन्तं च धर्मादिचरणावधि ॥
गात्रकाणि त्वधर्माद्यस् तथा सन्धानकीलकान्
अधश्छादनमूर्ध्वं च पद्मकेसरकर्णिकाः ॥
पुष्कराणि च शक्तीश्च मण्डलान् मण्डलाधिपान्
शिवान्तमासनं दद्यात् पूर्वरूपं ध्रुवेण तु ॥
मूर्तिब्रह्मकलाव्यूहं नवतत्त्वं त्रितत्त्वकम्
द्वात्रिंशदक्षरं देवं भैरवाष्टकमेव च ॥
विद्याङ्गानि तथा देवीं क्षुरिकां लोचनत्रयम्
शक्तित्रयं परं देवम् अङ्गषट्कसमन्वितम् ॥
मुद्रामन्त्रांश्च द्रव्याणि यथास्थानं प्रकल्पयेत्
संकल्प्य च यथान्यायं यथायोगं प्रकल्पयेत् ॥
सद्योजातं च वामं च अघोरं च यदुक्तवान्
पुरुषेशौ च देवस्य दलस्थांश्चोपकल्पयेत् ॥
हृदयादींस्ततः पञ्च दिशासु विदिशासु च
पूर्वतो यावदीशान्तं भैरवावरणं बहिः ॥
लोकपालांस्तदस्त्राणि पूर्वादीशान्तकावधि
अस्त्राणि लोकपालांश्च भैरवाष्टकमेव च ॥
पञ्चब्रह्माण्यथाङ्गानि एतान्यावरणानि हि
क्रमेणोच्चारयेत् सर्वान् यावत्तद्गर्भमैश्वरम् ॥
मन्त्रसन्धानमेतद्धि परमीकरणं शृणु
उच्चारयेत्ततो देवं ह्रस्वदीर्घप्लुतान्वितम् ॥
तावदुच्चारयेन्मन्त्रं यावन्निर्वाणगोचरम्
अधःशक्तेर्यावदूर्ध्वं सोमसूर्यपथान्तरा ॥
पिङ्गलामध्यमार्गेण वर्णोच्चारक्रमेण तु
देवतापञ्चकं शक्तिं व्यापिनीं समनोन्मने ॥
भेदयित्वा क्रमात् सर्वं यावद्वै निधनान्तिकम्
निस्तरङ्गं निरध्वाख्यं सकलव्यापि चोन्मनम् ॥
तदध्यास्यानुलोम्येन हृत्पद्मे विनिवेशयेत्
सर्वेष्वावरणेष्वेवं देवि तद्व्यापकं न्यसेत् ॥
तेन चाधिष्ठिताः सर्वे सर्वकामफलप्रदाः
यथा स्वरूपसंस्थान वर्णा ये कथिता मया ॥
तथा ते विनियोक्तव्या मानसे मानसेन तु
कर्णिकायां तु संस्थाप्य द्विधावस्थं च भैरवम् ॥
शुद्धस्फटिकसंकाशं सर्वमन्त्रैरलंकृतम्
तत्रापि परितो ज्ञेयम् अनिर्देश्यमनामयम् ॥
यत्र नास्ति द्विधाभावो न मन्त्रादिप्रकल्पना
ओंकारबिन्दुनादानां विलयं तं विनिर्दिशेत् ॥
तत्स्थानं दुर्लभं मत्वा सम्भवेन्न कदाचन
यस्य नाग्रं च मूलं च दिशो विदिशस्तथा ॥
न शब्दो नापि चाकाशं ध्यात्वा तत्तु विमुच्यते
प्रथमं मानसं यागं पश्चाद्द्रव्यसमन्वितम् ॥
य एवं सततं कुर्याद् दैशिको यागतत्परः
स्वहस्ते स्थण्डिले लिङ्गे मण्डले चरुके तथा ॥
जले चाग्नौ च सम्पूज्य सम्यग् दीक्षाफलं लभेत्
अकृत्वा मानसं यागं यो ऽन्यं यागं समारभेत् ॥
अशिवः स तु विज्ञेयो न मोक्षाय विधीयते
आत्मयागे कृते चैव देहशुद्धिः प्रजायते ॥
अधिष्ठितं शिवेनैव तमाचार्यं विनिर्दिशेत्
आत्मनिर्दहनं चैव मानसं च यदुक्तवान् ॥
विदित्वा सम्यगाचार्यः पाशहा स शिवः स्मृतः
यत्र यत्र स्थितो देशे यश्चैवं तु विधिं यजेत् ॥
ब्रह्महापि स मुच्येत किं पुनः शिवतत्परः
सर्वावस्थागतश्चैव विषयैरनुरञ्जितः ॥
सकृत् सम्पूज्य मुच्येत किं पुनर्यो दिने दिने
एतत्तन्त्रोक्तविधिना यदुक्तं विधिपूर्वकम् ॥
इज्यादि चान्यतन्त्रे ऽपि तद्वैतत् कामिकं भवेत्
नानासिद्धिगुणैर्युक्तं नानाकामफलप्रदम् ॥
योगसिद्धिश्च जायेत मुक्तिं च लभते ध्रुवम्
सदाशिवो ऽपि जानाति देवाश्चैवासुरादयः ॥
एवं तु मानसं यागं कृत्वा बाह्यं समाचरेत्
परां वृत्तिमनुध्यायन् द्रव्याण्यादौ विलोकयेत् ॥
सितचन्दनकर्पूरं सुधूपं सितवाससी
पुष्पाणि दिव्यगन्धीनि तिलव्रीहिघृतादिकम् ॥
चूतपल्लवदर्भांस्तु सिद्धार्थान् खटिकां तथा
करणीं कर्तरीं चैव पाशबन्धनसूत्रकम् ॥
वार्धानीं शिवकुम्भं च तथेध्मान् परिधीनपि
समिधो दन्तकाष्ठं च चरुस्थालीं स्रुचं स्रुवम् ॥
तण्डुलांश्च तथा क्षीरम् एवमादीन्यनेकशः
ततो ऽर्घपात्रमादाय क्षालयेदस्त्रवारिणा ॥
कवचेनावगुण्ठ्यैव प्रणवेन तु पूजयेत्
उदकादिभिरष्टाङ्गः पूरयेत्तु वरानने ॥
उदकं क्षीरकुसुमं कुशसर्षपतण्डुलाः
प्रणवेनासनं सर्वं ततो मूर्तिं न्यसेत् प्रिये ॥
भैरवावरणैर्युक्तां पूजयेत्तां यथाक्रमम्
गन्धैः पुष्पैस्तथा धूपैर् मन्त्रसन्धानपूर्वकम् ॥
मन्तव्यं परमं तत्त्वं ततश्चैवामृतीभवेत्
पात्राणां त्रितयं कल्प्यं निरोधार्थे विधौ तथा ॥
पश्वर्घे च प्रकल्प्यैवं शिवहस्तं प्रकल्पयेत्
मन्त्रसन्धानकं प्राग्वन् नाडीसन्धानमेव च ॥
मूलमन्त्रमनुस्मृत्य हृत्कण्ठतालुमध्यगम्
भ्रूमध्यं शब्दकूटं तत् तुर्यस्थानं विभेदयेत् ॥
वामदक्षिणमध्ये तु विषुवत्स्थेन भेदयेत्
द्वादशान्तं परं नीत्वा करस्थो मन्त्रविग्रहः ॥
तस्याप्यनेन न्यायेन विलोमेन विशेद्धृदि
आत्मनो रेचकेनैव पूरकेण विशेद्धृदि ॥
नाडीसन्धानमेतद्धि शिवेन परिकीर्तितम्
व्यापकं तु शिवं ध्यायेन् मन्त्रमूर्तिमधिष्ठितम् ॥
दर्भं संगृह्य चास्त्रेण सप्तवाराभिमन्त्रितम्
पञ्चगव्याय पात्रं तु शोधयेत्तु शिवाम्भसा ॥
अस्त्रेण क्षालयेत्तच्च कवचेनावगुण्ठयेत्
दर्भासनं ध्रुवेणैव मण्डलं तु प्रकल्पयेत् ॥
तस्योपरि न्यसेत् पात्रं गोमयादीनि चाहरेत्
पृथक्पात्रस्थितान्येव प्रोक्ष्यास्त्रेण शिवाम्भसा ॥
गोमयं तु हृदामन्त्र्य गोमूत्रं शिरसा दधि
शिखया वर्मणा क्षीरम् अस्त्रेणाज्यं कुशोदकम् ॥
धाम्ना च मन्त्रयेत् पश्चाद् गोमयादीनि योजयेत्
पूर्वसंस्कृतपात्रे तु स्वमन्त्रैर्गोमयादिकम् ॥
संयोज्य मन्त्रयेत्पश्चात् तैरेव हृदयादिभिः
प्रणवेन तु संकल्प्य अनन्तं मूर्तिविग्रहम् ॥
धामाङ्गानि च बाह्ये तु सम्पूज्यावरणस्थितिम्
मन्त्रसन्धानकं कृत्वा अमृतीकरणं तथा ॥
शिवामृतं तत्संचिन्त्य सम्पूज्य स्थापयेत्ततः
अस्त्राभिमन्त्रितं दर्भं गृहीत्वोल्लेखनं कुरु ॥
यावद्भूमौ समन्तात्तु सौम्यास्यो दक्षिणे स्थितः
ततश्चैवोद्धरेच्छल्यम् आजलान्तं व्यवस्थितम् ॥
रेचितं भावयेच्छुद्धं मौक्तिकाद्यैः प्रपूरयेत्
समीकरणमस्त्रेण कवचेन तु सेचनम् ॥
आकोटनमथास्त्रेण ततो मार्जनलेपने
अस्त्रेण पञ्चगव्येन गन्धतोयेन चोपरि ॥
शिवाम्भसास्त्रयुक्तेन विकिराण्यभिमन्त्रयेत्
सप्तकृत्वो ऽस्त्रमन्त्रेण स्थित्वा मन्त्रे तु प्राग्दिशः ॥
ऊर्ध्वाधो विकिरेद्धान्यान्य् अस्त्रभूतानि चिन्तयेत्
चामरेण सुशुभ्रेण अस्त्रमन्त्रेण संहरेत् ॥
ऐशान्यभिमुखान्येव नैरृत्या यावदैश्वरम्
पञ्चगव्येन सम्प्रोक्ष्य गन्धाम्भोभिः शिवाम्भसा ॥
ध्रुवेण श्रियमावाह्य पद्महस्तां सुलोचनाम्
शुक्लपुष्पाणि मुञ्चन्तीं सर्वलक्षणसंयुताम् ॥
नीलोत्पलदलश्यामां यागहर्म्यावलोकिनीम्
ब्रह्मस्थानोपविष्टां तु द्वाराभिमुखभद्रदाम् ॥
गन्धपुष्पादिभिः पूज्य शिवकुम्भं प्रकल्पयेत्
ऐशानीं दिशमाश्रित्य पञ्चगव्येन मण्डलम् ॥
गन्धोदकेन संलिप्य शिवाम्भो ऽस्त्रेण प्रोक्षयेत्
अनन्ताद्यासनं दत्त्वा ध्रुवेणामण्डलावधि ॥
सर्वदोषविनिर्मुक्तं कुम्भं चन्दनलेपितम्
स्वस्तिकाद्यैश्चार्चयित्वा यवसिद्धार्थदूर्वभिः ॥
सितसूत्रेण संवेष्ट्य वस्त्रपूतेन चाम्भसा
सम्पूर्य सर्वतश्छन्नं चूताश्वत्थादिपल्लवैः ॥
रत्नगर्भौषधीयुक्तं सहदेवादिभिर्गणैः
प्रोक्ष्य चास्त्रेण संगृह्य कवचेनावगुण्ठितम् ॥
आसनस्योपरि न्यस्येन् मूलमन्त्रमनुस्मरन्
कलाध्वभैरवादीनि न्यस्यार्घादीन् प्रकल्पयेत् ॥
मुद्रां बद्ध्वा हृदादीनि पूज्यान्यग्निदलादिषु
गन्धपुष्पपवित्राद्यैः सितवस्त्रेण भूषयेत् ॥
वामभागे तु कुम्भस्य पञ्चगव्येन मण्डलम्
शिवाम्भसा तु सम्प्रोक्ष्य प्रणवेनासनं न्यसेत् ॥
सम्प्रोक्ष्य च शिवाम्भोभिर् वार्धानीं मङ्गलान्विताम्
कुम्भवच्चार्चयित्वा ताम् आसनस्योपरि न्यसेत् ॥
गन्धपुष्पपवित्राद्यैः पूजयित्वा तु वार्धनीम्
उच्चार्यास्त्रं क्रमेणाग्रे द्रव्याणां वार्धनीं नयेत् ॥
अच्छिन्नामनुलोमेन जलधारां तु पातयन्
तत्स्थानात्तु समुद्धृत्य यावत्कोणं तु शाङ्करम् ॥
आचार्यः कलशं पश्चाद् भैरवेण समुद्धरेत्
नयेद्वार्धानिमार्गेण तस्मिन् संस्थापयेत्पुनः ॥
वार्धानीं स्थापयेत्पश्चाद् अस्त्रमन्त्रमनुस्मरन्
विशेषपूजामुभयोर् गन्धपुष्पपवित्रकैः ॥
मन्त्रसन्धानकं कुर्यान् नाडीसन्धिमथोभयोः
विकिरान् संहितान् पूर्वं वार्धान्याः कल्पयेदधः ॥
अक्षतास्त्राण्यनेकानि शरकुन्तासिमुद्गराः
चक्रपट्टिसवज्रादि त्रिशूलान्तान्यनेकशः ॥
योगौको व्याप्य सर्वं तु तिर्यगूर्ध्वमधः स्थिताः
वार्धान्यस्त्रस्य सर्वे ते रश्मिभूता व्यवस्थिताः ॥
शिष्यस्य दक्षिणे हस्ते वार्धान्यस्त्रं तु संहितम्
तेनैतं यज्ञरक्षार्थं यागादौ कलशं न्यसेत् ॥
नैवेद्यं विविधं दत्त्वा नुत्वा विज्ञापयेद्विभुम्
भगवंस्त्वत्प्रसादेन यागं निर्वर्तयाम्यहम् ॥
सन्निधानं सदा तुभ्यम् अविघ्नार्थं सदा भव
अनुज्ञातोत्थितो यायाद् अर्घहस्तो दिगीश्वरान् ॥
स्वनामपदविन्यासान् ओंकारादिनमोन्तगान्
गन्धपुष्पपवित्राद्यैः पूजयेत्तान् प्रयत्नतः ॥
इन्द्राद्यनन्तपर्यन्तांल् लोकपालान् प्रपूजयेत्
ततो मण्डलकं मध्ये यागभूमौ प्रकल्पयेत् ॥
पञ्चगव्येन लिप्त्वादौ गन्धतोयेन चोपरि
शिवाम्भसास्त्रमन्त्रेण सम्प्रोक्ष्य त्ववगुण्ठयेत् ॥
ब्रह्मस्थानस्य पूर्वेण गुरून् पूज्य विनायकम्
वायव्ये पूजयेद्देवि गन्धपुष्पैरनुक्रमात् ॥
अथैतांस्तु नमस्कृत्य आज्ञां दत्तां विभावयेत्
ततस्तु मध्यदेशस्थं योगपीठं प्रकल्पयेत् ॥
पूर्वोक्तेन विधानेन भैरवेशं वरानने
पूजयित्वा पवित्राद्यैस् त्रिरावरणसंयुतम् ॥
स्वध्यानगुणसंयुक्तं मुद्रालङ्कारभूषितम्
मन्त्रसन्धानकं पूर्वं नाडीसन्धानमेव च ॥
परमीकरणं कुर्याद् व्यापकेन परेण तु
नैवेद्यान् विविधाकारान् दत्त्वा मुद्रां प्रदर्शयेत् ॥
प्रणिपातं जपं कृत्वा निवेद्य विधिपूर्वकम्
पश्चाद्बलिः प्रदातव्यो मातृणां भूतसंहते ॥
भूतेश्वराणां देवेशि क्षेत्रपालस्य सर्वतः
ततः स्नायादथोद्धूल्य अथवाचम्य सुव्रते ॥
ततो ऽग्निकुण्डं गत्वा तु पूर्ववच्छोधनं तथा
भैरवं पूजयेत्तत्र विधिदृष्टेन कर्मणा ॥
अग्नेः सन्तर्पणं कुर्यात् सहस्रेण शतेन वा
ततश्चरुं च श्रपयेत् स्थालीं संगृह्य निर्व्रणाम् ॥
शिवाम्भसा तु प्रक्षाल्य कवचेनावगुण्ठयेत्
चन्दनाद्यैर्विलिम्पेत्तां मृष्टधूपेन धूपयेत् ॥
सूत्रेण वेष्टयेत् कण्ठे वर्मभूतेन सुव्रते
दर्भेणास्त्रस्वरूपेण कल्पयेन्मण्डलं प्रिये ॥
प्रोक्ष्य चैव शिवाम्भोभिः कवचेनावगुण्ठयेत्
आसनं तत्र विन्यस्येद् अनन्तादिशिवान्तकम् ॥
मूर्तिभूतां न्यसेत्स्थालीं तत्रस्थं भैरवं यजेत्
त्रिरावरणसंयुक्तं गन्धपुष्पैरनुक्रमात् ॥
मानसेन प्रयोगेण भावपुष्पैर्वरानने
चुल्लीं सम्प्रोक्ष्य चास्त्रेण कुण्डवच्चार्चयेत्ततः ॥
तत्र स्थालीं समारोप्य पश्चादग्निं न्यसेदधः
क्षीरं प्रोक्ष्य शिवाम्भोभिस् तण्डुलांश्च समासतः ॥
मन्त्रेणाष्टशतेनैव प्रक्षिप्य पाचयेच्छनैः
मूलमन्त्रेण देवेशि एकचित्तः समाहितः ॥
चालनोद्घाटनादीनि अस्त्रमन्त्रेण कारयेत्
तप्ताभिधारं सुस्विन्ने अङ्गैश्चैव प्रकल्पयेत् ॥
त्रिभिस्त्रिभिर्घृतेनैव स्रुवेण जुहुयात् प्रिये
भूमौ मण्डलकं कृत्वा प्रणवेनावतारयेत् ॥
स्थालीमाज्योपलिप्तां तु शीताघारं च होमयेत्
भैरवेण षडङ्गेन वषड्जातियुतेन च ॥
मण्डलं कुण्डसामीप्ये कृत्वा दर्भासनं न्यसेत्
स्थाल्यां तस्योपरि न्यस्य सम्पातं मन्त्रसंहिताम् ॥
जपन्नेकैकयाहुत्या पातयेद् भैरवेण तु
अष्टोत्कृष्टशतेनैव परामृतमनुस्मरन् ॥
रजस्यादौ ततो देवि कर्तर्यां करणौ तथा
खटिकातिलाज्यसम्पातं मूलमन्त्रेण कारयेत् ॥
त्रिभागं कल्पयित्वा तं चरुं स्थाल्यां तु संस्थितम्
शिवाग्निसाधकेभ्यश्च शिवायाग्रं निवेदयेत् ॥
द्वितीयं होमयेदग्नौ साधकेभ्यस्तृतीयकम्
चरुं पात्रे तु संगृह्य पूजयेद्भैरवेण तु ॥
पुष्पधूपादिभिर्नीत्वा धाम्नैतं विनिवेदयेत्
हृदाद्यावरणस्थानां दशमांशं निवेदयेत् ॥
कलशे ऽप्येवमेवं तु अग्नौ होम्यश्चरुः स्रुचा
भैरवस्य शतं होम्यम् अङ्गानां तु दशांशकम् ॥
साधकेभ्यस्तु यच्छेषं पिधाय स्थापयेत् प्रिये
विनायके शतं होम्यं भूपरिग्रहणे तथा ॥
अधिवासे तथैवेह अष्टोत्तरशतं हुतिः
प्रायश्चित्तनिमित्तं तु अनुलोमविलोमके ॥
न्यूनातिरिक्ते देवेशि अष्टोत्तरशतं हुतिः
भैरवं पूजयित्वाथ प्रार्थ्यानुज्ञां वरानने ॥
शिशोः कर्म प्रकर्तव्यं यथा भवति तच्छृणु
द्वारे मण्डलकं कृत्वा दर्भं तस्योपरि न्यसेत् ॥
प्रणवेनासनं कल्प्यं शिष्यं तस्मिन्निवेशयेत्
समपादं स्तब्धकायं सौम्याननकृताञ्जलिम् ॥
गुरुः पूर्वमुखो ऽस्त्रेण प्रोक्षयेत्तं शिवाम्भसा
भस्मना ताडयेन्मूर्ध्नि अस्त्रमन्त्रेण चालभेत् ॥
नाभ्यूर्ध्वं त्रींस्तथा वारान् नभ्यधस्त्रीन् प्रकल्पयेत्
शिवं न्यासाङ्गसहितं पूजयेद्भैरवेण तु ॥
वस्त्रं सम्प्रोक्ष्य चास्त्रेण कवचेनावगुण्ठयेत्
पूजयेद्भैरवेणैव मुखं प्रच्छादयेत्तथा ॥
हस्ताभ्यां तं गृहीत्वाथ विशेज्जवनिकान्तरम्
देवस्याभिमुखं कृत्वा पुष्पं प्राणौ प्रदापयेत् ॥
प्रक्षेपयेत्ततो धाम्ना मुखमुद्घाट्य दर्शयेत्
विद्यामन्त्रगणैः सार्धं कारणं ससदाशिवम् ॥
अज्ञानपटनिर्मुक्तः प्रबुद्धः पशुरीक्षते
दण्डवद्धरणीं गत्वा प्रणिपत्य पुनः पुनः ॥
कृतकृत्यः प्रहृष्टात्मा प्रहृष्टनयनं शिशुम्
उत्थाप्य हस्तान् संगृह्य दक्षिणां मूर्तिमानयेत् ॥
तत्र मण्डलकं कृत्वा पुष्पेण प्रणवासनम्
तस्योपरि शिशुं न्यस्य ऊर्ध्वकायमुदङ्मुखम् ॥
गुरुः पूर्वाननः स्थित्वा प्रोक्षणादीनि कारयेत्
उपवेश्य ततः कृत्वा सकलीकरणे विधिम् ॥
विशेषफलसिद्ध्यर्थं मुमुक्षोः साधकस्य वा
गन्धदिग्धौ करौ कृत्वा अस्त्रेण परिशोधयेत् ॥
कवचेनावगुण्ठ्यैतौ प्लावयेदमृतेन तु
अनन्तमासनं कल्प्यं भैरवाङ्गानि विन्यसेत् ॥
व्योम्न्यात्मानं योजयित्वा शिशोः शोष्या तनुः प्रिये
आग्नेयीं धारणां ध्यात्वा निर्दह्यास्त्रेण तं शिशुम् ॥
धूमज्वालाविनिर्मुक्तं दग्धकायं विभावयेत्
भस्मीभूतं ततः शान्तं प्लावयेदमृतेन तु ॥
व्योमवच्चिन्तयेद्देहं चैतन्यं कनकाग्निवत्
शक्तिन्यासं न्यसेत्पूर्वं कमलं प्रणवेन तु ॥
तस्योपरि तदात्मानं ध्यायेज्ज्योतिर्मयं शुभम्
मूर्तिमन्त्रं समुच्चार्य मूर्तिभूतं प्रकल्पयेत् ॥
पूर्वोद्धृतेन मन्त्रेण प्लावयेदमृतेन तु
मन्त्रन्यासो यथापूर्वम् अष्टात्रिंशत्कलावधि ॥
कलाध्वानं न्यसेत् पश्चाच् छान्त्यतीताद्यनुक्रमात्
स्फटिकाभा तथा कृष्णा रक्ता शुक्ला च पीतका ॥
शान्त्यतीतादिका ज्ञेयास् तत्त्वभूतास्तु ताः कलाः
धाम्नावाह्य तथाङ्गानि न्यस्यान्तःकरणं भवेत् ॥
आत्मान्तःकरणे यद्वत् तद्वत्पूजां समारभेत्
धाम प्रोच्चार्य सन्दध्यात् सबाह्याभ्यन्तरं पुनः ॥
शिवहस्ते विभुं ध्यात्वा मन्त्रग्रामं सुजाज्वलम्
धामोच्चार्य च सन्धाय शिष्यमूर्ध्नि करं न्यसेत् ॥
अधोमुखेन हृत्पृष्ठे शिवहस्तेन चालभेत्
उत्थाप्य दत्त्वा पुष्पं तु अञ्जलौ भैरवेण तु ॥
प्रवेश्याभ्यर्चयेच्छम्भुं शिवमुच्चार्य निक्षिपेत्
निर्गत्य वन्दयेद्देवं दण्डवत् त्रिः प्रदक्षिणम् ॥
शिवकुम्भाग्निमध्यस्थं स्थण्डिलस्थं च वन्दयन्
शिवपूजाग्निकार्यादौ सकलीकृतविग्रहः ॥
नान्यथा प्राक्स्वरूपेण पूजनार्हो भवेत्तु सः
नीत्वा कुण्डसमीपं तं शिष्यहस्तावियोगतः ॥
आत्मसव्ये ऽथ दिग्भागे मण्डलं प्रणवेन तु
प्रणवेनासनं दत्त्वा तस्योपरि शिशुं न्यसेत् ॥
उपवेश्य करे दर्भं भैरवेण समर्पयेत्
मूलं शिष्यस्य हस्तस्थं साग्रमाचार्यजङ्घयोः ॥
पिङ्गला मध्यमा नाडी शिष्यदेहाद्विनिर्गता
सैवात्र दर्भभूता तु गुरुनाड्यां लयं गता ॥
नाडीसन्धानहेत्वर्थं भैरवेणाहुतित्रयम्
तया नाड्या प्रवेष्टव्यं शिष्यस्य हृदये सकृत् ॥
ग्रहणाकर्षणार्थं तु गृह्णन् मुञ्चन् पुनः पुनः
दीक्षाकाले यतश्चैवं तदर्थं नाडिसंहतिः ॥
शिष्यस्याथ शिरोभूमौ भैरवेण विधाय तु
सम्पातं सर्वमन्त्रैस्तु ध्रुवेणाज्याहुतिं क्षिपेत् ॥
मूलमन्त्रं समुच्चार्य स्वा इत्यग्नौ प्रपातयेत्
हेति शिष्यस्य शिरसि सम्पातः शिवचोदितः ॥
शिष्.यदेहे तु ये मन्त्राः सबाह्याभ्यन्तरं स्थिताः
कुण्डस्थाः पूजिता ये तु धामाद्यावरणान्तगाः ॥
युगपत्तर्पणं तेषां सम्पातस्तेन कीर्तितः
एकैकस्यात्र मन्त्रस्य आहुतित्रितयेन तु ॥
उत्थाप्य च ततः शिष्यं तदर्थं मन्त्रतर्पणम्
भैरवाय शतं हुत्वा हृदादौ दशकं हुतिः ॥
धाम्ना चोत्थाय होतव्यं पूर्णाहुत्यानुतर्पयेत्
मन्त्राणां दीपनं कुर्याद् धामाद्यस्त्रावधि क्रमात् ॥
हुंकारद्वयमध्ये तु मूलमन्त्रं समुच्चरन्
प्रणवादिफडन्तेन आहुतीः प्रतिपादयेत् ॥
हृदादीनां च सर्वेषां जातिरुक्तात्र दीपने
पाशानां बन्धनार्थाय मन्त्राणां दीपनं स्मृतम् ॥
मन्त्राः करणभूतास्तु पशुकार्यस्य साधने
आचार्यः करणं प्रोक्तः शिवरूपो यतः स्मृतः ॥
क्रूरकार्ये तु कर्तव्ये मन्त्रान् सन्दीप्य योजयेत्
क्रूरजात्यनुरूपेण वाचकान् योजयेत् सदा ॥
भ्रुकुटीकरालवदनान् वाच्यरूपान् विचिन्तयेत्
सौम्यजातियुतान् सौम्ये सौम्यरूपान् विचिन्तयेत् ॥
पाशकर्म ततो वक्ष्ये कन्याकर्तितसूत्रकम्
त्रिगुणं त्रिगुणीकृत्य पाशबन्धनसूत्रकम् ॥
शिवाम्भो ऽस्त्रेण सम्प्रोक्ष्य कवचेनावगुण्ठयेत्
पूजयित्वा विधानेन गन्धपुष्पादिधूपकैः ॥
प्रसारयेद्गृहीत्वा तन् मूर्धाद्यङ्गुष्ठकावधि
शिष्यस्य स्तब्धदेहस्य नाडीभूतं विचिन्तयेत् ॥
सुषुम्ना मध्यमा नाडी सर्वनाडीसमन्विता
ओंकारादि स्वनाम्ना तु नमस्कारावसानकम् ॥
शिष्यदेहस्थितां नाडीं सूत्रे संगृह्य योजयेत्
गन्धपुष्पादिभिः पूज्य कवचेनावगुण्ठयेत् ॥
सन्निधानाहुतीस्तिस्रः स्वनामपदजातिकाः
शिवाम्भो ऽस्त्रेण सम्प्रोक्ष्य शिष्यस्य हृदयं पुनः ॥
ताडयेदस्त्रपुष्पेण हृदि चित्संहृता भवेत्
हुंकारोच्चारयोगेन रेचकेन विशेद्धृदि ॥
नाडीरन्ध्रेण गत्वा तु चैतन्यं भावयेच्छिषोः
कदम्बगोलकाकारं स्फुरत्तारकसन्निभम् ॥
हृत्स्थं छित्त्वास्त्रखड्गेन हुम्फट्कारान्तजातिना
धाम्ना चाङ्कुशरूपेण कर्षेच्छक्त्यवधि क्रमात् ॥
द्वादशान्तं तु संगृह्य सम्पुट्य हृदयेन तु
संहारमुद्रया योज्यं सूत्रे नाडीप्रकल्पिते ॥
व्यापकं भावयित्वा तु कवचेनावगुण्ठयेत्
भैरवेणाहुतीस्तिस्रः सन्निधानस्य हेतवे ॥
द्वितीयः सूत्रदेहस्तु पाशा यत्र स्थितास्त्विमे
बन्द्याश्चेद्यास्तथा दाह्याः सूत्रस्थाने न विग्रहे ॥
पाशास्तु त्रिविधा भाव्या मायीयाणवकर्मजाः
चैतन्यरोधकास्त्वेते कार्यकारणरूपिणः ॥
मलः कर्म निमित्तं तु नैमित्तिकमतः परम्
आधाररूपं नैमित्तं शरीरभुवनादिकम् ॥
निमित्तमभिलाषाख्यं विचित्रैर्हेतुरूपकैः
तांश्चावलोकयेत् सूत्रे बन्ध्यबन्धनहेतुतः ॥
पाशानां ताडनं कार्यं हुम्फट्कारान्तजातिना
स्वनामप्रणवाद्येन शान्त्यतीताद्यनुक्रमात् ॥
पुष्पेण ताडयेन्मूर्ध्नि ग्राह्यं हूमादि योजयेत्
हुंफ.कारान्तयोगेना गृह्य संहारमुद्रया ॥
धाम्ना तु योजयेत् सूत्रे नमस्कारान्तयोगिना
एवं शान्त्यादिकान् पाशान् स्थानात् संगृह्य योजयेत् ॥
भावयेत्त्रिविधान् पाशान् पञ्चतत्त्वाध्वव्यापकान्
त्रयाणां व्यापिका शक्तिः क्रियाख्या पारमेश्वरी ॥
शान्त्यतीतादिभेदेन पञ्चसंज्ञाप्रतिष्ठिता
आधेयग्रह आधारं गृहीतं भावयेत् पशोः ॥
गन्धपुष्पादिभिः पूज्य सूत्रे पाशांश्तु तर्पयेत्
शान्त्यतीताक्रमेणैव आहुतीनां त्रयं त्रयम् ॥
सन्निधानाय पाशानाम् अतः पाशांस्तु दीपयेत्
स्वनामजातिफट्कार धामभिश्च त्रयं त्रयम् ॥
विश्लेषकरणार्थं तु पाशानां दीपनं भवेत्
दीप्ताः पाशास्ततो बन्ध्यास् ताडनग्रहणादिना ॥
सूत्रस्थांस्ताडयेत्पुष्पैः स्वदेहस्थानिव क्रमात्
धाम्ना च सम्पुटीकृत्य स्वनाम्ना च सकृत्सकृत् ॥
बन्धने तु प्रयोगो ऽयं सूत्रे ग्रन्थीन् प्रदापयेत्
बन्धने परिमाणं च कर्मणो विषयस्य च ॥
षट्त्रिंशत्तत्त्वमध्यस्थो भुङ्क्ते भोगं न चान्यथा
पाशान् संस्थाप्य पात्रे तु संपातं जुहुयात् सकृत् ॥
पात्रसम्पुटमध्यस्थान् स्थण्डिले विनिवेदयेत्
नीत्वा समर्पयेत् कुम्भे पाशान् संरक्ष हे विभो ॥
दर्भं विमोचयेच्छिष्यं पुष्पं पाणौ प्रदापयेत्
स्ह्तण्डिले शिवकुम्भे च शिवाग्नौ च प्रपूजयेत् ॥
ततः प्रदक्षिणं कृत्वा दण्डवन्निपतेद्भुवि
उत्थाप्य पञ्चगव्यादीन् दद्याद्वै भैरवेण तु ॥
गोमयेन शुचौ देशे कार्यं मण्डलकत्रयम्
एकस्मिन् मण्डले विष्टः पञ्चगव्यं शिशुः पिबेत् ॥
उपविश्य द्वितीये तु चरुकं प्राशयेद्बुधः
आचम्य दन्तकाष्ठं तु तृतीये मण्डले स्थितः ॥
भक्षयित्वा च देवेशि ततश्चैव विनिक्षिपेत्
पूर्वं पश्चात्तथैशोर्ध्वं चोत्तरस्यां च शोभनम् ॥
अन्यस्यामशुभं विद्धि तस्य होमः शतं भवेत्
आचार्यो जुहुयात् पश्चात् प्रायश्चित्तं शिवेन तु ॥
विधेर्न्यूनातिरिक्तस्य चित्तविक्षेपकर्मणि
अष्टोत्तरशतं हुत्वा प्रायश्चित्ताद् विशुद्ध्यति ॥
पश्चात्सन्तर्पयेद्धोम सहस्रेण शतेन वा
मन्त्रांश्च दशभागेन वह्नौ नैवेद्यदापनम् ॥
विशेषपूजनं चार्घं मुद्राबन्धं वरानने
स्तोत्रं वाद्यं ततः कृत्वा चरुं प्राश्य विसर्जयेत् ॥
निरोधार्घेण चार्घं तु दत्त्वा चैव वरानने
रेचकेन तु संगृह्य भैरवं तमनुस्मरन् ॥
मुष्टिना पूरितं नीत्वा पूजयित्वा वरानने
अग्निष्ठं वै पूरकेण गृहीत्वा स्थापयेत् पुनः ॥
तत्रस्थं पूजयित्वा च कलशे तु विनिक्षिपेत्
कुसुमादिभिरभ्यर्च्य कुम्भ एव तु भैरवम् ॥
प्रक्षिप्य चैव निर्माल्यं गोमयेन स्पृशेत् प्रिये
शिवाम्भसा तु सम्प्रोक्ष्य शिष्ये शय्यां प्रकल्पयेत् ॥
गृहिणो दर्भशय्यां तु यतेर्वै भस्मना प्रिये
पूर्वाशिरा गृही कार्यो यतिर्वै दक्षिणाशिराः ॥
तत्र स्थितस्य शिष्यस्य शिखाबन्धं वरानने
सिद्धार्थरोचनाद्यैश्च रक्षां कुर्यादसिं स्मरन् ॥
भस्मना रोचनाद्यैश्च अस्त्रप्राकारचिन्तनम्
कवचेनावगुण्ठ्यैव शिष्यं तु स्वापयेत्ततः ॥
ततश्चैव तु निर्गत्य बलिकर्म समारभेत्
बलिस्तु कल्पितः पूर्वं सर्वभूतेष्वथादरात् ॥
तं तु संगृह्य देवेशि पूर्वादीशान्तकं क्षिपेत्
भूता ये विविधाकारा दिव्यभौमान्तरिक्षगाः ॥
पातालतलसंस्थाश्च शिवयागे सुभाविताः
ध्रुवादिसर्वभूताश्च ऐन्द्राद्याशास्थिताश्च ये ॥
स्वाहाकारसमायोगात् तृप्यन्तूच्चारयन् क्षिपेत्
नमस्कारेण सम्पूज्य गन्धैर्धूपैरनुक्रमात् ॥
पूर्वादीशानपर्यन्तम् अधश्चोर्ध्वं समन्ततः
कोणस्थान् क्षेत्रपालांश्च पतिताञ्छ्वपचानपि ॥
बलिं दत्त्वा तु सर्वेभ्य आचम्य च वरानने
सकलीकरणं कृत्वा क्रमेण प्राशयेच्चरुम् ॥
सहायैः सहितो वीर एकचित्तः समाहितः
प्राङ्मुख उदङ्मुखो वा मण्डलस्थः पृथक्पृथक् ॥
पञ्चगव्यं पिबेत् पूर्वं चरुकं दन्तधावनम्
प्राश्यैवं सकलीकृत्य रक्षां पूर्ववदेव च ॥
यागबूमौ स्वपेत् पाश्चाच् छिष्यैः सह वरानने
भैरवध्यानयोगेन समाधौ जाग्रदेव वा ॥
मूल पाठ: Svacchandatantra [or Svacchandabhairavatantra] · Edition: Chapter 1 typed in from Dwivedi's edition by Dominic Goodall; Chapter 2 typed in from KSTS edition by Mei Yang; Chapter 3 typed in from Dwivedi's edition by Dominic Goodall; Chapter 4 typed in from the KSTS edition by S.A.S. Sarma Chapters 5-6 typed in from Dwivedi's edition by Dominic Goodall; Chapter 7 typed in from KSTS edition by Mei Yang; Chapters 8-9 typed in from KSTS edition by Nibedita Ro · Data entry members of the Saiva reading group at the EFEO in Pondicherry · GRETIL (Göttingen) · CC BY-NC-SA 4.0